ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ
२. अथ न विलक्षणत्वाधिकरणम्
सूत्रभाष्यम्
। ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ ४ ॥
नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रामाण्यम् । विलक्षणत्वात् । नित्यत्वात्तदनु-सारित्वाच्च । न हि नित्ये दोषाः कल्प्याः । स्वतश्च प्रामाण्यम् । अन्यथाऽनवस्थितेः । ‘न चक्षुर्न श्रोत्रं न तर्को न स्मृतिर्वेदा ह्येवैनं वेदयन्ति’ इति भाल्लवेयश्रुतेश्च । नित्वत्वं च शब्दादेव प्रतीयते ‘वाचा विरूप नित्यया’ (ऋ.मं.८-६४-६) इत्यादेः । ‘अनादिनिधना नित्या’ इति च स्मृतिः ।
सत्तर्कदीपावली
पशुपत्यादिकृतागमस्य तु विप्रलम्भादिकर्तृदोषसम्भवेनापि यथोक्तफलादर्शनोपपत्तेः । स प्रतिबन्धककर्मादिनेवेति निश्चेतुं शक्यत्वात् । तदाह न विलक्षणत्वादित्यादिना । ननु जगज्जन्मादि-कारणे नारायणे नित्यस्यापि निखिलवेदस्य प्रामाण्यं न युज्यते । प्रमाणान्तरसंवादाभावादित्यत आह स्वतश्चेत्यादिना ॥ प्रमाणस्य प्रमाणान्तरसंवादेनैव प्रामाण्ये संवादकप्रामाण्यस्यापि प्रमाणान्तरसंवादेनैव प्रामाण्यम् । तस्यापि प्रमाणान्तरसंवादेनैव प्रामाण्यमित्यनवस्था स्यात् । अतः प्रामाण्यं स्वत एवेत्यङ्गीकर्तव्यमित्यर्थः । संवादनिरपेक्षाणामेव वेदानां विष्णुबोधकत्वं श्रुत्या साधयति ॥ न चक्षुरिति ॥
तत्त्वप्रदीपिका
परसमयसाधारणसमीरितमेतमेव दोषं स्वसमयेऽपि समानं समाशङ्क्यमानमपनोनुद्यते । ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ । न चेतरस्मृतिवद्वेदस्योक्तफलोपलम्भ एव प्रामाण्यम् । नित्यत्वात् । पुंवाक्ये विप्रलम्भादिदोषाः सम्भवन्ति । न नित्यवाक्ये ते कल्प्याः । प्राप्त्यभावात् । नित्यवाक्यप्रामाण्यानङ्गीकारे धर्माधर्माद्यसिद्धिरिति चावादिष्म । स्वतश्च प्रामाण्यमङ्गीकर्तव्यम् । परतश्चेत्तस्यापि परत इत्यनवस्था । न च नित्यप्रमाणस्य प्रामाण्यं परतो भवितुमर्हति । कदाचिदप्रामाण्ये सदा तथात्वप्रसङ्गात् । ननु स्वतः प्रामाण्यवादिनामपि वेदे दोषाभावः प्रमाणान्तराज्ज्ञायते । तदप्यदोषमेव दोषाभावे प्रमाणम् । तददोषत्वमन्यसाध्यमित्यनवस्था तत्रापि तुल्येति । नायं दोषः । साक्ष्यवधित्वाद्दोषशङ्कायाः । यत्र हि साक्षी निर्दोषत्वं निश्चिनोति, न तत्र दोषशङ्का स्यात् । न च साक्षिणो दोषः कल्प्यः । तदनुभूतस्यानन्यथात्वनियमा । अन्यथा प्रमाणाप्रमाणविवेकाभावप्रसङ्गात् । न च साक्षिनिर्दोषत्वज्ञानं मानान्तरापेक्षम् । स्वसंवेद्यत्वात्तस्य । तस्मान्नास्मत्पक्षेऽनवस्था ।
नन्वस्मत्पक्षेऽपि प्रामाण्यशङ्कानुत्पत्तौ न मानान्तरापेक्षेति नानवस्थेति चेत्किमाशङ्कानिवारकम् ? यथा शङ्क्या व्याहतिः स्यात्सा नैवोत्पद्यते, तस्माद्व्याघातो निवारकः, तदवधिरेवाऽशङ्का स्यात्, अतः परतः प्रामाण्येऽपि नानवस्थेति चेदेवं तर्हि व्याघातानुभवस्य स्वतः प्रामाण्यमिष्टम् । अतस्तस्य साक्षिणः स्वप्रामाण्य एव सर्वव्यवहारावस्थितिस् तद्वद्वेदस्यापि स्वप्रामाण्यं स्थितम् । स्वतःप्रामाण्यं च शब्दात्प्रतीयते न चक्षुरित्यादेः । नित्यत्वं च ‘तस्मै नूनम्’ इत्यादेः । हे विरूप तस्मा अभिद्यवे सुष्टुतिं चोदस्व । अभितो द्योतत इत्यभिधुः । वृषा श्रेष्ठः । सुष्ठु स्तुतिं प्रति प्रेरयेति प्रार्थनं विरूपस्य ऋषेरन्तर्यामिविषयं भवति । ‘ऋचः सामानि जज्ञिर’ इत्यादिशब्दादुत्पत्तिमत्त्वमाशङ्क्याह ॥ अनादिनिधनेत्यादि ॥ अनादिनिधनत्वेन नित्या, नत्वनिधनत्वमात्रेण ।
तत्त्वप्रकाशिका
अत्र विष्णोर्जगत्कारणत्वे प्रमाणत्वेनोक्तवेदादिप्रामाण्यस्य युक्तिविरोधपरिहारादस्ति शास्त्रादि सङ्गतिः । श्रुत्यादिप्रामाण्याद्विष्णोर्जगत्कारणत्वं सिध्यतीत्युक्तम् । श्रुत्यादिप्रामाण्यस्य च युक्तिविरोधे न ब्रह्मणो जगत्कारणत्वसिद्धिः । अतोऽसौ परिहर्तव्य एव । श्रुत्याद्येव विषयः । प्रमाणं न वेति सन्देहः । उभयविधवाक्योपलब्धिः सन्देहबीजम् । श्रुत्यादिकं न प्रमाणमिति पूर्वः पक्षः । ‘कारीर्या यजेत वृष्टिकामः’ इत्यादिश्रुतेः कारीर्याद्यनुष्ठानेऽपि वृष्ट्याद्यदृष्ट्याऽविद्यमानार्थाभिधायकत्वात् । तथा स्मृतीनामप्यनुपलभ्यमानफलाभिधायकत्वेनाविद्यमानार्थत्वात् । अविद्यमानाभिधायकानां च पाशुपतादिस्मृतिवदप्रामाण्यनियमात् । अविद्यमानाभिधात्रीणामपि श्रुतिस्मृतीनां प्रामाण्ये अन्य-स्मृतीनामपि तत्प्रसङ्गात् । न ह्यविद्यमानाभिधायकत्वसाम्येऽपि श्रुत्यादेरेव प्रामाण्यं नान्यस्येति विभागे हेतुरस्ति । एवं च वेदाद्येकदेशस्याप्रामाण्येऽन्यदेशप्रमाणतायामनाश्वासान्न विष्णो-र्जगत्कारणत्वसिद्धिरिति । सिद्धान्तयत्सूत्रमुपन्यस्य प्रतिज्ञांशं तावद्व्याचष्टे ॥ नेति ॥ अस्य श्रुत्यादेस्तथात्वं पाशुपतादिस्मृतिवदुक्तानुपलब्धिहेतुना नाप्रामाण्यं कल्प्यमिति भावः । तत्र हेत्वा-काङ्क्षायां सौत्रं हेतुमुपन्यस्य व्याचष्टे ॥ विलक्षणत्वादिति ॥ श्रुतेः पाशुपतादिस्मृतितो नित्यत्वाख्यवैलक्षण्यात्स्मृतेस्तदनुसारित्वाख्यवैलक्षण्यान्न पाशुपतादिस्मृतिवत् श्रुत्यादेरप्रामाण्य-मित्यर्थः ।
ननु नित्यत्वादिसद्भावेऽपि कुतोऽप्रामाण्याभाव इत्यत आह ॥ न हीति ॥ वाक्याप्रामाण्यं तावद्वक्तृदोषनिबन्धनम् । न हि नित्ये वेदे ते दोषाः कल्पयितुं शक्यन्ते । यतो नित्यत्वाददोषत्वं ततोऽप्रामाण्याभावः श्रुतेः सिध्यति । प्रमाणानुकूलत्वात्स्मृतेरपि तत्सिद्धिरिति भावः । फलव्यभिचारेऽपि न पाशुपतादिस्मृतिवद्वेदादेरप्रामाण्यमित्यत्रोक्तवैलक्षण्याख्यं हेतुं प्रकारान्तरेण व्याचष्टे ॥ स्वतश्चेति ॥ भवेदुक्तानुपलब्ध्या वेदाद्यप्रामाण्यकल्पनं यदि पाशुपतादिस्मृतिवत्फलोपलब्ध्यादि संवादाधीनज्ञानं तत्प्रामाण्यं स्यात् । नैतदस्ति । वेदादिप्रामाण्यस्य संवादनिरपेक्षतज्ज्ञानादेव सिध्द्यङ्गीकारात् । न हि निर्दोषतदनुसारितत्स्वरूपग्रहे पुनः प्रामाण्योपलब्ध्यै संवादसापेक्षताऽनुभूयते । न च पाशुपतादिस्मृतीनामपि तथात्वं वाच्यम् । निर्दोषत्वाद्यनिश्चयादिति भावः । प्रामाण्यं संवादाधीनज्ञानमेव किं न स्यादित्यत आह ॥ अन्यथेति ॥ यदि प्रामाण्यं संवादादेव ज्ञायते तर्हि संवादकप्रामाण्यमपि संवादान्तरेण ज्ञायते स्वत एव वा । आद्ये तदप्येवमित्यनवस्था स्यात् । द्वितीये परम्पराकल्पनं व्यर्थं स्यात् । आद्यप्रामाण्यस्यैव स्वतस्त्वाभ्युपगमोपपत्तेरिति भावः । कदाचित्प्रामाण्य- जिज्ञासायामेव संवादापेक्षणान्नानवस्थेति चेन्मैवम् । प्रामाण्याध्यवसायं विना प्रवृत्त्यनुपपत्त्या तज्जिज्ञासाध्रौव्यात् । फलसन्देहेऽपि कृष्यादौ प्रवृत्तिर्दृश्यत इति चेत्सत्यम् । सापि न निःशङ्का । यावच्छङ्कमेव संवादापेक्षणान्नानवस्थेति चेत्तत्र वक्तव्यम् । किं शङ्का सर्वत्रानुवर्तते क्वचिन्नोत्पद्यत एव वा । आद्ये कथमनवस्थाऽभावः । द्वितीयो निरस्तप्रायः । अपि च संवादकमप्रामाण्यशङ्कां निवर्तयति प्रामाण्यं ज्ञापयति वा । आद्ये प्रामाण्यस्य स्वतस्त्वप्राप्तिः । द्वितीये शङ्काभावेऽपि संवादापेक्षा स्यात् । संवादकमुभयत्रापि प्रवर्तत इति चेन्न । कल्पकाभावात् । बाधकवदुभयत्र व्यापारः किं न स्यादिति चेन्न । अप्रामाण्यशङ्काशून्यस्य प्रामाण्यज्ञाने संवादनिरपेक्षत्वात् । बाधकेन विना निवृत्ताप्रामाण्यशङ्कस्याप्यप्रामाण्यबुध्द्यनुदयानुभवात् । यदपि प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वाद् अप्रामाण्यवदिति । तदप्युक्तप्रतिकूलतर्कपराहतमनुकूलतर्कपराहतमनुकूलतर्कशून्यं च । संशयस्य च दोषादेवोपपत्तेः । स्वतस्त्वेनाभ्युपगतोपमानानुमानप्रामाण्येऽपि संशयदर्शनाच्च । अनभ्यासदशायामपि सन्देहाभावस्यापि दर्शनाच्चेत्यलम् ।
