०४ आकाशाधिकरणम्

ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ

४. आकाशाधिकरणम्

सूत्रभाष्यम्

अवान्तरकारणत्वेनापि स एवोच्यत इति वक्ति–

॥ ॐ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॐ ॥ १५ ॥

अकाशादिष्ववान्तरकारणत्वेन स एव स्थितः । यथा व्यपदिष्टस्यैव परस्य ‘य आकाशे तिष्ठन्’ (अथ यां जीवो जहाति पा.) इत्यादिना आकाशादिषूक्तेः ॥

सत्तर्कदीपावली

ननु भवतु भगवतः प्रकृत्यादिषु तत्तच्छब्दपरममुख्यार्थत्वं नानात्वं तदतिरिक्तत्वं च यद्यप्याकाशाद्वायुरित्याद्यवान्तरकारणत्वेनोच्यमानानि भूतानीत्येव । तेषामेव ‘आत्मन आकाशः सम्भूतः’ इति कार्यत्वेनोच्यमानत्वात् । स्वतन्त्रस्य कार्यत्वविरोधादितीमं पूर्वपक्ष-मपाकरोति । अवान्तरकारणत्वेत्यादिना । यः प्रतिपुरुषं प्रकृतिप्राणचक्षुः श्रोत्रान्नमनस्सु नानाभावेन तदतिरेकेण च तदाश्रयत्वेन स्थितः स एवाकाशादिष्ववान्तरकारणत्वेन उच्यमानः स्थितः स्वतः सम्पूर्णशब्दप्रवृत्तिनिमित्तनियामकत्वेन च यथा व्यपदिष्टस्य व्यपदेशमात्रपरम-मुख्यार्थत्वस्य परमात्मनो य आकाशे तिष्ठन्नित्यादिना आकाशवाय्वादिभूततदभिमानिषु यः प्राणे तिष्ठन्नित्यादिना । अतः प्राणचक्षुरादिषु चोक्तेः । अनुक्तावपि मुख्यार्थसम्भवे स एव ग्राह्यः । किमुक्ताविति भावः सम्भूतत्वं तु भगवतस् तत्तत्क्रियाप्रवर्तकत्वेन प्रादुर्भावा-दित्यनवद्यम् ।

तत्त्वप्रदीपिका

‘आत्मन आकाशः सम्भूतः । आकाशाद्वायुः’ इत्यादाववान्तरकारणादीनामाकाशादीना-मुत्पत्तिरुच्यते । परस्य तदसम्भवात्तच्छब्दवाच्यत्वं न युक्तमित्यत आह– अवान्तर-कारणत्वेनापीत्यादि ॥ आकाशादिषु वाय्वादीनामवान्तरकारणत्वेनाऽकाशादिशब्दवाच्यः स एव स्थितः । ‘स योऽतोऽश्रुतः’ ‘एष आत्मेति होवाचैतदमृतम्’ इत्यादौ यत्प्रकारः परो व्यपदिष्टस् तत्प्रकारस्यैव परस्य य आकाशे तिष्ठन्नित्यादिवाक्यैराकाशादिषु स्थितत्वेनोक्तत्वात् । न चोत्पत्तिश्रुतिविरोधः । आकाशादिस्थरूपाद्वाय्वादिस्थरूपस्य व्यक्तेर्विवक्षितत्वात् ।

