०७ इतरव्यपदेशाधिकरणम्

ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ

७. अथ इतरव्यपदेशाधिकरणम्

सूत्रभाष्यम्

जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियते –

॥ ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ॥ २२ ॥

जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्यात् ।

सत्तर्कदीपावली

यदन्तर्यामिप््रोर्यत्वं तद्युक्तं जडानामेव । न जीवस्य चेतनत्वादिति वाच्यम् । हिताकरणादहितकरणाच्च । अहितकारिणि ज्ञातेऽपि क्वचित्प््रावृत्तिदर्शनात् । हितकारिणि ज्ञातेऽपि क्वचिदप्रवृत्तेर् नाज्ञानकृतं हिताकरणादिकमिति वक्तुं शक्यते । न च कर्मकारितं तदिति वाच्यम् । कर्मणोऽचेतनस्य प््रोरकेश्वरमन्तरेण कार्यकारणत्वायोगात् । तस्मादस्वतन्त्रो जीवः । तदाह जीवकर्तृत्वपक्ष इत्यादिना ।

तत्त्वप्रदीपिका

ब्रह्मण इतरस्य जीवस्य स्वतन्त्रकर्तृत्वं यदि व्यपदिश्यते तर्हि तस्य हिताकरणमहितकरणं दुःखप्राप्तिः सुखाप्रप्तिश्च न युज्यते । परतन्त्रत्वे तु युज्यते, अपरिहार्यत्वात् । अन्यथा हिताकरणादयो दोषाः प्रसज्येरन् । अतस्ते जीवे दृश्यमानास्तस्य स्वातन्त्र्यं निवारयन्ति ।

तत्त्वप्रकाशिका

अन्यथानुमितौ च ज्ञशक्तिवियोगादिति जीवकर्तृत्वस्य निराकरिष्यमाणत्वादेतेन शिष्टा अपरिग्रहा अपि व्याख्याता इति निराकृतत्वाच्च नैतदधिकरणारम्भो युक्त इत्याशङ्कापरिहारायाधि-करणार्थमाह ॥ जीवेति ॥ अत्र ‘जीवाद्भवन्ति भूतानि’ इति श्रुतिप्राप्तो जीवकर्तृत्वपक्षो निराक्रियते । उत्तरत्र तु समयप्राप्त इत्यर्थभेदः । श्रुतिप्राप्तस्य सङ्क्षेपतो निरस्तस्य विस्तरा-न्निराकरणाच्चावैयर्थ्यमिति भावः । न च वाच्यं तदनन्तरमेव निराक्रियतामिति । अत्र ‘यथा प्राणादिः’ इत्युक्ते पुनराशङ्कोदयात् । अत एवात्र विष्णोर्जगत्कारणत्वे जीवकर्तृत्वसाधक-युक्तिविरोधस्य परिह्रियमाणत्वादस्ति शास्त्रादिसङ्गतिः । विष्णोर्जगत्स्रष्टृत्वादिकमुक्तम् । तस्य च जीवकर्तृत्वसाधकयुक्तिविरोधे लक्षणत्वायोगात्स निराकार्य एव । तज्जगत्कर्तृत्वादि विषयः । विष्णोर्युक्तमयुक्तं वेति सन्देहः । श्रुतिविप्रतिपत्तिः श्रुत्यनुभवविप्रतिपत्तिर्वा सन्देहबीजम् । न विष्णोर्जगत्कर्तृत्वं युक्तमिति पूर्वः पक्षः । जीवस्यैव कर्तृत्वानुभवात् । स हि यत्कार्यमारभते तत्समापयतीत्यनुभूयते । न चायमनुभवो भ्रान्तः । बाधकाभावात् । न च वाच्यमस्तु जीवस्य कर्तृत्वम् । तच्चेश्वरप््रोरितमिति कल्पनागौरवापत्तेः । तथा हि ईश्वरस्तावदनुपलभ्यमानो नास्त्येव स च कल्पनीयस्तस्य च जीवप््रोरकत्वं कल्पनीयमप्रामाणिकमिति जीवस्यैव स्वतन्त्रकर्तृत्वाङ्गीकारे लाघवम् । एवं च परिदृश्यमानकार्याणां स्वतन्त्रजीवकर्तृत्वे समस्तजगतोऽपि तथात्वं सिद्ध्यति । तथा च श्रुतिः । ‘जीवाद्भवन्ति भूतानि’ इत्यादि । न चेश्वरविषयत्वं श्रुतेः । तस्यैवाभावात् । अतः श्रुत्यादिबलाज्जीवस्यैव स्वतन्त्रकर्तृत्वादसम्भवि जन्मादिकारणत्वलक्षणं ब्रह्मण इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ इतरेति ॥ यदि जीवकर्तृत्वस्य श्रुतौ व्यपदेशादिसिद्धत्वाज्जीवः स्वतन्त्रकर्तेत्युच्यते तर्हि तस्य हिताकरणमहितकरणं च न स्यात् । न हि स्वतन्त्रस्य ते सम्भवतः । विद्येते च ते जीवे अतोऽसौ न स्वतन्त्रकर्ता अपि तु परमेश्वर एवेति भावः ।

गुर्वर्थदीपिका

अन्यथानुमितौ च ज्ञशक्तिवियोगादिति वक्ष्यमाणसूत्रस्यायमभिसन्धिः । अन्यथाऽनुमितौ प्रकृत्युपसर्जनपुरुषानुमितौ क्रियमाणायां च जानातीति ज्ञः जीवः । तस्य शक्तिवियोगात् शरीर-प्रवेश एव स्वतः शक्त्यभावात् । भावे चान्यत्रापि स्वत एव प्रवृत्तिसम्भवात् शरीरप्रवेशवैयर्थ्य-मित्युभयथाऽपि जीवकर्तृत्वं न घटते इति । पुनराशङ्कोदयादिति वदता ‘यथा प्राणादिः’ इति सूत्रे प्राक् भगवतोऽनुप्रवेशः कथितः । स मास्तु । जीवानुप्रविष्टमेव शरीरं प्रवर्ततामिति पुनराशङ्कोदय इति सूचितम् । विद्येते च ते जीव इत्यत्र बहुकालं सुखेन जीवामीति यद्धितं, तस्याकरणं मध्य एव मरणात् । भुञ्जानस्य यदृच्छया स्वजिह्वादंशनादिकं यदहितं तस्य करणं चेत्यर्थः ।

भावबोधः

अनन्तरसङ्गतिं दर्शयति– अत्र यथा प्राणादिरित्युक्त इति ॥ ‘यथा प्राणादिः’ इति सूत्रे प्राणादिदृष्टान्तेन प्रकृतिपुरुषपदोक्तजीवरूपसाधनजातस्य परमात्माधीनत्वोक्तौ न जीवस्य परमात्माधीनत्वं युक्तं तस्य स्वातन्त्र्येण कर्तृत्वस्यानुभवसिद्धत्वादिति शङ्कोदयादित्यर्थः ॥ युक्तिविरोधस्येति ॥ श्रुतिसंवादयुक्तिविरोधस्येत्यर्थः । तेन ‘श्रुतिगुणयुक्तयः’ इत्यनेनैवैतदधि-करणोपाधिसङ्ग्रहोऽनुव्याख्याने कृत इति बोद्धव्यम् ॥ विष्णोरिति ॥ अत्र जगज्जन्मादिकारणत्वं विष्णोर्युक्तिविरुद्धं भवत्युत नेति चिन्ता । तदर्थं महदादिकार्यं स्वतन्त्रजीवकर्तृकं कार्यत्वाद् घटादिवदिति युक्तिर् जीवाद्भवन्तीति श्रुतिसंवादाज्जीवस्य जगत्कर्तृत्वसाधिकोत दृष्टान्तस्य साध्यविकलत्वेनासाधिकेति । तदर्थं जीवस्य स्वतन्त्रकर्तृत्वे बाधकं नास्त्युत हिताक्रियादिकृत्स्न-प्रसक्त्यादिरूपबाधकमस्तीति । तदर्थं जीवकर्तृत्वपक्षवद् ब्रह्मकर्तृत्वपक्षेऽपि श्रमचिन्ताप्राप्ति-कल्पनागौरवादिबाधकमस्त्युत नास्तीति । तदर्थमीश्वरे उक्तदोषपरिहारहेतुविशेषो नास्त्युतास्तीति ॥ कर्तृत्वानुभवादिति ॥ घटादिकार्येष्वित्यर्थः । ईश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्प-नालाघवमिति न्यायविवरणाभिप््रोतं दूषणमाह– कल्पनागौरवापत्तेरिति ॥ इदानीं न्यायविवरणं योजयति जीवस्यैवेति ॥ एवं चेति ॥ महदादिकमनन्याधीनजीवकर्तृकं कार्यत्वाद् घटवदिति प्रयोगो ज्ञातव्यः ।

नन्वेवं न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम् । किं तु घटादिकर्तृत्वं तावदनुभवसिद्धत्वात् कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गी-कारे कल्पनागौरवं स्यादित्यतो नेश्वरस्य सर्वकर्तृत्वमिति सुधाग्रन्थविरोध इति चेत्, न; ईश्वर-त्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवमिति न्यायविवरणस्य सर्वथेश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकार इति च योजनायां पक्षद्वयसाधारण्यमभिप््रोत्य ‘देवादिवदपि लोके’ इति सूत्र-निवर्तनीयतयाऽप्रामाणिकेश्वराङ्गीकारे कल्पनागौरवप्रसङ्गेन ईश्वर एव नास्तीति महदादिकार्येऽपि जीव एव कर्तेति पूर्वपक्ष्यभिप्रायोन्नयनेन टीका । अस्तु वा ईश्वरः, प्रामाणिकत्वात्; तथापि न तस्य जन्मादिसूत्रोक्तं सकलजगत्कारणत्वम्; किन्तु महदादिकार्यकर्तृत्वमेव । न तु घटादि-कर्तृत्वमपि । उभयोरपि तदङ्गीकारे गौरवप्रसङ्गादित्यभ्युपगमवादेन सुधायाः प्रवृत्तेर्विरोधशङ्काया एवाभावात् । भाष्ये दोषप्रसक्तिरिति सौत्रपदानुसारेणेतरव्यपदेशादित्यनन्तरं जीवकर्तृत्व इत्या-पादकाध्याहारः कृत इत्यभिप््रोत्य तद्व्याचष्टे– यदि जीवेत्यादिना ॥

