ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ
७. एतेन सर्वव्याख्याताधिकरणम्
सूत्रभाष्यम्
॥ ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ ॥ २९ ॥
एतेन सर्वे शून्यादिशब्दा अपि व्याख्याताः । ‘एष ह्येव शून्य एष ह्येव तुच्छ एष ह्येवाभाव एष ह्येवाव्यक्तोऽदृश्योऽचिन्त्यो निर्गुणश्च’ इति महोपनिषदि ।
‘शमूनं कुरुते विष्णुरदृश्यः सन्परः स्वयम् ।
तस्माच्छून्य इति प्रोक्तस्तोदनात्तुच्छ उच्यते ॥
नैष भावयितुं योग्यः केनचित्पुरुषोत्तमः ।
अतोऽभावं वदन्त्येनं नाश्यत्वान्नाश इत्यपि ॥
सर्वस्य तदधीनत्वात्तत्तच्छब्दाभिधेयता ।
अन्येषां व्यवहारार्थमिष्यते व्यवहर्तृभिः’ ॥ इति महाकौर्मे ।
एतेन तदधीनत्वाद्युक्तयुक्तिसमुदायेन ।
‘अवधारणार्थं सर्वस्याऽप्युक्तस्याऽध्यायमूलतः ।
द्विरुक्तिं कुर्वते प्राज्ञा अध्यायान्ते विनिर्णये’ ॥ इति वाराहसंहितायाम् ॥
एतेन सर्वेव्याख्याताधिकरणम् (सर्वव्याख्यानाधिकरणं पा.) ॥
॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य चतुर्थः पादः ॥
॥ प्रथमाध्यायः समाप्तः ॥
सत्तर्कदीपावली
ननु युक्तं परात्परमस्य पुरुषस्यापि प्रकृत्यादिविश्वगतस्य तद्भिन्नस्यापि तदाकारत्वादिहेतुना तत्तन्नाममुख्यार्थत्वं तथा शून्यादिशब्दार्थत्वं न सच्चिदानन्दाद्याकारस्येतीमं पूर्वपक्षमपा-करोतीत्याह एतेनेत्यादिना । एतेन तदधीनत्वाद्युक्तिसमुदायेन एष ह्येवेति महोपनिषदि श्रूयमाणशून्यादिशब्दाः शमूनमित्यादिना महाकौर्मे व्याख्याताः । यथाभीष्टवस्तु नष्टमदृश्यं वा तद्वतः शमूनं करोति तुदते च तं शमनुभवन्तम् । न च तद्भावयितुं योग्यं सुखाय नापि तेनोपभोग्यम् । भगवांस्तु सर्वदा सर्वत्र सर्वोत्तमत्वेन सन्नेव दुर्जनादृश्य एव न शमूनं करोतीति तुदते च तं भवितुमयोग्यश्च नैतेनानुभोग्यश्च । एवं सर्वस्य शब्दप्रवृत्तिनिमित्तस्य स्वगतस्य परगतस्य वा तदधीनत्वात् तस्यैव शून्यतुच्छाभावनाशादिशब्दानां परममुख्यार्थता । अन्येषां तदधीनेषत्प्रवृत्तिनिमित्तवत्वेन व्यवहारार्थं तत्तच्छब्दार्थतेष्यत इत्यर्थः । सूत्राल्पाक्षरत्वविरोधिनी द्विरुक्तिः किमर्थेत्यत आह ॥ अवधारणार्थमिति ॥ द्विरुक्तिरवधारणाय, विनिर्णयाय ॥ श्रीप्रभञ्जनवरददिग्विजयरामार्पणमस्तु ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यकृतब्रह्मसूत्रभाष्यटीकायां सत्तर्कदीपावल्यां श्रीपद्मनाभतीर्थभट्टारकविरचितायां प्रथमाध्यायस्य चतुर्थःपादः ।
तत्त्वप्रदीपिका
एतेनावशिष्टाः सर्वे शब्दा ब्रह्मवाचकत्वेन व्याख्याता वेदितव्याः । तुदति च्छन्न इति तुच्छः । न आश्यत इति नाशः । तदधीनत्वादीत्यादिशब्दात् ‘महद्वच्च’ ‘चमसवदविशेषात्’ ‘ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके’ इत्यादि द्रष्टव्यम् । तस्मादेवमुक्तन्यायैरनन्तवेदवाक्य-पदवर्णस्वराभिधेयत्वादनन्तगुणगणपरिपूर्णो नारायण इति सिद्धम् । तथा च ब्रह्माण्डे-
‘अनन्तनामकत्वाच्च सोऽनन्तगुण ईरितः ।
पृथङ्नामानि यस्मात्तद्गुणानेव प्रचक्षते’ इति ॥
श्रीत्रिविक्रमपण्डिताचार्यविरचितायां ब्रह्मसूत्रभाष्यटीकायां तत्त्वप्रदीपिकायां प्रथमाध्याये चतुर्थः पादः ।
तत्त्वप्रकाशिका