वेदस्य स्वतःप्रामाण्ये सूत्रसूचितां श्रुतिं चाह ॥ नेति ॥ अत्र चक्षुरादीनां परमात्मा-प्रमापकत्वमुक्त्वा वेदस्यैव तत्प्रमापकत्वोक्तेः संवादानपेक्षतया प्रामाण्यमित्युक्तं भवति । वेदस्य नित्यत्वं कुत इत्यत आह ॥ नित्यत्वं चेति ॥ अनेन तथात्वमित्युभयतः सम्बध्यत इत्युक्तं भवति । तस्मै सर्वतः प्रकाशायातिसमर्थाय विष्णवे नित्यया वेदवाचा साध्वीं स्तुतिं प्रेरय कुर्वित्यर्थः । विरूपेति स्वात्मानं प्रतिसम्बोधनम् । बहुकालीनत्वमात्रेण नित्यत्वोपचारः किं न स्यादित्यत आह ॥ अनादीति ॥ अनादिनिधनतया नित्या न तु बहुकालीनतामात्रेण नित्यत्वोपचार इत्यर्थः । न च वाच्यं वेदप्रामाण्ये विवदमानं प्रति कथं तत्प्रामाण्योपपादनायोपन्यस्तयोर्नित्यत्वस्वतःप्रामाण्ययोः साक्षितया श्रुत्युपादानं युक्तमिति । परेणापि फलव्यभिचारेणाप्रामाण्ये वेदस्यापि तत्प्रसङ्ग इत्यापादन-मात्रस्य क्रियमाणत्वात् । युक्तेश्चोपन्यस्तत्वात् ।
गुर्वर्थदीपिका
संवादनिरपेक्षतज्ज्ञानादेवेत्यत्र तज्ज्ञानपदेन निर्दोषतया वेदस्वरूपज्ञानं निर्दोषवेदानुसारितया स्मृतिस्वरूपज्ञानं चोच्यते । शङ्काभावेऽपि संवादापेक्षा स्यादित्यत्र न चेष्टापत्तिः स्वकरतल-स्थितरेखाज्ञानप्रामाण्यग्रहणे तदनपेक्षणस्य सर्वानुभवसिद्धत्वादित्युपस्कर्तव्यम् । संवादकमुभय-त्रापि प्रवर्तत इत्यत्रोभयत्र शङ्कानिवृत्तौ तदुत्तरकालीनप्रामाण्यज्ञाने चेत्यर्थः । परस्याभिमत-शङ्कारहितस्थले तु निःशङ्कार्थनिश्चयादेव प्रवृत्त्युपपत्तेः प्रामाण्यज्ञानमपेक्षितमेव न । अतो नानवस्था । नापि प्रामाण्यस्य स्वतस्त्वमिति भावः । कल्पकाभावादित्यस्येदृशस्थलेऽपि लाघवादप्रामाण्यशङ्कानिवृत्तिकारणत्वेनैव चरितार्थत्वे प्रामाण्यज्ञानं प्रत्यपि कारणत्वे कल्पका-भावादित्यर्थः । बाधकवदुभयत्र व्यापार इत्यत्र बाधकवन् नेदं रजतमिति बाधकज्ञानवत् । यथा नेदं रजतमिति बाधकज्ञानं रजतज्ञाने प्रामाण्यशङ्कां निवर्तयति, अप्रामाण्यज्ञानं च जनयति । तथोभयत्र प्रामाण्यशङ्कानिवृत्तौ प्रामाण्यज्ञाने च । बाधकं विनाऽप्रामाण्यबुद्धेः क्वाप्यनुदयस्य सर्वानुभवसिद्धत्वात् । अस्तु वा बाधकज्ञानस्योभयत्र कारणता, बाधकज्ञानं विना रजतत्वा-भावोपनायकाभावेन बहिरस्वतन्त्रेऽप्रामाण्यग्राहके साक्षिणि बाधकान्वयव्यतिरेकयोः सत्त्वात् । अत एवाप्रामाण्यग्रहस्य परतस्त्वम् । बाधकज्ञानात्प्राक् साक्षिणा रजतज्ञानग्राहिणाऽपि तदप्रामाण्याग्रहणात् । यदि च दोषप्रतिरुद्धः साक्षी प्राक् न गृह्णातीति वदसि तर्हि दोषशङ्का-निवृत्त्युत्तरकालम् अप्रामाण्याश्रयेण तेनैव ज्ञानेनोपनीतमप्रामाण्यं गृह्णीयात् । न च तद्युक्तम् । रजतत्वाभावघटिताप्रामाण्यस्योपनायकान्तरं विना ग्रहणासम्भवात् । स्वकरतलस्थितामलक-ज्ञानप्रामाण्यस्य तेनैव व्यवसायेनोपनीतत्वाद् विनैव संवादं सर्वैरनुभूयमानत्वेन तद्व्यतिरेके तद्व्यतिरेकादर्शनान् नात्रापि कारणतेत्याह ॥ अप्रामाण्यशङ्काशून्यस्येत्यादि ॥ अनभ्यास-दशायामपि सन्देहाभावस्येत्यत्र तदानीं कुम्भकारानीतघटे इत्युपस्कर्तव्यम् । ‘दिवु क्रीडा-विजिगीषा’ इति धातोरभितः द्यवे इत्यस्य फलितार्थकथनम् अतिसमर्थायेति ॥ तस्यैवार्थान्तर-कथनं सर्वतः प्रकाशायेति । वृष्णे इत्यस्यार्थकथनं विष्णव इति ॥ पूष्णे इतिवदयं शब्दो ज्ञातव्यः । आपादनमात्रस्येत्यत्र कापिलपाशुपतादिभिरपि वेदप्रामाण्यस्याङ्गीकृतत्वात्तान्प्रति तदुपन्यासस्यादोषत्वादिति भावः । ‘स्वतश्च प्रामाण्यम्’ इत्यत्र स्वत आप्तोक्तत्वगुणरूप-परमुखनिरीक्षणं विना नित्यत्वाख्यस्वभावादेव वेदस्य प्रामाण्यम् । अन्यथाऽनवस्थानात् । धर्माधर्मव्यवस्थानादिति भाष्यवाक्यस्यार्थान्तरमभिप्रेत्योक्तम् ॥ युक्तेश्चोपन्यस्तत्वादिति ॥ अन्यत्र स्वकृतग्रन्थान्तरे उपन्यस्तत्वादित्यर्थः । ग्राहकपरम्परयाऽनवस्थानस्य स्वतस्त्वसम्पादक-त्वेऽपि नित्यत्वे इयमेव युक्तिरनुसन्धेयेति भावः ।
भावबोधः
‘स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः’ इत्यनुव्याख्यानानुसारेणाधिकरणोपाधिमाह– युक्ति- विरोधपरिहारादिति ॥ श्रुत्यादिप्रामाण्यस्य च युक्तिविरोध इति ॥ अनेन ‘इतरेषामनुपलब्धेः’ इत्युक्तसिद्धान्तन्यायेनात्र पूर्वपक्षोत्थानादनन्तरसङ्गतिः सूचिता भवति ॥ प्रमाणं न वेति ॥ अत्र श्रुत्यादिप्रामाण्याद्विष्णोर्जगत्कारणत्वं सिध्यतीति वाक्यसूचितश्रुत्यादिसमन्वयेनोक्तं विष्णोः कारणत्वादि न युक्तमुत युक्तमिति प्रधानचिन्ता द्रष्टव्या । तदर्थं श्रुत्यादिकमप्रमाणमुत प्रमाण-मिति । तदर्थं ‘वृष्टिकामः कारीर्या यजेत’ इत्यादिवेदवाक्यं किं युक्तिविरुद्धं भवत्युत नेति । तदर्थं वेदाद्युक्तकारीर्याद्यनुष्ठानेऽपि वृष्ट्यादिफलानुपलब्धिर्वेदाद्यप्रामाण्यनिबन्धनोत कतृवैगुण्यादि-निबन्धन इति । तदर्थं वेदादिप्रामाण्यं किं पाशुपतादिस्मृतिवत् फलसंवादाधीनज्ञानमुत स्वत इति । तदर्थं वेदादेर्निर्दोषप्रमा न सम्भवत्युत सम्भवतीति । तदर्थं वेदापौरुषेयत्वादौ प्रमाणं नास्त्युतास्तीति । एवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रामाण्यमिति भाष्याभिप्रायमाह ॥ कारीर्येत्यादिना ॥ भाष्यगतैवंशब्दार्थः पाशुपतादिस्मृतिवदिति । अनेन रुद्रादिस्मृतिसाम्यमिति न्यायविवरणमपि व्याख्यातं भवति । नैवमित्यादिभाष्यस्यास्य न तथात्वमिति सौत्रप्रतिज्ञा-व्याख्यानरूपत्वं दर्शयति अस्य श्रुतेरित्यादिना । अनेनान्यस्मृतीत्युक्तश्रुत्यनुसारिपञ्चरात्रादि-स्मृतिस्तत्सन्निधापिता श्रुतिश्च सूत्रेऽस्येति परामृश्यते । ‘इतरेषां चानुपलब्धेः’ इति सूत्रोक्तं ‘तथात्वम्’ इत्यनेन परामृश्यत इत्युक्तं भवति । ‘नित्यत्वात् पुरुषोद्भवैः । वर्जितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ।’ इत्यनुव्याख्यानानुसारेण भाष्याभिप्रायमाह ॥ वाक्याप्रामाण्यमिति ॥ प्रमाणानुकूलत्वादिति ॥ अनेन भाष्ये ‘नित्यः’ इत्यनन्तरं ‘तदनुसारिणि च’ इति पूरितं भवति । किन्तु साक्षिप्रत्यक्षसाम्यमेव निरपेक्षत्वादिति न्यायविवरणानुसारेण भाष्याभिप्रायमाह– वेदादिप्रामाण्यस्येत्यादिना ॥
ननु यथार्थज्ञानजनकत्वरूपवेदप्रामाण्यस्य ज्ञानादेव सिद्धिः कथमित्यत आह ॥ न हीति ॥ करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियत इति सुधोक्तरीत्या करणप्रामाण्यस्य परतस्त्वपक्षे निर्दोषत्व तदनुसारित्वाभ्यामेव यथार्थज्ञानजनकत्वरूपप्रामाण्यानुमानं न संवादेनेत्यर्थः । तेषामपि ज्ञान-जनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति सुधोक्तरीत्या स्वतस्त्वे तु निर्दोषतदनुसारिज्ञानजनकस्वरूपग्रहे यथार्थज्ञानजनकत्वरूपप्रामाण्योपलब्धौ संवादा-पेक्षा नास्तीत्यर्थः ॥ सापि न निश्शङ्केति ॥ तथा च प्रामाण्याध्यवसायस्य निःशङ्कप्रवृत्तिं प्रत्येव हेतुत्वेन न व्यभिचार इति भावः ॥ क्वचिन्नोत्पद्यत एवेति ॥ व्यासङ्गकोटिस्मरणाभावादिनेति शेषः ॥ द्वितीयो निरस्तप्राय इति ॥ ज्ञानस्याबुभुत्सितग्राह्यतया तीव्रसंवेदनत्वेन ज्ञाते च तस्मिन् प्रामाण्याप्रामाण्यानुपलब्धौ निःशङ्कप्रवृत्तेः प्रामाण्याध्यवसायसाध्यत्वेन तदर्थं प्रामाण्यरूपविशेष-जिज्ञासाध्रौव्ये तत एव व्यासङ्गकोटिस्मरणाद्यसम्भवेन शङ्काया आवश्यकत्वादिति भावः ॥ बाधकवदुभयत्रेति ॥ यथा बाधकस्य प्रामाण्यशङ्कानिरासा प्रामाण्यज्ञापनयोर्व्यापारस्तथा संवादस्याप्रामाण्यशङ्कानिरासप्रामाण्यज्ञापनयोर्व्यापारः किं न स्यादित्यर्थः ॥ अप्रामाण्यशङ्का-शून्यस्येति ॥ सुखादिज्ञानेऽप्रामाण्यशङ्काशून्यस्य संवादाभावेऽपि प्रामाण्यस्यानुभूयमानत्वेन व्यतिरेकव्यभिचारान्न संवादस्य प्रामाण्यज्ञापने व्यापार इत्यर्थः । बाधकेन विनेति । तथा चानन्यथासिद्धान्वयव्यतिरेकाभ्यां बाधकस्याप्रामाण्यज्ञापने व्यापार इति भावः । प्रामाण्यस्य स्वतस्त्वे तत्संशयानुपपत्तेर्बाधकस्य सत्त्वात् कथमनुकूलतर्कशून्यत्वमित्यत आह ॥ संशयस्य च दोषादेवेति ॥ संशयदर्शनाच्चेति ॥ तथा चानुभवसिद्धतत्संशयोपपत्तिवदत्रापि तदुपपत्तिरिति भावः ॥ अनभ्यासदशायामपीति ॥ प्रत्यग्रोत्पन्नसुखादिस्थल इत्यर्थः । तथा च भागासिद्धो हेतुरिति भावः ॥ स्वतःप्रामाण्ये सूत्रसूचितामिति ॥ अनेन ‘तथा त्वं’ च स्वतःप्रामाण्यलक्षणवैलक्षण्यं ‘च’ शब्दान्न चक्षुरिति श्रुतेरिति सूत्रांशो भाष्येण व्याख्यात इत्युक्तं भवति ॥ अनेनेति ॥ नैवं तदुक्तानुपलब्धेरप्रामाण्यमिति व्याख्याय नित्यत्वरूपविलक्षणत्वं ‘च’शब्दादिव्याख्यानेनेत्यर्थः । ‘अभिद्यव’ इत्यस्यार्थः सर्वतः प्रकाशायेति ॥ ‘वृष्ण’ इत्यस्यार्थो अतिसमर्थायेति ॥ अनादि-निधनतयेति ॥ अन्यथा पुनरुक्तिः स्यादिति भावः ॥ श्रुत्युपादानमिति ॥ स्वतःप्रामाण्य-नित्यत्वयोः सिद्धौ वेदप्रामाण्यसिद्धिः । तत्सिद्धौ च प्रमाणभूतवेदेन तत्सिद्धिरित्यन्योन्याश्रय इत्यर्थः । प्रकारान्तरेणान्योन्याश्रयं परिहरति ॥ युक्तेश्चेति ॥ भाष्ये आप्त्यनिश्चयान्नित्यत्वापेक्ष-त्वाच्च मूलप्रमाणस्येति देवताधिकरणे वेदनित्यत्वेऽन्यथानवस्थितेरित्यत्र प्रामाण्यस्वतस्त्वे च युक्ते-श्चोपन्यस्तत्वादित्यर्थः । तथा च युक्तिसिद्धार्थे श्रुतेः संवादित्वेनोपन्यासान्नान्योन्याश्रय इति भावः ।
यद्वा वेदाप्रामाण्यवादिनोऽप्यत्र पूर्वपक्षित्वे तं प्रत्याह– युक्तेश्चेति ॥ तथा च तं प्रत्युपन्यस्त- युक्त्यैव वेदे नित्यत्वादिप्रसाधनं न श्रुत्येति नान्योन्याश्रयप्रसङ्ग इति भावः ।
भावदीपः
उक्तेति ॥ शास्त्रयोनिसूत्र इत्यर्थः ॥ युक्तीति ॥ तदुक्तानुपलब्धेरप्रामाण्यमिति भाष्ये वक्ष्यमाणयुक्तीत्यर्थः । अत्र विष्णोरित्युक्त्या शास्त्रे युक्तीत्युक्त्या पादे विरोधेत्याद्युक्त्याऽध्याये च सङ्गतिरुपपादिता बोध्या । एवमग्रेऽपि । पूर्वसङ्गतिमाह ॥ श्रुत्यादीति ॥ न ब्रह्मण इति विच्छेदः । सौत्रतथात्वपदेन प्राक्तनसाध्यहेत्वोरपि स्मृत्यप्रामाण्यरूपदृष्टान्तस्य च परामर्श इति भावेन प्रवृत्तमेवमित्याद्यप्रामाण्यमित्यन्तभाष्यमाकाङ्क्षाक्रमेण व्यनक्ति ॥ श्रुत्यादिकमिति ॥ श्रुतेरित्येतद्व्यनक्ति ॥ कारीर्येति ॥ तदनुसारिस्मृतेश्चेत्येतद्व्याचष्टे ॥ तथेति ॥ पाशुपतादिस्मृति-वदित्यर्थकैवंशब्दार्थं व्यनक्ति ॥ अविद्यमानेति ॥ अप्रयोजकत्वनिरासाय विलक्षणत्वादिति हेतुव्यावर्त्यं श्रुतेः रुद्रादिस्मृतिसाम्यमित्यन्यत्रोक्तं व्यनक्ति ॥ अविद्यमानेति ॥ श्रुतेरित्युपलक्षणं मत्वा श्रुतिस्मृतीनामित्युक्तम् । अस्त्वेवं दृष्टार्थकभागस्य, ‘यतो वा’ इत्याद्यदृष्टार्थकभागस्य किमायातमित्यत आह ॥ एवं चेति ॥ तत्सामान्यादितरेषु तथात्वमिति जैमिनीयन्यायादिति भावः । व्याख्येयसौत्रपदानि दर्शयन् भाष्यं व्याचष्टे ॥ अस्येति ॥ श्रुत्यादेरित्युक्त्या भाष्य-दिशा अस्या इत्युक्तिः स्यादिति प्रत्युक्तम् । एवमित्यस्यार्थः पाशुपतादिस्मृतिवदिति । श्रुते-रित्यनेन भाष्ये श्रुतिस्मृतिपदे यथायोगमत्राप्यन्वीयेते इति दर्शितम् । एतेन किन्तु साक्षि-प्रत्यक्षसाम्यमेव निरपेक्षत्वादिति न्यायविवरणस्थवाक्यशेषः । कर्तृनिरपेक्षत्वान्नित्यत्वेन साक्षि-साम्यमिति विवृतो भवति ॥ वक्तृदोषेति ॥ ‘नित्यत्वात्पुरुषोद्भवैः । उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत्’ इत्यनुभाष्योक्तेरिति भावः । एतेन वेदा ‘नित्यत्वान्मानमुत्तमम्’ इत्यणुभाष्यमपि स्मृत्युपलक्षणतया व्याख्यातं ध्येयम् । श्रुतेरित्यादिन्यायविवरणस्थमाद्यं साम्यपदं संवादाधीन-ज्ञानप्रामाण्यरूपसाम्यपरम् । द्वितीयं तु तदनधीनसिद्धिकप्रामाण्यरूपसाम्यपरमिति प्रकारान्तरेण तद्वाक्यं विवृण्वानो भाष्यं व्याचष्टे ॥ भवेदिति ॥ स्वतःशब्दार्थः ॥ संवादनिरपेक्षतज्ज्ञाना-देवेति ॥ वेदादिस्वरूपज्ञानादेवेत्यर्थः । एतेन निरपेक्षत्वादित्यन्यत्रोक्तो हेतुः संवादनिरपेक्ष-त्वादिति विवृतः ॥ तत्तत्स्वरूपेति ॥ वेदादिस्वरूपेत्यर्थः । उत्पत्तौ प्रामाण्यस्वतस्त्वस्य देवतानये स्वतः प्रामाण्यप्रसिद्धेश्चेति भाष्ये व्युत्पादितत्वादुत्तरहेत्वनुरोधेन ज्ञप्तौ स्वतस्त्वपरत्वेनैव भाष्यं व्याख्यातम् । न चैवं करणप्रामाण्यज्ञप्तिस्तु परत एवेन्द्रियलिङ्गशब्दानां यथायथमनुमान-प्रत्यक्षादिवेद्यत्वाद् यथार्थज्ञानसाधनत्वस्य त्वनुमानवेद्यत्वादिति पद्धतिवाक्येन ‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि’ इत्यनुव्याख्यानव्याख्यावसरोक्तेन करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियत एवेत्यादिसुधावाक्येन च विरोध इति वाच्यम् । इहापि प्रामाण्यग्रहे संवादा-नपेक्षतायामेव तात्पर्येण करणस्वरूपग्राहकेणैव तत्प्रामाण्यग्रह इत्यत्र तात्पर्याभावात् ।
यद्वा अन्यत्र शक्तिशक्तिमतोर्भेदमुपेत्य स्वरूपग्राहकाग्राह्यत्वरूपपरतस्त्वोक्तावपि इहाभेद-मुपेत्य स्वरूपग्राहकमेव ज्ञानजनकशक्तिग्राहकम् । तदेव च प्रमाजनकशक्तिरूपप्रामाण्यग्राहक-मिति भावेन संवादनिरपेक्षतज्ज्ञानादेवेत्याद्युक्तम् । ज्ञानजनकशक्तिग्राहकमात्रग्राह्यत्वरूपप्रमा-जननशक्तिरूपप्रामाण्यस्वतस्त्वं तु ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वरूप-प्रामाण्यस्य तदीयस्य ग्राह्यत्वरूपं स्वतस्त्वमिति सुधोक्त्यानुमतमेवेति भावः । प्रामाण्यनिश्चयं विनापि प्रवृत्तिदृष्ट्या प्रामाण्यजिज्ञासोपपत्तौ नानवस्थेति भावेन शङ्कते ॥ फलेति ॥ सापीति ॥ तथा च बह्वायाससाध्ये कर्मणि निश्शङ्कं प्रवृत्तये निश्चयोऽपेक्षित एवेत्यनवस्थैवेति भावः ॥ निरस्तप्राय इति ॥ प्रामाण्याग्रहणे शङ्काया आवश्यकत्वादिति शेषः ॥ स्वतस्त्वेति ॥ बुद्धिदोषनिरासमात्रकारणत्वाद्युक्तीनामिति तत्वनिर्णयोक्त्या संवादकस्यान्यत्रोपयोगे तदनपेक्ष-ज्ञानग्राह्यत्वस्य प्राप्तेः स्वतस्त्वप्राप्तिरित्यर्थः ॥ शङ्काभावेऽपीति ॥ अप्रामाण्यशङ्कानिवृत्ता-वपीत्यर्थः ।ननु यथा विसंवादादिरूपबाधकस्य प्रामाण्यशङ्कानिरासाप्रामाण्यज्ञानयोर् व्यापारस्तदन्वय-व्यतिरेकानुविधायित्वहेतुना कल्प्यते । तथेहापि तेनैव हेतुना कल्प्यतामिति शङ्कते ॥ बाधक-वदिति ॥ बाधकेऽव्यभिचरितान्वयव्यतिरेकाभ्यां तथा कल्पनेऽपि नेह तथा । सुखादिज्ञाने स्वत एव निवृत्ताप्रामाण्यशङ्कस्य प्रामाण्यज्ञानोदयेन व्यतिरेकव्यभिचारादिति भावेनाह– अप्रामाण्येति ॥ अप्रामाण्यज्ञप्तौ बाधकस्य व्यतिरेकव्यभिचारो नेत्याह ॥ बाधकेनेति ॥ उक्तेति ॥ अनवस्था-रूपेत्यर्थः ॥ अनुकूलेति ॥ अस्तु संशयविषयत्वं मास्तु परतो ज्ञेयत्वमित्यत्र बाधकाभावादिति भावः । धर्मिग्राहकेण तत्प्रामाण्याग्रहणे स्वतस्त्वभङ्गापत्या प्रामाण्यग्रहणावश्यम्भावे विशेष-दर्शनात्संशयानुपपत्तिरेवानुकूलतर्क इत्यत आह ॥ संशयस्य चेति ॥ यथा परमते जाति-व्यक्त्योरेकवित्तिवेद्यत्वनियमेऽपि इदमिति शुक्तिज्ञाने सत्यपि सादृश्यादिदोषवशाच्छुक्तित्वाज्ञाने-नेदं रूप्यमित्यादिभ्रमस्तथेहापि धर्मिज्ञाने सत्यपि तत्र तात्पर्यभ्रमादिजन्यत्वादिशङ्कारूपदोष-वशात्प्रामाण्याग्रहणोपपत्त्या संशयोपपत्तेरित्यर्थः । प्राचीनतार्किकमतावष्टम्भेनाह ॥ स्वत-स्त्वेनेति ॥ बौद्धचार्वाकादिविप्रतिपत्त्याऽनुमानप्रामाण्येऽपि संशयदर्शनादित्यर्थः ।
