ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ
३. अथ अभिमान्यधिकरणम्
सूत्रभाष्यम्
‘मृदब्रवीत्’ (श.ब्रा.६-२-३) ‘आपोऽब्रुवन्’ (श.ब्रा.६-१-३) इत्यादिवचनाद्युक्ति-विरुद्धो वेद इत्यतोऽब्रवीत्
॥ ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥ ६ ॥
मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते । तासां चेतरेभ्यो विशिष्टं सामर्थ्यमनुगतिश्च सर्वत्र । अतस्तासां सर्वमुक्तं युज्यते ।
सत्तर्कदीपावली
यन्मृदादिकं तन्न ब्रवीतीति युक्त्या विरुद्धत्वान् मृदब्रवीदित्यादिवेदैकदेशस्याप्रामाण्यात् । तद्वज्जगत्कर्तृप्रतिपादकस्य वेदस्य नाप्रामाण्यं शङ्कनीयम् । मृदादिशब्दानां पृथिव्याद्यनुमतवक्तृत्वादि-विशेषशक्तियुक्ततत्तद्देवतावाचित्वेनाविरुद्धत्वात् । तदाह– मृदित्यादिना ॥
तत्त्वप्रदीपिका
‘मृदब्रवीत्’ ‘तत्तेज ऐक्षत’ इत्यादावचेतनानां वक्तृत्वाद्युक्तेर्युक्तिविरुद्धोऽयं वेदः । प्रत्यक्षमूला च सा न चालयितुं शक्यत इत्यतोऽब्रवीत् ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ मृदाद्यभिमानिन्यो देवतास्तत्र वक्त्र्यादयो व्यपदिश्यन्ते । नत्वभिमन्यमानाः । मृदादिशब्दाश्च तासु मुख्याः । तासामितरेभ्यः सामर्थ्याधिक्यात्सर्वगतत्वाच्च सर्वमुक्तिदृष्टादिकं तत्र तत्र उक्तं युज्यते ।
तत्त्वप्रकाशिका
अत्र पुनर्विष्णोः सर्वकर्तृत्वादिप्रतिपादकवेदप्रामाण्ये युक्तिविरोधपरिहारादस्ति शास्त्रादिसङ्गतिः । वेदप्रामाण्यात्सर्वकारणत्वं विष्णोरित्युक्तम् । तत्प्रामाण्यस्य च युक्तिविरोधे न विष्णोर्जगत्कारणत्वं सिध्यतीत्यतोऽसौ परिहार्य एव । स वेदो विषयः । प्रमाणं न वेति सन्देहः । पूर्वोक्तमेवात्र सन्देहबीजम् । पूर्वपक्षयति ॥ मृदिति ॥ न वेदः प्रमाणम् । ‘मृदब्रवीत्’ ‘आपोऽब्रुवंस्ता आप ऐक्षन्तन्’ ‘तत्तेज ऐक्षत’ ‘ओषधयः संवदन्त’ इत्यादिना मृदादीनां वचनदर्शनाद्यभिधायकत्वात् । तथात्वेऽपि कुतोऽप्रामाण्यम् । मृन्न वदति जडत्वादित्यादियुक्तिविरुद्धत्वेन मृदादिवचनादेरसत्त्वात् । असदभि-धायकत्वमेवाप्रामाण्यम् । एवं च युक्तिविरुद्धार्थत्वेन वेदैकदेशस्याप्रामाण्येऽन्यस्याप्यप्रामाण्यमिति न विष्णोस्तेन जगत्कारणत्वसिद्धिरिति भावः ।
ननु मृदादिवचनाद्यभिधायकवाक्यस्य प्रत्यक्षविरोध एव प्रथमं स्फुरत्यतो न पादसङ्गतिः । मैवम् । आदिसृष्टावेव पृथिव्यादीनां तदभिधानात् । तदानीन्तनवचनाद्यभावस्यास्मदाद्यप्रत्यक्षत्वेन युक्तेरेवाश्रयणीयत्वात् । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ तुशब्दोऽवधारणे । भवेदेतदुक्तं यद्यत्र मृदाद्येवोच्येत नैतदस्ति । मृदाद्यभिमानिनीनां देवतानामेव तत्र व्यपदेशादित्यर्थः । स्यान्मतम् । श्रुतियुक्त्योः श्रुतेरेव प्राबल्यात्तद्विरुद्धयुक्तेरेवाप्रामाण्यं वक्तव्यं किं युक्तिविरोधपरिहाराय श्रुतेरन्यार्थकल्पनया । न चोपजीव्यप्रत्यक्षविरोध इत्युक्तमिति । मैवम् । अन्यार्थकल्पने मुख्यार्थलाभात् ।
नाभिमानिदेवता नाम सन्ति । तथा हि । किं ता अभिमन्यमानव्यापिन्यः किं वा तदेक-देशवर्तिन्यः । आद्येऽपि विग्रहवत्यो न वा । न प्रथमः । उपलम्भप्रसङ्गात् । न द्वितीयः वचनाद्य-योगात् । नान्त्यः । तद्रहितदेशवद्देशान्तरावस्थानोपपत्तौ तद्वैयर्थ्यादित्यत आह ॥ तासां चेति ॥ न चाभिमानिदेवताभावो वाच्यः । यत्प्रागुक्तं तत्रास्त्येव तासां सर्वत्रानुगतिर्विग्रहश्चेति ब्रूमः । न च दर्शनप्रसङ्गः सर्वगतानां विग्रहवतीनामपि तासामितरपदार्थेभ्यो विशेषसामर्थ्येनादर्शन-सम्भवादिति भावः । सन्तु देवताः प्रकृते किमायातमित्यत आह ॥ अत इति ॥ यतोऽत्र मृदादिशब्दैर्देवता व्यपदिश्यन्तेऽतस्तासां चेतनत्वेन श्रुत्युक्तं सर्वं वचनादिकं युक्तमतो न युक्तिविरुद्धं वेदवाक्यमिति भावः । अत्रैकवचनस्य सूत्रगतत्वादभिमानिदेवतेत्युक्तम् । तच्च समुदायविवक्षयेति भावेन तासामित्यादि दृश्यते चेत्युत्तरसूत्रानुगुण्येनात्र विग्रहस्य ग्राह्यत्वात् । दृश्यन्ते मुनिभिरिति स्मृत्यानुकूल्यान्न तत्र शक्तिमात्रमुच्यते ।
