ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ
१०. अथ वैषम्यनैर्घृण्याधिकरणम्
सूत्रभाष्यं
सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येत्यतो वक्ति–
॥ ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ ॥ ३५ ॥
कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यर्नैर्घृण्ये । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम् (प्र.उ.३-७) इति हि श्रुतिः ।
सत्तर्कदीपावली
सुकृतिनः स्वर्गादिस्थान् दुष्कृतिनो नरकादिस्थान् सृजतीति विषमो निर्घृण इति न शङ्कनीयम् । न ह्यदण्ड्याननुगृह्णन् दण्ड्यान् दण्ड्यन् राजा विषमो निर्घृण इत्युच्यते लोके । तथाहि श्रुतिः । पुण्येन पुण्यं लोकं नयति पापेन पापमिति ।
तत्त्वप्रदीपिका
यद्येवं सर्वकर्तृत्वमीश्वरस्य बोभूयते, कांश्चिदिष्टं भोजयति कांश्चिदनिष्टमिति न समत्वमीश्वरस्य स्यात् । निरये पतितानतिबाधाविह्वलानाक्रन्दतोऽनन्यनाथाननुज्जिहीर्षोर्नैर्घृण्यं चेत्यतो वक्ति ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ । तत्तत्कर्माणि वीक्ष्य तदानुकूल्येन फलं ददाति न विपर्ययेणेति नोक्तदोषः ।
तत्त्वप्रकाशिका
अत्र विष्णोः सर्वकर्तृत्वे वैषम्यादिदोषप्रा प्तियुक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगज्जन्मादिकर्तृत्वं हरेरुक्तम् । तस्य युक्तिविरोधे लक्षणस्यासम्भवित्वं स्यादतोऽसौ निराकर्तव्य एव । जन्मादिकर्तृत्वमेव विषयः । ईश्वरस्य युक्तमयुक्तं वेति सन्देहः । श्रुतिविरोधदर्शनं च सन्देहबीजम् । सयुक्तिकं पूर्वपक्षयति ॥ सर्वेति ॥ न विष्णोः सर्वकर्तृत्वं युक्तम् । तथा हि । किमसौ प्रा णिकर्म- सापेक्षः सृष्ट्यादि करोति तदनपेक्षो वा । नाद्यः । नियमेन कर्मापेक्षया प्रवर्तमानस्यास्वातन्त्र्या-पातात् । अस्वतन्त्रस्य च सर्वकर्तृत्वानुपपत्तिः । द्वितीये वैषम्यनैर्घृण्ये स्याताम् । निर्निमित्तं विभागेन सुखादिप्रदानात् । वैषम्यादिदोषवतश्च न सर्वकर्तृत्वम् । कर्मानपेक्षया सर्वकर्तृत्वे च ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिवेदाप्रा माण्यं च स्यात् । अतो हरेः सर्वकर्तृत्वायोगान्न युक्तं लक्षणमिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ युक्तमेव विष्णोः सर्वकर्तृत्वम् । न चोक्तदोषप्रसङ्गः । कर्मापेक्षया फलदातृत्वाङ्गीकारे वैषम्यादिदोषाभावादिति भावः ।
गुर्वर्थदीपिका
वैषम्यनैर्घृण्ये इत्यत्र एकस्य सुखदानादपरस्य दुःखदानाद् वैषम्यम् । स्वदत्तदुःखोद्रेकाद् रुदतो दृष्ट्वा तदुपरि कृपाया अकरणान् नैर्घृण्यमित्यर्थः ।
भावबोधः
