०६ आरम्भणाधिकरणम्

ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ

६. अथ आरम्भणाधिकरणम्

सूत्रभाष्यम्

॥ ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ॥ १५ ॥

स्वतन्त्रबहुसाधना सृष्टिर्लोके दृष्टा । नैवं ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः । ‘किं स्विदासीदधिष्ठानमारम्भणं कतमस्त्वित्कथाऽऽसीत्’ (ऋ.सं.१०-८१-२) इति ह्याक्षेपः । अधिष्ठानाद्यनुक्तेः । आदिशब्दाद्युक्तिभिश्च ।

‘परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते ।

साधनानां साधनत्वं यतः किं तस्य साधनैः’ इत्यादिभिः ॥

सत्तर्कदीपावली

साधननिरपेक्षमेव जगज्जन्मादिकर्तृत्वमभिप्रेतं यद्विष्णोस्तद्युक्तिविरुद्धमित्याक्षिप्य समर्थयति ॥ तदनन्यत्वमित्यादिना ॥ यदुक्तं कुलालादेः साधनसापेक्षं कर्तृत्वम् असमर्थत्वाद्विष्णुस्त्वचिन्त्य-शक्तित्वात्साधननिरपेक्षोऽपि विश्वं सृजति इत्यत्र श्रुतिमुदाहरति ॥ किंस्विदिति ॥ आरभ्यते येन तदारम्भणं यतो येन कारणादिना भूमिं जनयन्विश्वकर्मा विश्वद्रष्टा द्यां च निर्मितवान् महिना माहात्म्येन तदधिष्ठानमारम्भणं च किमासीत् । पार्थिवतैजसावयव्यवयवानां प्रलयात्किमासीत्कत-मदासीत्कथमासीन्न किमपि न कतमदपि न कथमप्यासीदित्याक्षेपार्थः किंशब्दोऽत्र, न तु प्रश्नार्थः । वाक्यशेषे अधिष्ठानादेरुत्तरत्वेनाश्रवणात् । द्यावाभूमी जनयन् देव एक इति श्रवणाद्विश्वकर्ता विष्णुरेक एव आसीदित्यर्थः । सूत्रगतादिशब्दोपात्तास्तिस्रो युक्तीर्दर्शयति ॥ परतन्त्र इति ॥

तत्त्वप्रदीपिका

स्वतन्त्राणि बहूनि च साधनानि पटादिसृष्टौ दृष्टानि । न हि तुरीतन्तुवेमादेः प्रातिस्विककार्यशक्तिः कुविन्दाद्यधीना । अतोऽन्यसामर्थ्यसहकृतः पटादिनिर्माता । ब्रह्मणस्त्वनन्यसामर्थ्यादेव जगत्सृष्टिः । तदनन्यत्वं स्वतन्त्रकारणस्य ब्रह्मणोऽन्यत्वेनाभावः । कुतः ? किं स्विदासीदित्यारम्भणशब्दादिभ्यः । आक्षेपस्वरूपो ह्ययं व्यपदेशः, न प्रश्नस्वरूपः । उत्तरत्राधिष्ठानारम्भणाद्यनुक्तेः ।

तत्त्वप्रकाशिका

अत्र हरेः स्वातन्त्र्येण जगत्कारणत्वे युक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । विष्णु-र्जगत्सृष्ट्यादिकर्तेत्युक्तम् । तस्य च स्वतन्त्रसाधनानपेक्षत्वे युक्तिविरोधप्राप्तौ न सर्वगुणत्वं तेन सिध्यतीत्यसौ निराकर्तव्य एव । तज्जगत्सृष्ट्यादिकं विषयः । किं स्वतन्त्रसाधनसापेक्षं न वेति संशयः । लोकदृष्टिरलौकिकत्वं च सन्देहबीजम् । स्वतन्त्रसाधनसापेक्षमिति पूर्वः पक्षः । विप्रतिपन्ना सृष्टिः कर्तृव्यतिरिक्तस्वतन्त्रसाधनसापेक्षा सृष्टित्वाद् घटादिसृष्टिवदिति युक्तिसिद्धत्वात् । अन्यथा तद्विरोधात् । घटसृष्टौ मृदादीनि खलु स्वतन्त्रसाधनानि । तानि विना सृष्ट्यनुपपत्तेः । अतो ब्रह्म स्वतन्त्रसाधनसापेक्षमेव सृष्ट्यादिकर्त्रिति न तस्य जगज्जन्मादिकारणत्वेन सर्वगुणपूर्णत्वसिद्धिरिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ तदनन्यत्वमिति ॥ यद्यपि घटादिसृष्टिः स्वतन्त्रबहुसाधन-सापेक्षा दृष्टा तथापि नैतद्दृष्टान्तेन ब्रह्मणो जगत्सृष्टिस्तथा कल्प्या किन्तु स्वतन्त्रसाधनस्य तदनन्य-त्वम् । किमुक्तं भवति । स्वरूपसामर्थ्यादेव तस्य सृष्टिः । कुतः । यतः किं स्विदिति श्रुतावधि-ष्ठानादिसाधनाद्याक्षेपः क्रियते । आक्षेपस्य विपर्यये पर्यवसानात् । अनुमानं तु श्रुतिविरोधाद-प्रमाणमेवेति भावः । ईश्वरसृष्टेः स्वतन्त्रसाधनसापेक्षत्वमात्रसाधने सिद्धसाधनता स्यादिति बह्वित्युक्तम् । विश्वकर्मा हरिर् यतो येनाधिष्ठानादिना भूमिं द्यां च जनयन् जनयिता विशेषेण बभूव । येन च महिम्ना विश्वतश्चक्षुरावृणोत्तदधिष्ठानं किमासीत् । आरभ्येतेऽनेनेत्यारम्भणं साधनं वा कतमदासीत् । कथं रूपं चासीत् । न किञ्चित्कथमपीत्यर्थः । किंशब्दस्य प्रश्नाक्षेपयोः समत्वात्प्रश्नोऽयं किं न स्यादित्यत आह ॥ अधिष्ठानादिति ॥ प्रश्नश्चेत्परिहारो वक्तव्यः । किं स्विद्धिमस्य भेषजमित्यादिवत् । अत्र परिहारायाधिष्ठानाद्यनुक्तेर्नायं प्रश्नः किं त्वाक्षेप एवेति भावः । युक्तिविरुद्धं चानुमानमिति भावेनाह ॥ आदीति ॥ अत्रापरतन्त्रत्वात्स्वतन्त्रत्वात्साधनसत्ता-प्रदत्वादिति व्यतिरेकिहेतुत्रयं सूचितं भवति ।