यद्वा लिङ्गादिज्ञानप्रामाण्यसन्देहे न तज्जन्यानुमितिसंशयदर्शनादित्यर्थः । हेतोर्भागासिद्धिं चाह ॥ अनभ्यासेति ॥ इत्यलमिति ॥ विस्तरस्तु तर्कताण्डवे । भाष्ये श्रुतेश्चेत्यस्य स्वतश्च प्रामाण्यमिति साध्येनान्वयं दर्शयन्नाह ॥ वेदस्येति ॥ स्वतः संवादानपेक्षज्ञानग्राह्येत्यर्थः ॥ श्रुतिं चेति ॥ तेन भाष्ये श्रुतेश्चेति चशब्देनानवस्थितेरित्युक्तहेतुसमुच्चय इति सूचितम् । तथात्वं च शब्दादिति सूत्रखण्डस्यैकमर्थमुक्त्वार्थान्तरोक्तिपरं भाष्यं नित्यत्वं चेत्यादि । तद्व्याचष्टे ॥ वेदस्य नित्यत्वमिति ॥ ननु पूर्वं तथात्वमित्यस्याप्रामाण्यमित्यर्थं मत्वा पूर्वान्वितत्वेन भाषित-त्वात्स्वतश्च प्रामाण्यमिति नित्यत्वं चेति च कस्यार्थ इत्यत आह ॥ अनेनेति ॥ स्वत-श्चेत्यादिभाष्येणेत्यर्थः । ‘तस्मै नूनमभिद्यवे वाचा विरूपनित्यया’ । ‘वृष्णे चोदस्व सुष्टुतिम्’ इति समग्रमन्त्रार्थमाह ॥ तस्मा इति ॥ अभिद्यवे सर्वतः प्रकाशाय । वृष्णे अतिसमर्थाय । चोदस्व प्रेरय । स्वात्मनोऽन्यस्याभावादाह ॥ कुर्वित्यर्थ इति ॥ कस्यचिदृषेर्नाम विरूपेति । अपौनरुक्त्याय हेतुहेतुमद्भावेन व्याचष्टे ॥ अनादिनिधनतयेति ॥ आद्यन्तशून्यतयेत्यर्थः । भाष्ये यथासूत्रं न चक्षुरित्यादिशब्दमात्रे वाच्येऽनवस्थितेरित्युपलक्षणतया युक्तेरप्युक्तेरुपयोगं वक्तुं शङ्कामाह ॥ न च वाच्यमिति ॥ विवदमानमितिपाठः साधुः । भासनोपसम्भाषाज्ञान-यत्नविमत्युपमन्त्रणेषु वद इत्यात्मनेपदविधानात् । विवदन्तमितिपाठे तु ‘चान्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्’ इत्युक्तेः परस्मैपदं समाधेयम् ॥ आपादनेति ॥ अन्यहेतुकस्याप्रामाण्यस्या-भावं स्वीकृत्य विसंवादहेतुकाप्रामाण्यशङ्कामात्रस्य क्रियमाणत्वादित्यर्थः । सूत्रे शब्दादित्युप-लक्षणमिति भावेनाह ॥ युक्तेश्चेति ॥ वेदस्य नित्यत्वे देवतानयभाष्ये स्वतः प्रामाण्ये चात्र युक्तेरुपन्यस्तत्वादित्यर्थः । तथा च श्रुतौ विवादेत्युक्त्या तयोः साधनमस्त्विति भावः । यद्वा युक्त्या वेदस्य नित्यत्वस्वतःप्रामाण्ययोः सिद्धिं मत्वा सूत्रेऽभ्युच्चयत्वेन शब्दादित्युक्तिरिति भावः ।
अभिनवचन्द्रिका
नन्विन्दमधिकरणम् ‘एतेन योगः प्रयुक्त’ इति पूर्वसूत्रेण सहैकाधिकरणम् । तथा हि वेदप्रामाण्यमाक्षिपति – एतेन योगः प्रत्युक्त इति ॥ एतेन पाशुपतादिस्मृत्यप्रामाण्याय भवदुपन्यस्तेन उक्तफलानुपलम्भेन, योगः श्रुतिप्रामाण्ययोगः, प्रत्युक्तः निराकृतो वेदितव्यः । एवं प्राप्तं पूर्वपक्षं प्रतिक्षिपति । ‘न विलक्षणत्वादस्य तथात्वं च शब्दात्’ इति । उक्त-फलानुपलम्भेऽपि पाशुपतादिस्मृतिवदप्रामाण्यं न मन्तव्यम् । नित्यत्वेन ततो विलक्षणत्वात् । न हि नित्ये दोषाः कल्प्याः । अस्य तथात्वं च ‘वाचा विरूपनित्यया’ इति शब्दात् । फलानुपलम्भोऽसिद्ध इत्याह– दृश्यते तु, अधिकारिणां फलम् । अतस्तदनुपलम्भो वैगुण्यनिमित्त इति । अवश्यं च एतदेवं विज्ञेयम्, न विलक्षणत्वादिति निषेधसौकर्यात् । पूर्वपक्षमनूद्य निषेधे हि सौकर्यं भवति । अन्यथा नेत्युक्ते कस्य पुनर्निषेधो विज्ञायेतेति । तस्मादिदमधिकरणं प्राचीनसूत्रेणैकाधिकरणमिति चेत्, सत्यम्, एवं योजनायां सौलभ्यं भवतीति, तथापि नैकाधिकरणत्वं सूत्रकृद्विवक्षितम्, यदयं योगविभागं करोति तज् ज्ञापयत्याचार्यः ‘एतेन योगः प्रत्युक्त’ इति सूत्रं योगशास्त्राभ्यधिकाशङ्कानिरासाय पूर्वाधिकरणशेषः, पाशुपताद्यागमा-प्रामाण्याभिधानेन तन्न्यायसाम्याद् बुद्धौ परिवर्तमानाया वेदाप्रामाण्यशङ्काया निरासाय ‘न विलक्षणत्वात्’ इत्यादि पृथगाधिकरणम्’ इति । अन्यथा ‘विकारशब्दान्नेति चेद् इत्यादिवद् एकं सूत्रं विदध्यात्, योगशास्त्राभ्याधिकाशङ्कानिरासश्च न कृतः स्यादिति । हेतोरप्रयोजकता-माशङ्क्य परिहरति – अविद्यमानाभिधात्रीणामिति ॥ नित्यत्वाख्यवैलक्षण्यादिति ॥ यत्फलविसंवादि तदप्रमाणमित्युत्सर्गः । वेदे नित्यत्वेन, स्मृतौ तदनुसारित्वेन, निर्दोषत्वावगमाद-प्रामाण्याभावः सिद्ध इति पाशुपतादिस्मृतिवत् फलविसंवादेन नाप्रामाण्यमिति कल्प्यम् । उत्सर्गस्य बाधकैकापवाद्यत्वादिति भावः । एतेन फलविसंवादस्य श्रुतौ व्यभिचारान्न तेन पाशुपतादि-स्मृत्यप्रामाण्यसाधनं युक्तमिति परास्तम् ॥ फलव्यभिचारेऽपीति ॥ अङ्गीकारवादोऽयमिति बोध्यम् । एतेन फलादर्शनस्य कर्तृवैगुण्यादिसहकारिविरहप्रयुक्तत्वस्य वक्ष्यमाणत्वात् सहकारि-विरहप्रयुक्तफलादर्शनस्य चाव्यभिचारात् ‘फलव्यभिचारेऽपीत्युक्तमयुक्तमिति परास्तम् ॥ प्रकारान्तरेण व्याचष्ट इति ॥ पूर्वं नित्यत्वेन वैलक्षण्यादिति व्याख्यातम्, अधुना तु संवादनिरपेक्षप्रामाण्यकत्वादिति व्याख्यायते । तात्पर्यन्तु पूर्ववदिति बोध्यम् । एतेन अधुनापि पूर्ववदेव ‘वेदादिप्रामाण्यस्य संवादनिरपेक्षतज्ज्ञानादेव सिध्द्यङ्गीकारात्’ इत्यादिना प्रामाण्यसिद्धि-रूपबाधकसद्भावान् न फलविसंवादेनाऽप्रामाण्यसिद्धिरिति वक्ष्यमाणत्वान्नेदं व्याख्यानान्तरमिति परास्तम् । तात्पर्यस्यैकत्वेऽपि वैलक्षण्यप्रयोजकधर्मनिरूपणमात्रे व्याख्यानान्तरमित्यङ्गीकारात् ॥ प्रामाण्यमिति ॥ करणप्रामाण्यमात्रमित्यर्थः ।
ननु करणप्रामाण्यस्य संवादाधीनज्ञानत्वाङ्गीकारेऽनवस्थाऽभिधानमयुक्तम् । संवादस्योपलब्धि- रूपत्वेन तत्प्रामाण्यस्य स्वतस्त्वादित्यतः संवादकप्रामाण्यमपि संवादकाद् गृह्यते, उत स्वत इति विकल्प्य द्वितीयदूषणं शिष्यैरेवोह्यमिति भावेन प्रथमपक्षे भाष्यकृताऽनवस्थोक्तेति न किञ्चिदनुपपन्नमित्याशयेनाह– यदीत्यादिना ॥ स्वत एवेति ॥ संवादाभावेऽपि साक्ष्यादि-प्रमाणान्तरेणेत्यर्थः । आद्यकल्पे ‘अन्यथाऽनवस्थितेः’ इति मूलमुपतिष्ठत इत्याह ॥ आद्ये तदप्येवमिति ॥ आद्यप्रामाण्यस्यैवेति ॥ संवादातिरिक्तनिर्दोषत्वादिलिङ्गवेद्यत्वोपपत्तेरित्यर्थः । उपलब्धिरूपसंवादकप्रामाण्यस्यापि संवादवेद्यत्वमङ्गीकृत्याऽनवस्थां परिहारति – कथञ्चिदिति ॥ प्रामाण्याध्यवसायं विनेति ॥ संवादकप्रामाण्याध्यवसायं विना वेदप्रामाण्यनिश्चयायोगेन प्रवृत्त्यसम्भवात् प्रवृत्त्यर्थं संवादकप्रामाण्यजिज्ञासाध्रौव्यादित्यर्थः ॥ यावच्छङ्कमिति ॥ यद्यपि संवादकानुभवप्रामाण्यनिश्चये संवादकान्तरापेक्षा, तथापि नाऽनवस्था यावच्छङ्कमेव संवादापेक्षाङ्गीकारादित्यर्थः ॥ द्वितीयोऽपि निरस्तप्राय इति ॥ ‘प्रामाण्याध्यवसायं विना प्रवृत्त्यनुपपत्या’ इति पूर्वोक्तदिशा निरस्तप्राय इत्यर्थः । ‘शङ्का सर्वत्र नाऽनुवर्तत’ इति द्वितीयपक्षे विकल्पमुखेन दूषणान्तरमाह– अपि चेति ॥ आद्ये प्रामाण्यस्येति ॥ पुरुषेण गोक्षुरकाद्यपसरणे कृते गतिसमर्थो गजो यथा स्वयमेव गच्छति, तथा संवादेनाऽप्रामाण्य-शङ्कानिवृत्तौ निर्दोषत्वादिना स्वरूपग्रहे प्रामाण्यनिश्चये न किञ्चिदपेक्षितमिति भावः ॥ संवादकमुभयत्रापीति ॥ अप्रामाण्यशङ्का सर्वत्र नानुवर्तते, यत्राऽप्रामाण्यशङ्का, तत्र संवादकमप्रामाण्यशङ्कां निवर्तयित्वा प्रामाण्यं ज्ञापयति । एवं च प्रामाण्यज्ञानेऽपि संवादक-प्रवृत्त्यङ्गीकारान्तरत्वापत्तिः । अप्रामाण्यशङ्काभावस्थले प्रामाण्यग्रहस्यैवाऽभावात् शङ्काभावेऽपि संवादकापेक्षा स्यादिति दोषोऽपि नेति भावः । कल्पकं शङ्कते – बाधकवदिति ॥ अप्रामाण्यशङ्कानिवृत्तिप्रामाण्यज्ञानयोरेतदन्वयव्यतिरेकाऽनुविधानमेव कल्पकमिति भावः । प्रामाण्यग्रहस्य संवादान्वयव्यतिरेकानुविधायित्वमेव नास्तीत्याह– अप्रामाण्यशङ्केति ॥ संवादकानुभवप्रामाण्यस्य परतस्त्वसाधकमनुमानमनूद्य दूषयति – यदपीत्यादिना ॥
