०५ भोक्त्रधिकरणम्

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ

५. अथ भोक्त्रधिकरणम्

सूत्रभाष्यम्

॥ ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ ॥ १४ ॥

‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ इति (मुं.उ.३-२-७) मुक्तजीवस्य परापत्तिरुच्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव । न ह्यन्यस्यान्तत्वं युज्यत इति चेन्न । स्याल्लोकवत् । यथा लोके उदके उदकान्तरस्यैकीभावव्यवहारेऽप्यन्त- र्भेदोऽस्त्येव, एवं स्यादत्रापि । तथा च श्रुतिः ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’ (क.उ.४-१-५) इति । स्कान्दे च–

‘उदकं तूदके सिक्तं मिश्रमेव यथा भवेत् ।

न चैतदेव भवति यतो वृद्धिः प्रदृश्यते ॥

एवमेव हि जीवोऽपि तादात्म्यं परमात्मना ।

प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादिविशेषणादिति ।

ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।

तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे’ ॥ इति च ।

‘न ते महित्वमन्वश्नुवन्ति’ (ऋ.सं.७-९९-१) ‘न ते विष्णो जयमानो न जात’ (ऋ.सं.७-९९-२) इत्यादि च । फलत्वेऽपि युक्तिविरोधेऽन्तर्भावादत्रोक्तम् ।

सत्तर्कदीपावली

यज्जगज्जन्मादिकर्तृत्वमुक्तं विष्णोस् तन्न युज्यते । तस्य जीवाभिन्नस्य जीववज्जगत्कर्तृत्वायोगात् । परेऽव्यये सर्व एकीभवन्तीति श्रुत्यन्यथानुपपत्त्या जीवेशाभेदसिद्धिरिति न वाच्यम् । एकीभवन्तीति श्रुतेर्नीरेण क्षीरमेकीभवतीतिवत् संसर्गविषयत्वेन जीवविष्णोरभेदासम्भवात् । न च नीरक्षीरयोरभेद एव । हंसेन पृथक्क्रियमाणत्वात् । नीरप्रक्षेपे क्षीरस्य परिमाणाधिक्यदर्शनाच्चेत्येतमर्थं विस्तृत्य दर्शयति । भोक्त्रापत्तेरित्यादिना ।

तत्त्वप्रदीपिका

कर्माणि विज्ञानमयश्चेत्यत्र न स्वरूपैकत्वमुच्यते । कर्मणां तदनभ्युपगमात् । प्रपञ्चितं चैतत्तत्वनिर्णये भगवत्पादैरेव– ‘स्वरूपैक्याभिप्राये कर्माणि विज्ञानमयश्चेति न युज्यते । न हि तत्पक्षेऽपि कर्मणां ब्रह्मैक्यं मुक्तावस्ति । निवृत्त्यभिप्राये पञ्चदशकलानामपि समत्वात्’ इत्यादि । अतो ज्ञानोत्तरकालीनकर्मभिः सह मुक्तजीवस्य परोपकण्ठे स्थितिस्तद्बुद्धिसारूप्यं वेह विवक्षितम् । ‘स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयत’ इति च श्रुतिर्ब्रह्मविदः कर्मणामक्षयमाचष्टे । तादृक्त्वमेकस्थानगतत्वेन मिश्रत्वम् । तादात्म्यं तादात्म्यसादृश्यादेव, न स्वरूपैक्यम् । नासौ भवतीति प्रकटप्रतिषेधात्तदधीनत्वं तत्प्राधान्यं तन्मत्यैक्यं तत्सामीप्यं तत्सारुप्यं तत्स्वारूप्य-मित्यनेकविधं हि तादात्म्यम् । कुत एतज्ज्ञानफलं निर्वाणमत्रोक्तमित्यत आह– फलत्वेऽपीति ॥ फलत्वेऽप्येतदत्रोक्तं, जीवैक्य ईशितुः कर्तृत्वविरोधस्य युक्तिविरोधेऽन्तर्भावात् । यावन्न जीवा-दात्यन्तिकभेदसिद्धिस्तावद्युक्तिविरुद्वमीश्वरस्य कर्तृत्वम् । न खल्वितोऽधिको यौक्तिको विरोधोऽस्ति । न हि परतन्त्रेणाल्पविदाऽल्पशक्तिना दुःखिनाऽभिन्नस्य परस्य सर्वकर्तृत्वं युक्तम् । अनीश्वरत्वादि-प्रसङ्गात् । अपरथा कथमितरव्यपदेशादित्यादि । अतोऽस्य विचारस्य फलगोचरत्वेऽपि प्रधानयुक्ति-विरोधविचारेऽन्तर्भावात्प्रथमप्राप्तत्वाच्चाविरोधप्रस्तावस्यात्रोपपत्तिः ।

तत्त्वप्रकाशिका

अत्र पुनर्विष्णोर्जगत्कारणत्वादौ युक्तिविरोधस्य परिह्रियमाणत्वादस्ति शास्त्रादिसङ्गतिः । विष्णोर्जगत्कर्तृत्वादि पूर्वमभिहितं तस्य च युक्तिविरुद्धत्वे लक्षणमसम्भवि स्यादतोऽसौ निराकरणीय एव । जगज्जन्मादिकर्तृत्वं विषयः । परमात्मनो युक्तमयुक्तं वेति सन्देहः । वादिविवादः सन्देह-बीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद् व्याचष्टे ॥ भोक्त्रापत्तेरिति ॥ न विष्णोर्जगत्कर्तृत्वादि युक्तम् । तस्य जीवाभिन्नत्वात् । न हि जीवाभिन्नस्य जगत्कर्तृत्वाद्युपपद्यते । जीवाभेदो ह्युभयगतविरुद्धधर्मपरित्यागेन जीवस्येश्वरसालक्षण्यग्रहणेनेश्वरस्य जीवसालक्षण्यग्रहणेन वा सम्भवति । सर्वथा न जगत्कारणत्वादीश्वरैकनिष्ठं सम्भवति । तस्य जीवाभेद एव कुत इति चेत् । कर्माणि विज्ञानमयश्च आत्मेत्यादौ मुक्तजीवस्य परमात्मत्वप्राप्तिः श्रूयते । किं चातः । तेनैव हेतुना मुक्तेश्वरयोरभेदसिद्धिः । यो यथा श्रूयते स तथेति व्याप्तेः । मुक्तजीवाभिन्नस्यापि कथञ्चिज्जगत्कारणत्वं निर्वोढुं शक्यमिति चेन्न । मुक्तावैक्ये संसारेऽप्यैक्यस्याऽऽवश्यकत्वात् । न हि भिन्नमभिन्नतां यातीति युक्तम् । अतो जीवाभिन्नत्वादीश्वरस्यैव परमार्थतो जगत्कारणत्वा-द्यनुपपन्नमिति लक्षणसूत्रं न युक्तमिति भावः ।

नञध्याहारेण सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ जीवेशयोरभेदाभावान्नेश्वरस्य जगत्कारणत्वादि विरुद्धम् ऐक्येनोक्तत्वान्मुक्तजीवस्य परमात्माभिन्नत्वेन तत्सिद्धिरिति चेन्न । एकीभूतत्वेनोक्त-जलेऽन्तर्भेददर्शनेन व्यभिचारात् । ऐक्योक्तिस्तु स्थानैक्याद्यालम्बनत्वेन जलैकीभावोक्तिवदुपचरिता स्यादिति भावः । न श्रुतेः स्वातन्त्र्येणोपचरितार्थत्वकल्पनं किन्तु श्रुत्याप्युक्तमित्याह ॥ तथा चेति ॥ एवं मुनेर्विजानत आत्मा भवति गौतमेति वाक्यशेषः । एतेन बाधकं विनोपचारकल्पन-

मयुक्तमित्येतदपि परास्तम् । ‘निरञ्जनः परमं साम्यमुपैति’ ‘परात्परं पुरुषमुपैति दिव्यम्’ इत्यादि सन्निहितवाक्यविरोधाच्च जलयोरप्यैक्यान्न व्यभिचार इत्यत उक्तार्थे स्मृतिं चाह ॥ स्कान्दे चेति ॥ तादात्म्यं परमात्मना प्राप्त इत्युक्तोऽपीत्यर्थः । मुक्तोऽपीति वा । हरौ नियतचित्तत्वाद् ग्रहवत्तत्प्रवेशनात् । ‘मोक्षं तादात्म्यमित्याहुर्न तु तद्रूपतः क्वचित्’ इति वचनात् । अल्पमुक्तानामेतदस्त्वित्यत आह ॥ ब्रह्मेति ॥ वर्तमाननिषेधात्स्यादुत्तरत्रेत्यत आह ॥ नेति ॥