गुर्वर्थदीपिका

दण्डमृत्पिण्डादीनां जडत्वेन प्रवृत्तौ कुम्भकारापेक्षायामपि घटान्वयव्यतिरेकप्रयुक्तस्वकारण-त्वेन न तदपेक्षेति भावेनोक्तं घटसृष्टौ मृदादीनि खलु स्वतन्त्रसाधनानीति । स्वतन्त्रसाधनस्य तदनन्यत्वमित्यत्र नाध्याहारदोषः परेण शङ्कनीयः । जगत इत्यध्याहारस्य परेणापि कार्यत्वात् । इयांस्तु विशेषः । ‘सत्त्वाच्चावरस्य’ इत्युत्तरसूत्रे अस्वतन्त्रसाधनस्याङ्गीकृतत्वात् । प्रथमसूत्रे स्वतन्त्रकारणस्येत्यध्याहारस्य सूत्रसूचितत्वमित्यस्माकं गुणः । परस्य तु निर्मूलाध्याहाराख्य-दोषश्च । ‘अधिष्ठानं किंस्विदासीत्’ न किञ्चित् ‘आरम्भणं कतमस्त्विदासीत्’ न कतमदिति उभे आक्षिप्य कथाकथं केन प्रकारेण आसीदित्यनेन अण्डान्तःप्रकृत्यादीनां भूम्यादेः सृष्टत्वाद् अण्डस्याधिष्ठानत्वं प्रकृत्यादेरारम्भणत्वं च केनचिदविवेकिना कल्प्यते चेदादिकूर्मेणाण्ड-धारणायाण्डादधस्तादपि विद्यमानस्य कथं तदण्डमधिष्ठानं, ‘स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम्’ इति वचनाद् भगवत्प्रेरणां विना चलितुं महदाद्याकारेण परिणमितुं चासमर्था प्रकृतिः कथं तस्यैव स्वतन्त्रमारम्भणं, न हि मातुः स्कन्धमधिरूढः स्तनन्धयः शिशुर् मातुरेवाधिष्ठानादिकमित्याक्षेपिकीं युक्तिं सूचयति । अत एव प्रकारस्यात्य-पशब्दत्वात् प्रयोगमपि कथेत्यपशब्दीचकार । न चायं प्रश्नः ‘कश्चिदेकाकी चरति’ इत्यस्य ‘सूर्य एकाकी चरति’ इति वदुत्तराभावात् । ईश्वरसृष्टेरित्यत्र ईश्वराख्यस्वतन्त्रसाधनस्यैव सिद्धत्वात् सिद्धसाधनतेत्यर्थः ।

भावबोधः

युक्तिविरोधपरिहारादिति ॥ ‘बहुयुक्तयः’ इत्यनुव्याख्यानानुसारेण बाहुल्यलक्षणबलव-द्युक्तिविरोधपरिहारायेदमधिकरणमारभ्यत इति सुधायामेवाधिकरणोपाधेरुक्तत्वेनागतार्थता । यदि लोकानुसारेण श्रुत्युक्तजीवब्रह्मैक्यस्य स्थानैक्यादिरूपत्वं तर्हि लोकानुसारादेव ‘यतो वा’ इत्यादि श्रुत्युक्तेश्वरकर्तृकसृष्टेरपि स्वतन्त्रसाधनसापेक्षत्वं स्यादित्याक्षेपोत्थानादनन्तरसङ्गतिरिति ज्ञातव्यम् । अत एव स्वतन्त्रबहुसाधना सृष्टिर्लोके दृष्टेत्युक्तम् ॥ किमिति ॥ अत्रेश्वर-कर्तृकमहदादिसृष्टिः किं कर्तृव्यतिरिक्तस्वतन्त्रसाधनसापेक्षोत तन्निरपेक्षेति चिन्ता । तदर्थं तन्निरपेक्षत्वे युक्तिविरोधः प्राप्नोति उत नेति । तदर्थं सृष्टित्वादिरूपा युक्तिः किं श्रुतियुक्ति-विरुद्धा न भवत्युत भवतीति । तदर्थं ‘किं स्विदासीत्’ इति श्रौतः ‘किं’ शब्दः किं प्रश्नार्थ उत आक्षेपार्थ इति । तदर्थं स्वतन्त्रसाधनपरोत परतन्त्रसाधनपरेति । तदर्थं परतन्त्रसाधन-परत्वेऽपि अबादीनां स्वरूपनिषेधपरोत स्वातन्त्र्यादितद्धर्मनिषेधपरेति । तदर्थं जगदुपादानादि-साधनान्तरसद्भावे तस्य परमात्मतन्त्रत्वे च प्रमाणं नास्त्युतास्तीति ॥ विप्रतिपन्ना सृष्टिरिति ॥ अनेन लौकिकसर्वकार्यानुसारेणाकर्तृत्वं सर्वानुसार इति न्यायविवरणं व्याख्यातं भवति । स्वतन्त्रसाधनस्येति सूत्रे शेषोक्तिरियम् । स्वतन्त्रसाधनमन्यदङ्गीकृत्य तस्य ब्रह्माभेद उच्यत इत्यन्यथाप्रतीतिनिरासाय भाष्यं सूत्रतात्पर्यकथनपरत्वेन योजयति किमुक्तं भवतीति; स्वरूप-सामर्थ्यादेव । न तु साधनान्तरापेक्षयेत्यर्थः । एवञ्च स्वतन्त्रकारणस्य तदनन्यत्वमित्युक्ते स्वतन्त्रं कारणं तदेव नान्यदिति लभ्यत इति सूत्रभाष्ययोरेकार्थत्वमिति भावः । अनेन तद्वैलक्षण्येन सर्वकर्तृविलक्षणशक्तित्वमेवेति न्यायविवरणांशस्यापि तात्पर्यमुक्तं भवति ॥ यत इति ॥ उप-लक्षणमेतत् । एष सर्वेश्वर इति न्यायविवरणोदाहृतश्रुतिरपि द्रष्टव्या । अनेन विलक्षणशक्ति-त्वमेव सर्वश्रुत्यनुसारीत्यंशोऽपि व्याख्यातः ॥ अधिष्ठानादिसाधनाद्याक्षेपः क्रियत इति ॥ न चैवम् आरम्भणाद्याक्षेपशब्दादिभ्य इति सूत्रे निर्देशः स्यादिति वाच्यम्; आरम्भणशब्देना-धिष्ठानादिसाधनजातमुपलक्ष्यते । तेन च तदाक्षेपो लक्ष्यत इति लक्षितलक्षणायास्यैवार्थस्य विवक्षितत्वादिति भावः । यद्यपि ‘साधकतमं करणम्’ इति स्मरणेन शब्दादप्यर्थप्राधान्यस्य बलवत्त्वादारम्भणशब्दः सूत्रे उपात्तः । तथापि श्रौतनिर्देशानुसारेणाधिष्ठानाद्याक्षेप इत्युक्तम् ॥ विपर्यये पर्यवसानादिति ॥ नन्वेवं सति किंस्विदिति श्रुतेरधिष्ठानादिकारणान्तराभावप्रतिपाद-कत्वात् कथं स्वतन्त्रकारणस्य ब्रह्मानन्यत्वे प्रमाणत्वेन तदुपन्यास इति चेत्, न; अभिप्राय-सद्भावात् । ‘सत्त्वाच्चावरस्य’ इत्यादिना ब्रह्मातिरिक्तकारणसद्भावो हि वक्ष्यते । अनया च श्रुत्या तदभावोऽवगम्यत इत्यर्थात् स्वतन्त्रकारणाभाव एव सिध्यतीति । अत एव वक्ष्यति साधनाद्याक्षेपस्तत्सद्भावोक्त्यन्यथानुपपत्तिश्चास्य समाधानमिति ॥ बह्वित्युक्तमिति ॥ न चैवमपि महदादिसृष्टेरीश्वरतज्ज्ञानेच्छादिस्वतन्त्रबहुसाधनसाध्यत्वे पुनः सिद्धसाधनतैवेति वाच्यं; कर्तृव्यतिरिक्तस्वतन्त्रसाधनजन्यत्वस्य विवक्षितत्वात् । अत एव प्रागेवं साध्यनिर्देशः कुतः । ईश्वरज्ञानेच्छादीनां तु तत्कर्तृत्वान्तर्गतत्वेन तदनतिरिक्तत्वेन न तदादाय दोषतादवस्थ्यमिति भावः । तदुक्तं कर्मनिर्णयटीकायाम् ‘कर्तृत्वञ्च कार्यकारणं क्रियाफलाभिज्ञानतदिच्छाप्रयत्नपूर्वकः स्पन्दः । ततः सर्वकर्तेत्युक्ते सर्वज्ञः सत्यकामः सत्यसङ्कल्पः समस्तशक्तिसमन्वित एवोक्तो भवति’ इति । ‘वि’ इत्युपसर्गाद् बभूवेति शेषोक्तिः ॥ कतमदासीदिति ॥ किमासीदित्यर्थः । कथेत्यस्यार्थः कथं रूपमिति ॥ इत्यादिवदिति ॥ इत्यादेः प्रश्नस्य ‘अग्निर्हिमस्य भेषजम्’ इत्यादिपरिहारवदित्यर्थः ॥ युक्तिविरुद्धं चेति ॥ अनेन विलक्षणशक्तित्वमेवाशेषयुक्त्यनुसारीति न्यायविवरणमप्युक्ततात्पर्यकं भवति । अनुमानं तु श्रुतिविरोधादप्रमाणमिति पूर्ववाक्येनैतद्वाक्येन च युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बलवतीति न्यायविवरणमप्युक्ततात्पर्यकं भवति । भाष्ये युक्ति-भिश्चेति बहुवचनं प्रयुज्य तद्युक्तिप्रतिपादकतया ‘परतन्त्रो हीति’ प्रमाणोदाहरणादाह– अत्रेति ॥ ईश्वरो महदादिसृष्टौ स्वव्यतिरिक्तस्वतन्त्रसाधननिरपेक्ष इति प्रतिज्ञायामित्यर्थः । अपर-तन्त्रत्वादिति ॥

