ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ
२. ज्योतिरुपक्रमाधिकरणम्
सूत्रभाष्यम्
‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादि कर्माभिधायकस्य कर्मक्रमादिविरोधान्न युज्यत इत्यत आह–
॥ ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ ॥ १० ॥
ज्योतिरादिकर्मवाचकत्वेन प्रसिद्धाभिधेयोऽपि स एव । ‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रम्य ‘ता वा एताः सर्वा ऋचः सर्वे वेदास्सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋच इत्येव विद्यात्’ इति (ऐ.आ.२-२-२) ह्यधीयत एके ॥
सत्तर्कदीपावली
तथापि तस्य प्रतिपादकत्वं भगवद्वाचकत्वे न युज्यते । कर्मक्रमकालाद्युक्त्या भगव-द्वाचकत्वस्य विशेषेण विरोधात् । न च जातमोतमित्यादिव्युत्पत्त्या भगवद्वाचकत्वम् । तया कर्मक्रमादिवाचकत्वस्य विशेषेण विरोधापत्तेः । जातादिशब्दानामपि भगवद्वाचकत्वेन व्युत्पत्तेरप्यशक्यत्वादिति भावेन पूर्वपक्षमाह । वसन्त इत्यादिना । ज्योतिष्टोमादिकर्मवाचकत्वेन प्रसिद्धशब्दार्थोऽपि भगवानेव यथा तदिज्येन्द्रवाय्वादिशब्दार्थोऽसौ । न च तद्वाचकत्वं कर्मक्रमाद्युक्तिं विरुणद्धि ज्ञातमोतमित्यादिव्युत्पत्तिसम्भवात् । व्युत्पत्यैव ह्यध्यायोपक्रमादारभ्य सूक्त ऋगर्धर्चपादाक्षरा तद्वृक्षमुनिवाचकत्वेन प्रसिद्धशब्दानां भगवद्वाचकत्वं विद्वद्रूढिं च तद्विषयां प्रदर्श्य तथैव सर्ववेदानां भगवदर्थत्वमभिधीयते । श्रीमन्महैतरेय इत्यर्थः ।
तत्त्वप्रदीपिका
वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिकर्माद्यभिधायकस्य पदकदम्बकस्य प्रत्येकं ब्रह्म-वाचकत्वं न युज्यते । कर्तृकरणकर्मक्रमादिवचनविरोधात् । मुख्यत एकस्योभयार्थत्वासम्भवेन तद्वचनाभावे कृत्यनुष्ठानलोपप्रसङ्गादित्यत आह – ‘ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके’ । ज्योतिष्टोमादिकर्मकर्तृकरणादीनामशेषाणां पदार्थानां वाचकत्वेन प्रसिद्धशब्दानामभिधेयोऽपि स एव । यथा चायं सर्वशब्दवाच्यो भवति तथा ह्यधीयत एके शाखिनः प्रघट्टकोपक्रमादेवाऽरभ्य । अयं श्रुत्यर्थः – एष परमात्मा इमं देहं लोकं जीवान्तर्यामिरूपेणाभ्यार्चत् । य एष आदित्य-स्तपति, ‘‘यश्चासावादित्ये’’ ‘‘अथ य एषोऽन्तर आदित्ये हिरण्यश्मश्रुः’’ ‘येनाऽदित्यस्तपति तेजसा भ्राजसा च’ ‘यदादित्यगतं तेजः’ इत्यादि श्रुतिस्मृतिभ्यो विष्णुरेव हि तत्रस्थस्तपति । सर्वप्रणेता ह्येष यस्तपति । शतं वर्षाणि तं लोकमभ्यार्चदिति यत्तस्माच्छतर्चिन इत्याचक्षते विद्वांसः । एतमेव शतर्चिनः सन्तं शतर्चिन इत्याचक्षते न त्वन्यानिति । एवमन्यनामान्यपि परमात्मनि पृथक्पृथङ्निरुच्य पुनस्सर्ववेदप्रभृतयः समुद्रघोषान्ताः शब्दा एकविषययैव व्याहृतिः । सा च सर्वप्रणेतृपरमात्मविषयैवेति विद्यादिति सतात्पर्यमधीयते । निखिलपदानां तद्वाचकत्वपदवी तु गुरुभिरेवोपसन्दर्शयितुं सुशकेति नास्माभिरत्र प्रयत्यते । दर्शिता च सा भङ्गी भगवतैवानुव्याख्याने–