भावदीपः

भाष्ये श्रुतिप्राप्त इति विस्तरादिति चोक्तपदद्वयव्यावर्त्यं क्रमेणाह ॥ अन्यथेति ॥ समयपाद इत्यर्थः ॥ श्रुतिप्राप्त इति ॥ आपाततः श्रुतिमूलयुक्तिप्राप्त इत्यर्थः । वेदवादरतो न स्यान्न पाषण्डी न हैतुकीत्युक्तवेदवादनिरासद्योतनाय श्रुतिप्राप्त इत्येवानुवादः कृतः ॥ पुनराशङ्को-दयादिति ॥ यथा प्राणादिरिति पूर्वाधिकरणोक्तं प्राणादिजीवानामस्वातन्त्र्यं न युक्तम् । जीव-कर्तृत्वस्यानुभवादिति शङ्कोदयादव्यवधानेनात्र निराकरणमित्यर्थः । एतेन विस्तरेण निराकरणं व्यर्थमिति प्रत्युक्तम् । अत एव शङ्काया उत्पन्नत्वादेवेत्यर्थः ॥ युक्तीति ॥ श्रुत्यनुभवसंवादि-युक्तीत्यर्थः । व्यपदेशादिति सौत्रोक्त्यनुरोधादाह ॥ श्रुतीति ॥ ‘यतो वा इमानि भूतानि जायन्त’ इति ‘जीवाद्भवन्ति भूतानि’ इति श्रुत्योर्विप्रतिपत्तिर्विरोध इत्यर्थः । उपसंहारदर्शनादित्युक्त्यनु-रोधादाह ॥ श्रुत्यनुभवेति ॥ उपसंहारसूत्रे भाष्योक्तं हेतुं तद्भाष्यं विवृण्वन्नाह ॥ जीवस्यैवेति ॥ ईश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवमिति न्यायविवरणोक्तं च हेतुं देवादिवदिति सूत्रव्यावर्त्यमत्र योजयितुं व्यावर्त्यशङ्कामाह ॥ न च वाच्यमिति ॥ कर्ता शास्त्रार्थवत्त्वादित्यत्र तथा वक्ष्यमाणत्वादिति भावः ॥ कल्पनेति ॥ एतेन कर्ता शास्त्रार्थवत्त्वादिति वक्ष्यमाणन्यायेन जीवस्य कर्तृत्वेऽप्यनुभवादिसामञ्जस्येनेश्वरकर्तृत्वे विरोधाभावादयं विचारो व्यर्थ इति परास्तम् । तस्यैवेह गौरवेणाक्षेपादिति भावः । कर्तुरीश्वरस्य दृष्टिविरोध इति भाष्यदिशा विवृणोति ॥ तथा हीति ॥ नास्त्येवेति ॥ अनुपलब्धिर्हि धर्मादिवदयोग्यत्वाद्वा मेर्वादिवद्देशकालादिव्यवहितत्वेन वाऽभिमानिनयन्यायेनान्तर्धानशक्त्या वा शशशृङ्गादिवदसत्वेन वा । नाद्यः । आपरोक्ष्याभावा-पातात् । न द्वितीयः । अदृश्यत्वनयोक्तदिशा नित्यसर्वगतत्वात् । न तृतीयः । तदव्यक्तमाह हीत्यव्यक्तैकस्वभावत्वोपगमात् । अतः परिशेषादसत्त्वमेवेति भावः ।ननु जीवकर्तृत्वपक्षे अनवस्थितेरसम्भवाच्च नेतर इत्युक्तदोषः स्यादित्यत उक्तम् ॥ जीवस्यैव स्वतन्त्रेति ॥ एतेन न्यायविवरणे स्वतन्त्रेति विशेषणं योज्यमिति दर्शितम् । एतेन वक्ष्यमाण-चेतनत्वयुक्तेरनुकूलतर्को दर्शितः । कार्यत्वयुक्तेर्दृष्टान्तश्चोपपादितः । अस्त्वेवं घटादौ जीवः कर्ता महदादौ क इत्यत आह ॥ एवं चेति ॥ महदादिकं जीवकर्तृकं कार्यत्वाद् घटवदिति भावः । युक्तिसंवादिनीं श्रुतिमाह ॥ तथा चेति ॥ इयं च एतेन शिष्टा अपरिग्रहा इत्यत्र भाष्योक्ता ॥ तस्यैवेति ॥ एतेन युक्तेः श्रुतिबाधोऽपि परास्तः । अत इत्यस्यार्थः श्रुत्यादीति ॥ यद्वा ईश्वरस्यैवाभावेन श्रुतेस्तत्परत्वायोगादित्यर्थः । आदिपदेन युक्त्यनुभवौ ग्राह्यौ । न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्यैव शङ्कितमिति सुधावाक्याविरोधश्चन्द्रिकायां स्फुटः । जीवकर्तृत्व इति भाष्यस्थमापादकं सूत्रारूढं कुर्वन्सूत्रार्थमाह ॥ यदीति ॥ असद्व्यप-देशान्नेति चेदित्यतश्चेदिति वर्तते । स च यद्यर्थः । यदितर्ह्योश्च नित्यान्वय इति भावः । श्रुतौ व्यपदेशादीति नित्यसाकाङ्क्षत्वात्समासः । आदिपदेन वक्ष्यमाणयुक्त्यनुभवौ ग्राह्यौ । एतेन हिताकरणादिदोषापादनं श्रुत्यनुभवयुक्तीनां तिसृणामप्याभासत्वासाधकं तासां स्वतो जीवकर्तृत्व-विषयकत्व इति सूचितमिष्टापत्तिं निराह ॥ विद्येते चेति ॥ अन्यथा सर्वो जनः पूर्णानन्दो निर्दुःखश्च सदा स्यादिति भावः । तर्ह्यनवस्थितेरसम्भवाच्चेत्युक्तदोषः स्यादित्याशङ्क्याह ॥ अपि त्विति ॥

अभिनवचन्द्रिका

अर्थभेद इति ॥ ननु प्रापकभेदादर्थभेदाभिधानमयुक्तम्, एकस्यैव वह्नेर् भेदाभावेऽपि प्रत्यक्षाऽनुमानाऽऽगमरूपप्रापकभेददर्शनादिति चेत्, न ब्रूमो वयमर्थभेदो विषयभेद इति, येनोक्त-दोषः स्यात्, किं नाम श्रुतिप्रामाण्यवादिना श्रुत्या जीवकर्तृत्वे शङ्किते तस्या अर्थान्तरवर्णनेन तदीयाऽऽशङ्कापरिहारोऽस्याधिकरणस्य प्रयोजनम् । समयप्रामाण्यवादिना पुनर्जीवकर्तृत्वे शङ्किते समयाप्रामाण्यव्युत्पादनं वक्ष्यमाणाधिकरणस्य प्रयोजनमिति प्रयोजनभेदोऽर्थभेदो इति ॥ अत एवेति ॥ श्रुतिप्राप्तस्य विस्तरान्निराकरणाय प्रवृत्तादस्मादेवाधिकरणाद्युक्तिविरोधस्य परिह्रिय-माणत्वादित्यर्थः ॥ जीवस्यैवेति ॥ कर्तृत्वं जीवस्यैव नान्यस्येत्यनुभवादित्यर्थः । ननु जीवस्य कर्तृत्वमात्रमनुभूयते न त्वन्यव्यवच्छेदः, ततश्चासिद्धिरित्यत आह– स हीति ॥ स हि जीवो यत्कार्यमारभते तत्समापयति आरब्धान्तगामित्वमनुभूयते । ततश्च जीव एव कर्ता नान्य इत्यनुभवो भवेदेवेति भावः ।ननु कुलालस्य मृत्पिण्डादिवन् नेश्वरः सहकारीत्यभ्युपगम्यते । येनानुभवविरोधः स्यात् किं नाम अन्तर्यामितया इत्याशङ्क्य निषेधति – न च वाच्यमस्त्विति ॥ अनुपलभ्यमान इति ॥ जीवशरीर इति शेषः । जीवान्तर्यामितया जीवशरीरस्थत्वे जीवेनोपलभ्येत, न हि तन्नियम्यः पटुकरणस् तन्न पश्यतीति सम्भवति । राजनियम्येषु भृत्येषु राजद्रष्टृत्वनियमात्, अनुपलम्भबाधितत्वाज् जीवान्तर्यामितया जीवस्थित्यभिधायकं वाक्यमपि प्रतीतार्थे अप्रमाण-मेवेति भावः । अत्र पूर्वपक्षिणा नेश्वरस्य सर्वथा सत्त्वमुच्यते किन्तु जीवप्रेरणाय जीवस्थित्यादिरूपैश्वर्यविशिष्टतया सत्त्वमुच्यते । अनुपलम्भाभिधानात् । यद्देशेऽनुपलम्भस्तद्देशे तदभावसाधनस्यैव युक्तत्वात् । अवश्यं चैतदेवं विज्ञेयम् ब्रह्मणो जगत्कारणत्वाक्षेपस्य पूर्वपक्ष-फलत्वात् । अन्यथा तन्न स्यात् । ब्रह्माभावेन तज्जगत्कारणत्वाक्षेपसम्भवे ब्रह्माभावेन जीवस्य स्वातन्त्र्यं प्रसाध्य तत्फलतया ब्रह्मकारणत्वाक्षेपाभिधानवैयर्थ्यात् ॥ समस्तजगतोऽपीति ॥ तथात्वं जीवकर्तृत्वम्, अनीश्वरकर्तृत्वमिति यावत् । अयं भावः । घटादिकार्याणां स्वतन्त्रजीवकर्तृत्वे सिद्धे महदादिकार्यकर्तुः परमेश्वरस्य कुलालादिनियामकत्वरूप-परमैश्वर्यवैधुर्याज्जीवत्वं नेश्वरत्वमिति । अवश्यं चैतदेवं विज्ञेयं जीवस्य सशरीरस्यैव कर्तृत्वं घटादौ दृष्टमिति महदाद्युत्पत्तिसमयेऽशरीरस्य तस्य तत्कर्तृत्वायोगात् । तदुक्तं सुधायाम् – ‘न ह्यत्राधिकरणे महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितं, किन्तु घटादिकर्तृत्वमिति नेश्वरस्य सर्वकर्तृत्वम्’ इति च ॥ तस्यैवाभावादिति ॥ परमैश्वर्यादिविशिष्टस्यैवाभावादित्यर्थः । इदमत्राकूतम् । ‘जीवाद्भवन्ति’ इति श्रुतेरीश्वरपरत्वं वदन् प्रष्टव्यः किं जीवसाधारणब्रह्मपरत्वं श्रुतेरभिमतम्, आहोस्वित् परमैश्वर्यादिविशिष्टब्रह्मपरत्वम् । आद्ये न नो हानिः । सर्वजीवानां सम्भूय सर्वजगत्कारणत्वं वदद्भिरस्माभिरपि ‘जीवाद्भवन्ति’ इति श्रुतिर् घटादीनां कुलालजन्यत्वमिव महदादीनां जीवतुल्यब्रह्मजन्यत्वं वक्तीत्यङ्गीकारात् । द्वितीये त्विदमुपतिष्ठते तस्यैवाभावादिति ॥ जीवस्यैव स्वतन्त्रकर्तृत्वादिति ॥ घटादाविति शेषः ॥ असम्भवीति ॥ ब्रह्मणो महदादिकारणत्वेऽपि जन्मादिसूत्रोक्तं सर्वकारणत्वमसम्भवीति भावः ।

ननु अत्र सूत्रे हिताकरणादिर्दोष उच्यते, भाष्ये तु हिताकरणम्, अहितकरणं च न स्यादिति तदभाव आपाद्यते, अतोऽपव्याख्यानमित्यत आह यदि जीवस्येति ॥ ‘जीवाद्भवन्ति भूतानि’ इति व्यपदेशबलाज् जीवः स्वतन्त्रकर्तेत्युच्यते, तर्हि राजाद्यनधीनत्वादिरूपहिताकरणं तदधीनत्वादिरूपाहितकरणं च न स्यादित्यर्थः । इदमुक्तं भवति । स्यादयं सूत्रभाष्ययोर्विसंवादः, यदि सूत्रस्य हिताकरणरूपदोषप्रसक्तिरित्यर्थो भवेत्, न चैवं हिताकरणादेः प्रामाणिकत्वेन तदापादने इष्टापादनप्रसङ्गात्, किं नाम हिताक्रियादेर् दोषप्रसक्तिर् असत्त्वप्रसक्तिरित्यर्थोऽभिमतः, भाष्यकृता च हिताकरणम् अहितकरणं च न स्यादिति तदेवोक्तमिति न विसंवादः ॥ न हि स्वतन्त्रस्य ते सम्भवत इति ॥ स्वेष्टं कर्तुम् अनिष्टमकर्तंु यत् स्वकारणायातं तच्चान्यथाकर्तुं समर्थस्यैव स्वतन्त्रत्वेन जीवः स्वतन्त्रः, असमर्थश्च स्वेष्टकरणे अनिष्टाकरणे चेत्यस्य व्याहतत्वादिति भावः ।

वाक्यार्थमुक्तावली

अनन्तरसङ्गतिं दर्शयति अत्रेति ॥ ननु श्रुतिप्राप्तस्य निरासो हि तृतीयपादे सङ्गतस् तत्कथ-मत्रेत्यत आह अत एवेति ॥ यथा प्रणादिरिति ॥ पूर्वाधिकरणोक्तप्राणादिजीवानाम-स्वतन्त्रत्वमयुक्तं जीवकर्तृत्वस्यानुभवात् । अत एव जीवाद्भवन्तीत्यस्यार्थान्तरपरत्वायोगादिति श्रुत्यनुभवसंवादेनाधिकहेतुना पुनर्जीवमात्रविषयाभ्यधिकाशङ्कायाः प्राप्तत्वादेव श्रुत्यनुभवसंवादि-युक्तिविरोधस्य परिह्रियमाणत्वादेवेत्यर्थः । अत एव सिद्धान्ते इतरव्यपदेशादित्यत्र पूर्वपक्ष्यभि-मता श्रुतिः । उपसंहारदर्शनादित्यत्रानुभवो ऽश्मादिवदित्यत्र युक्तिर्निरस्यत इति भावः ॥ विष्णोरिति ॥ अत्र जन्मादिसूत्रोक्तं ब्रह्मण एव स्वतन्त्रकर्तृत्वं श्रुत्यनुभवयुक्तिविरुद्धं न वेति चिन्ता । तदर्थं हिताकरणादिकृत्स्नदोषप्रसक्त्यादिबाधकवशात् श्रुतेरन्यार्थत्वम् । अनुभवस्य भ्रान्तत्वं युक्तेराभासत्वं कल्पयितुं न शक्यते उत शक्यते वेति । तदर्थं जीवकर्तृत्वपक्ष इव ब्रह्मकर्तृत्वपक्षेऽपि श्रमचिन्तादिकल्पनागौरवादिबाधकमस्त्युत नास्तीति ॥ श्रुतिविप्रतिपत्ति-रिति ॥ ‘जीवाद्भवन्ति’ ‘यतो वा’ इत्यादि श्रुतिविप्रतिपत्तिरित्यर्थः । उपसंहारदर्शनादित्युक्त-पूर्वपक्षमाह जीवस्यैवेति ॥ घटादिकार्येष्वित्यर्थः । हिताकरणादिदोषप्रसक्तिः कृत्स्नप्रसक्तिरिति सूत्रव्यावर्त्यमाह बाधकाभावादिति ॥ यथाप्राणादिरित्यनेन गतार्थतामाशङ्क्य परिहरन् देवादि-वदपि लोक इति सूत्रव्यावर्त्यं दर्शयन् लघुतेत्युक्तन्यायं विवृणोति न च वाच्यमित्यादिना ॥ कर्ता शास्त्रार्थेति नये तथा वक्ष्यमाणत्वादिति भावः । एतेन कर्तेत्यत्र वक्ष्यमाणन्यायेन जीवस्य कर्तृत्वेऽपीश्वरकर्तृत्वे विरोधाभावादयं विचारो व्यर्थ इति परास्तम् । तस्यैवेह गौरवेणाक्षेपादिति ॥ नास्त्येवेति ॥ अनुपलब्धिर्हि धर्मादिवदयोग्यत्वाद्वा मेर्वादिवद्बहुदेशव्यवहितत्वाद्वा अभिमानिनयन्यायेनान्तर्धानशक्त्या वा नृशृङ्गादिवदसत्वेन वा । नाद्यः । अपरोक्षाभावापातात् । न द्वितीयः । अदृश्यत्वनयरीत्या नित्यसर्वगतत्वात् । न तृतीयः । तदव्यक्तमाह हीत्यव्यक्त-स्वभावत्वोपगमात् । अतः परिशेषादसत्वमेवेति भावः ।