गुर्वर्थदीपिका
आदिसृष्टावेवेत्यनेनाब्रवीदित्यतीतार्थकलङ्प्रयोगबलादादिकालीनमृद्वचनमेवेति सूचयति । एवम् एवमेवेति वदता श्रुतिविरोधाद्युक्तेरेवाप्रामाण्यमिति यदुक्तं तदपि न । धूमं दृष्ट्वा वह्न्यर्थिनः प्रवृत्तेः । जडमृद एव वचनप्रसङ्गाच्च लौकिकविषया इमाः श्रुतयः । आदिकालीनमृदोऽपि लौकिकतया जडत्वयुक्त्या च वचनस्य बाधितत्वात्तत्सजातीयेदानीन्तनमृ(न)दो वचनस्य प्रत्यक्षबाधितत्वाच्च श्रुतेरन्यार्थकल्पनमेव न्याय्यमिति सूचितम् । तर्हि प्रत्यक्षविरोधादद्वैतश्रुतेरिव प्रकृतश्रुतीनामपि उपचरितार्थता कुतो नोच्यत इति चेदेवमपि मा । मुख्यार्थलाभेऽमुख्यार्थ-ग्रहणायोगादिति भावेनाह अन्यार्थेति ॥ मृदादिशब्दैरभिमानिदेवताया एव मुख्यवाच्यत्वा-न्मुख्यार्थत्वमिति भावः । अत्रैकवचनस्य सूत्रगतत्वादित्यनेनाभिमानिनामिति समासकरणेऽपि तत्तद्व्यपदेशानां बहुत्वाद्व्यपदेशा इति प्रयोगः स्यात् । एकवचनान्तव्यपदेशपदप्रयोगबला-दभिमानिन इत्येकवचनान्तमेव सौत्रमभिमानिपदमिति सूचयति । दृश्यते चेत्युत्तरसूत्रानु-गुण्येनेत्यत्र यद्यपि भाष्ये सामर्थ्ये एव एकवचनप्रयोगो न देवतायामिति भाति तथाऽपि ‘दृश्यन्ते मुनिभिश्च ताः’ इति भाष्यकृतोद्धृतस्मृतावेव देवतानामपि दृश्यत्वकथनात् सा देवता दृश्यत इति भाष्यकृतोऽभिसन्धिः । एवं चोत्तरसूत्रे देवतायामप्येकवचनप्रयोगात् पूर्वसूत्रेऽभिमानिनो व्यपदेश इत्येव विग्रह इत्यर्थः ।
भावबोधः
नन्विदमधिकरणं व्यर्थम् । अतीताधिकरण एवोपलक्षणत्वेन सकलयुक्तिविरोधानां परिहृत-त्वादिति चेन्न; ‘तथापि मृज्जलादीनां बुद्धिवागादिवाचकः । दृष्टव्याप्तिविरुद्धत्वात्’ इत्यनु-व्याख्यानोक्तरीत्याभ्यधिकाशङ्कयेतदधिकरणोत्थानादित्याशयेनोक्तम् अत्र पुनरिति ॥ अनेना-नन्तरसङ्गतिरपि लब्धेति ज्ञातव्यम् ।
यद्वा न पूर्वाधिकरणे सकलयुक्तिविरोधानामुपलक्ष्यत्वं किन्तु युक्तिमात्रविरोधपरिहारः पूर्वाधिकरणोपाधिः । दृढयुक्तिपरिहारोऽत्रोपाधिरिति न वैयर्थ्यम् । तदुक्तमनुव्याख्याने–
‘दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः’
इति । युक्तिमात्रविरोधे निरस्त एव दृढयुक्तिविरोधनिरासावसर इत्येवमप्यनन्तरसङ्गतिरिति ज्ञातव्यम् ॥ प्रमाणं न वेति ॥ अत्र श्रुतिसमन्वयेन जगत्कारणत्वं विष्णोर्न युक्तमुत युक्तमिति प्रधानचिन्ता पूर्ववदेव द्रष्टव्या । तदर्थं वेदः किमप्रमाणमुत प्रमाणमिति । तदर्थं ‘मृदब्रवीत्’ इत्यादिवेदः किं युक्त्यादिविरुद्ध उत नेति । तदर्थं मृदादिशब्दः किं जडपरः किं वाऽभिमानि-चेतनपर इति । तदर्थमभिमानिचेतनाः किं न सन्त्युत सन्तीति । तदर्थमभिमन्यमानमृदाद्यनु-गतानां विग्रहवतामभिमानिनामनुपलब्धिः किं तदभावनिबन्धनोतान्तर्धानादिसामर्थ्यनिबन्धनेति । तदर्थं सामर्थ्यविशिष्टदेवतासत्त्वे प्रमाणं नास्त्युतास्तीति । ‘मृन्न वदति’ इत्यादिना मृदादीनां वचनाद्यदृष्टिः श्रुत्यप्रामाण्यकारणमिति न्यायविवरणमपि उक्ततात्पर्यं भवति । युक्तेरेवाश्रयणीय-त्वादिति ।
