०९ न प्रयोजनाधिकरणम्

ॐ न प्रयोजनवत्वात् ॐ

९. अथ न प्रयोजनाधिकरणम्

सूत्रभाष्यं

यत्प्र योजनार्थं सृष्ट्यादिस्तदूनत्वान्न पूर्णतेत्यत आह–

॥ ॐ न प्रयोजनवत्वात् ॐ ॥ ३३ ॥

‘अथैष एव परम आनन्द’ (बृ.उ.६-३-३३) इत्यादिना कृतकृत्यत्वान्न प्र योजनाय सृष्टिः ।

तत्त्वप्रदीपिका

ननु सृष्ट्यादावीश्वरस्य प्र योजनमस्ति वा न वा । आद्ये कल्पे यस्य प्र योजनस्य प्राप्तये सृष्ट्यादिस्तत्पूर्वं तदूनत्वान्न पूर्णता । अपूर्णस्य चानीश्वरत्वादसृष्टिः । अन्योऽपि नोपादेयः । प्र योजनार्थं हि लोके सृष्ट्यादि । न हि प्र योजनमनुद्दिश्य बुद्धिमन्तः प्र वर्तन्ते । अतस्तदूनत्वा-न्निष्फलत्वान्न पूर्णता तस्य सृष्ट्यादिप्र वृत्तेः । अतो व्यर्थाया अनारम्भ एव स्यादित्यत आह– न प्र योजनवत्त्वात् ॥ न भविष्यत्प्र योजनवत्त्वेन सृष्टिः । प्राप्तप्र योजनत्वात् ।

तत्त्वप्रकाशिका

अत्रेश्वरस्य जगत्कर्तृत्वे निष्फलत्वादियुक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । जगत्कर्तेश्वर इत्यभिहितम् । तस्य च युक्तिविरुद्धत्वे लक्षणासम्भवप्र सङ्गादसौ निराकरणीयः । जन्मादिकर्तृत्वं विषयः । ईश्वरस्य युक्तमयुक्तं वेति संशयः । उक्तरीतिरफलत्वं च सन्देहबीजम् । सयुक्तिकं पूर्वपक्षयति ॥ यदिति ॥ न विष्णोः स्रष्टृत्वादि युक्तम् । तथा हि । किमसौ प्र योजनमपेक्ष्य सृष्ट्यादिकं करोति प्र योजनमनपेक्ष्यैव वा । नोभयथापि सर्वकर्तृत्वम् । प्र योजनापेक्षितत्वे सृष्ट्यादेः पूर्वमपूर्णत्वप्र सङ्गात् । अपूर्णस्य च न सर्वकर्तृत्वं यज्ञदत्तवत् । प्र योजनानुद्देशेन प्र वृत्तिरेव न दृष्टा कुतः सर्वकर्तृत्वम् । अतः प्र कारद्वयेनापि विष्णोः सर्वकर्तृत्वाद्यनुपपत्तेर्विधान्तरस्य चाभावादयुक्तं जन्मादिकारणत्व-लक्षणमिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ युक्तमेव विष्णोः सर्वकर्तृत्वादि । न चोक्तदोषः । तस्य पूर्णानन्दत्वेन प्राप्तप्राप्तव्यत्वात्फलानुद्देशेन प्र वृत्त्यभ्युपगमादित्यर्थः ।

भावबोधः

निष्फलत्वादिति ॥ अत्रादिपदेनापूर्णत्वरूपविरोधियुक्तिग्रहणेनानुव्याख्याने बहुशब्द-स्यानेकपरत्वादेतदधिकरणोपधिरपि ‘बहुयुक्तयः’ इत्यनेनैव सङ्गृहीत इति भावः । ‘सर्वोपेत’ इति पूर्वसूत्रे नित्यानन्देत्युक्तपूर्णानन्दत्वलब्धस्य प्र योजनवत्वादिति सिद्धान्तहेतुत्वेनोपादानादनन्तर-सङ्गतिरिति ज्ञातव्यम् ॥ ईश्वरस्येति ॥ अत्र विष्णोर् जगज्जन्मादिकारणत्वं किं युक्तिविरुद्धमुत नेति चिन्ता । तदर्थं कर्तृत्वे सृष्ट्यादिसाध्यादिफलाभावप्राप्त्यापूर्णत्वं प्राप्नोत्युत नेति । तदर्थं किं सृष्ट्यादिकं फलार्थमुत केवललीलारूपमिति । तदर्थं चेतनप्र वृत्तिः प्रेक्षावत्प्र वृत्तिर्वा स्वप्र योजन-वत्त्वेन व्याप्तोत मत्तदयालुप्र वृत्त्यादौ व्यभिचारात्तदव्याप्तेति ।