ननु जीवस्यैव कर्तृत्वाङ्गीकारेऽनवस्थितेरसम्भवाच्च नेतर इत्युक्तं चेन्नोक्तदोष इत्यतः कर्तृत्वं विशिनष्टि जीवस्यैव स्वतन्त्रेति ॥ एवं चेति महदादिकमन्यानधीनजीवकर्तृकं कार्यत्वाद्घटवदिति प्रयोगो दृष्टव्यः । नन्वेवं न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्य शङ्कितं किन्तु घटादिकर्तृत्वं तावत् कुलालादीनां न त्यक्तुं शक्यम् । तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पनागौरवमित्यतो नेश्वरस्य कर्तृत्वमिति सुधाविरोध इति चेन्न । ईश्वरत्यागेन जीवस्यैव कर्तृ-त्वाङ्गीकारे कल्पनालाघवमिति न्यायविवरणस्य सर्वथेश्वरत्यागेन महदादिकार्ये जीवस्यैव कर्तृ-त्वाङ्गीकार इति घटादिकार्ये ईश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकार इति योजनाद्वयमभिप््रोत्य प्रामाणिकेश्वराङ्गीकारे कल्पनागौरवप्रसंगेनेश्वर एव नास्तीति महदादिकार्येऽपि जीव एव कर्ता । अदृष्टद्वारोपपत्तेः । युक्तं चोपादानाद्यपरोक्षं विनापि कर्तृत्वम् । चैत्रः शब्दं करोतीत्यादौ दर्शना-दिति । आद्ययोजनानुसारेण टीकाप्रवृत्तेः । अस्तु वेश्वरः प्रामाणिकत्वात्तथापि तस्य जन्मादि-सूत्रोक्तं सर्वकर्तृत्वं किन्तु महदादिकर्तृत्वमेव न तु घटादिकर्तृत्वमपि । उभयोरपि तदङ्गीकारे गौरवमित्यभ्युपगमवादेन द्वितीययोजनानुसारेण सुधाप्रवृत्युपपत्तेरिति । अत एव टीकायां यद्वेति पक्षान्तरं वक्ष्यतीति ज्ञेयम् । इतरव्यपदेशादिति सूचितपूर्वपक्षमाह तथा चेति ॥ अत इति ॥ ईश्वरस्यैवाभावेन श्रुतेस्तद्विषयत्वायोगादित्यर्थः । दोषप्रसक्तिरित्यापादनानुसारेणेतरव्यपदेशा-दित्यनन्तरं तदेव इतरव्यपदेश इति सप्तम्यन्तं विपरिणम्यते । इतरस्य जीवस्य कर्तृत्वव्यपदेशे कर्तृत्वे उच्यमान इति तदर्थ इति भावेन जीवकर्तृत्वपक्षे इत्यापादकमुक्तं भाष्य इत्यभिप््रोत्य तद्व्याचष्टे यदीत्यादिना ॥ सौत्रस्येतरशब्दस्य प्रस्तुतब्रह्मकर्तृत्वादितरो जीवकर्तृत्वमर्थः । तथा च जीवकर्तृत्वस्य श्रुतौ व्यपदेशात्स एव स्वतन्त्रः कर्तेति यद्युच्यते तर्हि हिताकरणादेर्जीवे भास-मानस्य विरोधलक्षणदोषप्रसक्तिः स्यात् । तस्यास्वतन्त्रे उचितस्य स्वतन्त्रे विरोधात् । तथा च तन्न स्यादिति यावत् । विद्यते च एतज्जीव इति वाऽसौ स्वतन्त्र इति पूर्वसूत्रार्थ इति भावः । हिताकरणादिरूपदोषप्रसक्तिरिति व्याख्याने सूत्रभाष्ययोर्विरोधः स्यात् । हिताकरणादिदोषापादनं श्रुतियुक्त्यनुभवानां त्रयाणामप्याभासतासाधक इति सूचयितुं व्यपदेशादित्युक्तम् ॥ विद्यते चेति ॥ अन्यथा सर्वोऽपि परमानन्दो निर्दुःखश्च स्यादिति भावः ।

तत्त्वसुबोधिनी

ननु च तथापि श्रुतिप्राप्तजीवकर्तृत्वस्य एतेनेत्यत्र निराकृतत्वाद्व्यर्थम् इत्यत आह ॥ श्रुति-प्राप्तस्येति ॥ अनन्तरसङ्गतित्वादत्रोक्तमित्याह अत्र यथा प्राणादिरित्युक्त इति ॥ यथा प्राणादिरिति सूत्रे प्राणादिदृष्टान्तेन प्रकृतिपुरुषपदोक्तजीवरूपसाधनजातस्य परमात्माधीनत्वोक्तौ न जीवस्य परमात्माधीनत्वं युक्तम् । तस्य स्वातन्त्र्येण कर्तृत्वस्य अनुभवसिद्धत्वादिति शङ्कोदयादित्यर्थः ॥ अत एवेति ॥ श्रुतिप्राप्तजीवकर्तृत्वस्य । एतदधिकरणे(ति)करिष्यमाणत्वादेवेत्यर्थः ॥ युक्ति-विरोधस्येति ॥ श्रुतिसंवादियुक्त्यविरोध एव एतदधिकरणोपाधिरिति भावः ॥ श्रुत्यनुभव-विप्रतिपत्तिर्वेति ॥ विष्णुकर्तृत्वप्रापकश्रुतेर् जीवकर्तृत्वप्रापकानुभवस्य च विप्रतिपत्तिरित्यर्थः । अनुभवमेव दर्शयति ॥ स हि इति ॥ एवं चेति ॥ महदादिकम् अन्यानधीनजीवकर्तृकं कार्यत्वाद् घटवदिति प्रयोगादिति भावः ।

भाष्ये दोषप्रसक्तिरिति सौत्रापादनानुसारेण, इतरव्यपदेशादित्यनन्तरं जीवकर्तृक इत्या-पादकाध्याहारः कृत इत्यभिप््रोत्य तद्व्याचष्टे ॥ यदि जीवेत्यादिना ॥ स्वतन्त्रकर्तृत्वेऽप्यस्य हिताकरणादिकमत आह न हीति ॥ जीवे हिताकरणादिकं नास्त्येवेत्यत आह ॥ विद्यते चेति ॥

वाक्यार्थविवरणम्

ननु श्रुतिप्राप्तस्यापि पूर्वं निराकृतत्वाद्वैय्यर्थमित्यत आह ॥ श्रुतिप्राप्तस्येति ॥ नास्त्येवेति ॥ यन्नोपलभ्यते तन्नास्त्येवेति व्याप्तेरिति भावः ॥ लाघवमिति ॥ धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायादिति भावः ॥ श्रुतिरिति ॥ भूतानीति बहुवचनसत्त्वेन उक्तार्थ-सिद्धिरिति भावः । नन्वितरस्य जीवकर्तृत्वस्य श्रुतौ व्यपदेशाज्जीवः स्वतन्त्रकर्तेत्यङ्गीक्रियते तर्हि जीवस्य हिताकरणमहितकरणं च न स्यादिति भाष्योक्ततर्कः सङ्गच्छते । अनिष्टापादनरूप-त्वात् । विद्येते च ते जीवे । अतो न स्वतन्त्रकर्तेति विपर्ययपर्यवसानसम्भवाच्च । न तु सूत्रोक्तस्तर्कः । ‘यदि इतरव्यपदेशाज्जीवः स्वतन्त्रकर्ता स्यात्तदा जीवस्य हिताक्रियादिदोषप्रसक्तिः स्यात्’ इत्यापादने इष्टापत्तिः । विपर्ययपर्यवसानं न स्यादिति । भाष्येण सूत्रव्याख्यालाभश्च कथमिति चेदुच्यते । सूत्रे ‘इतरव्यपदेशात्’ इत्यनन्तरं ‘स्वतन्त्रकर्तुः’ इति शेषः कार्यः । तथा च ‘इतरव्यपदेशाद्यदि जीवः स्वतन्त्रकर्ता स्यात्तदा स्वतन्त्रकर्तुश्च हिताक्रियादिदोषप्रसक्तिर-निष्टा । न हि स्वतन्त्रस्य हिताक्रियादिके सम्भवतः । विद्येते च ते जीवे । अतो न स्वतन्त्रकर्ता इति विपर्यये पर्यवसानस्यापि सम्भवात् । एतदभिप््रोत्यैव टीकायां ‘न हि स्वतन्त्रस्य ते सम्भवतः । विद्यते च ते जीवेऽतोऽसौ न स्वतन्त्रकर्तेत्यभिहितम् । भाष्यं तु न सूत्रव्याख्यानपरं किं नाम सूत्रतात्पर्यकथनमात्रपरमिति ध्येयम् । एतद्भाष्यमनुसृत्यैव टीकाकारैरपि । तर्हि तस्य हिताकरणमहितकरणं च न स्यादित्युक्तमिति न कश्चिद्दोष इति सम्प््रादायविदः ।

वाक्यार्थमञ्जरी

तदनन्तरम् एतेनेत्यनन्तरम् । अत एव शङ्कोदयादेव । अनुभवात् ॥ घटादिकार्ये भ्रान्त इति भावे क्तः भ्रान्तिरित्यर्थः ॥ एवं चेति ॥ महदादिकमन्यानधीनजीवकर्तृकं कार्यत्वाद्घटवदिति प्रयोगादिति भावः । इतरस्य जीवस्य जीवाद्भवन्तीत्यत्र कारणत्वेन व्यपदेशात्तस्य स्वतन्त्र-कारणत्वमिति यदि तर्हि हिताकरणाहितकरणयोर्दोषत्वप्रसक्तिस् ते तस्य न स्यातामिति यावत् । न हि स्वतन्त्रस्य तद्द्वयं युक्तम् । ईश्वराधीनकर्तृकत्वे च स यथा कारयति तथा करोतीति न दोषत्वमिति भावः ।


ॐ अधिकं तु भेदनिर्देशात् ॐ

सूत्रभाष्यम्

॥ ॐ अधिकं तु भेदनिर्देशात् ॐ ॥ २३ ॥

न च ब्रह्मणः श्रमचिन्तादिदोषप्राप्तिः । अधिकशक्तित्वात् । ‘श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता सर्वेषां भूतानामन्तरपुरुषः’ (ऐ.आ.३-२-४) ‘एष त आत्मा सर्वान्तरः’ (बृ.उ.५-५-१) ‘योऽशनायापिपासे शोकं जरां मृत्युमत्येति’ (बृ.उ.५-५-१) इत्यादि-विशेषनिर्देशात् ।