वैषम्यादिदोषेति ॥ अत्राप्यादिपदेनास्वातन्त्र्यादिविरोधियुक्तिग्रहणेन ‘बहुयुक्तयः’ इत्यनेनैव तदधिकरणोपाधिरपि सङ्गृहीत इति भावः । पूर्वाधिकरणे लोकानुग्रहाय सृष्ट्यादिक्रीडां करोती-त्युक्ते तर्हि सर्वेषां सुखमेव दद्यात्; न तु केषाञ्चित् सुखं केषाञ्चिद् दुःखम् । वैषम्याद्या-पत्तेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति ज्ञेयम् ॥ ईश्वरस्येति ॥ अत्र विष्णोः सर्वकर्तृत्वं युक्तिविरुद्धं भवत्युत नेति चिन्ता । तदर्थं प्रा णिसुखदुःखादिसर्वकर्तृत्वे वैषम्यादिप्रा प्नोत्युत नेति । तदर्थमीश्वरः प्रा णिनां सुखदुःखादिदाने तत्तदनादिकर्मयोग्यतादिकं किं नापेक्षत उतापेक्षत इति । तदर्थं कर्माद्यपेक्षायामीश्वरस्यास्वातन्त्र्यं प्रा प्नोत्युत नेति । तदर्थं कर्मयोग्यतादिकं विष्ण्वनधीन-सत्तादिकम् उत तदधीनसत्तादिकमिति । तदर्थं कर्मादिकारयितृत्वनिबन्धनं वैषम्यादिकं दोषावहं भवत्युत नेति । तदर्थं वैषम्यादिकं किं तत्त्वेनैव दोष उत वेदाप्रा माण्याद्यनिष्टहेतुत्वेनेति । ईशस्य पूर्णत्वादिसिद्धिरिति न्यायविवरणं व्याचष्टे– न विष्णोरिति ॥ अनेन पूर्णत्वं सर्वकर्तृकत्वमिति व्याख्यातं भवति । कर्मसापेक्षत्वेऽनीशत्वमिति न्यायविवरणं व्याचष्टे– नियमेनेति ॥ सर्वकर्तृ-कत्वेति भाष्यं व्याचष्टे– द्वितीय इति ॥ अनेन पक्षत्वे श्रुतेरप्रा माण्यमिति न्यायविवरणं व्याचष्टे– कर्मापेक्षतयेति ॥
भावदीपः
युक्तीति ॥ कर्मसापेक्षत्वेऽनपेक्षत्वे च दोषप्रा प्तिरिति बहुमुखदृढयुक्तीत्यर्थः । सापेक्षत्वेन वैषम्यादिनिराससम्भवात्कथं भाष्ये दोषनिर्धारणमित्यतः कर्मसापेक्षत्वेऽनीश्वरत्वमनपेक्षत्वे श्रुतेर-प्रा माण्यमिति न्यायविवरणं विवृण्वन्पक्षभेदेन भाष्यं योजयितुं विकल्पयति ॥ किमसाविति ॥ कर्मसापेक्षत्वेनेश्वरस्यास्वातन्त्र्यमिति वक्ष्यमाणदिशाऽस्वातन्त्र्यापातादित्युक्तम् । भाष्ये सर्व-कर्तृत्वे इत्युक्तेराह ॥ सर्वकर्तृत्वानुपपत्तिरिति ॥ पूर्णत्वासिद्धिरिति न्यायविवरणोक्तिस्तु सर्वकर्तृ-त्वानुपपत्तिफलाशयेति भावः । भाष्यं योजयति ॥ द्वितीय इति ॥ अन्यत्रोक्तं दोषान्तरं चाह ॥ कर्मेति ॥ अप्रा माण्यं चेति समुच्चयोक्त्याऽनपेक्षत्वपक्षे दोषभेदोक्तिपरयोर्ग्रन्थयोरविरोधश्चोक्तो ध्येयः ॥ अत इति ॥ कर्मसापेक्षत्वेऽनपेक्षत्वे च युक्तिविरोधादित्यर्थः । उक्तदोषनिरासकतया भाष्यसूत्रे तात्पर्यतो व्याचष्टे ॥ कर्मेति ॥ अत्रोक्तदोषोऽग्रे निरसिष्यत इति भावः ।
अभिनवचन्द्रिका