ननु मुक्तेश्वरयोर्भेदसमर्थनं फलाध्यायसङ्गतमतो नैतत्सूत्रार्थः किन्तु चेतनाचेतनात्मकप्रपञ्चस्य ब्रहात्मकत्वे विषयस्य विषयित्वं स्यात् । तथा च विषयविषयिविभागो न स्यादित्याशङ्कां समुद्रात्म-नामपि फेनतरङ्गादीनां विभागवदुपपद्यत इति अत्र निरस्यत इत्यत आह ॥ फलत्वेऽपीति ॥ एतदधिकरणस्य फलाध्यायसङ्गतत्वेऽप्यत्र नासङ्गतिर्येनान्यार्थकल्पनम् । उक्तरीत्या युक्तिविरोध-परिहारेऽप्यन्तर्भावात् । अन्यथोभयान्तर्गतस्यैकत्राप्यनुक्तिप्रसङ्ग इति भावः । अर्थान्तरं तु प्रपञ्चस्य ब्रह्मात्मकत्वनिरासेन निरस्तम् । भोक्तृत्वापत्तेरिति भावप्रधाननिर्देशाभावाच्च । अतो विष्णोर्जग-त्कारणत्वादौ युक्तिविरोधाभावादुपपन्नं लक्षणसूत्रमिति सिद्धम् ।

गुर्वर्थदीपिका

तस्मिन्परमात्मनि आत्मा चित्तं यस्य स तदात्मा, तस्य भावस्तादात्म्यमिति भावेनोक्तं हरौ नियतचित्तत्वादिति ॥ तादात्म्यं परमात्मनेत्यत्र तस्य परमात्मनो आत्मा देहो यस्य स तदात्मा आधाराधेयभावसम्बन्धः षष्ठ्यर्थः । तस्य भावस्तादात्म्यमिति व्युत्पत्तिमभिप्रेत्योक्तं गृहवत्तत्प्रवेशनाद् इति ‘न ते महित्वमन्वश्नुवन्ति’ इत्यस्यायमर्थः । हे विष्णो त्वं मात्रया प्रमाणेन परो ऽतिशयितोऽस्ति, तव यादृशं परिमाणं तादृशं कस्यापि नास्तीत्यर्थः । निरवधिकव्याप्तोऽसीति भावः । साऽपि व्याप्तिः प्रभया सूर्यस्येव नेत्याह तन्वा तावत्पर्यन्तं शरीरेणैव वृधान अभिवृद्धो ऽत एव ते महित्वं महिमानं केऽपि नाश्नुवन्ति । न प्राप्नुवन्ति ‘अशुगतौ’ इति धातुः । जीवानामणुत्वेन तव परममहत्परिमाणदेहवत्त्वेन विरुद्धधर्माधि-करणत्वात्तव महिमा कैरपि जीवैर्न प्राप्तुं शक्यते । अतस्त्वं सकलजीवेभ्योऽत्यन्तविलक्षणोऽ-सीति । एवं च सहेतुकं भेदस्य श्रुत्यैवोक्तत्वेन न कदाऽपि जीवब्रह्मणोरैक्यमिति भावः । प्रपञ्चस्य ब्रह्मात्मकत्वनिरासेनेत्युपलक्षणं, जीवब्रह्मचितोरैक्याङ्गीकारेऽपि जडप्रपञ्चैक्यस्य परेणैवानङ्गीकारात् शङ्कैवेयं निर्मूला । भोक्तृभोज्यविचारस्याब्रह्ममीमांसारूपत्वेन शास्त्रादेव बहिर्भावः परकीयभाष्यस्येत्यपि द्रष्टव्यम् । फेनतरङ्गादीनां समुद्रेण सह तवापि मते भेदा-भेदाङ्गीकारात्स्यात्तत्र विभागः । जीवजडात्मकप्रपञ्चस्य तु त्वयैव ब्रह्मण्यत्यन्ताभेदाङ्गीकारेण विभागनिर्वाहकभेदाभावात्कथं भोक्तृभोज्यविभागः । अतो दृष्टान्तानानुगुण्यं चेत्यपि द्रष्टव्यम् । भोज्यस्येति तवाध्याहारः, ब्रह्मत्वस्येत्यस्माकमध्याहार इति समम् । भोक्तृत्वेति भाव-निर्देशस्तवाधिको दोष इति भावेनाह भोक्तृत्वापत्तेरिति भावनिर्देशाभावादिति ।

भावबोधः

‘श्रुतिगुणयुक्तयः’ इत्यनुव्याख्याने युक्तीनां श्रुत्युपसर्जनत्वरूपश्रुतिगुणत्वं श्रुतिसंवादित्वेन श्रुतिसिद्धलिङ्गकत्वेन चाभिप्रेतम् । तथा च तेनैवाधिकरणद्वयोपाधिकथनमित्यभिप्रेत्य सुधाया-मतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलयुक्त्या विरोधः परिहृतः । इदानीं तु श्रुतिसिद्धलिङ्गत्वेन प्रबलया युक्त्या विरोधः परिह्रियत इत्यधिकरणोपाधिः पूर्वेणास्य गतार्थतापरिहारायोक्तः । तदभिप्रायेणाऽऽह– अत्र पुनरिति ॥ अनन्तरसङ्गतिस्तु पूर्वसूत्रे एतेनेत्यतिदेशेन ‘जीवाद्भवन्ति भूतानि’ इति श्रुतिप्राप्तजीवकर्तृत्वपक्षनिरासो न युज्यते । जीवब्रह्मणोरभेदेन जीवस्य जगत्कर्तृत्वाभावे तदभिन्नस्य ब्रह्मणस्तन्न स्यात् । ब्रह्मणस्तदङ्गीकारे तदभिन्नजीवस्यापि तत्स्यात्, इत्युभयथापि न ब्रह्मण एव जगत्कर्तृत्वमित्याक्षेपोत्थानादिति ज्ञातव्यम् ॥ परमात्मन इति ॥ अत्र ब्रह्मण एव परमार्थतो जगत्कर्तृत्वमयुक्तमुत युक्तमिति चिन्ता । तदर्थं ब्रह्मणो जीवाभिन्नत्वरूपो हेतुः किं सिद्ध उतासिद्ध इति । तदर्थं ‘परेऽव्यये सर्व एकीभवन्ति’ इत्यादिश्रुतिः किं स्वरूपैक्यरूपमुख्यार्था उत स्थानैक्यादिरूपोपचरितार्थेति । तदर्थमेकीभवन्तीत्यादिश्रुतेरुपचरितार्थत्वे साधकं मुख्यार्थत्वे बाधकञ्च नास्त्युतास्तीति । उभयगतधर्मपरित्यागेनेति ॥ जीवस्यासर्वकर्तृत्वादित्यागेनेश्वरगतसर्वकर्तृत्वादित्यागेनेश्वरगत-सर्वकर्तृत्वादिसालक्षण्यग्रहणेनेत्यर्थः ॥ सर्वथेति ॥ अत्राद्ये पक्षे अतिव्याप्तेः, द्वितीये असम्भवादिति भावः । सूत्रे भोक्तुरापत्तेरिति विग्रहः । भोक्तुरित्यनन्तरं मोक्षपरत्वेत्यध्याहारः । आपत्तेरित्यनन्तरमुक्तेरिति चाध्याहारः । अन्यथा साध्यावैशिष्ट्यादित्यभिप्रेत्य कर्माणीत्यादि-भाष्यं व्याचष्टे कर्माणीत्यादिना ॥ भाष्ये परेत्येतद्भावप्रधानमित्यभिप्रेत्य परमात्मत्वेत्युक्तम् । अनेन–

‘कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’

इति श्रुतेर्नैक्यमिति न्यायविवरणं नञ्परित्यागेन व्याख्यातं भवति । मुक्तजीवस्य आनन्दा-देरिव ज्ञानेन प्राक् विद्यमानस्य सर्वकर्तृत्वस्याभिव्यक्तिसम्भवे ईश्वरसालक्षण्यात्तदभिन्नस्य सर्व-कर्तृत्वनिर्वाहः सम्भवतीत्यभिप्रेत्य शङ्कते मुक्तजीवाभिन्नस्यापीति ॥