अत्र निषेधमुखवेद्यत्वादिनाऽन्यत्रैव प्रसिद्धानामसदादिशब्दानां भगवति समन्वयप्रतिपाद-नादस्ति शास्त्रादिसङ्गतिः । समन्वयसूत्रे सर्वशब्दानां परमात्मवाचित्वमुक्तम् । सर्वमध्यपतिता असदादिशब्दाः श्रुतिषु श्रूयन्ते । ‘असद्वा इदमग्र आसीत्’ इत्यादौ । तेषां चान्यपरत्वे समन्वयसूत्रमयुक्तं स्यादित्यवश्यनिर्णेयता । तदसदादिशब्दवाच्यं विषयः । किं विष्णुरन्यद्वेति सन्देहः । समन्वयसूत्रमन्यत्रैव प्रसिद्धिश्च सन्देहबीजम् । न विष्णुरसदादिशब्दवाच्य इति पूर्वः पक्षः । तेषां निषेधमुखवेद्यवस्तुवाचित्वात् । परमात्मनश्च भावरूपत्वेन तदयोगात् । न च स्वयं निषेधमुखवेद्यताभावेऽपि तद्वतोऽसतः परमात्माधीनत्वेन तस्यासदादिशब्दवाच्यतेति वाच्यम् । स्वरूपशून्यस्य नियम्यताऽभावेन पराधीनताऽयोगात् । अभावे तत्सम्भवेऽपि प्रयोगादर्शनात् । अतः शून्यादिशब्दानां परमात्मवाचित्वाभावात्समन्वयसूत्रं न युक्तमिति । सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे ॥ एतेनेति ॥ पूर्वोक्तहेतुनैव सर्वे शून्यादिशब्दा भगवद्विषया एवेति प्रतिपादिता इत्यर्थः । नन्वसदादिशब्दानां निषेधमुखवेद्यवस्तुवाचित्वात् कथं परमात्मन-स्तद्वाच्यत्वमित्यत आह ॥ एष ह्येवेति ॥ दुर्जनानामव्यक्तत्वादिना शमूनं कुरुत इत्यादि योगेन चेश्वरे निषेधमुखवेद्यवस्तुवाचिशब्दप्रवृत्त्युपपत्तिरिति भावः । शमूनं कुरुते स्वसुखा-दन्यसुखमल्पं करोति । तोदनात्तुत् । अदृश्यश् छश् छन्नत्वात् । भावयितुमुत्पादयितुम् । नाश्यत्वादभक्ष्यत्वात् । सर्वस्य तदधीनत्वादित्युभयत्र सम्बध्यते । एतेनेति परामृष्टमेव हेतुं दर्शयति ॥ एतेनेति ॥ आदिपदेन ‘ज्योतिरुपक्रमात्’ ‘तथा ह्यधीयत एके’ ‘प्रतिज्ञादृष्टान्तानु-परोधात्’ इत्यादेः सङ्ग्रहः । न चासतोऽन्याधीनत्वायोगः । सर्वस्य तदधीनत्वादिति स्मृतेः । निषेधमुखवेद्यत्वादीनामपि भगवत्प्रेरणामन्तरेणानुपपत्तेः । न हि कारणमन्तरेण तत्रैव तदुपपद्यते । ईश्वरस्य स्वातन्त्र्याददोषः । ननु किमर्थेयं सूत्रपदस्य द्विरुक्तिः । अध्याय-समाप्तेरर्थभेदेनैव ज्ञातुं शक्यत्वात् । अन्यथा पादान्तेऽपि तत्प्रसङ्गादित्यत आह ॥ अवधारणार्थमिति ॥ विनिर्णये निर्णयग्रन्थे । अतोऽसदादिशब्दवाच्यत्वस्य हरेरुपपन्न-त्वाद्युक्तमशेषस्वरवर्णपदवाक्यात्मकशास्त्रयोनित्वम् । ततो जगज्जन्मादिकर्तृत्वप्रमुख्या(खा) नन्तगुणत्वं च सिद्धमिति ॥
॥ इति श्री आनन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां प्रथमाध्यायस्य चतुर्थः पादः ॥
गुर्वर्थदीपिका
‘तस्माच्छून्यः’ इत्यत्र तस्मात् शून्यवददृश्यत्वात् ‘शमूनं कुरुते’ इति व्युत्पत्तेश्च । तुच्छ इत्यत्रापि अदृश्य इत्यनुवर्तते । ‘तुद व्यथने’ इति धातोस् तुदति परान् व्यथयतीति तुच् छन्नत्वादृश्यत्वाच् छः । तुच् चासौ छश्चेति तुच्छ इति भावः । सर्वस्य तदधीनत्वादित्युभयत्र सम्बध्यत इत्यस्य तुच्छशून्यादिबोध्ये निषेधमुखवेद्ये असति नाशाभावादिपदवाच्ये निषेध-मुखवेद्ये सति चेत्युभयत्र सम्बध्यत इत्यर्थः । असत् शशशृृङ्गादिकं कालत्रयेऽप्युत्पत्तुं न मुञ्चतीत्यादिरूपेण तेषामपि तदधीनत्वे सर्वत्रापि तत्सम्बध्यत इति टीकाकृतो हृदयम् । न