ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्
ब्रह्मसूत्रभाष्यम्
अथ द्वितीयाध्यायस्य प्रथमः पादो
ऽथ स्मृत्यधिकरणम्
सूत्रभाष्यम्
उक्तेऽर्थेऽविरोधं दर्शयत्यनेनाध्यायेन । प्रथमपादे युक्त्यविरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति–
॥ ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ १ ॥
सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेऽप्रामाण्यमेव स्यादिति चेन्न । अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वज्ञैरेव कृतत्वात् श्रुतेराधिक्यं (च) सिद्ध्यति ॥
श्रीपद्मनाभतीर्थविरचिता
सत्तर्कदीपावली
जगत्कारणे नारायणे निखिलवेदसमन्वयो गताध्यायेऽभिहितः । तत्र विप्रतिपद्यमानवादि-भिरुद्भावितानेकविरोधोऽस्मिन्नध्याये परिह्रियते । तत्र प्रथमपादे विरोधेषु युक्तिविरोधः परिह्रियते । पशुपत्यादिप्रत्यक्षमूलत्वेन च पाशुपतादिस्मृतेः प्रबलत्वात्तद्विरोधोऽत्र प्रथमाधिकरणे परिह्रियते । तथा हि पाशुपतादिस्मृतिविरोधान्न विष्णुर्जगत्कर्तेत्युच्यते । तर्हि पञ्चरात्रादिस्मृतिविरोधाद्रुद्रोऽपि जगत्कारणं न स्यात् । न चैवं सति अनिर्णय इति वाच्यम् । श्रुतिमूलत्वेन पञ्चरात्रादिस्मृतेरेव प्रामाण्यमिति निर्णयोपपत्तेः । श्रुतीनां च जगत्कर्तरि विष्णौ समन्वयस्याभिहितत्वात् । तथा हि उक्तेऽर्थ इत्यादिना ॥
श्रीत्रिविक्रमपण्डिताचार्यविरचिता
तत्त्वप्रदीपिका
प्रथमाध्याये सर्वसृष्ट्यादिकर्तरि सर्वगुणपरिपूर्णे नारायणे सर्ववेदसमन्वय उक्तः ॥ तत्र अविरोधं दर्शयत्यनेनाध्यायेन ॥ विदितेऽपि वेदार्थे विरोधस्फुरणे तत्त्वनिर्धारणानुपपत्तेः । अनिर्धारिते च निधिध्यासनायोगात् । अनाध्यातस्य चानीक्षणीयत्वेनामोचकत्वात् । अतो यावन्न विरोधपरिहारस्तावन्न पुमर्थपर्यवसायित्वं शास्त्रस्येति तत्तद्विरोधमाशङ्क्य परिहरति ॥ प्रथमपादे युक्त्यविरोधं दर्शयति । तदायत्तत्वात्सर्वविरोधाविरोधयोः । प्रथमतो रुद्रादिस्मृत्यविरोधम् ॥ तासां श्रुतिमूलत्वेन सर्वज्ञवक्तृकत्वेन वाऽभिमतानां क्वापि दृष्टफलानां वेदसमत्वबुद्ध्या जगत्कारणे समन्वयधर्मित्वेन समाशङ्कनीयत्वात् । ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनकाशदोष-प्रसङ्गात् ॐ ॥ सर्वज्ञा हि रुद्रकपिलकणादादयः । ते च जगत्कारणमन्यदन्यन्मन्यन्ते । न च तत्स्मृतीनामन्योऽवकाशः । उक्तार्थे श्रुतेः प्रामाण्याङ्गीकारे तासां तत्तदुत्कर्षप्रतिपादिकानाम-न्यावकाशरहितानामप्रामाण्यदोषः प्रसज्येत । न च तद्युक्तं सर्वज्ञप्रणीतानाम् । अतः श्रुतेस्तत्रा-प्रामाण्यमिति चेन्न । तेभ्योऽधिकं निरतिशयं सर्वज्ञत्वं विष्णोः । मन्वादिनां च कपिलादिभ्योऽ-धिकम् । अतो विष्ण्वादिस्मृत्यनवकाशदोषोऽत्युल्बणस्तत्प्रामाण्याङ्गीकारे प्रसज्यते । अत एतद्विरोधे तासामप्रामाण्यमेव स्यात् । अन्यसमयिभ्योऽस्माकं श्रुतिप्रामाण्यमधिकं निरपवादं सिद्ध्यति ।
श्रीजयतीर्थविरचिता
तत्त्वप्रकाशिका
पूर्वाध्यायसङ्गतत्वेनैतदध्यायार्थं दर्शयति ॥ उक्तेऽर्थे इति ॥ अशेषशास्त्रप्रामाण्येन हरिरेव जगज्जन्मादिकर्तेति योऽर्थः प्रथमाध्याये प्रतिपादितस्तस्य युक्त्यादिविरुद्धत्वे न प्रेक्षावदुपादित्सागोचरत्वं स्यात् । अतस्तस्मिन्नुक्तार्थे युक्त्यादिविरोधाभावं दर्शयत्यनेनाध्यायेन सूत्रकार इत्यर्थः । एतत्पादप्रतिपाद्यं दर्शयति ॥ प्रथमेति ॥ उक्तेऽर्थे विरोधश्चतुर्विधः स्फुरति । युक्तिसमयद्विविधश्रुति (श्रुति, न्यायोपेतश्रुति) विरोधभेदात् । तत्र सर्वविरोधानां युक्तिमूलत्वेन तदविरोधं प्रथमपादे दर्शयतीत्यर्थः । आद्याधिकरणार्थं दर्शयति ॥ प्रथमत इति ॥ यद्यप्ययं पादः प्रागुक्तार्थे युक्तिविरोधं परिहर्तुमेव प्रवृत्तस्तथापि प्रथमाधिकरणे पाशुपतादिस्मृतिविरोधाभावं दर्शयति । स्मृतीनां युक्तिसमयादिरूपत्वेन तद्विरोधपरिहारस्य समस्ताध्यायार्थभूतस्य प्राथम्योपपत्तेः पादार्थस्याप्यत्र सम्भवेन न कोऽपि दोष इति भावः । अनेनास्याधिकरणस्य शास्त्रादिसङ्गतिरुक्ता भवति । वेद-प्रामाण्येन जगज्जन्मादिकर्तृत्वं विष्णोरुक्तं तस्य च पाशुपतादिस्मृतिविरोधे नोक्तजिज्ञासा सम्भवतीत्यविरुद्धतां नेतव्यम् । तद्विष्णोर्जगज्जन्मादिकर्तृत्वं विषयः । युक्तं न वेति सन्देहः । समयविगानं सन्देहबीजम् । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे ॥ स्मृतीति ॥ न विष्णोर्जगत्कारणत्वं युक्तम् । तत्प्रमाणाभावात् । न च ‘यतो वा इमानि भूतानि जायन्त’ इत्यादिश्रुतिः प्रमाणम् । श्रुतेर्विष्णोर्जगत्कारणत्वप्रतिपादकत्वे पाशुपतसाङ्ख्ययोगादिस्मृति-विरोधेनाप्रामाण्याख्यदोषप्रसङ्गादन्यार्थतोपपत्तेः । पाशुपतादिस्मृतीनां रुद्रादेर्जगत्कारणत्व-प्रतिपादकत्वात् । न च विरोधेऽप्यप्रामाण्याभावः । वस्तुनि विकल्पप्रसङ्गात् । न च देशकालादिभेदेन श्रुतिस्मृत्योरविरोधः । स्मृतिषु रुद्रादेः सकलजगज्जन्मादिकर्तृत्वाभिधानात् । न च वाच्यं श्रुति-विरोधेन स्मृतीनामेवान्यार्थत्वमप्रामाण्यं वा किं न स्यात् । विरोधे त्वनपेक्षं स्यादसति ह्यनुमानमिति न्यायादिति प्रबलविरोधेनैव दुर्बलस्यान्यार्थतादेः कल्पनीयत्वात् । न हि स्मृतिभ्यः श्रुतेः प्राबल्य-मस्ति । स्मृतीनां रुद्रकपिलकमलासनादिभिराप्तैर्विरचितानां दोषाभावगुणयुक्तत्वात् । रुद्रादीनां सार्वज्ञस्य जगद्धितोपदेष्टृत्वस्य च प्रसिद्धत्वात् । श्रुतेश्च कर्तृगुणशून्यत्वेन पिपीलिकालिपिनिभत्वात् । क्वचिच्छ्रुतिविरोधेन स्मृतेरर्थान्तरकल्पनादि तु स्मृतेः श्रुतिमूलत्व एव भवति । मूलमूलिनोर्मूलस्य प्रबलत्वात् । न च पाशुपतादिस्मृतीनां श्रुतिमूलत्वम् । रुद्रादिप्रत्यक्षस्यैव तन्मूलत्वात् । अतः पाशुपतादिस्मृतिनामाप्तप्रणीतानां प्रबलत्वेन निरवकाशत्वात् श्रुतेश्च तद्विरुद्धाभिधायकत्वेऽ-प्रामाण्यस्यैव प्रसङ्गान्न तया विष्णोर्जगत्कारणत्वं सिध्यति तस्मान्न तस्य जिज्ञास्यतेति भावः । सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ युक्तमेव विष्णोर्जगत्कारणत्वं श्रुत्युदितत्वात् । न च श्रुतेर्विष्णो-र्जगत्कारणत्वाभिप्राये पाशुपतादिस्मृतिविरोधेनाप्रामाण्यप्रसङ्गादर्थान्तरत्वमिति वाच्यम् । श्रुतिविरोधेन स्मृतीनामेवाप्रामाण्याख्यदोषप्रसङ्गात् । न च स्मृतिभ्यः श्रुतेराधिक्याभावेनाबाधकत्वम् । पञ्चरात्रादि-स्मृत्यनुकूलत्वेन पाशुपतादिस्मृतिभ्यः श्रुतेराधिक्यसिद्धेः । न च वक्तव्यं पञ्चरात्रादिस्मृत्यानुकूल्येऽपि कथं श्रुतेराधिक्यमिति । तासां विष्ण्वादिभिर्नितरां सर्वज्ञैर्जगद्धितोपदेष्टृभिः प्रणीतत्वात् । कुतो विष्ण्वादीनां रुद्रादिभ्योऽप्याप्ततमत्वम् । तदुक्तस्य श्रुतौ संवाददर्शनात् । रुद्राद्युक्तस्य संवादहीन-त्वात् । अतो वैष्णवस्मृतीनां परमाप्तैः पुरुषोत्तमादिभिः प्रणीतत्वेन निरवकाशत्वात्पाशुपतादिस्मृतीनां तद्विरोध एवाप्रामाण्यप्रसङ्गात्सुतरां तत्साहाय्यवत्या श्रुत्या विरोधेऽप्रामाण्यप्रसङ्ग इति युक्तमेव विष्णोर्जगत्कारणत्वं जिज्ञास्यत्वं चेति भावः ।
श्रीवादिराजतीर्थविरचिता
गुर्वर्थदीपिका