ननु परानपेक्षत्वं स्वतन्त्रत्वमित्यन्यत्र व्याख्यातत्वेन हेत्वोरभेद इति चेत्, न; परसापेक्षत्वा- भावोऽपरतन्त्रत्वं स्वेच्छानुसारित्वं स्वतन्त्रत्वमिति विवक्षितत्वादिति भावः । यथोक्तमनुव्याख्याने–

‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः’ इति ।

हेतुत्रयं सूचितमिति ॥ ‘परतन्त्रो ह्यपेक्षेत’ इत्यादिव्यतिरेकप्रदर्शनेनेत्यर्थः ।

भावदीपः

युक्तीति ॥ साधनान्तराणां सत्ताशक्त्यादेः स्वातन्त्र्यसाधकबहुयुक्तिविरोधपरिहारादित्यर्थः । तेन जगत्सृष्ट्यादिकर्तृत्वेनेत्यर्थः । तादृशसाधनसापेक्षकर्तरि ब्रह्मादौ सर्वगुणत्वादृष्टेरिति भावः । अत्र जन्मादिसूत्रे विवक्षितं स्वतन्त्रसाधनान्तरानपेक्षकर्तृत्वं न सिद्ध्यतीत्येवोक्तया जन्मादि-सूत्रेणास्य सङ्गतत्वे वाच्ये तेन सर्वगुणत्वं न सिध्यतीति जिज्ञासासूत्रस्थब्रह्मपदोक्तगुणपूर्त्य-सिद्ध्युक्तिस्तु जन्मादिसूत्रे तादृशकर्तृत्वविवक्षाभावे गुणपूर्त्यसिद्ध्या जिज्ञासाया एवासिद्धिरिति बाधकोपदर्शनमुखेन तत्सूत्रेण तादृशकर्तृत्वस्य विवक्षितत्वं दर्शयितुम् ॥ स्वतन्त्रेति ॥ कर्त्रन्येति योज्यम् । स्वातन्त्र्यं च कर्त्रनधीनसत्तादिमत्त्वम् ॥ अलौकिकत्वमिति ॥ अन्यभावव्यावृत्ते-श्चेत्यत्रोक्तदिशा स्रष्टुरीशस्यालौकिकत्वाद्वा परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्य इत्यत्र वक्ष्य-माणदिशा सृष्ट्यादीशगुणजातस्यालौकिकत्वाद्वा ‘उत्ताना वै देवगवा वहन्ति’ इत्यादेरलौकिकानां

देवगवानामुत्तानानामेव वहनमिव स्वतन्त्रसाधनानपेक्षमपि सृष्ट्यादिकं सम्भाव्यत इति भावः । लौकिककार्याणामनुसारेणाकर्तृतन्त्रत्वमिति न्यायविवरणेऽकर्तृतन्त्रत्वमित्यस्य कर्तृव्यतिरिक्त-स्वतन्त्रसाधनाधीनत्वमित्यर्थमुपेत्य दृष्टान्तोक्तिपरस्वतन्त्रेत्यादिभाष्यसूचितां युक्तिमाह ॥ विप्रति-पन्नेति ॥ सिद्धसाधनतानिरासाय साध्यविशेषणम् । अत्र भाष्यदिशा स्वतन्त्रबहुसाधनसापेक्षेति साध्ये निर्देष्टव्ये न्यायविवरणरीत्या साध्यनिर्देशस्तु ज्ञानेच्छादिकमादाय सिद्धसाधनताव्युदा-साय । कर्मनिर्णयटीकायां कर्तृत्वं च कार्यकारणक्रियाफलाभिज्ञानतदिच्छाप्रयत्नपूर्वकः स्पन्द इत्युक्तेः कर्तृव्यतिरिक्तेत्युक्त्यैव ज्ञानेच्छाद्यन्यस्वतन्त्रसाधनसापेक्षेत्यर्थलाभ इति भावः । अत्र साध्ये स्वतन्त्रेत्यनन्तरं सत्ताकेतिप्रवृत्तिकेत्यादिपदप्रक्षेपेण तथा पक्षे सृष्टिपदस्थाने स्थिति-संहृत्यादिपदप्रक्षेपेण च युक्तेर्बाहुल्यं बोध्यम् । वियत्पादे तु श्रुतिप्राप्तं साधनान्तरसत्तादेः स्वातन्त्र्यं निरसिष्यते । अत्र तु युक्तिप्राप्तमिति भावेनोक्तम् ॥ युक्तिसिद्धत्वादिति ॥ स्वतन्त्र-साधनसापेक्षत्वस्येति योज्यम् । अन्यथा तादृक्साधनानपेक्षत्वे । भाष्योक्तं दृष्टान्तांशं व्यनक्ति ॥ घटेति ॥ साधनतां तावद्व्यनक्ति ॥ तानीति ॥ मृदादिसत्ताशक्त्यादेः कुलालानधीनत्वस्य स्फुटत्वात्स्वातन्त्र्यांशो नोपपादितः ॥ अत इति ॥ युक्तिसिद्धत्वादित्यर्थः । विरोधनिरासाय भाष्यं व्याचष्टे ॥ यद्यपीति ॥ नैवमित्यादेरर्थो न तद्दृष्टान्तेनेत्यादि । शेषोक्त्या सूत्राक्षरार्थमाह ॥ स्वतन्त्रसाधनस्य तदनन्यत्वमिति ॥ भाष्यं तु पर्यवसितव्याख्यानमिति भावेनावतारयति ॥ किमुक्तं भवतीति ॥ न तु स्वतन्त्रमन्यदपेक्ष्येत्येवार्थः । हिर्हेताविति मत्वा भाष्यशेषमवतार्य व्याचष्टे ॥ कुतो यत इति ॥ सूत्रे आरम्भणशब्द आरभ्यते येनेति व्युत्पत्त्या साधनजातपर इति भावेनोक्तम् ॥ अधिष्ठानादीति ॥ कथमेतावता उक्तार्थः सिद्ध इत्यत आह ॥ विपर्यय इति ॥ नास्त्यधिष्ठानादिकं किमप्यतः स्वरूपसामर्थ्यादेव सृष्टिरिति पर्यवसानादित्यर्थः ॥ अप्रमाण-मेवेति ॥ ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इत्युक्तेरिति भावः ॥ बह्वित्युक्तमिति ॥ बहुसाधनेति भाष्ये साधनस्य बहुत्वं ज्ञानेच्छाद्यन्यद्दण्डादिस्थानीयसाधनबहुत्वं विवक्षितमिति भावः । सृष्टौ साधनाक्षेपपरत्वप्रतीत्यर्थं यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षा इत्युत्तरार्धं वदन् किंस्विदित्यस्यार्थमाह ॥ विश्वकर्मा हरिरिति ॥ विइत्यस्य विशेषेण बभूवेति और्णोदित्यस्यावृणोदित्यर्थः । विपर्यये पर्यवसानमाह ॥ न किञ्चिदिति ॥ अत्र साधनस्वरूपमात्रनिषेधप्रतीतावपि धर्मान्तरेण वाक्यशेषादिति न्यायेन साधकसत्त्वावेदक-वक्ष्यमाणानेकवचनबलात्स्वातन्त्र्येण न किञ्चिदित्यर्थो लभ्यत इति भावः ॥ किंस्विदिति ॥ तैत्तिरीये किंस्विद्धिमस्य भेषजमित्यस्याग्निर्हिमस्य भेषजमिति यथा परिहारस्तथेत्यर्थः ॥ युक्ति-विरुद्धं चेति ॥ यद्यपि श्रुतेर्युक्तीनां च स्वरूपसामर्थ्यादेव सृष्टिरिति भाष्योक्तसाध्येनैवान्वयो भाति । तथा सर्वकर्तृविलक्षणसर्वशक्तित्वमेवाशेषयुक्तिश्रुत्यनुसारीति न्यायविवरणोक्तेश्च । अत एव प्राकृतो यत इत्यादिना भाष्यशेषस्तथैव व्याख्यातः । तथा च सामर्थ्यादेव सृष्टिरित्ये-तद्युक्तिभिरपि साधयतीति वक्तव्यम् । तथापि तस्य स्फुटत्वात्तावता प्रागुक्तानुमानस्य दूषणा-प्राप्तेः । युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बलवतीति न्यायविवरणानुरोधेन युक्तिविरुद्धं चेति भावार्थोक्तिः । अत एव इति भावेनेत्युक्तिः श्रुतिविरोधादप्रमाणमेवेति भाव इत्युक्तिः ॥ हेतुत्रयमिति ॥ स्वतन्त्रसाधनान्तरनिरपेक्षत्वरूपसाध्य इति भावः ।