तत्त्वप्रकाशिका

अत्रोत्पत्तिमत्त्वलिङ्गेनान्यत्रैव प्रसिद्धानामाकाशादिशब्दानां परमात्मनि समन्वयप्रतिपाद-नादस्ति शास्त्रादिसङ्गतिः । समन्वयसूत्रे सर्वशब्दानां परमात्मवाचित्वमुक्तम् । सर्वमध्य-पतिताश्चाकाशादि शब्दास्तैत्तिरीयादिश्रुतौ पठ्यन्ते । ‘आत्मन आकाशः सम्भूतो ऽकाशाद्वायुर् वायोरग्निर् अग्नेरापो ऽद्भ्यः पृथिवी पृथिव्या ओषधय ओषधीभ्योऽन्नम् अन्नात्पुरुषः’ इति । तद्वाच्यस्य विष्णोरन्यत्वे न तस्याशेषशास्त्रयोनित्वं सम्भवतीत्यवश्यं निर्धार्यता । तदाकाशादिशब्दवाच्यं विषयः । विष्णुरन्यद्वेति सन्देहः । समन्वयसूत्रमन्यत्रैव प्रसिद्धिश्च सन्देहबीजम् । न विष्णुरिति पूर्वः पक्षः । आकाशादीनाम् आत्मादिकार्यत्व-श्रवणात् । परमात्मनश्च कार्यत्वायोगात् । ‘न जायते म्रियते’ इत्यादेः । यदा तु भगवति कार्यत्वमेवायुक्तं तदा स्वस्यैव कार्यकारणभावो लोकेऽप्यसम्भावितो नितरां विरुद्धः स्यात् । न च आकाशादिसम्भवस्य तदधीनत्वेन सम्भूतशब्दोपपत्तिः । सुतोत्पत्तौ जनके जातशब्दप्रयोगा-दर्शनात् । निमित्तविशेषादर्शनाच्च वाक्ययोजनानुपपत्तेश्च । तस्मादात्मशब्दोदितस्य मुख्य-कारणस्यैव विष्णुत्वं न त्ववान्तरकारणानामाकाशादीनामिति न समन्वयसूत्रं युक्तमिति । एवं प्राप्ते सिद्धान्तयत्सूत्रमवतारयति ॥ अवान्तरेति ॥ एतत्पूर्वपक्षनिरासायावान्तरकारणत्वेन विष्णुरेवाकाशादिशब्दैरुच्यत इति सूत्रकारो वक्तीत्यर्थः । सूत्रं व्याचष्टे ॥ आकाशादि-ष्विति ॥ न केवलं मूलकारणवाचकात्मशब्दवाच्यो हरिरपितु कार्यत्वे सति कारण-मवान्तरकारणं तद्वाचकाकाशादिशब्दवाच्यश्च । न च कार्यकारणभावविरोधः । आकाशादिषु तस्य स्थितत्वात् । ‘य आकाशे तिष्ठन्’ ‘यो वायौ तिष्ठन्’ ‘यस्तेजसि तिष्ठन्’ ‘योऽप्सु तिष्ठन्’ ‘यः पृथिव्यां तिष्ठन्’ इत्यादिनाऽऽकाशादिषु स्थितत्वोक्तेः । न च तत्रापि विष्णुः कुत इति वाच्यम् । यथा ‘स योऽतोऽश्रुतः’ इत्यादौ विष्णुरविदितत्वादिरूपेण व्यपदिष्ट-स्तादृशस्यैवाकाशादिषु ‘यमाकाशो न वेद’ इत्यादिनोक्तत्वात् । यथा चाऽऽकाशाद्युत्पत्ता-वाकाशाद्यन्तर्गतत्वेन भगवतोऽभिव्यक्त्या वाय्वादिगतस्वरूपाभिव्यक्तिहेतुत्वेन चावान्तर-कारणत्वमुपपन्नम् । अतोऽवान्तरकारणाभिधायकशब्दवाच्यत्वाद्विष्णोर्युक्तं समन्वयसूत्रमिति भावः । स्थितस्तच्छब्दैरुच्यत इति शेषः । न च वक्तव्यमस्त्वेवमवान्तरकारणत्वं विष्णो-र्युक्तम् । तथापि तच्छब्दवाच्यत्वे विशेषहेतुर्वाच्य इति । नामानि सर्वाणीत्याद्युक्तरीत्या परमात्मनि सिद्धेऽखिलशब्दसमन्वये तत्र प्रतीतविरोधाभासनिरासेनैव सूत्रकृतश्चरितार्थत्वात् । यत्तु (युक्ति) विशेषं च वक्ति स त्वधिको लाभः । (समाकर्षाधिकरणे भिन्नाधिकरणपक्षे पाठस्तु स त्वधिको लाभः) । अतोऽवान्तरकारणवाचिनामपि शब्दानां परमात्मपरत्वाद्युक्तं समन्वयसूत्रमिति सिद्धम् ॥

गुर्वर्थदीपिका

निमित्तविशेषादर्शनाच्चेत्यत्र ‘सोऽवरः सोऽनित्यः सोऽवरयति सोऽनित्ययति’ इत्यादिवत्स आकाशयति, स सम्भूतयतीत्यादिश्रुतिविशेषादर्शनादित्यर्थः । आकाशाधिकरणन्यायेनाऽऽ-समन्तात् काशनादाकाशः सम्यग्विद्यमानत्वात्सम्भूत इति व्युत्पत्त्याऽत्रापि आकाशादि-शब्दवाच्यत्वं परमात्मनो भवतु किमधिकरणान्तरेणेति शङ्काया अपि इदमेवोत्तरम् । तद्व-दनन्तत्वपरोवरीयस्त्वादिविशेषहेत्वभावात् । एवं सति भूतपञ्चकसृष्टेरेवाभावप्रसङ्गेनावकाश-दानादिकार्यस्य घटादिकार्यविशेषस्य च हेत्वभावादित्यपि द्रष्टव्यम् । वाक्ययोजनानुपपत्तेरित्यस्य राजा जयीतिवद् आकाशः सम्भूत इत्येतावतैव वाक्यस्य परिपूर्तेर् आत्मन इत्यादिहेतु-वाचकपदानामन्वयाभावादित्यर्थः । वाय्वादिगतस्वस्वरूपाभिव्यक्तेराकाशादित्यादिपञ्चम्यन्त-पदेन श्रौतत्वाद् रामकृष्णादीनां मूलरूपभूतात्मन इवात्राप्यात्मन एव सर्वासामपि भगवन्मूर्ती-नामभिव्यक्तिरिति चोद्यस्याप्यनवकाश इति द्रष्टव्यम् । युक्तिविशेषमित्यत्र युक्तिविशेषं सामान्यतोऽनुपपत्तिपरिहारातिरिक्तं ‘सोऽवर’ इत्यादिरूपं साक्षात्साधकयुक्तिविशेषमित्यर्थः ।