‘स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतेष्वपि ।

मुक्तानां नैव कामः स्यात्’ ।

इति स्मृतिविरोधेन मुक्तस्य सर्वकर्तृत्वप्राप्त्यसम्भव इत्यभिप्रेत्य कथञ्चिदित्युक्तम् ॥ यद्वा मुक्तजीवस्य निर्धर्मकत्वेनासर्वकर्तृत्वादिविरुद्धधर्माभावात्तदभिन्नस्येश्वरस्य सर्वकर्तृत्वनिर्वाहः कथं सम्भवतीत्याशयेन शङ्कते– मुक्तजीवाभिन्नस्येति ॥ विरुद्धधर्माभावेऽपि निर्धर्मकाभिन्नस्य सर्वकर्तृत्वरूपधर्मनिर्वाहासम्भवात् कथञ्चिदित्युक्तम् । मुक्तावैक्येऽपि संसारे भेद एवास्तु । ‘च्वि’ प्रत्ययस्वारस्यादित्याह– न हीति ॥ संसारे ब्रह्मणो भिन्नं जीवजातं मुक्तौ ब्रह्माभिन्नतां यातीति हि यस्मान्न युक्तमित्यर्थः । अनेनान्यस्य संसारे ब्रह्मणो अन्यस्यान्यत्वं मुक्तौ स्वान्य-ब्रह्मत्वं हि यस्मान्न युज्यत इति अप्रयोजकत्वशङ्कापरिहारकविपक्षबाधकतर्कप्रदर्शनपरतया भाष्यं व्याख्यातं भवति । तर्कमूलभूतव्याप्तिप्रदर्शनपरत्वेनापि भाष्यं व्याचष्टे– न हीति ॥ अन्येना-न्यस्य घटाद्यन्यस्य पटादेरन्यत्वं घटादित्वं न हि युज्यत इति व्याख्यातं भवति । न चैवं च्वि-प्रत्ययानुपपत्तिः प्रतीत्यपेक्षया तदुपपत्तेः । प्राक् भिन्नतया दृष्टो जीवो ब्रह्मणः, अथेदानीं मुक्तावभिन्नतया दृश्यत इति एकीभवन्तीत्युच्यत इति पूर्वपक्ष्यभिप्राय इति भावः । एवं भाष्येऽ-न्यस्यान्यत्वाभावस्य पूर्वपक्षयुक्तित्वोक्तावप्यनुव्याख्याने तस्य ‘नान्यदन्यत्वमापन्नम्’ इत्यादिना सिद्धान्तयुक्तित्वोक्तिर्न विरुद्धा । भेदप्रतीतेर्बाधकाभावेन भ्रमत्वासम्भवेन प्रमात्वेऽङ्गीकार्ये जीवो न कदाचिद् ब्रह्माभिन्नतया प्रमितिविषयस्ततो अत्यन्तभिन्नतया प्रमितत्वादित्यनुमानविरोधेन प्रतीत्यपेक्षयापि च्विप्रत्ययोपपत्त्यसम्भवात्तत्स्वारस्याय संसारदशायां जीवस्यावश्यं ब्रह्मभेदे वक्तव्ये जीवो न कालान्तरेऽपि ब्रह्मणैक्यमापत्स्यते । प्राक् ततो भिन्नत्वात् । यः कदाचि-द्यतोऽत्यन्तं भिद्यते नासौ कदाचिदैक्यमापद्यते । यथा घटः पटो नेत्यनुमानविरोधान्मुक्तौ तस्य तदभेदानुपपत्तिरित्याशयेनानुव्याख्यानप्रवृत्तेः । जीवेशयोरभेदाभावादिति ॥ अनेन भेदापादक-मेवैतन्न्यायविवरणमप्युक्ततात्पर्यकं भवति । स्थानैक्याद्यालम्बनत्वेनेति ॥ आदिपदेन मत्यैक्यं ग्राह्यम् । जलैक्योक्तिवदितिस्थानैक्याभिप्रायेण । उभयानुगुणं तु निदर्शनमेकीभूता तु सा सेने पाण्डवानभ्यवर्तत इतिवदिति न्यायविवरणोक्तं द्रष्टव्यम् । अनेनैकीभावशब्दस्तु सान्निध्येऽपि भवतीति न्यायविवरणमप्युक्ततात्पर्यकं भवति । भाष्योदाहृतश्रुतिभागेन जीवब्रह्माभेदप्रतिपादक-श्रुतीनामुपचरितार्थत्वानुक्तेराह– एवं मुनेरिति ॥ एवं विजानतो मुनेर्विजानतां मुनीना-मात्माऽधिपतिर्हिरण्यगर्भोऽपि मुक्तः परमात्मानं प्राप्य तादृगेव भवति । किमुतान्य इत्यर्थः । तथा च तत्त्वमसीत्यादिजीवब्रह्मैक्योक्तिः सादृश्याभेदलक्षणोपचरितार्थेति भावः ।

‘उदकं तूदके सिक्तं मिश्रमेव यथा भवेत्’ इति स्मृत्यनुसारेण तादृगेव भवतीति एकस्थान-स्थत्वस्याप्युपलक्षणम् । ततश्चैवमिति दार्ष्टान्तिकभागस्यैकस्थानत्वप्रतिपादकत्वमपीति प्रकृतोप-योग इति ज्ञातव्यम् । अत एव पूर्वमुपचरितार्थकल्पनमिति सामान्येनोक्तम् । अनेन न्याय-विवरणे एवं मुनेरिति वाक्यशेषोदाहरणप्रयोजनमुक्तं भवति ॥ एतेनेति ॥ बाह्यानुपपत्तिमुक्त्वा निरञ्जन इत्यादि न्यायविवरणोक्तान्तरानुपपत्तिमप्याह– निरञ्जन इति ॥ तादात्म्यपदमैक्य-परमित्यङ्गीकृत्याह– इत्युक्तोऽपीति ॥ तथा च न व्याहतिरिति भावः । मुक्तोऽपीति ॥ एत-त्तादात्म्यं प्राप्तोऽपीत्यर्थः । अत्र परमात्मनेत्येतत्तत्प्रसादेनेत्यर्थकमिति बोध्यम् ॥ एतदिति ॥ नासौ भवतीत्यादिकम् ॥ वर्तमाननिषेधादिति ॥ नाश्नुवन्तीति वर्तमाननिषेधादित्यर्थः ॥ युक्तिविरोधपरिहारेऽपीति ॥ प्रथमातिक्रमे च कारणाभावादिति भावः ।

‘भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ।

भोक्त्रापत्तेरिति प्राह’ ।

इत्यनुव्याख्यानं मनसि निधायाऽऽह भोक्तृत्वापत्तेरिति ॥

भावदीपः

युक्तीति ॥ पूर्वं श्रुतिसंवादितया प्रबलयुक्त्या विरोध उक्तः । अत्र तु बहुश्रुतिसिद्धतया प्रबलयुक्त्यविरोध उच्यत इति सुधोक्तदिशा एकीभवन्तीत्यादि बह्वभेदश्रुतिसिद्धजीवाभिन्नत्व-रूपयुक्तिविरोधस्येत्यर्थः । एतावता पादसङ्गतिसिद्धेर्युक्तीत्येवोक्तम् । तदपेक्षयैव पुनरित्युक्तिः । पूर्वसङ्गतिमाह ॥ विष्णोरिति ॥ जन्मादिसूत्र इति भावः ॥ वादीति ॥ भेदाभेदवादीत्यर्थः । भाष्यं युक्तेरसिद्धिनिरसनपरतया व्याकुर्वन्विरोधियुक्तिं व्यनक्ति ॥ न विष्णोरिति ॥ इयं च युक्तिः पूर्णगुणत्वस्यापि विरोधिनीत्यादिपदम् । युक्तेरप्रयोजकत्वं निराह ॥ न हीति ॥ कुत इत्यतः साध्येन विना हेतोरनुपपत्तिं व्यनक्ति ॥ जीवेति ॥ उभयगतविरुद्धधर्मत्यागेन वेत्यग्रेतनो वाशब्दोऽत्राप्यनुषञ्जनीय इति चन्द्रिका । एवं चाद्यतृतीयपक्षयोर्लक्षणमसम्भवि द्वितीये त्वति-व्याप्तमिति भावेनाह ॥ सर्वथा न जगत्कारणत्वादीश्वरैकनिष्ठं सम्भवतीति ॥ इदानीं भाष्य-मवतारयति ॥ तस्येति ॥ विज्ञानमयशब्दितो जीवात्मा परेऽव्यये परमात्मनीति वाच्ये एकी-भवन्तीति बहुवचनघटनाय कर्माणीत्यंशोक्तिः । कर्मणामेकीभावो निवृत्तिरेव पूर्वपक्षे श्रूयते आथर्वण इत्यर्थः । अतस्तयोरविभाग इति भाष्यमवतारयति ॥ किं चात इति ॥ यो यथा श्रूयत इति ॥ तात्पर्येण श्रुत्योच्यत इत्यर्थस् तेन मृदब्रवीदित्यादौ न व्यभिचारः । ऐक्यं च तात्पर्यविषय इति शङ्कितुर्भावः ।