हि कारणमन्तरेण तत्रैव तदुपपद्यत इत्यत्र गोशिरसीव शशशिरस्यपि शृृङ्गमुत्पाद्यतां शिरोरूप-कारणस्योभयत्र सत्त्वात् । शशशिरस्येवानुत्पत्तौ कारणविशेषाभावाच्च । अतस्तत्रैव निषेध-मुखवेद्यत्वं कुत इति शङ्कितुरभिप्रायः । ईश्वरस्य स्वतन्त्रत्वाददोष इत्यस्य ईश्वरस्तु स्वतन्त्रत्वा-दनुत्पत्तौ कारणविशेषाभावेऽपि शशशिरसि शृृङ्गं नोत्पादयति तत्रैव निषेधमुखवेद्यत्वं च सम्पादयति स्वतन्त्रपुरुषस्य नियोगानर्हत्वात् । अतो न दोष इत्यर्थः । विनिर्णयग्रन्थ इत्यनेन मीमांसारूपतया निर्णायकसूत्रादिग्रन्थमभिप्रैति ॥
इति श्रीमत्कविकुलतिलकश्रीमद्वादिराजतीर्थविरचितायां
तत्वप्रकाशिकाव्याख्यायां प्रथमाध्यायस्य चतुर्थः पादः ॥
भावबोधः
समन्वयसूत्र इति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु ‘हन्तैतमेव पुरुषं सर्वाणि नामानि’ इति श्रुतिगतसर्वशब्दस्य दृष्टान्तबलेनासङ्कुचितार्थत्वमङ्गीकृत्य न विष्णोः प्रकृत्यादिस्त्रीलिङ्ग-शब्दवाच्यत्वं वक्तुं युक्तम् । विष्णोर् निःस्वरूपत्वाद्ययोगेन ‘असदेवेदमग्र आसीत्’ इत्यादि-वाक्यगतासच्छब्दवाच्यत्वासम्भवेन तत्सङ्कोचस्यावश्यकत्वादिति पूर्वपक्षोत्थानादिति ज्ञातव्यम् ॥ किं विष्णुरिति ॥ अत्रासद्वेत्यादिश्रुतिगतासदादिशब्दवाच्यं किं शशविषाणादिकं किं वा विष्णुरिति चिन्ता । तदर्थं नामानि सर्वाणीति श्रुतिगतः सर्वशब्दः सङ्कुचितार्थ उतासङ्कुचितार्थ इति । तदर्थं विष्णोरसदादिशब्दवाच्यत्वाङ्गीकारे निषेधरूपत्वं प्राप्नोत्युत नेति । तदर्थमसदादि-शब्दप्रवृत्तिनिमित्तकं किं निःस्वरूपत्वमेवोत केनाप्यसाध्यत्वादिकमिति । तदर्थं विष्णो-रसदादिशब्दवाच्यत्वाङ्गीकारे विशेषप्रमाणं नास्त्युतास्तीति । ‘निषेधश्च’ इत्यनुव्याख्यानोक्त-युक्तिमाह तेषामिति ॥ ‘दुर्जनाव्यक्तता’ इत्यनुव्याख्यानं मनसि निधायोक्तं दुर्जनानाम-व्यक्तत्वादिनेति । अनेन ‘एष ह्येवाव्यक्त’ इत्यादिश्रुतिशेषस्य हरौ शून्यादिशब्दप्रवृत्तौ निमित्तप्रतिपादकत्वमित्युक्तं भवति । अन्यसुखमल्पं करोतीति । पृषोदरादित्वेन शकार-नकारगताकारनाशे शमूनं यापयतीति व्युत्पत्तौ ‘आतोऽनुपसर्गे कः’ इति कप्रत्यये ‘आतो लोप इटि च’ इत्यकारलोपे शून्यमिति रूपसिद्धिरिति भावः । ‘तोदनात्तुच्छ उच्यते’ इत्यत्र तोदनस्य तुच्छशब्दप्रवृत्तिनिमित्तत्वमुच्यत इति भ्रान्तिं वारयति तोदनात्तुदिति दुःखहेतुत्वा-दित्यर्थः । ‘छ’ इत्यस्य निमित्तानुक्तिशङ्कां परिहरति अदृश्य ‘छ’ इति । दुर्जनैरिति शेषः ॥ छन्नत्वादिति ॥ ‘छय आच्छादने इत्यस्माड् डप्रत्यये टिलोपे च ‘छ’ इति रूपसिद्धिरिति भावः । अनेन स्वयं परो विष्णुर्यस्माच्छमूनं कुरुते तस्माच्छून्य इति प्रोक्तः । अदृश्यः सन् तोदनात्तुच्छ इति स्मृतावन्वय उक्तो भवति । सर्वस्य तदधीनत्वादित्युभयत्र सम्बध्यत इति । स्वसुखादन्यसुखस्याल्पत्वकरणे तोदने दुर्जनैर्गरदृश्यत्वे केनाप्युत्पादयितुमयोग्यत्वे अभक्ष्यत्वे च सर्वस्य स्वव्यतिरिक्तचेतनस्य दुःखसम्बन्धयोग्यचेतनस्य द्रष्टृत्वेनोत्पादकत्वेन भक्षकत्वेन च सम्भाव्यमानस्य भगवदधीनत्वस्य हेतुत्वेन शमूनं कुरुत इत्यादौ पूर्वत्र शून्यादिशब्द-प्रवृत्तिनिमित्तस्वामित्वस्य विष्णौ शून्यादिशब्दप्रवृत्तौ निमित्तत्वेन तत्तच्छब्दाभिधेयतेत्युत्तरत्र च सम्बध्यत इत्यर्थः । एवं तर्हि ईश्वरगतसर्वशक्त्यादीनामप्यन्यप्रेरणालक्षणकारणसापेक्षत्वं स्यादित्यत आह ईश्वरस्येति । अत्र पादे इत्यनुव्याख्याने–