ननु यद्यत्र भाष्ये कर्तृत्वेन प्र योजनवत्त्वं प्र साध्यापूर्णत्वसाधनं विवक्षितं स्यात् । तदा प्र थमसूत्रमयुक्तं स्यात् । अपूर्णतासाधकं प्र कृतकृतकृत्यत्वरूपप्र योजनवत्त्वहेतोरसिद्धत्वात् । अथ कर्ता चेत् प्र योजनवान् स्यात्, तथा चापूर्णः स्यादित्यापादनं विवक्षितं तदा व्यर्थमेवेदं सूत्रम् । न चापूर्णस्ततो न प्र योजनवानिति परेणैवाङ्गीकृतत्वात् । अन्यथा विपर्ययापर्यवसानात् । द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम् । साधनापादनदूषणस्यानुद्भावनादित्याशङ्कापरिहाराय विकल्पं कृत्वाऽद्यपक्षोत्तरत्वेन भाष्यं योजयति– तथा हीत्यादिना ॥ द्वितीयपक्षोत्तरत्वेन प्र योजनाभावो कर्तृत्वे कारणमिति न्यायविवरणाभिप्रायमाह– प्र योजनानुद्देशेनेति ॥ प्र योजनवत्त्वादिति सौत्रहेतु- व्याख्यानपरम् । कृतकृत्यत्वादिति भाष्यं व्याचष्टे– प्राप्तेति ॥ तस्यासिद्धिपरिहारार्थं तत्साधन-प्र दर्शनाय श्रुत्युदाहरणमित्यभिप्रेत्य तस्य पूर्णानन्दत्वेनेत्युक्तम् । नेति सौत्रप्र तिज्ञाभाग-व्याख्यानपरं न प्र योजनाय सृष्टिरिति भाष्यं व्याचष्टे– फलानुद्देशेनेति ॥ तथा च द्वितीय-पक्षस्यैवाभ्युपगमान्न प्र थमपक्षोक्तदोषावकाश इति भावः ।

भावदीपः

निष्फलत्वादीति ॥ भाष्योक्तापूर्णत्वयुक्तिरादिपदार्थः । अग्न्यादेः स्वभावादेवोर्ध्वज्ज्वलनादि-प्र वृत्तिनिवृत्तिवदप्र योजनसृष्ट्यादेरपि सम्भवेन फलनिर्धारणेन कथं भाष्ये अपूर्णतापादनमित्यतो विकल्प्याद्ये फला(पे)काङ्क्षिणस्त्वपूर्णत्वादेव न सर्वकर्तृत्वादिशक्तिरिति न्यायविवरणरीत्या भाष्यभावमाह ॥ किमसावित्यादिना ॥ द्वितीये प्र योजनाभावो कर्तृत्वे कारणमिति न्याय-विवरणभावमाह ॥ प्र योजनेति ॥ प्र वृत्तिरेव न दृष्टेति ॥ चेतनस्य प्रेक्षावतो निष्फलप्र वृत्तेर-दर्शनादित्यर्थः ॥ अत इति ॥ फलोद्देशेऽनुद्देशे च सृष्टेर्युक्तिविरुद्धत्वादित्यर्थः । इतरस्य पूर्णत्वादेवानन्तशक्तित्वाल्लीलयैव कर्तृत्वमिति न्यायविवरणदिशा साध्यमध्याहृत्योक्तशङ्का-निरासकत्वेन भाष्यं योजयति ॥ युक्तमिति ॥ प्र योजनवत्त्वादिति सौत्रपदस्य भाष्यं कृतकृत्यत्वादिति ॥ तस्य व्याख्या प्राप्तप्राप्तव्यत्वादिति ॥ अथैष इति वाक्यस्यार्थः पूर्णानन्दत्वेनेति ॥ नेत्यस्य भाष्यं न प्र योजनाय सृष्टिरिति । तस्यार्थः फलानुद्देशेनेति ॥

अभिनवचन्द्रिका

निष्फलत्वादियुक्तिपरिहारादिति ॥ अत्र निष्फलत्वम् उद्देश्यविधुरत्वम् । आदिशब्देना-पूर्णत्वप्रसङ्गो गृहीतः । अत एव भाष्ये तदूनत्वादिति प्रयोजनविशेषशून्यत्वमुक्तम् ।