भावबोधः

समन्वयसूत्र इति । यस्मिन्निति वाक्यगतपञ्चजनाकाशादिशब्दानां विष्णुपरत्वेऽपि ‘नाकाशाद्वायुः’ इति वाक्यगताकाशादिशब्दानां विष्णुपरत्वं सम्भवति । एकस्मिन्नेव कालादौ विशेषबलादाधाराधेयभावदर्शनवदेकस्य विरोधात् पौर्वापर्यायोगेन कार्यकारणभावस्य क्वाप्य-दर्शनादिति पूर्वाधिकरणोपक्षिप्ताकाशादिशब्दविषयकाक्षेपोत्थानादव्यवहितपूर्वाधिकरणसङ्गति-रिति ज्ञेयम् । किं विष्णुरिति ॥ अत्र ‘आकाशाद्वायुः’ इत्यादिवाक्यगताकाशादिपदवाच्यं किं भूताकाशादि किं वा विष्णुरिति चिन्ता । तदर्थं नामानि सर्वाणीति श्रुतिगतः सर्वशब्दः किं सङ्कुचितार्थ उतासङ्कुचितार्थ इति । तदर्थमाकाशादिशब्दवाच्यत्वाङ्गीकारे आकाशाद्वायुरिति वाक्यप्रतीतकार्यकारणभावविरोधः प्राप्नोति उत नेति । तदर्थमाकाशादिशब्दवाच्यानां कार्य-कारणभावः किं घटमृत्पिण्डादिसाधारण उत व्यक्त्यव्यक्तिरूपोऽपीति । तदर्थमाकाशादौ विष्णुरूपाणि सन्त्युत न सन्तीति । तदर्थं ‘य आकाशे तिष्ठन्’ इत्यादिवाक्येषु विष्णु-लिङ्गोक्तिर्नास्त्युतास्तीति । परमात्मनश्च कार्यत्वायोगादिति । अनेन ‘विरोधः कार्यतद्वतोः’ इत्यनुव्याख्याने बुद्ध्या विविक्तस्य कार्यस्य इत्यस्य भावप्रधानत्वमभ्युपेत्य परमात्मनः कार्यत्वस्य विरोध इति तदंशो व्याख्यातो भवति । इदानीं समग्रं तद्वाक्यं योजयति यदा त्विति । निमित्तविशेषादर्शनाच्चेति । परमात्मन अव्यक्तादिशब्दवाच्यत्वप्रतिपादकाव्यक्तमचलं-शान्तमित्यादिश्रुतिरूपनिमित्तविशेषवदत्र तदभावादित्यर्थः ॥ वाक्ययोजनानुपपत्तेश्चेति ॥ आत्मादेः स्वस्मादाकाशादिरूपः स्वयमन्यगतसम्भवनियामक इत्यर्थ उक्तः स्यात् । तत्र च स्वस्यान्यगतसम्भवकर्तृत्वे स्वस्यानुपयोगादात्मन इत्यादेरन्वायानुपपत्त्या वाक्ययोजनानुपपत्ते-रित्यर्थः । भाष्ये अवान्तरकारणत्वेनापि स एवेत्यनन्तरं तच्छब्दैरुच्यत इति शेष इत्यभिप्रेत्य तद्व्याचष्टे न केवलमित्यादिना । अनेन सौत्र ‘श्च’शब्दः कार्यत्वसमुच्चायकः । तेन कार्यत्वे सति कारणत्वरूपावान्तरकारणत्वलाभः मूलकारणत्वसमुच्चयार्थश्च । यथा च न केवलं मूल-कारणत्वेन तद्वाचकात्मशब्देनोच्यते । किन्त्ववान्तरकारणत्वेनापि निमित्तेन तद्वाचकाकाशादि-शब्दवाच्यश्चेत्युक्तं भवति ॥ आकाशादिषु स्थितत्वोक्तेरिति ॥ अनेनाकाशादिषूक्तेरिति भाष्येण सौत्रस्याकाशादिष्वित्यस्योक्तेरित्यनेनापि सम्बन्ध इत्युक्तं भवति । आकाशादिषु तस्य स्थितत्वेऽपि कार्यकारणभावविरोधपरिहारः कथमित्यतो व्यक्त्यपेक्षया कार्यत्वं चेति न्यायविवरणाभिप्रायमाह यथा चेति ॥

ननु तर्हि ‘विकारशब्दान्नेति चेत्’ इत्याद्यनुपपत्तिपरिहारः कर्तव्यः । न त्वानन्द-मयोऽभ्यासाद् इत्यादिकं वक्तव्यमित्यत आह– यत्तु युक्तिविशेषं चेति ॥