अभिनवचन्द्रिका

स्वतन्त्रसाधनानपेक्षत्व इति ॥ अत्र साधनानां स्वातन्त्र्यं नाम अपरायत्तसाधनत्वोपेतत्वम् । एतेनाचेतनानां स्वातन्त्र्यायोगात् स्वतन्त्रसाधनानपेक्षत्वे युक्तिविरोधस्यैवाभावेन तत्परिहारप्रयासो व्यर्थ इति परास्तम् ॥ तज्जगत्सृष्ट्यादिकं विषय इति ॥ अत्र यद्यपि ईश्वरो विषयः स्वतन्त्रसाधनसापेक्षो न वेति सन्देहः । कर्तृत्वमलौकिकत्वं च सन्देहबीजमिति वक्तव्यम्, तथापि स्वतन्त्रसाधनसापेक्ष इति पूर्वपक्षयित्वा स्वतन्त्रसाधनसापेक्षो नेति सिद्धान्तकरणे अस्त्येव किञ्चित्स्वतन्त्रसाधनं परन्तु ईश्वरो न तदपेक्ष इति विज्ञायेत तन्माविज्ञायीति ‘जगत्सृष्ट्यादिकं विषय’ इत्युक्तम् । जगत्सृष्ट्यादेस्तु स्वतन्त्रसाधनानपेक्षत्वे साधिते स्वतन्त्रसाधनं नेत्येव सिध्यति, कार्यानाक्षिप्तस्य कारणत्वायोगात् ॥ मृदादीनि खल्विति ॥ यद्यपि मृदादीनामपि ईश्वराधीन-साधनत्वात् स्वतन्त्रसाधनत्वं प्रतिवादिनोऽसिद्धमिति साध्यविकलो दृष्टान्तः, तथापि कर्त्रनधीन-साधनसापेक्षत्वस्यैव साध्यत्वात् । मृत्पिण्डादौ च कर्त्रनधीनसाधनत्वसद्भावेन तस्य स्वतन्त्र-साधनत्वात् । तत्सापेक्षत्वाद् घटसृष्टेर् न साध्यविकलता । मृदादीनां कर्त्रनधीनसाधनत्वमेव कुत इत्यत आह– तानि विनेति ॥ यदि मृदादीनां साधनत्वं कुलालाधीनं स्यात्तर्हि तदपहाय स्त्रष्टुं समर्थः स्यात् । न चासौ तथेति न तत्साधनत्वं तदधीनमिति भावः ॥ न तद्दृष्टान्तेनेति ॥ घटसृष्टिवन् महदादिसृष्टेः स्वतन्त्रसाधनसापेक्षत्वं न कल्प्यमित्यर्थः । तर्हि किं प्रकृत्यादीनां कारणत्वमेव नेति पृच्छति – किन्त्विति ॥ उत्तरमाह स्वतन्त्रसाधनस्येति ॥ स्वातन्त्रसाधनतया प्रतीयमानस्य प्रकृत्यादेस् तव्द्यतिरेकेणासत्त्वं, तदधीनत्वमिति यावत् । प्रकृत्यादीनां स्वातन्त्र्यमेव नास्ति, कारणत्वं तु न विहन्यत इति भावः । आशयमविद्वान् पृच्छति – किमुक्तं भवतीति ॥ आशयमुद्धाटयति ॥ स्वरूपसामर्थ्यादेवेति ॥ सत्यमुपादानादिसापेक्षा भगवत्सृष्टिः, तथापि न स्वतन्त्रसाधनसापेक्षा, कुतस् तच्छक्तेरपि स्वाधीनत्वादिति भावः ॥ किं स्विदिति श्रुताविति ॥ अनेन ‘तदनन्यत्वमारम्भणशब्दादिभ्य’ इति सूत्रं, ‘तदनन्यत्वं स्वतन्त्रसाधनतया प्रतीयमानस्य प्रकृत्यादेस्तद्व्यतिरेकेणासत्त्वं, तदधीनत्वमिति यावत् । तन्नियामकस्य तु तदभिन्नत्वं, आरम्भण-शब्दादिभ्य आरम्भणशब्दोपेत ‘किं स्विदासि’ इत्यादि श्रुत्यादिभ्य इति व्याख्यातं भवति । नन्वस्त्वनन्यशब्दस्याभेदोऽर्थो ऽधीनत्वं तु कथमर्थ इति चेत्, न अभिन्न एव स्वाधीनेऽपि ‘अनन्योऽयं मत्तः’ इति प्रयोगदर्शनात् ॥ आक्षेपस्येति ॥ आक्षेपो निन्दा । निन्दा च न व्यसनितया क्रियते किन्तु तदभावप्रतिपादानाशयेनेति आक्षेपस्य विपर्यये पर्यवसानं तदभाव-परत्वमित्यर्थः । सिंहावलोकनन्यायेन बहुपदकृत्यमाह– ईश्वरसृष्टेरिति ॥ ‘स्वतन्त्रसाधना सृष्टिर्लोके दृष्टा’ इत्येतावन्मात्रोक्तौ ईश्वरसृष्टेरपि स्वतन्त्रसाधनसापेक्षत्वमात्रं साधितं स्यात् । तथा च सिद्धसाधनतेति भावः । ‘किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित् कथासीत् । यतो भूमिं जनयद् विश्वकर्मा विद्यामौर्णोन्महिनाविश्वचक्षा’ इति ऋचं व्याचष्टे– विश्वकर्मा हरिरिति ॥ विश्वकर्मा येनाधिष्ठानादिना जनयिता बभूव, येन च राजादिमहिम्ना आवृणोत् तदधिष्ठानादिकं किमासीत् । नासीदित्यर्थः ।ननु विश्वकर्मा हरिरिति व्याख्यानमयुक्तम् । ‘य इमा विश्वाभुवनानि जुह्वद् ऋषिर्होता न्यसीदत् पिता न’ इति ऋषेर्जगत्कर्तृत्वाभिधानादित्यत उक्तम् – ऋषिरिति ॥ अयमेव प्रागुक्त ऋषिर् नातोऽन्य इति भावः । अत्रापरतन्त्रत्वादिति ॥ ईश्वरः स्वतन्त्रसाधनविधुरः साधनमपहाय स्त्रष्टुं शक्यत्वात्, यः स्वतन्त्रसाधनवान् नासौ तदभावे कर्तुं शक्तः । इदमेव हि साधानानां स्वातन्त्र्यं, यत्, तदभावे कर्तुमशक्यत्वम् । तथेश्वरः स्वतन्त्रसाधनशून्यः स्वेच्छयोपात्तसाधनत्वात्, यः स्वतन्त्रसाधनः नासौ स्वेच्छयोपात्तसाधनः, किन्तु विपक्षे कार्यानुपपत्तिभयोपात्तसाधनः, यथा कुलालः । तथेश्वरः स्वतन्त्रसाधनरहितः, साधनसत्ताप्रदत्वात्, व्यतिरेकेण कुलालवदिति व्यतिरेकिहेतुत्रयं ‘परतन्त्रो ह्यपेक्षते’ इत्यनेन भाष्यकृता सूचितमित्यर्थः । एतेन ‘आदिशब्दा-द्युक्तिभिश्च’ इति भाष्यं ‘स्वरूपसामर्थ्यादेव तस्य सृष्टिरित्यनेनान्वितमित्युक्तं भवति । ततश्च ‘स्वरूपसामर्थ्यादेव तस्य सृष्टिः’ इत्यादि, आदिशब्दाद्युक्तिभिश्चेत्यन्तभाष्यस्य, एवं योजना ‘हिशब्दो हेतौ । हि यस्मात् ‘किं स्विदासीत्’ इति साधनान्तराक्षेपः, तस्मात् स्वरूपसामर्थ्यादेव तस्य सृष्टिः, न तु स्वतन्त्रसाधनाधीना । न केवलमाक्षेपात् स्वरूपसामर्थ्यादेव सृष्टिः किन्तु आदिशब्दोक्तयुक्तिभिश्च’ इति ।