‘विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।
पृथक् समन्वयार्थानि स्थानान्येतानि सर्वशः’
‘अव्यक्तः कर्मवाक्यैश्च वाच्य एकोऽमितात्मकः ।
अवान्तरं कारणं च प्रकृतिः शून्यमेव च ॥’
इति सङ्ग्रहे चोक्तन्यायेन प्रत्येकमेकैकमधिकरणमेकैका पेटिकेति ज्ञेयम् ॥
इति श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिकृते
श्रीमज्जयतीर्थपूज्यचरणविरचिततत्त्वप्रकाशिकाभावबोधे प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥
भावदीपः
स्त्रीनिषेधिनामित्यनुभाष्योक्तलिङ्गेन अन्यत्रैव प्रसिद्धिमाह ॥ अत्र निषेधमुखेति ॥ निस्स्वरूपत्वमादिपदार्थः ॥ श्रूयन्त इति ॥ तैत्तिरीयादावित्यर्थः । निषेधश्चेत्यनुभाष्योक्त-युक्तिमाह ॥ तेषामिति ॥ प्रथमप्रतीताविति योज्यम् ॥ तदयोगादिति ॥ यद्यपि भावस्याऽप्य-भावो नेत्यादिद्वितीयप्रतिपत्तौ निषेधमुखवेद्यवस्तुत्वमस्ति । तथापि प्रथमप्रतीतावयोगादिति भावः ॥ स्वयमिति ॥ षष्ठ्यर्थेऽव्ययम् । अत इति हरेर्निषेधमुखवेद्यवस्तुत्वायोगात् तेषां च तादृशवस्तुवाचित्वादित्यर्थः । प्रसिद्धश्रुत्यनुरोधेन असदादिशब्दा इत्युपक्रमेऽपि भाष्यानु-रोधाच्छून्यादिशब्दानामित्युपसंहारः । समन्वयेत्यादिफलोक्तिः । भाष्येऽनूदितसौत्रैतच्छब्दार्थं वदन् भाष्यसूत्रयोरर्थमाह ॥ पूर्वोक्तेति ॥ भाष्यस्थस्मृत्युक्तो योगो दुर्जनाव्यक्तता तथेत्यनुभाष्योक्तनिमित्तस्याप्युपलक्षणमिति मत्त्वाऽऽह दुर्जनेति ॥ प्रसिद्धनिमित्तस्य हरावयो-गेऽपि स्मृत्यादिप्रसिद्धं लोकतोऽप्रसिद्धं तु निमित्तं हरौ युज्यत इति तच्छब्दवाच्यत्वं स्यादे-वेत्याकूतम् । स्मृत्युक्तयोग एव श्रुतौ ग्राह्य इत्यस्य कम्पनादित्यत्र निर्णीतत्वादिति भावः । तुच्छशब्दे तुदित्यस्यार्थमाह ॥ तोदनात्तुदिति ॥ छ इत्यस्यार्थमाह ॥ अदृश्यश् छ इति ॥ अश भोजन इत्यतोऽश्यत्वादिति रूपं तस्य नञाऽन्वय इति अभक्ष्यत्वादित्यर्थमाह ॥ नाश्यत्वादिति ॥ उभयत्रेति ॥ असद्वाचिशब्देषु अभाववाचिशब्देषु च इत्यर्थः । युक्तिं चाऽऽह ॥ निषेधेति ॥ ईश्वरो वा कथं तत्रैव तत्करोतीत्यत आह ॥ ईश्वरस्येति ॥ फलोक्त्या सूत्रार्थमुपसंहरति ॥ अत इति ॥ साधकभावाद् बाधकाभावाच्चेत्यर्थः । समन्वयसूत्रे तत्तु शास्त्रयोनीति प्रतिज्ञांशं विवृण्वन्नेव तत्समर्थनमस्य फलमिति दर्शयति ॥ युक्तमिति तस्याऽपि जन्मादिसूत्रार्थसिद्धिद्वारा जिज्ञासासूत्रस्थब्रह्मशब्दार्थसिद्धिः फलमित्युपेत्याह ॥ तत इति ॥ अनन्तगुणत्वं चेति ॥ हरेरित्यनुकर्षः । एतच्च समन्वयाधिकरणान्त एव विवृतम् ॥
इति श्रीमद्भाष्यटीकाभावदीपे राघवेन्द्रयतिकृते प्रथमाध्याये चतुर्थः पादः ।
अभिनवचन्द्रिका