वाक्यार्थमुक्तावली

निष्फलत्वादीति ॥ अत्रादिपदेनापूर्णत्वयुक्तिर्गृह्यते । तेन बहुयुक्तय इत्यनुव्याख्याने बहुपदमनेकत्वोपलक्षणमित्येतदधिकरणोपाधिरप्युक्त इत्युक्तं भवति । पूर्वेहेतुमुखयुक्तिविरोधोऽ-पास्तः । इह तु प्र योजनोद्देशेऽनुद्देश इति विशेष इति बहुमुखफलमुखादृढानेकयुक्तिविरोधो निरस्यत इत्यनन्तरसङ्गतिः ॥ युक्तमयुक्तं वेति ॥ अत्र पूर्वोक्तं विष्णोः स्रष्ट्रत्वादिकं न युक्तमिति चिन्ता । तदर्थं सृष्ट्रत्वे सृष्ट्यादिसाध्यस्य फलस्य पूर्वमभावादपूर्णत्वमापतति उत नेति । तदर्थं किं सृष्ट्यादिकं फलार्थमुत लीलारूपमिति । तदर्थं चेतनस्य प्र वृत्तिः प्रेक्षावत्प्र वृत्ति-वत्स्वप्र योजनवत्वेन व्याप्तोन्मत्तदयालुप्र वृत्तौ व्यभिचारादव्याप्तेति ।

ननु यद्यत्र भाष्ये कर्तृत्वेन प्र योजनवत्वं प्र साध्यापूर्णत्वसाधनं विवक्षितं स्यात्तदा प्र थम-सूत्रमयुक्तं स्यात् । अपूर्णतासाधकं प्र ति कृतकृत्यत्वरूपप्र योजनत्वहेतोरप्यसिद्धत्वात् । अथ कर्ता चेत्प्र योजनवान्स्यात् । तथा चापूर्णः स्यादित्यापादनं विवक्षितं तदा व्यर्थमेवेदं सूत्रम् । न चापूर्णस्ततो न प्र योजनवानिति परेणैवाङ्गीकृतत्वात् । अन्यथा विपर्ययपर्यवसानात् । द्वितीयसूत्रं तु पक्षद्वयेऽप्युक्तम् । साधनोपादानदूषणस्यानुद्भावनादित्याशङ्कापरिहाराय विकल्पं कृत्वा पक्ष-द्वयोत्तरत्वेन भाष्यं योजयति ॥ तथा हीति ॥ तत्राद्यपक्षोत्तरत्वेन योजयति ॥ प्र योजनेति ॥ सृष्ट्येश्वरस्य प्र योजनमस्तीति पक्षे यस्य प्र योजनस्य प्राप्तये सृष्ट्यादिस्तत्पूर्वं तदूनत्वादपूर्णतेति भाष्यार्थ इति भावः । द्वितीयपक्षोत्तरत्वेन भाष्यं योजयति ॥ फलानुद्देशे इति ॥ प्र योजनं नास्तीति पक्षे यत्प्र योजनार्थं लोके सृष्ट्यादिस्तदूनत्वात्तादृशप्र योजनविकलत्वान्निष्फलत्वान्न पूर्णता । सृष्ट्यादिप्र वृत्तेरपर्यवसानमकरणमिति यावदिति तत्वप्र दीपानुसारेण भाष्यार्थ इति भावः । तदुक्तं न्यायविवरणं योजयति फलानुद्देशे इतीत्यवधारितम् ॥ न चोक्तदोष इति ॥ विकल्प्य पक्षद्वयोक्तदोषो नेत्यर्थः । कुतो नेत्यर्थः । द्वितीयपक्षं सयुक्तिकमभ्युपगमत्सूत्रे प्र योजनवत्वादित्यावर्तते । सृष्टिरिति शेषः । ततश्च प्र योजनवत्वात् प्र योजनत्वेन पूर्णानन्दत्वेन प्र योजनवत्वात् । प्र योजनं कृत्यं प्राप्तव्यं तद्वत्वात् प्राप्तप्राप्तव्यत्वात् । प्र योजनवत्वेन भविष्य-त्प्र योजनत्वेन एष्यत्प्र योजनाय सृष्टिरित्यर्थमभिप्रेत्य अथैष एवेत्यादि भाष्यं प्र वृत्तम् । तत्र कृत-कृत्यत्वादित्यस्य कृतं पूर्णमानन्दो यस्य स कृतकृत्यस्तस्य भावः कृतकृत्यमित्येकोऽर्थः । कृतं प्राप्तं कृत्यं प्राप्तव्यं येनेत्यपरः । तयोश्च हेतुहेतुमद्भावः । पूर्णानन्दस्यासिद्धिपरिहाराय श्रुत्युदाहरणमिति अभिप्रेत्य व्याचष्टे ॥ तस्येति ॥ न प्र योजनाय सृष्टिरिति प्र तिज्ञाविवरण-परभाष्यस्यार्थः । तस्य फलानुद्देशेनेति ॥