नन्वादिकालीनमृदादिपक्षीकारे सिद्धसाधनत्वाभावेऽपि तेषां ‘मृदब्रवीत्’ इत्यादि श्रुत्येक-समधिगम्यत्वेन धर्मिग्राहकमानबाधो जडत्वहेतोरसिद्धिश्चेति चेत्, न आदिकालीनमृदादि स्वरूपपरेण ‘अग्नेरापः’ इत्यादि वाक्यान्तरेण दृश्यमानकार्यलिङ्गेन वा धर्मिग्रहोपपत्तेः । मृत्वादिना जडत्वानुमानाच्चेति भावः ॥ मृदाद्यभिमानिनीनां देवतानामेवेति ॥ भाष्ये मृदा-दीत्यादिपदानुरोधेनाभिमानिदेवतेत्येकवचनान्तप्रयोगः समुदायविवक्षयेति भावेन बहुवचनान्त-प्रयोगः कृतः । न तु सूत्रे विग्रहप्रदर्शनार्थम् । वक्ष्यमाणविरोधादिति ज्ञातव्यम् । तथा चाभिमानिदेवतापक्षीकारे हेतोरसिद्धिः । अभिमन्यमानपक्षीकारे प्रकृतविरोध इति भावः । न युक्तिविरोधमात्रेण श्रुतेरन्यार्थत्वं कल्प्यते । किन्तूपजीव्यप्रत्यक्षविरोधादित्यत आह– न चोपजीव्येति ॥ आदिकालीनमृदादीनामेव श्रुत्या वक्तृत्वादिकमुच्यते । तेषाञ्च नास्मदादि-प्रत्यक्षत्वमिति न प्रत्यक्षं श्रुत्युपजीव्यमिति प्रागेवोक्तमित्यर्थः ॥ अन्यार्थकल्पने मुख्यार्थ-लाभादिति ॥ ‘तदधीनत्वात्’ इति न्यायेन मृदादिशब्दानामभिमन्यमानापेक्षयाभिमानिष्वेव मुख्यत्वेन मृदादिशब्दानां मुख्यार्थत्वलाभादित्यर्थः । अनेन चेतनविषयतामात्रेण प्रकृतविरोध-शान्तावपि वस्तुस्थितिं ज्ञापयिष्यता सूत्रकारेण व्यपदेशस्त्विति ‘तु’ शब्देन मुख्यवृत्तिः सूचिता । तत्रोपपत्तिज्ञापनायाभिमानीति चोक्तम् । अन्यथा चेतनव्यपदेश इत्यवक्ष्यदिति सुधोक्तरीत्या सूत्रेऽभिमानिशब्दप्रयोगस्य विशेषार्थक ‘तु’ शब्दस्य चाभिप्राय उक्तो भवति । उपलक्षणमेतत् । व्याप्तिपक्षधर्मतोपेतत्वेन युक्तेर्निरवकाशत्वाच्चेत्यपि ग्राह्यम् । अनेनानुगतिश्चेति विग्रहश्चेतीति । ‘च’ शब्दो न केवलमुक्तसमुच्चयार्थः किन्तु अनुक्तविग्रहसमुच्चयार्थो वानुगति-शब्दविग्रहोपलक्षको वेत्युक्तं भवति । यद्यप्यत्र भाष्ये आकाङ्क्षानुसारेणानुगतिमादावुक्त्वा सामर्थ्यमनन्तरं वक्तव्यं तथाप्यल्पाच्तरस्य पूर्वनिपातमनुसृत्य प्रवृत्तं सूत्रमनुगच्छता भाष्यकृता क्रमो भग्न इति भावः ।
ननु सूत्रेऽभिमानिनीनां व्यपदेश इति विग्रहसम्भवात् क्वैकवचनमित्यत आह– दृश्यते चेत्युत्तरसूत्रानुगुण्येनेति ॥ अभिमानिन्या व्यपदेश इति एकवचनान्तविग्रहस्य ग्राह्यत्वादित्यर्थः । उपलक्षणमेतत् । अभिमानिव्यपदेश इत्यभिमानिशब्दो ह्येकवचनान्तः समस्तः । व्यपदेश-शब्दस्यैकवचनान्तत्वात् । न हि बहूनामेको व्यपदेश इति सम्भवतीति सुधोक्तमपि ज्ञापकमत्र ग्राह्यम् ।
ननु ‘तासां सामर्थ्यम्’ इति भाष्ये ‘दृश्यते च’ इति सूत्रे सामर्थ्यस्यैव एकत्वमुच्यते न तु देवताया इति कथं तदत्र विग्रहज्ञापकमित्यत आह– दृश्यन्ते मुनिभिरिति स्मृत्यानुकूल्या-दिति ॥ स्मृतौ प्राक् देवतानां शक्तीनां च प्रकृतत्वान्मुनिभिश्च ता इति तच्छब्देन देवतानामपि परामर्शात् । अत एव ताः शक्तयो देवाश्चेति वक्ष्यते । तथा च तदनुसारेण तासां सामर्थ्यमिति भाष्ये देवता अपि विवक्षिताः । अत एव नाप्रामाणिकत्वमभिमानिदेवतानां तत्सामर्थ्यस्य चेति वक्ष्यतीति भावः ।
भावदीपः