‘प्रथमतः स्मृत्यविरोधं दर्शयति’ इति वदता भाष्यकृता यद्यपि ‘शास्त्रयोनित्वात्’ इत्यधि-करणे ‘स्मृत्यनवकाशदोषप्रसङ्ग इति चेत्’ इत्यधिकरणे ‘पत्युरसामञ्जस्यात्’ इत्यधिकरणे च शिवादीनामेव जगत्कर्तृता न हरेरिति पूर्वपक्षरचना एकप्रकारैव । तथाऽप्यस्मदभिमतापौरुषेय-वेदाख्यशास्त्रविषयत्वान्न तेषां जगत्कर्तृत्वमिति प्रथमाधिकरणे निरूपितम् । द्वितीयाधिकरणे तु प्रबलप्रतिस्मृतिविरुद्धत्वेन तदीयपाशुपतादिस्मृतीनामप्रामाण्यं प्रतिपाद्य तेषां जगत्कर्तृत्वाभाव-निरूपणम् । तृतीयाधिकरणे तु पशुपत्यादीनामेवाज्ञानजननमरणादिदोषप्रदर्शनेनास्मदादिवज्जग-त्कर्तृत्वाभावनिरूपणमिति दूषणप्रकारभेदान्न पौनरुक्त्यमिति सूचितम् । ‘विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ इति जैमिनिसूत्रस्य तु विशेषेण विरोधे, स्मृतेः श्रुतिविरोधे, अनपेक्षम्, अनपेक्षितम् अप्रमाणं स्मृतिवचनं स्यात् । असति श्रुतिविरोधेऽसति अनुमानं मूलश्रुतेरनुमापकं स्यात् । श्रुत्यर्थस्मरणेन स्मृतीनां करणादिति प्रसिद्धिं हिशब्देनाहेत्यर्थः । क्वचित् श्रुतिविरोधेन इत्यत्र स्मृतिः श्रुत्युपजीविमन्वादिकृता गृह्यते ।
श्रीरघूत्तमतीर्थविरचितः
तत्त्वप्रकाशिकाभावबोधः
‘उक्तः समन्वयः साक्षात्’ इत्यनुव्याख्यानानुसारेणोक्तेऽर्थे इति भाष्याभिप्रायमाह– अशेषशास्त्रप्रामाण्येनेति ॥ अत्र ‘न विलक्षणत्वात्’ इत्यादौ वेदप्रामाण्य एव युक्तिविरोधस्य परिहारात् ‘असदिति चेत्’ इत्यादौ जगत्कर्तृत्वादावेव युक्तिविरोधस्य परिहारात् ‘सर्वधर्मोपपत्तेश्च’ इत्यादौ गुणपूर्णत्वादावेव विरोधनिराकरणादध्यायार्थो नैको लभ्यत इत्याशङ्कानिरासायोक्तेऽर्थ इति भाष्यमेवं व्याख्यातम् । जगज्जन्मादिकर्तेत्युपलक्षणम् । समस्तगुणपूर्ण इत्यादिकमपि बोध्यम् । तथा चाशेषशास्त्रप्रामाण्यहेतुकजगज्जन्मादिकर्तृत्वादावविरोधोऽध्यायार्थ इति नार्थभेद इति भावः ॥ तस्य युक्त्यादिविरुद्धत्व इति ॥ अनेन श्रुतिसमन्वयेनेत्यादिसुधोक्तरीत्या पूर्वाध्यायार्थस्य कार्यत्व- मेतदध्यायार्थस्य कारणत्वमिति पूर्वोत्तराध्याययोः कार्यकारणभावलक्षणसङ्गतिरुक्ता भवति । ‘चतुर्विधस्य तस्य’ इत्यनुव्याख्यानं मनसि निधायाऽऽह– उक्तेऽर्थे विरोधश्चतुर्विधः स्फुरतीति ॥ अनेन सकलशास्त्रसमन्वयेन जगज्जन्मादिकारणत्वेन समस्तगुणपूर्णत्वेऽशेषदोषविधुरत्वे च परस्य ब्रह्मणोऽभिहित एव तत्र विरोधः स्फुरतीत्यादिसुधोक्तरीत्या पूर्वाध्यायार्थस्य कारणत्वमे-तदध्यायार्थस्य कार्यत्वमिति पूर्वोत्तराध्याययोर्वैपरीत्येन कार्यकारणभावलक्षणा सङ्गतिः सूचिता भवति । यौक्तो विरोध आदौ प्रबलतया निरसनीयत्वेन प्राप्तः, अत आदौ प्रथमपादे यौक्तो विरोधः परिह्रियत इत्यर्थकं ‘तस्यादौ यौक्तः’ इत्यनुव्याख्यानं मनसि निधाय प्रथमपाद इति भाष्याभिप्रायमाह– तत्र सर्वविरोधानां युक्तिमूलत्वेनेति ॥ ‘तत्रापि च स्मृतेः’ इत्यनुव्याख्यानगतं तत्र युक्तिविरोधाभावप्रतिपादकेऽपि पाद इत्यनौचित्यशङ्कासूचकमपि मनसि निधायाह– यद्यपीति ॥ ‘तस्याश् चतुःस्वरूपत्वात्’ इत्यनुव्याख्यानानुसारेण प्रथमत इत्युक्तप्राथम्यमुपपादयति स्मृतीनां युक्तिसमयादिरूपत्वेनेति ॥ पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वोक्तार्थे युक्तीः श्रुतीश्च संवादयन्त्यो युक्तिसमयादिविरोधिचतुष्टयरूपा इत्यर्थः । वेद-प्रामाण्यवादिस्मृतिविवक्षयैवेदम् । अत एव युक्तिसमयरूपत्वस्य सर्वस्मृतिसाधारण्यात् स्वशब्देनोपादानम् । तदप्रामाण्यत्वादिस्मृतिविवक्षायां युक्तिसमयरूपोभयरूपत्वमेवेति ज्ञातव्यम् । पाशुपतसाङ्ख्य-बौद्धार्हतादिस्मृतिविरुद्धत्वादिति सुधोक्तेः ॥ समस्ताध्यायार्थभूतस्य प्राथम्यो-पपत्तेरिति ॥ पादचतुष्टयार्थसङ्गतस्याप्यस्य निष्कृष्टपादार्थाभावेन निष्कृष्यैकत्र पादेऽन्तर्भावेऽप्य-विरोधाध्यायान्तर्भावेनाध्यायस्यादावन्ते वा निवेशने कर्तव्ये प्रथमातिक्रमे हेत्वभावाद् वेदा-प्रामाण्यवादिस्मृतेर्युक्तिसमयरूपाया अप्यत्र विरोधपरिहारेणान्ते निवेशनायोगाद् युक्तिसमय-विरोधापेक्षाया विरोधचतुष्टयात्मकस्मृतिविरोधस्य प्रबलतया प्रथमं निरसनीयत्वादिति भावः ॥ न कोऽपि दोष इति ॥ अन्तर्भावरूपसङ्गत्यभावदोषो नेत्यर्थः ।
नन्विदं शास्त्रयोनित्वाधिकरणेन गतार्थम् । रुद्रादेर्जन्मादिकारणत्वस्य तत्रैव निरस्तत्वात् । न च तत्रानुमानावष्टम्भेन पूर्वपक्षे श्रुत्यवष्टम्भेन सिद्धान्तः । इह तु पाशुपतादिस्मृत्या पूर्वपक्षे पञ्चरात्रादिस्मृत्या सिद्धान्त इति वाच्यम्, अनुव्याख्याने ‘शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु’ इत्यादिना स्मृतीनामपि तत्र तस्याश् चतुःस्वरूपत्वादित्यनेन युक्तेरप्यत्र पूर्वपक्षप्रापकत्वेन, भाष्ये च ‘ऋग्यजुः सामाथर्वाश्च भारतं पञ्चरात्रकम्’ इत्यादिना पञ्चरात्रादिस्मृतीनामपि तत्र श्रुते-राधिक्यं सिध्यतीत्यनेन श्रुतेरप्यत्र सिद्धान्तप्रापकत्वेन चोक्तत्वात् । अत एव तत्र सुधायां पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्य परिहरतीत्युक्तमिति चेदुच्यते । पूर्वत्र जन्मादि-कारणत्वलक्षणस्य रुद्रादावतिव्याप्तिपरिहारः । अत्र त्वसम्भवपरिहार इति भेदात् । अत एव तत्र न्यायविवरणे रुद्रादेः सममेतल्लक्षणमित्युक्तम् । सुधायां च तत्रातिव्याप्तिमाशङ्क्य परिहर-तीत्युक्तम् । अत्र तु शिवप्रभृतीनामेव कारणत्वमित्युक्तम् । टीकायां च तत्र कारणत्वस्य भगव-देकनिष्ठत्वाभावादिति पूर्वपक्षोपसंहारः । अत्र तु न विष्णोर्जगत्कारणत्वं सिध्यतीत्येवं पूर्वपक्षोपसंहारः ।
यद्वा शास्त्रयोनित्वाधिकरणे यत्पाशुपतादिस्मृतीनामप्रामाण्यमभिप्रेतं तस्यैवात्र प्रपञ्चनान्न गतार्थता । भाष्यकारीयपाशुपतादिस्मृत्यप्रामाण्यव्युत्पादनं तु ‘जन्माद्यस्य यतः’ इति सूत्रानु-सारेण प्रथमाधिकरणे ‘ब्रह्मशब्दश्च विष्णावेव’ इत्यादिव्युत्पादनवदेतधिकरणानुसारेण शिष्य-हितार्थमिति द्रष्टव्यम् ॥ वेदप्रामाण्येनेति ॥ ‘जन्माद्यस्य यतः’ इत्यादि ‘एतेन सर्वे व्याख्याताः’ इत्यन्तसूत्रोपात्त ‘यतो वा इमानि भूतानि जायन्ते’ ‘असद्वा इदमग्र आसीत्’ इत्यादिवेदप्रामाण्येनेत्यर्थः । तथा च तेनैवानन्तरसङ्गतिरप्युक्ता भवति ॥ युक्तं न वेति ॥ अत्र जगज्जन्मादिकर्तृत्वं किं विष्णोर्न युक्तमुत युक्तमिति चिन्ता । तदर्थं पाशुपतादिस्मृतिविरोधेन यतो ‘वा’ इत्यादिश्रुतिबाध उत श्रुतिविरोधेन स्मृतिबाध इति । तदर्थं स्मृतिः प्रबलोत श्रुतिर्वेति । तदर्थं पाशुपतादिस्मृतिप्रणेतृरुद्रादीनामाप्तत्वमुत श्रुत्यनुकूलपञ्चरात्रादिस्मृतिप्रणेतृविष्ण्वादीना-मेवाप्तत्वमिति । तदर्थं रुद्राद्युक्तस्य संवाददर्शनं विष्ण्वाद्युक्तस्य तदभाव उत विष्ण्वाद्युक्तस्य संवाददर्शनं रुद्राद्युक्तस्य तदभाव इति ॥ पाशुपतसाङ्ख्ययोगादिस्मृतिविरोधेनाप्रामाण्याख्य-दोषप्रसङ्गादिति ॥ अनेन स्मृतीनां पाशुपताद्यागमानामनवकाशत्वेन तद्विरोधे श्रुतेरप्रामाण्याख्य-दोषप्रसङ्ग इति सूत्रांशयोजना सर्वज्ञा हीत्यादिभाष्येण दर्शितेत्युक्तं भवति । वेदप्रामाण्यवादि-नामपि पूर्वपक्षित्वाभिप्रायेणेयं योजना । अत एव सांख्यपाशुपतयोगादि इत्येवोक्तम् । तद-प्रामाण्यवादिनामपि पूर्वपक्षित्वे च श्रुतिः प्रमाणमिति शङ्कायास् तस्या अप्रमाणत्वादित्येव परिहारे वक्तव्ये ‘श्रुतेर्विष्णोः’ इत्याद्युक्तपरिहारस्यासङ्गतत्वात् । सुधायां तु ‘इतरेषां चानुपलब्धेः’ इति सामान्यतो निराकरणं समयानां कृतमित्युत्तरपादीयभाष्यानुरोधेन तेषामपि पूर्वपक्षित्वाभि-प्रायेण शिवादीनां जगत्कारणत्वाभावे पाशुपतादिस्मृतीनामवकाशाभावेनाप्रामाण्याख्यदोषप्रसङ्ग इति सौत्राक्षेपांशस्य विष्णोर्जगत्कारणत्वानङ्गीकारे पाशुपतादिभ्योऽन्यासां पञ्चरात्रादिस्मृती-नामवकाशान्तराभावेनाप्रामाण्याख्यदोषप्रसङ्गादिति परिहारांशस्य च योजना दर्शिता । अत एव सुधायां पाशुपतसांख्यबौद्धार्हतादिस्मृतिविरुद्धत्वादिति वेदाप्रामाण्यवादिबौद्धार्हतादिग्रहणम् । रुद्रादिवचनविरोधस्याप्रयोजकत्वमाशङ्क्य परिहरति न च विरोध इति ॥ तस्यैवासिद्धिमाशङ्क्य परिहरति ॥ न च देशकालेति ॥ अन्यार्थत्वमप्रामाण्यं वेति ॥ ‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’ इति श्रुतिविरोधेन ‘औदुम्बरी वा सर्वा वेष्टयितव्या’ इति स्मृतेर्भाट्टैरन्यार्थत्वस्य प्राभाकरैरप्रामाण्यस्य च उक्तत्वादिति भावः ॥ विरोधे त्विति ॥ श्रुतिस्मृत्योर्विरोधेऽसति स्मृतिरनुमानं स्वमूलभूत-श्रुत्यनुमापिका । तयोर्विरोधे त्वपौरुषेयतया मूलानपेक्षं श्रुतिवचनमेव मानं स्यादिति जैमिनि-सूत्रार्थः । सौत्रानवकाशपदसूचिताप्तेत्यनुव्याख्यानोक्तयुक्तिमाह– स्मृतीनामिति ॥ तदुपपाद-कत्वेन ‘सर्वज्ञा हि रुद्रादयः’ इति भाष्यं व्याचष्टे रुद्रादीनामिति ॥ ‘पिपीलिकालिपिनिभा’ इत्यनुव्याख्यानं मनसि निधायाह– श्रुतेश्चेति ॥
नन्वेवं स्मृतीनामेव प्राबल्ये कथं सर्ववेष्टनस्मृतेः श्रुतिविरोधेन स्पर्शनार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टनरूपार्थान्तरकल्पनमप्रामाण्यं वेत्यत आह– क्वचित् श्रुतिविरोधेनेति ॥ ‘आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थम्’ इत्यनुव्याख्यानं मनसि निधायाह– रुद्रादिप्रत्यक्षस्यैवेति ॥ श्रुते-राधिक्यं सिध्यतीति भाष्यं सोपस्करं व्याचष्टे– पञ्चरात्रादिस्मृत्यनुकूलत्वेनेति ॥ विष्ण्वादिभि-र्नितरां सर्वज्ञैरिति ॥ अनेन रुद्रादीनां सकाशाद् विष्ण्वादीनामेव आप्तत्वमपि व्याख्यातं भवति । श्रुत्यनुसारित्वादिति न्यायविवरणं तन्निवर्तनीयाशङ्काप्रदर्शनपूर्वकं व्याचष्टे– कुत इत्यादिना ॥ सूत्रांशाक्षराणि योजयन्नुपसंहरति– अत इति ॥
श्रीराघवेन्द्रतीर्थविरचितः
भावदीपः
यत्पादपद्मे संस्मृत्य लोकोऽवद्यान्यवद्यति ।
तं वन्दे परमा(नन्द)त्मानमिन्दिरामन्दिरोरसम् ॥ १ ॥
उक्तेऽर्थ इत्यादेरुपयोगस्यास्पष्टत्वादाह ॥ पूर्वाध्यायेति ॥ अर्थेति ग्राह्यम् । उक्तेऽर्थे मानोक्तिं विना अविरोधोक्तिरसङ्गतेत्यतो व्याचष्टे ॥ अशेषेति ॥ स्वरवर्णपदवाक्यात्मकाशेष-शास्त्रस्य शक्तितात्पर्याभ्यां कारणत्वादिना भगवत्प्रमाजनकत्वेनेत्यर्थः ॥ कर्तेति ॥ उक्तदि-शाऽनन्तगुणत्वं चोपलक्ष्यते । उक्तं च सङ्क्षेपभाष्ये ‘उक्ता गुणाश्चाविरुद्धास्तस्य वेदेन सर्वशः’ इति ॥ प्रतिपादित इति ॥ न्यायैरुपपादित इत्यर्थः । न प्रेक्षावदिति नञो न स्यादिति क्रिय-यान्वयः ॥ अत इति ॥ अविरोध एवोक्तार्थस्योपादेयत्वसम्भवादित्यर्थः । अनेन पूर्वाध्याय एतन्निरसनीयविरोधशङ्काविषयभूतार्थोपस्थापकतयाऽस्य हेतुः । अयं वोक्तार्थे विरोधनिरासे-नोक्तार्थस्थैर्यसाधकत्वात्तस्य हेतुरित्यध्याययोर्हेतुहेतुमद्भावरूपा सङ्गतिरुक्तेति ध्येयम् । विवृता चैवमेव सुधायां सङ्गतिः । परं तु ‘उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यत’ इत्यनुभाष्य-सुधयोः समन्वेयप्राधान्येन सङ्गतिरुक्ता । अत्र तु भाष्यटीकयोः समन्वयार्थप्राधान्येनेत्येव भेदः । यद्यपि ‘विकारशब्दान्नेति चेन्न प्राचुर्यात्’ ‘उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्’ ‘साक्षादप्यविरोधं जैमिनिः’ ‘कल्पनोपदेशाच्च’ ‘मध्वादिवदविरोधः’ इत्यादिभिर्विरोधाभावं पूर्वत्राप्यदर्शयत्सूत्रकारः । तथापि क्वचित्क्वचिदेवात्र तु सर्वथेति सुधायामेव व्यक्तम् । युक्ती-त्युक्त्या सूचितावान्तरभेदं वक्ष्यमाणद्वितीयादिपादाद्यभाष्यदिशा विभज्यात्र दर्शयन्नत्र प्राथम्ये बीजमाह ॥ उक्तेऽर्थ इति ॥ द्विविधेति ॥ केवलश्रुतियुक्तियुक्तश्रुतिभेदादित्यर्थः । क्वचित्तु श्रुतिन्यायोपेतश्रुतिविरोधेति पाठः । स्मृत्यविरोधोक्तेर् असाङ्गत्यमाशङ्क्य व्याचष्टे ॥ यद्यपीत्या-दिना ॥ युक्तीति ॥ शैवादिस्मृतयः स्वयमभियुक्तवाक्यतया स्मृति (समय) रूपा अपि स्वोक्तार्थे युक्तीः श्रुतीश्च संवादयन्तीति युक्तिसमयादिरूपत्वेनेत्युक्तम् ॥ प्राथम्येति ॥ महामल्लभङ्गन्यायेनैकैकविरोधनिरासकात्प्राथम्योपपत्तेरित्यर्थः ॥ न कोऽपीति ॥ अध्याये पादेऽनन्तर्भावदोषो वा अप्राथम्यदोषो वा नेत्यर्थः ॥ अनेनेति ॥ प्रथमत इति भाष्येण । शैवादिस्मृतिविरोधस्य युक्त्यादिविरोधरूपत्वात् हरेर्जगज्जन्मादिकर्तृत्वे युक्त्यादिविरोधात्मक-स्मृतिविरोधपरिहारकथनाच्छास्त्राध्यायपादसङ्गतिरित्युक्तं भवतीत्यर्थः । श्रुत्यधिकरणसङ्गती आह ॥ वेदेति ॥ जन्मादिसूत्रे ‘यतो वा इमानि भूतानि’ इत्यादिवेदवाक्यानां कारणतया विष्णोरेव प्रमापकत्वेनेत्यर्थः । एतेनैतद्विचारस्य फलमपि दर्शितं भवति । अस्य शास्त्रयोनिसूत्रादगतार्थत्वं तत्रैव चन्द्रिकायां व्यक्तम् । भाष्यं व्याख्यातुं परिष्करोति ॥ नेति ॥ तेषां वचनेत्येतत्सौत्र-स्मृतिपदस्य व्याख्यानमिति भावेनार्थमाह ॥ पाशुपतेति ॥ विरोध इति निमित्तसप्तमीति भावेन विरोधे नेत्युक्तम् । ‘अप्रामाण्यमेव स्यात्’ इत्येतत् ‘दोषप्रसङ्गात्’ इत्यस्य व्याख्येति मत्वाऽऽह ॥ अप्रामाण्याख्येति ॥ अन्यार्थतेति ॥ श्रुतेरित्यनुषङ्गः । स्मृत्यनुरोधेन शिवादिकर्तृत्वार्थकत्वो-पपत्तेरित्यर्थः विरोधं व्यनक्ति ॥ पाशुपतेति ॥ विरोधस्यासिद्धिं निरस्याप्रयोजकत्वं निराह ॥ न चेति ॥ वस्तुनीति ॥ पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवदित्यादौ वक्ष्यमाणदिशा गुरूपादानत्यागादिरूपक्रियाया अव्यवस्थितविकल्पस्य विकल्पो विशिष्टफलत्वादित्यादौ वक्ष्य-माणदिशा फलविशेषकामनादिना नृसिंहध्यानादिक्रियाया व्यवस्थितविकल्पस्य सम्भवेऽपि विष्ण्वादिरर्थः कर्ताऽकर्ता वेति वस्तुनि विकल्पो न युक्त इत्यर्थः । वस्तुन्यपि व्यवस्थित-विकल्पमाशङ्क्य निराह ॥ न च देशेति ॥ सौत्रानवकाशपदव्याख्यानं सर्वज्ञा हीत्यादिभाष्यं तद्व्यावर्त्योक्तिपूर्वं व्याचष्टे ॥ न च वाच्यमिति ॥ प्रामाण्यमुपेत्याह ॥ अन्यार्थत्वमिति ॥ विरोधे त्विति ॥ पूर्वतन्त्रे प्रथमे तृतीयपादे धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति स्मृतिनये सर्वस्मृतीनां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमुक्त्वा विरुद्धानामप्रामाण्यं वक्तुमिदं सूत्रम् । स्मृतेः श्रुतिविरोधे सति अनपेक्षं स्मृतिप्रामाण्यमनादरणीयं स्यात् । न चैवं तत्रत्यपूर्वाधिकरणविरोधः । असति ह्यनुमानम् । स्मृतेः श्रुतिविरोधे असति अविद्यमान एव स्मृतिरनुमानं मूलभूत-श्रुत्यनुमापिका सती प्रमाणमित्युक्तं स्मृत्यधिकरण इत्यर्थः । जैमिनीयन्यायवैषम्यं वक्तुकामः भाष्यस्थतेषामिति पदे प्रकृतिप्रत्ययार्थं वदन् तत्तात्पर्यमाह ॥ स्मृतीनामिति ॥ भ्रमप्रमादादि-दोषाभावेन यथार्थज्ञानपूर्वकत्वरूपगुणेन च युक्तत्वादित्यर्थः । सर्वज्ञा हीत्यादि व्यनक्ति ॥ रुद्रादीनामिति ॥ हिशब्दार्थः प्रसिद्धत्वादिति । सार्वज्ञमुपलक्षणं मत्त्वोक्तम् ॥ जगदिति ॥ श्रुतेश्चेति ॥ ‘आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रुतिः । पिपीलिकालिपिनिभा वारयेत्सर्व-गाहित’ इत्यनुभाष्योक्तेरिति भावः । जैमिनीयन्यायस्य गतिमाह ॥ क्वचिदिति ॥ भट्टमते अर्थान्तरकल्पनं प्राभाकरमते अप्रामाण्यमादिपदार्थः । अस्य पूर्वोक्तविरोधनिरासकत्वद्योतनाय प्रतिज्ञाहेतू बहिरेवाह ॥ युक्तमिति ॥ भाष्योपात्तस्य सौत्रनञः पूर्वकृतचोद्येनान्वय इति भावेनाह ॥ न च श्रुतेरिति ॥ तत्र हेतुत्वेन दोषप्रसङ्गादिति सूत्रांशम् आकाङ्क्षितपूर्त्या योजयति श्रुति-विरोधेनेति ॥ प्रसङ्गादिति ॥ प्रकृष्टसम्बन्धादित्यर्थः । इदानीं तु श्रुतेरित्यादिभाष्यां (शव्या-वर्त्यपूर्वं) शम् अवतार्य शेषपूर्त्या व्याचष्टे ॥ न चेति ॥ अन्येत्याद्यंशं व्यावर्त्यपूर्वं व्याचष्टे ॥ न च वक्तव्यमिति ॥ विष्णुमनुप्रभृतिभिरित्यर्थः । नितरां निरतिशयं निस्संशयं वा । भाष्य-स्थैवकारभावमाह ॥ जगदिति ॥ श्रुत्यनुसारित्वादित्यन्यत्रोक्तं हेतुमत्र व्यावर्त्यशङ्कापूर्वं योजयति ॥ कुत इति ॥ भाष्ये नितरां सर्वज्ञैरेवेत्येतद्रुद्रादीनां सकाशाद्विष्ण्वादीनामेवाप्तत्वमित्य-न्यत्रोक्ताप्तशब्दार्थविवरणमिति भावेनाप्ततमत्वमित्यनुवादः । यत्तु श्रुतावनुक्तमेव जीवोत्पत्त्यादि पञ्चरात्रे कथ्यत इत्यादि तत्तु अनुव्याख्यानसुधाचन्द्रिकासु समयपादान्ते निरस्तं ध्येयम् । अन्यस्मृतीनामित्यादिसूत्रांशस्य शेषपूर्त्या बाधातिबाधयोरुक्तिपरत्वेन द्वेधार्थं वदन् उपसंहरति ॥ अत इति ॥ तदुक्तस्येत्यादिहेतुद्वयपरामर्शः । आप्तत्वे हेतुरयं निरवकाशत्वादिति । अप्रामाण्याख्यस्य वाऽर्थान्तरपरत्वरूपस्य वा अवकाशस्याभावादित्यर्थः । अत्रापि प्रसङ्गशब्दः प्रकृष्टसङ्ग(सम्बन्ध)वाची । एतेन श्रुतेरित्यतःपूर्वं भाष्यं बाधोक्तिपरं श्रुतेरित्यादि त्वति-बाधोक्तिपरमिति भाष्याभिप्राय उक्तो ध्येयः ॥
श्रीमत्सत्यनाथतीर्थयतिविरचिता
श्रीमत्तत्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिका
सीतया सहितं मूलराममिक्ष्वाकुपूजितम् ।
आनन्दतीर्थमुनिपं नमामि ज्ञानसिद्धये ॥ १ ॥
यदनुग्रहमात्रेण सद्भिरिष्टमवाप्यते ।
भक्त्या नमामि तं सत्यनिधिं लोकगुरुं मुदे ॥ २ ॥
पूर्वाध्यायेति ॥ ‘ब्रह्मस्वरूपनिरूपणेऽनवशेषात् किमध्यायशेषेणेत्यतः’ इति वर्तते । ततश्चैवं योजना प्रथमाध्यायेन ब्रह्मस्वरूपस्य निरूपितत्वेन ब्रह्मस्वरूपनिरूपणेऽनवशेषादध्यायसंज्ञकेन किमनेन शास्त्रशेषेणेत्यतः पूर्वाध्यायसङ्गतत्वेन एतदध्यायप्रतिपाद्यं तावद्दर्शयतीति ॥ विरोधाभावं दर्शयत्यनेनेति ॥ युक्त्यादिबाधितत्वतत्प्रतिरुद्धत्वाभावं दर्शयतीत्यर्थः । एतेन प्रमाणाप्रमाणयोः सर्वदा विरोधस्य सत्त्वेन तदभावप्रदर्शने सूत्रकारस्य प्रतारकत्वं स्यादिति निरस्तम् ॥ एतत्पादप्रतिपाद्यं दर्शयतीति ॥ ‘तर्ह्यध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यतः’ इति वर्तते । ‘अविरोधेऽप्यवान्तरभेदेन पादभेद उपपन्न इति भावेन’ इति ग्राह्यम् । तस्यैतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः ॥ उक्तेऽर्थे विरोधश्चतुर्विधः स्फुरतीति ॥ ननु युक्तिसमयविरोध एव उक्तेऽर्थे विरोधः न तु श्रुतिविरोधः न्यायोपेतश्रुतिविरोधश्च । तयोश्चाधिभूतादिविषयत्वात्, इति चेत्,
नारायणं नरसखं ध्यात्वा नत्वा पुनः पुनः ।
असमर्थः समाधातुं वक्ष्येऽहं तदनुग्रहात् ॥
तथा हि – न ब्रूमो वयमुक्तेऽर्थे साक्षाद्विरोध इति । येनोक्तदोषः स्यात् । किं नाम युक्तिसमयाभ्यां विरोधौ साक्षाद्विरोधौ । श्रुतिन्यायोपेतश्रुतिविरोधौ तु श्रुत्यप्रामाण्यप्रसञ्जनद्वारा श्रुत्यवष्टम्भेनोक्तस्य जगत्कारणत्वाद्यर्थस्याऽऽक्षेपहेतू इति परम्परया विरोधौ । अत एव टीकाकारस् तेषु केष्वधिकरणेषु तथैव वक्ष्यतीति ॥ सर्वविरोधानां युक्तिमूलत्वेनेति ॥ विरोधोऽत्र बाधः, प्रतिरोधो वा । तज्ज्ञानं च प्रबलत्वसमबलत्वज्ञानाभ्याम् । प्रबलत्वसमबलत्वज्ञाने च न युक्तिं विना भवत इति सर्वविरोधस्य युक्तिमूलत्वमुपचारेणोक्तमिति द्रष्टव्यम् । एतेन श्रुतेः स्वतः प्रबलत्वेन तद्विरोधस्य युक्त्यनुपजीवित्वात् प्रत्यक्षश्रुतिमूलकसमयाभ्यां विरोधस्य प्रत्यक्षश्रुतिमूलत्वेन युक्त्यनुपजीवित्वात् सर्वविरोधानां न युक्तिमूलत्वमिति परास्तम् । ‘प्रथमतः स्मृत्यविरोधं दर्शयति’ इति भाष्यस्य प्रथमतः प्रथमभागे कतिपयाधिकरणेषु स्मृत्यविरोधं दर्शयतीत्यर्थ इति भ्रमं निराकर्तुमाह– आद्याधिकरणार्थमिति ॥ यद्यपीति ॥ यद्यप्ययं पादः युक्तिविरोधमेव परिहर्तुं प्रवृत्त इति नास्याधिकरणस्य प्रथमं निवेशो युक्त इति भावः ॥ तथापीति ॥ स्मृतीनां युक्तिसमयादिरूपत्वेन तद्विरोधपरिहारस्य समस्ताध्यायार्थभूतस्य प्राथम्योपपत्तेः प्रथमाधिकरणे पाशुपतादिस्मृतिविरोधाभावं दर्शयतीति सम्बन्धः । द्वितीयाधि-करणमारभ्यैव पादारम्भः, समस्ताध्यायार्थप्रतिपादकस्यास्याधिकरणस्य निष्कृष्य पादेष्वन्तर्भावा-सम्भवादादौ वा अन्ते वा निवेशे प्राप्ते प्रथमातिक्रमे कारणाभावात् प्रथमतो निवेशः कृत इति भावः । मूलस्य निष्कृष्य पादान्तर्भावासम्भवेऽपि कथञ्चिदन्तर्भावसद्भावात् प्रथमतः स्मृत्यविरोधं दर्शयतीति योजनान्तरं मनसि कृत्वा आह – पादार्थस्येति ॥ पादार्थस्याप्यत्र सद्भावात् पादानन्तर्भावलक्षणदोषोऽपि नेति भावः । अस्मिंस्तु व्याख्याने आद्याधिकरणमारभ्यैव पादारम्भ इति द्रष्टव्यम् ।
अस्यार्थः – न श्रुतेर्विष्णोर्जगत्कारणत्वे तात्पर्यम् । तथात्वे श्रुतेः सर्वज्ञप्रणीतत्वेन प्रबलया विस्पष्टत्वेन निरवकाशया स्मृत्या विरुद्धत्वेनाऽप्रमाण्यप्रसङ्गः । अतो न तत्र तात्पर्यमिति चेत्, न । विष्णुकारणत्वे तात्पर्यं परित्यज शिवादिकारणत्वे तात्पर्याङ्गीकारे विष्ण्वादिभिः प्रणीतया व्याख्यानरूपया अन्यस्मृत्या अतिसर्वज्ञप्रणीतत्वेन पाशुपतादिस्मृतितोऽप्यनवकाशया विरुद्धत्वेन श्रुत्यप्रामाण्यप्रसङ्गः स्यात् । तथा च श्रुत्यैव पाशुपतादिस्मृतिबाधे युक्तः । श्रुतेर्व्याख्येयत्वेन दुर्बलत्वेऽपि विष्ण्वादिप्रणीतस्मृतिसाहित्येन प्राबल्यादिति । विष्णुपरत्वे विरोधः शिवादिपरत्वे चाऽविरोधः कथमित्यत आह – पाशुपतादिस्मृतीनामिति ॥ वस्तुनि विकल्पप्रसङ्गादिति ॥ विरुद्धद्विरूपत्वप्रसङ्गादित्यर्थः ॥ विरोधेत्विति ॥ ‘श्रुतिस्मृत्योर्विरोधेऽसति स्मृतिरनुमानं स्वमूलभूतश्रुत्यनुमापिका तयोर्विरोधे तु पौरूषेयतया मूलानपेक्षं श्रुतिवचनमेव मानं स्यात्’ इति जैमिनिसूत्रार्थः ॥ पिपीलिकालिपिनिभत्वादिति ॥ अस्पष्टत्वमात्रेऽयं दृष्टान्तः, न तु अर्थविवक्षाभाव इति बोध्यम् । एतेन ‘अन्यार्थतोपपत्तेः’ इत्यर्थविवक्षा-प्रतिपादकपूर्वग्रन्थविरोध इति निरस्तम् ॥ क्वचिदिति ॥ सर्ववेष्टनविषये । ‘औदुम्बरी सर्वा वेष्टयितव्या’ इति स्मृतेः, ‘औदुम्बरीं स्पृष्ट्वोद्गायेत्’ इति श्रुतिबाधेनार्थान्तरकल्पनमित्यर्थः ॥ प्रबलत्वेन निरवकाशत्वादिति ॥ श्रुत्या बाधावकाशराहित्यादित्यर्थः । ‘अन्यस्मृत्य-नवकाशदोषप्रसङ्गात्’ इति सूत्रखण्डस्य फलितमाह ॥ श्रुतिविरोधेन इति ॥ श्रुतौ संवाददर्शनादिति ॥