ननु अनुकूलतर्कशून्यं चेत्ययुक्तं यदि प्रामाण्यं स्वतो गृह्येत तर्हि संशयो न स्यादित्यनुकूल-तर्कसद्भावादित्यत आह– संशयस्येति ॥ एवशब्देन संशयस्य प्रामाण्याग्रहणप्रयुक्तत्वं नेत्याचष्टे । कुतः संशयस्य प्रामाण्याग्रहणप्रयुक्तत्वं नेत्यत आह– स्वतस्त्वेनेति ॥ वक्ष्यमाण-समुच्चये चशब्दः । प्रामाण्यग्रहणेऽपि संशयदर्शनात् प्रामाण्यग्रहणस्य संशयं प्रति व्यतिरेक-व्यभिचार इति भावः । अन्वयव्यभिचारमप्याह– अनभ्यासदशायामपीति ॥ अनभ्यासदशाया-मपीत्यनेन प्रामाण्यग्रहणं सूचयति । ततश्च प्रामाण्यग्रहणेऽपि कदाचित्संशयाभावस्यापि दर्शनादन्वयव्यभिचार इति भावः । एतेन ‘संशयाभावस्यापि दर्शनाच्च’ इति वाक्यस्याऽनन्वय इति परास्तम् ॥ उभयतः सम्बध्यत इति ॥ अनेन तथात्वमित्यस्याऽप्रामाण्यमिति पूर्वं व्याख्याय नित्यत्वं चेति पुनर्व्याख्यानेन तथात्वमित्यस्य न तथात्वमिति नञा ‘तथात्वं चशब्दात्’ इति शब्दपदेनापि सम्बन्ध इत्युक्तं भवतीत्यर्थः । ‘तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम्’ इति ऋचं व्याचष्टे – तस्मै सर्वत इति ॥ स्वात्मानं प्रतीति ॥ विरूपेति सम्बोधनमिति वक्तव्ये स्वात्मानं प्रतीति वचनं विरूपस्य यमावतारत्वद्योतनार्थम् । एतेन विष्णुतत्वनिर्णयटीकायां पद्मनाभतीर्थैः ‘धर्मेण विरूप ऋषिं प्रत्युच्यत’ इति उक्तत्वात् ‘स्वात्मानं प्रति’ इति वचनं विरुद्धमिति परास्तम् ॥ न च वाच्यमिति ॥ वेदस्य पाशुपताद्यागमवैलक्षण्यसिद्धौ प्रामाण्यसिद्धिः, तत्सिद्धौ तत्सिद्धिरिति अन्योन्याश्रयात् कथं श्रुत्युपादनमिति न वाच्यमित्यर्थः । अत्र टीकायां ‘श्रुत्यापादनं युक्तमित्यतः परं’ युक्तेरुपन्यस्त-त्वादित्यतः पूर्वं ‘परेणापि फलव्यभिचारेणाप्रामाण्ये वेदस्यापि तत्प्रसङ्ग इत्यापादनमात्रस्य क्रियमाणत्वात्’ इति प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयं वेदाप्रामाण्यस्यापादनमात्रमेव न तु साधनमित्यस्याऽर्थस्य ‘वेदादिप्रामाण्यस्य युक्तिविरोधपरिहारात्’ इति पूर्ववाक्येन ‘प्रमाणं न वेति सन्देह’ इति वाक्येन, ‘श्रुत्यादिकं न प्रमाणम्’ इति पूर्वपक्षवाक्येन, ‘एवं च वेदाद्येकदेशस्याप्रामाण्ये अन्यदेशप्रमाणताया मानाश्वासात्’ इति वाक्येन च, विरुद्धत्वात् । पूर्वपक्षे वेदप्रामाण्याक्षेपाभावेन सिद्धान्ते तत्साधनवैय्यर्थ्याच्चेति ॥ युक्तेश्चोपन्यस्तत्वादिति ॥ देवताधिकरणे वेदप्रामाण्ये युक्तेरुपन्यस्तत्वादित्यर्थः । देवताधिकरणोक्तयुक्त्या सिद्धेन नित्यत्वेन वेदप्रामाण्यस्येह साधितत्वाद् अभ्युच्चयेन श्रुत्युपन्यासो नानुपपन्न इति भावः ।
पूर्वपक्षस्तु – वेदः, वैष्णवस्मृतिश्च न प्रमाणं, तदुक्तानुष्ठानेऽपि फलानुपलम्भात् । यदि फलानुपलम्भे प्रामाण्यं तर्हि पाशुपतादिस्मृतीनामपि तत्प्रसङ्गः । न हि फलानुपलम्भसाम्येऽपि वेदादेरेव प्रामाण्यं न पाशुपतादिस्मृतीनामिति विभागे हेतुरस्ति । एवं च फलानुपलम्भेन वेदाद्येकदेशस्याप्रामाण्ये तदेकदेशान्तरप्रामाण्येऽनाश्वासान् न विष्णोर्जगत्कारणत्वसिद्धिरिति ।
सिद्धान्तस्तु – प्रमाणमेव वेदादि । अपौरुषेयत्वतदनुसारित्वाभ्याम् । न च अपौरुषेयत्वमेव कुत इति वाच्यम् । प्रागेव सामान्यसिद्धिपरिशेषाभ्यां तस्य साधितत्वात् । ‘वाचा विरूप नित्यया’ इत्यादि श्रुतेश्च । न च फलविसंवादादप्रामाण्यम् । अधिकारिणां फलोपलम्भेन फलाऽनुपलम्भस्य कर्तृवैगुण्यादिनोपपत्तेः । अतो वेदप्रामाण्यस्य युक्तिविरोधाभावात् तेन जगत्कारणत्वं हरेर्युक्तमिति सिद्धम् ।
वाक्यार्थमुक्तावली
प्रमाणत्वेनोक्तेति ॥ शास्त्रयोनित्वसूत्रे इत्यर्थः । अत्र पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्ते-रनन्तरसङ्गतिः ॥ प्रमाणं न वेति ॥ श्रुत्यादिकं पाशुपतादिव दृष्टफलानुपलम्भादप्रमाणम् उत श्रुतिसिद्धादपौरुषेयत्वस्वतःप्रामाण्याख्यतद्वैलक्षण्यात् प्रमाणमिति चिन्ता । तदर्थं फलानुपलम्भ-दोषापवादादौत्सर्गिकस्वतः प्रामाण्यत्याग उत अधिकारिणां फलदर्शनेन क्वचिदनुपलम्भस्य कर्त्रादिवैगुण्यनिमित्तकत्वेनापौरुषेयतया निर्दोषस्य वेदस्य निरपवादमेव स्वतः प्रामाण्यमित्येवं श्रुतेरित्युक्तभाष्यानुसारेण पूर्वपक्षमाह ॥ श्रुत्यादिकमिति ॥ तदुक्तानुपलब्धेरित्यस्य विवरणं कारीर्येत्यादि ॥ एवमित्यस्य पाशुपतादिवदिति । तदुक्तानुपलब्धेः श्रुतेः स्मृतेस्तदेकदेशस्य यथा प्रामाण्यमेवं श्रुतेः स्मृतेस्तदेकदेशान्तरस्याप्यप्रामाण्यमाश्वासकारणाभावादिति भाष्यस्यार्थान्तरं मत्वा व्याचष्टे ॥ एवं चेति ॥ नैवमित्यादिभाष्यस्य सूत्रपदारोहं दर्शयति ॥ अस्य श्रुत्या-देरिति ॥ अन्यस्मृत्यनवकाशेत्यत्र पञ्चरात्रादिस्मृतितत्साहाय्यवच्छ्रुत्योः प्रकृतत्वादस्येति परामर्शः । पाशुपतादेरितरेषां चेति सूत्रोक्तमिति भावेन फलानुपलम्भहेतुकमप्रामाण्यं तथात्व-मित्यनेन परामृश्यत इति भाष्ये एवं पाशुपतवत्तदुक्तानुपलब्धेरप्रामाण्यमिति भावः । ‘नित्यत्वा-त्पुरुषोद्भवैः । वर्जितं सर्वदोषैश्च कथं नो मानतां व्रजेत्’ इत्यनुव्याख्यानानुसारेण भाष्यभावमाह ॥ वाक्यप्रामाण्यमिति ॥ प्रमाणानुकूलत्वादित्यनेन नित्ये’ इत्यनन्तरं तदनुसारेण च इति पूरितं भवति । यत्फलव्यभिचारि तदप्रामाण्यमित्युत्सर्गः । वेदे नित्यत्वेन स्मृतौ तदनुसारित्वेन निर्दोषत्वावगमादप्रामाण्याभावः सिद्ध इति न पाशुपतादिवत्फलविसंवादेनाप्रामाण्यं कल्प्यम् । उत्सर्गतः प्राप्तस्य बाधने अपवादौचित्यादिति भावः । फलव्यभिचारेऽप्यङ्गीकारवादोऽयम् । तदुक्तरीत्या साङ्गानुष्ठाने तद्व्यभिचाराभावात् प्रकारान्तरेणेति । पूर्वं वैलक्षण्यं नित्यत्व-रूपमित्युक्तम् अधुना संवादनिरपेक्षत्वमिति भावः ।
ननु तज्ज्ञानादेव सिद्धिर्नाम प्रामाण्यस्य किं स्वरूपज्ञानमेव परामर्शरूपं सत् प्रामाण्य-मनुमापयति । उत स्वरूपज्ञान एव तत्प्रामाण्यं भासत इति । नाद्यः धर्मिमात्रज्ञानस्य परामर्श-रूपत्वात् । न द्वितीयः करणप्रामाण्यस्य ज्ञप्तौ स्वतस्त्वप्राप्तेः । तथात्वे करणानां तु ज्ञप्तौ स्वतस्त्वं नाङ्गीक्रियत इत्यादि सुधाविरोधादित्यतश्चाद्यपक्षमभ्युपगम्य तत्रोक्तदोषमुद्धरति ॥ न हीति ॥ नास्माभिः केवलधर्मिज्ञानपरामर्शरूपं सत् प्रामाण्यमनुमापयतीत्युच्यते । किन्तु निर्दोषितया तदनुसारितया च अपौरुषेयत्वाद्यनुमानेन तत्स्वरूपग्रहे वेदोऽयं निर्दोष इति ज्ञानं परामर्शरूपं सत् प्रामाण्यमनुमापयतीति निर्दोषित्वादिप्रतीत्याकारकतज्ज्ञानादेव प्रामाण्य-सिद्ध्यङ्गीकारान्न संवादापेक्षेत्युच्यते । न चैवं निर्दोषत्वमपौरुषेयत्वानुमानेन प्रामाण्यं निर्दोष-त्वानुमानेनेति वक्ष्यमाणस्वतस्त्वभङ्ग इति चेदुत्तरत्र स्वतस्त्ववचनं संवादानपेक्षत्वविवक्षये-त्यनुपपत्तेरिति भावः । अथवा द्वितीयं पक्षमभ्युपगम्य तत्रोक्तदोषमुद्धरति ॥ न हीति ॥ वाक्यदोषा हि अबोधकत्वविपरीतबोधकत्वादयः । तद्राहित्येन वेदादिस्वरूपग्रहे प्रामाण्य-स्फुरणादेतादृशं स्वतस्त्वं नानिष्टमिति सर्वथा संवादस्योपयोग इति भावः ।
न च स्वतस्त्वे ग्रन्थान्तरविरोध इति वाच्यम् । तत्र वेदधर्मिणः श्रोत्रग्राह्यत्वं याथार्थ्य-स्यानुमेयत्वमिति परतस्त्वमुक्तम् । इह तु ज्ञानजननशक्तिमत्वस्य विपरीतबोधनशक्त्यभावस्य चातीन्द्रियत्वात् । ज्ञानजननशक्तिमत्वेन विपरीतज्ञानजननशक्त्यभाववत्वेन च वेदवादिग्राहकमेव यथार्थज्ञानजनकत्वलक्षणशक्तिग्राहकम् । तयोः शक्त्योरैक्यादन्यथोत्पत्तौ स्वतस्त्वहानेरिति शक्त्यैक्यमादाय ज्ञप्तौ स्वतस्त्वाङ्गीकारे न विरोधः । तदुक्तं सुधायाम् । तेषामपि ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयग्राह्यत्वमिति ॥ प्रामाण्यमिति ॥ करण-प्रामाण्यं फलोपलब्धिसंवादाधीनं किं न स्यादित्यर्थः ।