निषेधमुखवेद्यत्वादिनेति ॥ संज्ञैषा पूर्वाचार्यस्य ‘प्रथमप्रतीतौ नास्तीति प्रतीतिविषयत्वस्य निषेधमुखवेद्यत्वम्’ इति । तथाचाऽसदभावादिशब्दानामन्यत्र प्रसिद्धौ निषेधमुखवेद्यत्वं निमित्तम् । शून्यतुच्छादिशब्दानामन्यत्रैव प्रसिद्धौ निःस्वरूपत्वमपि निमित्तमिति द्योतनाय आदिशब्दः । एतेन निषेधघटितशब्दवेद्यत्वरूपनिषेधमुखवेद्यत्वस्य असदादाविव ‘अदोष-परमेश्वर’ इत्यादि प्रयोगबलेन परमेश्वरेऽप्यवगमात्, न तस्यान्यत्रैव प्रसिद्धिहेतुत्वमिति परास्तम् । श्रुतिषु श्रूयन्त इति ॥ एतेनाऽस्याधिकरणस्य समन्वयाधिकरणप्रतिपाद्यत्वशब्द-राश्यन्तर्गताऽसदादिशब्दनिर्णायकत्वं, तेनाधिकरणेन सङ्गतिरित्युक्तमिति बोध्यम् । एवमुत्त-रत्रापि यथासम्भवं सङ्गतिग्रन्थार्थो बोध्यः । वस्तुवाचित्वादिति ॥ यद्यपि न शून्यादिशब्दानां वस्तुवाचित्वं तथापि समन्वेतव्यशब्देषु केषाञ्चिदभावादिशब्दानां वस्तुवाचित्वाच्छत्रिन्यायेन सर्वेषां वस्तुवाचित्वमुक्तम् । एतेन वस्तुत्वाङ्गीकारे ‘स्वरूपशून्यस्य नियम्यताभावेन’ इत्युक्त-टीकाविरोधः । स्वरूपशून्यस्य वस्तुत्वायोगाद् इति परास्तम् ॥ स्वरूपशून्यस्येति ॥ यद्यपि अभावादिशब्दवाच्यस्य न स्वरूपशून्यता, तथापि शून्यादिशब्दवाच्यस्य स्वरूपशून्यत्वाच् छत्रिन्यायेन तथोक्तम् । अन्यसुखमल्पङ्करोतीति ॥ ‘शमूनम्’ इत्यत्र ‘पृषोदरा’दित्वेन शकार-नकारगताकारलोपे शमूनं यापयतीति व्युत्पत्तौ ‘आतोऽनुपसर्गे क’ इति कप्रत्यये आतो लोप इटि च’ इत्याकारलोपे शून्यमिति रूपसिद्धिरिति भावः । छन्नत्वादिति ॥ ‘छदिर् आच्छादन’ इत्यस्माद् उप्रत्यये टिलोपे च सति ‘छ’ इति रूपम् । ततश्च तु च् चासौ छश्चेति तुच्छ इति बोध्यम् ॥ उभयत्र सम्बध्यत इति ॥ ‘शमूनं कुरुत’ इत्यादिपूर्वत्र ‘तत्तच्छब्दाभिधेयतेत्युत्तरत्र च सम्बध्यत इत्यर्थः । नन्वीश्वरस्य गुणवाचकशब्दाभिधेयत्वेन गुणवत्, दोषवाचकशब्दाभि-धेयत्वेन दोषोऽपि स्यादित्यत आह – ईश्वरस्येति ॥ बाधकाभावाद्गुणवाचकेन शब्देन गुणसिद्धिः, दोषवाचकशब्देन न दोषसिद्धिः, बाधकसद्भावादिति भावः । विनिर्णयग्रन्थ इति ॥ यथाल्पाक्षरत्वादिकं सूत्रलक्षणं तथा अध्यायान्ते निर्णयार्थं द्विरुक्तिरपि विनिर्णयग्रन्थ-लक्षणमिति भावः । एतेनाध्यायान्ते यदि निर्णयार्थं द्विरुक्तिः, तर्हि पादान्तेऽपि तदर्थमेव द्विरुक्तिः स्यात् । यदि अध्यायान्ते तद्द्विरुक्त्यैव पादार्थावधारणस्यापि जातत्वात् पादान्ते द्विरुक्त्यभावस् तर्हि शास्त्रान्त एव द्विरुक्तिरस्तु तथैव सर्वावधारणसम्भवादिति परास्तम् ।
पूर्वपक्षस्तु – न विष्णुरसदादिशब्दवाच्यः । केषाञ्चिदभाववाचित्वात्, केषाञ्चिन्निःस्वरूप-वाचित्वात् । न च परमत्मनोऽभावत्वादिकं युज्यते । भावरूपत्वात् । न च स्वस्य निःस्वरूपत्वाभावेऽपि असतस् तदधीनत्वेन तच्छब्दवृत्तिरिति वाच्यम् । नियम्यस्वरूपशून्यस्य नियम्यत्वायोगात् । अतोऽसदादिशब्दानां परमात्मवचित्वाभावात्, न युक्तं समन्वयसूत्रमिति ।
सिद्धान्तस्तु – परमात्मैव असदादिशब्दवाच्यः । तदधीनत्वादियुक्तिसमुदायात् । न च निषेधमुखवेद्यत्वाद्यभावात्तदभावः । निषेधमुखवेद्यत्वाभावेऽपि दुर्जनाऽव्यक्तत्वादिना ‘शमूनं कुरुत’ इत्यादि योगे न च शून्यादिशब्दवाच्यत्वोपपत्तेः । न च नियम्यस्वरूपविधुरत्वात् तदधीनत्वमयुक्तमिति वाच्यम् । स्वरूपवैधुर्येऽपि निषेधमुखवेद्यत्वादिधर्माणां तदधीनत्वात् । अतो ऽसदादिशब्दवाच्यत्वस्य हरेरुपपन्नत्वाद् युक्तमशेषस्वरवर्णपदवाक्यात्मकशास्त्रयोनित्वम् । ततो जगज्जन्मादिकर्तृत्वं, मुख्यानन्तगुणवत्त्वं च सिद्धम् ।