वाक्यार्थमुक्तावली

अत्रेति ॥ पूर्वं जगत्कर्तृत्वमेव नेति शङ्का परास्ता । अत्र श्रुतिसिद्धं तदुपेत्य लोकानुसारेण श्रुत्यैक्यस्य स्थानैक्यादिरूपेण मुख्यत्वे श्रुत्युक्तसर्वजगत्कर्तृत्वस्यापि लोकानुसारादेव स्वतन्त्र-साधनसापेक्षतया मुख्यत्वं स्यादित्याक्षिप्य हरेः स्वातन्त्र्येण जगत्कारणत्वे बहुत्वेन प्रबलयुक्ति-विरोधोऽत्र परिह्रियत इत्यर्थः । अत एव स्वतन्त्रबहुसाधनासृष्टिर्लोके दृष्टेति भाष्ये वक्ष्यति । सुधायां च बहुयुक्तय इत्यनुव्याख्यानानुसारेण बाहुल्यत्वलक्षणबलवद्युक्तिविरोधपरिहारायेद-मधिकरणमारभ्यत इत्युक्तम् । अत एव पूर्वाधिकरण सिद्धान्तन्यायेनाक्षेपादव्यवहितसङ्गतिर-गतार्थता च ॥ स्वतन्त्रेति ॥ साधनानां स्वातन्त्र्यं नाम कर्तृनधीनसत्तावत्वं बोध्यम् । न सर्व-गुणत्वमिति स्वतन्त्रसाधनसापेक्षत्वपारतन्त्र्यप्रसङ्गेन स्वातन्त्र्यहेतुकगुणपूर्तिर्न स्यादिति भावः ।

जगत्सृष्ट्यादिकमिति ॥ ईश्वरकर्तृकं जगत्सृष्ट्यादिकमित्यर्थः । अत्र विप्रतिपन्ना ईश्वर-कर्तृका महदादिसृष्टिः सृष्टित्वात् पटसृष्टिवदिति युक्त्या कर्त्तन्यस्वतन्त्रसाधनसापेक्षा उत श्रुति-युक्तितर्कबाधाद्युक्तेराभासतया स्वतन्त्रसाधनापेक्षा वेति चिन्ता । तदर्थमद्भ्यः सम्भूत इति श्रुतौ स्वतन्त्रसाधनप्रतीतेस् तर्कस्येष्टापादनत्वाद् विपर्ययापर्यवसानाच्च तर्कस्याभासत्वम् । युक्तेर्बाधश्रुतेः सत्प्रतिपक्षत्वम् । उत अद्भ्य इति श्रुतौ परतन्त्रसाधनस्यैवोपलम्भात्तर्कादेरनाभासत्वमिति । सति चैवं तदर्थसंशये फलफलिभावे च अद्भ्य इति श्रुतेः परतन्त्रसाधनपरत्वनिर्वाहाय चिन्तान्तरं साधनस्वरूपमेवास्ति न वेति । तदर्थमसद्व्यपदेशः सर्वथा सत्वपर उतास्वातन्त्र्येणासत्वपर इति । तदर्थं साधनसत्वे भगवदैश्वर्यं विरुध्यते उत नेति । तदर्थं साधनसत्वे पारतन्त्र्ये च प्रमाणं नास्त्युतास्तीति । स्वतन्त्रसाधनेति भाष्यानुसारेण पूर्वपक्षमाह विप्रतिपन्नेति ॥ सिद्धसाधनता-वारणाय कर्तृव्यतिरिक्तेति । ईश्वरस्य कर्तृत्वाज् ज्ञानेच्छाप्रयत्नानां कर्तृत्वान्तर्गतत्वान्न तानादाय सिद्धसाधनतेत्यर्थः । यथोक्तं कर्मनिर्णयटीकायाम् । कर्तृत्वं च कार्यकारणक्रियाफलाभिज्ञान-तदिच्छाप्रयत्नपूर्वकः स्पन्द इति ।

