ॐ सर्वधर्मोपपत्तेश्च ॐ
११. अथ सर्वधर्मोपपत्त्यधिकरणम्
सूत्रभाष्यम्
अवशिष्टैरुपसंहरति ।
॥ ॐ सर्वधर्मोपपत्तेश्च ॐ ॥ ३८ ॥
‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीता’ इति सर्वगुणोपपत्तिश्रुतेश्च ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये
द्वितीयाध्यायस्य प्रथमः पादः ॥
सत्तर्कदीपावली
अवशिष्टशङ्कोद्धारेण पादार्थमुपसंहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ सर्वधर्मोपपत्तेरित्यादिना ॥ चिन्त्या अचिन्त्याश्च गुणा विष्णौ वेदे सन्तीत्यर्थः । तदुक्तम् । ‘यदधीना गुणाश्चैव दोषा अपि च सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः’ इति ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यकृतब्रह्मसूत्रभाष्यटीकायां
सत्तर्कदीपावल्यां श्रीपद्मनाभतीर्थभट्टारकविरचितायां द्वितीयाध्यायस्य प्रथमः पादः ।
तत्त्वप्रदीपिका
वेदे श्रुता गुणा लोके विरुद्धा अपि देवे सन्ति । न च तेषां विरुद्धतया मिथ्यात्वमाशङ्कनीयम् । अश्रुता अपि ततश्चिन्त्याः सन्ति । न च यावन्तश्चिन्तयितुं शक्यन्ते रमादीनां तावन्त एव । किन्तु अचिन्त्याश्च तथैव सन्ति, यथा श्रुताश्चिन्त्याश्च । न च देवे दोषाः श्रुता नापि चिन्त्याः सन्ति । किं पुनरचिन्त्याः । अज्ञैर्हि श्रुता इति प्रतीताः, न तु ज्ञानिनामिति सर्वगुणोपपत्तिश्रुतेः कयाऽपि विधया दोषलेशस्पर्शानुपपत्तिश्रुतेश्च निखिलगुणगणपरिपूर्णो निर्दोषो नारायणः सर्वकारणमिति सिद्धम् ।
यत्तु मन्यन्ते, यद्यपि स्रष्टृत्वादयो धर्मा ब्रह्मणः सन्ति, तथाऽप्यनुपपद्यमानत्वेन मायामया न सत्या इति तदप्येतेन परिहृतम् । प्रमाणदृष्टत्वमेव ह्युपपत्तिः । न ततोऽन्योपपत्तिरन्वेषणीया । उक्ता चोपपत्तिरतः सत्या इत्यभिप्रायः ।
॥ इति तत्त्वप्रदीपिकायां द्वितीयाध्यायस्य प्रथमः पादः ॥
तत्त्वप्रकाशिका
सर्वेषां युक्तिविरोधानां परिहृतत्वात्किमुत्तरसूत्रेणेत्यतस्तात्पर्यमाह ॥ अवशिष्टैरिति ॥ विशिष्य प्रतिपादितेभ्यः स्रष्टृत्वादिगुणेभ्योऽवशिष्टैः सर्वगुणैः प्रतिपादितैरुपसंहरति । किमुक्तं भवति । उक्तावशिष्टान् सर्वगुणान् युक्तिविरोधपरिहारेण समर्थ्य विष्णोः पूर्णगुणत्वं निगमयत्यत्र सूत्रकर्ते-त्यर्थः । अत एवात्र विष्णोः पूर्णगुणत्वे युक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । समस्तगुण-सम्पूर्णो विष्णुरित्युक्तम् । तस्य च युक्तिविरुद्धत्वे पूर्वाध्यायो बाधितः स्यात् । अतोऽसौ परिहर्तव्यः । विष्णोर्गुणपूर्णत्वं विषयः । युक्तमयुक्तं वेति सन्देहः । पूर्वाध्यायोऽन्यत्रादर्शनं च सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । सर्वचेतनानामपूर्णत्वनियमात् । अस्यापि चेतनत्वेनापूर्णताया अवश्यं भावित्वात् । अन्यथातिप्रसङ्गादिति प्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे ॥ सर्वेति ॥ नायुक्तं विष्णोः पूर्णत्वम् । तस्य चेतनत्वेऽपि स्वातन्त्र्यादिना सर्वगुणोपपत्तेः । स्वातन्त्र्यादिमतः पूर्णगुणत्वनियमात् । न केवलं युक्त्या सर्वधर्मोपपत्तिः किं तर्हि ‘गुणाः श्रुताः’ इति सर्वधर्मो-पपादकश्रुतेश्चेति भावः । सुविरुद्धा लोकदृष्ट्या । अश्रुता अपि रमादिचिन्त्यास्तदचिन्त्याश्चेत्यर्थः । अतो विष्णोः सर्वगुणपूर्णत्वे युक्तिविरोधगन्धाभावादुक्तं सर्वमुपपन्नमिति सिद्धम् ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य
टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां द्वितीयाध्यायस्य प्रथमः पादः ॥
गुर्वर्थदीपिका
अवशिष्टैः सर्वगुणैरित्यत्र आनन्दादिसर्वगुणैरित्यर्थः । अन्यथातिप्रसङ्गादित्यत्र सकल-चेतनेष्वदृष्टं पूर्णत्वमीश्वराख्यचेतनेऽङ्गीक्रियते चेत्तेष्वदृष्टजडत्वानित्यत्वादेरप्यङ्गीकारप्रसङ्ग इत्यर्थः । यद्वा सकलस्वजातीयेभ्य एकस्य वैलक्षण्याङ्गीकारे काचिद्गौः सास्नादिरहिताऽपि स्यादित्यर्थः । स्वातन्त्र्यादिमतः पूर्णगुणत्वनियमादित्यनेन सार्वज्ञादिगुणानां स्वमहिमसम्पादकत्वात्तत्प््रोप्सुस्ताव-द्भगवान्, स्वातन्त्र्यात्तत्र समर्थश्च । अतः सकलगुणप््रोप्सुत्वे सति तत्र समर्थत्वात् सकलशुभगुणवान् हरिरिति युक्तिं सूचयन् उपपत्तेर्भगवान् सर्वधर्मा भवत्येवेति सूत्रयोजनां दर्शयति । उपपद्यत अनेनेत्युपपत्तिरिति व्युत्पत्तिं मनसि निधायार्थान्तरमाह न केवलमिति ॥ अश्रुता अपि इत्यत्र सन्तीति शेषः ।
॥ इति श्रीमत्कविकुलतिलक श्रीमद्वादिराजतीर्थमुनिविरचितायां तत्वप्रकाशिकाव्याख्यायां
गुर्वर्थदीपिकायां द्वितीयाध्यायस्य प्रथमः पादः ॥
भावबोधः
उपसंहरतीत्यधिकरणतात्पर्ये वक्तव्ये सौत्रसर्वपदानुरोधेन भाष्ये अवशिष्टैरित्युक्तम् । प्रकरण-वशाद् विशिष्य प्रतिपादितेभ्य इति लभ्यते ।
ननु प्रतिपादनं विनोपसंहाराभावात् कथमवशिष्टैः सह विशिष्य प्रतिपादितानामुपसंहार इत्यतः प्रतिपादितैरित्युक्तम् । अवशिष्टत्वादेव पूर्वं प्रतिपादनाभावात् कथं प्रतिपादितत्वमित्य-तस्तात्पर्यमाह किमुक्तं भवतीत्यादिना ॥ पूर्वगुणत्वमिति ॥ तथा चावशिष्टगुणानां प्रतिपादन-पूर्वकं तैः सह विशिष्य प्रतिपादितगुणानुपसंहरतीति भाष्याभिप्राय इति भावः । साधके जगज्जन्मादिकर्तृत्वे, एवं युक्तिविरोधं निरस्येदानीं तत्साध्ये ब्रह्मशब्दार्थपूर्णगुणत्वे युक्तिविरोध-परिहारादनन्तरसङ्गतिरिति चोक्तं भवति । चेतनत्वस्य विरोधियुक्त्यन्तरोपलक्षकत्वेनानुव्याख्याने ‘बहुयुक्तयः’ इत्यनेनेदमपि सङ्गृहीतम् ।
नन्वेवमारम्भणाधिकरण एव बहुयुक्तिविरोधपरिहारस्य उपलक्षणत्वेन कृतत्वादेतदधिकरण चतुष्टयस्य तेनैव गतार्थतेति चेत्, न;