हृदम्बरे सत्यनाथयतेर्व्यक्तस्य सङ्गता ।
तत्वप्रकाशिकाध्याये रामचन्द्रस्य चन्द्रिका ॥ १ ॥
तत्प्रसादाऽभिलब्धत्वाल्लोके साऽभिनवा मता ।
तया प्रीतो गुरोरस्तु सर्वदा भगवान्हरिः ॥ २ ॥
व्यक्तस्य रामचन्द्रस्य सत्यनाथहृदम्बरे ।
सङ्गता प्रथमाध्याये शुद्धाऽभिनवचन्द्रिका ॥ १ ॥
इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचितायां
तत्वप्रकाशिकाऽभिनवचन्द्रिकायां प्रथमाध्यायस्य चतुर्थः पादः ॥
वाक्यार्थमुक्तावली
निषेधमुखवेद्यत्वादिनेत्यादिपदेन विषयत्वग्रहणम् । समन्वय इति । अत्र समन्वयसूत्रस्थाने प्रकृतिश्चेति पदप्रयोगेऽव्यवहितसङ्गतिः सुलभैव ॥ विष्णुरन्यद्वेति ॥ अत्र असदादिशब्दवाच्यं किं शशविषाणादिकम् उत विष्णुरिति चिन्ता । तदर्थं तत्प्रवृत्तिनिमित्तं किं निषेध्यत्वादिकम् उत असत्प्रतिस्वातन्त्र्यदुर्जनाव्यक्तादिकमिति । तदर्थं विष्णोरसदादिशब्दवाच्यत्वे विशेषप्रमाणं नास्त्युतास्तीति । अभावो नेति द्वितीयप्रतिपत्तौ निषेधमुखप्रतीतिवेद्यत्वमस्ति तथापि प्रतीताव-योगादिति भावमाहुः । तद्वत इत्यन्ताभावप्रतियोगित्वरूपनिषेध्यत्ववत इत्यर्थः ॥ प्रयोगेति । प्रयोगे सत्येव निमित्तस्यानुसरणीयत्वान् निमित्तमस्तीत्येतावता प्रयोगं विना शक्तिकल्पना-योगात् । गजादौ बद्धशब्दस्येव प्रयोगप्रतिबन्धाभावाच्चेति भावः । सूत्रे तत्वित्यस्य तस्मिन् ब्रह्मणो वेत्यनुवर्तते ॥ सूत्रार्थमाह ॥ पूर्वोक्तेति ॥ प्रतिपादिता इति ॥ प्रतिपादितप्राया इत्यर्थः । इत्यत आहेति । इत्यतः प्रकारान्तरेण सर्वे व्याख्याता इति सूत्रखण्डार्थमाहेत्यर्थः । तेन सर्वे शून्यादिशब्दा महोपनिषदि कौर्मे च दुर्जनाव्यक्तत्वादिना शमूनं कुरुत इत्यादियोगेन च व्याख्याता इति सूत्रार्थ उक्तो भवति । श्रुतावव्यक्तशब्दस्यानासाद्ययोगेनासच्छब्दस्यादृश्य-इतृशब्दार्थैकदेशस्य निर्गुणश्चेत्युत्पत्तिविनाशाभावसूचनेनाभावा नाशशब्दार्थस्य सूचनात्स्मृतेः स्पष्टत्वादिति ज्ञेयम् । श्रुतावव्यक्तइत्यनुसारेणेषद्धेवासदित्यनुसन्धेयम् । अत एव नन्वसदादि-शब्दानामित्यवतारितम् ॥ शमूनमिति ॥ पृषोदरादित्वेन शकारनकारलोपे शमूनं प्रापयतीति व्युत्पत्तावातोऽनुपसर्गे क इति कप्रत्यये शून्यमिति रूपसिद्धिरिति भावः । तोदनात्तुच्छ उच्यते इत्यत्र तोदनस्य तुच्छशब्दप्रवृत्तिनिमित्तत्वमुच्यत इति प्रतीतिं वारयति ॥ तोदनात्तुदिति ॥ दुःखहेतुत्वादित्यर्थः । छशब्दस्यार्थमाह । अदृश्यश् छन्नत्वादिति । एवं मूले अदृश्यः सन् तोदनात्तुच्छ उच्यत इत्यन्वय उक्तो भवति ॥ नाश्यत्वादिति ॥ अश्भोजने असमासः ॥ उभयत्रेति ॥ सर्वस्य तदधीनत्वादर्थवदिति न्यायेन तत्तच्छब्दाभिधेयतेत्युत्तरत्रेत्यर्थः ॥ भगव-त्प्रेरणमिति ॥ तदिच्छामित्यर्थः । उक्तं च चन्द्रिकायाम् । उत्पिपादयिषेदीशो शृृङ्गं न हि शशादिके । गवादाविव जायेत तदभावादभूदसदिति ॥ कारणमन्तरेणेश्वरे पूर्णानन्दत्वादिवदत्र किं न स्यादित्यत आह ॥ ईश्वरस्येति ॥ यद्वा ईश्वरो वा कथं तत्रैव तत्करोतीत्यत आह ईश्वरस्येति ॥ अभ्यासोऽध्यायसमाप्तिप्रदर्शनार्थपर इति भाष्योक्तं दूषयति अध्यायसमाप्ते-रिति ॥ पुराणादावदर्शनादुक्तं विनिर्णय इति निर्णायकग्रन्थ इत्यर्थः । अधिकरणार्थमुपसंहरन् समन्वयफलमाह अत इति ॥ अधिकरणक्रमस्त्वनन्तरसङ्गत्यैव ज्ञेयः ।