भावदीपः

व्यक्त्यपेक्षया कार्यत्वं चेति न्यायविवरणेन अवान्तरेण इत्यादिभाष्येण वा सूचितलिङ्गे-नान्यत्रैव प्रसिद्धिमाह ॥ अत्रोत्पत्तिं मत्त्वेति ॥ यद्यपि द्युभ्वादिनय एव प्रादुर्भावरूपा हरेरुत्पत्तिर्निर्णीता । अन्यथा तत्र श्रुतजायमानशब्दस्योक्तरूपजन्मवति विष्णौ सावकाशत्वा-भावे अतच्छब्दात्प्राणभृच्च नेति जीवनिरासायोगात् । उक्तं च भाष्ये । ‘अजायमानो बहुधा विजायत’ इति तस्यैव बहुधा जन्मोक्तेरिति । तथाप्येकदेशोक्त्या कारणत्वे सत्युत्पत्तिमत्त्व-रूपावान्तरकारणत्वलिङ्गेन इत्यत्र तात्पर्यम् । कारणत्वांशस्तु अविरुद्ध इति नोक्तः । कार्यत्वायोगादित्याद्यग्रेतनटीकावाक्यं तु प्रादुर्भावरूपं जन्मेति पूर्वं भाष्ये स्पष्टमुक्तत्वाद् व्यक्त्यपेक्षया कार्यत्वमिति स्पष्टमत्र न्यायविवरणेऽभिहितत्वात् तद्व्यावर्त्योक्त्यर्थं न तु उत्पत्तिमत्त्वमेवायुक्तमिति भावेन । अत एवानुभाष्यविरोधः कार्यतद्वतोरित्येव पूर्वपक्षयुक्तिरुक्ता ॥ न तु कार्यत्वविरोध इति ॥ श्रुत्यादिसङ्गतिमाह ॥ समन्वयेति ॥ व्यक्त्यपेक्षया कार्यत्वमिति न्यायविवरणस्वारस्याय तद्व्यावर्त्यमाह ॥ आकाशादीनामिति ॥ विरोधः कार्यतद्वतोरित्यनुभाष्योक्तमाह ॥ स्वस्यैवेति ॥ तदधीनत्वादर्थवदित्यनेन गतार्थतामाशङ्क्य निराह ॥ न चेति ॥ सुतोत्पत्ताविति पूर्वोक्ताकाशयोरत्राप्यनुसन्धेयः । अवरादिशब्दवदन्यत्रा-दृष्टत्वेऽपि वृत्तिः किं न स्यादित्यत आह ॥ निमित्तेति ॥ विशेषकारणाभावाच्चेत्यर्थः । नामानि सर्वाणीत्यादिश्रुतीनां साधारण्येन सङ्कोचसम्भवादिति भावः ॥ वाक्ययोजनेति ॥ हरेरेवात्माकाशादिशब्दवाच्यत्वे तस्यैकत्वेन क्रमाभावादात्मन आकाश आकाशाद्वायु-रित्यादिक्रमप्रतिपादकवाक्ययोजनानुपपत्तेश्चेत्यर्थः ॥ तस्मादिति ॥ विशेषहेत्वभावात् । बाधकभावाच्चेत्यर्थः ॥ अवान्तरेति ॥ कार्यत्वे सति कारणानामित्यर्थः । वायुकारणाकाश-कारणस्य वायुकारणत्वं विरुद्धमिति चोद्यं तु आनुमानिकनयोक्तन्यायेन महतः परस्मात्परस्य महतः परत्ववत्परिहृतमिति नैवोद्घाटितम् । हरेरवान्तरकारणत्ववचनं सूत्रे न सङ्गतमिति भ्रमनिरासाय शेषपूर्त्या सम्भन्धभाष्यं व्याचष्टे ॥ एतत्पूर्वपक्षेति ॥ कारणत्वेन चेति सूत्रांशं सम्बन्धभाष्येण विवृतं मत्वा चशब्दसमुच्चेयं व्याचष्टे ॥ न केवलमिति ॥ सौत्रकारणत्व-शब्देवावान्तरकारणत्वपर इति वा कार्यत्वेन चेत्यपि समुच्चीयत इति वा भावेन अवान्तर-कारणत्वेनेत्युक्तं भाष्य इत्यभिप्रेत्यार्थमाह ॥ कार्यत्वे सतीति ॥ वाच्यश्चेति ॥ एतेन भाष्ये अपिशब्दो व्याख्यातः । आकाशादिष्वित्यादिभाष्यं व्याकुर्वन् सूत्रशेषमवतार्य व्याचष्टे ॥ न चेति ॥ भाष्ये स एव स्थित इत्येतत्तस्य स्थितत्वादिति व्याख्यातम् । सूत्रेऽध्याहृतहेतोर-सिद्धिनिरासाय आकाशे तिष्ठन्नित्यादिभाष्यं व्याचष्टे ॥ य इति ॥ एतेनाकाशादिषूक्तेरित्यपि सूत्रेऽन्वयो दर्शितः ।

यथेत्यादिभाष्यं व्याचष्टे ॥ न चेत्यादिना ॥ तावता कथमुक्तविरोधनिरास इत्यतो व्यक्त्यपेक्षया कार्यत्वं चेति न्यायविवरणोक्तदिशा कार्यत्वविरोधं परिहरन् आकाशादिषु स्थित इत्यादिभाष्यतात्पर्योक्त्या कार्यकारणभावविरोधं च निराह ॥ तथाचेति ॥ अत इति ॥ विरोधाभावादित्यर्थः । सूत्रस्य समन्वयपरत्वस्फोरणाय भाष्ये शेषमाह ॥ स्थित इति ॥ भाष्यस्थानुवादस् तच्छब्दैराकाशादिशब्दैरित्यर्थः । अवान्तरं कारणं चेति सङ्क्षेपभाष्ये अवान्तर- कारणत्वलिङ्गसमन्वयोक्तावपीह नामसमन्वयपरत्वोक्तिर् नामानि सर्वाणीति वक्ष्यमाण-समाधानाय समाकर्षाद्युक्त्युपयोगाय चेत्याहुः । निमित्तविशेषादर्शनाच्चेति प्रागुक्तचोद्यमनूद्य निराह ॥ न च वक्तव्यमिति ॥ इत्याद्युक्तेति ॥ आकाशनय आदिपदार्थः । नन्वेवं पूर्वत्र प्राणप्राणदत्वादिविशेषहेतुरग्रे प्रतिज्ञादृष्टान्तानुपरोधादिश्च न वाच्यः स्यादित्यत आह ॥ यत्तु विशेषं च वक्तीति ॥