अत्र साधनपदेनाधिष्ठानोपादानादिकं सत्वं विवक्षितं तस्य स्वातन्त्र्यं च सत्ताशक्तिप्रवृत्तिषु विवक्षितम् । सृष्टिपदं च स्थित्याद्युपलक्षणम् । एवं च विमता सृष्टिः कर्तृधीनशक्तिकाधिष्ठान-सापेक्षा । तथोक्तरूपोपादानसापेक्षा । एवं स्थित्यादिरपीति प्रमेयभेदाद्युक्तिबाहुल्यमनेनोक्तं भवति । शेषोक्त्या सूत्रं व्याचष्टे स्वतन्त्रसाधनस्येति ॥ स्वतन्त्रसाधनमन्यदङ्गीकृत्य तस्य ब्रह्मा-भेद उच्यत इति भ्रान्तिं वारयितुमभिप्रायकथनपरं भाष्यमुत्थापयति किमुक्तं भवतीति । न तु स्वाधीनसत्ताकसाधनापेक्षयेत्येवार्थः । आरम्भणशब्द उपादाने साधनपरः । तेन च प्रधान-कारणवाचिनाधिष्ठानादिकारणान्तरं लक्ष्यते । लक्षितलक्षणया तदाक्षेपो लभ्यत इति भावेना-रम्भण शब्देत्येतद्व्याख्यापरमिति ह्याक्षेप इत्यन्तभाष्यं व्याचष्टे यत इति ॥ एतेन भाष्ये हिशब्दो यत इत्यर्थ इत्युक्तं भवति । अतः स्वरूपसामर्थ्यादेव तस्य सृष्टिर्न तु स्वतन्त्रसाधना-पेक्षयेत्यर्थः । न तु सूत्रे मुखत आरम्भणशब्दस्योपात्तत्वाट्टीकायां साधनाधिष्ठानादिति प्रयोक्तव्यम् । श्रौतनिर्देशानुसारेण टीकायां निर्देशश्चेत्सूत्रे तदुक्तं घनं किमर्थमिति चेन्न । शब्दा-दप्यर्थप्राधान्यस्य बलवत्वात् । कारणवाचिन आरम्भणशब्दस्य सूत्र उपादानोपपत्तेः । स्पष्ट-मेतत्सुधायाम् ॥ विपर्यये पर्यवसानादिति ॥ अधिष्ठानादिकमासीत्किं नासीदेवेति विपर्यय-पर्यवसानादित्यर्थः ।

ननु साधनान्तराक्षेपे तदभावोऽवगम्यते । तस्य स्वातन्त्र्याभावः कथं लभ्यत इति चेन्न । वक्ष्यति हि ब्रह्मातिरिक्तकारणसद्भावम् आरम्भणशब्दादिभिश्च तदभावोऽवगम्यते । ततोऽर्था-त्स्वतन्त्रकारणाभाव एव सिध्यतीति सुधायामेव समाहितत्वात् । वक्ष्यति च साधनाद्याक्षेपः । तद्भावोक्त्यन्यथानुपपत्तिश्चास्य समाधानमिति ॥ सिद्धसाधनता स्यादिति ॥ ईश्वरतज्ज्ञाने-च्छादिकमादाय सिद्धसाधनतावारणाय बह्वित्युक्तम् । ईश्वरतज्ज्ञानादेः कर्तृत्वान्तर्गतानेक-साधनत्वाद्बहुत्वाभावादिति भावः । यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिविश्वचक्षा इत्युत्तरार्धव्याख्यानपूर्वं किं स्विदासीदधिष्टानमारम्भणं कतमस्वित्कथासीदिति पूर्वार्धं व्याचष्टे विश्वकर्मेत्यादिना ॥ वीत्युपसर्गस्य क्रियाक्षेपत्वाद्बभूवेति शेषोक्तिः । और्णोद् आवृणोत् । कथा कथं रुपम् । इत्यादिवद् इत्यादिप्रश्नस्य ‘अग्निर्हिमस्य भेषजम्’ इत्यादिपरिहारवत् ॥ युक्तिविरुद्धं चेति ॥ एतेन हि यस्मादाक्षेपस्तस्मात्पूजादिशब्दाद्युक्तिभिश्च स्वरूपसामर्थ्यादेव तस्य सृष्टिर् न तु स्वतन्त्रसाधनसापेक्षेति भाष्ययोजनोक्ता भवति ॥ अपरतन्त्रत्वादिति ॥ परसापेक्षत्वादिति भावः ॥ स्वतन्त्रत्वादिति ॥ स्वेच्छानुसारित्वादित्यर्थः । सूचितमिति स्मृतौ व्यतिरेकव्याप्ति-प्रदर्शनम् । ईश्वरः सृष्टौ साधनं नापेक्षते परतन्त्रत्वाभावात् स्वेच्छानुसारिप्रवृत्तिमत्वात् साधन-सत्ताप्रदत्वात् । व्यतिरेकेण कुलालादिवदिति व्यतिरेकित्रयं सूचितमित्यर्थः । स्वतन्त्रसाधनस्य तदनन्यत्वमीश्वरसम्बन्धिन्यां महदादिसृष्टौ स एव स्वतन्त्रसाधनं नातोऽन्यत्स्वतन्त्रसाधन-मपेक्षितमिति यावत् । स्वतन्त्रसाधनत्वाक्षेपकश्रुतेर्युक्तिभिश्चेति सूत्रार्थः ।

तत्त्वसुबोधिनी

युक्तिविरोधपरिहारादिति ॥ तथा च बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहारस्यात्र क्रिय-माणत्वान् न पूर्वेणास्य गतार्थता इति भावः । अत्र यदि लोकानुसारेण श्रुत्युक्तब्रह्मैक्यस्य स्थानैक्यादिरूपत्वं तर्हि लोकानुसारादेव यतो वेत्यादिश्रुत्युक्तेश्वरकर्तृकसृष्टेरपि स्वतन्त्रसाधन-सापेक्षत्वं स्यादित्याक्षेपणोत्थानादनन्तरसङ्गतिः । ननु स्वतन्त्रसाधनसापेक्षत्वे प्रमाणा-भावान्नेदमुपपद्यते इत्याशङ्क्य तत्र प्रमाणम् आह ॥ विप्रतिपन्ना इति ॥ सिद्धसाधनतापरिहाराय कर्तृव्यतिरिक्तेति साध्ये विशेषणम् ॥ अन्यथेति ॥ कर्तृव्यतिरिक्तस्वतन्त्रसाधनानपेक्षत्वे इत्यर्थः । दृष्टान्ते साध्यसत्त्वमुपपादयति ॥ घटसृष्टाविति ॥ स्वतन्त्रसाधनस्येति सूत्रे शेषेक्तिरियं स्वतन्त्रसाधनमन्यदङ्गीकृत्य तस्य ब्रह्माभेद उच्यते इति । अन्यथा प्रतीतिनिरासाय प्रवृत्तं भाष्यं सूत्रतात्पर्यकथनपरत्वेन योजयति ॥ किमुक्तं भवतीति ॥ स्वरूपसामर्थ्यादेव न तु साधनान्तरा-पेक्षयेत्यर्थः । एवं च साधनस्य तदनन्यत्वमित्युक्ते स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते इति सूत्रभाष्ययोरेकार्थत्वमिति भावः ॥ यत इति ॥ उपलक्षणमेतत् । एषः सर्वेश्वर इति श्रुतिरपि दृष्टव्या ॥ अधिष्ठानादीति ॥ न चैवम् आरम्भणाद्याक्षेपशब्दादिभ्य इति सूत्रनिर्देशः स्यादिति वाच्यम् । आरम्भणशब्देन, अधिष्ठानादिसाधनजातमुपलक्ष्यते । तेन चाक्षेपो लक्ष्यते इति लक्षितलक्षणयास्यैवार्थस्य विवक्षितत्वादिति भावः ।