अनन्तवेदसंवेद्यः पूर्णानन्तगुणार्णवः ।
इन्दिरारमणः प्रीतः पातु दीनदयापरः ।
इति श्रीमद्विठ्ठलाचार्यतनूजेन श्रीमत्तीर्थाचार्यचरणसेविना श्रीनिवासेन विरचितायां श्रीमत्तत्वप्रकाशिकावाक्यार्थमुक्तावल्यां प्रथमाध्यायस्य चतुर्थः पादः ।
तत्त्वसुबोधिनी
समन्वयसूत्र इति हन्तैतमेव पुरुषं सर्वाणि नामानि इति । श्रुतिगतसर्वशब्दस्य दृष्टान्त-बलेनासङ्कुचितार्थत्वम् अङ्गीकृत्य न विष्णोः प्रकृत्यादिस्त्रीशब्दवाच्यत्वं वक्तुं युक्तं विष्णोर् निःस्वरूपत्वोपयोगेनासदेवेदमग्र आसीदित्यादिवाक्यगतसत्शब्दवाच्यत्वासम्भवेन तत्सङ्कोच-स्यावश्यकत्वादिति पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिरिति भावः ॥ तदयोगादिति ॥ असदादि-शब्दवाच्यत्वायोगादित्यर्थः । न चाभावस्य सस्वरूपत्वेन पराधीनत्वसम्भवाद् अभाववाचि-शब्दप्रवृत्तिः परमात्मनि सम्भवतीत्यत आह ॥ अभावे तत्सम्भवेऽपीति ॥ पराधीनत्व-सम्भवेऽपीत्यर्थः । असदादिशब्दप्रवृत्तिनिमित्तस्य भगवद्गतत्वेन योगेन च असदादिशब्दप्रवृत्तिः सम्भवतीत्याह ॥ दुर्जनाव्यक्तत्वादिनेति ॥ स्वसुखादन्यसुखम् अल्पं करोतीति पृषोदरादित्वेन शकारनकारगताकारनाशे शम् ऊनं यापयतीति व्युत्पत्तौ ‘आतोऽनुपसर्गेऽकः’ इति कप्रत्यये ‘आतो लोप इटि च’ इत्यकारलोपे शून्यमिति रूपसिद्धिरिति भावः । तोदनात् तुच्छ उच्यत इत्यत्र तोदनस्य तुच्छशब्दप्रवृत्तिनिमित्तत्वमुच्यत इति भ्रान्तिं निवारयति ॥ तोदनात्तुदिति ॥ दुःखहेतुत्वादित्यर्थः । उ इत्यस्य प्रवृत्तिनिमित्तानुशङ्कां परिहरति ॥ अदृश्यश् छ इति ॥ दुर्जनैरिति शेषः । छशब्द इत्यस्य अदृश्यत्वं निमित्तं कुत इत्यत आह ॥ छन्नत्वादिति ॥ छआच्छादने इत्यस्माड् डुप्रत्यये टिलोपे च उ इति रूपसिद्धिरिति भावः ॥ भावयितुमिति ॥ न भाव्यते उत्पाद्यते इत्यभावः ॥ नाश्यत्वादिति ॥ न अश्यते भक्ष्यते इति नाशः ।
अनेन स्वयं पुरो विष्णुः स्वं यस्माच्छमूनं कुरुते तस्मात् शून्य इति प्रोक्तो ऽदृश्यः सन् तोदनात् तुच्छ उच्यते इति स्मृतावन्वय उक्तो भवति । सर्वस्य तदधीनत्वादित्युभयत्र सम्बध्यत इति । स्वसुखादन्यसुख्याल्पत्वकरणे तोदनैर् दुर्जनैर् अदृश्यत्वोक्तेनाप्युत्पादयितुम् अन्योन्यत्वे अभक्ष्यत्वे च सर्वस्य स्वातिरिक्तस्य चेतनस्य दुःखसम्बन्धयोग्यचेतनस्य द्रष्ट्रत्वेन उत्पादकत्वेन भक्ष्यकत्वेन च सम्भाव्यमानस्य भगवदधीनत्वस्य हेतुत्वेन शमूनं कुरुते इत्यादौ पूर्वत्र शून्यादिशब्दप्रवृत्तिनिमित्तस्वामित्वस्य विष्णौ शून्यादिशब्दप्रवृत्तौ निमित्तत्वेन तच्छब्दाभिधेयता इत्युत्तरत्र च सम्बध्यत इत्यर्थः । निषेधत्वं भगवदधीनत्वं कथमिति तत्राह । निषेध्यत्वादीना-मिति ॥ भगवत्प्रेरणामन्तरेणैव तत्र च निषेध्यत्वम् अस्त्वित्यत आह ॥ न हीति ॥ तत्रैव असत्येव । एवं तर्हि ईश्वरगतसर्वशक्त्यादीनाम् अन्यप्रेरण लक्षणकारणसापेक्षत्वं स्यादित्यत आह ॥ ईश्वरस्येति ॥ ननु अध्यायसमाप्तिज्ञापनार्थं द्विरुक्तिर् इत्यत आह । अध्याय-समाप्तेरिति ॥ अन्यथेति ॥ अध्यायसमाप्तेर् अर्थभेदेन ज्ञातुं शक्यत्वेऽपि तदर्थद्विरुक्तिश्चेदित्यर्थः । अध्यायार्थमुपसंहरति ॥ अत इत्यादिना ॥