अभिनवचन्द्रिका

अत्र द्वे दर्शने कारणत्वेन चाकाशात्’ इति एकं सूत्रमेकमधिकरणम् । ‘समाकर्षात्’ इत्यारभ्याऽष्टसूत्री अधिकरणान्तरमित्येकम् । कारणत्वेन’ इत्यारभ्य नवसूत्री एकमधिकरण-मित्यपरम्’ । तत्राद्यं सत्तर्कदीपावलीकृतो दर्शनम् । ‘अथैवं प्रायः पारङ्गते महासमन्वये तिस्रः सर्वाधिकरणसाधारणाः शङ्काः । नैकाधिकरणे विशेषतः सङ्गताः । ता निराकरोत्यष्टभिः सूत्रैः’ इति सत्तर्कदीपावल्युक्तेस् तत्र ‘परमात्मनः सर्वशब्दवाच्यत्वं सम्भवति । तेष्वेव केषाञ्चिद् अर्थान्तरेष्वेव व्यवहाराऽन्यथाऽनुपपत्त्या तत्तच्छब्दवाच्यत्वावगतेः’ इत्येका शङ्का । ‘परमात्मनो मुख्यतः सर्वशब्दवाच्यत्वाङ्गीकारे तत्रैव प्रसिद्धिः स्यात् । जगति प्रसिद्धिर्न स्यात्’ इत्यपरा । ननु भवतु यदधीनं सर्वं तत्रैव शब्दजातं मुख्यं तथापि मुख्यतः शब्दवाच्यो न विष्णुरेव अपि तु पृथिव्याद्यभिमानिजीवा मुख्यप्राणश्च । ‘अस्य यदेकां शाखां जीवो जहाति अथ सा शुष्यति वायुना हि सर्वे लोका नेनीयन्त’ इत्यादिश्रुतेरित्यन्या इति शङ्कात्रयं द्रष्टव्यम् । अष्टसूत्र्याः पृथगधिकरणत्वे तु ‘सर्वशब्दानां परमात्मवाचकत्वे कथमन्यत्र व्यवहार इत्यतोऽब्रवीत्’ इति भाष्यं लिङ्गम् । अन्यथा आकाशशब्दस्याऽन्यवाचित्वे कथमाकाश-शब्दस्याऽन्यत्र व्यवहार इत्यतोऽब्रवीत्’ इत्येवाऽवक्ष्यत् ।

अधिकरणशरीरन्तु – विष्णोः सर्वशब्दवाच्यत्वे प्राप्तानुपपत्तित्रयपरिहारेण दृढीकरणा-दस्ति शास्त्रादिसङ्गतिः । मुख्यतः सर्वशब्दवाच्यत्वं परमात्मन एवेत्युक्तं, तद्युक्तमयुक्तं वेति सन्देहः । प्राचीनाधिकरणैरुपपादनं, अनुपपत्तिदर्शनं च, सन्देहबीजम् । न युक्तमिति पूर्वः पक्षः । परमात्मनः सर्वशब्दवाच्यत्वे केषाञ्चिच्छब्दानामन्यत्र व्यवहारविलोपप्रसङ्गात् । जगति प्रसिद्धिश्च न स्यात्, परमात्मन इव पृथिव्याद्यभिमानिजीवानां मुख्यप्राणस्य च तत्त-न्नियामकत्वेन तत्तच्छब्दमुख्यवाच्यत्वादिति । युक्तमेव सर्वशब्दवाच्यत्वमिति सिद्धान्तः । शब्दानां भगवद्वाचकत्वेऽपि समाकर्षेणान्यत्र व्यवहारसम्भवात् । लोकानामन्यत्रैव व्युत्पन्नत्वेन भगवद्वाचकानामपि शब्दानां जगति प्रसिध्द्युपपत्तेः । वाय्वादिगततत्तन्नियामकत्वस्य तदन्तर्गत-भगवदधीनत्वाच्च न वाय्वादीनां तत्तच्छब्दवाच्यता, किंतु विष्णोरेवेति । द्वितीयन्तु टीकाकृतो दर्शनम् । अत्रानुव्याख्याने –