ननु उपलब्धेः स्वतःप्रामाण्यस्य व्यवस्थापितत्वान्नानवस्थेत्यतस्तदुपलम्भकविवक्षा नानव-स्थेह विवक्षितेति भावेन व्याचष्टे ॥ यदीति ॥ आद्यप्रामाण्यस्येति वेदादिप्रामाण्यस्यैवोक्तरीत्या ज्ञानादिजनकत्वग्राहकादेव ग्रहणोपपत्तेः । अथवा संवादनिरपेक्षत्वोपपत्तेरित्यर्थः । संवादक-प्रामाण्यस्यापि संवादवेद्यत्वमङ्गीकृत्यापि अनवस्थाभावमाशङ्कते ॥ कदाचिदिति ॥ प्रामाण्या-ध्यवसायं विनेति । संवादकप्रामाण्याध्यवसायं विना वेदप्रामाण्यनिश्चयायोगेन फलसन्देहेन तदुक्तफलार्थिनस्तत्र प्रवृत्यसम्भवात् प्रवृत्यर्थं संवादकप्रामाण्यजिज्ञासाया आवश्यकत्वादित्यर्थः । प्रवृत्तेः फलनिश्चयाधीनत्वव्याप्तेर्व्यभिचारमाशङ्कते ॥ फलसन्देहेऽपीति ॥ सापीति ॥ निःशङ्काप्रवृत्तेः फलनिश्चयाधीनत्वमस्माभिरुच्यते । कृष्यादिप्रवृत्तिस्तु न निःशङ्का । पारत्रिकी प्रवृत्तिस्तु न तथा भवितुमर्हतीति भावः । प्रकारान्तरेणानवस्थाभावमाशङ्कते ॥ यावच्छङ्कमिति ॥ यावत्पर्यन्तं प्रामाण्यसंशय इत्यर्थः ॥ क्वचिदिति ॥ व्यासङ्गकोटिस्मरणाभावादिनेत्यर्थः ॥ द्वितीयो निरस्तप्रायेति ॥ अबुभुत्सितग्राह्ये ज्ञाने गृहीते तत्प्रामाण्यानुपलब्धेर् निःशङ्कप्रवृत्यनु-पपत्या तदर्थं प्रामाण्येऽवश्यं ज्ञातव्ये तत एव कोटिस्मरणभावेन शङ्काया आवश्यकत्वादिति भावः । शङ्कायाः क्वचिदनुत्पत्यङ्गीकारेऽपि अनवस्था दुर्वारेति भक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायमनुस्मृत्य विकल्पमुखेन दूषयति ॥ अपि चेति ॥ स्वतस्त्वेति ॥ पुरुषेण गोक्षुरकापसरणे गजस्य स्वयमेव गतिवत् संवादकानामप्रामाण्यशङ्कां निवर्तयित्वा प्रामाण्यं ज्ञापयति । एवं च प्रामाण्यज्ञानेऽपि संवादकप्रवृत्यङ्गीकारादप्रामाण्यशङ्कानिवृत्तौ स्वत एव प्रामाण्यनिश्चयोपपत्तिरिति भावः ॥ संवादकमुभयत्रेति ॥ न स्वतस्त्वापत्तिः । अप्रामाण्य-शङ्काभावस्थले प्रामाण्यग्रहस्यैवाभावाच्छङ्काभावेऽपि संवादकापेक्षा स्यादिति दोषोऽपि नेति भावः । कल्पकमाशङ्कते बाधकादिति ॥ रजतज्ञानान्तरमिदं प्रमाणं न वेति शङ्कायां बाधक-ज्ञानोत्पत्तौ शङ्कानिवृत्यप्रामाण्यग्रहणयोस्तदन्वयव्यतिरेकानुविधायित्वानुभवाद् यथा तस्योभयत्र व्यापारः । तथाऽत्राप्यप्रामाण्यशङ्कानिवृत्तिप्रामाण्यज्ञानयोरेतदन्वयव्यतिरेकानुविधानमेव कल्पक-मिति भावः ।
बाधकेऽव्यभिचारितान्वयव्यतिरेकाभ्याम् । तथाकल्पनेऽपि नेह तथा सुखादिज्ञाने साक्षिरूपे स्वत एवाप्रामाण्यशङ्काशून्यस्य संवादाभावेऽपि प्रामाण्यज्ञानोदयेन व्यतिरेकव्यभिचारादिति भावेनाह ॥ अप्रामाण्यमिति ॥ अप्रामाण्यज्ञप्तौ तु बाधकस्य व्यतिरेकव्यभिचारो नेत्याह ॥ बाधकेनेति ॥ निवृत्तप्रामाण्यशङ्कस्य पुरुषस्य बाधकेन विना प्रामाण्यनिश्चयानुदयानुभवा-दित्यन्वयः ॥ उक्तप्रतिकूलेति ॥ अन्यथाऽनवस्थितेरित्युक्तेत्यर्थः ।
ननु यदि प्रामाण्यं यदि स्वतो गृह्येत तर्हि संशयो न स्यादित्यनुकूलतर्कसद्भावात्कथं तद्राहित्यमित्यत आह ॥ संशयस्येति ॥ जातिभानसामग््रया व्यक्तिभानसामग्रीनियतत्वेऽपि दोषवशादिदमिति शुक्तिशकले भासमानेऽपि शुक्तित्वाप्रतीत्या संशयदर्शनादिति भावः । एवं परकीयानुकूलतर्कस्याप्रयोजकत्वमुक्त्वा जरन्नैय्यायिकरीत्या अन्वयव्यभिचारमाह ॥ स्वतस्त्वे-नेति ॥ बौद्धचार्वाकादिविप्रतिपत्या अनुमानप्रामाण्येऽपि संशयदर्शनादित्यर्थः । यद्वाऽनु-मानस्यानुकूलतर्काभावमुक्त्वा व्यभिचारमाह ॥ स्वतस्त्वेनेति ॥ भागासिद्धिमप्याह ॥ अनभ्यासेति ॥ प्रत्यग्रोत्पन्नसुखादिस्थल इत्यर्थः । श्रुतिं चाहेत्यर्थः । अत्र चक्षुरादीनामिति साक्षात्स्वविषयविषयकमानान्तरसंवादो हि सजातीयसंवादः । अत्र वेदविषये ब्रह्मणि मानान्तर- प्रवृत्युक्त्या तदभाव उक्त इति भावः । अनेन तथात्वं संवादानपेक्षत्वरूपं स्वतस्त्वं केवलं विपक्षे बाधकयुक्त्या शब्दाच्चेति योजितं भवति ॥ अनेनेति ॥ तथात्वमित्यस्याप्रामाण्यमिति पूर्वं व्याख्याय भाल्लवेयश्रुतेश्च नित्यत्वं च शब्दादेवेत्यनेन तथात्वमित्यस्य न तथात्वमिति नञा तथात्वं च शब्दादेवेति शब्दपदेनेत्युभयत्र सम्बध्यत इत्युक्तं भवतीत्यर्थः । ततश्चायं सूत्रार्थः । अस्य श्रुत्यादेस्तथात्वं शैवादिस्मृतिवत्फलानुपलब्ध्याऽप्रामाण्यं न । कुतः विलक्षणत्वाद-पौरुषेयत्वादनुसारित्वारव्यवैलक्षण्यात् । संवादानपेक्षत्वरूपं तु न चक्षुर्न श्रोत्रमित्यादिशब्दाद् विपक्षे बाधकतर्काश्चेति । ‘तस्मै नूनमभिद्यवे वाचा विरूपनित्यया । वृष्ण्ये चोदस्व सुष्टुतिम्’ इति, ऋचं व्याचष्टे ॥ तस्माद् इति ॥ स्वात्मानं प्रतीति ॥ अस्य मन्त्रस्य विरूपो ऋषिरित्यनुक्रमिणोक्तेरिति भावः । स्वस्य आत्मान्तर्यामी तं प्रतीति वा सुष्टुतिं शोभनां स्तुतिं चोदस्व प्रेरयस्वेति विरूपस्य ऋषेरन्तर्यामिविषयमिति तत्त्वप्रदीपोक्तेरिति भावः । विष्णुतत्त्व-निर्णयटीकायां श्रीमत्पद्मनाभतीर्थभट्टारकविरचितायां न्यायरत्नावल्यां धर्मेण विरूपम् ऋषिं प्रत्युच्यत इति वचनाद्विरोध इति चेन्न । उभयऋषिकत्वोपपत्तेः । प्रथमं धर्मदृष्टस्य विरूपेण दर्शनं तदा स्वात्मसम्बोधनं पुनर्धर्मोपदेश इत्युपपत्तेः । अत एव तत्त्वनिर्णयटीकायां विरूपमृषिं प्रत्युच्यत इति सामान्येनोक्तम् ॥ अनादिनिधनतयेति ॥ अन्यथा पुनरुक्तिः स्यादिति भावः ॥ श्रुत्युपपादनमिति ॥ स्वतः प्रामाण्यनित्यत्वयोः सिद्धौ वेदप्रामाण्यसिद्धिस् तत्सिद्धौ च वेदेन तत्सिद्धिरित्यन्योन्याश्रयप्रसङ्गादिति भावः ॥ आपादनमात्रस्येति ॥ तथा च वेदप्रामाण्यस्य पूर्वपक्षिणाप्यङ्गीकृतत्वान्नान्योन्याश्रयत्वमिति भावः ।
नन्वेतत्पूर्वग्रन्थविरुद्धम् । तत्र वेदादिप्रामाण्यस्य युक्तिपरिहारादिति सङ्गतिवाक्ये प्रमाणं न वेति सन्देह इति वाक्येन प्रमाणमिति पूर्वः पक्ष इति वाक्ये वेदाद्येकदेशस्याप्रामाण्ये अन्यदेश-प्रमाणतायामनाश्वासादित्युपसंहारवाक्ये चाप्रामाण्येन पूर्वपक्षप्रतीतेरिति चेन्न । युक्तिविरोध-परिहारादित्यस्य पाशुपतादेः फलव्यभिचारेणाप्रामाण्ये वेदस्यापि तत्प्रसङ्ग इति तर्कविरोध-परिहारादिति प्रमाणं न वेत्यस्य प्रमाणं वा न वेति प्रसज्येत वेति न प्रमाणमित्यस्य न प्रमाणं प्रसज्येत इति वेदाद्येकदेशस्याप्रामाण्यप्रसक्तावन्यदेशस्यापि तथात्वप्रसङ्गादिति तद्वाक्यार्थाङ्गी-कारादिति ज्ञेयम् ॥ युक्तेश्चेति ॥ देवताधिकरणभाष्ये नित्यत्वे अनवस्थितेरित्यत्र प्रामाण्य-स्वतस्त्वे च युक्तेरुपन्यासाद् युक्तिसिद्धार्थे श्रुत्युपन्यासान्नान्योन्याश्रयत्वमिति भावः । यद्वा वेदप्रामाण्यवादिनाप्यत्र पूर्वपक्षत्वे तं प्रत्याह ॥ युक्तेश्चेति ॥ तथा च तं प्रति नित्यत्वादिबोधन-युक्त्यैवेति नान्योन्याश्रयत्वम् । अत एव पूर्वग्रन्थस्याप्रामाण्यवादिविवक्षया प्रवृत्तत्वादापादन-मात्रस्येत्यस्य तत्प्रामाण्याभ्युपगमगन्तृविवक्षया प्रवृत्तत्वादिति वाऽविरोध इति ज्ञेयम् ।
तत्त्वसुबोधिनी