‘जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।
आयजेतश्चायजेतो वसन्तिश्च वसंस्ततः’ इत्यादिका ॥
तत्त्वप्रकाशिका
अत्र कर्मक्रमादिलोपप्रसङ्गेन कर्मतदङ्गेष्वेव प्रसिद्धानां ज्योतिष्टोमादिसर्वशब्दानां भगवति समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति ॥ वसन्त इति ॥ तत्तु समन्वयादिति सर्वशब्दानां परमात्मवाचकत्वमुक्तम् । सर्वमध्यपतिता ज्योतिरादिशब्दाः श्रुतिषु पठ्यन्ते । तेषां चान्यपरत्वे नविष्णोः सर्वशब्दवाच्यता सिद्ध्येदित्य-वश्यं निर्णेयता । तज् ज्योतिरादिशब्दवाच्यं विषयः । किं विष्णुरन्यद्वेति सन्देहः । समन्वयसूत्रमन्यत्रैव प्रसिद्धिश्च सन्देहबीजम् । तत्र ज्योतिरादिशब्दवाच्यो न विष्णुरिति पूर्वः पक्षः । तस्य ज्योतिष्टोमादिकर्मतदङ्गाभिधायकत्वेन प्रसिद्धत्वात् । तत्प्रसिद्धिं चापहाय परमात्म-वाचित्वाङ्गीकारे कालकर्मक्रमाधिकारिनियोज्ययजमानफलऋत्विगद्याभिधायकाभावेन तद-भावाख्यविरोधापातात् । न हि तत्प्रामाणान्तरेण सिध्यति । तथा च विहितानुष्ठानलोपप्रसङ्गः । किञ्च ज्योतिरादिसर्वशब्दवाच्यत्वं परमात्मनो योगेनैव वाच्यम् । रूढेरभावात् । ततो गुणपूर्त्यसिद्धेश्च । न च योगमात्रेण रूढार्थापहारो युज्यते । अभ्युपेत्यैव चेदमुदितम् । न योगोऽपि सम्भवति । ज्योतिषां स्तोम इत्यादिरूपा हि ज्योतिष्टोमादिशब्दव्युत्पत्तिः । कथमसौ स्तोमादिशब्दानामन्यपरत्वानभ्युपगमे सम्भवेत् । अन्यथा भगवन्नामावृत्तिमात्रत्वप्राप्तेः । स्तोमादिशब्दानामन्यपरत्वाभ्युपगमे किं ज्योतिष्टोमादिशब्दैरेव विशेषतोऽपराद्धम् । न च वाच्यं परमात्मसम्बन्धेनान्यत्रापि शब्दवृत्तिरभ्युपगतेति । यथा सति लोके लक्षणेतरवृत्त्यभावप्रसङ्गात् । अतो न ज्योतिरादिशब्दजातस्य परमात्मवाचित्वं युक्तमिति न समन्वयसूत्रं युक्तमिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ ज्योतिष्टोमादिकर्मतदङ्गवाचकत्वेन प्रसिद्ध-ज्योतिरादिशब्दाभिधेयो हरिरेव । यस्मादेके शाखिनस्ता वा एता इति तथा सर्वशब्दाभिधेयत्वेन हरिमेवाधीयते । न च शब्दानां भगवत्परत्वे वृत्त्यभावः । ‘एष इमं लोकमभ्यार्चत्’ इत्यादिना शतर्च्यादिशब्दानां परमात्मनि योगस्योक्तत्वात् । न च शब्दानामन्यत्र रूढत्वेन योगाङ्गी-कारायोगः । ‘तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तम्’ इति योगेन रूढेरपहारोक्तेः । एतमेव परमात्मानं मुख्यतो यौगिकार्थं सन्तं शतर्च्यादिनामभिराचक्षते न तु मुख्यतो रूढत्वेऽपि मुनीनिति प्रतीतेः । यद्यपि पङ्कजादिशब्दे योगापहारित्वं रूढेर्दृश्यते तथाप्यत्राचक्षत इति विद्वद्रूढिसहितत्वेनोक्तयोगस्य रूढ्यपहारित्वं युक्तमेव । अतो हरेः कर्माभिधायकशब्दवाच्यत्वा-द्युक्तं समन्वयसूत्रमिति भावः । ज्योतिःशब्दस्याप्रथमपठितत्वेऽपि प्रधानकर्माभिधायकत्वात्त-स्यैवान्योपलक्षकत्वसम्भवाच्च सङ्ग्रहः । तुशब्द एवार्थे । यास्ता एताः सर्वा ऋचस्तासामेकमेव व्याहर्तव्यं तच्च विष्णुरेव । किं च ये सर्वे वेदास्तेषामपीश्वर एव प्रतिपाद्य किमृचाम् । अपि च ये समुद्रादिघोषास्तेषामपि किमु वेदानां तत्र ऋचस्तु विशेषतः परमात्मप्रतिपादिका इति जानीयादित्यर्थः ॥
गुर्वर्थदीपिका
अस्मिन् कर्मणि अयमिति नियोज्यो मन्त्रः । गुणपूर्त्यसिद्धेश्चेत्यत प्रबलरूढ्यभावा-दभिलषितयोगापहारे सति गुणपूर्त्यसिद्धेरिति भावः । अप्रथमपठितत्वेऽपीत्यस्य ‘वसन्ते वसन्ते’ इति श्रुतौ ज्योतिःशब्दस्य प्रथमपठितत्वाभावेऽपीत्यर्थः ।
भावबोधः
श्रुत्यादिसङ्गतिमिति । अव्यवहितपूर्वाधिकरणसङ्गतिस्तु ‘अविशेषात्’ इति सूत्रतदुपात्त ‘नामानि सर्वाणि’ इति श्रुतिभ्यां सर्वशब्दवाच्यत्वेऽभिहिते सर्वमध्यपतितज्योतिरादिशब्दानां कर्मक्रमविरोधव्युत्पत्त्यभावप्रसङ्गेन च विष्णुवाचकत्वं न सम्भवतीति पूर्वपक्षोत्थानादिति ज्ञातव्यम् ॥ किं विष्णुरिति ॥ अत्र कर्मकाण्डगतज्योतिरादिशब्दवाच्यं किं कर्मादिकमुत विष्णुरिति चिन्ता । तदर्थं तस्य विष्णुत्वे कर्मक्रमादिविलोपः व्युत्पत्त्यभावश्च किं प्राप्नोत्युत न प्राप्नोतीति । तदर्थं कर्मादौ ज्योतिरादिशब्दानां वृत्तिरेव नास्ति उत रूढियोगादिमात्रसत्त्वेऽपि महायोगविद्वद्रूढी एव न स्त इति ॥ अधिकारिनियोज्ययजमानेति ॥ अधिकारित्वं फल-स्वामित्वावस्था । नियोज्यत्वं विधिप्रेर्यत्वावस्था । यजमानत्वं कर्तृत्वावस्थेत्यवस्थाभेद-मादायैवमुक्तम् । व्युत्पत्तेरप्यशक्यतेति पूर्वपक्षन्यायं घटयन् योजयति किञ्चेत्यादिना ॥ ज्योतिष्टोमादिशब्दव्युत्पत्तिरिति ॥ यद्यपि सूत्रे ज्योतिःशब्द एवोपात्तो ऽनुव्याख्याने च ‘‘जातम्’’ इति तस्यैव व्युत्पत्तिर्दशिता तथापि ‘ज्योतिष्टोमेन’ इति उत्पत्तिवाक्यविहित-ज्योतिष्टोमयागस्य ‘वसन्ते वसन्ते’ इति वाक्येन कालाख्यगुणविधानादुत्पत्तिवाक्यस्थ-ज्योतिष्टोमशब्दस्य ग्रहणमिति ज्ञातव्यम् ॥ भगवन्नामावृत्तीति ॥ प्रातिपदिकप्रकृतिप्रत्ययादीनां सर्वेषां विष्णुनामत्वादित्यर्थः । तुशब्द एवार्थ इति ॥ उपक्रमादिति ल्यब्लोपनिमित्ता पञ्चमी । तथा चोपक्रम्यैवेत्यर्थः । तथा चाऽविद्वद्रूढिमात्रापहारकविद्वद्रूढिमहितमहायोगं दर्शयितंु ‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रमवाक्यम् । अन्यथा ‘ता वा एता’ इत्येतावतैव पूर्णत्वे इदं व्यर्थं स्यादिति सूत्रतात्पर्यमिति भावः । अत एव सुधायाम् ‘तदेवोक्तमुपक्रमात्’ इत्यनुव्याख्यान-मेतत्परत्वेनापि व्याख्यायोपक्रमे सर्वस्यास्य दर्शनादित्युक्तम् ।
यद्वा अध्याहृतेन हरिमित्यनेन सम्बन्धः । अत एव टीकायां तथा सर्वशब्दाभिधेयत्वेन हरिमेवेति व्याख्यातम् ।
यद्वा ‘ईक्षतिकर्म व्यपदेशात् सः’ इत्यतोऽनुवृत्तेन ‘सः’ इत्यनेन सम्बन्धः । अत एव भाष्ये स एवेत्युक्तमिति भावः । रूढो रूढयोगो महायोगो महारूढयोगो रूढोपचारो रूढ-लक्षणोपचारो लक्षणेति च शब्दवृत्तिभेदाद् रूढिपूर्वकत्वेन महायोगवृत्त्या परमेश्वरेऽखिलशब्द-व्युत्पत्त्युपपत्तेरिति न्यायविवरणे रूढिपूर्वकत्वेनेत्यतः पूर्वमन्यत्र ज्योतिरादिशब्दानामिति शेषः ।
भावदीपः
एतदधिकरणोपाधिभूतशब्दानां भाष्योक्तबलवदुपपत्त्याऽन्यत्रैव प्रसिद्धत्वं वदन्नन्तर्भाव-सङ्गतिमाह ॥ अत्र कर्मक्रमादीति ॥ यद्यपि शरीररूपकविन्यस्तगृहीतेरित्युक्तन्यायेन तच्छब्द-वाच्येश्वरसम्बन्धादन्यत्रापि शब्दवृत्तेरङ्गीकारेण न कर्मादिलोपप्रसङ्गः । अन्यथा पूर्वत्रापि तारतम्यलोपप्रसङ्गः स्यात् । तथापीह पदवर्णस्वरादिरूपेणैव समन्वयस्याभिप्रेतत्वेन कर्म-क्रमादिप्रतीतेरेवाभावात् । तच्छब्दवाच्येशसम्बन्धाद् अन्यत्र वृत्तिश्चेद् गङ्गासम्बन्धात्तीरे गङ्गा-पदस्येव सर्वशब्दानां लोके लक्षणाप्रसङ्गेन प्राक्तनन्यायस्यैव अयोगेन इहाप्याक्षेप्यत्वादिति भावः ॥ सर्वशब्दानामिति ॥ पूर्वनयेषु समन्वितानाम् अन्यत्रासमन्वितानां च वाक्यानां पदवर्णस्वरादिभेदेनेह समन्वीयमानत्वात्तद्रूपेणोदाहरणत्वमित्यर्थः । विरोधिसर्वबाहुल्येत्यनुभाष्ये सर्वेत्येतदधिकरणोपाधेरुक्तेरिति भावः ।
तत्तु समन्वयादिति सर्वशब्दानां परमेश्वरे समन्वय उक्त इति पूर्वनयस्थभाष्यवाक्यमिहापि योज्यमिति भावेन तदर्थं वदन् सङ्गतिसूचकत्वेन तावद्भाष्यं व्याचष्टे ॥ तत्विति ॥ वसन्त इत्यादिभाष्यभावमाह ॥ सर्वमध्येति ॥ कर्मक्रमादित्यादिवाक्यतात्पर्यमाह ॥ तेषां चान्यपरत्व इति ॥ वक्ष्यमाणदिशेति भावः ॥ तदिति ॥ निर्णेतव्यत्वेन प्राप्तेत्यर्थः । पूर्वपक्षादिपरत्वेनापि भाष्यं व्याकुर्वन् कर्माभिधायकस्य इत्येतल्लब्धहेतुमाह ॥ तस्य ज्योतिष्टोमादीति ॥ प्रसिद्धाभि-धेयोऽपीत्यग्रेतनभाष्यानुरोधात् प्रसिद्धत्वादित्युक्तम् । कर्मक्रमादिविरोधादित्येतद्वाक्यं व्यनक्ति ॥ तत्प्रसिद्धिमिति ॥ अधिकारीति ॥ फलस्वामित्वावस्थायुक्तोऽधिकारी । विधिप्रेर्यत्वावस्थावान् नियोज्यः । कर्मकर्तृत्वावस्थायुक्तो यजमान इत्येकस्यैवावस्थाभेदाद् भेदेन व्यपदेशः ।