सत्तर्कदीपावली

एतेन शिष्टा अपरिग्रहा अपि व्याख्याता इत्यत्र संक्षेपेण निराकृतत्वात् श्रुतिप्राप्तजीव-कर्तृत्वपक्षस्य विस्तरान्निराक्रियेत्युक्तम् । परमेश्वरस्यैव स्वातन्त्र्यमिति प्रतिपादयितुं जीवस्वातन्त्र्ये दूषिते परश्चोदयति । बहुकार्यव्यापृतस्य कर्तुः श्रमचिन्तादिदोषदर्शनाज्जगत्कर्तुरपि श्रमचिन्तादि-दोषप्रसक्तेर् जीववत्पारतन्त्र्यमिति । तन्न वाच्यम् । जगत्कर्तुरीश्वरस्य ग्राहकेण वेदेन सर्वसामर्थ्य-युक्तत्वेन सर्वदोषरहितत्वेन गृहीतत्वात् । धर्मिग्राहकप्रमाणविरोधापत्तेः । तथाहि । ‘श्रोतामन्ता’ इत्यादि-श्रुत्या परमात्मनो युगपत्सर्वश्रोतृत्वसर्वमन्तृत्वसर्वद्रष्टृत्वसर्वादेष्टृत्वादि सर्वसामर्थ्यं श्रूयते । ‘एष त आत्मा सर्वान्तरः’ इत्यादिश्रुत्या एतस्यैव अशनायापिपासादिसर्वदोषराहित्यं श्रूयते । ‘य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सो पिपासः सत्यकामः सत्यसङ्कल्पः’ इत्यादिश्रुत्या दृढीक्रियते । मूकोऽहमिति वदीश्वरः श्रमचिन्तादिमानिति प्रतिज्ञापदव्याघातश्च स्यात् । कर्तुमकर्तुमन्यथाकर्तुं सर्वकर्तृत्वादीश्वरस्य । एतदाह । अधिकमित्यादिना ।

तत्त्वप्रदीपिका

ननु ब्रह्मणोऽपि सर्वदा सृष्ट्यादिकरणात् श्रमस्तत्र तत्रोपायादिचिन्ता च स्याल्लोकवत्, स्वविद्वेषिनिर्माणायुक्तिश्चेत्यत आह– अधिकं तु भेदनिर्देशात् ॥ चिन्तादीत्यादिशब्दाद्विद्वेषि-निर्माणादिनाऽपि नास्य दोषो भवति । अधिकशक्तित्वान् निर्दोषगुणपूर्णहेयोपादेयरहितत्वात् । अल्पशक्तीनां हि दोषा भवेयुः । अधिकशक्तित्वमधिकं च प्रमाणतः प्रख्यापयिष्यति ‘सर्वोपेत’ इति । श्रोत्रादिशब्दैस्सर्वश्रोतृत्वादिकमत्र विवक्षितं स्वातन्त्र्येण च । सङ्कोचकारणाभावान्मुख्यस्वीकारो-पपत्तेः । नाश्रुतत्वश्रोतृत्वादिकं जीवानां युक्तम् । ‘नान्योऽतोऽस्ति श्रोता’ इत्यादि च स्वातन्त्र्यापेक्षया ह्युच्यते । ‘एष त आत्मा अन्तर्याम्यमृत’ इत्युक्तेरतोऽधिकत्वेन वैलक्षण्यनिर्देश एवायम् । भूता-नामान्तरत्वं चाधिकशक्तित्वोपपादकं वैलक्षण्यम् । न हि दुःखिनां सर्वेषामन्तःस्थित्वा रमणमधिकशक्तित्वमन्तरेण सम्भवति ।

तत्त्वप्रकाशिका

यदि यत्किञ्चिद्दोषमात्रेण जीवकर्तृता निराक्रियते तर्हि ब्रह्मणोऽपि कर्तृत्वं न प्राप्नोति । तस्यापि श्रमादिदोषनियमात् । एवं च पक्षयोः साम्येऽनुभवादिसिद्धं जीवकर्तृत्वमेवाश्रयणीयमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ अधिकमिति ॥ तुशब्दः साम्यव्यावर्तकः । भवेद् ब्रह्मप्रतिबन्ध्या जीवस्य कर्तृत्वसमर्थनम् । यदि ब्रह्मणि श्रमचिन्तासाधनस्मरणदुःखादिदोषा भवेयुः । न च ते तत्र सन्ति । श्रुतिषु तस्य सर्वेभ्योऽखिलश्रोतृत्वान्तर्यामित्वाशनायाद्यतीततत्वाद्यतिशयस्य निर्देशात् । न ह्येवंविधस्य ते दोषाः शङ्कितुमपि शक्यन्त इति भावः ।

भावदीपः

सौत्रतुशब्दव्यावत्यं व्यञ्जयन्नवतारयति ॥ यदि यत्किञ्चिदिति ॥ न च ब्रह्मणः श्रम-चिन्तादिदोषप्राप्तिरिति भाष्यमुत्सूत्रमिति भ्रमनिरासायाह ॥ तुशब्द इति ॥ एतमेवार्थं भाष्य-विवरणेन व्यनक्ति ॥ भवेदिति ॥ आदिपदार्थोक्तिः साधनेत्यादि । आत्मेत्यस्यार्थ अन्तर्यामित्वेति ।

अभिनवचन्द्रिका

यदि यत्किञ्चिद्दोषमात्रेणेति ॥ दोषस्य यत्किञ्चित्त्वोक्तिस् तर्कस्य श्रुतिविरोधेनाभासत्व-सूचनायेति बोध्यम् । उभयत्रापि तर्कविरोधसाम्ये किं जीवस्वातन्त्र्याग्रहेणेत्यत आह– अनुभवादि- सिद्धमिति ॥ ईश्वरस्वातन्त्र्यं श्रुतिमात्रसिद्धं जीवस्वातन्त्र्यं तु श्रुत्यनुभवसिद्धमिति भावः ॥ एवंविधस्येति ॥ शोकाद्यभाववत्तया प्रमाणसिद्धस्येत्यर्थः ।

वाक्यार्थमुक्तावली

न च ब्रह्मण इति भाष्यमुत्सूत्रमिति भ्रमनिरासायाह तुशब्द इति ॥ तुशब्दो विशेषार्थः । स च श्रमाद्यभावरूप इति भावः । न ह्येवंविधस्य श्रुतिसिद्धसर्वश्रोतृत्वादिप्रयोजकातिशयवत अशनायाद्यतीतत्वादितत्प््रायोज्यातिशयवत इत्यर्थः । श्रमवतः श्रवणादिकर्तृत्वायोगात् । चिन्ता-साधनस्मरणादिदोषाणां सर्वज्ञेऽयोगात् । दुःखस्यानन्दोद्रेकेण सर्वनियामकत्वादिशक्तिमत्वा-योगाद् इति भावः । ततश्च ब्रह्मजीवाद्विशेषवत् तद्वच्छ्रमादियुक्तं न भवति । अधिकमिति पदं हेतुगर्भमेतद् अधिकशक्तित्वात् । न च तदसिद्धम् । भेदनिर्देशात् । भेदस्य सर्वश्रोत्रत्वादि-शक्त्यतिशयस्य । अत एव श्रमचिन्ताशनायातीतत्वादिदोषाभावरूपस्य जीवाद्विशेषस्य श्रुतौ निर्देशादिति सूत्रार्थः ।


ॐ अश्मादिवच्च तदनुपपत्तिः ॐ

सूत्रभाष्यम्

॥ ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ २४ ॥

चेतनत्वेऽप्यश्मादिवदस्वतन्त्रत्वात्स्वतः कर्तृत्वानुपपत्तिर्जीवस्य ।

‘यथा दारुमयीं योषां नरः स्थिरसमाहितः ।

इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः’ इति भारते ॥

सत्तर्कदीपावली

जीवास्वातन्त्र्यं यदुक्तं दृढीकरोति ॥ अश्मादिवदित्यादिना ॥ चेतनप््रोरिताचेतनदृष्टान्तेन जीवानाम् ईशप््रोर्यत्वे प्रमाणमाह ॥ यथेति ॥ नरो यथा दारुमयीं योषां नियमयति । तदङ्गानि च इङ्गयति तथा हरिर् इङ्गयतीमाः प्रजा इत्यर्थः ।

तत्त्वप्रदीपिका

ननु यदश्मादीनां कर्तृत्वविरोध्यचेतनत्वं न तज्जीवानामस्ति । तस्माद्वैलक्षण्यात्तेभ्योऽधिक-शक्तित्वात्कर्तृत्वं च स्यादित्यत आह– ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ॥ यद्यपि चेतनत्वविशेषस्तथाऽपि पारतन्त्र्ये न कश्चिद्विशेष इत्यभिप््रौत्यश्मदार्वादिकमुदाहरन् । अश्मादिवदल्पमपि न स्वतः कर्तृत्वम् । किं पुनर्जगद्विषयमिति । ‘समाहितं’ समाधानम् । ‘नपुंसके भावे क्तः’ इति सूत्राद्भावेऽपि क्तप्रत्यय-दर्शनात् । स्थिरसमाधान इत्यर्थः । अङ्गं हस्तादि, अङ्गानि अङ्गुल्यादीनि । न चास्वतन्त्रत्वादित्य-सिद्धो हेतुः । हिताकरणादिना साधितत्वात् । आनुभविकत्वाच्च सर्वस्य ।

तत्त्वप्रकाशिका

अथापि जीवोऽन्यनिरपेक्षतया कर्ता चेतनत्वादीश्वरवदिति किं न स्यात् । न चेश्वराभ्युप-गमानभ्युपगमाभ्यां विरोधः । परसिद्धेनैव न्यायेन परस्य बोधनादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ अश्मादिवच्चेति ॥ न चेतनत्वहेतुना जीवस्यान्यानपेक्षकर्तृत्वं साध्यम् । अस्वातन्त्र्येण हेतुना अश्मादिवत्तदभावस्यापि साधयितुं शक्यत्वात् । स्वतन्त्रो ह्यन्यनिरपेक्षः कार्यं करोति चेतनत्वं त्वप्रयोजकमिति भावः । चोऽपिशब्दार्थः । एतेन कर्मसापेक्षतया हिताक्रियादिदोषपरिहारोऽपि परास्तः । तस्याप्यस्वतन्त्रत्वात् । अस्वातन्त्र्यमेव जीवस्य कुत इत्यत आह ॥ यथेति ॥ अस्वातन्त्र्यस्य हिताक्रियादिनैव सिद्धौ सूत्रार्थे सम्मतिर्वा ।

गुर्वर्थदीपिका

इङ्गयत्यङ्गमङ्गानीत्यत्र कृत्रिमप्रतिमाया एकैकावयवचलनमात्रे अपेक्षिते तदङ्गमेवेङ्गयति । नर्तनविशेषादौ सर्वाङ्गचालने अपेक्षिते अङ्गानि इङ्गयतीति सम्बन्धः ।

भावबोधः

ईश्वराभ्युपगमेति ॥ अभ्युपगमे दृष्टान्तधर्मिग्राहकमानविरोधः, अनभ्युपगमे दृष्टान्ताभाव इत्यर्थः ॥ परसिद्धेनैवेति ॥ तथा च नेदं साधनानुमानं किन्तु दूषणानुमानम् । यदीश्वरोऽ-नन्यापेक्षया जगत्कर्ता तर्हि चेतनत्वाविशेषाज्जीवोऽपि तथैव जगत्कर्ता स्यादिति परसिद्धेनैव परस्य बोधनादित्यर्थः । यथोक्तमनुव्याख्याने–‘स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम्’

इति । ‘च’ शब्दोऽपिशब्दार्थ इति । तथा चापीत्यस्य तथापीत्यर्थः । तस्यार्थः– चेतनत्वेऽपीति भाष्येऽभिहित इति भावः ॥ कर्मसापेक्षतयेति ॥ जीवस्य स्वतन्त्रकर्तृत्वेऽपि न हिताक्रियादिदोषप्रसक्तिः । स्वीयहितप्रतिबन्धकाहितकारणीभूतकर्मवशात्तदुपपत्तेरिति भावः ।

भावदीपः

विरोध इति ॥ अभ्युपगमे अन्यनिरपेक्षतयेत्युक्तिविरोधः । अनभ्युपगमे ईश्वरवदित्युक्ति-विरोध इत्यर्थः । भाष्यं व्याचष्टे ॥ न चेतनत्वेति ॥ स्वतःशब्दार्थोऽन्यानपेक्षेति । हेतोर-प्रयोजकत्वमाशङ्क्यानुपपत्तिपदतात्पर्यमाह ॥ स्वतन्त्रो हीति ॥ हेतूच्छित्तिरेव विपक्षे बाधिकेति भावः । उक्तहेतोः का गतिरित्यत आह ॥ चेतनत्वं त्विति ॥ प्रागुक्तलाघवतर्कस्तु निरसिष्यत इति भावः । चेतनत्वेऽपीति भाष्यमुत्सूत्रमिति भ्रमनिरासायाह ॥ चोऽपीति ॥ अनुक्तसमुच्चय इति भावः ॥ एतेनेति ॥ अश्मादिवदित्युक्तिलब्धास्वातन्त्र्यहेतुनेत्यर्थः ।