यद्वा ‘वेदेन सह वादो यो वेदवाद इतीरित इत्याद्युक्तलक्षणवेदवादिनामत्र निरस्यत्वात् । वेदे आपातप्रतीतस्यैव तदर्थत्वेन स्वीकाराच्छ्रूयत’ इत्येवोक्तम् । अत एव पूर्वत्रापि भाष्ये श्रुतिप्राप्ता इत्येवोक्तिः । भेदपक्ष एव जगद्व्यापारवर्जमिति विश्वकर्तृत्वस्य निषेत्स्यमानत्वाद-भेदपक्षे मुक्तस्य विश्वकर्तृत्वेऽक्षादिविरोधाभावात् । तादृशमुक्तजीवाभिन्नस्य विष्णोर्विश्व-कारणत्वमविरुद्धमिति भावेनाशङ्क्यातः पूर्वमपीत्यादि भाष्यं तन्निरासकत्वेन व्याचष्टे ॥ मुक्त-जीवाभिन्नस्यापीति ॥ पूर्वपक्षभाष्यं फलोक्त्योपसंहरति ॥ अत इति ॥ उक्तश्रुतिबलादित्यर्थः । ननु श्रुतिबलात्परमार्थतो जीवाभिन्नत्वेऽपि ईश्वरस्य काल्पनिकभेदेन जगत्कारणत्वं स्यादित्यत उक्तम् ॥ परमार्थत इति ॥ परमार्थतो ब्रह्मैव कारणत्वादिमन्न तु जीव इति यत्सिद्धान्ति-नोऽभिमतं तदनुपपन्नमित्यर्थः । भाष्ये ऐक्यश्रुतेः सावकाशत्वोक्तिर्युक्तेरसिद्ध्यभिप्रायेणेति भावेन तत्तात्पर्यमाह ॥ जीवेशयोरिति ॥ ऐक्यश्रुतेः का गतिरित्यत एकीभावशब्दस्तु सान्निध्येऽपि भवतीति न्यायविवरणानुरोधेन गतिमाह ॥ ऐक्योक्तिस्त्विति ॥ सान्निध्यपदस्य मत्यैक्यमप्यर्थ इति भावेनादिपदप्रयोगः । अत एव तत्रोभयानुगुण्येन एकीभूता तु सा सेना पाण्डवानभ्य-वर्ततेतिवदित्युक्तमिति भावः । भाष्ये दृष्टान्तभागमात्रस्योक्तत्वेऽपि न्यायविवरणे शेषस्या-प्युक्त्यात्रापि दार्ष्टान्तिकांशोऽप्यभिमत इति भावेन तदानुगुण्येनैव भाष्यमवतार्य शेषमाह ॥ न श्रुतेरिति ॥ एकीभवन्तीति श्रुतेरित्यर्थः । एवमिति ॥ विजानतो मुनेरात्मा स्वरूपमप्येवं भवतीत्यर्थः । (एवमेव हि जीवोऽपीति स्मृत्युक्तेर् अत्र काठकभाष्योक्तब्रह्मार्थग्रहणे तु ब्रह्मेशा-नादिभिरिति स्मृत्युक्तिरयुक्ता स्यात् । एवमेव छान्दोग्यभाष्यटीकोक्तेश्च) ॥ एतेनेति ॥ सदृष्टान्तजीवेशभेदबोधकश्रुत्युदाहरणेनेत्यर्थः । न्यायविवरणोक्तपूर्वोत्तरवाक्यविरोधं चाह ॥ निरञ्जन इति ॥ उपलक्षणमेतत् । विष्णुतत्वनिर्णयतट्टीकाद्युक्तबाधकान्तराण्यपि ध्येयानीति । व्याख्यातैषा श्रुतिः सम्यक्तत्रैव टीकादौ प्रथमपरिच्छेदान्तिमभागे । आथर्वणभाष्ये च व्याघात-निरासायाह ॥ इत्युक्तोऽपीति ॥ तादात्म्यं मुक्तिरित्यत्र मानमाह ॥ हराविति ॥ तादात्म्य-मिति ॥ हरिणेति योज्यम् ॥ इति वचनादिति ॥ चतुर्थस्कन्धतात्पर्योक्तादिति ज्ञेयम् ॥ अल्पेति ॥ असायुज्यमुक्तानामेतत् । नासौ भवतीति स्मृत्युक्तं प्रमेयमित्यर्थः ॥ वर्तमानेति ॥ नान्वश्नुवन्तीति वर्तमाननिषेधादित्यर्थः । न ते विष्णाविति श्रुतिः प्राग्जन्मादिसूत्रे व्याख्यातेति भावः । तर्ह्यनर्थकं सूत्रं स्यादिति शङ्कते ॥ किं त्विति ॥ ब्रह्मण उपादानत्वे भोक्तुः शारीरस्य भोग्यत्वापत्तेर्भोग्यस्य च शब्दादेर्भोक्तृत्वापत्तेस्तयोरविभागः स्याद् द्वयोरपि परमकारणब्रह्मणोऽ-नन्यत्वादित्यादिना मायावाद्युक्तं सूत्रार्थमाह ॥ चेतनेति ॥ विषयस्य शब्दादेरित्यर्थः । विषयित्वं भोक्तृत्वम् ॥ ब्रह्मात्मकत्वनिरासेनेति ॥ उत्तरनये न चान्यत्रेत्यादिना भाष्ये करिष्यमाणेनेति भावः । भोक्तृत्वापत्तिरिति तु यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राहेत्यनुभाष्योक्तमाह ॥ भोक्तृत्वेति ॥ अवान्तरफलोक्तिपूर्वं प्रधानफलोक्त्या सूत्रार्थमुपसंहरति ॥ अत इति ॥ जीवेश्वरयोरैक्याभावादित्यर्थः ।

अभिनवचन्द्रिका

न विष्णोर्जगत्कर्तृत्वादीति ॥ अयमत्र प्रयोगो विवक्षितः ‘विष्णुर्जगत्कर्ता न जीवा-भिन्नत्वात् संप्रतिपन्नवत्’ इति । एतेन हेतोः पक्षवृत्तित्वाभावाद् वैयधिकरण्यमिति परास्तम् । अप्रयोजकतां परिहरति – न हीति ॥ न हि यो येनात्यन्ताभिन्नः, स तद्विरुद्धस्वभाव उपलब्धः येन जीवाभिन्नोऽपि विष्णुर्विश्वकर्ता स्यादिति भावः । अतःपरं ‘तस्य जीवाभेद एव कुत इत्यतः प्राक् जीवाभेदो ह्युभयगतविरुद्धधर्मत्यागेन जीवसालक्षण्यग्रहणेन वा सम्भवति, सर्वथा न जगत्कारणत्वादि ईश्वरैकनिष्ठं सम्भवति’ इति वाक्यद्वयं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयं जीवाभेदेन पूर्वपक्षमारभ्य चिन्मात्रभेदव्युत्पादनस्यासङ्गतत्वात्, जीवस्येश्वरसालक्षण्य-ग्रहणेन जीवेश्वराभेदसम्भवोक्तेरनुपयुक्तत्वात् । अप्रयोजकताशङ्गापरिहाराय प्रवृत्तेन साध्यं विना हेत्वसम्भवस्यैव व्युत्पादनीयत्वात्, न ह्यनेन वाक्येनेश्वरस्य जगत्कर्तृत्वे जीवाभेदासम्भवो व्युत्पाद्यते येनोपयुक्तं स्यात्, किं नाम ईश्वरधर्मस्य जगत्कारणत्वस्य जीवनिष्ठत्वाङ्गीकारे अभेदः सम्भवतीति व्युत्पाद्यते । प्रमाणाभावेन प्रमाणविरुद्धत्वेन च ईश्वरस्य जीवसालक्षण-ग्रहणायोगेन ईश्वरस्य जीवसालक्षण्यग्रहणे अभेदः सम्भवति इत्युक्त्ययोगाच्च । सालक्षण्यस्य भेदव्याप्तत्वेन तेन अभेदोपपादनायोगाच्च । जीवस्य ईश्वरसालक्षण्यग्रहणेन अभेदोपपत्तिपक्षे जगत्कारणत्वस्य ईश्वरैकनिष्ठत्वानपायेन, सर्वथा न जगत्कारणत्वादि ईश्वरैकनिष्ठं सम्भव-तीत्युक्त्ययोगाच्च ‘न हि जीवाभिन्नस्य जगत्कर्तृत्वाद्युपपद्यत’ इत्यनेन वाक्यद्वयस्यानन्वयाच्चेति ॥ किं चात इति ॥ अस्तु मुक्तस्य परापत्तिश्रवणं, तथापि कुतोऽभेदः । न हि यद्यद्देवदत्तेनोच्यते तत्तत्तथा भवतीति भावः ॥ तेनैवेति ॥ श्रुत्युक्तत्वेनैवेत्यर्थः । यद्वाक्येनोच्यते तत्तथेति नियमाभावेऽपि यच्छ्रुत्योच्यते तत्तथेति नियमसद्भावादैक्यसिद्धिरिति भावः ॥ कथञ्चिदिति ॥ नियम्यनियामकभावस्य भेदव्याप्तत्वेन अमुक्तनियामकत्वसम्भवेऽपि मुक्तनियामकत्वस्य असम्भव इत्यभिप्रेत्य कथञ्चिदित्युक्तम् । उपसंहरति अत इति ॥ अत्र ईश्वरस्येत्येव पाठः, न तु ईश्वरस्यैवेति । मूलकोशेष्वदर्शनात् । तादात्म्यं प्राप्तोऽपीत्यस्य मुक्तोऽपीत्यर्थः कथमित्यत आह– हराविति ॥