ताम्रपर्णी श्रीनिवासाचार्यविरचिता
वाक्यार्थमुक्तावली
युक्तिभिस्ससमयैः शुद्धवेदैर्युक्त्युपबृंहितैः ।
यद्गुणा न विरुद्ध्यन्ते तमुपासे श्रियः पतिम् ॥
पूर्वाध्यायेति ॥ ब्रह्मस्वरूपनिरूपणे शेषोक्तिं द्वितीयेनेत्यत इति पूरणीयम् । ‘उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यत’ इत्यनुभाष्ये समन्वयप्राधान्येन सङ्गतिरुक्ता । अत्र तु समन्वयार्थप्राधान्येनेति भेद इति भावेनोक्तेत्यर्थ इति भाष्यभावमाह ॥ अशेषेति ॥ शास्त्रयो-नित्वादिति जगज्जन्मादिकारणत्वमुख्यानन्तगुणपूर्णत्वे शास्त्रं प्रमाणीकृत्य समन्वयमुखेनेत्यर्थः । तेन न विलक्षणत्वादित्यादौ वेदप्रामाण्यसमर्थनमप्युक्तेऽर्थे विरोधपरिहारायेति सूचितम् । यद्वक्ष्यति अत्र विष्णोर्जगत्कारणत्वे प्रमाणत्वेनोक्तवेदादिप्रामाण्यस्य युक्तिविरोधपरिहारादिति । जगत्कर्तेत्युपलक्षणम् । अनन्तगुणपूर्णोऽशेषदोषदूरश्च’ इत्यपि ग्राह्यम् । आनन्दमयादिशब्दसमन्वय- मुखेनानन्तगुणानाम्, अदृश्यत्वादिगुणको, अन्यभावव्यावृत्तेश्चेत्यादौ दोषाभावानां चोक्तत्वात् । अत्रापि सर्वधर्मोपपत्तेश्च’ इत्यत्र साक्षाद्विरोधपरिहाराच्च । दोषवर्जितमित्येतद्द्वितीयाध्यायार्थकथन-मित्येतत्प्राचुर्यविवक्षया । समन्वयविरोधिदोषविवक्षया पूर्वाध्याये विकारशब्दान्नेति चेत्, साक्षादप्य-विरोधं जैमिनिः’ इत्यादौ विरोधापाकरणेऽपि क्वचित् किञ्चिदेव न सर्वत्रेति सुधायामेव व्यक्तम् ॥ तस्येति ॥ अनेनायमध्यायो विरोधनिरासेन समन्वयसाधकत्वात्तस्य हेतुः पूर्वाध्यायश्च कार्यमिति कार्यकारणभावलक्षणसङ्गतिरुक्ता भवति ॥ विरोधाभावमिति ॥ युक्त्यादिबाधितत्व-तत्प्रतिरोधाभावमित्यर्थः ॥ एतत्पादेति ॥ तर्ह्यध्यायस्यैकार्थत्वात्पादभेदः किं निबन्धन इत्यत इत्यनुषज्जते ॥ प्रथमपाद इति ॥ भाष्ये उक्तेऽर्थ इत्यनुवर्तते इति भावेन युक्तीति विशेष्योक्त्या सूचितमवान्तरभेदमाह ॥ उक्तेऽर्थ इति ॥ एतेन पूर्वाध्याये निरसनीयविरोधशङ्काविषयी-भूतार्थोपस्थापकतया अस्य हेतुरिति पूर्वोत्तराध्याययोर्वैपरीत्येन कार्यकारणभावलक्षणसङ्गतिरुक्ता भवति ॥ समयेति ॥ अलौकिकार्थगोचरबहुजनपरिगृहीतवाक्यसन्दर्भस्समयः । तद्विरोधः समयविरोधः ॥ द्विविधेति ॥ केवलश्रुतिविरोधः । युक्तीनां श्रुत्या-दावुक्ततया सयुक्तिकश्रुतिविरोध इति द्विविधः श्रुतिविरोध इत्यर्थः । यद्यपि तृतीयचतुर्थयोरधिभूताध्यात्मविषयश्रुतिविरोध-निरासकत्वान्न साक्षादुक्तार्थविषयकत्वम् । तथापि श्रुत्यप्रमाण्यप्रसञ्जनद्वारा श्रुत्यवष्टम्भेनोक्त-जगत्कारणत्वाद्यर्थस्याक्षेपसमाधायकत्वात् पर्यवसानेनोक्तार्थविषयकत्वम् । अत एव टीकाया-मशेषशास्त्रप्रामाण्येनेत्युक्तम् । उत्तरत्र तृतीयचतुर्थयोः प्रत्यधिकरणं तथैव वक्ष्यतीति ज्ञेयम् ।
प्रथमपादे युक्त्यविरोधमिति सूचितं युक्तिप्राबल्ये नियामकमाह ॥ सर्वेति ॥ समयस्य युक्त्यवष्टम्भेन प्रवृत्तत्वात् । तृतीये शङ्क्यमानश्रुतिविरोधस्यापि युक्त्युपोद्बलेनैव सिद्धान्त्यभिमत-जगत्कारणत्वादिप्रतिपादकश्रुतिबाधकत्वात् । अत एव अनादिर्वाऽयमाकाश इति श्रुतेर् विभुत्वानुमानसाहित्येन ‘आत्मन आकाशस्सम्भूतः’ इति श्रुतिबाधकत्वं वक्ष्यत इति भावः ।
प्रथमतः स्मृत्यविरोधमित्यत्र प्रथमतः कतिपयैरधिकरणैरित्यन्यथाप्रतीतिं वारयन्नवतारयति आद्याधिकरणार्थमिति ॥ युक्तिविरोधपरिहारपादे कथं स्मृतिविरोधपरिहारस्यान्तर्भावः । अन्तर्भावे वा कथं प्राथम्यमित्याशङ्क्य परिहरति ॥ यद्यपीति ॥ तथापीति ॥ तथापित्यतः परं स्मृतीनामिति वाक्यं सम्योज्यातः परं प्रथमाधिकरण इति वाक्यं सम्योजनीयम् ॥ युक्ति-समयादीति ॥ पाशुपतादीनामनादिकालतो वृत्तसमयोपोद्बलकत्वाद् आपाततः श्रुतियुक्ति-संवादित्वाच्च युक्तिसमयादिरूपत्वात्तद्विरोधपरिहारस्य पादचतुष्ट्यात्मकाध्यायार्थभूतस्यैकैकविध-परिहारमात्रपरेष्वेतेषु पादेषु निवेशायोगेन समस्तशास्त्रार्थभूतजिज्ञासाद्यधिकरणानां शास्त्रादौ निवेशनवदस्याप्यधिकरणस्याध्यायादौ निवेशनमुपपद्यते । किञ्च स्मृतेश्च तु स्वरूपत्वेन प्रबल-त्वान्महामल्लभङ्गन्यायेन प्रथमनिरसनीयत्वादध्यायादौ निवेश उपपद्यत इति भावः ।
ननु जिज्ञासाद्यधिकरणानामध्यायपादपीठत्वेनोपोद्घातस्यासङ्गत्याऽध्यायपादान्तनिर्वेशः सम्भवति कथमस्याधिकरणस्य पादान्तर्निवेश इत्यत आह ॥ पादार्थस्यापीति ॥ इतरपादार्थ-प्रतिपादेऽप्येतत्पादार्थस्याप्यत्र सद्भावेनेत्यर्थः ॥ न कोऽपीति ॥ प्राथम्यायोगदोषः, पाद-बहिर्भावदोषश्चेत्यर्थः । अत्र ‘इतरेषां चानुपलब्धेः’ इति सामान्यतः समयानां निराकरणं कृतमिति वक्ष्यमाणरीत्या सर्वसमयनिराकरणेऽपि वेदप्रामाण्यवादिशैवादिस्मृतिविवक्षया युक्त्यादि- चतुरूपत्वं तदप्रामाण्यवादिस्मृतिविवक्षया तु युक्तिसमयोभयरूपत्वमेवेति ज्ञेयम् ।
ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ
नन्विदं सूत्रं शास्त्रयोनित्वाधिकरणेन गतार्थम् । रुद्रादेर् जन्मादिकारणत्वस्य तत्रैव निरस्त-त्वात् । न च तत्रानुमानावष्ठम्भेन पूर्वपक्षे प्राप्ते श्रुत्यवष्टम्भेन सिद्धान्त इह तु पाशुपतादिस्मृत्या पूर्वपक्षे पञ्चरात्रादिस्मृत्या सिद्धान्त इति मानभेदेनागतार्थत्वम् । मानमेयविशेषेण पुनरुक्तिर्न जायते इति वचनस्य सत्त्वादिति वाच्यम् । पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्य परिहरतीति तदधिकरणीयसुधायाम् ।
तत्र स्मृत्यवष्टम्भेन पूर्वपक्षस्य तस्याश्चतुस्स्वरूपत्वादित्यनुव्याख्याने युक्तिसमयादिरूपत्वेनेति टीकायां च । अत्रापि युक्त्यवष्टम्भेन पूर्वपक्षस्य ‘ऋग्यजुस्सामाथर्वाश्च पञ्चरात्रं च’ इत्यादिना तत्र पञ्चरात्राद्यवष्टम्भेन सिद्धान्तस्य श्रुतेराधिक्यं च सिध्यतीत्यादिना अत्रापि श्रुत्यवष्टम्भेन सिद्धान्तस्योक्त्या मानविशेषाभावात् । न चातिव्याप्तिमाशङ्क्य परिहरतीति तदधिकरणीय-सुधायां जन्मादिकारणत्वस्य भगवदेकनिष्ठत्वाभावादित्यन्येषामप्यस्तीति पूर्वः पक्ष इति टीकायामुक्तेस् तत्रातिव्याप्तिनिरासः ।