‘मानमेयविशेषेण पुनरुक्तिर्न जायते’
इत्युक्तन्यायेन ‘विकरणत्वात्’ इति सूत्रगतार्थत्वस्येवास्यापि समाधेयत्वात् । मानमेय-विशेषश्च भाष्यटीकादावेव तत्र तत्रोक्त इति ॥ युक्तमयुक्तं वेति ॥ अत्र विष्णोर्गुणपूर्णत्वं युक्तिविरुद्धमुत नेति चिन्ता । तदर्थं चेतनत्वयुक्तिः किमनाभासा उत श्रुतियुक्तिबाधितत्वेना-स्वातन्त्र्योपाधिग्रस्तत्वेन चाभासेति । तदर्थमपूर्णत्वस्यास्वातन्त्र्येण व्याप्तिर्नास्त्युतास्तीति । सर्वे चेतना अपूर्णा इति न्यायविवरणं व्याचष्टे– स्वातन्त्र्यादिमत इति ॥ स्वातन्त्र्यपूर्णगुणत्व-योर्व्यतिरेकव्याप्तौ ‘अपूर्णोऽयं जीवसङ्घोऽस्वतन्त्रः’ इति न्यायविवरणोदाहृता श्रुतिर्द्रष्टव्या ॥ श्रुतेश्चेति ॥ अनेन सौत्रः ‘च’ शब्दः श्रुतिसमुच्चायकतया भाष्ये व्याख्यात इत्युक्तं भवति ॥ रमादिचिन्त्या इति ॥ आदिपदेन विरिञ्चग्रहणम् । तस्यापि श्रुत्यनुक्तभारताद्युक्तगुणचिन्तयि-तृत्वादिति भावः । अत्राद्यं स्मृतिविरोधनिरासकमेका पेटिका । तदुत्तरमधिकरणद्वयं वेदप्रामाण्य-युक्तिविरोधनिरासकत्वेनैका पेटिका । तत्राद्ये युक्तिमात्रविरोधनिरासः । द्वितीये– दृढयुक्ति-विरोधनिरास इति । तदुत्तरमधिकरणद्वयं जगत्कर्तृत्वे श्रुत्युपसर्जनयुक्तिविरोधनिरासकतयैका पेटिका । तत्राद्ये– श्रुतिसंवादयुक्तिविरोधपरिहारः । द्वितीये श्रुतिसिद्धयुक्तिविरोधपरिहारः षष्ठं स्वातन्त्र्येण जगत्कर्तृत्वे बहुयुक्तिविरोधनिरासकमेका पेटिका । सप्तमं श्रुतिसंवादि-जीवकर्तृत्व-साधकयुक्तिविरोधस्य विस्तरेण निरासकमेका पेटिका । तत्राप्याद्यत्रिकं जगत्कर्तृत्वे बहुयुक्ति-विरोधनिरासकम् । तत्राद्ये कृत्स्नप्रसक्त्यादि युक्तिविरोधपरिहारः । द्वितीये निष्फलत्वादि-युक्तिविरोधपरिहारः । तृतीये वैषम्यादियुक्तिविरोधपरिहार इति । चतुर्थं ब्रह्मशब्दोक्तपूर्णगुणत्वे युक्तिविरोधनिरासकमिति ।
॥ इति श्रीमद्रघुवर्यतीर्थ पूज्यपादशिष्यरघूत्तमयतिकृते श्रीमज्जयतीर्थपूज्यचरणविरचित
तत्त्वप्रकाशिकाभावबोधे द्वितीयाध्यायस्य प्रथमः पादः ॥
भावदीपः
सर्वेषामिति ॥ ‘स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुध्यन्तेऽन्वयं प्रति’ इति समयपादीयानुभाष्योक्तरीत्या सर्वयुक्तिविरोधानामित्यर्थः । एतद्विवेकश्चैतत्पादान्ते चन्द्रिकायां स्पष्टः । प्रतिपादितस्यैवोपसंहार इत्यतः प्रतिपादितैरिति । आद्याध्यायेऽनन्त-शब्दसमन्वयेनेति भावः । कथं गुणानामुपसंहारे करणत्वं कथं चास्योपसंहाररूपत्वे न्यायशास्त्रे अध्यायपादयोश्चान्तर्भाव इति भावेन पृच्छति ॥ किमुक्तं भवतीति ॥ भावार्थमाह ॥ उक्तेति ॥ विरोधनिरासेन स्थापितेत्यर्थः । समर्थ्य न्यायेनोपपाद्येत्यर्थः ॥ अत एवेति ॥ सर्वगुणानां युक्त्यविरोधेन स्थापनत्वादेवेत्यर्थः । पूर्वसङ्गतिचिन्तासाफल्ये आह ॥ समस्तेति ॥ अन्यत्र चेतनान्तरे सर्वचेतना अपूर्णगुणा इति नियम इति न्यायविवरणोक्तं परम्पराहेतुतया योजयति ॥ सर्वचेतनानामिति ॥ चेतनत्वेनेति ॥ विमतो पूर्णश्चेतनत्वाज्जीवचेतनवदिति भावः । हेतोर-प्रयोजकत्वं निराह ॥ अन्यथेति ॥ एवं नियमे सत्यपि चेतनत्वेनापूर्णत्वानभ्युपगमे सहचार-नियमवता हेतुना क्वाप्यर्थसिद्धिर्न स्यादित्यर्थः । योग्यसाध्यमध्याहृत्य सूत्राक्षरार्थमाह ॥ नायुक्तमिति ॥ न्यायविवरणोक्तं हेतुमाह ॥ स्वातन्त्र्यादिनेति ॥ सर्वकर्तृत्वविचित्रशक्ति-त्वादिरादिपदार्थः । स्वातन्त्र्यादि च तदनन्यत्वादिनयैः समर्थितमिति भावः । कुत इत्यतः स्वतन्त्रस्य पूर्णगुणत्वनियमादिति न्यायविवरणोक्तमाह ॥ स्वातन्त्र्यादिमत इति ॥ स्वतन्त्र-स्येत्युपलक्षणमिति भावः । एतेन विष्णुः पूर्णगुणः स्वतन्त्रत्वात् तत्प््रोप्सुत्वे सति तत्र शक्तत्वा-दित्याद्युपपत्तय उक्ता भवन्ति । न्यायविवरणरीत्या सर्वधर्मोपपत्तेरित्यंशं व्याख्याय सौत्रच-शब्दव्याख्यानपरतया भाष्यं व्याचष्टे ॥ न केवलमिति ॥ युक्त्या स्वातन्त्र्यादिनेत्यर्थः । नन्वश्रुता अपि रमादिचिन्त्यास्तदचिन्त्याश्च सन्तीत्ययुक्तम् । अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ती-त्युक्तिविरोधादिति चेत्सत्यं सामान्यतः श्रुता विशिष्याश्रुता इत्यर्थात् । उक्तं च प्राक्टीकायां गुणा अपि सामान्यतः श्रुता एवेत्यदोष इति ॥ अत इति ॥ पूर्णगुणत्वस्य श्रुतियुक्तिसिद्धत्वेन चेतनत्वयुक्तेस्तद्बाधितत्वादित्यर्थः । सर्वमुपपन्नमिति फलोक्तिः ।
॥ इति श्रीमद्भाष्यटीकाभावदीपे राघवेन्द्रयतिकृते द्वितीयाध्यायस्य प्रथमः पादः ॥
अभिनवचन्द्रिका
अत एवात्र विष्णोरिति ॥ यद्यप्यत्र पूर्णगुणत्वं निगमयति सूत्रकारस् तथापि युक्तिविरोधपरिहारेण तत् सामर्थ्यनिगमादेवेत्यर्थः ।
पूर्वपक्षस्तु– न विष्णुः सर्वगुणपूर्णः । चेतनत्वात् । अन्यथा देवदत्तादीनामपि तथात्वं स्यादिति ।
सिद्धान्तस्तु– युक्तमेव विष्णोः सर्वगुणपूर्णत्वं स्वतन्त्रत्वात् । ‘गुणाः श्रुताः सुविरुद्धाश्च देवे’ इति श्रुतेश्च । तस्माद्विष्णोः सर्वगुणपूर्णत्वे युक्तिविरोधगन्धाभावाद् उक्तं सर्वमुपपन्नमिति सिद्धम् ।
॥ इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां
तत्वप्रकाशिकाऽभिनवचन्द्रिकायां द्वितीयाध्यायस्य प्रथमः पादः ॥
वाक्यार्थमुक्तावली