पूर्वपक्षस्तु – न विष्णोर्जगत्कारणत्वादि युक्तम्, तस्य जीवाभिन्नत्वात् । न हि जीवाभिन्नस्य जगत्कर्तृत्वाद्युपपद्यते । जीवाभेद एव कुत इति चेत्, न ‘परेऽव्यये सर्व एकीभवन्ति’ इति श्रुतेः । अतो जीवाभिन्नत्वादीश्वरस्य जगत्कारणत्वाद्यनुपपन्नमिति न लक्षणसूत्रं युक्तम् ।

सिद्धान्तस्तु – जीवेश्वरयोरभेदाभावान्नेश्वरस्य विरुद्धं जगत्कारणत्वादिकम् । न च ‘परेऽव्यये सर्व एकीभवन्ति’ इति श्रुतेः कथमैक्याभाव इति वाच्यम् । ‘निरञ्जनः परमं साम्य-मुपैति’ इति सन्निहितवाक्यविरोधेन श्रुतेस्तत्र तात्पर्याभावात् । का गतिस् तर्हि अभेदश्रुतेरिति चेत्, न स्थानैक्याद्यालम्बनत्वेन जलैकीभावोक्तिवदुपचरितत्वोपपत्तेः । अतः विष्णोर्जगत्कारणत्वे युक्तिविरोधाभावादुपपन्नं लक्षणसूत्रमिति सिद्धम् ।

वाक्यार्थमुक्तावली

अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलयुक्त्या विरोधः परिहृतः । इदानीं श्रुतिसिद्धत्वेन प्रबलयुक्त्या विरोधः परिह्रियते इति सुधोक्तमधिकरणोपाधिं सूचयन् सङ्गमयति ॥ अत्र पुनरिति ॥ अनन्तरसङ्गतिस्तु पूर्वसूत्रे एतेनेत्यतिदेशेन जीवकर्तृत्व-निरासेन युज्यते । जीवब्रह्मणोर्भेदाभावेन जीवस्य तदभावे तदभिन्नब्रह्मणोऽपि तन्न स्यात् । ब्रह्मणस्तदङ्गीकारे तदभिन्नजीवस्यापि तत्स्यादित्युभयथापि शङ्कोत्थापनादिति ज्ञेयम् ॥ युक्त-मयुक्तं वेति ॥ अत्र परमात्मन एव जगत्कर्तृकत्वं जीवाभिन्नत्वयुक्तिविरुद्धमुताविरुद्धमिति चिन्ता । तदर्थमभिन्नत्वहेतुः सिद्ध उतासिद्ध इति । तदर्थमैक्यतया प्रतीयमानं परेऽव्यये सर्व एकीभवन्तीति वाक्यं किं स्वरूपैक्यरूपमुख्यार्थमुत स्थानैक्यादिपरतयोपचितार्थमिति । सूत्रे पूर्वपक्षोऽपि नेत्यनुवर्तते । विष्णोर्जगत्कारणत्वमिति प्रकृतं तेन सम्बध्यते । कुतः यत अविभागो भेदस्तस्मादित्यर्थमभिप्रेत्य व्याचष्टे ॥ न विष्णोरिति ॥ विष्णोर्जगत्कारणत्वं न लक्षण-मित्यर्थः । प्रयोगस्तु विष्णुर्न जगत्कारणत्वादिलक्षणकः जीवाभिन्नत्वादर्जुनादिवदिति ।

अप्रयोजकत्वं परिहरति ॥ न हीति ॥ जीवाभेदेऽपि जगत्कारणत्वं तदेकनिष्ठं न स्यादित्यतस्तस्य तदेकनिष्ठत्वे जीवाभेद एव न स्यादिति हेतूच्छित्तिमभिप्रेत्याभेदं त्रेधोपपादयति ॥ जीवाभेदो हीति ॥ उभयगतविरुद्धधर्मपरित्यागेत्यतःपरमपि उपरितनवाशब्दः सम्बध्यते । उभयगतेत्येतद् वाशब्दसम्बन्धं विना जीवेश्वरसालक्षण्यग्रहणोपपादकं च । ततश्च जीवेश्वराभेदो हि मिथ्यावादिरीत्योभयगतसर्वकर्तृत्वासर्वकर्तृत्वरूपविरुद्धधर्मस्य मिथ्यात्वेन तदविवक्षया चिन्मात्रैक्येन वा प्रत्यक्षमुभयधर्मजीवस्य स्वगतासर्वकर्तृत्वत्यागेन श्रुतिसिद्धसर्वकर्तृब्रह्मलक्षण-सद्भावेन वा श्रुतिमुपमर्द्येश्वरस्य स्वगतसर्वकर्तृत्वत्यागेन प्रत्यक्षसिद्धासर्वकर्तृजीवधर्माङ्गीकारेण वाऽसम्भावितः गत्यन्तराभावात् । तथा च जगत्कारणत्वस्य ईश्वरैकनिष्ठत्वे त्रेधोपपाद्यो भेदो न स्यादिति भावः ।

एवमप्रयोजकत्वं परिहृत्य तेन हेतुना सिद्धं साध्यमित्याह सर्वथेति ॥ उभयधर्ममिथ्यात्वे-नान्यतरधर्मत्यागेनाभेदपक्षेऽपीत्यर्थः । तथाऽद्ये तृतीये चासम्भवः । द्वितीयेऽतिव्याप्तिरिति तदेकनिष्ठत्वाभावो बोध्यः । नन्वैक्येनातिव्याप्तिचोदनमयुक्तम् । लक्ष्ये तच्चोदनायोगादिति चेन्न । ब्रह्मलक्षणस्य भेदवाद्यनभिमतेनापि प्रमिताभेदलिङ्गेन तत्तद्रीत्या अलक्ष्येऽपि वर्तनादतिव्याप्ति-प्रसक्तेरित्याशयात् । स्वरीत्यात्वसम्भव एवेति हृदयम् । वक्ष्यते चैतत् । हेतुस्वरूपासिद्धये परिहारकतया भोक्त्रापत्तेरविभाग इति समग्रं पूर्वपक्षांशं व्याचष्टे तस्य जीवाभेद इत्यादिना । एकीभवन्तीति बहुवचनघटनाय कर्मणीत्यंशोक्तिः । एकीभावश्च कर्मणां परमते निवृत्तिरिति ज्ञेयम् । परमात्मत्वप्राप्तिरिति परापत्तिरिति भाष्ये भावप्रधानो निर्देश इति भावः । किं चात इति । अतश्च किम् । उपचारसम्भवात् । लोके गाव एकीभवन्तीत्यादौ उक्तस्य तथात्वनियमा-भावादिति भावः ॥ तेनैवेति ॥ श्रुत्युक्तत्वं तेनैव हेतुनेत्यर्थः । लौकिकवाक्योक्तस्य तथात्व-नियमाभावेऽपि श्रुत्युक्तस्य तथात्वनियमो न व्यभिचरित इत्याह यो यथेति ॥ अन्यथा ईश्वररूपेष्वपि भेदः स्यादिति भावः ।