‘विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।

पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः’ ॥

इति षडधिकरणोपाध्युक्तिर्लिङ्गम् ।

अणुभाष्ये च –

‘अवान्तरं कारणं च प्रकृतिः शून्यमेव च’ इत्यनेन

पूर्वोत्तराधिकरणप्रतिपाद्यमुक्त्वा एतदधिकरणप्रतिपाद्यानुक्तिश्च लिङ्गम् –

‘इदं मतद्वयं सूत्रभाष्यकारविचिन्तितम् ।

एकैकं मन्दबोधाय स्वीकृत्यैवाहतुर्मुनी’ ॥

अतो विरोधगन्धोऽपि नैव शङ्क्यो मनीषिभिः । आकाशादिशब्दनामिति ॥ अत्र यद्यपि आकाशशब्दसमन्वयप्रतिपादनादित्येवोक्ते वाय्वादिशब्दानामपि समन्वयः शक्यो विज्ञातुम्, आकाशग्रहणस्योदाहरणार्थत्वात् तथापि आकाशशब्दस्याधिभूतवाचकत्वेन अधिभूतवाय्वादि-शब्दानामेव ग्रहणं विज्ञायेत । तन्मा विज्ञायि किन्तु ओषध्यादिशब्दानामपि ग्रहणमिति ज्ञापनाय आदिशब्दप्रयोगः । अनेनैवाभिप्रायेण सूत्रे आदिशब्दः प्रयुक्तो द्रष्टव्यः ॥ तैत्तरीय-कादिश्रुताविति ॥ अनेन समन्वयाऽधिकरण प्रतिपाद्यशब्दराश्यन्तर्गताकाशादिशब्दनिर्णायकत्वं तेनाधिकरणेन अस्याधिकरणस्य सङ्गतिरित्युक्तं भवतीति बोध्यम् ॥ लोकेऽप्यसम्भावित इति ॥ ननु लोके सम्भावितः कार्यकारण भावोऽन्यः । ‘आत्मन आकाशः सम्भूत’ इत्यत्र श्रूयमाणकार्यकारणभावोऽन्य इति विषमोऽयमुपन्यासः । तथा हि लोके तावद्यस्य येन रूपेण कारणत्वं तस्य तेन रूपेण तत्कार्यत्वं विरुद्धं न तु स्वस्य स्वकारणत्वम् । इन्द्रादिभ्योऽ-र्जुनादीनामुत्पत्तिदर्शनात् । प्रकृते आत्मरूपादाकाशाख्यरूपस्योत्पत्तिः श्रूयते, न तु आत्मरूपादात्मरूपस्य । येन विरुद्धः स्यादिति चेत्, उच्यते लोके तावद्भिन्नयोरेव कार्यकारणभाव उपलब्धः । इन्द्रार्जुनदेहयोः कार्यकारणयोर्भिन्नत्वात्, पित्राद्यचेतनमेव पुत्राद्य-चेतनं प्रति कारणामित्येव सुप्रसिद्धम् । अतः स्वस्यैव कार्यकारणाभावो लोकेऽप्यसम्भावित इति ॥ वाक्ययोजनाऽनुपपत्तेश्चेति ॥ आत्मादेः स्वस्मादाकाशादिरूपः स्वयम् अन्यगत-सम्भवनियामक इत्यर्थ उक्तः स्यात् । तत्र चाकाशगतरूपस्यान्यगतसम्भवनियामकत्वे आत्म-रूपस्याऽनुपयोगात् । ‘आत्मन’ इत्यादेरन्वयानुपपत्त्या वाक्ययोजनानुपपत्तेरित्यर्थः । भाष्यकृता विषयपूर्वपक्षाणामप्रदर्शितत्वात् ।

इदं सूत्रं नाधिकरणान्तरं किन्तु पूर्वाधिकरणशेष इति भ्रमनिरासायाह – एतत्पूर्वपक्ष-निरासायेति ॥ न च कार्यकारणभावविरोध इति ॥ आकाशशब्देन भगवद्विवक्षायां वाय्वादिशब्देन स एव विवक्षणीय इति कार्यकारणभावविरोधः । तथाहि असतः सत्तासम्बन्धो हि कार्यत्वम् । परमात्मरूपाणामनादिनित्यत्वेन कार्यत्वाभावात् । आकाशान्तर्गतस्य रूपस्य आत्मकार्यत्वविरोधः । तथा कारणत्वस्य कार्यसापेक्षत्वाद् वाय्वन्तर्गतरूपस्य कार्यत्वाभावेन आकाशरूपस्य तत्कारणविरोधश्चेति न वाच्यमित्यर्थः । उत्पत्स्यमानेषु आकाशादिषु अभिव्यक्तेः कार्यत्वं रूपान्तराभिव्यक्तिहेतुत्वात् कारणत्वं चोपपन्नमिति गूढाभिसन्धिर् उत्तरमाह– आकाशादिष्विति ॥ आकाशादिषु स्थितत्वोक्त्या कथं कार्यकारणभावनिर्वाह इत्यतः स्वाभिसन्धिमुद्धाटयति– तथा चेति ॥

वाक्यार्थमुक्तावली

समन्वयसूत्र इति ॥ अव्यवहितसङ्गतिस्तु अस्त्येकस्यैवाधाराधेयभावः कालः सदा-स्तीत्यादौ दर्शनात् । नतु कार्यकारणभावः कार्यदर्शनादधिकाक्षेपादिति ज्ञेयम् ॥ विष्णु-रन्यद्वेति ॥ अत्राकाशादिशब्दवाच्यः किमन्य उत विष्णुरिति चिन्ता । तदर्थं नामानि सर्वाणीति श्रुतसर्वशब्दसङ्कोचे हेतुरस्ति उत नेति तदर्थं जन्यजनकभावः किमेकस्य न युक्त उत युक्त इति । विरोधकार्यतद्वतोरित्यनुव्याख्यानं मनसि निधाय पूर्वपक्षमाह न विष्णुरित्यादिना ॥ स्वस्यैवेति ॥ ननु द्युभ्वाद्यधिकरणे प्राणभृच्चेत्यत्र जीवलिङ्गानां सावकाशत्वोपपादनाय अजायमानो बहुधा विजायत इति तस्यैव बहुधा जन्मोक्तेरिति भाष्ये, प्रादुर्भावो हरेर्जनि’ इति निर्णीतत्वाद्गतार्थमिदमधिकरणमिति चेन्न । तद्रीत्याकार्यत्वनिर्वाहेऽपि कार्यत्वे सति कारणत्वस्यानिर्वाहात् । व्यञ्जकत्वं कारणत्वमिति चेन्न तस्यैतदधिकरणलभ्यत्वेनागतत्वात् । व्यंग्यव्यञ्जकभावस्याप्येकस्मिन्विरोधादिति तदधीनत्वेन गतार्थतामाशङ्क्य निराह– न चेति ॥ नन्ववरादिशब्दवदन्यत्रादृष्टत्वेऽपि वृत्तिः किं न स्यादित्यत आह ॥ निमित्तेति ॥ सोऽवरः सोऽनित्य इत्यादिवत्प्रापकप्रमाणविशेषादर्शनादित्यर्थः ।