सर्वेषामिति ॥ ‘स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तय’ इत्यनुव्याख्यानोक्तोपाधिचतुष्टया-वच्छिन्नानामित्यर्थः । अवशिष्टत्वादेव पूर्वं प्रतिपादानाभावात्कथं प्रतिपादितत्वमुक्तमित्याशयेन पृच्छति ॥ किमुक्तं भवतीति ॥ अवशिष्टगुणानां प्रतिपादनपूर्वं तैस्सह विशिष्य प्रतिपादित-गुणानुपसंहरति ॥ उक्तेति ॥ पूर्णगुणत्व इति ॥ पूर्वं जन्मादिसूत्रोक्ते एकैकगुणे एकैकदोषाभावे च विरोधे निरस्ते अत्र ब्रह्मशब्दार्थे सर्वगुणपूर्तौ दोषमात्राभावे च महाप्रमेये तत्तद्वाद्युत्प््रोक्षित-बहुयुक्तिविरोधो निरस्यत इत्यनन्तरसङ्गतिरप्यनेनोक्तेति ज्ञेयम् ॥ युक्तमयुक्तं वेति ॥ अत्र पूर्णत्वं चेतनत्वयुक्तिविरुद्धं न वेति चिन्ता । तदर्थं चेतनत्वयुक्तिर्विपक्षे बाधकतर्कसाहाय्याद्बलवती उत स्वातन्त्र्ययुक्तिश्रुतिर्बाधितेति ॥ अतिप्रसङ्गादिति ॥ चेतनत्वेऽपि पूर्णत्वे देवदत्तादपि तत्स्या-दित्यतिप्रसङ्गादित्यर्थः । यदि गुणी स्यात्तर्हि दोष्यपि प्रसज्येत देवदत्तवद् यदि दोषाभाववान् स्यात्तर्हि गुणाभावानपि न स्याद्व्यतिरेकेण यज्ञवदित्याद्यतिप्रसङ्गादित्यर्थः । तेन बहुयुक्तिमत्वं पूर्वपक्षस्य ज्ञेयम् ॥ स्वातन्त्र्यादिनेति ॥ आदिपदेन सर्वकर्तृत्वं तत्रस्थत्वे सति तत्र शक्तत्वं तज्जिज्ञासुत्वे सति तत्र शक्तत्वं च गृह्यते । एवं स्वतन्त्रस्य पूर्णगुणत्वनियमादिति न्यायविवरण-मनुसृत्य सर्वधर्मोपपत्तेरित्यंशं युक्तिकथनपरत्वेन व्याख्याय भाष्यानुसारेण सर्वधर्मोपपत्तेश्चेति विशिष्टसूत्रं व्याचष्टे ॥ न केवलमिति ॥ रमादिचिन्त्या इति ॥ आदिपदेन विरिञ्चग्रहणम् । तस्यापि श्रुत्याद्यनुक्तसम्प््रादायागतगुणचिन्तयितृत्वादिति भावः । न च देवे दोषाः श्रुता नापि चिन्त्याः सन्ति किं पुनरचिन्त्या अज्ञैर्हि तथा श्रुता इति प्रतीता इत्यर्थः । सूत्रे सर्वधर्मो-पपत्तेरिति विभक्तिविपरिणामेनाप्यन्वेति । ततश्च सर्वेषां धर्माणां गुणानां दोषाभावानां च स्वातन्त्र्याद्युपपत्तिसिद्धत्वात् । उपपादकश्रुतिसिद्धत्वाच्च । सर्वधर्माणामीश्वरे उपपत्तिरेव न युक्तिविरोध इति सूत्रार्थः ।
अत्र पीठिकाचतुष्टयं ‘स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तय’ इत्यनुव्याख्यानोक्तं बोध्यम् । अवान्तरोपाधयस्तु तत्रैवोक्ता इति सर्वमनवद्यम् ।
॥ इति श्रीमद्विठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन रचितायां श्रीमत्तत्वप्रकाशिकावाक्यार्थमुक्तावल्यां द्वितीयाध्यायस्य प्रथमः पादः सम्पूर्णः ॥
तत्त्वसुबोधिनी
उक्तमुपसंहरतीति ॥ अधिकरणतात्पर्ये वक्तव्ये सौत्रसर्वपदानुरोधेन भाष्येऽवशिष्टैरित्युक्तम् । प्रकरणवशाद् विशिष्य प्रतिपादितेभ्य इति लभ्यते । ननु प्रतिपादनं विना उपसंहाराभावात् कथम् अवशिष्टैः सह विशिष्य प्रतिपादितानाम् उपसंहार इत्यतः प्रतिपादितैरित्युक्तम् ।