ननु मुक्तौ जीवाभिन्नस्य ब्रह्मणो नासर्वकर्तृत्वं सिद्ध्यति । संसारिण इव मुक्तस्य सर्वकर्तृत्वे प्रत्यक्षविरोधाभावेन पूर्वमसतोऽपि जीवकर्तृत्वस्य ज्ञानान्मुक्तेरिव मुक्तौ ज्ञानेनोदयसम्भवेन मुक्ता-भिन्नस्यापि ब्रह्मणः कारणत्वसम्भवान्नासम्भव इत्याशङ्क्य परिहरति मुक्तजीवेति ॥ मुक्तस्य जगद्व्यापाराभावात्कथञ्चिदित्युक्तम् । नन्वसम्भवपरिहारेऽप्यतिव्याप्तितादवस्थ्ये न लक्षण-निर्वाहः । यद्यैक्यान्नातिव्याप्तिरिति मतं तर्हि सर्वथेत्यत्रातिव्याप्त्युक्तिरयुक्तेति चेत् प्राक् संसार-दशायामेव प्रत्यक्षोपमर्देन श्रुतिसिद्धब्रह्मलक्षणस्यैक्ययुक्तिप्राप्तस्यातिव्याप्तेरुक्तत्वेऽपि देहमुक्त्य-नन्तरं ब्रह्मीभूतस्य लक्ष्यत्वविवक्षयाऽतिव्याप्त्यभावोपपत्तेः सिद्धान्तरीत्योक्तत्वेन स्वरीत्याऽ-सम्भवस्यैव तात्पर्यतः प्राप्तत्वाच्च । अत एव सुधायां प्रत्यक्षस्य प्राबल्यात् प्रत्यक्षसिद्धासर्वजीव-कर्तृसालक्षण्यमेव वक्तव्यमित्यसम्भव एव निर्धारित इति बोध्यम् । यद्वा मुक्तजीवस्य निर्धर्म-कत्वेनासर्वकर्तृत्वादिविरुद्धधर्माभावात्तदभिन्नस्येश्वरस्य सर्वकर्तृत्वनिर्वाहः सम्भवतीत्याशयेन शङ्कते मुक्तजीवाभिन्नस्यापीति ॥ विरुद्धधर्माभावेऽपि निर्धर्मिकाभिन्नस्य सर्वकर्तृत्वरूपधर्म-निर्वाहसम्भावात्कथञ्चिदित्युक्तम् । मुक्तावैक्येऽपि संसारे भेद एवास्तु च्विप्रत्ययस्वारस्यादित्यत आह ॥ न हीति ॥ अनेन संसारे ब्रह्मणोऽन्यस्य जीवस्य मुक्तावन्यत्वं ब्रह्मत्वं न हि युज्यत इति भाष्यं व्याख्यातं भवति । यदि संसारे भेदः स्यात्तर्हि मुक्तावैक्यं न स्यादिति तर्कमूलव्याप्ति-प्रदर्शनपरत्वेनापि भाष्यं व्याचष्टे ॥ नहीति ॥ अनेन घटाद्यन्यस्य पटादेरन्यत्वं घटादित्वं न हीति व्याख्यातं भवति । असम्भवमुपपाद्योपसंहरति अत इति ॥ असर्वकर्तृत्वेन प्रत्यक्षसिद्धसंसार्य-भेदादीश्वरस्य जगत्कारणत्वासम्भव इति भावः । न चैवं च्विप्रत्ययानुपपत्तिः । न ह्यन्यस्येत्युक्तिविरोधाद्भेदभ्रमनिवृत्तेरभूततद्भावाभिप्रायेणोपपत्तेः ।

प्राग्भिन्नतया दृष्टोऽयं जीवः ब्रह्मणा अथेदानीमभिन्नतया दृश्यत इत्यभेदप्रतीत्यपेक्षया चोपपत्तेः । एतेन भाष्येऽन्यस्यान्यत्वाभावस्य पूर्वपक्षयुक्तितयोक्तत्वात् । अनुव्याख्याने तस्य नान्यदन्यत्वमापन्नमित्यादिना सिद्धान्तयुक्तित्वेनोक्तत्वाद्विरोध इत्येकः पूर्वः पक्षः । एतं पक्ष-मवलम्ब्य भाष्यप्रवृत्तिः । द्वितीयस्तु च्विप्रत्ययस्वारस्यात् पूर्वं भेदः मुक्तौ त्वभेदः न ह्यन्यस्येति युक्तिस्तु च्विप्रत्ययरूपश्रुतिबाधितेति एतत्पूर्वपक्षदूषणाय पूर्वं सिद्धेन भेदेन पश्चादपि भेदं साधयितुं नान्यदन्यत्वमित्यादिसिद्धान्तानुव्याख्यानं प्रवृत्तमिति भाष्यानुव्याख्यानटीकयोर्विरोधः । स्पष्टं च सुधायामिति । एतेन भोक्तुर्जीवस्य मुक्तौ ब्रह्मत्वापत्तेः । परेऽव्यय इति श्रवणा-त्तयोरविभागः । यतो मुक्तावविभागोऽतो भोक्तुर्दुःखादिभोक्तुः संसारिणोऽपि परेणापि विभागः यतो ब्रह्मणः संसार्यविभागस्तेन ब्रह्मणो जगत्कारणत्वासम्भव इति पूर्वपक्षसूत्रार्थ उक्तो भवति । सिद्धन्तांशे भोक्त्रापत्तेरित्यन्वेति ।विभाग इति च पूर्वसूत्रादपिशब्दोऽनुवर्तते । नञध्याहारश्च । ततश्च ऐक्यत्वेनोक्तत्वाज् जीवेशयोर्भेदाभावेन जगत्कारणत्वाभाव इति न वाच्यम् । भोक्त्रापत्तेरप्यैक्येनोक्तत्वेऽपि विभागो भेदः लोकवद् उदके सिक्तोदकस्येव स्यात् । ऐक्येनोक्तिरपि उदके उदकस्यैकीभावोक्तिवत् स्थानैक्याद्यालम्बनत्वेनोपचरिता स्यादिति सूत्रभाष्ययोरर्थमभिप्रेत्य व्याचष्टे जीवेशयोरित्यादिना ॥ स्थानैक्याद्यालम्बनत्वेति ॥ स्थानैक्यपक्षे सर्व एकीभवन्तीत्यत्र सर्वशब्दस्य तत्स्थाने लक्षणा । मत्यैक्यपक्षे सर्वशब्दस्य सर्वसम्बन्धिमति विषये लक्षितलक्षणेति भावः ॥ जलैकी-भावोक्तिवदिति ॥ इदं च स्थानैक्याभिप्रायेण । उभयाभिप्रायेण तु ‘एकीभूता तु सा सेना पाण्डवा- नभ्यवर्तत’ इतिवदिति न्यायविवणोक्तमुदाहरणं बोध्यम् । लौकिकव्यवहारस्योपचरितत्वेऽपि न श्रुतेरुपचारो युक्त इत्याह– न श्रुतेरिति ॥ तथा च श्रुतेरिति चशब्दसमुच्चयमाह– न श्रुतेरिति ॥

विवक्षितार्थप्रतिपादकवाक्यशेषं पठति एवं मुनेरिति ॥ एवं विजानतो मुनिवर्गस्य आत्माधिपतिर् हिरण्यगर्भोऽपि मुक्तः । परमात्मानं प्राप्य तादृगेव भवति न तु स एव भवति किम्वन्ये जीवा इत्यैक्यवाक्यस्य बुद्धिसारूप्येणोपचरितार्थत्वस्योक्तत्वादिति भावः । उक्तं चान्यत्र । जीवस्य परमैक्यन्तु बुद्धिसारूप्यमेव तु । एकस्थाननिवासो वेति । तथा इति च श्रुतिरिति भाष्ये चशब्दसम्बन्धं मत्वा तत्समुच्चयमेकीभावस्य पूर्वमुत्तरं च वाक्यं पठति ॥ निरञ्जन इति ॥ न च व्यभिचारादित्यादिपदेन जलैकीभावव्यवहारस्योपचरितार्थत्वं गृह्यते ।

व्याहतिपरिहाराय इत्युक्त इति पदद्वयमध्याहृत्य योजयति इत्युक्त इति ॥ अध्याहारारुच्या पक्षान्तरमाह– मुक्तोऽपीति ॥ अस्मिन् पक्षे परमात्मना तत्प्रसादेनेत्यर्थः । तस्मिन्नात्मनि चिन्तयस्वेति वा । तस्मिन्नात्मा स्वरूपं यस्येति वा तदात्मा तस्य भावस् तादात्म्यमिति व्युत्पत्तेरिति भावः ॥ अल्पमुक्तानामिति ॥ एतन्नासौ भवतीति स्मृत्युक्तप्रमेयम् । अल्पमुक्ता-नामस्वतन्त्रमुक्तानामित्यर्थः न तु स्वतन्त्रमुक्तानां हिरण्यगर्भादीनामिति भावः । भाष्ये यत्कैवल्यं स्वातन्त्र्यमित्यर्थः ॥ ब्रह्मात्मकत्व इति ॥ प्रकृत्यधिकरणे सर्वस्य ब्रह्मोपादानकत्व-स्योक्तत्वात्तद्रीत्येत्यर्थः ॥ विषयस्येति ॥ भोग्यस्य शब्दादेर्भोक्तृत्वं स्यात् । तथा च भोग्य-भोक्तृविभागो न स्यादित्याशङ्का लोकवद् लोके यथा समुद्रकार्याणामपि फेनतरङ्गादीनां विभागस्तद्वत् प्रकृतेऽपि स्यादिति अत्र सूत्रे निरस्यत इत्यर्थः ॥ एकत्रापीति ॥ प्रथमातिक्रमे कारणाभावादत्रोक्तिरिति भावः । निरस्तमिति न चान्यत्कल्प्यम् । अप्रामाणिकत्वादिति प्रकृत्यधिकरण एवेत्यर्थः । भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राहेत्यनुव्याख्यानोक्तं कौशल्यमप्याह– भोक्तृत्वेति ॥