अभिनवचन्द्रिका

ईश्वरवदिति ॥ कुलालादिजीवनियामकेश्वरवदित्यर्थः ॥ ईश्वराभ्युपगमानभ्युपगमाभ्यामिति ॥ कुलालादिजीवान्तर्यामीश्वराङ्गीकारानङ्गीकाराभ्यामित्यर्थः ॥ अस्वातन्त्र्येण हेतुरिति ॥ अन्याधीनत्वेन हेतुना परनिरपेक्षकर्तृत्वाभावस्यापि साधयितुं शक्यत्वादित्यर्थः ॥ स्वतन्त्रो हीति ॥ अन्यानधीनत्वाद्धीश्वरो ऽन्यमनपेक्ष्य कार्यं करोति न तु चेतनत्वात् । ततश्च तदप्रयोजक-मिति भावः ॥ एतेन कर्मसापेक्षतयेति ॥ ईश्वरस्य कर्मसापेक्षत्वाद्वैषम्यनैर्घृण्ययोर् दोषत्वपरिहारवज् जीवस्यापि कर्मसापेक्षत्वात् हिताक्रियादीनामसत्त्वपरिहारोऽपि परास्त इत्यर्थः ॥ तस्याप्यस्वतन्त्र-त्वादिति ॥ तस्यापि कर्मानुसरणस्यापि अस्वतन्त्रत्वादस्वातन्त्र्यनिमित्तकत्वादित्यर्थः । अयं भावः भवेदीश्वरस्य कर्मसापेक्षत्वेऽपि स्वातन्त्र्यं तस्य स्वेच्छयैव वेदप्रामाण्यपरित्राणाय कर्म-सापेक्षत्वस्वीकारात्, न जीवस्य कर्मसापेक्षत्वे स्वातन्त्र्यम् । तदीयकर्मसापेक्षत्वस्य स्वेच्छा-निमित्तत्वाभावात् । न हि स्वानिष्टं कुर्वन् जीवस् तत्कर्म ज्ञात्वा स्वेच्छयैव तदुपादाय दुःखं भुङ्क्ते । किन्तु विष्टिगृहीतवद् अजानन्नेव, कर्मानुसारि फलं भुङ्क्ते इति वैषम्यान् नेश्वरप्रतिबन्ध्या तस्य स्वातन्त्र्यसिद्धिरिति । पक्षे पराधीनत्वमेव कुतः प्रमाणात् सिद्धमिति पृच्छति – अस्वातन्त्र्यमेवेति ॥

वाक्यार्थमुक्तावली

न चेश्वरेति ॥ ईश्वराभ्युपगमदृष्टान्तधर्मिग्राहकविरोधोऽनुमानस्य । तदनभ्युपगमे दृष्टान्ताभाव इति भावः ॥ परसिद्धेनैवेति ॥ तथा च नेदं साधनानुमानं किंतु दूषणानुमानमेव । दूषणानुमानं चेह इष्टमयोगरूपं प्रमितिसाधनं प्रयोगरूपं वा । यदीश्वरो ऽन्यानिरपेक्षकर्ता स्यात्तर्हि जीवोऽपि स्यात् । चेतनत्वाविशेषादित्यापादनरूपं वा । अत एव प्रयोगं प्रदर्श्य किं न स्यादित्युक्तं ज्ञेयम् । चेतन-त्वेऽपीति भाष्यमुत्सूत्रमिति भ्रमनिरासायाह– चोऽपीति ॥ ततश्च सूत्रे इतरस्येत्यनुवर्तते । चोऽप्यर्थस्तथापीत्यर्थे वर्तते । ततश्च जीवस्य चेतनत्वेऽप्यश्मादिवद् दृष्टान्तविशेषोपादानाद-स्वतन्त्रत्वादिति लभ्यते । तदनुपपत्तिः कर्तृत्वानुपपत्तिरिति सूत्रार्थः ॥ एतेनेति ॥ जीवस्येशा-धीनकर्तृत्वेऽपि न हिताक्रियादिविरोधप्रसक्तिः । स्वीयहिताहितप्रापककर्मवशात्तदनुपपत्ते-रित्यप्येतेनास्वातन्त्र्यहेतुनाऽपास्तमित्यर्थः । तस्यापि कर्मणोऽपि । तथा चेशतन्त्र एव हिता-क्रियादिविरोधः परिहरणीय इति भावः । स्थिरसमाहितः स्थिरसमाधानयुक्तः । अङ्गं हस्तादि । अङ्गानि अङ्गुल्यादीनि ।

तत्त्वसुबोधिनी

ईश्वराभ्युपगमेति ॥ अभ्युपगमे दृष्टान्तधर्मिग्राहकमानविरोधो नाभ्युपगमे दृष्टान्ताभाव इत्यर्थः ॥ परसिद्धेनैवेति ॥ तथा च नेदं साधनानुमानं किन्तु दूषणानुमानम् । यदीश्वरोऽ-नन्यापेक्षया जगत्कर्ता तर्हि चेतनत्वाविशेषाज्जीवोऽपि जगत्कर्ता स्यादिति परसिद्धेनैव परस्य बोधनादित्यर्थः । यथोक्तमनुव्याख्यानं ‘स्वन्न्यायैः साधनं कार्यं परन्न्यायैस्तु दूषणम्’ इति । च शब्दोऽपिशब्दार्थ इति । तथा च अपीत्यस्य सर्वत्रापीत्यर्थः । तदर्थश्चेतनत्वेऽपीति भाष्ये अभिहित इति भावः ॥ कर्मसापेक्षतयेति ॥ जीवस्य स्वतन्त्रकर्तृत्वेऽपि न हिताक्रियादिदोष-प्रसक्तिः स्वीयहितप्रतिबन्धकाहितकारणीभूतकर्मवशात् तदुपपत्तेरित्यर्थः । एतेनेति परामृष्टहेतुमाह ॥ तस्यापीति ॥ कर्मणोऽपीत्यर्थः ।

वाक्यार्थविवरणम्

इङ्गयतीति भाष्यस्य यद्येकाङ्गचेष्टाऽपेक्षिता तर्ह्येकमङ्गम् इङ्गयति, अनेकाङ्गचेष्टाऽपेक्षिता चेद-नेकानीङ्गयतीत्यर्थः । यद्वा ‘अङ्गमङ्गी समादाय’ इति शरीरस्याङ्गत्वेन प्रसिद्धत्वादयं शरीरं तदङ्गानि हस्तादीनिङ्गयतीत्यर्थः । ‘जीवोऽन्यनिरपेक्षतया न कर्ता, अस्वतन्त्रत्वात् ॥ अश्मादिवत् ॥ इत्यनुमानेऽस्त्वस्वातन्त्र्यम्, अन्यनिरपेक्षतयैव कर्तृत्वमस्तु इत्यप्रयोजकतायां यदि जीवोऽन्य-निरपेक्षतया कर्ता स्यात्तर्ह्य स्वातन्त्र्यं न स्यादिति तर्कोऽभिप््रोतः । तत्र च योऽन्यनिरपेक्षतया कर्ता स स्वतन्त्र इति व्याप्तिर्वाच्यताम् । व्याप्तिं रीत्यन्तरेणोपपादयति– स्वतन्त्रो हीति ॥ तथा च वह्निमत्त्वादेव धूमवत्त्वमन्यथा तन्न स्यादित्युक्ते यथा धूमे व्याप्यत्वं वह्नौ व्यापकत्वं च लभ्यते । एवं स्वतन्त्रो ह्यन्यनिरपेक्षतया कार्यं करोति । अन्यथा तन्न स्यादित्युक्ते हिशब्दमहिम्ना स्वातन्त्र्यस्य व्यापकत्वम्, अन्यनिरपेक्षकर्तृत्वस्य व्याप्यत्वं च लभ्यत इत्याशयः ।

ननु मदीयचेतनत्वानुमानेन सत्प््रातिपक्षितं भवदनुमानमित्यत आह ॥ चेतनत्वं त्विति ॥ परिहारे जीव इति शेषः । एतेनेत्यस्य विवरणं तस्यापीति ॥ कर्मणोऽपीत्यर्थः । तथा च तस्य तदापादकत्वाभावे जीवस्य दोषप्रसक्त्या न कर्तृत्वमिति भावः ।

वाक्यार्थमञ्जरी

ईश्वराभ्युपगमेति ॥ अभ्युपगमे तत्साधकमानविरोधः । तेन कर्तृत्वेनैव सिद्धेर् अनभ्युपगमे दृष्टान्ताभाव इत्यर्थः ॥ परसिद्धेनैवेति ॥ तथाच नेदं साधनानुमानं किं तु दूषणानुमानं यदीश्वरो अन्यापेक्षया जगत्कर्ता तर्हि चेतनत्वाज्जीवोऽपि तथैव जगत्कर्ता स्यादिति परसिद्धेनैव परस्य बोधनादित्यर्थः । यथाहुः परसिद्धेर्दूषणमिति ॥ जीवस्य चेतनत्वेऽप्यश्मादिवत् पाषाणादि-वदस्वतन्त्रत्वेन स्वतन्त्रकारणत्वानुपपत्तिरित्यर्थः । तर्हि कथं निर्णय इत्यत आह ॥ स्वतन्त्रो हीति ॥ स्वरूपप्रमितिप्रवृत्तिषु परानपेक्षत्वं हि स्वतन्त्रत्वम् । कार्यकरणे परानपेक्षत्वं च तदेक-देशभूतं प्रवृत्तौ परानपेक्षरूपत्वात्समुदायत्वेनैकदेशसाधनं च सङ्गतम् । शतवत्वेन पञ्चाशत्त्व-साधनाद् अतस्तदेव प्रयोजकमित्यर्थः ॥ अपिशब्दार्थ इति ॥ तथापीत्यर्थः । एतेन जीवस्या-स्वातन्त्र्यप्रयुक्ताकर्तृत्वकथनेन ॥ कर्मसापेक्षतयेति ॥ जीवस्य स्वतन्त्रकर्तृत्वेऽपि न हिता-क्रियादिदोषप्रसक्तिः स्वीयहितक्रियादिप्रतिबन्धकवशात्तदुपपत्तिरित्यर्थः । भाष्ये इच्छानुसारेण कदाचिदेकमङ्गं कदाचित्सर्वाण्यङ्गानि इंगयति चेष्टयत इत्यर्थः । पूर्वारुचिं सूचयन्नेवाह ॥ अस्वातन्त्र्यस्येति ॥


ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ

सूत्रभाष्यम्

॥ ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ॥ २५ ॥

जीवेन कार्योपसंहारदर्शनात्तस्य कर्तृत्वमिति चेन्न । यथा गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते, ‘अन्नं रसादिरूपेण प्राणः परिणयत्यसौ’ इति वचनात् । एवं जीवे दृश्यमानोऽपि कार्योपसंहारोऽस्वातन्त्र्यात्परकृत एव । ‘य आत्मानमन्तरो यमयति’ । ‘नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः’ इत्यादेः ।

सत्तर्कदीपावली

एतमर्थमाक्षिप्य दृष्टान्तान्तरेण य आत्मानमन्तरो यमयतीत्यादिवचनैश्चानुभवारूढं करोति ॥ उपसंहारेति ॥

तत्त्वप्रदीपिका

जीवेन कार्योपसंहारो दृश्यते । इदं कार्यमेवमुपसंहरिष्यामीति बुद्ध्या निरूप्यते । स च कार्योपसंहारस्तेन तथा क्रियमाणो दृश्यते । अतस्तस्य कर्तृत्वमिति चेन्न । यथा गोषु दृश्यमानं क्षीरं गोव्यतिरिक्तकर्तृकम्, एवमित्थं करिष्यामीति जीवे दृश्यमानो जीवेऽन्यैर्दृश्यमानश्चापि कार्योपसंहारः परकृत एव । तथाहि श्रुतिस्मृतयः ।

तत्त्वप्रकाशिका

जीवस्य स्वतःकर्तृत्वाभावमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद् व्याचष्टे ॥ उपसंहारेति ॥ न जीवस्य स्वतः कर्तृत्वाभावो वक्तव्यः । अनुभवविरोधात् । स हि यत्कर्तुमारभते तदवसाययतीत्यनुभूयत इत्यर्थः । परिहारांशं व्याचष्टे ॥ नेति ॥ कार्योपसंहारदर्शनेन जीवस्यान्यानपेक्षतया न कर्तृत्वसिद्धिः । तत्कार्योपसंहारस्येश्वरनिमित्तत्वात् । न च जीवे दृश्यमानत्वेन जीवस्यैवासाविति वाच्यम् । गोषु वर्तमानस्यापि क्षीरस्यान्नं रसादिरूपेणेति वचनात्प््र•णाधीनत्ववदत्राप्युपपत्तेः । न च बाधकवचन-बलात्क्षीरस्यान्याधीनत्वेऽपि कार्योपसंहारस्य बाधकाभावाज्जीवकर्तृत्वमिति वक्तव्यम् । जीवस्या-स्वातन्त्र्येण कार्योपसंहारकर्तृत्वानुपपत्तेरेव बाधकत्वादिति भावः । ननु जीवस्यास्वातन्त्र्या-त्कार्योपसंहारकर्तृत्वाभावेऽपि कुतोऽसावीश्वरकृत इत्यत आह ॥ य इति ॥