अवशिष्टत्वादेव पूर्वं प्रतिपादनाभावात् कथं प्रतिपादितत्वमित्यतस् तात्पर्यम् आह ॥ किमुक्तं भवतीत्यादिना ॥ पूर्णगुणत्वमिति ॥ तथा चावशिष्टगुणानां प्रतिपादनपूर्वकं तैः सह विशिष्यप्रतिपादितगुणानुपसंहरति इति भाष्याभिप्राय इति भावः । अनेनावशिष्टगुणेषु बहुयुक्ति-विरोधपरिहार एव एतदधिकरणोपाधिरिति । साधके अत्र जन्मादिकर्तृत्व एवं युक्तिविरोधं निरस्ये-दानीं तत्साध्ये ब्रह्मशब्दार्थगुणपूर्णत्वे युक्तिविरोधपरिहारादनन्तरसङ्गतिरिति भावः । न चैतदधि-करणचतुष्टयम् आरम्भणाधिकरणेनैव गतार्थम् । तत्र बहुयुक्तिविरोधपरिहारस्य उपलक्षणत्वेन कृतत्वादिति वाच्यम् । विकरणत्वादिति सूत्रशेषतस् तत्र चोद्यपरिहारार्थम् अस्य प्रवृत्तत्वात् । विशेषश्च भाष्यटीकयोरेव तत्र तत्रोक्त इति ॥ अत एवेति ॥ विष्णोरत्र गुणपूर्णत्वस्य प्रतिपाद्य-त्त्वादेवेत्यर्थः ॥ अस्यापीति ॥ ईश्वरो ऽपूर्णश् चेतनत्वाज् जीववद् इत्यनुमानं फलितमिति भावः ॥ अन्यथेति ॥ चेतनत्वेन हेतुना पूर्णत्वानङ्गीकारे जीवानामपि तन्न स्यादित्यर्थः ॥ स्वातन्त्र्यादिमत इति ॥ हरिः पूर्णगुणः स्वतन्त्रत्वाद् व्यतिरेकेण जीववत् । स्वातन्त्र्य-पूर्णगुणत्वव्यतिरेकव्याप्तौ ‘अपूर्णोऽयं जीवसङ्घोऽस्वतन्त्रः’ इति श्रुतिः प्रमाणमिति भावः ॥ श्रुतेश्चेति ॥ अनेन सौत्रश्चशब्दः श्रुतिसमुच्चायकतया भाष्ये व्याख्यातः ॥ रमादिचिन्त्या इति ॥ आदिपदेन विरिञ्चिग्रहणम् । तस्यापि श्रुत्यनुक्तभारताद्युक्तगुणचिन्तयित्वादिति भावः ।
॥ इति श्री तत्वप्रकाशिकाविवृत्तौ पाण्डुरङ्गि आनन्दाचार्यसूनुश्रीनिवासाचार्यविरचितायां
तत्वसुबोधिन्यां द्वितीयाध्यायस्य प्रथमः पादः ॥
वाक्यार्थविवरणम्
अस्यापीति ॥ तथा च विष्णुरपूर्णगुणश्चेतनत्वाज् जीववद् इत्यनुमानमनेनोक्तं भवतीति ज्ञेयम् । न तु अत्राप्रयोजकतेत्यत आह ॥ अन्यथेति ॥ तर्हि चेतनत्वाविशेषाज्जीवानामपि पूर्णगुणत्वं स्यादित्यतिप्रसङ्गः ॥ स्वातन्त्र्यादिनेति ॥ तथा च पूर्वानुमाने अस्वातन्त्र्य-मुपाधिरिति भावः ॥ नियमादिति ॥ यथोक्तम् । ‘यदधीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः’ इति ।
॥ इति श्रीनिवासतीर्थविरचिते वाक्यार्थविवरणे द्वितीयाध्यायस्य प्रथमः पादः ॥
वाक्यार्थमञ्जरी
तर्हि कथं पादसङ्गतिरिति पृच्छति ॥ किमुक्तं भवतीति ॥ उत्तरमाह ॥ उक्तावशिष्टेति ॥ अतिप्रसङ्गादिति ॥ धूमसद्भावेऽपि तन्नियतवह्न्यभावप्रसङ्गादित्यर्थः । सर्वेषां धर्माणां ज्ञानानन्दादीनां ब्रह्मण्युपपत्तेरुपपत्तिसिद्धत्वाद्गुणाः श्रुताविति श्रुतिसिद्धत्वाच्चेत्यर्थः । रमा-दीत्यादिपदेन चतुर्मुखग्रहणं तस्यापि श्रुत्यनुक्तभारताद्युक्तगुणचिन्तयितृत्वादिति भावः ।
॥ इति श्रीमत्तत्त्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्कराश्रीनिवासविरचितायां
द्वितीयाध्यायस्य प्रथमः पादः ॥
॥ इति सर्वधर्मोपपत्त्यधिकरणम् ॥ ११ ॥