एतदधिकरणोपाधिमाह ॥ युक्तिविरोधपरिहारादिति ॥ अनेनात्र पूर्वपक्षसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेः, अनन्तरसङ्गतिरिति सूचितं भवति । अस्त्वविद्यमानाभिधायकत्वं, ततः किमित्यत आह ॥ अविद्यमानेति ॥ अविद्यमानाभिधायकत्वेऽपि प्रामाण्यमङ्गीक्रियतामित्यत आह ॥ अविद्यमानाभिधात्रीणामिति ॥ तथापि श्रुत्यादिकमेव प्रमाणं न स्मृत्यादिकमत आह ॥ न हीति ॥ नैवमित्यादिभाष्यस्थस्य न तथात्वमिति सौत्रप्रतिज्ञाव्याख्यानरूपत्वं दर्शयति ॥ अस्येति ॥ अप्रामाण्यप्रयोजकदोषाभावान्नाप्रामाण्यम् इत्यत आह ॥ वाक्येति ॥ तथापि स्मृतेः कथं प्रामाण्यमित्यत आह ॥ प्रमाणानुकूलत्वादिति ॥ वेदानुसारित्वादित्यर्थः । ननु वेद-प्रामाण्यं संवादाधीनं चेन् न, तर्हि कस्मात्तत्सिद्ध्यतीत्यत आह ॥ वेदादिप्रामाण्यस्येति ॥ ननु यथार्थज्ञानजनकत्वरूपवेदप्रामाण्यस्य वेदज्ञानादेव सिद्धिः । कथमित्यत आह ॥ न हीति ॥ अत्र हि करणानां ज्ञप्तौ परतस्त्वमित्येकः पक्षः । स्वतस्त्वमित्यपरः । तत्राद्ये पक्षे निर्दोषत्व-तदनुसारित्वाभ्यामेव यथार्थज्ञानजनकत्वरूपप्रामाण्यानुमानं, न संवादेनेति भावः । द्वितीये तु निर्दोषवेदतदनुसारिस्मृत्यादिग्रहे यथार्थज्ञानजनकत्वरूपप्रामाण्योपलब्धौ संवादापेक्षा नास्ति इत्यर्थः । ज्ञानजनकत्वं येन गम्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयत्वस्य ग्राह्यत्वमित्ये-तदेव स्वतस्त्वमिति भावः ॥ कदाचिदिति ॥ जिज्ञासा च न सर्वत्रेति नानवस्था इति भावः । सन्देहादपि प्रवृत्तेर् दृष्टत्वेन न प्रामाण्यनिश्चयस्य प्रवृत्तिकारणत्वमित्याशङ्कते फलेति ॥ सापीति ॥ तथा च प्रामाण्यावधारणस्य निःशङ्कप्रवृत्तिं प्रति हेतुत्वेन न व्यभिचार इति भावः ।
क्वचिन्नोत्पद्यत एवेति ॥ व्यासङ्गकोटिस्मरणाभावादिना इति शेषः ॥ द्वितीयो निरस्तप्राय इति ॥ ज्ञानस्य बुभुत्सितग्राह्यतया तीव्रसंवेदनत्वेन तद्भानमावश्यकं ज्ञाते च तस्मिन् प्रामाण्यानुपलब्धौ निःशङ्कप्रवृत्तेः प्रामाण्यावधारणसाध्यत्वेन तदर्थं प्रामाण्यरूपविशेष-जिज्ञासा तत एव व्यासङ्गकोटिस्मरणाभावाद्यसम्भवेन शङ्काया अवश्यकत्वादिति भावः ॥ आद्य इति ॥ संवादस्याप्रामाण्यशङ्कामात्रनिवर्तकत्वेन प्रामाण्यज्ञाने ज्ञानग्राहकातिरिक्तानपेक्ष-णादिति भावः ॥ शङ्काभावेऽपीति ॥ संवादस्य तत्र कारणत्वादिति भावः ॥ उभयत्रेति ॥ अप्रामाण्यशङ्कानिवर्तने प्रामाण्यज्ञाने ज्ञानग्राहकातिरिक्तानपेक्षणादिति भावः (वेत्यर्थः) ॥ बाधकवदिति ॥ यथा बाधकस्य प्रामाण्यशङ्कानिरासाप्रामाण्यज्ञानयोर् व्यापारस् तथा संवादस्य अप्रामाण्यशङ्कानिरासप्रामाण्यज्ञानयोर् व्यापारोऽस्त्वित्यर्थः । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्येण परिहरति ॥ अप्रामाण्यशङ्काशून्यस्येति ॥ मुखादिप्रज्ञाने प्रामाण्यशङ्काशून्यस्य संवादाभावेऽपि प्रामाण्यस्यानुभूयमानत्वेन व्यतिरेकव्यभिचारान्न संवादकस्य प्रामाण्यज्ञानव्यापार इत्यर्थः ॥ बाधकेन विना इति ॥ तथा च क्वचिदपि निवृत्तप्रामाण्यशङ्काया अप्रामाण्यबुद्ध्युदयो नानुभूयते प्रत्युत तदनुदय एवानुभूयते इत्यन्यथा सिद्धान्वयव्यतिरेकाभ्यां बाधकस्य अप्रामाण्यज्ञापने व्यापार इति भावः ॥ उक्तप्रतिकूलतर्केति ॥ अनवस्थालक्षणप्रतिकूलतर्कपराहतमित्यर्थः ।
ननु प्रामाण्यस्य स्वतस्त्वे संशयानुपपत्तिरूपबाधकस्य सत्वात् कथमनुकूलतर्कशून्यमित्यत आह ॥ संशयस्येति ॥ एकदेशिमतेन आह ॥ स्वतस्त्वेनेति ॥ अनुमानप्रामाण्येऽपि संशयदर्शनाच्चेति ॥ बौद्धचार्वाकादिविप्रतिपत्त्यानुमानाप्रामाण्येऽपि संशयदर्शनाच्च इत्यर्थः ॥ अनभ्यासदशायामपीति ॥ प्रसङ्गायत्तसुखादिस्थले इत्यर्थः । तथा च भागासिद्धो हेतुरिति भावः ॥ अनेनेति ॥ नैवं तदुक्तानुपलब्धेर् अप्रामाण्यमिति व्याख्याय नित्यत्वरूपविलक्षणत्वं च शब्दादिति व्याख्यानेनेत्यर्थः । अभिद्यव इत्यस्यार्थः सर्वतः प्रकाशायेति ॥ वृष्णे इत्यस्यार्थो ऽतिसमर्थायेति ॥ अनादिनिधना इति ॥ अन्यथा पुनरुक्तिः स्यादिति भावः ॥ श्रुत्युपादानमिति ॥ तथा च स्वतः प्रामाण्यनित्यत्वयोः सिद्धौ वेदप्रामाण्यसिद्धिः । तत्सिद्धौ च प्रमाणभूतवेदेन तत्सिद्धिरित्यन्योन्याश्रय इत्यर्थः ॥ आपादनमात्रस्य क्रियमाणत्वादिति ॥ अन्यहेतुकस्याप्रामाण्यस्याभावं स्वीकृत्य संवादे हेतुकप्रामाण्यशङ्कामात्रस्य क्रियमाणत्वान्ना-न्योन्याश्रय इत्यर्थः ॥ श्रुतेश्चेति ॥ भाष्येऽनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्येति । देवताधिकरणे वेदनित्यत्वेऽन्यथानवस्थितेरित्यत्र प्रामाण्यस्वतस्त्वे(च) युक्तेश्चोपन्यस्तत्वा-च्चेत्यर्थः । तथा च युक्तिसिद्धेऽर्थे श्रुतेः संवादित्वेनोपन्यासान्नान्योन्याश्रय इति भावः । यद्वा वेदाप्रामाण्यवादिनोऽत्र पूर्वपक्षित्वे तं प्रत्याह ॥ युक्तेश्चेति ॥ तथा च तं प्रति उक्तयुक्त्यैव वेदनित्यत्वादिप्रसाधनं न श्रुत्येति नान्योन्याश्रय इति भावः ।
वाक्यार्थविवरणं
न विलक्षणाधिकरणे ॥ जिज्ञासायामेवेति ॥ न सार्वत्रिकीति भावः ॥ यावच्छङ्कमिति ॥ शङ्काऽपि न सार्वत्रिकीत्याशयः ॥ उभयत्रापीति ॥ अप्रामाण्यशङ्कानिवर्तने प्रामाण्यज्ञापने चेत्यर्थः । कल्पकमाशङ्कते ॥ बाधकवदति ॥ विसंवादवदित्यर्थः ॥ उभयत्रेति ॥ प्रामाण्य-शङ्कानिवर्तनेऽप्रामाण्यज्ञप्तौ चेत्यर्थः । प्रामाण्यज्ञाने सुखादिज्ञाननिष्ठप्रामाण्यज्ञाने । तथा चान्वयव्यतिरेकाभावादुभयत्र व्यापारोऽसिद्ध इति भावः । तर्हि प्रामाण्यशङ्काशून्यस्य अप्रामाण्य- ज्ञाने विसंवादनिरपेक्षत्वादप्रामाण्यस्यापि स्वतस्त्वं किं न स्यादिति चेत्तत्राह ॥ बाधकेन विनेति ॥ बुद्ध्यनुदयस्य बुद्ध्यनुत्पत्तेरनुभवसिद्धत्वादित्यर्थः । तथा च बाधकवदित्युक्तं कल्पक-मसिद्धमिति हृदयम् । प्रामाण्योत्पत्त्यपवादको दोषः । तद्ह्यपवादको विसंवादो बाधकमित्युच्यत इति द्रष्टव्यम् । स्वतस्त्वे ज्ञानग्रहणसमय एव प्रामाण्यस्य निश्चितत्वेन संशयो न स्यादिति हेतूच्छित्तिरेव बाधिकेत्यत आह ॥ संशयस्येति ॥ दोषाद् अप्रामाण्यशङ्कारूपमानसदोषात् । तथा च ज्ञाने गृहीतेऽपि प्रामाण्यमगृहीतमेव । न च स्वतस्त्वभङ्गः । अप्रामाण्यशङ्काशून्यज्ञान-ग्राहकसामग्रीग्राह्यत्वस्यैव स्वतस्त्वेन तदा तदनपायादित्याशयात् ॥ स्वतस्त्वेनेति ॥ अयं भावः । अनुमितिप्रामाण्यं स्वत एव । तथा हि । परतस्त्वे साशयिकत्वं हि युक्तिः । लिङ्गोपहित-लिङ्गिकभानपक्षे धूमवान् पर्वतोऽग्निमानिति ह्यनुमित्याकारः । तत्र धूमवान् पर्वतोऽग्निमानिति ज्ञानं प्रमाणं न वेति संशयो न स्यात् । कुतः । वह्निमति वह्निप्रकारकज्ञानत्वं हि प्रामाण्यम् । न ह्येतत्प्रामाण्ये संशयो युक्तः । एतद्व्याप्यस्य धूमवति वह्निप्रकारकत्वस्य गृहीतत्वात् । न हि लोके पुरुषत्वव्याप्यशिरःपाण्यादिदर्शने पुरुषत्वे कस्यचित् संशयः । तस्मादनुमितिप्रामाण्यं स्वत एव । एवं गोसादृश्यवानयं गवयशब्दवाच्य इति ज्ञानं प्रमाणं न वेति संशयो न युक्तः । वाच्यत्ववति वाच्यत्वप्रकारकत्वज्ञानत्वरूपप्रामाण्यव्याप्यस्य सादृश्यवति वाच्यत्वरूपधर्मस्य गृहीतत्वेन संशयायोगादुपमितिप्रामाण्यमपि स्वत एवेत्याहुः । एवं चानुमित्युपमितिप्रामाण्ये तद्ग्राहकप्रामाण्यसंशयाहितसंशयदर्शनेन सांशयिकहेतुसद्भावेऽपि परतस्त्वाभावाद्व्यभिचार इत्यर्थः । उपलक्षणमेतत् । धर्मिज्ञानानुव्यवसायौ च ग्राह्यौ । स्वतस्त्वेनाभ्युपगतानुमित्युपमिति धर्मिप्रत्यक्षानुव्यवसायेष्विति सुधोक्तेः । सर्वं ज्ञानं धर्मिण्यभ्रान्तमित्यङ्कीकारेण धर्मिज्ञानप्रामाण्ये कदापि संशयाभावेन तत्प्रामाण्य स्वत एव । तथानुव्यवसायप्रामाण्यमपि । न ह्यजानन् जानामीति प्रत्येति न वा घटे ज्ञाते पटं जानामीति । अतोऽनुव्यवसायत्वस्य प्रामाण्यनियत-त्वात् । तत्प्रामाण्यमपि स्वत एवेत्यङ्गीकृतम् । तत्र व्यभिचारः । निरधिष्ठानवादिशून्यवाद्यु-त्प्रेक्षितप्रमाणाभासदर्शनेन धर्मिज्ञानेऽपि