गुर्वर्थदीपिका

‘अन्नं रसादिरूपेण’ इत्यत्र गोभिर्भुक्ततृणादिरूपमन्नं तदुदरे तिष्ठति, तस्यान्नस्य रसं ‘व्यानः सर्वशरीरग’ इति वचनान् नाडीस्थितो व्यान ऊधोभारे आनयति । नारीभिर्भुक्तमन्नं तदुदरे तिष्ठति तस्य च रसम् ऊर्ध्वनाडीद्वारा तासां स्तनद्वये प्रवेशयति । गवां नारीणां चान्तर-स्वातन्त्र्यान्न तत्कर्तृत्वमिति भावः । कार्योपसंहारकर्तृत्वानुपपत्तेरित्युपलक्षणं, कृषीवलानां योद्धृणां राज्ञां वणिजां च मध्ये कार्यविच्छेददर्शनादित्यपि द्रष्टव्यम् ।

भावदीपः

भाष्ये साक्षात्सौत्रहेत्वन्वयाय तस्य कर्तृत्वमिति साध्योक्तिः फलगत्येति मत्वा सूत्रे अनुवृत्ततदनुपपत्तिपदेन नञन्वयमुपेत्य तत्र सौत्रहेतुं परम्परया योजयन्सूत्रार्थमाह ॥ न जीव-स्येति ॥ भाष्ये इति चेन्नेत्यध्याहृत्योक्तनञा प्राचीनभाष्यस्यान्वयमाह ॥ कार्येति ॥ अन्या-नपेक्षतयेति ॥ भाष्ये स्वतःपदानुवृत्तिरिति भावः । एवं जीव इत्यादिभाष्योक्तमेव हेतुमाह ॥ तत्कार्येति ॥ यथेत्यादिभाष्यदिशा क्षीरवदिति सूत्रांशार्थमाह ॥ गोष्विति ॥ एवं जीव इत्यादिभाष्यतात्पर्यमत्राप्युपपत्तेरिति । अस्वातन्त्र्यादिति भाष्योक्तं हेतुमवतार्य व्याचष्टे ॥ न च बाधकेति ॥ अयं च हेतुरश्मादिवच्चेति सूत्रलब्ध इति भावेनानुपपत्तेरेवेत्येवकारप्रयोगः ।

वाक्यार्थमुक्तावली

सूत्रे तदनुपपत्तिरिति अनुवर्तते । इतरस्य इतरेणेति बुद्ध्या विवेकेनानुवर्तते । तथाच जीवेन कार्योपसंहारदर्शनाज्जीवस्य स्वतःकर्तृत्वानुपपत्तिर्नेति पूर्वपक्षांशमभिप््रोत्य प्रवृत्तं जीवेनेत्यादिभाष्यं व्याचष्टे– जीवस्येति ॥ अवसाययति समापयति । उपसंहारपदार्थकथनमेतत् ॥ परिहारांश-मिति ॥ अत्रापि नेत्युपसंहार इति चानुवर्तते । प्रकृत एवेति शेषः । हिशब्दो हेतौ । दृष्टान्त-दार्ष्टान्तिकयोः परकृतत्वे प्रमाणमसिद्धिद्योतकश्च । अश्मादिवदित्यत्रोक्तास्वातन्त्र्यादिति हेतुश्चान्वेतीति भावेन प्रवृत्तं न यथा गोष्वित्यादिभाष्यं व्याचष्टे कार्योपसंहारेत्यादिना ॥ ततश्चान्नं रसादिरूपेणेत्यादिप्रमाणाद् गोषु दृश्यमान क्षीरवज्जीवेषु दृश्यमानः कार्योपसंहारः हि यस्मादस्वातन्त्र्याद्बाधकान्न जीवकर्तृकः किन्तु ‘य आत्मानमन्तरा यमयति’ इत्यादेः परकृत एव तस्मात् कार्योपसंहारदर्शनेन जीवस्यान्यानपेक्षतया कर्तृत्वसिद्धिरिति सिद्धान्तांशार्थ इति भावः ।

वाक्यार्थविवरणम्

अवसाययति समापयति ।

वाक्यार्थमञ्जरी

जीव उपसंहारस्य आरब्धकार्यसमापनस्य दर्शनान्न स्वतन्त्रकर्तृत्वानुपपत्तिरिति चेन्न । क्षीरवद् यथा गोषु दृश्यमानं क्षीरं प्राणाधीनं तथा जीवे प्रतीयमानमपि तदीशाधीनमित्यर्थः । अवसाययति समापयति।


ॐ देवादिवदपि लोके ॐ

सूत्रभाष्यम्

॥ ॐ देवादिवदपि लोके ॐ ॥ २६ ॥

न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवददृश्यत्वशक्तियोगात् । लोकेऽपि पिशाचादीनां तादृशी शक्तिर्दृष्टा, किम्वीश्वरस्य ।

‘न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचित् ।

विरोध एव वाक्यानां युक्तयो न तु युक्तय’ ॥ इति बृहत्संहितायाम् ।

सत्तर्कदीपावली

न च सर्वकर्तुरीश्वरस्य वेदसिद्धस्य प्रत्यक्षेणानुपलम्भबाधः शङ्कनीयः । देवादिवद्दृष्टिप्रतिबन्ध-सामर्थ्याच् चक्षुरादीन्द्रियवदतीन्द्रियत्वाच्च । न च योग्यत्वे सत्यदृश्यमानत्वात् खपुष्पवदीश्वरो नास्तीति वाच्यम् । विशेषणासिद्धत्वाद्धेतोः । न च युक्तिप्रयोगेणेश्वराभावस्साधयितुं शक्यते । ईश्वरग्राहकमानबाधितत्वाद्युक्तेः । अतो युज्यन्ते परस्परविरोधपरिहारेण व्यवस्थाप्यन्ते वाक्यानि एभिरिति युक्तयो न्याया वक्तव्याः । न तु अप्रतिष्ठितशुष्कतर्काः प्रमाणबाधिता युक्तयः । तदेतदाह ॥ देवादिवदित्यादिना ॥

तत्त्वप्रदीपिका

ननु जीवादन्यः कर्ताऽस्ति चेद्दृश्येत । दृश्यन्ते हि लोके दृश्यमानानां घटादीनां कर्तार इत्यत आह– देवादिवदपि लोके ॥ वाक्यानां परस्परविरोध एव युक्तयो भवन्ति । न तु केवलयुक्तयः स्वतन्त्रा युक्तयः स्युः, युक्त्याभासा एव प्रतिसाधनसम्भवात् । यथा विमतः कर्ता नास्ति, योग्यत्वे सत्यनुपलभ्यमानत्वात्सम्प््रातिपन्नवदित्येतस्मिन्नेव, जगतः कर्ताऽस्ति तस्य कार्यत्वात्, यत्कार्यं तस्य कर्ताऽस्ति यथा घटस्येति नैवमनुमानयिष्यते, आश्रयासिद्धत्वाद्धेतोः । न । निषेधहेतोरसतोऽप्या-श्रयत्वात्, अन्यथाऽऽश्रयत्वनिषेधस्यैव निर्हेतुकत्वेनासाध्यत्वप्रसङ्गात् । अस्तु तर्हि निषेधहेतोर-सदाश्रयत्वम् । तथाऽपि न परकीयहेतोस्तादृक्त्वं युक्तम् । यदि पक्षादन्य आश्रयः, अहो तर्हि महानेष्वेष दोषः । न हि भिन्नाधिकरणत्वं साध्यसाधनयोः साम्प््रातम् । जगन्निर्मातुः खल्वस्तित्वं साध्यते । साधनधर्मो निर्मेयाधिकरण इत्यसिद्धः । पक्षवृत्त्यभावात् । तदपि प्रलापमात्रम् । व्याप्ति-सद्भावे साध्यसाधनयोरधिकरणभेदस्याकिञ्चित्करत्वात् । तदभावे तदेव दूषणं, नान्वेषणीयमपरम् । व्याप्त्यभावादेव शब्दनित्यत्वादौ घटकृतकत्वादेरहेतुत्वं न व्यधिकरणत्वात् । अधिकरणभेदेऽपि व्याप्यस्य हेतुत्वदर्शनात् । उक्तं च गुरुभिः–

‘रोहिण्युदय आसन्नः कृत्तिकाऽभ्युदिता यतः ।

इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका’ इति ॥

अतो व्याप्तिरेव प्रयोजिका । न च जगतः कर्तारमन्तरेण कार्यत्वं युक्तम् । न चात्र सशरीरत्व-मुपाधिः । प्रतिसाधनस्यैवोपाधित्वात् । तस्य चात्रादृष्टत्वात् । ‘न तस्य कार्यं करणं च विद्यते’ ‘सद्देहस्सुखगन्धश्च’ इत्यादि श्रुतेर्जगत्कर्तुरशरीरत्वात्स्वरूपचैतन्यदेहत्वाच्च श्रुत्यवसिते कर्तरि वः किमनुमानं फलतीति चेन्मैवम् । प्रमाणबाहुल्ये दार्ढ्यदर्शनात् । मानसिद्धेऽपि हि मानान्तरमाद्रियन्ते परीक्षकाः । श्रुत्यननुसारे चोपाधिदोषो दुर्निवार इत्यवादिष्म । नन्वेवं परस्परापेक्षत्वेन श्रुतियुक्त्योः साम्यमेव । तथाहि– यथा श्रुतिनिरपेक्षाया युक्तेर्विरोधितदन्तरसद्भावेनाऽभासत्वं, श्रुत्यनुसारिण्याः प्रामाण्यं प्रतिसाधनस्य कालात्ययापदिष्टत्वेन, एवं युक्तिनिरपेक्षश्रुतेर्विरोधितदन्तरसद्भावे गौणार्थत्वं, युक्त्यनुसारिण्या मुख्यार्थत्वं, विरोधेऽप्यननुसारिण्या दुर्बलत्वेनेति । विषम उपन्यासः । दृश्यते हि युक्तेस्तदन्तरविरोधो दुर्वारः । केवलस्य तर्कस्याप्रतिष्ठानात् । न च मिथो विरुद्धयोर्युक्त्योरेकतरयाऽपि केवलयाऽर्थसिद्धिः । सप्रतिपक्षत्वात् । न च श्रुतियुक्त्योर्मिथो विरोधे श्रुतेरप्रामाण्यम् । क्लृप्तं च युक्तेराभासत्वम्, अत एतदाह– न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचिदिति ॥ वदिष्यति च– यद्वाक्योक्तं न तद्युक्तिर्विरोद्धुं शक्नुयात्क्वचिदिति । न च विरोधादर्थान्तरकल्पनेति दौर्बल्यम् । युक्तिमात्रविरोधाद्वाक्यस्य यथाश्रुतार्थादचलनात् । अग्नीषोमीयादेः पापहेतुत्वगोचरस्येव स्वयमाभासस्य तस्य विरोद्धुमसामर्थ्यात् । तदाह स्म नावाक्या युक्तिरिष्यत इति । श्रौतेऽर्थे वाक्यरहिता युक्तिर्नेष्यत इत्यर्थः । प्रत्यक्षे तु तन्मूला सा प्रवर्ततां नाम । अत एव तद्विरोधादभिमानिव्यपदेश उक्तः । न च तद्विरोधादर्थान्तरकल्पनेति दौर्बल्यम् । न ह्येक एव स्वार्थश्शब्दानाम् । रूढयौगिकगौणादीनां शाब्दिकपरिगृहीतानामनेकत्वात् । तत्र चोपजीव्यविरोधे प्रत्यक्षस्याभासत्वम् । श्रुतेस्तु स्वार्थ एवान्यस्मिन्वृत्तिरिति निर्णयः । न च श्रुतीनां मिथो विरोधः । निर्दोषत्वेन प्रबलप्रमाणत्वात् ।

‘न विरोधः कुतश्चिद्वेदेषु सर्वेषु तथेतिहासे ॥’

‘सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।’

‘ततो वेदास्तत्परास्सर्व एव ।’