अत्र तु न विष्णोर्जगत्कारणत्वं सिध्यतीत्युक्त्याऽसम्भवमाशङ्क्य निरास इति प्रमेय-भेदेनागतार्थत्वमिति वाच्यम् । न्यायविवरणटीकायामतिव्याप्तिरित्यापाततः । वस्तुतस्तु जीव-विशेषेऽसम्भवान्नालौकिकं कल्पयितुमलमित्युक्त्या तत्राप्यसम्भवनिरासे तात्पर्यस्योक्तत्वात् तद्गतार्थतैवेति चेन्न । तत्र अनुमानतोऽन्ये न कल्पनीया इति भाष्यानुसारेण युक्तिप्राधान्येन पूर्वः पक्षः । स्मृतेरुपसर्जनत्वम् । अत्र तु स्मृतेर्मुख्यतः युक्तेस्तु स्मृत्या स्वोक्तार्थयुक्तिसंवाद-कत्वेनोपसर्जनत्वमिति भेदः । किञ्च तत्र पाशुपतादिस्मृत्यप्रामाण्यं जगत्कारणत्वस्य शास्त्रयोनित्वोक्त्याभिप्रेतम् । अत्र तु मुख्यत उच्यत इति भेदः । भाष्यकारैः स्पष्टं नैव शास्त्रं कुवर्त्म तदिति । स्पष्टमैतत्सूत्रानुसारेणेति बोध्यम् । किञ्च तत्र भिक्षुपादप्रसरणन्यायेन लक्षण-स्यान्यगामित्वमुक्त्वाऽसम्भवे तात्पर्यतः सिद्धान्तिनातिव्याप्तिपरिहारः । अत्र स्पष्टमसम्भवचोदने तदुद्धार इति भेदः ॥ युक्तमिति ॥ अत्र जगत्कारणत्वं विष्णोर्युक्तमुत न युक्तमिति चिन्ता । तदर्थं पाशुपतादिस्मृतिविरोधेन ‘यतो वा’ इत्यादि श्रुतेर्बाधः । उत पञ्चरात्रस्मृत्यानुकूल्येन स्वतश्च प्रबलया श्रुत्या अन्यस्मृतिबाध इति । तदर्थमाप्तोक्तत्वादन्यस्मृतेः प्रामाण्यं तद्विरोधात् पञ्चरात्रादेरप्रामाण्यम् । श्रुतेश्च आप्त्यमूलाया अन्यार्थता उत पाशुपताद्युक्तानुपलब्ध्या तद-प्रामाण्यमिति स्मृत्यनवकाशदोषप्रसङ्ग इत्युक्त्यापाद्यस्यापादकापेक्षत्वात्तत्प्रदर्शनपूर्वं व्याचष्टे ॥ श्रुतेरिति ॥ भाष्ये विरोध इति निमित्तसप्तमीति भावेन विरोधेनेत्युक्तं विपर्यये पर्यवसानं सूचयितुमुक्तम् । अन्यार्थतोपपत्तिरिति विरोधं व्यनक्ति ॥ पाशुपतेति ॥ विरोधस्यासिद्धिं निरस्याप्रामाण्यं स्यादेवेत्येवकारसम्बन्धं मत्वा अप्रयोजकत्वं निरस्यति ॥ न चेति ॥ वस्तुनि विकल्पेति ॥ जगत्कारणाख्यैकवस्तुनि शिवत्वविष्णुत्वाख्यविरुद्धद्विरूपमप्रसङ्गादित्यर्थः । यद्वा विष्णोरेव कारणत्वं शिवस्यैव कारणत्वमित्युभयाङ्गीकारे कारणस्य स्वतन्त्रत्वेनैकस्यैव स्वातन्त्र्यपारतन्त्र्यापातादित्यर्थः । अप्रामाण्यमेव न चाव्यवस्था इत्येवकारार्थं मत्वाऽऽह
॥ न चेति ॥ देशकालादीत्यादिपदेन कार्यं गृह्यते ॥ सकलेति ॥ सार्वकालिकसार्वदैशिक-सर्वकार्य इत्यर्थः ।
सौत्रानवकाशपदव्याख्यानपरं सर्वज्ञादीत्यादिभाष्यं व्याख्यातुमाह ॥ न च वाच्यमिति ॥ ‘औदुम्बरीं स्पृष्ट्वा उद्गायेत्’ इति श्रुतिविरोधेन ‘औदुम्बरी सर्वावेष्टयितव्या’ इति स्मृतेर्भाट्टैरन्यार्थ-त्वस्य प्राभाकरैरप्रामाण्यत्वस्योक्तत्वादित्यर्थः ॥ विरोधेत्विति ॥ श्रुतिस्मृत्योर्विरोधेऽसति । स्मृति-रनुमानं स्वमूलभूतस्मृत्यनुमापिका । तयोर्विरोधेत्वपौरुषेयतया मूलानपेक्षं श्रुतिवचनमेव प्रमाणं स्यादिति जैमिनिसूत्रार्थः । यदा श्रुतिस्मृत्योर्विरोधे स्मृतिवचनमनपेक्षमन्यार्थमप्रमाणं वा । असति तु विरोधे अनुसृत्यमानमित्यर्थः ॥ दोषाभावेति ॥ दोषाभावगुणाभ्यां युक्तत्वादित्यर्थः । सर्वज्ञा हीति भाष्यं व्यनक्ति ॥ रुद्रादीनामिति ॥ पिपीलिकेति ॥ आप्तमूलकत्वे दृष्टान्तः । विरोधाधिकरणन्यायविरोधं वैषम्योक्त्या परिहरति ॥ क्वचिदिति ॥ विरोधाधिकरणे श्रुतिमूल-त्वेनाभिमतायाः सर्ववेष्टनस्मृतेः स्पर्शनश्रुतिविरोधेन स्पर्शनार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टन-रूपमर्थान्तरमप्रामाण्यं चोक्तम् । पाशुपतादिस्मृतिस्तु शिवादिप्रत्यक्षमूला न तु सर्ववेष्टनस्मृतिरिव श्रुतिमूलतो वैषम्यमिति भावः । पूर्वपक्षफलप्रदर्शनमुखेन पूर्वपक्षसूत्रांशं विवृणोति ॥ अत इति ॥
अनेन पाशुपतादिस्मृतीनामाप्तिमूलतया अर्थान्तरे निरवकाशत्वेनाप्रामाण्येन वाऽनवकाशत्वेन तद्विरोधे श्रुतेरप्रामाण्याख्यदोषप्रसङ्गादतदर्थत्वान्न विष्णोर्जगत्कारणत्वमिति नञाकर्षेणार्थ उक्तो भवति ।
सिद्धान्तभाष्यं व्याख्यातुं प्रतिज्ञाहेतू बहिरेवाह ॥ युक्तमिति ॥ नेत्येतद्व्याचष्टे ॥ न चेति ॥ अन्यानवकाशेत्यंशं विहाय सिद्धान्तांशमध्याहारपूर्वं व्याचष्टे ॥ श्रुतिविरोधेन इति ॥ निमित्तसप्तमी श्रुतेर्विरोधादित्यर्थः ॥ दोषप्रसङ्गादिति ॥ अप्रामाण्यदोषस्य प्रकर्षेण लग्नत्वादित्यर्थः ।
अन्यस्मृत्यनवकाशेत्येतद्व्याख्यापरम् अन्यस्मृतीनामित्यादिभाष्यं योजयितुमाह ॥ न च स्मृतिभ्य इति ॥ कुतो न वाच्यमित्यत अन्यस्मृतीनां श्रुतेराधिक्यमित्यंशं व्याचष्टे ॥ पञ्च-रात्रादीति ॥ तेनान्यस्मृतीनां पञ्चरात्रादिस्मृतीनामानुकूल्यात् पाशुपतादिस्मृतिभ्यः स्मृते-राधिक्यमिति भाष्यं योजितं भवति । अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वज्ञैरेव कृतत्वादिति यथास्थितान्वयेन व्याचष्टे ॥ न च वाच्यमिति ॥ सर्वज्ञैरित्युक्त्यैव विवक्षादिकमपि ग्राह्यम् । संसारिणमधिकारिजनमवलोक्यातः परमकारुणिकस्य तदीयहितसाधनमनुपदिश्यावस्थानानु-पत्तेरिति भावेन जगद्धितोपदेष्ट्रभिरित्युक्तं भाष्ये । श्रुतेराधिक्यं च सिध्यतीति चशब्दस्य न केवलं वैष्णवस्मृतिविरोधेनैवान्यस्मृतीनामप्रामाण्यम् । किन्तु तत्साहाय्येन श्रुतेराधिक्यं च सिद्ध्यतीति सुतरां तद्विरोधेनाप्रामाण्यमित्यर्थं मत्वोपसंहारव्याजेन पिण्डीकृत्य सूत्रार्थमाह अत इति ॥ ततश्च पाशुपताद्यन्यपञ्चरात्रादीनामप्रामाण्यादर्थान्तरपरत्वरूपानवकाशत्वेन तद्विरोधाद् व्याख्यानरूप-स्मृतिसाहाय्येन स्मृतीनामप्यर्थान्तरे अनवकाशत्वेन सुतरां तद्विरोधात् पाशुपतादिस्मृतीनाम-प्रामाण्यस्य लग्नत्वान्न पूर्ववद्युक्तमित्यर्थ उक्तो भवति । इयं च सूत्रयोजना वेदप्रामाण्यवादि-पूर्वपक्ष्यभिप्रायेणात्रकृता । अत एव साङ्ख्ययोगपाशुपतादीत्युक्तम् । सुधायान्तु इतरेषां चानुप-लब्धेरिति सामान्यतो निराकरणं समयानां कृतमित्युत्तरपादीयभाष्यानुसारेण वेदाप्रामाण्य-वादिनामपि तद्विवक्षया शिवादीनां जगत्कारणत्वाभावे पाशुपतादिस्मृतीनामवकाशाभावेना-प्रामाण्यदोषप्रसङ्ग इति चेन्न । विष्णोर्जगत्कारणत्वानङ्गीकारेण पाशुपताद्यन्यपञ्चरात्रादि-स्मृतीनामप्यवकाशाभावेनाप्रामाण्याख्यदोषप्रसङ्ग इति भावेन योजनोक्ता ज्ञेया । अत एव तत्र सांख्यपाशुपतबौद्धार्हतादीत्युक्तम् ।
पाण्डुरङ्गि श्रीनिवासाचार्यविरचिता
तत्त्वसुबोधिनी
॥ अशेषशास्त्रेति ॥ अत्र जगज्जन्मादिकर्तृत्वादिविष्णुधर्मस्य स्मृत्यनवकाश इत्यादौ साक्षान् न विलक्षणत्वादित्यादौ तु वेदप्रामाण्याक्षेपमुखेन युक्त्यादिविरोधपरिहारस्य क्रियमाण-त्वादेवमुक्तं हरिरित्येवावक्ष्यत् । जगज्जन्मादिकर्त्तेत्युपलक्षणम् । अनन्तगुणपरिपूर्णाशेषदोषविधुर इत्यपि ग्राह्यम् । ततः सर्वधर्मोपपत्तेरित्यादेरप्यध्यान्तर्भावसिद्धिरिति बोध्यम् । तस्य युक्त्यादि-विरुद्धत्वे इति । तथा च अस्याध्यायस्य पूर्वाध्यायसमन्वये प्राप्तविरोधपरिहारेण तत्स्थैर्य-साधकत्वात्पूर्वाध्यायस्य कार्यत्वम् एतदध्यायार्थस्य कारणत्वमिति पूर्वोत्तराध्याययोः कार्यकारण-भावलक्षणा सङ्गतिरिति भावः ॥ उक्तार्थ इति ॥ अनेन पूर्वेण समन्वये उक्ते सति अनन्तरं विरोधस्फुरणात् । तत्परिहारात्मकत्त्वाद् अस्य कार्यत्वं पूर्वस्य कारणत्वम् इति वैपरीत्येन कार्यकारणभावसङ्गतिः सूचिता भवति । चातुर्विध्यं दर्शयति ॥ युक्तीति ॥ ननु प्रथमपादे युक्तिविरोधपरिहार एव कुतः क्रियते समयाद्यविरोध एव किं न प्रतिपाद्यते इत्यत आह ॥ अत्रेति ॥ समयादिवादिभिरपि युक्तेर् उपन्यस्यमानत्वात्, एकस्य समयिनः समयान्तरे इव युक्तौ कस्याप्यनादराभावाच्च तस्य प्राबल्यमिति भावः ।