युक्तीति ॥ श्रुतेः प्रतीतार्थप्रच्यावनं विना अनुपपद्यमानत्वरूपदृढयुक्तिविरोधपरिहारा-दित्यर्थः । ‘दृढयुक्तिविरोध तु सर्वत्र न्याय ईदृश’ इत्यनुभाष्योक्तेः । तेन न पूर्वेण गतार्थत्व-मिति ज्ञेयम् । पूर्वसङ्गतिमाह ॥ वेदेति ॥ पूर्ववद्व्याख्या । मृदादीनां वचनाद्यदृष्टिः श्रुत्य-प्रामाण्यकारणमिति न्यायविवरणानुसारेण पूर्वपक्षभाष्यं व्याचष्टे ॥ न वेदः प्रमाणमित्यादिना ॥ मृदादिशब्दैः सर्गाद्यकालीनपृथिव्यादिकमुच्यत इत्यादिवचनादित्यस्यार्थ इत्यादिनेति । युक्तीत्यादि व्याचष्टे ॥ तथात्वेऽपीत्यादिना ॥ इत्यादीत्यादिपदेन मृत्वाद् घटवदिति युक्तिर्गृह्यते । मृत्वेनैव हेतुना जडत्वं सिद्धमिति भावः । भाष्ये वेदैकदेश इति वाच्ये वेद इत्युक्तेरुपपत्तिमाह ॥ एवं चेति ॥ तत्सामान्यादिति न्यायादिति भावः ॥ युक्तेरेवेति ॥ या प्रागुक्तजडत्वादियुक्तेरेवेत्यर्थः । न च युक्तेर्मृदब्रवीदित्यादिधर्मिग्राहिश्रुतिबाधः । इदानीन्तन-मृदादिकारणत्वेनादिकालीनमृदाद्यनुमानापरसिद्धमात्रस्य पक्षीकरणाद्वा श्रुतेरनुमानधर्म्यसमर्पकत्वेन प्राबल्याभावादिति भावः । तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिन इत्यनुभाष्यदिशा सूत्रे तुशब्दो योग्यतयाभिमानिपदेनान्वेतीति भावेन तदर्थं योजनां च दर्शयन् भाष्यं व्याचष्टे ॥ तुशब्द इति ॥ भाष्येऽग्रेतनसूत्रानुरोधेन एकवचनान्ततया सूत्रार्थभाषणं समुदायाशयमिति भावेन देवताना-मित्यादिबहुवचनप्रयोगस्तासामित्त्युत्तरभाष्यवाक्यानुरोधेन कृतः । दृश्यते मुनिभिश्च ता इति स्मृतौ तथा प्रयोगाद् भाष्ये तासामिति बहुवचनोक्तिरिति भावः । अवधारणार्थतुशब्दसूचित-मुख्यत्वव्यावर्त्यचोद्यमाह ॥ स्यान्मतमिति ॥ ननु ‘उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना । प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित्’ इति पूर्वनयानुभाष्योक्त्याऽस्ति श्रुतेरप्यर्थान्तर-कल्पनमित्यत आह ॥ न चेति ॥ उपजीव्यप्रत्यक्षविरोधश्च नास्तीत्युक्तं पूर्वपक्षदशायामेवे-त्यर्थः । इयं च युक्तिर्न श्रुतेरुपजीव्येति भावः ॥ मुख्यार्थेति ॥ अभिमन्यमानगतमृत्वादि-मृदादिशब्दप्रवृत्तिनिमित्तस्याभिमान्यधीनत्वेन तदधीनत्वादिति न्यायेनाभिमानिनां मृदादिशब्द-मुख्यार्थत्वात्तैः शब्दैस्तेषां ग्रहणे मुख्यार्थलाभात् । युक्तिविरोधेनापातप्रतीतार्थत्यागेन तात्पर्यार्थत्याग इत्यर्थः । तथा च मृन्न वदतीति जडस्य पक्षत्वे सिद्धसाधनम् । चेतनस्य पक्षत्वे हेतोरसिद्धिरित्यनुमानदूषणं व्यक्तमिति भावः । सूत्रखण्डभाष्यमवतारयति ॥ नाभिमानीति ॥ सूत्रभाष्ययोरनुगतिरूपलक्षणं मत्वाऽऽह ॥ अनुगतिर्विग्रहश्चेति ॥ देहश्चेत्यर्थः । भाष्ये पूर्वोत्तरविरोधमाशङ्क्याह ॥ अत्रेति ॥ भाष्य इत्यर्थः । ननु एकवचनस्य सूत्रगतत्वादित्य-सिद्धम् । अभिमानिनां व्यपदेश इत्यपि विग्रहप्रदर्शनस्य सुशकत्वादित्यत आह ॥ दृश्यते चेति ॥ विग्रहस्याभिमानिनो व्यपदेश इत्येवंरूपस्य समासार्थप्रदर्शकवाक्यस्येत्यर्थः । ननूत्तरसूत्रे दृश्यते चाभिमानिदेवतेति यद्यर्थः स्यात्तदा तदनुसारात्पूर्वसूत्रेऽप्युक्तदिशा एकवचनान्ततया विग्रहः स्यात् । नैतदस्ति । दृश्यते च तासां सामर्थ्यं महद्भिरित्येव तत्र भाषणादित्यत आह ॥ दृश्यन्ते इति ॥ तत्र तासां सामर्थ्यमिति भाष्ये न शक्तिमात्रमुच्यते किन्तु देवता चेत्युपलक्ष्यते कुतः दृश्यन्त इति तत्रोदाहरिष्यमाणस्मृत्यनुसारादित्यर्थः । स्मृतौ बहुवचनोक्तावपि समुदाय-विवक्षया दृश्यते च देवतेत्यपि विवक्षणीयमिति भावः ।
अभिनवचन्द्रिका