‘सर्वज्ञं सर्वकर्तारं नारायणमनामयम् ।

सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ।

सर्वेषामपि वेदानामितिहासपुराणयोः’ ॥ इत्यादि श्रुतिस्मृतिभ्यश्च ।

‘ॐ तत्तु समन्वयात् ॐ’ ‘ॐ गतिसामान्यात् ॐ’ ‘ॐ एतेन सर्वे व्याख्याता ॐ’ इत्यादि सूत्रैश्चाविरोधः । अयमेव च प्रतिपादयिष्यते समयनिरासादूर्ध्वमाऽध्यायपरिसमाप्तेः । अहं ब्रह्मास्मीत्यत्र चाहंशब्दो युक्त्यागमविरोधाज्जीवस्वरूपं त्यक्त्वाऽहेयत्वयोगेन ब्रह्माभिधत्त इति श्लिष्यते । प्रसिद्धश्चायमर्थः श्रुतिस्मृतिषु । ‘तस्योपनिषदहमिति । अ इति ब्रह्म, तत्राऽगतमहमिति’ । अत्र च ब्रह्मण्यागतमहमिति नाम वाचकत्वेनेत्यर्थः । अन्तर्यामित्वाच्च । ‘सर्वान्तर्यामको विष्णुः सर्वनाम्नाऽभिधीयत’ इत्यादेः । तन्नियामके च तच्छब्दोऽतिमुख्य इति तदधीनत्वादित्यादावुदितम् । न चास्मीत्यनेन विरोधः । ‘ओयत्वादहंनामाऽस्म्यसनान्मिनुतेरपि’ । अस्तीति मेयं चास्मीत्युच्यते । प्रसिद्धश्चायमर्थभेदः, ‘पयः पास्यामि गोपाला’ इत्यादौ शब्दस्य । मैव चात्र क्लिष्टताशङ्का । अविद्वद्रूढेर्योगोपबृंहिताया विद्वद्रूढेरतिबलिष्ठत्वात् । अतो न क्वापि श्रुतीनां विरोधः । अत एवाऽह स्म– ‘विरुद्धवत्प््रातीयन्त’ इत्यादि । परस्परविरोध इत्यादौ च विरोधे प्रतीत इत्यर्थः ।

‘यथा विरुद्धता न स्यात्तथाऽर्थः कल्प्य एतयोः’ इति च । अतस्सूक्तं–

‘प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।

अनुमाद्या न स्वतन्त्राः प्रामाण्यपदवीं ययुः’ ॥ इति ।

तत्त्वप्रकाशिका

न जीवस्येऽश्वराधीनकर्तृत्वं वाच्यम् । तस्यैवाभावात् । न च श्रुत्या तत्सिद्धिः । तस्या-नुपलब्धिबाधितत्वात् । अथ च कल्पने गौरवं स्यात् । अतो जीव एव लाघवाज्जगत्कर्तेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ देवेति ॥ नेश्वरस्य कर्तृत्वाङ्गीकारे गौरवम् । स हि कर्तेत्यादि श्रुतिसिद्धत्वात् । नाप्यनुपलब्धिविरोधः । अदृष्टानामपि देवादीनां विद्यमानत्वात् तच्च प्रतिपादितम् । देवादीनामदृश्यत्वशक्तिमत्त्वाद्युक्तानुपलब्धिरिति चेत् सममीश्वरस्यापि । तादृशशक्तियुक्तत्वात् । कुतः । लोके पिशाचादीनामनीश्वराणां तादृशशक्तिमत्वे सर्वेश्वरस्य सुतरां तत्सिद्धेः । अतो नेश्वरस्य कर्तृत्वाङ्गीकारे गौरवं किं त्वश्रौतजीवकर्तृत्वाङ्गीकार एव तद्भवति । तदभावात्सिद्धान्ते लाघवमेवेति भावः । यदभिप््रोतं श्रुतिसिद्धः परमेश्वरो नानुपलब्धियुक्त्या निराकार्य इति तत्र स्मृतिं चाह ॥ नेति ॥ युक्तियोगाद्युक्त्युपायात् । वाक्यानां विरोधे युक्तीनां जाते सति ता एव युक्तयो न युक्तयः किं त्वाभासा इत्यर्थः । वाक्यानां परस्परविरोधे युक्तयोऽर्थसाधिका न तु केवलयुक्तय इति वा ।

गुर्वर्थदीपिका

तस्यानुपलब्धिबाधितत्वादित्यत्र तस्या ईश्वरसाधकश्रुतेः । अनुपलब्धिः क्वापि केनापि य ईश्वरस्यानुपलम्भस् तद्बाधित्वादित्यर्थः । न तु श्रुतेरेवानुपलम्भः । तच्च प्रतिपादितमित्यत्र अभिमान्यधिकरणे इति शेषः ।

भावबोधः

श्रुतिसिद्धत्वेनाकल्पनादिति न्यायविवरणं व्याचष्टे– नेश्वरस्येति ॥ स हि सर्वस्य कर्तेति ॥ उपलक्षणमेतत् । ‘नान्यः कर्ता स हि स्वतन्त्रः परमात्परो हरिरादिरनादिः’ इति न्यायविवरणो-दाहृतश्रुतिरप्यत्र द्रष्टव्या ॥ प्रतिपादितमिति ॥ अभिमान्यधिकरण इत्यर्थः । अश्रुतजीव-कर्तृत्वाङ्गीकारे गौरवमेव तदभावः सिद्धान्ते लघुतेति न्यायविवरणं व्याचष्टे– अश्रुतेति ॥ युक्ती-नामित्यध्याहारं विना योजयति वाक्यानामिति ॥

भावदीपः

नन्वाद्ये सर्ववेदसमन्वयोक्त्या ईश्वरस्य सिद्धत्वादत्र पुनस्तदभावशङ्का न युक्तेति भावेना-शङ्क्य कर्तुरीश्वरस्यादृष्टिविरोध इति भाष्योक्तं हेतुमाह ॥ न च श्रुतेति ॥ बाधितत्वादिति ॥ प्रागुक्तरीत्या तदभावनिश्चयादिति तात्पर्यं बोध्यम् । तथा च प्रागुक्तस्यैवात्राक्षेप इति भावः । न चेत्यादिभाष्यात्पूर्वश्रुतिसिद्धत्वेनाकल्पनादिति न्यायविवरणं साध्योक्तिपूर्वं योजयति ॥ नेश्वर-स्येति ॥ न्यायविवरणे नान्यः कर्तेत्यादेरिव साक्षात्कर्तृश्रुतेरनुक्तेः स्वयमाह ॥ स हि कर्तेति ॥ न च कर्तुरित्यादिभाष्यं व्याचष्टे ॥ नापीति ॥ प्रतिपादितमिति ॥ अभिमानिनय इति भावः । अपिशब्दार्थमाह ॥ अनीश्वराणामिति ॥ अत इति ॥ श्रुतिसिद्धत्वादित्यर्थः । अश्रौतजीव-कर्तृत्वाङ्गीकारे गौरवमेव । तदभावादेव सिद्धान्ते लघुतेति न्यायविवरणं योजयति ॥ किं त्विति ॥ प्रकृतोपयोगितयार्थमाह ॥ युक्तीनां जाते सतीति ॥ एवकारो युक्तय एवेत्यन्वेतीति भावेनाह ॥ ता एवेति ॥ तर्हि मीमांसाव्याघात इत्यत आह ॥ वाक्यानामिति ॥ परस्परेति ॥ न तु वाक्यान्तरविरोधे वा एकवाक्येऽपि पूर्वोत्तरविरोधे वा इत्यर्थः । अर्थसाधिकेति शेषोक्तिः ।

अभिनवचन्द्रिका

तस्यैवाभावादिति ॥ जीवनियमनाय जीवप्रवेशयुक्तस्य तस्यैवाभावादित्यर्थः ॥ न च श्रुत्येति ॥ ‘य आत्मानमन्तरो यमयति’ ‘स हि कर्ता’ इत्यादिश्रुत्येत्यर्थः ॥ स हि कर्तेतीति ॥ ‘य आत्मानमन्तरो यमयति’ इति श्रुतिरपि ग्राह्या । ननु भवेद्देवानामदृश्यत्वाशक्तिमत्त्वम् । अदृश्यत्वशक्तेर् देवत्वानन्तर्गतत्वाद् देवत्वसाधिकाया उपासनाया एव अदृश्यत्वशक्तिसाधकत्वेन कारणसद्भावान् न त्वीश्वरस्य उपासनाशून्यस्य तस्य कारणाभावेन कार्यस्याप्ययोगादित्याक्षिपति – कुत इति ॥ कारणाभावान्न कुतोऽपीत्यर्थः । उत्तरमाह – लोके पिशाचादीनामिति ॥ अत्र वक्तव्यम् अदृश्यत्वशक्तिर् उपासनासाध्या तद्विधुरपरमेश्वरस्य नेति वदता उपासनाविधुराणां पिशाचादीनां कुतः कारणात् सेति । यदि तस्याः प्रामाणिकत्वाद् उपासनारूपकारणासम्भवेऽपि कारणान्तरं कल्प्यते, हन्त तर्हि परमेश्वरस्याप्यदृश्यत्वशक्तेः ‘यत्तदद्रेश्यम्’ इत्यादिनिरवकाश-प्रमाणसिद्धत्वात् सा कुतो नाङ्गीकार्या? पिशाचादीनाम् उपासनारूपकारणासम्भवे कारणान्तर-कल्पनवद् इह सर्वथा कारणासम्भवे स्वाभाविकाया एव शक्तेरभ्युपगन्तव्यत्वादिति भावः ।अनीश्वराणामिति विशेषणं पिशाचानामदृश्यत्वशक्तिहेतूपासनाभावात् कारणान्तरं कल्प्यमिति द्योतनार्थम् । सर्वेश्वरस्येति विशेषणं तु ईश्वरशक्तेः स्वाभाविकत्वेनाकारण-कत्वद्योतनार्थमिति बोध्यम् ॥ न केवलमिति ॥ न केवलं जीवकर्तृत्वपक्षे हिताक्रियादीना-मसत्त्वमापाद्यते किं तर्हि सूत्रार्थतया वक्ष्यमाणश्च दोष आपततीत्यर्थः ॥ अंशेन वेति ॥ क्वचिदिति शेषः । क्वचित् सामस्त्येन क्वचिदंशेनेत्यर्थः । आद्ये कृत्स्नप्रसक्तिरिति दूषणमापाद्यत इति भावेनाह – नाद्य इति ॥ आद्यपक्षे कृत्स्नप्रसक्तेः सद्भावादाद्यपक्षो नेत्यर्थः ॥ न च स्यादेवमिति ॥ आद्यपक्षे दूषणत्वेन यदापादितं तदिष्टमिति न वाच्यमित्यर्थः । द्वितीये तु निरवयवत्वशब्दव्याकोपः स्यादिति दूषणमुपतिष्ठत इति भावेनाह– न द्वितीय इत्यादिना ॥ अंशाभावादिति ॥ नन्विदमयुक्तम्, अंशेन प्रवृत्तेरनुभवसिद्धत्वस्य भवद्भिरेवाभिधानात् । न ह्यनुभवसिद्धं प्रमाणशतेन नेति शक्यते वक्तुम्, अतिप्रसङ्गात् । किञ्च आत्मनः दशदिक्षु दशपरमाणुसंयोगा भवन्ति, तेषां चाऽव्याप्यवृत्तित्वाज् जीवस्यांशाः स्वीकार्याः । प्रदेशवृत्तित्वस्यैव अव्याप्यवृत्तित्वरूपत्वादिति चेत्, न ब्रूमो वयं सर्वथा जीवस्यांशा एव न सन्तीति, येनोक्तदोषः स्यात् । किं नाम रात्रिभोजनमन्तरा दिवा अभुञ्जानस्य पीनत्ववद् अनंशतया श्रुतिसिद्धस्यांऽशा-पादकपरमस्वतन्त्रा घटितघटकपरमेश्वरमन्तरा अनुभवसिद्धा अपि नोपपन्ना इति ॥ न च सांशत्वमिति ॥ अघटितघटकपरमेश्वरमन्तरेति शेषः ॥ व्याकोपादिति ॥ श्रुतेः स्वतः कार्योपयोग्यंशाभावप्रतिपादकत्वादिति भावः । अतः परं टीकायां श्रूयमाणं ‘एतेन कार्यानुसारेण प्रवृत्तिरित्यपि परास्तम्’ इत्यन्तं वाक्यं प्रक्षिप्तम् । अस्यैवांशे न वेति द्वितीयपक्षत्वात् । अत एव सुधायां तृतीयप्रकाराभावात्’ इत्युक्तम् । ततश्चैवं टीकापाठः ‘श्रुतिव्याकोपादिति भावः’ इति । घटकान्तरमाशङ्क्य निषेधति – नेति ॥