तत्त्वसुबोधिनी

निष्फलत्वादीत्यत्रादिपदेनापूर्णत्वरूपयुक्तिविरोधपरिग्रहः । अत्र सर्वोपेतेति सूत्रे नित्यानन्दे-त्युक्तपूर्णानन्दत्वेन लब्धस्य कृतकृत्यत्वरूपप्र योजनवत्वस्यात्र प्र योजनवत्वादिति सिद्धान्त-हेतुत्वेनोपादानादनन्तरसङ्गतिर् इति भावः । ननु यद्यत्र भाष्ये कर्तृत्वेन प्र योजनवत्त्वं प्र साध्य पूर्णत्वसाधनं विवक्षितं स्यात्तदा प्र थमसूत्रमयुक्तं स्यात् । अपूर्णतासाधकं प्र ति कृतकृत्यत्व-रूपप्र योजनवत्वहेतोर् असिद्धत्वात् । अथ कर्ता चेत् प्र योजनवान् स्यात् तथा चापूर्णः स्यादित्यापादनं विवक्षितं तदा व्यर्थमेवेदं सूत्रं, न चापूर्णस् ततो न प्र योजनवान् इति परैणै-वाङ्गीकृतत्वात्, अन्यथा विपर्ययापर्यवसानात् । द्वितीयसूत्रं तु पक्षद्वयेऽप्ययुक्तम् । साधना-पादनदूषणस्यानुद्भावनादित्याशङ्कापरिहाराय विकल्पं कृत्वाद्यपक्षोत्तरत्त्वेन भाष्यं योजयति ॥ तथा हीत्यादिना ॥ द्वितीयपक्षोत्तरमाह ॥ प्र योजनानुद्देशेनेति ॥ प्र योजनमपेक्ष्यैवेति पक्षे प्र योजनाभावे कारणमेव, आद्यपक्षे तु तदभावेऽपि कारणमिति भावः । उभयथापि प्र योजनापेक्षा आगतेति न पक्षद्वयं युक्तमित्याह ॥ नोभयथापीति ॥ ननूक्तप्र कारद्वयेन स्रष्ट्रत्वासम्भवेऽपि प्र कारान्तरेण स्रष्ट्रत्वं (सं)भविष्यति इत्यत उक्तं विधान्तरस्येति ॥ प्र योजनवत्त्वादिति सौत्रहेतुव्याख्यानपरं कृतकृत्यत्वादिति भाष्यं व्याचष्टे ॥ प्राप्तेति ॥ तस्यासिद्धिपरिहारार्थं तत्साधकप्र दर्शनाय श्रुत्युदाहरणमित्यभिप्रेत्य तस्य पूर्णानन्दत्वेनेत्युक्तम् । तेनेति सौत्रप्र तिज्ञा-व्याख्यानपरं, न प्र योजनाय सृष्टिरिति भाष्यं व्याचष्टे ॥ फलानुद्देशेनेति ॥ तथा च द्वितीय-पक्षस्यैवाभ्युपगमान् न प्रथमपक्षोक्तदोषावकाश इति भावः ।

वाक्यार्थविवरणम्

अपूर्णत्वप्र सङ्गादिति ॥ ततः किमित्यत उक्तम् ॥ अपूर्णस्य चेति ॥

वाक्यार्थमञ्जरी

अपूर्णत्वप्रसङ्गादिति ॥ सृष्ट्यादिना यत्प्र योजनं तदूनत्वादिति भावः । नेश्वरप्र वृत्तिः स्वप्र योजनार्था कुतः प्र योजनवत्वात् । प्र वृत्त्या यत्प्र योजनं प्रागेव तद्वत्वादिति भावः ॥ प्राप्त-प्राप्तव्येति ॥ प्राप्तं प्राप्तव्यं येनासौ तथोक्तस्तस्मादित्यर्थः ।