ननु युक्तिविरोधपरिहारपादे स्मृतिविरोधनिराकरणमसङ्गतम् इत्यत आह ॥ यद्यपीति ॥ प्राथम्ये हेतुमाह ॥ स्मृतीनामिति ॥ पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समय-रूपा अभिमतार्थे युक्तीः श्रुतीश्च संवादयन्त्यः युक्तिसमयादिविरोधचतुष्टयरूपा इत्यर्थः । वेद-प्रामाण्यवादिस्मृतिविवक्षयैवेदं, तदप्रामाण्यवादिस्मृतेः श्रुतियुक्तिसमयरूपोभयरूपत्वमेवेति भावः ॥ समस्तेति ॥ एकैकविरोधापेक्षया विरोधचतुष्टयात्मस्मृतिविरोधस्य प्रबलतया प्रथमं निरसनीय-त्वादिति भावः । तथापि पादासङ्गतिः कथं परिहृता इत्यत आह ॥ पादार्थस्यापीति ॥ न कोऽपि दोष इति ॥ अन्तर्भावरूपसङ्गत्यभावदोषो न इत्यर्थः ॥ अनेनेति ॥ स्मृतिविरोधस्य युक्तिविरोधाद्यात्मत्वकथनेनेत्यर्थः ॥ वेदप्रामाण्येनेति ॥ जन्मादिसूत्रोपात्तयतो वेत्यादि-वेदप्रामाण्येनेत्यर्थः । अत्र जगज्जन्मादिकर्तृत्वस्य विष्णावयुक्तत्वे ‘असद्वा इदमग्र आसीत्’ इत्यत्रोक्तासदादिशब्दवाच्यत्वमपि अन्यस्यैव स्यादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिः ॥ समयविगानमिति ॥ विष्णुरुद्रकर्तृत्वप्रापकसमययोर्विगानमित्यर्थः ॥ पाशुपतसाङ्ख्येति । एवं च स्मृतीनां पाशुपताद्यानाम् अनवकाशत्वेन तद्विरोधे श्रुतेरप्रामाण्याख्यदोषप्रसङ्ग इति सूत्रांश-योजना सर्वज्ञापीति भाष्येण दर्शितेत्युक्तं भवति । असिद्धः पाशुपतादिस्मृतिविरोध इत्यत आह ॥ पाशुपतेति ॥ रुद्रादिवचनविरोधस्याप्रयोजकत्वमाशङ्क्य परिहरति ॥ न च विरोध इति ॥ विरोधोऽसिद्ध इत्याशङ्क्य निषेधति ॥ न च देशकालेति ॥ अन्यार्थत्वमप्रामाण्यं चेति ॥ ‘औदुम्बरीं स्पृष्ट्वा उद्गायेत्’ इति श्रुतिविरोधेन औदुम्बरीं वा सर्वा वेष्टयितव्या’ इति स्मृतेर्भाट्टैः स्मार्तत्वस्य प्राभाकरैरप्रामाण्यस्य चोक्तत्वाद् इति भावः ॥ विरोधे त्विति ॥ श्रुतिस्मृत्योरविरोधे सति स्मृतिरनुमां, स्वमूलश्रुत्यनुमापिका स्यात् । तयोर्विरोधे तु अपौरुषेयतया मूलानपेक्षं श्रुतिवचनमेव मानमित्युदाहृतजैमिनिसूत्रार्थः । स्मृत्यपेक्षया श्रुतेरप्राबल्यमुपपादयति ॥ स्मृतीनामिति ॥ ननु रुद्रादीनां सर्वज्ञत्वात् तत्प्रणीतस्मृत्यादिकमप्रमाणमित्यत आह ॥ रुद्रादीनामिति ॥ ननु श्रुतिरप्यपौरुषेयत्वेन प्रबला इत्यत आह ॥ श्रुतेश्चेति ॥
नन्वेवं स्मृतीनामेव प्राबल्ये कथं सर्ववेष्टनस्मृतेः श्रुतिविरोधेन स्पर्शनार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टनरूपार्थान्तरकल्पनमप्रामाण्यं वेत्यत आह ॥ क्वचिदिति ॥ मूलत्वेऽपि स्मृति-विरोधेन श्रुतेरेवाप्रामाण्यमस्त्वित्यत आह ॥ मूलेति ॥ अतदर्थत्वमिति ॥ जगत्कारणत्व-रूपार्थाभाववत्वमित्यर्थः ॥ श्रुतेर् आधिक्यमिति भाष्यं सोपस्करं व्याचष्टे ॥ पञ्चरात्रादिति ॥ तदुक्तस्येति ॥ विष्ण्वादिभिरुक्तस्येत्यर्थः । रुद्राद्युक्तस्यापि संवाददर्शनात्तेषामप्याप्तत्वमत आह ॥ रुद्रादीति ॥ सूत्राक्षराणि योजयन्नुपसंहरति ॥ अत इति ॥
श्रीनिवासतीर्थविरचितं
वाक्यार्थविवरणं
जगद्धितोपदेष्टृत्वस्येति ॥ अनेनाविप्रलिप्सोपपादितेति ध्येयम् ॥ भागान्तरवदिति । तथा च सत्प्रतिपक्षतया न निर्णय इत्याशयः ।
शर्करा श्रीनिवासाचार्यविरचिता
वाक्यार्थमञ्चरी
यत्पादसेवया सन्तो जाता दुःखादिवर्जिताः ।
तं रामं सर्वदोषघ्नं प्रणमामि निरन्तरम् ॥
पूर्वाध्यायेति ॥ अशेषशास्त्रप्रामाण्येनेति ॥ स्वरवर्णपदवाक्यात्मकाशेषशास्त्रस्य जग-ज्जन्मादिकारणत्वादिना विष्णुप्रमापकत्वेनेत्यर्थः प्रतिपादितः ॥ तस्य युक्त्यादिविरुद्धत्वे इति ॥ तथा च विरोधे परिहृत एव समन्वयसिद्धेः । पूर्वाध्यायार्थसमन्वयस्य कार्यत्व-मेतदध्यायार्थाविरोधस्य कारणत्वमिति पूर्वोत्तराध्याययोः कार्यकारणभावलक्षणा सङ्गतिरिति भावः ॥ उपादित्सा उपादातुमिच्छा । समयः सिद्धान्तः । ननु स्मृत्यविरोधप्रतिपादकत्वेऽस्य नैतत्पादान्तर्भावः । कथञ्चिदन्तर्भावेऽपि न प्राथम्ये बीजमित्याशङ्क्य निराकरोति ॥ यद्य-पीत्यादिना ॥ स्मृतीनामिति ॥ पाशुपतादिस्मृतयो हि स्वयमात्माभिमतवाक्यतया समयरूपा अपि स्वोक्तार्थे युक्त्यादींश्च संवादयन्त्यो युक्त्यादिविरोधिचतुष्टयरूपा इत्यर्थः ॥ प्राथम्यो-पपत्तेरिति ॥ एकैकविरोधापेक्षया विरोधचतुष्टयात्मकस्मृतिविरोधस्य प्रबलतया प्रथमं निरसनीय-त्वादिति भावः । दोषः सङ्गत्यभावरूपः ॥ अनेनेति ॥ विष्णोर्जगत्कारणत्वे युक्त्यादि-रूपस्मृत्यविरोधं दर्शयतीत्यर्थकभाष्येणेत्यर्थः । विगानं विवादः ॥ ॐ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥ स्मृतीनां पाशुपतादीनां रुद्रादिसर्वज्ञप्रणीतत्वा-न्निरवकाशत्वेन एतद्विरोधे विष्णुजगत्कारणत्वप्रतिपादकश्रुतेरप्रामाण्याख्यदोषप्रसङ्ग इति चेन्न । अन्यासां पञ्चरात्रस्मृतीनामत्याप्तविष्ण्वादिप्रणीतत्वेन श्रुतिसंवादेन च नितरां निरवकाशेन तद्विरुद्धपाशुपतादिस्मृतिनामप्रामाण्याख्यदोषस्य प्रकर्षेण सङ्गात् सम्बन्धाद् अत्यन्ताप्रामाण्या-दित्यर्थः । विरोधं व्यनक्ति ॥ पाशुपतेति ॥ वस्तुनिविकल्पेति ॥ उभयोरपि प्रामाण्ये तदु-भयानुसारेण एकस्मिञ्जगति विष्णुमात्रजन्यत्वशिवमात्रजन्यत्वरूपविरुद्धधर्मवत्वप्रसङ्गादित्यर्थः ॥ देशकालेति ॥ श्रुतिर्यद्देशकालीनं विष्णोर्जगत्कारणत्वं प्रतिपादयति तद्भिन्नदेशकालीनं रुद्रस्य जगत्कारणत्वं स्मृतिः प्रतिपादयतीत्यविरोध इत्यर्थः ॥ सकलेति ॥ सकलदेशकालीनेत्यर्थः ॥ विरोधे त्विति ॥ प्रथमे प्रथमाध्याये स्मृतिपादे चिन्तितम् । ज्योतिष्टोमे ‘औदुम्बरीं स्पृष्ट्वो-द्गायेत्’ इति श्रुत्या औदुम्बरीं यज्ञसदस्थूणां स्पृष्ट्वा उद्गात्रा गानं कर्तव्यमिति विहितं स्मृति-कारास्तु तत्स्पर्शविरुद्धं तस्याः कार्त्स्न्येन वाससा वेष्टनं स्मरन्ति । औदुम्बरी सर्वा वेष्टयित-व्येति तत्स्मरणं प्रमाणमप्रमाणं वेति संशये स्मृत्यधिकरणे स्मृतीनां मूलश्रुत्यनुमापकतया श्रुति-मूलत्वेन प्रामाण्यसमर्थनादियमपि स्मृतिर् मूलश्रुतिमनुमापयन्ती प्रमाणमिति पूर्वपक्षः । सर्वथाऽ-प्रामाण्यस्यान्याय्यत्वात्स्पर्शार्थं द्वित्राङ्गुलं हित्वा तदितरसर्ववेष्टनरूपार्थान्तरपरत्वं स्मृतेरिति भाट्टरीत्या सिद्धान्तः । प्रभाकररीत्या तु स्पर्शनसर्ववेष्टनयोर्विरुद्धतया तत्कर्तव्यताबोधकयोरपि विरुद्धत्वादग्नावौष्ण्यग्राहिप्रत्यक्षेण तच्छैत्यानुमानस्येव स्पर्शनश्रुतिप्रत्यक्षेण सर्ववेष्टनस्मृत्यनु-मानस्य बाधान्मूलश्रुत्यभावेनाप्रामाण्यमिति सिद्धान्तः । सूत्रार्थश्च श्रुतिस्मृतिविरोधेऽसति स्मृतिर् अनुमानं स्वमूलभूतश्रुत्यनुमापिका । तयोर्विरोधे तु अपौरुषैयतया मूलानपेक्षं श्रुतिवचनमेव मानं स्यादिति तथा च तद्वदेव प्रकृतेऽन्यार्थत्वमप्रामाण्यं वा स्यादित्यर्थः ॥ सार्वज्ञ्यस्येति ॥ तथा च विवक्षितार्थतत्त्वज्ञानकरणपाटवयोर्हितोपदेष्टृत्वेनाविप्रलम्भकत्वविवक्षयोर्लाभ इति भावः ॥ श्रुतेश्चेति ॥ यदबुद्धिपूर्वकं तदप्रमाणं यथा पिपीलिकालिपिर् अबुद्धिपूर्वकश्च वेदोऽपौरुषेयत्वाङ्गी-कारादतो अप्रमाणमेवेति भावः । तर्ह्युदाहृतजैमिनिसूत्रविरोध इत्यत आह ॥ क्वचिदिति ॥ सर्ववेष्टनविषय इत्यर्थः । तदपि कुत इत्यत आह ॥ मूलमूलिनोरिति ॥ उपजीव्योपजीवक-योरित्यर्थः । अतदर्थत्वं विष्णुजगत्कारणार्थत्वाभावः । नितरां निरतिशयम् ।
ॐ इतरेषां चानुपलब्धेः ॐ
सूत्रभाष्यम्
॥ ॐ इतरेषां चानुपलब्धेः ॐ ॥ २ ॥
इतरेषां तासु स्मृतिषूक्तानां फलादीनां प्रत्यक्षतोऽनुपलब्धेरप्रामाण्यं तासां युक्तम् । च शब्देन भागोपलब्धिरङ्गीकृता ।