ननु बाधकाभावेन नामानीत्यादिसामान्यवाक्यमेवालमित्यतः कार्यकारणभावविरोध उक्तः ॥ बाधकान्तरमाह वाक्येति ॥ ब्रह्मण एवाकाशादिशब्दवाच्यत्वे तस्यैकत्वेन क्रमाभावादात्मन आकाश आकाशाद्वायुरित्यादि क्रमप्रतिपादकवाक्ययोजनानुपपत्तेरित्यर्थः । अवान्तर-कारणत्वेन स एवेति भाष्ये अवान्तरकारणत्वेनापि स एवोच्यते इति सम्बन्धभाष्यानुसारेणापि शब्द उच्यत इतिपदं च संयोज्य व्याचष्टे ॥ न केवलमिति ॥ एतेन सूत्रे तत्वित्यनुवर्तते । चशब्दस्तु मूलकारणसमुच्चायकः । कार्यत्वसमुच्चायकश्च । तथाच ब्रह्मैव न केवलं मूलकारण-त्वेनात्मशब्देनोच्यते किं तु कारणत्वेन च शब्दात्कार्यत्वेन, कार्यत्वे सति कारणत्व-रूपावान्तरकारणत्वेनाप्याकाशादिशब्देनोच्यते इति प्रतिज्ञांशो व्याख्यातो भवति । आकाशा-दिषु स एव स्थित इति भाष्यं हेतुगर्भमिति तद्व्यावर्त्यमाशङ्क्य तत्परिहाराय योजयति ॥ न चेति ॥ एतेन सूत्रे न विरोध इत्यनुकृष्यते । आकाशादिष्वित्यधिकरणसप्तमीबलात् स्थित इति लभ्यत इति व्याख्यातं भवति ॥ आकाशादिषु स्थितत्वमसिद्धमिति शङ्कापरिहाराय सूत्रे आकाशादिषूक्तेरिति बुध्या विवेकेन सम्बन्धोऽभिप्रेत इति भावेन परस्य य आकाशे तिष्ठन्नित्यादिनाकाशादिषूक्तेरित्ययमंशः प्रवृत्तस्तद्व्याचष्टे य आकाशेति ॥ आकाशादिषु यथा व्यपदिष्टोक्तेरिति सूत्रांशव्याख्यापरं यथाव्यपदिष्टस्य परस्येत्यारभ्योक्तेरित्यन्तसमग्रभाष्यमवतार्य व्याचष्टे न च तत्रापीत्यादिना ॥ स योऽतोऽश्रुत इत्यादौ विष्णुलिङ्गत्वेनाप्रमिताविदितत्वस्य आकाशगते यमाकाशो न वेदेति श्रवणादाकाशस्थो विष्णुरिति भावः । आकाशादिषु स्थित-त्वेऽपि तस्य कार्यकारणविरोधः कथमित्यतो व्यक्त्यपेक्षया कार्यत्वं चेति न्यायविवरणं मनसि निधाय परिहाराभिप्रायमाह ॥ तथा चेति ॥ न चैकस्यैव व्यङ्ग्यव्यञ्जकभावानुपपपत्तिरिति वाच्यम् । रूपभेदेन तदुपपत्तेरिति चैकाच्चेत्युक्तम् । न्यायसाम्यात् । भाष्ये स एव स्थित इत्यनन्तरं समन्वयपरत्वलाभाय शेषमाह स्थित इति ॥ विशेषयुक्तिमिति पूर्वमुत्तरत्र चेत्यर्थः । ततश्च तत्तु ब्रह्मैव न केवलं मूलकारणत्वेन अपि तु कारणत्वेन च शब्दात्कार्यत्वेनावान्तर-कारणत्वे नाप्युच्यते । न च कार्यकारणभावविरोधः । आकाशादिषु स्थितत्वादेकस्यैव रूपभेदेन व्यङ्ग्यव्यञ्जकभावोपपत्तेः । तदपि कुत आकाशादिषु य आकाशे तिष्ठन्नित्युक्तेः । य आकाशे तिष्ठन्नित्युक्तस्य विष्णुत्वं कुत आकाशादिषु यथा व्यपदिष्टोक्तेः । यथा येन प्रकारेणाविदितत्वादिना स योऽत इत्यादौ व्यपदिष्टस् तथैवाकाशादिषु यमाकाशो न वेदेत्याद्युक्तेरिति सूत्रार्थः ।