यद्यपि किंस्विदिति श्रुतौ अधिष्ठानं प्रथममुक्तं तथापि आरम्भणशब्दार्थस्य कारणस्य साधनेष्वतिशयितत्वात् सूत्रे आरम्भणशब्दः । न च तर्हि टीकायामधिष्ठानादिशब्दप्रयोगः कथ-मिति वाच्यम् । श्रौतनिर्देशानुसारेण तथोक्तत्वाद् इति भावः । अस्त्वाक्षेपे ततः किमित्यत आह ॥ आक्षेपस्येति ॥ अधिष्ठानादिकम् आसीत् किं नासीदिति विपर्ययपर्यवसानादित्यर्थः । न च स्वतन्त्रकारणस्य ब्रह्मानन्यत्वे किंस्विदिति श्रुत्युदाहरणमयुक्तं, तस्याधिष्ठानादिकारणान्तरा-भावप्रतिपादकत्वादिति वाच्यम् । अभिप्रायसद्भावात् । ‘सत्वाच्चावरस्य’ इत्यादिना ब्रह्मातिरिक्तकारणसद्भावो हि वक्ष्यते । अनया च श्रुत्या तदभावोऽवगम्यते इति । अर्थात् स्वतन्त्रकारणाभाव एव सिध्यतीति । अत एव वक्ष्यति साधनाद्याक्षेपस्तु ऋग्भाष्योक्त्य-न्यथानुपपत्तिश्च अस्य समाधानमिति भावः ।

ननु तर्ह्यनुमानस्य का गतिरित्यत आह ॥ अनुमानं त्विति ॥ स्वतन्त्रबहुसाधनेति भाष्य बहुपदं किमर्थं प्रयुक्तमित्यत आह ॥ ईश्वरसृष्टेरिति ॥ बह्वित्युक्तमिति ॥ न चैवमपि महदादि-सृष्टेरीश्वरज्ञानेच्छादिस्वरूपतन्त्रबहुसाधनसाध्यत्वेन पुनः सिद्धसाधनतैवेति वाच्यम् । कर्तृ-व्यतिरिक्तस्वतन्त्रसाधनजन्यत्वस्य विवक्षितत्वात् । ईश्वरज्ञानेच्छादीनां कर्तृत्वान्तर्गतत्व तदति(नति)रिक्तत्वेन न तद्दोषतादवस्थ्यम् इति भावः । अप्रतीतार्थत्वाच्छ्रुतिं व्याचष्टे ॥ विश्व-कर्मेति ॥ वीत्युपसर्गाद् बभूवेति शेषोक्तिर् और्णोदित्यस्य आवृणोदित्यर्थः । कतमदासी-दिति ॥ किमासीदित्यर्थः । कथेत्यस्यार्थः कथं रूपमिति । प्रश्नश्चेत्परिहारो वक्तव्य इत्यत्र दृष्टान्तमाह । किं स्विद्धर्मस्य भेषजम्’ इत्यादिवदित्यादेः प्रश्नस्य अग्निर्हिमस्य भेषजमित्यादि-परिहारवदित्यर्थः । भाष्ये मुक्तिभिश्चेति बहुवचनं प्रयुज्य तद्युक्तिप्रतिपादकतया ‘परतन्त्रो हि’ इति प्रमाणोदाहरणमाह ॥ अत्रेति ॥ ईश्वरो महदादिसृष्टौ स्वव्यतिरिक्तस्वतन्त्रसाधननिरपेक्ष इति प्रतिज्ञायाम् इत्यर्थः । अपरतन्त्रत्वात् स्वतन्त्रत्वादिति ॥ ननु परानपेक्षत्वं स्वतन्त्रत्व-मित्यन्यत्रोक्तत्वेन हेत्वोरभेद इति चेत् परसापेक्षत्वाभावोऽपरतन्त्रत्वं, स्वेच्छानुसारित्वं स्वतन्त्रत्व- मिति विवक्षितत्वादिति भावः ॥ हेतुत्रयमिति ॥ परतन्त्रो ह्यपेक्षते’ इत्यादि व्यतिरेक-व्याप्तिप्रदर्शनेनेत्यर्थः ।

वाक्यार्थविवरणं

विप्रतिपन्नमहदादिसृष्टेः स्वतन्त्रसाधनसापेक्षत्वमात्रसाधने ईश्वररूपस्वतन्त्रसाधनापेक्षत्वेन सिद्धसाधनतावारणाय कर्तृव्यतिरिक्तेत्युक्तम् । अस्वतन्त्रसापेक्षसिद्धार्थान्तरवारणाय स्वतन्त्र-पदम् । अन्यथा स्वतन्त्रसाधनानपेक्षत्वे तदिति ॥ एतद्युक्तीत्यर्थः ॥ दृष्टान्ते साध्यमुपपाद-यति । घटसृष्टावित्यादिना ॥ ईश्वरसृष्टेः । महदादिसृष्टेः ॥ सिद्धसाधनतेति ॥ ईश्वररूप-स्वतन्त्रसाधनमादायेति शेषः । येन च महिम्ना विश्वतश्चक्षुर्भूमिं द्यां चावृणोत्तादृशमहिमोपेतो विश्वकर्मेत्येवं योज्यम् । एवं च द्वितीययच्छब्दस्य अन्वयाभाव इति शङ्कानवकाशः । येन च महिम्ना इत्यनयोर्न सामानाधिकरण्यं किन्तु येन चाधिष्ठानेन महिम्ना चेति वैय्यधिकरण्यमेवेत्यन्ये ।

वाक्यार्थमञ्जरी

तस्य जगत्कर्तृत्वस्य तेन युक्तिविरुद्धत्वलक्षणेन साध्यवैकल्यं परिहरति ॥ घटसृष्टाविति ॥ स्वतन्त्रसाधनस्य तदनन्यत्वं ब्रह्मानन्यत्वं तदतिरिक्तं स्वतन्त्रसाधनं नास्तीति यावत् । आरम्भण- मुपादानं तदभावप्रतिपादकश्रुतेरपरतन्त्रत्वादियुक्तिभिश्चेत्यर्थः । किमुक्तं भवतीति प्रश्नोत्तरमाह ॥ स्वरूपसामर्थ्यादेवेति ॥ न तु साधनान्तरापेक्षयेत्यर्थः । आक्षेपमात्रस्याभिमतसाधकत्वा-भावादाह ॥ विपर्यये पर्यवसानादिति ॥ न किञ्चिदित्यादिरूपेणेत्यर्थः ॥ सिद्धसाधनतेति ॥ ईश्वरस्य स्वाख्यस्वतन्त्रसाधनसापेक्षताङ्गीकारादिति भावः । ‘यतो भूमिं जनयन्विश्वकर्मा विद्या-मौर्णोन्महिना विश्वचक्षा’ इत्युत्तरार्धेन सह किंस्विदिति श्रुतिं व्याचष्टे ॥ विश्वकर्मेति ॥ वीत्युप-सर्गाद्बभूवेति शेषोक्तिः । येन चाधिष्ठानादिना और्णोदित्यस्यार्थः ॥ आवृणोदिति ॥ भूमिं द्यामिति वर्तते । कतमस्त्विदिति किमित्यर्थः । कथेत्यस्यार्थः कथं रूपमिति ॥ समत्वा-दिति ॥ ‘कुत्साप्रश्नवितर्केषु क्षेपे किं शब्द इष्यत’ इत्युक्तेरिति भावः । किंस्विद्धिमस्येति ॥