सृष्ट्यादि करोतीति ॥ प्राणिनामिति शेषः । आदिशब्देन सुखदुःखादिकं ग्राह्यम् । प्राणिनां कर्मसापेक्षः सुरनरतिर्यगादिनीचोच्चयोनिषु सृष्टिं करोति । विभागेन सुखदुःखादिकं च ददातीत्यर्थः । द्वितीयपक्षं परिशेषयितुम् आद्यं दूषयति – नाद्य इति ॥ इष्टापत्तिरित्यत आह – अस्वतन्त्रस्येति ॥ यद्यसौ सहकार्यभावे स्त्रष्टुमशक्तः, तर्हि आदिकाले सहकारिवैधुर्येण महदादिसृष्टृत्वं न स्यादिति स्वाभिलाषितसर्वकर्तृत्वविरोधित्वान्नास्वातन्त्र्यमिष्टमिति भावः । द्वितीये त्विदं भाष्यमुपतिष्ठत इति भावेनाह– द्वितीय इति ॥ कुत इत्यत आह– निर्निमित्त-मिति ॥ अत्रेमौ प्रयोगौ ईश्वरो विषमः, निर्निमित्तं कांश्चिद्देवादिषूत्पाद्य सुखदातृत्वात् । तथा ‘ईश्वरो निर्घृणः, निर्निमित्तमेव कांश्चिद्दैत्यादिषूत्पाद्य दुःखदातृत्वात्’ इति । यदर्थं वेषम्यनैर्घृण्ये साधिते तदाह– वैषम्यादिदोषवतश्चेति ॥ ‘ईश्वरो न महदादिस्रष्टा, वैषम्यादिदोषित्वाद् देवदत्तवत्’ इति प्रयोगो द्रष्टव्य इति । एतेन किमिदमापादनमुत साधनम् । नाद्यः वैषम्य-नैर्घृण्याभावस्य पूर्वपक्षिणाप्यङ्गीकृतत्वेन ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्’ इत्यनेन सिद्धान्तेन तदभाव-साधनवैयर्थ्यात् । किञ्च अस्मिन् पक्षे वैषम्यादिदोषवतश्च न सर्वकर्तृत्वमित्युत्तरवाक्यमसङ्गतं प्राप्नोति । न चाऽऽपाद्यस्येष्टत्वपरिहारार्थमुत्तरवाक्यमिति वाच्यं यदि प्राणिनां कर्मानपेक्षयैव सर्वकर्ता स्यात्, तर्हि वैषम्यनैर्घृण्ये स्यातामिति आपादयित्रैव आपाद्यापादकयोर्व्याप्तेरङ्गीकृतत्वेन इह पुनर्वैषम्यादिदोषवतश्च न सर्वकर्तृत्वमित्यापाद्यस्य तदभावव्याप्यत्वकथनविरोधात् । अत एव न द्वितीयः वैषम्यादिदोषतश्च न सर्वकर्तृत्वमित्युत्तरवाक्यायोगप्रसङ्गात् । कर्मानपेक्षयैव सर्वकर्तृत्वलिङ्गोपजीवनेन सिद्धस्य वैषम्यादेस् तद्विघातकत्वायोगात् । न हि व्यापकेन व्याप्या-भावसाधनमिति परास्तम् । कर्मनैरपेक्ष्येण सुखदुःखदातृत्वहेतुना वैषम्यनैर्घृण्ये प्रासाध्य ताभ्यां तदन्यस्यैव महदादिसर्वकर्तृत्वस्य निराकरणाङ्गीकारात् । युक्तिविरोधन सर्वकर्तृत्वं दूषयित्वा प्रमाणाभावेन दूषयितुमाह– कर्मानपेक्षयेति ॥ सर्वप्राणिगतसुखदुःखकर्तृत्वे चेत्यर्थः । ज्योति-ष्टोमादिवाक्यमप्रमाणं सुखाद्यसाधनस्यापि पुण्यादेस् तत्साधनत्वाभिधायित्वादिति प्रयोगाज् ज्योतिष्टोमादिवाक्याप्रामाण्यं स्यात् । ततश्च ‘विष्णोः सर्वकर्तृत्वाभिधायको वेदो ऽप्रमाणं वेदत्वाज् ज्योतिष्टोमादिवाक्यवत्’ इति प्रयोगसम्भवेन प्रमाणाभावान् न विष्णोः सर्वकर्तृत्वमिति भावः ।
वाक्यार्थमुक्तावली
वैषम्यादिदोषेति ॥ अत्रादिपदेन स्वातन्त्र्यादिविरोधियुक्तिग्रहणेन बहुयुक्तय इत्यनेनैवैतदधि-करणोपाधिरपि संगृहीतः । अत्र कर्मादिसापेक्षत्वेन पक्षत्वे च दोष इति बहुमुखदृढयुक्तिविरोधो निरस्यते । पूर्वं बहुमुखयुक्तिविरोधपरिहारेऽपि उपपद्यते चेति सूत्रे फलमुखवैषम्यस्याङ्गीकारेणैव प्रमाणमुखस्य वैषम्यादेर्निरासात् प्रा बल्यमभिप्रेत्य पुनरारम्भ इति भावः । पूर्वाधिकरणे लोकानु-ग्रहाय सृष्ट्यादिक्रीडां करोतीत्युक्ते तर्हि सुखमेव सर्वेषां दद्यान्न तु केषांचित्सुखं केषांचिद्दुःखं वैषम्यापत्तेरित्याक्षेपेणोत्थानादनन्तरसङ्गतिः ॥ ईश्वरस्येति ॥ अत्र विष्णोः सर्वकर्तृत्वं न युक्तमिति चिन्ता । तदर्थमीश्वरः कर्मादिक्रमयोग्यतादिनिरपेक्ष उत सापेक्ष इति । तदर्थं कर्म-योग्यताद्यपेक्षायामस्वातन्त्र्यं प्रा प्नोत्युत नेति । तदर्थं कर्मयोग्यतादिकं विष्ण्वधीनसत्ताकमुत नेति उत तदधीनं चेति । तदर्थं तस्येश्वराधीनत्वे पुनरापन्नं स्वाधीनानादिसिद्धयोग्यतानुसारेण सुखदत्वलक्षणवैषम्यादिकमित्येव दोषः । किं वा वेदाप्रमाण्याद्यापादकतयेति ।
ननु तत्तत्पूर्वपुण्यपापं कर्मनिमित्तीकृत्य फलदाने वैषम्याद्यभावात्कथं भाष्ये दोषनिर्धारण-मित्यतो विकल्पमुखेन भाष्यं योजयितुं विकल्पयति । कर्मसापेक्षत्वेनेश्वरस्यास्वातन्त्र्यमित्ये-तद्भाष्यं हृदि कृत्वाऽद्यस्योत्तरमाह ॥ नाद्य इति ॥ तथा च न्यायविवरणे कर्मसापेक्ष-त्वेनेश्वरमिति । द्वितीयोत्तरत्वेन भाष्यं योजयति ॥ द्वितीय इति ॥ कर्मानपेक्षतया सर्वकर्तृत्व इत्यर्थः ॥ निर्निमित्तमिति ॥ निर्निमित्तं कांश्चित्सुखयन् विषमः स्यात् । कांश्चिन्निर्निमित्तं दुःखयन्निर्घृणः स्यादिति सुधानुसारेणार्थो बोध्यः । द्वितीये दूषणान्तरपरत्वेन भाष्यं योजयति ॥ कर्मानपेक्षत्वेति ॥ कर्मानपेक्षतया सुखदुःखकर्तृत्वे वेदाप्रा माण्यकारणवैषम्यनैर्घृण्य इति भाष्यार्थ इति भावः । उक्तं च न्यायविवरणे । अनपेक्षत्वे श्रुतेरप्रा माण्यमिति ॥ वैषम्यादीति ॥ कर्मानुसारेण न स्वतो वैषम्यादिदोषाभावाद् वेदाप्रा माण्यापादकतयापि दोषाभावादित्यर्थः । सूत्रे ईश्वरस्य फलदान इति शेषः । उत्तरसूत्रात्कर्मेति सापेक्षत्वादित्यतः पूर्वं सम्बध्यत इति ज्ञेयम् ।
तत्त्वसुबोधिनी
वैषम्यादिदोषेति ॥ अत्राप्यादिपदेन अस्वातन्त्र्यादिविरोधियुक्तिग्रहणम् । अत्र पूर्वाधिकरणे लोकानुग्रहाय सृष्ट्यादिक्रीडां करोतीति उक्ते तर्हि सर्वेषां सुखमेव दद्यान् न तु केषाञ्चित्सुखं, केषाञ्चिद्दुःखं वैषम्याद्यापत्तेरित्याक्षेपोत्थानादनन्तरसङ्गतिरिति भावः । अस्तु अस्वातन्त्र्यं ततः किमित्यत आह ॥ अस्वतन्त्रस्येति ॥ सर्वकर्तृत्वेति भाष्यं व्याचष्टे ॥ द्वितीय इति ॥ कुत इत्यत आह ॥ निर्निमित्तमिति विभागेनेति ॥ कस्यचिदेव दुःखं कस्यचिदेव सुखमिति विभागे-नेत्यर्थः । द्वितीये दूषणान्तरमाह ॥ कर्मेति ॥ तेन वेदेन स्वर्गादिसुखस्य ज्योतिष्टोमादिकर्म-फलत्वस्योक्तत्वादिति भावः ।
वाक्यार्थमञ्जरी
निर्दयत्वमित्यर्थः । विभागेन विषमतया । नेश्वरस्य वैषम्यनैर्घृण्ये कर्मसापेक्षत्वात् हि यस्मात्तथा प्रस्तुतार्थं दर्शयति । पुण्येन पुण्यमिति श्रुतिरित्यर्थः ।
ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ
सूत्रभाष्यम्
॥ ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ ३६ ॥
यदपेक्षयाऽसौ फलं ददाति न तत्कर्म । ‘एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधुकर्म कारयति तं यमधो निनीषत’ (कौ.उ.३-८) इति श्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेन्न । तस्यापि पूर्वकर्म कारणमित्यनादित्वात्कर्मणः । भविष्यत्पुराणे च–
‘पुण्यपापादिकं विष्णुः कारयेत्पूर्वकर्मणा ।
अनादित्वात्कर्मणश्च न विरोधः कथञ्चन’ ॥ इति ।
सत्तर्कदीपावली
एष ह्येव साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधुकर्म कारयति तं यम् अधो निनीषत इति वचनादपि न वैषम्यादिकमाशङ्कनीयमीश्वरस्य । ‘पुण्यपापादिकं विष्णुः कारयेत् पूर्वकर्मणा । अनादित्वात्कर्मणश्च न विरोधः कथंचनेति वचनात् । अनादित्वात्कर्मण इति कर्मपरंपराया इत्यर्थः ।
तत्त्वप्रदीपिका
न कर्माविभागादिति चेन्नानादित्वात् । यदपेक्षयाऽसौ फलं ददातीत्युच्यते न तज्जीवस्य कर्मेश्वरमन्तरेणास्ति, अविभागादस्वातन्त्र्यादिति चेन्न । तस्यापि पुण्यादेः कर्मणस्तादृशं पूर्वं कर्म कारणमित्येवमनादित्वात्कर्मसमुदायस्य ।
तत्त्वप्रकाशिका
कर्मापेक्षया फलदातृत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे ॥ न कर्मेति ॥ कर्मापेक्षया फलं ददातीश्वर इत्ययुक्तम् । यदपेक्षया फलं दद्यात् तस्यापेक्ष्यस्य कर्मण एवाभावात् । अस्ति पूर्वं कर्मेति चेत् । सत्यम् । तस्याप्येष ह्येवेति श्रुतौ भगवदधीनत्वश्रवणात्स्वकृतापेक्षया फलदानेन वैषम्यादेरनिस्तारात् । अतो न कर्मापेक्षा सम्भवतीति भावः । उन्निनीषते ऊर्ध्वं नेतुमिच्छति । परिहारांशं व्याचष्टे ॥ नेति ॥ नापेक्ष्य कर्माभावो वक्तव्यः । पूर्वकर्मणः सत्त्वात् । न च वाच्यं तस्यापि भगवन्निमित्तत्वेनानपेक्ष्यतेति । भवेदेतद्यदि पूर्वतनं कर्मेश्वरेण निरपेक्षेण क्रियेत । नैतदस्ति । ततोऽपि पूर्वतनकर्मापेक्षया तस्य कारितत्वात् । तादृशस्य चापेक्ष्यतोपपत्तेः । न च पूर्वतरस्यापीश्वरनिर्मितत्वादनपेक्षता । तस्यापि पूर्वतनकर्मापेक्षयैव कारितत्वात् । न च मन्तव्यं यत्रैव पर्यवसानं तदारभ्य दोष इति । अनादित्वात्कर्मपरम्पराया इति भावः ।
गुर्वर्थदीपिका
तस्यापेक्ष्यस्य कर्मण एवाभावादित्यत्र राज्ञा स्वभटे दीयमानस्य कशाताडनादिदुःखस्य तदैव तत्कृतापराधरूपकर्मवद् ईश्वरेण दीयमानरोगादिरूपदुःखादौ निमित्तभूततात्कालिककर्म नास्तीत्यर्थः । अनेन तत्कर्मेति भाष्यस्यास्मिन्जन्मनि तत्कर्मैव नेत्यर्थ उक्तो भवति । ‘तं यमुन्निनीषते तं यमधो निनीषत’ इत्यत्र यमुन्निनीषते तं साधु कर्म कारयति, यमधो निनीषते तमसाधु