इति पाण्डुरङ्गि आनन्दाचार्यसूनुश्रीनिवासाचार्येण विरचितायां श्रीमत्तत्त्वप्रकाशिकाविवृतौ
तत्वसुबोधिन्यां प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ।
वाक्यार्थविवरणम्
॥ तदयोगात् ॥ निषेधमुखवेद्यवस्तुत्वायोगेन तद्वाच्यसदादिशब्दवाच्यतायोगात् । दुर्जनानामव्यक्तत्वादसच्छब्दवाच्यत्वम् । ‘सदिति व्यक्तमुद्दिष्टमसदव्यक्तमुच्यते’’ इति प्रमाणादिति भावः ॥ तोदनादिति ॥ ‘तुद व्यथन’ इति धातोर्दुर्जनानां व्यथाहेतुत्वादित्यर्थः । तत्रैवेति । असत्येवेत्यर्थः । तन् निषेधमुखवेद्यत्वम् । अतो भगवत्प्रेरणैव तत्र कारणमिति भावः । इतरत्र निषेधमुखवेद्यत्वेन नियमनमकृत्वाऽसत्येव कस्मात्तथा नियमनं करोतीश्वरः । कारणविशेषादर्शनादित्यत आह ॥ ईश्वरस्येति ॥ भाष्ये उक्तस्याध्यायमूलत इत्यर्थ ‘आ’ अध्यायमूलत इति पदच्छेदः । अध्यायमूलमारभ्येत्यर्थः ॥
इति श्री बिदरह•ी श्रीनिवासतीर्थकृते तत्त्वप्रकाशिकावाक्यार्थविवरणे प्रथमाध्यायस्य चतुर्थः पादः ।
वाक्यार्थमञ्जरी
निषेधो नैनमित्यादिना ॥ निषेधमुखवेद्यत्वेति ॥ प्रथमप्रतीतौ नास्तीत्युपलभ्यमान-त्वेत्यर्थः । निःस्वरूपत्वमादिपदार्थः ॥ ॐ एतेन सर्वे व्याख्याता व्याख्याताः ॐ ॥ एतेन तदधीनत्वादि प्रागुक्तहेतुसमुदायेन सर्वे शून्या सदादिशब्दा ब्रह्मवाचकत्वेन प्रतिपादिता इत्यर्थः । अव्यक्तत्वादित्यनेन श्रुताव्यक्तत्वादिकं शून्यादिशब्दप्रवृत्तिनिमित्तोपपादनायोक्तमिति सूचयति ॥ अन्यसुखमल्पं करोतीति ॥ शमूनं यापयतीति व्युत्पत्तेरिति भावः । तोदनात्तुच्छ उच्यत इत्यत्र तोदनशब्दस्य तुच्छशब्दप्रवृत्तिनिमित्तत्वमुच्यत इति भ्रान्तिं वारयति ॥ तोदना-त्तुद इति ॥ दुःखहेतुत्वादित्यर्थस् तुदव्यथन इति धातोः । तर्हि छप्रत्ययस्य निमित्तानुक्तिरित्यत आह ॥ अदृश्यश् छ इति ॥ दुर्जनैरिति शेषः । कुत इत्यत आह ॥ छन्नत्वादिति ॥ छआच्छादन इत्यस्माड्डप्रत्यये टिलोपे च छ इति रूपसिद्धिरिति भावः । अनेन स्वयं परो विष्णुर्यस्माच्छमूनं कुरुते तस्माच्छून्य इति प्रोक्तो ऽदृश्यः सन् तोदनात्तुच्छ उच्यत इति स्मृतावन्वय उक्तो भवति ॥ अभक्ष्यत्वादिति ॥ अशभोजन इति धातोरिति भावः ॥ सर्वस्य तदधीनत्वादित्युभयत्र सम्बध्यत इति ॥ स्वसुखादन्यसुखस्याल्पत्वकरणे तोदने दुर्जनैरदृश्यत्वे केनाप्युत्पादयितुमयोग्यत्वेऽभक्ष्यत्वे च सम्भाव्यमानस्य भगवदधीनत्वस्य हेतुत्वेन शमूनं कुरुत इत्यादौ पूर्वत्र शून्यादिशब्दप्रवृत्तिनिमित्तस्वामित्वस्य विष्णौ शून्यादिशब्दप्रवृत्तौ निमित्तत्वेन तत्तच्छब्दाभिधेयतेत्युत्तरत्र च सम्बध्यत इत्यर्थः । उक्तबाधकवशात्सर्वशब्दसङ्कोच इत्यत आह ॥ निषेधेति ॥ तत्रैव असत्येव ईश्वरोऽपि तत्रैव कथं तत्करोतीत्यत आह ॥ ईश्वरस्येति ॥
इति श्रीमत्तत्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्कराश्रीनिवासविरचितायां
प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥
प्रथमाध्यायः सम्पूर्णः ॥