पूर्वोक्तमेवात्र संशयबीजमिति ॥ वेदे तावदुभयविधवाक्यदर्शनात्सन्देहो भवति प्रमाणं न वेति । तन्निरासस्तु द्वाभ्यामधिकरणाभ्यां भवति । कस्यच्चिदधिकारिणः पूर्वाधिकरणेन निरासः । अन्यस्य तु अनेन अधिकरणेन निरासो भवतीति भावः । एतेन पूर्वाधिकरणे वेदस्य निर्दोषताया उक्तत्वेन पुनस्तेनैव बीजेन शङ्कानुत्पाद इति निरस्तम् । तदधिकरणप्रवृत्तेः प्रागेवोत्पन्नसंशय-स्यानेनाधिकरणेन निरास इत्यङ्गीकारात् । न चाधिकरणवैयर्थ्यम् । पूर्वाधिकरणाऽनिरस्यपूर्वपक्ष-निरासार्थत्वात् ॥ अन्यस्याप्यप्रामाण्यमिति ॥ वाक्यप्रामाण्यं द्वेधा सिध्यतीति भवतोच्यते । कस्यचिदाप्तोक्तत्वेन, कस्यचिदपौरुषेयत्वेनेति । तत्र न तावदाप्तोक्तत्वेन वेदस्य प्रामाण्यमिति शक्यते वक्तुं, अनङ्गीकारात् । नाप्यपौरुषेयत्वेन, मृदब्रवीदित्यादिवाक्ये व्यभिचारादिति भावः । एतेन असदर्थकत्वेन ‘मृदब्रवीदित्यादिवाक्यस्याऽप्रामाण्येऽपि नेतरवेदाप्रामाण्यं कारणाभावादिति निरस्तम् ॥ मुख्यार्थलाभादिति ॥
ननु मृदादीनां वक्तृत्वादेः प्रबलयुक्तिविरुद्धत्वादेव श्रुत्यर्थप्रच्यावनमिति वक्तव्यं, न तु – मुख्यार्थलाभादिति । अन्यथा युक्तिविरोधेन पूर्वपक्षकरणमयुक्तं स्यात् । मुख्यार्थलाभायैव श्रुतेरन्यपरत्वस्याऽभिधानेन विरोधपरिहारायानभिधानाद् इति चेत्, सत्यं वक्तृत्वादेर्युक्ति-विरुद्धत्वादेव श्रुत्यर्थप्रच्यावनमिति वक्तव्यमिति अभिप्रेतं च टीकाकृतः । अन्यार्थकल्पने मुख्यार्थलाभादित्यनेन वेदस्य सावकाशत्वाभिधानात् । अयं भावः भवेच्छ्रुतिविरोधेन युक्तेरप्रामाण्यम्, यदि श्रुतिः सावकाशा न स्यात् । न चैवं प्रकृते । श्रुतेरन्यार्थकल्पने यथा प्रतीतार्थादपि मुख्यार्थलाभात् । कथञ्चिदर्थांतरयोजनासम्भवे हि सावकाशत्वं वदन्ति, किमु अर्थान्तरकल्पनया मुख्यार्थलाभे । ततश्च युक्तेः स्वभावतो दुर्बलत्वेऽपि निरवकाशतया प्राबल्याद् युक्त्यैव सावकाशश्रुतिबाधो युक्तः । न तु श्रुत्या युक्तिबाध इति । ‘तासां च’ इति मूलमवतारयति – नाभिमानिदेवता इति ॥ इति त्वाङ्गीकर्तुं शक्यत इति शेषः । एतेन ‘किं ता अभिमन्यमानव्यापिन्यः, उत तदेकदेशवर्तिन्य’ इत्यादिना तत्तदङ्गीकारं विकल्प्य, अङ्गीकार एव दूष्यते उत अभिमन्यमानव्यापित्वाद्यर्थो दूष्यते । नाद्यः विग्रहवत्त्वाद्यर्थाङ्गीकार- सम्भवेऽपि प्रतिज्ञाताभिमानिदेवताभावाऽसिद्धेः । न हि कस्यचिदङ्गीकारो न सम्भवतीत्येतावता अर्थो नास्तीति शक्यते वक्तुम् । जीवब्रह्मभेदस्य मायावादिनाऽङ्गीकर्तुमशक्यत्वेन तदभाव-प्रसङ्गात् । न द्वितीयः व्याहतेः । ‘नाद्य’ इत्यनेन विग्रहवत्त्वपक्षनिराकरणेन विग्रहशून्यत्व-मङ्गीकृत्य ‘न द्वितीय’ इति पुनस्तन्निषेधादिति परास्तम् ।
ननु ‘दृश्यते च’ इति सूत्रं नैकवचनान्तं विग्रहे ज्ञापकम् । तस्य सामर्थ्यं दृश्यते इत्यर्थकत्वादित्यत आह– दृश्यन्ते मुनिभिरिति ॥ अस्य सूत्रस्य सामर्थ्यं दृश्यत इत्येव नार्थः, अपि तु स्मृत्यानुकूल्याद् देवतासामर्थ्यं च दृश्यत इत्यर्थ इति भावः ।
वाक्यार्थमुक्तावली
नन्विदमधिकरणं व्यर्थम् । अतीताधिकरण एवोपलक्षणत्वेन सर्वविरोधानां परिहृतत्वादिति चेन्न । तथापि मृज्जलादीनां बुद्धिवागादिवाचकः । दृष्टव्याप्तिविरुद्धत्वादित्यनुभाष्योक्तरीत्याऽ-भ्यधिशङ्कयैतदधिकरणोक्तानामित्याशयेनाह ॥ अत्र पुनरिति ॥ फलविसंवादस्य वैगुण्य-निमित्तत्वेन परिहार्यत्वेऽप्यर्थशून्यत्वस्यापि परिहार्यत्वमित्यभ्यधिका शङ्केति ज्ञेयम् । अनेना-नन्तरसङ्गतिरप्युक्तेति ज्ञेयम् । यद्वा पूर्वाधिकरणे सर्वयुक्तिविरोधानामुपलक्ष्यत्वम् । किन्तु युक्तिमात्रविरोधपरिहारः पूर्वाधिकरणोपाधिः । दृढयुक्तिविरोधपरिहारोऽत्रोपाधिरिति न वैय्यर्थ्यम् । तदुक्तमनुव्याख्याने । ‘दृढयुक्तिविरोधेऽतु सर्वत्र न्याय ईदृशः’ इति । एवं च युक्तिविरोधपरिहारा-दित्यस्य दृढयुक्तिविरोधपरिहारादित्यर्थः । युक्तिदार्ढ्यं च श्रुतेः प्रतीतार्थप्रच्यावनं विना परिहार्यत्वमिति ज्ञेयम् । अनेन युक्तिमात्रविरोधे निरस्त एव दृढयुक्तिविरोधपरिहारावसर इत्येव-मप्यनन्तरसङ्गतिरुक्ता भवति ॥ प्रमाणं न वेति ॥ अत्र मृदब्रवीदिति वेदः किं जडत्वादि-युक्तिविरोधादप्रमाणमुताभिमानिदेवतापरतया प्रमाणमिति चिन्ता । तदर्थमभिमन्यमानमृदाद्यनु-गतानां विग्रहवतामभिमानिनामनुपलब्धिः किं तदभावनिबन्धना किं वान्तर्धानादिसामर्थ्य-निबन्धनेति । तदर्थं सामर्थ्यविशिष्टदेवतासत्वे प्रमाणं नास्त्युतास्तीति ॥ पूर्वपक्षयतीति ॥ न च वेदापौरुषेयत्वस्य पूर्वत्र साधितत्वादपौरुषेयस्य चाप्रामाण्यायोगात्पूर्वपक्षानुदय इति वाच्यम् । अपौरुषेयत्वस्य प्रामाण्यं विनैव जडत्वादेर्वक्तृत्वाभावं विनानुपपत्तेः । अनृतत्वस्य चाप्रामाण्यं विनानुपपत्तेः । न वेदप्रामाण्यनिश्चयः । प्रत्युत पिपीलिकालिपिवदप्रामाणानुकरणशुकादि-वाक्यवत्वे पुरुषाभावमात्रेणाप्रामाण्यमिति वा युक्तिविरोधादपौरुषेयवाक्यत्वमेव नेति वा पूर्वपक्ष्यभिप्रेतत्वादिति ज्ञेयम् । इत्यादियुक्तिविरुद्धत्वेनेत्यादिपदेन मृत्वादियुक्तयो गृह्यन्ते ।
ननु मृज्जलादीनां बुद्धिवागादिवाचकवेदप्रामाण्यमभ्युपगच्छतः जडत्वमसिद्धमिति मृत्वमेव स्वशब्देनोपादेयं किमर्थमादिपदेन ग्रहणम् । अत एव सुधायां जडत्वस्य हेतूकरणे त्वसिद्धि-रित्युक्त्वा मृत्वादित्येव हेतुशरीरं दर्शितमिति चेन्न । मृत्वरूपपक्षतावच्छेदकजडत्वयोः सामानाधिकरण्यनियममभ्युपगच्छता मृत्वेन जडत्वं साधयामीत्यभिप्रायेण जडत्वस्य हेतूकरणो-पपत्तेः । सुधायां तु किं प्रसाध्याङ्गकेन हेतुनेति भावेन स्फुटपक्षधर्मताकं पक्षतावच्छेदकमेव हेतू-कृतम् । टीकायां पक्षतावच्छेदकस्य साक्षाद्धेतुत्वाकरणं तु वक्तृत्वादिना जडत्वस्य मृत्वादे-र्विरोधाप्रतीतेरेव वक्तृत्वादिना मृत्वादेर्व्याप्यप्रतीतेर्जडत्वस्य स्फुटव्याप्तिकत्वाद्व्याप्तौ भारमव-लम्ब्येति ज्ञेयम् ॥ युक्तेरेवेति ॥ नन्वादिकालीनमृदादिपक्षीकारे सिद्धसाधनत्वाभावेऽपि तेषां मृदब्रवीत्’ इत्यादि श्रुत्यैकसमधिगम्यत्वेन धर्मिग्राहकमानबाध इति चेन्न । आदिकालीनमृदादि-स्वरूपपरेण ‘अग्नेरापः’ इत्यादिवाक्यान्तरेण दृश्यमानकार्यलिङ्गेन वा धर्मिग्रहोपपत्तेरिति भावः ॥ मृदाद्यभिमानिनां देवतानामेवेति ॥ अनेनावधारणार्थकतुशब्दस्य बुध्या विवकेनाभिमानिनी-त्यनेन सम्बन्धः । सूत्रे दृश्यते चेत्युत्तरसूत्रानुसारेणाभिमानिनो व्यपदेशे इत्येकवचनान्ततया विग्रहेऽप्येकवचनं समुदायविवक्षयेति भावेन भाष्ये मृदादीत्यादिपदप्रयोग इत्युक्तं भवति । अवधारणार्थकतुशब्दसूचितमुख्यत्वहेतोर्व्यावृत्यं चोद्यमाह ॥ स्यादिति ॥ न युक्तिविरोधमात्रेण श्रुतेरन्यार्थत्वं कल्प्यते किन्तूपजीव्यप्रत्यक्षविरोधादित्यत आह ॥ न चेति ॥ आदिसृष्टा-वित्यादिनेत्यर्थः ॥ मुख्यार्थेति ॥ तदधीनत्वादिन्यायेन मृदादिशब्दानामभिमन्यमानापेक्षयाऽभि-मानिष्वेव मुख्यत्वेन मृदादिशब्दानां मुख्यार्थलाभादित्यर्थः । युक्तेः श्रुतितः स्वभावतो दुर्बलत्वेऽपि व्याप्तिपक्षधर्मत्वोपेतत्वेन निरवकाशत्वाच्चेत्यपि ग्राह्यम् । अन्यथा मुख्यार्थ-लाभायैवान्यार्थकल्पनेत्युक्तेस्तदकल्पकत्वाद्दार्ढ्याभावेन दृढयुक्तिविरोधोऽत्र निरस्यत इत्यस्या-