प्रामाण्यसंशयदर्शनात् । एवमनुव्यवसायस्यापि त्वमन्ते मानसत्वेनाप्रामाण्यादौ प्रामाण्यग्राहिणो भ्रमत्वसम्भवेन संशयास्पदत्वादिति । अनुमित्यादि-प्रामाण्ये स्वतस्त्वेनाभ्युपगते आदितः संशय इत्युक्तम् । वस्तुतस्त्वत्र सर्वत्रापि स्वारसिक एव संशय इति सुधाटीकायां गुरुचरणैः । यद्वा स्वारसिक एवात्र सर्वत्र संशयः । संशयकारणस्य ज्ञानत्वरूपसाधारणधर्मदर्शनादेः सम्भवादित्यादिनोपपादितमनुसन्धेयम् । अत्रानुमित्युपमिति-प्रामाण्यस्वतस्त्वोपपादनं कृतम् । व्यापकवति व्यापकप्रकारकज्ञानत्वरूपप्रामाण्यव्याप्यस्य व्याप्यवति व्यापकप्रकारकज्ञानत्वस्य गृहीतत्वान्न संशयो युक्त इति परतस्त्वसाधकसांशयिक-युक्त्यभावादेवमुपमानेऽपीति तत्तुच्छम् । अत्र प्रष्टव्यम् । व्याप्यदर्शनमात्रस्यैव संशयविरोधित्वम्, उत व्याप्यत्वप्रकारकव्याप्यदर्शनमात्रस्य । नाद्यः । तैलं पृथिवी न वेति संशयो न स्यात् । तत्रापि वस्तुगत्या पृथिवीत्वव्याप्यस्य तैलत्वादेर्ग्रहणात् । अतो द्वितीयोऽङ्गीकार्यः । वस्तुगत्या प्रामाण्यव्याप्यस्य हेतुमति साध्यप्रकारकत्वस्य गृहीतत्वेऽपि तत्र प्रामाण्यव्याप्यत्वं न गृहीतमेव । न हि करादिमत्त्वं पुरुषत्वव्याप्यमितिवदत्र व्याप्यत्वं प्रकारीभूय भासत इति । अत एतां युक्तिं विहाय पुनर्यया कयाचिद्युक्त्या तत्प्रामाण्यस्य स्वतस्त्वमङ्गीक्रियताम् । तथापि तत्र संशय-दर्शनाद् व्यभिचार इत्याशयात् । अत एव त्वदभ्युपगतेत्युक्तम् ॥ उभयत इति ॥ विलक्षणत्वा-न्नित्यत्वात्तथात्वं न तद्व्याप्तं नित्यत्वं च । शब्दादेवेति विलक्षणत्वात् शब्दादिति उभयत इत्यर्थः ।
वाक्यार्थमञ्जरी
अप्रयोजकत्वमाशङ्क्याह ॥ अविद्यमानाभिधात्रीणामिति ॥ नन्वेवमेकदेशाप्रामाण्येऽपि जगत्कारणत्वप्रतिपादकभागप्रामाण्यं किं न स्यादित्यत आह ॥ एवं चेति ॥ एतद्दृष्टान्तेन तस्याप्यप्रामाण्यसाधनसौलभ्यादिति भावः ॥ ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ ॥ अस्य श्रुतिपञ्चरात्रस्मृतिरूपशास्त्रस्य तथात्वम् । पाशुपतादिवदप्रामाण्यं नास्ति । श्रुते-रपौरुषेयत्वेन स्मृतेस्तदनुसारित्वेन ततो विलक्षणत्वात् । तथात्वं च श्रुतेरपौरुषेयत्वम् । स्मृतेस्तदनु-सारित्वं चशब्दात् । वाचा विरूप’ इति श्रुतेः ‘भारतं पञ्चरात्रम्’ इति स्मृतेश्च सिद्धमित्यर्थः । नित्ये अपौरुषेये । ततो ऽदोषत्वात् ॥ वेदादिप्रामाण्यस्येति ॥ यथार्थज्ञानजनकरूपत्वस्ये-त्यर्थः । तज्ज्ञानाद् वेदादिज्ञानात् । कुत इत्यत आह ॥ न हि निर्दोषेति ॥ निर्दोषश्रुतिरूपग्रहे तदनुसारिस्मृतिस्वरूपग्रहे चेत्यर्थः । श्रुतिस्मृत्योर् ज्ञानजनकत्वे तावन्न विवादः । निर्दोषत्व-तदनुसारित्वग्रहे यथार्थत्वशङ्कानवकाशत्वेन यथार्थज्ञानजनकत्वरूपप्रामाण्यग्रहे न किञ्चिदपेक्षेति भावः । तथात्वं स्वतः प्रामाण्यम् । स्वत एव संवादस्वरूपग्राहकेणैव । एवं संवादान्तरग्राह्यं प्रामाण्यम् ॥ नानवस्थेति ॥ यत्र जिज्ञासाविरहस्तत्र संवादानपेक्षणादिति भावः ॥ ध्रौव्या-दिति ॥ तत्र संवादापेक्षायामनवस्थैवेति भावः ॥ फलसन्देहेति ॥ फलज्ञानप्रामाण्यसन्देह इत्यर्थः । तथा चात्र व्यभिचारान्न प्रामाण्यनिश्चयस्य प्रवृत्तिहेतुत्वमिति भावः ॥ सापि न निः-शङ्केति ॥ तथा च प्रामाण्यनिश्चयस्य निःशङ्काप्रवृत्तिं प्रत्येव हेतुत्वोक्तेर्न व्यभिचार इति भावः । यावच्छङ्कमित्यव्ययं सर्वत्र संवादकप्रमाणेषु ॥ क्वचिन्नोत्पद्यत इति ॥ व्यासङ्गकोटिस्मरणाभावादि नेति शेषः ॥ कथमिति ॥ शङ्कानिवृत्त्यर्थं संवादपरम्पराया आश्रयणीयत्वादिति भावः ॥ द्वितीयो निरस्तप्राय इति ॥ ज्ञानस्य बुभुत्सितग्राह्यतया ज्ञाते च तस्मिन्नप्रामाण्यानुपलब्धौ निःशङ्कप्रवृत्तेस् तस्याश्च प्रामाण्याध्यवसायाधीनत्वेन तदर्थं विशेषप्रमाणरूपजिज्ञासाध्रौव्ये तत एव व्यासङ्गकोटिस्मरणाभावाद्यसम्भवेन शङ्काया आवश्यकत्वादिति भावः ॥ स्वतस्त्वप्राप्तिरिति ॥ संवादेनाप्रामाण्यशङ्कानिवृत्तौ स्वरूपग्राहकेणैव प्रामाण्यनिश्चयादिति भावः ॥ शङ्काभावेऽपीति ॥ अप्रामाण्यशङ्काशून्यसुखादिज्ञानप्रामाण्यज्ञानेऽपीत्यर्थः ॥ संवादकमुभयत्रापीति ॥ अप्रामाण्य शङ्कानिरसने प्रामाण्यग्रहणे चेत्यर्थः । कुत इत्यत आह ॥ कल्पकेति ॥ कल्पकं शङ्कते ॥ बाधकवदिति ॥ विसंवादवदित्यर्थः । तथा च तत्र यथाविसंवादकस्य प्रामाण्यशङ्कानिरासा-प्रामाण्यज्ञापनयोर्व्यापारस्तथात्र किं न स्यादित्यर्थः । तथा च तद्वदेवात्राप्यन्वयव्यतिरेकयोः प्रयोजकत्वमिति भावः । वैषम्यमाह ॥ अप्रामाण्यशङ्काशून्यस्येति ॥ सुखादिज्ञानेऽप्रामाण्य-शङ्काशून्यस्य संवादाभावेऽपि प्रामाण्यस्यानुभूयमानत्वेन व्यतिरेकव्यभिचारान्न संवादस्य प्रामाण्य- ज्ञापने व्यापार इत्यर्थः ॥ बाधकेन विनेति ॥ तथा चानन्यथासिद्धान्वयव्यतिरेकाभ्यां बाधकस्याप्रामाण्यज्ञापने व्यापार इति भावः । परतः संवादतः । अभ्यासदशापन्नज्ञानप्रामाण्ये सिद्धिवारणायाभ्यासदशायामित्युक्तम् ॥ प्रतिकूलतर्केति ॥ अनवस्थारूपेत्यर्थः । स्वतस्त्वे स्वरूपग्राहकेणैव प्रामाण्यनिश्चयेन तत्संशयो न स्यादिति बाधकसत्वात्कथमनुकूलतर्काभाव इत्यत आह ॥ संशयस्येति ॥ दोषात् प्रामाण्यशङ्कारूपात् । तथा च तर्कस्यान्यथासिद्धिरिति भावः । प्राचीनतार्किकमतावष्टम्भेनाह ॥ स्वतस्त्वेनेति ॥ बौद्धचार्वाकादिविप्रतिपत्त्या अनुमानादिप्रामाण्येऽपि संशयदर्शनादित्यर्थः । यद्वा लिङ्गादिज्ञानप्रामाण्यसंशयेन तज्जन्यानु-मित्यादिप्रामाण्यसंशयदर्शनादित्यर्थः । यद्वा लिङ्गोपहितलैङ्गिकभानपक्षे अनुमितिप्रामाण्यस्य सादृशाद्यतिदेशवाक्यार्थोपहितवाच्यत्वभानपक्षे उपमितिप्रामाण्यस्य स्वतस्त्वाङ्गीकारात्तयोः प्रामाण्ययोः स्वग्राहकज्ञानप्रामाण्यसंशयाहितसंशयदर्शनादित्यर्थः । तथा चानुभवसिद्धतत्संशयो-पपत्तिवदत्रापि तदुपपत्तिरिति भावः । भागासिद्धिं चाह ॥ अनभ्यासेति ॥ प्रत्यग्रोप्तन्न-सुखादिस्थल इत्यर्थः । नन्वथापि प्रामाण्यं परतो ज्ञायते प्रामाण्याप्रामाण्यान्यतरमात्रकोटिक-संशयकोटित्वादप्रामाण्यवदित्याद्यनुमानेन परतस्त्वसिद्धिरिति चेन्न । अस्यापि प्रतिकूलतर्क-पराहत्याद्युक्तदोषलङ्घनाजङ्घालुत्वादित्याशयेनाह ॥ अलमिति ॥ प्रकृतोपयोगाप्रतीतेराह ॥ अत्रेति ॥ अनेनेति ॥ मैवं तदुक्तानुपलब्धेरप्रामाण्यमिति व्याख्याय नित्यत्वरूपविलक्षणत्वं च शब्दादेवेति व्याख्यानेनेत्यर्थः ॥ उभयत इति ॥ नैवशब्दादित्यनेन चेत्यर्थः । तस्मै नूनमभि-द्यवे, वाचा विरूप नित्यया वृष्णे चोदस्व सुष्ठतिम् इति श्रुतिं व्याचष्टे ॥ तस्मा इति ॥ अभिद्यव इत्यस्यार्थः सर्वतः प्रकाशायेति ॥ वृष्णे इत्यस्य अतिसमर्थायेति ॥ स्वात्मानमिति ॥ अनेन विरूपवाक्यमेवेदमिति सूचयति ॥ अनादिनिधनतयेति ॥ अन्यथा पौनरुक्त्यमिति भावः । साक्षितया प्रामाण्यतया ॥ श्रुत्युपादनमिति ॥ स्वतः प्रामाण्यनित्यत्वयोः सिद्धौ वेदप्रामाण्य-सिद्धिस् तत्सिद्धौ च प्रमाणभूतवेदेन तत्सिद्धिरित्यन्योन्याश्रयप्रसङ्गादिति भावः ॥ अप्रामाण्येति ॥ पाशुपतादेरङ्गीकृते ॥ आपादनमात्रस्य क्रियमाणत्वादिति ॥ तथा च वेदप्रामाण्यस्य एतदधि-करणपूर्वपक्षिणाङ्गीकृतत्वान्नान्योन्याश्रय इत्यर्थः । प्रकारान्तरेण अन्योन्याश्रयं परिहरति ॥ युक्तेश्चेति ॥ भाष्ये आप्त्यनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्येति देवतानये वेदनित्यत्वे अन्यथानवस्थितेरित्यत्र प्रामाण्यस्य स्वतस्त्वे च युक्तेश्चोपन्यस्तत्वादित्यर्थः । तथा च युक्ति-सिद्धार्थे श्रुतेः संवादित्वेनोपन्यासान्नान्योन्याश्रय इति भावः ।