सत्तर्कदीपावली
क्वचिदर्थे प्रत्यक्षसंवादिपशुपतिवाक्यदृष्टान्तेन पशुपतिर्जगत्कारणमित्यागमोऽपि प्रमाणम् । पशुपतिवाक्यत्वादित्येतदनुमानानुकूलत्वेन तदागमस्यापि प्रामाण्यं किं न स्यादिति न वाच्यम् । प्रत्यक्षविसंवादिपशुपतिवाक्यदृष्टान्तेन पाशुपतागमाप्रामाण्यस्यापि अनुमातुं शक्यत्वात्तदाह– इतरेषामित्यादिना ॥
तत्त्वप्रदीपिका
इतरेषां दृष्टोक्तानां फलानां प्रत्यक्षतोऽनुपलब्धेरदृष्टोक्तानां चानुदयनिर्णयः स्यात् । यद्यपि यत्र क्वापि यथोदितं तदुपलभ्यते । तथापि नादृष्टार्थप्रवृत्तिः स्यात् । व्यभिचारदर्शनात् ।
तत्त्वप्रकाशिका
यदुदितं वैष्णवस्मृतीनां परमाप्तप्रणीतत्वेन तत्साहाय्ययुक्तश्रुत्या विष्णोर्जगत्कारणत्वसिद्धिरिति न तद्युक्तम् । तथा सति पाशुपतादिस्मृतीनामप्रामाण्यप्रसङ्गान् न चाप्तोक्तानां तासामप्रामाण्यं युज्यत इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे ॥ इतरेषां चेति ॥ यदुक्तं श्रुत्या विष्णोर्जगत्कारण-त्वाभ्युपगमेऽन्यस्मृतीनामप्रामाण्यं प्रसज्जत इति तत्र युक्तमेव तासामप्रामाण्यमिति वक्तव्यम् । आप्तप्रणीतानां कथं तदिति चेन्मैवम् । तासु स्मृतिषूक्तानामदृष्टादितरेषां फलानर्थानामुक्तानुष्ठान-परित्यागयोः कृतयोरपि प्रत्यक्षतोऽनुपलब्धेराप्तोक्तत्वानिश्चयादिति भावः । प्रत्यक्षयोग्यत्वमितरेषा-मित्यनेनोच्यते । ननु पाशुपतादिस्मृतिविहितनिषिद्धाचरणे फलानर्थयोरुपलम्भात्कथं तदनुपलब्धिमसूत्रयदित्यत आह ॥ च शब्देनेति ॥ न सूत्रकृता सर्वात्मनाऽनुपलब्धिरभ्युपगता यथा प्रत्यक्षविरोधः किन्तु भागेनोपलब्धिरप्यङ्गीकृता । चशब्देन तस्याः सूचनात् । न च तथा सत्युप-लब्धार्थभागवत्सर्वस्याप्तोक्तत्वम् । भागान्तरवदनाप्तोक्तत्वसम्भवादिति भावः ।
गुर्वर्थदीपिका
प्रत्यक्षयोग्यत्वमितरेषामित्यनेनोच्यत इति वदता इतरेषां वैष्ण्वस्मृत्युक्तफलादितरेषां पाशुपतादिस्मृत्युक्तफलानामितरेषां तत्रैवोक्तादृष्टफलादितरेषामित्यावृत्त्या योजना सूचिता । भागान्तरवदनाप्तोक्तत्वसम्भवादित्यत्र फलोपलब्धिस्तु यादृच्छिकीत्युपस्कर्तव्यम् ।
भावबोधः
नन्वयोग्यानां प्रत्यक्षानुपलब्धेरभावनिश्चयायोगाद्भाष्ये कथं फलादीनां प्रत्यक्षतोऽनुपलब्धे-रित्युक्तमित्यत आह– प्रत्यक्षयोग्यत्वमिति ॥ पूर्वसूत्रसन्निधापितरुद्रादिजगत्कारणत्वाद्यतीन्द्रिय-स्येतरत्वप्रतियोगित्वेन विवक्षितत्वादिति भावः । अत एव प्रागदृष्टादितरेषामित्युक्तम् ॥ चशब्देन तस्या इति ॥ अनेनानुपलब्धेश्चेति सौत्रचशब्दसम्बन्ध उक्तो भवति ।
भावदीपः
भाष्ये प्रतिज्ञांशं तावद्व्याचष्टे ॥ यदुदितमित्यादिना ॥ हेत्वंशं व्यनक्ति ॥ तास्विति ॥ अयोग्यानामनुपलब्धिरदोषायेत्यतोऽदृष्टादितरेषामिति फलादीनामित्यस्यार्थः फलानर्थानामिति ॥ पुमर्थापुमर्थानामित्यर्थः । ततश्च किमित्यतो भावमाह ॥ आप्तेति ॥ अनुपलब्धिमात्रेण कथम-सत्त्वनिर्णय इत्यत आह ॥ प्रत्यक्षेति ॥ एतेन सूत्रे न विद्यते उपलब्धिर्यस्य तदनुपलब्धि उपलब्ध्ययोग्यं तस्माददृष्टादितरेषां प्रत्यक्षयोग्यानां फलानामनुपलब्धेरनुपलम्भादित्येवमनुपलब्धि-शब्दः काकाक्षिवदुभयत्रान्वेतीत्युक्तं भवति ।
अभिनवचन्द्रिका
ननु श्रुतेः प्राबल्यसिद्धौ पाशुपतादिस्मृतिबाधाभावेन जगत्कारणत्वादौ प्रामाण्यं, तस्मिंश्च सिद्धे प्रमाणसंवादिस्मृतिकर्तृत्वेन विष्ण्वादीनां नितरां सार्वज्ञ्यं, तत्सिद्धौ च अतिसर्वज्ञप्रणीत-स्मृतिसाहित्येन श्रुतेः प्राबल्यसिद्धिरित्यन्योन्याश्रय इति चेत्, न ब्रूमो वयं विष्ण्वाद्युक्तेर्विष्णो-र्जगत्कारणत्वांशे श्रुतिसंवादेन तेषामाप्ततमत्वं सिध्यतीति, किं नाम निर्णेतव्यप्रमेयातिरिक्त-प्रमेयमात्रे श्रुतिसंवादेन विष्ण्वादीनामाप्ततमत्वेन सिद्धिरिति । न चैवं सत्यन्योन्याश्रयो भवति ॥ न सूत्रकृतेति ॥ यया स्वीकृतया सर्वात्मनाऽनुपलब्ध्या प्रत्यक्षविरोधो भवति, यत्स्वीकारे प्रत्यक्षविरोधो भवतीति यावत्, सा सर्वात्मनाऽनुपलब्धिः, सूत्रकृता नाभ्युपगतेत्यर्थः ।
वाक्यार्थमुक्तावली
तथा सतीति ॥ ननु पूर्वसूत्रे पाशुपतादेरप्रामाण्यस्य स्पष्टमुक्तत्वादिह पूर्वपक्षिणा तदापादनमयुक्तम् । इदं तु वैय्यर्थम् । यदुक्तं पाशुपतादेरप्रामाण्यं तदयुक्तमाप्तोक्तत्वादिति चेन्न । सिद्धान्त्युक्तं पाशुपतादेरप्रामाण्यं स्वस्यैवानिष्टमाप्तोक्तत्वात् । आप्तोक्तस्याप्यप्रामाण्ये पञ्चरात्रा-देरपि तत्प्रसङ्गादिति तदेवानिष्टप्रसञ्जनमुखेनाक्षिप्यत इत्यदोषः । सूत्रे पूर्वसूत्रात् पाशुपतादी-नामप्रामाण्याख्यदोषः प्रसज्जत एवेत्यनुवर्तनीयमिति भावेनाप्रामाण्यं तासां युक्तमिति भाष्ये प्रयुक्तमिति भावेन सूत्रार्थमाह ॥ युक्तमेवेत्यादिना ॥ नन्वितरेषामित्यस्य पूर्वसूत्रसन्निधापित-रुद्रादिजगत्कारणत्वाद्यतीन्द्रियस्येतरत्वं प्रति योग्येन विवक्षित्वा अदृष्टादितरेषामित्यर्थोक्त्या अदृष्टादितरत्वं दृष्टमेवेत्यनुपलब्धेरित्ययुक्तमित्यत आह ॥ प्रत्यक्षेति ॥ तथा च योग्यानुपलब्धेर-भावनिश्चायकत्वमिति भावः ॥ सूचनादिति ॥ ‘समुच्चये तथाधिक्ये न्यूनत्वे च प्रयुज्यते’ इति वचनान्न्यूनत्वार्थकचशब्दस्य यथा श्रुतान्वयेनैव प्रत्यक्षयोग्यानां केषाञ्चिदित्यर्थलाभेन भागोप-लब्धेः सूचनादित्यर्थः ॥ भागान्तरवदिति ॥ क्वचित्संवादस्तु काकतालीयो लोकव्यामोहना गुडजिह्विका वा श्रुतेस्तदनुसारिस्मृतेश्चापौरुषेयत्वादिना प्रामाण्ये सिद्धे विसंवादो वैगुण्यादि-नेत्युत्तराधिकरणे वक्ष्यत इति भावः ।
तत्त्वसुबोधिनी
अस्त्वप्रामाण्यमित्यत आह ॥ न चेति ॥ न च योग्यानां प्रत्यक्षानुपलब्धेनाभावनिश्चय-योगात्तद्भाष्ये कथं फलादीनां प्रत्यक्षतोऽनुपलब्धेरित्युक्तमित्यत आह ॥ प्रत्यक्षयोग्यत्व-मितरेषामित्यनेनोच्यत इति ॥ न विद्यते उपलब्धिर्यस्यासावनुपलब्धिर् उपलब्ध्ययोग्यस् तस्मा-दितरेषाम् उपलब्धियोग्यानां फलानामनुपलब्धेरनुपलम्भादित्येवं सौत्रानुपलब्धिशब्दः, काकाक्षि-वदुभयत्रान्वेतीति भावः । अथवा पूर्वसूत्रे यस्मिन् प्रत्यक्षायोग्ये जगत्कारणत्वादौ स्मृतिविरोधः शङ्कितस् तदितरेषां प्रत्यक्षयोग्यानामनुपलब्धेरिति सूत्रार्थ इति भावः । कथमन्यथानुलब्धि-मात्रेणासत्वसिद्धिर् इति भावः । चशब्देन तस्मादिति अनेन अनुपलब्धेश्चेति सौत्रचशब्द-सम्बन्ध उक्तो भवति ।
वाक्यार्थमञ्जरी
अयोग्यजगत्कर्तृत्वाद्यपेक्षया इतरेषां प्रत्यक्षयोग्यानां फलानां तदुक्तानुष्ठानेऽपि प्रत्यक्षतोऽ-नुपलब्धेश्च तद्विसंवादेन नाप्तोक्तत्वमितरस्मृतीनामित्यर्थः । ननु योग्यानुपलब्धेरेवाभाव-ग्राहकत्वेनायोग्यानां प्रत्यक्षानुपलब्ध्याभावनिश्चयायोगात्कथं फलादीनामिति भाष्यमित्यत आह ॥ प्रत्यक्षयोग्यत्वमिति ॥ पूर्वसूत्रसन्निधापितरुद्रादिजगत्कारणत्वाद्यतीन्द्रियस्येतरेत्यत्र प्रति-योगित्वेन विवक्षितत्वादिति भावः । अत एव प्रागदृष्टादितरेषामित्युक्तम् । यया स्वीकृतया सर्वात्मनाऽनुपलब्ध्या ॥ सूचनादिति ॥ तस्यानुक्तोपलब्धिसमुच्चायकत्वादिति भावः ॥ उप-लब्धार्थेति ॥ उपलब्धः फलानर्थरूपोऽर्थो यस्य स तथा । सर्वस्य रुद्रकारणत्व-प्रतिपादकभागस्य ।