कर्म कारयतीत्यर्थः । ‘कर्मणोऽपि तन्निमित्तत्वात्’ इति भाष्ये प्रा चीनकर्मणोऽपि भगवत्सृष्टत्वेन भगवदधीनतया भगवदधीनजगतो विभागाभावादिति सौत्राविभागपदस्यार्थः सूचितो भवति । स्वकृतापेक्षयेत्यत्र स्वकृतं स्वसृष्टमित्यर्थः । तादृशस्य चापेक्ष्यतोपपत्तेरित्यत्र केवलं स्वेच्छयैव कारितस्य वैषम्यपरिहारायापेक्ष्यत्वासम्भवेऽपि तत्प्रा चीनकर्म निमित्तीकृत्य कारितस्यापेक्ष्यत्वसम्भवादित्यर्थः ।
भावबोधः
अविभागादिति सौत्रपदव्याख्यानरूपस्य कर्मणोऽपि तन्निमित्तत्वादित्येतस्यार्थः ॥ भगव-दधीनत्वेति ॥
भावदीपः
असङ्गतिनिरासाय शेषपूर्त्या भाष्यं व्यनक्ति ॥ कर्मेति ॥ लोकेऽविभक्ते स्वतन्त्र इति प्रयोगादविभागादिति पदस्य कर्मणोऽपि तन्निमित्तत्वादिति भाष्यम् । तदर्थः भगवदधीनत्वेति ॥ नञो न कर्मेत्यनेनान्वयमुपेत्याह ॥ नापेक्ष्य कर्माभावो वक्तव्य इति ॥
वाक्यार्थमुक्तावली
अपेक्षकथने अविभागादीश्वरनियमव्यतिरेकेण कर्मणोऽभावात्कर्मणोऽपि तन्निमित्तत्वादिति यावदिति भाष्यस्य सूत्रारोहं मत्वा पूर्वाक्षेपपूर्वं व्याचष्टे ॥ कर्मापेक्षयेति ॥ अविभागादित्यस्यै-तावद्भगवदधीनमेतावन्नेति विभागाभावादित्यप्यर्थमाहुः । श्रुतौ यमुन्निनीषते तमित्यन्वयः । नानादित्वादित्यत्र न कर्मेति नेति पूर्वानुवृत्तिमभिप्रेत्य व्याचष्टे ॥ नापेक्ष्य कर्माभावे वक्तव्य इति ॥ अनादित्वादित्यत्र कर्मण इति विभक्तिविपरिणामेनान्वेति कर्मपदेन च कर्मपरंपरोच्यत इति भावेन भाष्यार्थं कक्ष्याक्रमेणाह पूर्वकर्मण इत्यादिना ॥
तत्त्वसुबोधिनी
कर्मण एवेति ॥ स्वातन्त्र्येणाभावादित्यर्थः । अन्यथा कर्मणः प्रत्यक्षसिद्धत्वात् सर्वथा तदभावो न सम्भवतीति भावः । (कर्मण एवेति स्वातन्त्र्येणाभावादित्यर्थः) अस्य कर्मणः स्वातन्त्र्येणाभावेऽपि पूर्वकर्मणः स्वातन्त्र्येण सत्त्वात् तदपेक्षया फलदानोपपत्तिरित्याशङ्कते ॥ अस्ति पूर्वं कर्मेति चेदित्यादिना ॥ (वेदेति अविभागादिति सौत्रपदव्याख्यानरूपस्य कर्मणोऽपि तन्निमित्तत्त्वादित्यस्यार्थः ।) भगवदधीनत्वेति ॥ नन्वस्तु कर्ममात्रस्य भगवदधीनत्वम्, तथापि तदपेक्षया फलदानान् न वैषम्यादीत्यत आह ॥ स्वकृतेति । तादृशस्येति ॥ ततोऽपि पूर्वकर्मण इत्यर्थः ।
वाक्यार्थविवरणम्
भगवदधीनत्वश्रवणादिति ॥ तथा चाविभागादित्यंशस्य विभागेनाभावादीश्वरं विना पृथगभावात् तदधीनतयैव भावादित्यर्थ उक्तो भवति ।
वाक्यार्थमञ्जरी
ईश्वरापेक्ष्यं कर्म नास्ति कुतो ऽविभागाद् अस्वतन्त्रत्वात् तस्यापीशकृतत्वादिति यावत् । स्वकृतकर्मापेक्षया फलदाने वैषम्याद्यनिस्तारादिति चेन्न । कर्मप्रवाहस्यानादित्वेन पूर्वपूर्वकर्मानु-सारेणोत्तरोत्तरं कर्म कारयित्वा तदनुसारेण फलदाने दोषाभावादित्यर्थः ।