युक्तेः । न च जडत्वहेतोरसिद्धिस् तत्साधकमृत्वहेतोरपि तथात्वमेव । तथोक्तं सुधायां मृदादि शब्दस्य चेतनविषयत्वात्तत्पक्षीकारेऽसिद्धिः । शब्दमात्रेण हेतुत्वेऽतिप्रसङ्गादिति । तत्कथं व्याप्त्यादिमत्वेन निरवकाशत्वमिति वाच्यम् । वस्तुतो हि श्रुतिः ‘मृदब्रवीत्’ इत्यादिका स्वरसतोऽभिमानिविवक्षया प्रवृत्ता । विदुषां तथैवार्थप्रतीतिः परोक्तहेतोरसिद्धिश्च स्फुरति । मन्दास्त्वपौरुषेयत्वेन प्रामाण्यं युक्तिविरोधेनाप्रामाण्यं चानुसन्धायान्यथानुपपत्या प्रतीतादर्थान्तरं कल्पयन्तीति तद्विवक्षया दार्ढ्यं युक्तेर्विवक्षितमित्यदोषः ॥ विग्रहश्चेति ॥ अनुगतिश्चेति ॥ च शब्देन विग्रहः समुच्चीयते । सूत्रे अनुगतिपदमुपलक्षणमिति भावः । सूत्रेऽन्यतरस्य पूर्वत्वाद्विशेषपदस्य प्राथम्यम् । तदनुसारेण भाष्यव्याख्यानेऽपि आकाङ्क्षाक्रमेण टीकायां व्याख्यानं बोध्यम् ।
ननु सूत्रेऽभिमानिनां व्यपदेश इति बहुवचनान्ततयापि विग्रहसम्भवादेकवचनस्य कथं सूत्रगतत्वं ज्ञायत इत्यत आह ॥ दृश्यते चेति ॥ अभिमानिनो व्यपदेश इत्येकवचनान्त-विग्रहस्येत्यर्थः । बहूनामेकव्यपदेशाभावाद्व्यपदेश इत्येकवचनाच्चेत्यपि सुधोक्तं द्रष्टव्यम् ।
ननु दृश्यते चेति सूत्रं सामर्थ्यं दृश्यत इति भाष्ये व्याख्यास्यते कथं देवताविषयमित्यत आह ॥ दृश्यन्त इति ॥ स्मृतौ देवतानामपि दृश्यत्वोक्तेर्भाष्यमुपलक्षणमिति भावः । सूत्रार्थस्तु यतोऽस्मिन्मृदब्रवीदित्यादावभिमानिनीनां देवतानामेव व्यपदेशः । अतोऽस्य मृदब्रवीदित्यादे-स्तथात्वमप्रामाण्यं न । न चानुपलम्भाद्देवताभाव इति शेषः । कुतः विशेषानुगतिभ्याम् । विग्रहवत्वेनैवाभिमन्यमानानुगत्यन्तर्धानाख्यसामर्थ्यविशेषाभ्यां सतीनामप्यनुपलम्भसम्भवादिति ।
तत्त्वसुबोधिनी
नन्विदमधिकरणं व्यर्थम् । अतीताधिकरण एव उपलक्षणत्वेन सर्वयुक्तिविरोधानां निरस्त-त्त्वाद् इत्यत आह ॥ अत्र पुनरिति ॥ तथा च । पूर्वाधिकरणे एव युक्तिविरोधः परिहृतो ऽत्र तु दृढयुक्त्यविरोध उच्यते । इति अगतार्थता । अनेनैवान्तरसङ्गतिर् लब्धा इति भावः ।
पूर्वोक्तमेवेति ॥ किञ्चिद्विद्यमानार्थाभिधायकं, किञ्चिदविद्यमानार्थाभिधायकमित्युभय-विधवाक्योपलब्धिरेव सन्देहबीजम् इत्यर्थः । अस्त्वसदभिधायकं ततोऽप्यप्रामाण्यं कुत इत्यत आह ॥ असदभिधायकत्वमेवेति ॥ तथापि न कृत्स्नवेदाप्रामाण्यमित्यत आह ॥ एवं चेति ॥ नन्विति ॥ तथा चानुमानस्य सिद्धसाधनत्वाभावेऽपि तेषां श्रुत्यैकसमधिगम्यत्वेन धर्मिग्राहक-मानबाधो जडत्वहेतोरसिद्धिरिति चेन्न । आदिकालीनमृदादिस्वरूपपरेण य इत्यादि वाक्यान्तरेण दृश्यमानकार्यलिङ्गेन वा धर्मिग्रहोपपत्तेः । मृत्वादिना जडत्वानुमानाच्च इति भावः ॥ मृदाद्यभिमानिदेवतानामिति ॥ तथा च अभिमानिदेवतापक्षीकारे हेतोर्नासिद्धिः । अभिमन्यमानपक्षीकारे प्रकृताविरोध इति भावः । न यु(मु)क्तिविरोधमात्रेण श्रुतेरन्यार्थत्वं कल्प्यते किन्तु उपजीव्यप्रत्यक्षविरोधादित्यत आह ॥ न चोपजीव्येति ॥ आदिकालीन-मृदादीनामेव, श्रुत्या वक्तृत्त्वादिकमुच्यते । तेषां च नास्मदादिप्रत्यक्षम् उपजीव्यमिति प्रागेवोक्त-मित्यर्थः ॥ अन्यार्थकल्पने इति ॥ तदधीनत्वादिन्यायेन मृदादिशब्दानामभिमन्यमानापेक्षया अभिमानिष्वेव मुख्यत्वेन मृदादिशब्दानां मुख्यार्थत्वलाभादित्यर्थः ॥ विग्रहश्चेति इति ॥ अनेनानुगतिश्चेति चशब्दो न केवलम् उक्तयुक्तिसमुच्चयार्थः । अनुक्तसमुच्चयार्थ इत्युक्तं भवति । यद्यप्यत्र भाष्ये आकांक्षानुसारेणानुगतिमादौ उक्त्वा सामर्थ्यमनन्तरं वक्तव्यम् । तथाप्यल्पा-च्तरमित्यस्य पूर्वपातमनुसृत्य प्रवृत्तं सूत्रमनुगच्छता भाष्यकृता क्रमो भग्न इति भावः । नन्वभि-मानिदेवतानाम् अनेकत्वाद् अभिमानिदेवता इति भाष्ये कथम् उक्तमित्यत आह अत्रैकवचन-स्येति ॥ तर्हि तासामित्ययुक्तमित्यत आह ॥ तच्चेति ॥ एकवचनमित्यर्थः ।