तत्त्वसुबोधिनी

समन्वयसूत्र इति ॥ यस्मिन्निति वाक्यगतपञ्चजनादिशब्दानां विष्णुपरत्वसम्भवेऽपि नाकाशाद् वायुरिति श्रुतिगताकाशादिशब्दानां विष्णुपरत्वं सम्भवति । एकस्मिन्नेव कालादौ विशेषबलाद् आधाराधेयभावदर्शनवद् एकस्य विरोधात् पौर्वापर्यायोगेन कार्यकारणभावस्य क्वाप्यदर्शनादिति पूर्वाधिकरणोपक्षिप्ताकाशादिशब्दविषयकाक्षेपोत्थानाद् अव्यवहितपूर्वाधिकरण सङ्गतिरिति भावः । इदानीं समग्रं वाक्यं योजयति ॥ यदात्विति ॥ अवरादिशब्दवद् अन्यत्रादृष्टत्वेऽपि वृत्तिः किं न स्यादित्यत आह ॥ निमित्तविशेषादर्शनाच्चेति ॥ परमात्मनो ऽव्यक्तादिशब्दवाच्यत्वप्रतिपादकाव्यक्तमचलं शान्तमित्यादिश्रुतिरूपनिमित्तविशेषवद् अत्र तदभावादित्यर्थः ॥ वाक्ययोजनानुपपत्तेश्चेति ॥ आत्मादेः स्वस्माद् आकाशादिरूपः स्वयमन्यगतसम्भवः नियामक इत्यर्थ उक्तः स्यात् । तथा च स्वस्यान्यगतकर्तृत्वे स्वस्या-नुपयोगाद् आत्मन इत्यादेर् अन्वयानुपपत्त्या वाक्ययोजनानुपपत्तेरित्यर्थः । यद्वा ब्रह्मण एव आत्माकाशादिशब्दार्थत्वे तस्य एकत्वेन क्रमाभावाद् आत्मन आकाशः, आकाशाद्वायुर् इत्यादि क्रमप्रतिपादकवाक्ययोजनानुपपत्तेरित्यर्थः । भाष्ये अवान्तरकारणत्वेनापि स एव इत्यनन्तरं तच्छब्दैर् उच्यत इति शेष इत्यभिप्रेत्य तद् व्याचष्टे ॥ न केवलमित्यादिना ॥ आकाशादिषु स्थितत्वे किं प्रमाणमित्यत आह ॥ य इति ॥ ननु तर्हि विकारशब्दान्नेति चेद् इत्याद्यनुपपत्तिपरिहार एव कर्तव्य न तु आनन्दमयोऽभ्यासादित्यादिकं वक्तव्यमित्यत आह ॥ यत्तु युक्तिविशेषे चेति ॥ अत्र सौत्रश्चशब्दः न केवलम् आत्मशब्दवाच्यो हरिर् अपित्वा-काशादिशब्दवाच्यश्चेत्यर्थकः । यद्वा न केवलं कारणत्वेन किन्तु कार्यत्वेन चेत्यर्थः । एवं च कार्यत्वे सति कारणत्वरूपावान्तरकारणत्वं भाष्योक्तं सूत्रारूढं भवति । आकाशादिषु परमात्मनः स्थितत्वेनावान्तरकारणवाचकआकादिशब्दवाच्यो हरिरेव । न चाकाशादिषु स्थितत्वे किं प्रमाणमिति वाच्यम् । य आकाशे तिष्ठन् इति श्रुतेरेव प्रमाणत्वात् । ननु तत्रापि विष्णुः कुत इत्यत उक्तं यथा व्यपदिष्टोक्तेरिति सूत्राक्षरार्थः ॥

वाक्यार्थमञ्जरी

आत्मन आकाश इति ॥ अत्र ‘भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाश शब्दोक्त’ इत्युक्तरीत्या चतुर्णामुत्पत्तिर्ज्ञेया । सर्वत्र काशमानत्वादाकाशः बलज्ञानस्वरूपत्वा-द्वायुः स्वतो न गच्छतीत्यगं जगत्तं नयतीत्यग्निः । आपालनादापः बहुरूपत्वाद्बहुवचनम् । पृथितत्वात्पृथिवी, उष्टानां जाठराग्नि दह्यमानानाम् आश्रयत्वादोषधिः, अतृत्वादुपजीव्यतया-द्यत्वाच्चान्नम् । पुरि शेत इति पुरुष इत्यर्थः ॥ निमित्तविशेषादर्शनाच्चेति ॥ परमात्मनोऽ-व्यक्तादिशब्दवाच्यत्वप्रतिपादकाव्यक्तमचलं शान्तमित्यादिश्रुतिरूपनिमित्तविशेषवदत्र तदभावा-दित्यर्थः ॥ वाक्ययोजनानुपपत्तेश्चेति ॥ आत्मादेः स्वस्मादाकाशादिरूप स्वयं सम्भूता-न्यगतसम्भवः नियामक इत्यर्थ उक्तः स्यात् । तत्र च स्वस्यान्यगतसम्भवकर्तृत्वे त्वस्यानुप-योगादात्मन इत्यादेरन्वयानुपपत्त्या वाक्ययोजनानुपपत्त्येत्यर्थः । ॐ कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः ॐ । न केवलं मूलकारणत्वेन तद्वाचकात्मशब्दवाच्यो हरिरपितु कारणत्वेन चावान्तरकारणत्वेनापि निमित्तेन तद्वाचकाकाशादिशब्दवाच्यश्च तर्हि कार्यकारणभावविरोध इत्यत उक्तम् ॥ आकाशादिष्विति ॥ स्थितत्वादिति शेषः । य आकाशे तिष्ठन्नित्यादिना तस्याकाशस्थत्वोक्त्या तस्याकाशाद्युत्पत्तौ तदवस्थत्वेन तस्याप्यभिव्यक्त्या कार्यत्वं वाय्वादि-स्थरूपव्यक्तिहेतुत्वेन कारणत्वं च युक्तं च आकाश इत्युक्तो हरिः कुत इत्यत आह ॥ यथा व्यपदिष्टोक्तेरिति ॥ यथा येनाश्रुतत्वादिना प्रकारेण स योऽतोऽश्रुत इत्यादौ निर्दिष्टस्तेनैव प्रकारेणाकाशादौ यमाकाशो न वेदेत्यादिनोक्तेरित्यर्थः । आकाशादिषु स्थितत्वेऽपि कार्यकारणभावविरोधपरिहारः कथमित्यत आह ॥ तथा चेति ॥ ननु तर्हि विकारशब्दान्नेति चेदित्याद्यनुपपत्तिपरिहार एव कर्तव्यो न त्वानंदमयोऽभ्यासादिविशेषहेतुर्वक्तव्य इत्यत आह ॥ यं त्विति ॥

॥ इति आकाशाधिकरणम् ॥