हिमस्य भेषजमौषधं निवारकं किं स्वित् किमित्यादिप्रश्नस्याग्निर्हिमस्य भेषजमित्यादिपरिहारवदित्यर्थः। युक्तिभिरिति बहुवचनघटनायाह ॥ अत्रेति ॥ ईश्वरः स्वतन्त्रसाधनं नापेक्षते इति प्रतिज्ञाया-मित्यर्थः । अपरतन्त्रत्वात्परसापेक्षत्वाभावात् । स्वतन्त्रत्वात् स्वेच्छानुसारित्वादतो नाभेदः ।


ॐ भावे चोपलब्धेः ॐ

सूत्रभाष्यम्

॥ ॐ भावे चोपलब्धेः ॐ ॥ १६ ॥

स्वतन्त्रसाधनभावे प्रमाणैरुपलभ्येत ।

‘अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन ।

अतो वेदत्वमेतेषां यतस्ते सर्ववेदका’ इति स्कान्दे ॥

सत्तर्कदीपावली

परतन्त्रत्वाभावात्स्वतन्त्रत्वात्साधनसाधनत्वस्य तदधीनत्वान्न विष्णुः साधनापेक्षीत्यर्थः श्रुत्यन्तरैरप्यनुपलम्भान्न विष्णोरप्यपेक्षणीयं साधनमस्तीत्याह ॥ भावे चेत्यादिना ॥

तत्त्वप्रकाशिका

युक्त्यन्तरेण स्वतन्त्रसाधनं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याचष्टे ॥ भावे चेति ॥ यदि भगवत्सृष्टौ तदतिरिक्तं स्वतन्त्रसाधनमस्ति तर्हि वेदादिप्रमाणैरुपलभ्येत न चोपलभ्यते । अतो नास्तीत्यर्थः । प्रमाणानुपलब्धमपि किं न स्यादित्यत आह ॥ अनुक्तमिति ॥ भगवद्गुणादिकं च सामान्य-तस्तदुक्तमेवेत्यदोषः ।

गुर्वर्थदीपिका

‘भगवद्गुणादिकं च सामान्यत’ इत्यत्र सामान्यतो ऽन्तरहिता गुणाः सन्तीत्यनन्तत्वे-नेत्यर्थः । ‘अद्भ्यः सम्भूतः पृथिव्यै रसाच्च’ इत्यादिना ‘विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्र’ इति समग्रं वाक्यं गृह्णाति ।

भावबोधः

वेदादिप्रमाणैरिति ॥ उक्तश्रुतियुक्तिविरोधेन पूर्वपक्ष्युक्तयुक्तेरप्रामाण्यादिति भावः ।

भावदीपः

सूत्रे चशब्दः प्रागुक्तहेतूनां विपक्षे बाधकरूपयुक्तिसमुच्चय इति भावेनाह ॥ युक्त्यन्तरेणेति ॥ तर्के बाधवारणायापादकं विशिनष्टि ॥ तदतिरिक्तमिति ॥ अनुक्तमितीति ॥ इतिहासपुराणयोः पञ्चमवेदत्वप्रसिद्धेः स्मृतौ पञ्चभिरित्युक्तमिति भावः । ‘संत्यश्रुता’ इति वक्ष्यमाणश्रुतिविरोध इत्यत आह ॥ भगवद्गुणादिकं चेति ॥

अभिनवचन्द्रिका

वेदादिप्रमाणैरुपलभ्येतेति ॥ आदिशब्देन वेदानुसारिपौरुषेयग्रन्था गृह्यन्ते । एतेन ‘भावे चोपलब्धेः’ इति सूत्रं ‘प्रसङ्ग’ इति शेषपूरणेन ‘स्वतन्त्रसाधनभावे उपलब्धेः प्रसङ्ग’ इति व्याख्यातं भवति ॥ प्रमाणानुपलब्धमपीति ॥ आगमानुपलब्धमपि प्रागुक्तानुमानोपलब्धत्वात् किं न स्यादित्यर्थः । भाष्ये अनुक्तं पञ्चभिर्वेदैरिति ॥ पञ्चभिर्वेदैरनुक्तमतीन्द्रियं वस्तु, कुतश्चन अनुमानादेः, नास्ति न सिध्यतीत्यर्थः । अयं भावः नानुमानं स्वातन्त्र्येणाऽर्थं साधयति, किं तर्हि प्रत्यक्षागममूलमेवार्थं साधयति । न तावदत्र प्रत्यक्षं मूलमिति शक्यते वक्तुम्, तस्यातीन्द्रियत्वात् । एवं चागमस्याप्यभावे निर्मूलमनुमानममानमिति । ननु वेदानुक्तमतीन्द्रियं यदि नानुमानात् सिध्यति, तर्हि ईश्वरस्य वेदानुक्तगुणसिद्धिर्न स्यात् । न चेष्टापत्तिः ‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का’ इति वेदानुक्तगुणसद्भावाभिधाना-दित्यत आह भगवद्गुणादिकं चेति ॥ वेदशब्दार्थपर्यालोचनयापि वेदस्य सर्वार्थगमकत्वं गम्यत इति भावेनाह मूले अतो वेदत्वमिति ॥

वाक्यार्थमुक्तावली

युक्त्यन्तरेणेति ॥ परपक्षे बाधकतर्केणेत्यर्थः । तर्के इष्टापत्तिनिरासाय तदतिरिक्तेति ॥ अनन्त- वेदानां चतुर्वेदात्मकत्वान्नानुपपत्तिः । संत्यश्रुता इति श्रुतिविरोध इत्यत आह भगवद्गुणादिक-मिति ॥ अश्रुता अपि गुणाः सन्तीत्येवंरूपेण सामान्यतो वेदोक्तमेवेत्यर्थः । तदुक्तं वेदगम्य-माहात्म्यस्यापि वेदेनैव गम्यत्वादिति । सूत्रे भाव इत्येतत्सतिसप्तमी । स्वतन्त्रसाधनस्येति शेषः ।

तत्त्वसुबोधिनी

वेदादिप्रमाणैरिति ॥ उक्तयुक्तिविरोधेन युक्तेरप्रामाण्यादिति भावः । तर्हि भगवद्गुणानामपि वेदेनानुपलब्धत्वात् तदभावः स्यादित्यत आह ॥ भगवदिति ॥ तदुक्तमेव पञ्चवेदोक्तमेव ।

वाक्यार्थविवरणं

ननु वेदानुक्तगुणानामपि सत्त्वादुक्तमयुक्तमित्यत आह ॥ भगवदिति ॥ सामान्यत इति ॥ तदनुक्ता अपि गुणा भगवति सन्तीत्येवं यदा वदति तदा तेषां सामान्यतो वेदोक्तत्वमेव प्राप्त-मित्यदोष इति भावः ।

वाक्यार्थमञ्जरी

ईश्वरातिरिक्तस्वतन्त्रसाधनस्य भावे सत्वे उपलब्धेः प्रसङ्गः प्रमाणैरुपलभ्येतेति यावत् । तर्हि वेदानुक्तानां रमोपास्यानां गुणादीनामभावप्रसङ्ग इत्यत आह ॥ भगवदिति ॥ कतिपय-गुणादीन्विशिष्योक्त्वा इतोऽन्येऽपि सन्तीति प्रतिपादने सामान्यतः श्रुत्युक्तत्वं प्राप्तमिति भावः ।