ननु सूत्रे, अभिमानिनां व्यपदेशादिति विग्रहसम्भवात् क्व एकवचनमित्यत आह ॥ दृश्यते चेत्युत्तरसूत्रानुगुण्येनेति ॥ अभिमानिव्यपदेशादिति एकवचनान्तविग्रहस्य ग्राह्यत्वादित्यर्थः । उपलक्षणमेतत् । अभिमानिव्यपदेश इति अभिमानिशब्द एकवचनान्तः समस्तः । व्यपदेश-शब्दस्यैकवचनान्तत्त्वात् । न हि बहूनामेको व्यपदेश इति न सम्भवति इत्यपि द्रष्टव्यम् । ननु तासां सामर्थ्यमिति भाष्ये दृश्यते चेति सूत्रे सामर्थ्यस्यैव कर्मत्वमुच्यते न देवताया इति कथं तदत्र विग्रहज्ञापकमित्यत आह ॥ ‘दृश्यते मुनिभिः’ इति स्मृत्यानुकूल्यादिति ॥ स्मृतौ प्राक् देवतानां शक्तीनां च प्रकृतत्वान् मुनिभिश्च ता इति तच्छब्देन देवतानामपि परामर्शात् । अत एव देवताशक्तयश्चेति वक्ष्यते । तथा च तासां सामर्थ्यमिति भाष्ये देवता अपि विवक्षिताः । अत एव प्रामाणिकत्वमभिमानिदेवतानां सामर्थ्यस्य चेति वक्ष्यतीति भावः । (केचित्तु ग्रहस्य कथं विग्रहश्चेति ब्रूम इत्यादिना ग्रहत्वाङ्गीकारेण समाधानोक्तिरित्यतो दृश्यते चेत्युत्तरसूत्रे देवतानां दृश्यत्वोक्त्या तत्प्रयोजकविग्रहस्याप्यभिप्रेतत्वाद् युक्त्या विग्रहाङ्गीकारेण समाधानमित्याह दृश्यते चेत्युत्तरसूत्रानुसारेणेति पूर्ववाक्यं व्याख्याय तत्र सामर्थ्यस्यैव दृश्य-त्वोक्तेर् न देवानां न तदन्यथानुपपत्या विग्रहवत्वसिद्धिरित्याशङ्कानिवर्तनार्थमुत्तरवाक्यमिति न दोष इत्याहुः ।)
वाक्यार्थविवरणम्
अभिमान्यधिकरणे । विग्रहवतीं देवतामसहमानो मीमांसकः शङ्कते ॥ नाभिमानीत्या-दिना ॥ वचनादिति ॥ तस्य वागिन्द्रियसाध्यत्वेन विग्रहाभावे इन्द्रियाभावेन वचनाद्ययोगादिति भावः । देशान्तरम् । तदधिष्ठितम् । तद्वैय्यर्थ्यात् । तस्मिन् देशान्तरे तस्या देवताया अवस्थानवैय्यर्थ्यादित्यर्थः ।
वाक्यार्थमञ्जरी
पूर्वोक्तमुभयविधवाक्यदर्शनं तथात्वेऽपीत्यस्योत्तरमाह ॥ मृन्न वक्त्रीति ॥ आदिसृष्टा-वेवेति ॥ उदाहृतवाक्यानां सृष्टिप्रकरणस्थत्वादिति भावः । मृदब्रवीदित्यादावभिमानिचेतनस्यैव व्यपदेशो न जडस्य । नन्वभिमानिन्या अप्रत्यक्षत्वं पृथिव्यादिवस्त्वन्तरमधिष्ठाय वचनादिकं च कथम् । कथं च परिच्छिन्नानेकाभिमन्यमानगतत्वमित्यत उक्तम् ॥ विशेषानुगतिभ्यामिति ॥ विशिष्यत इति विशेषः शक्तिः, अनुगतिर् व्याप्तिस् ताभ्यामित्यर्थः ॥ अवधारण इति ॥ तस्य च बुद्ध्या विवेकेनाभिमानिपदेनान्वय इति भावः । ननु न युक्तिविरोधमात्रेण श्रुतेरन्यार्थकत्वं कल्प्यते । किं तु युक्त्युपजीव्यप्रत्यक्षविरोधादित्यत आह ॥ न चेति ॥ आदिकालीन-मृदादीनामेव श्रुत्या वचनादिकमुच्यते तेषां च नास्मदादिप्रत्यक्षत्वमिति न प्रत्यक्षं श्रुत्युपजीव्य-मिति प्रागेवोक्तमित्यर्थः ॥ अन्यार्थकल्पन इति ॥ तदधीनत्वादिन्यायेन मृदादिशब्दानामभि-मन्यमानापेक्षयाभिमानिष्वेव मुख्यत्वेन मृदादिशब्दानां मुख्यार्थलाभादित्यर्थः । तथा च मुख्यार्थलाभायैवान्यार्थग्रहणं न युक्तिविरोधभीत्येति भावः । नाभिमानिदेवताः सन्तीत्यन्वयः ॥ वचनाद्ययोगेति ॥ शरीराद्यभावे वागाद्यभावादिति भावः । उक्तं तथा हीत्यादिना । देवतेति तासामिति च वैरूप्येण प्रयोगे हेतुमाह ॥ अत्रेति ॥ ननु सूत्रे अभिमानिनीनां व्यपदेश इति सम्भवात्क्वैकवचनमित्यत आह ॥ दृश्यते चेति ॥ अभिमानिन्या इत्येकवचनान्तविग्रहस्य ग्राह्यत्वमिति भावः । ननु तासां सामर्थ्यमिति भाष्येण दृश्यते चेति सूत्रे सामर्थ्यस्यैव कर्मत्वमुच्यते न देवताया इति कथं तदत्र विग्रहज्ञापकमित्यत आह ॥ दृश्यन्त इति ॥ तत्र ता इति तच्छब्देन देवतानामपि परामर्शादिति भावः ।