तत्त्वसुबोधिनी

ननु पूर्वमपि प्रबलयुक्त्यविरोध उक्तः । इदानीमपि स एव उच्यते इति पौनरुक्त्यमित्यत आह ॥ अत्र पुनरिति ॥ तथा च पूर्वे ब्रह्मणो जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबल-युक्त्यविरोधः परिहृत इदानीं तु, श्रुतिसिद्धलिङ्गत्वेन प्रबलया युक्त्या विरोधः परिहृतः यत इत्यगतार्थता इति भावः । अत्र पूर्वाधिकरणे एतेनेत्यतिदेशेन जीवाद्भवन्तीति श्रुतिप्राप्तजीव-कर्तृत्वपक्षनिरासो न युज्यते । जीवब्रह्मणोरभेदेन जीवस्य जगत्कर्तृत्वाभावे, तदभिन्नस्य ब्रह्मणस् तन्न स्यात् । ब्रह्मणस्तदङ्गीकारे तदभिमानजीवस्यापि तत्स्यादित्युभयथापि न ब्रह्मण एव जग-त्कर्तृत्वम् इत्याक्षेपोत्थानादनन्तरसङ्गतिः । अस्तु जीवाभेदस् तत किमित्यत आह ॥ न हीति ॥ कुतो नेत्यत आह ॥ जीवाभेदो हीति ॥ जीवस्यासर्वकर्तृत्वादित्यागेन ईश्वरगतसर्वकर्तृत्वादि-सालक्षण्यग्रहणेनेत्यर्थः । सर्वथेति आद्यपक्षेति । व्याप्ते द्वितीये सम्भवादिति भावः । अत्र भोक्तुरापत्तेरिति विग्रहः । भोक्तुरित्यनन्तरं मोक्षे परेत्यध्याहारः । आपत्तेरित्यनन्तरम् उक्ते-रित्यध्याहारः । अन्यथा साध्यावैशिष्ट्यादित्यभिप्रेत्य कर्माणीत्यादिभाष्यं व्याचष्टे ॥ कर्मा-णीत्यादिना ॥ भाष्ये परे इत्येतद्भावसाधनमित्यभिप्रेत्य परमात्मने उक्तममुक्तजीवस्य परमात्मत्वप्राप्तिश्रवणं ततः किमित्याक्षिपति किं चात इति ॥ उत्तरमाह– तेनैव हेतुना इति ॥ मुक्तजीवस्य परमात्मत्वप्राप्तिश्रवणरूपहेतुनेत्यर्थः । मुक्तजीवस्य परमात्मत्वप्राप्तिः श्रवण-मात्रेण कथं तयोरभेदसिद्धिर् इत्यतः, व्याप्तेः सत्त्वादित्याह ॥ य इति ॥

मुक्तजीवस्यानन्दादेरिव ज्ञानेन प्राग्विद्यमानस्य सर्वकर्तृत्वनिर्वाहः सम्भवतीत्यभिप्रेत्य शङ्कते ॥ मुक्तेति ॥ स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि मुक्तानां नैव कामाः स्यादिति स्मृतिविरोधात् । मुक्तत्वसर्वकर्तृत्वप्राप्त्यसम्भवादित्यभिप्रेत्य कथञ्चिदित्युक्तम् । यद्वा मुक्तजीवस्य निर्धर्मकत्वेन सर्वकर्तृत्वादिविरुद्धधर्माभावात् । तदभिन्नस्येश्वरस्य सर्वकर्तृत्वानिर्वाहः सम्भव-तीत्याशयेन शङ्कते ॥ मुक्तेति ॥ विरुद्धधर्माभावेऽपि निर्धर्मकाभिन्नस्य सर्वकर्तृत्वरूपधर्म-निर्वाहासम्भवात् । कथञ्चिदित्युक्तम् । मुक्तावैक्येऽपि संसारे भेद एव श्रुतिप्रमेयस्वारस्यादित्यत आह ॥ न हीति ॥ संसारे ब्रह्मणोऽभिन्नं जीवजातं मुक्तौ ब्रह्माभिन्नतां यातीति हि, यस्मा-त्तस्मात् पूर्वभेदाङ्गीकरणं न युक्तमित्यर्थः । अन्यस्य संसारे ब्रह्मणोऽन्यस्य, अनन्यत्वं मुक्तौ स्वान्यब्रह्मत्वं हि यस्मान् न युज्यते इति भाष्यं व्याख्यातं भवति । तर्कमूलभूतव्याप्तिप्रदर्शन-परत्वेनापि तद्व्याचष्टे ॥ न हीति ॥ अनेनान्यस्य घटाद्यन्यस्य पटादेः, अनन्यत्वं घटादित्वं न हि युज्यते इति व्याख्यातं भवति । न चैवं प्रत्ययानुपपत्तिः । प्रतीत्यपेक्षया तदुपपत्तेः प्राग्भिन्न-तया दृष्टो जीवोऽयं ब्रह्मणः, अथेदानीं मुक्तानामभिन्नतया दृश्यते इति एकीभवन्तीत्युच्यते इति भावः ॥ तत्सिद्धिः ॥ जगत्कारणत्वाद्यभावसिद्धिः । अभेदे हेतुर् एक्येनोक्तत्वादिति ॥ ऐक्योक्तिस्तु इति ॥ आदिपदेन मत्यैक्यं ग्राह्यम् । ब्रह्मभेदप्रतिपादकश्रुतीनाम् उपचरितार्थ-त्त्वानुक्तेराह ‘एवं मुनेरिति’ ॥ एवं विजानतो मुनेः । विजानतां मुनीनाम् आत्माधिपति-र्हिरण्यगर्भोऽपि मुक्तः परमात्मानं प्राप्य तादृगेव भवति, किमुतान्यस्य इत्यर्थः ॥ एतेनेति ॥ वाक्यशेषपुरुषबाधकसत्वेनेत्यर्थः । तादात्म्यपरं, ऐक्यपरम् अङ्गीकृत्याह इत्युक्तोऽपीति ॥ मुक्तोऽपीति ॥ तत्तादात्म्यं प्राप्तोऽपीत्यस्यार्थः । अत्र परमात्मनेत्येतत्, तत्प्रसादेनेत्यर्थकम् इति बोध्यम् ॥ एतदिति ॥ नासौ भवतीत्यादिकं वर्तमाननिषेधादिति ॥ नाश्नुवन्ति इति वर्तमाननिषेधादित्यर्थः । अत्र एतदधिकरणे ॥ अर्थान्तरन्त्विति ॥ एकसमुद्रात्मनामपि फेनादीनाम् अवान्तरभेदवत्, एकब्रह्मात्मनामपि चेतनाचेतनानाम् अवान्तरभेद इत्याद्यर्थान्तर-मित्यर्थः ॥ भोक्तृत्वेति ॥ यद्यत्र भोग्यस्य भोक्तृत्वापत्तेरित्यर्थो विवक्षितः स्यात् सूत्रकारस्य तर्हि भोक्तृत्वापत्तेरित्येवं ब्रूयात्, न भोक्त्रापत्तेरिति ॥ ततः नेदं व्याख्यानं सूत्रकृताभिमतमिति भावः । ननु भावप्रधाननिर्देशानां बहुलमुपलम्भान्नायं दोषः । सत्यं प्रतिपाद्यव्यवस्थितौ शाब्दी गौणता कथञ्चिदङ्गीक्रियते । न चास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितम् । जगदुपादानत्वस्य प्रागनुक्तत्वेनानुक्तोपालम्भप्रसङ्गादित्यभिप्रायेनैतत्प्रवृत्तेरिति ज्ञेयम् ।