पूर्वपक्षस्तु – ‘स्वतन्त्र एव जीवो घटादिकार्याणां कर्ता । जीवो हि यत् कार्यं करोमीति सामग्रीं मेलयति तत् करोतीत्यनुभवात् । कुलालः घटादिकर्ता तद्विषयकृतिमत्त्वाद् यथाऽहम्’ इत्यनुमानाच्च । न चानुभवबलादस्तु जीवः कर्ता तथापि नासौ स्वतन्त्रः, किं नाम स्वान्तर्याम्य-धीन इति वाच्यम् । जीवशरिरे जीवनियामकेश्वरस्याभावात्, भावे चोपलभ्येत । न हि जीवशरीर ईश्वरोऽस्ति । जीवश्च तन्नियम्यः, तथापि नासौ तं पश्यतीति शक्यते वक्तुम् । नियम्यानां नियामकदर्शनावश्यम्भावाद् एवमपीश्वरकल्पने कल्पनागौरवम् । अप्रामाणिकस्य जीवशरीरस्थत्वस्य तन्नियामकत्वस्य कल्पनात् । एवं च परिदृश्यमानघटादीनां जीवकर्तृत्वे सिद्धे महदादिकार्याणामपि अनीश्वरब्रह्मकर्तृत्वं सिध्यति । ‘न कुलालादयो ब्रह्मवशाः, ब्रह्म तु सर्वनियामकम्’ इत्यस्य तु व्याहतत्वात् । तथा च श्रुतिः ‘जीवाद्भवन्ति भूतानि’ इति । नन्वियं श्रुतिर् ईश्वरविषयेति चेत्, अत्र वक्तव्यं, किं जीवसाधारण्येन श्रुतेर् ब्रह्मपरत्वमुच्यते, आहोस्वित् परमैश्वर्यादिविशिष्टब्रह्मपरत्वम् । आद्ये न नो हानिः । सर्वजीवानां सम्भूय सर्वजगत्कारणत्वं वदद्भिरस्माभिरपि ‘जीवाद्भवन्ति’ इति श्रुतिर् घटादीनां कुलालजन्यत्वमिव महदादीनां जीवतुल्यब्रह्मजन्यत्वं वदतीत्यङ्गीकारात् । न द्वितीयः । तस्यैवाभावात् । अतः श्रुत्यादिबलाज्जीवस्यैव स्वतः कर्तृत्वादसम्भवि द्वितीयसूत्रोक्तं सर्वजगज्जन्मादिकारणत्वलक्षणं ब्रह्मण इति ।

सिद्धान्तस्तु – न जीवः स्वातन्त्र्येण कर्ता, अपि तु परमेश्वरः, तर्कविरुद्धत्वात् । तथा हि यदि स्वातन्त्र्येण कर्ता स्यात्तर्हि हिताकरणम्, अहितकरणं च न स्यात् । विद्येते च ते । अतो नासौ स्वतन्त्रः कर्ता । ननु यदि यत्किञ्चिद्दोषमात्रेण जीवकर्तृता निराक्रियते तर्हि ब्रह्मणोऽपि कर्तृत्वं न प्राप्नोति । तस्यापि श्रमादिदोषनियमात् । एवं पक्षयोः साम्येऽनुभवादिसिद्धं जीवकर्तृत्वमेवाश्रयणीयमिति चेत्, न ईश्वरे श्रमाद्यभावस्य प्रमाणसिद्धत्वेन तदभावापादन-स्येष्टापादनत्वात् । जीवे च हिताकरणादीनां प्रामाणिकत्वेन तदभावापादनस्यानिष्टत्वेन वैषम्यात् । नन्वथापि जीवो ऽन्यनिरपेक्षकर्ता चेतनत्वाद् ईश्वरवद् इत्यनुमानात् स्वातन्त्र्यमिति चेत्, न अस्वातन्त्र्येण हेतुना अन्यनिरपेक्षत्वाभावस्यापि साधयितुं शक्यत्वात् । चेतनत्वहेतोरप्रयोजकत्वाच्च ।

ननु न जीवस्य स्वतःकर्तृत्वाभावो युक्तः । स हि यत् कार्यमारभते तत् समापयतीत्युप-संहारदर्शनादिति चेत्, न गोषु क्षीरदर्शनेऽपि प्रामाणिकत्वेन प्राणाधीनत्ववद् एतस्य परमात्मा-धीनत्वोपपत्तेः । न जीवस्येश्वराधीनकर्तृत्वं वाच्यम् । ईश्वरस्य जीवनियामकत्वेन जीव-शरीरेऽनुपलब्धेः । न हि जीवस् तन्नियम्यः सन् तदाज्ञया प्रवर्तते, तं च न जानातीति सम्भवति । अतो जीवनियामकत्वेन नास्त्येव जीवशरीरस्थ ईश्वर इति चेत्, न देवादिवदन्त-र्धानशक्त्या प्रत्यक्षेणाऽनुपलभ्यमानत्वेऽपि आगमेनोपलभ्यमानत्वात् । न चेश्वरस्य देवादिवदन्तर्धानशक्तित्त्वं युक्तम् । तस्या उपासनासाध्यत्वेनेश्वरे तदभावादिति चेत्, हन्त तर्हि पिशाचादीनां तन्न स्यात् । उपासानाभावात् । अथ प्रमाणसिद्धाऽन्तर्धानशक्तिः पिशाचादीनां न हातुं शक्येति कारणान्तरं कल्प्यते, तर्हि ‘यत्तदद्रेश्यम्’ इत्यादिप्रमाणसिद्धा सा न हातुं शक्येति नित्या सा कल्प्यताम् । किञ्च जीवः स्वतन्त्रः कर्तेति वदन् प्रष्टव्यः, जीवः सामस्त्येन सर्वस्वकार्यकर्ता, उत क्वचिदंशेन । आद्ये यदि जीवः सामस्त्येन सर्वस्वकार्यकर्ता स्यात् सामस्त्येन तृणादानादावपि कर्ता स्यादिति तर्कविरोधः । द्वितीये यदि जीवो ऽंशेन स्वकार्यकर्ता स्यात्तर्हि निरंशत्वप्रतिपादकश्रुत्यप्रामाण्यं स्यादिति तर्कविरोधः । तथा च कर्तृत्वं सामस्त्येन अंशेन वा प्रवृत्तिव्याप्यमिति जीवस्य स्वातन्त्र्याङ्गीकारे व्यापकीभूतप्रवृत्त्ययोगात् कर्तृत्वमेव न स्यादिति स्वातन्त्र्यं त्याज्यम् । न जीवस्य स्वतःकर्तृत्वेऽपि दोषावकाशः । तस्योपाधिकृतांशवत्त्वेन कृत्स्नप्रसक्त्ययोगात् । स्वाभाविकांशाभावेन श्रुतिविरोधाभावादिति चेत्, तत्र वक्तव्यं किं जीवः सर्वोऽप्युपहितस् तदंशो वा । नाद्यः सर्वजीवस्योपहितत्वे सर्वस्य ग्रस्तत्वेनांशस्यौपाधिकत्वायोगात् । द्वितीये नौपाधिकत्वम्, उपाधिसम्बन्धात् प्रागपि अंशस्य वक्तव्यत्वात्, तस्याप्युपाध्यन्तरकृतत्वेऽनवस्थानात् ।

ननु जीवस्य कर्तृत्वं युक्तिविरुद्धत्वादविचारितरमणीयाविद्यानिमित्तमस्त्विति चेत्, न अविद्यानिमित्तत्वस्याप्रामाणिकत्वात् । ‘यद्धि युक्त्या विरुध्येत’ इति प्रमाणविरुद्धत्वाच्च । तस्माज्जीवस्य स्वतःकर्तृत्वानुपपत्तेः, युक्त हरेर्जगज्जन्मादिकारणत्वलक्षणमिति सिद्धम् ।

वाक्यार्थमुक्तावली

न च कर्तुरीश्वरस्येति पूर्वपक्षमाशङ्क्य निषेधकभाष्यानुसारेण शङ्कते न जीवस्येति ॥ ईश्वर-स्यैवाभावात्तस्य कर्तृत्वं जीवस्य तदायत्तकर्तृत्वविरोध इति भाष्यार्थ इत्युक्तं भवति । अनुप-लब्धीति ॥ एतेन कर्तुरीश्वस्य प्रत्यक्षेणादृष्ट्याऽश्रुतेरनुपलब्धिलिङ्गबाध इति भाष्यार्थ उक्तो भवति ॥ अथ चेति ॥ अप्रमाणिकत्वेऽपीत्यर्थः । एतेनेश्वरस्यादृष्ट्या प्रामाणिकत्वेन कल्पना-गौरवलक्षणतर्कविरोध इति भाष्यार्थ उक्तो भवति । कल्पनागौरवपरिहारकतया तावद्भाष्यं योजयति ॥ नेश्वरस्येति ॥ तत्र हेत्वाकाङ्क्षायां न युक्तियोगाद्वाक्यानीति भाष्यसूचितं श्रुति-सिद्धत्वेनाकल्पनादिति न्यायविवरणोक्तं हेतुनाऽन्यः कर्ता स हि स्वतन्त्रः परात्परो हरिरित्या-देश्चेति तत्रैवादिपदोपात्तस्य स्पष्टश्रुतिपठनपूर्वमाह ॥ स हीति ॥ श्रुतेरनुपलब्धिबाध-निरासकतयाऽपि देवादिवदित्यन्तभाष्यं व्याचष्टे ॥ नापीति ॥ देवादिवदित्यस्यौत्तरेणापि सम्बन्धं मत्वा व्याचष्टे ॥ देवादीनामिति ॥ कुत इति दृष्टान्तमात्रस्य साधकत्वात् कुतः प्रमाणादित्यर्थः । अपिशब्दः कैमुत्यद्योतक इति भावेनाह ॥ अनीश्वरणामिति ॥ भाष्याभि-प््रोतश्रुतिषु जीवकर्तृत्वसाधकाभावात् प्रत्युत बाधकसद्भावाच्च पूर्वपक्ष एव कल्पनागौरवमिति भावेन श्रौतजीवकर्तृत्वाङ्गीकारे गौरवमेव । तदभावादेव सिद्धान्ते लघुतेति न्यायविवरणोक्तं बाधकमाह ॥ किं त्विति ॥ वाक्यविरोधेन युक्तीनामाभासत्वे मीमांसानारम्भप्रसङ्ग इत्यतो युक्तीनामित्यध्याहारं विना प्रकारान्तरेण योजयति– वाक्यानामिति ॥ अत्राप्यर्थसाधका इति केवलेति चाध्याहार्यत्वात्पूर्वव्याख्यानम् । सूत्रे अपिपदं साध्यहेत्वोः समुच्चायकं लोकेऽपीति कैमुत्यसूचकं च । देवादिवद् देवोपदेवानामिवेश्वरस्य श्रुतिसिद्धत्वाद्विद्यमानत्वेऽप्यनुपलम्भ सम्भवात्तद्धटकशक्तिमत्वाल्लोकेऽप्यनीश्वरपिशाचादीनामपि शक्तिदर्शनेनेश्वरशक्तेः कैमुत्यसिद्ध-त्वाच्च । न च सर्वकर्तुरीश्वरस्यादृष्टिविरोधादिति सूत्रार्थः ।

तत्त्वसुबोधिनी

अनुपलब्धीति ॥ यदि ईश्वरः स्यात् तर्हि उपलभ्येत, नोपलभ्यते तस्मान्नास्तीति अनुप-लब्धिबाधितेत्यर्थः । स हि सर्वस्येति स्थिरं यथा भवति तथा समाधानयुक्तः दारुमयीं योषां कृत्वा तस्या एकमङ्गयति चेष्टा, उपलक्षणमेतत् । नान्यः कर्ता स हि स्वतन्त्र इत्यादि श्रुतिरपि दृष्टव्या । अदृष्टदेवादयः सन्तीत्यत्र किं प्रमाणमत आह ॥ तच्चेति ॥ अदृष्टदेवादयः सन्तीत्ये-तदभिमान्यधिकरणे प्रतिपादितमित्यर्थः ॥ अत इति ॥ ईश्वरकर्तृत्वस्य श्रौतत्वादिति भावः ॥ तदभावादिति ॥ श्रौतत्वेन गौरवाभावादित्यर्थः ।

वाक्यार्थविवरणम्

यन्नोपलभ्यते तन्नास्तीति व्याप्तेर् व्यभिचारमाह ॥ अदृष्टानामपीति ॥ देवादीनामेव विद्य-मानत्वम् ॥ अश्रौतेति ॥ जीवाद्भवन्तीति श्रुतेरीश्वरपरत्वादित्याशयः ॥ तदभावादिति ॥ ईश्वरकर्तृत्वस्याश्रौतत्वाभावादित्यर्थः । तथा चेश्वरकर्तृत्वयोरुभयोरपि प्रामाणिकत्वान्न गौरव-मिति भावः ।

वाक्यार्थमञ्जरी

देवादीनामिव सतोऽपि ईश्वरस्यानुपलम्भो युक्तः । तेषां तादृशसामर्थ्येनादृश्यत्वेऽपीशस्य तत्कुत इत्यत उक्तम् ॥ अपि लोक इति ॥ पिशाचादीनामपि तादृशसामर्थ्यमस्ति किम्वीश-स्येत्यर्थः ॥ तच्चेति ॥ अभिमान्यधिकरणे तादृशदेवसत्वं प्रतिपादितमित्यर्थः । तदभावाद् अश्रुतकल्पनाभावात् । युक्तीनामित्यध्याहारं विना योजयति ॥ वाक्यानामिति ॥

Load More