वाक्यार्थविवरणम्

ईश्वरैकनिष्ठमिति ॥ आद्येऽतिव्याप्तिः । द्वितीयेऽसम्भवापत्तेरित्यर्थः । कल्पनमित्यत्र कल्पनशब्दोपरि भारः ॥ ब्रह्मात्मकत्व इति ॥ प्राचीनप्रबन्धेनाभिहिते सतीति शेषः । विषयस्य अचेतनरूपभोग्यवर्गस्येत्यर्थः । विषयित्वम् । चेतनरूपभोक्तृत्वं स्यात् । यद्यदभिन्नाभिन्नं तत्तेनाभिन्नमिति व्याप्तिबलाद् भोग्याचेतनवर्गाभिन्नब्रह्माभिन्नत्वाच्चेतनरूपभोक्तृवर्गस्यापि भोग्यत्वं स्यात् । यद्भोग्यं भोक्त्रभिन्नब्रह्माभिन्नं तद्भोग्यं तेनाभिन्नमिति । एवं भोग्यस्यापि भोक्तृत्वं स्यादुक्तबलादित्यर्थः । ततः किमित्यत आह ॥ तथा चेति ॥ विषयविषयिविभागः । भोग्य-भोक्तृविभागः । फेनतरङ्गादीनाम् । इतरेतरभावापत्त्येति शेषः । विभागवत् । विभागभङ्गी-भाववत् । यथोक्तं सुधायाम् । केचिदिदं सूत्रमन्यथा व्याचक्षते । पूर्वं किल चेतनाचेतनात्मक-प्रपञ्चस्य ब्रह्मोपादानत्वेन ब्रह्मानन्यत्वमुक्तम् । तदाक्षिप्य समाधातुमिदं सूत्रम् । तथा हि । यदि चेतनाचेतनात्मकजगतो ब्रह्मानन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्यश्च चेतनो विषय इत्ययं विभागो न स्यात् । कुतः । भोग्यस्यापि भोक्तृत्वापत्तेर् भोक्तुरपि भोग्यत्वापत्तेः । भवितव्यं चानेन विभागेन प्रत्यक्षादिसिद्धत्वादिति चेत् । स्याल्लोकवत् । यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः । यथा वा महाकाशात्मनामपि घट-मठाद्याकाशानाम् । तथा प्रकृतेऽपि स्यादितीति । अन्यथा फलाध्यायसङ्गतत्वेन तत्रैवेदं वक्तव्यमिति । यदि ॥ एकत्राप्यनुक्तीति ॥ अतः प्रथमातिक्रमे कारणाभावादत्रोक्तमिति भावः ।

वाक्यार्थमञ्जरी

भोक्तुर्जीवस्यापत्तेर्ब्रह्मत्वप्राप्तेरेकीभवन्तीति श्रुत्युक्तत्वेन तयोरविभागः भेदाभाव इति चेन्न स्याल्लोकवत् । यथा लोके स्थानैक्याभिप्रायेणोदके उदकस्यैकीभावव्यवहारस्तथैकीभावव्यवहारः स्यादित्यर्थः ॥ उभयगतेति ॥ विरुद्धधर्माधिकरणयोरैक्यायोगाज्जीवस्य असर्वकर्तृत्वादित्यागे-नेश्वरगतसर्वकर्तृत्वादिसालक्षण्यग्रहणे नेश्वरस्य वा सर्वकर्तृत्वादित्यागेन जीवगतासर्वकर्तृत्वादि-सालक्षण्यग्रहणेनेत्यर्थः ॥ सर्वथेति ॥ आद्ये अतिव्याप्तेर् द्वितीयेऽसम्भवादित्यर्थः ॥ कर्मा-णीति ॥ पूर्वोक्ता कालाद्यभिमानिदेवताः कर्माणि तदभिमानी पुष्करः विज्ञानस्वरूप आत्मा जीवश्चेत्येते ‘सर्वे अव्यये परे ब्रह्मणि एकीभवन्ति’ संश्लिष्टा भवन्तीत्यर्थः । अतश्च किमिति प्रश्नोत्तरमाह ॥ तेनैवेति ॥ जीव ईश्वराभिन्नस्तथा श्रुत्युक्तत्वादित्यत्र व्याप्तिमाह ॥ यो यथेति ॥ मुक्तजीवस्य निर्धर्मकत्वेन सर्वकर्तृत्वादिविरुद्धधर्माभावात्तदभिन्नस्येश्वरस्य सर्वकर्तृत्व-रूपधर्मनिर्वाहः सम्भवतीत्याशयेन शङ्कते ॥ मुक्तजीवभिन्नस्येति ॥ विरुद्धधर्माभावेऽपि निर्धर्मकाभिन्नस्य सर्वकर्तृत्वरूपधर्मनिर्वाहासम्भवात्कथञ्चिदित्युक्तम् । निर्वोढुं निर्वहितुम् । कुत इत्यत आह ॥ न हीति ॥ न हि घटभिन्नः पटः कदापि घटाभिन्नतां यातीत्यर्थः । तर्हि श्रुतेः का गतिरित्यत आह ॥ ऐक्योक्तिस्त्विति ॥ स्वातन्त्र्येण स्वेच्छया । नात्र श्रुतेरुपचरितार्थत्व-मुच्यत इत्यत आह ॥ एवं मुनेरिति ॥ एवं विजानतां मुनीनामात्माधिपतिर्ब्रह्मापि मुक्तः परमात्मानं प्राप्य तादृगेव भवति किमुतान्य इत्यर्थः । एतेन श्रुत्युदाहरणेन आन्तरानुपपत्तिं चाह ॥ निरञ्जन इति ॥ सन्निहितेति ॥ एकीभवन्तीत्येतत्समीपस्थेत्यर्थः । तत्र क्रमेण सारूप्यसामीप्ययोर्भेदाविनाभूतयोरुक्तेरिति भावः । यथाश्रुतासम्भवादाह ॥ इत्युक्तोऽपीति ॥ अध्याहारभयादाह ॥ मुक्तोऽपीति ॥ अत्र परमात्मनेत्यस्य तत्प्रसादेनेत्यर्थो बोध्यः । तादात्म्यं मुक्तिरित्यत्र चतुर्थतात्पर्योदाहृतप्रमाणमाह ॥ हराविति ॥ तादात्म्यं हरिणेति योज्यम् । हरावित्यनेन तस्मिन्हरौ आत्मा अन्तःकरणं नियतं यत्र भवति तत्तदात्मं तदेव तादात्म्यमिति वा तस्य हरेरात्मा देहो यत्र प्रवेशस्थानं भवति तत्तदात्मं तदेव तादात्म्यमिति वा तादात्म्यं मोक्ष इत्युक्तं भवति ॥ अल्पेति ॥ अधमेत्यर्थः । एतन्नासौ भवतीत्यादिकम् ॥ वर्तमानेति ॥ नाश्नुवन्तीति वर्तमाननिषेधादित्यर्थः ॥ फलाध्यायेति ॥ चतुर्थाध्याय एव मुक्तिरूपफलविचारा-दिति भावः ॥ चेतनाचेतनेति ॥ यदुक्तं प्रकृतिनये ब्रह्मणश्चेतनाचेतनात्मकप्रपञ्चोपादानत्वेन तदभिन्नत्वमिति । तदयुक्तम् । तथात्वे भोग्यविषयादिपदाभिधेयाचेतनस्याभोक्तृविषयिशब्दाभि-धेयचेतनत्वप्रसङ्गात् । यद्यदभिन्नाभिन्नं तत्तेनाभिन्नमिति व्याप्तेः । तथा चाचेतनो भोग्यश्चेतनो भोक्तेति व्यवस्था न स्यान् न चेष्टापत्तिः । प्रत्यक्षसिद्धत्वादित्यर्थः ॥ समुद्रेति ॥ यथा फेन-तरङ्गादेः समुद्राभिन्नत्वेन परस्परमैक्येऽपि व्यावहारिकभेदेनान्योन्यव्यवस्था तथेहापीत्यर्थः ॥ युक्तिविरोधपरिहारेऽपीति ॥ प्रथमातिक्रमे कारणाभावादिति भावः ॥ ब्रह्मात्मकत्व-निरासेनेति ॥ प्रकृतिनयादिभाष्योक्तदिशा ब्रह्मोपादानकत्वाभावेन तदात्मकत्वे निरस्ते उक्त-शङ्काया एवानुदयान्न तत्समाधानायान्यथाव्याख्यानं युक्तमित्यर्थः । भोग्यस्य भोक्तृत्वापत्तेरिति व्याख्याने अश्रुतकल्पनं चेत्याह ॥ भोक्तृत्वेति ॥

॥ इति भोक्त्रधिकरणम् ॥ ५ ॥