हरौ महायोगविद्वद्रूढियुक्तिपरस्योपक्रमादिति सूत्रांशस्य व्यावर्त्यं भाष्यस्थप्रसिद्धपद-सूचितमाह ॥ किं चेति ॥ हरौ शब्दानां रूढ्यङ्गीकारे बाधकं चाह ॥ तत इति ॥ रूढीव इत्यर्थः । अतोऽनन्तगुणो विष्णुर्यच्छब्दा योगवृत्तय इति सङ्क्षेपभाष्योक्तदिशा समन्वीयमान-शब्दानां हरौ यौगिकत्व एव जिज्ञासासूत्रस्थब्रह्मशब्दोक्तगुणपूर्णत्वसिद्धिरन्यथा तदसिद्धे-रित्यर्थः । कल्पनासूत्रव्यावर्त्यं व्युत्पत्तेरप्यशक्यता इत्यनुभाष्योक्तमाह ॥ न योगोऽपि सम्भवतीति ॥ ज्योतिषां स्तोम इत्यादिरूपा हि इति ॥ सूत्रे ज्योतिःपदस्यैवोपात्तत्वेऽपि जातमोतं हरौ यस्माज् ज्योतिर् इत्यनुभाष्ये च ज्योतिःपदस्यैव व्युत्पत्त्युक्तावपीह ज्योतिष्टोम-शब्दोऽप्युदाहरणम् । ज्योतिश्शब्दो ज्योतिष्टोमवाचीति च दर्शयितुं ज्योतिष्टोमशब्दस्य व्युत्पत्तिप्रदर्शनमिति ध्येयम् ॥ नामावृत्तिमात्रत्वेति ॥ जगज्जनकत्वादिगुणपूर्तिसिद्धिर्न स्यादिति मात्रशब्दार्थः । शरीररूपकविन्यस्तगृहीतेरिति पूर्वोक्तेन परिहृतत्वमाशङ्क्य तदा-क्षेपेणागतार्थत्वमाह ॥ न च वाच्यमिति ॥ अत इति ॥ कर्मक्रमादिविरोधाद्योगस्य च रूढितोऽपि दुर्बलत्वादीशे शब्दानां व्युत्पत्तेरशक्यत्वाच्चेत्यर्थः । न युज्यत इत्यस्य अर्थो न ज्योतिरादिति । पूर्वपक्षफलमाह ॥ न समन्वयेति ॥ ज्योतिरादीति भाष्यमाकाङ्क्षितपूर्त्या व्याचष्टे ॥ ज्योतिष्टोमेति ॥ तत्त्विनुवृत्तस्य स एवेति भाष्यम् । तस्यार्थो हरिरेवेति । कुत इत्यतो हिशब्दो हेत्वर्थ इत्युपेत्य ता वा एता इत्यंशं व्याचष्टे ॥ यस्मादिति ॥ इतीत्यनन्तरं सौत्रतथाशब्दमध्याहृत्य तस्यार्थमाह ॥ सर्वशब्दाभिधेयत्वेनेति ॥ ईङध्ययन इत्यस्य कर्तरि बहुवचनान्तं रूपम् । अतो हरिमित्युक्तम् । तेन सूत्रे तत्त्वित्यत्राप्यन्वेतीति सूचितम् । उपक्रमादिति सूत्रांशस्य एष इममित्यादिभाष्यं तदवतार्य व्याचष्टे ॥ न चेति ॥ एष प्राणशब्देन प्रकृतपरमात्मा । इमं लोकं ब्रह्मादिदेहमभ्यार्चत् प्राविशदिति व्याख्यातेयं श्रुतिः पादान्त्य-प्राणनये । प्रागुक्तशङ्कामनूद्य निराह ॥ न च शब्दानामन्यत्रेति ॥ तस्मादिति ॥ तं देहं यस्माच्छतं वर्षाण्यभ्यार्चत् तस्मादित्यर्थः ॥ योगापहारित्वमिति ॥ अन्यथा पङ्कज-पदाद्भेकादिप्रतीतिप्रसङ्ग इति भावः ॥ आचक्षत इति ॥ प्रयोगबाहुल्यस्य रूढित्वादिति भावः। यद्यपि श्रौतस्य स्मार्तस्य वा केवलयोगस्यैव अज्ञरूढितः प्राबल्यमस्त्येव । अन्यथा श्रुत्यादौ योगोक्तेर्वैयर्थ्यापत्तेर् उपपादितमेतन्निपुणतरं चन्द्रिकायां कम्पनादित्यत्र । तथाप्यभ्युपेत्यवादेन श्रौतयोगस्याज्ञरूढ्यपहारकत्वेऽपि विद्वद्रूढिसाहित्यमुक्तमिति ध्येयम् ॥ अत इति ॥ महायोगविद्वद्रूढिभ्यां सर्वशब्दवाच्यत्वस्य श्रौतत्वादित्यर्थः । वसन्ते वसन्ते ज्योतिषा यजेतेति श्रुतौ वसन्तपदस्यैवादौ श्रुतत्वेन सूत्रे वसन्त उपक्रमादिति वक्तव्ये कुतो ज्योतिष उक्तिरित्यत आह ॥ ज्योतिश्शब्दस्येति तु शब्द इति ॥ सौत्र इत्यर्थः । पञ्चमी ल्यब्लोपे उपक्रम्येत्यर्थो दर्शितः । न केवलमृष्यादीनां नाम भगवतः सर्वे वेदा अपि तस्यैव नाम किमु च वेदाः समुद्रघोषवृक्षपतनभेरीताडनादिसर्वघोषा अपि तस्यैव नामानि यथायोग्यं योजनीयानि इत्यैतरेय-भाष्यदिशा श्रुत्यर्थमाह ॥ यास्ता इति ॥ व्याहर्तव्यं तच्च विष्णुरेवेति ॥ यद्यप्यैतरेयभाष्ये एकमेव व्याहरणम् एकमेव नाम निर्दोषगुणपूर्तिवाचित्वादेकप्रकारता । प्राणे नारायण एव नारायणविषय एव व्यवहार इति प्राणपदं सप्तम्यन्तं कृत्वा योजितम् । तथापि प्रथमान्तमुपेत्य व्याख्यानान्तरमेतदित्यदोषः । ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानामपि प्रकाशयन्तीति प्राणे नारायण एवेति विद्यादिति तद्भाष्यदिशैवार्थमाह ॥ तत्रर्चस्त्विति ॥
अभिनवचन्द्रिका
कर्मक्रमादिलोपप्रसङ्गेनेति ॥ यद्यपि ज्योतिष्टोमादिशब्दा लोकतोऽन्यत्र प्रसिद्धा इति प्रथमे पादे वक्तव्याः, तथापि नैतेषां शब्दानामन्यत्र प्रसिद्धौ लोकव्यवहार एव मूलं, किं नाम कर्मक्रमादिलोपप्रसङ्गरूपविपक्षबाधकतर्कोऽपीति बलवल्लिङ्गेनाऽन्यत्रैव प्रसिद्धत्वस्यापि भावात्, तद्विवक्षया चतुर्थपादे निवेश इति भावः ॥ कर्मतदङ्गेष्वेव प्रसिद्धानामिति ॥ उपलक्षणमेतत् । अप्रसिद्धानां स्वरवर्णपदात्मकानामित्यपि ग्राह्यम् । अत्र कण्ठतो ऽन्यत्रैव प्रसिद्धशब्द-समन्वयाभिधानस्य वादबहिर्भावः ॥ सर्वमध्यपतितेति ॥ अनेन अस्याधिकरणस्य समन्वयाधिकरणप्रतिपाद्यशब्दराश्यन्तर्गतज्योतिरादिशब्दनिर्णायकत्वं समन्वयाधिकरणसङ्गति-रिति बोध्यम् ॥ तेषाञ्चान्यपरत्व इति ॥ तेषां शब्दानामन्यत्र महातात्पर्ये सर्वशब्दवाच्यता वचनवृत्तिद्वारा महातात्पर्यविषयता न सिध्येदित्यर्थः । एतेन अन्यत्र तात्पर्यस्य भगवतः शब्दवाच्यताविरोधित्वात् तेषां चान्यपरत्वेन विष्णोः शब्दवाच्यता सिध्येदित्ययुक्तमिति परास्तम् ॥ अन्यत्रैव प्रसिद्धिः सन्देहबीजमिति ॥ नन्वन्यत्रैव प्रसिद्धिः समन्वयसूत्रात् प्रबला न वा । नेतिपक्षे पूर्वपक्षहेतुत्वायोगः सिद्धान्तसाधकहेतूपन्यासवैयर्थ्यं च । प्रबलेन समन्वय-सूत्रेणैव निर्णयसम्भवात् । आद्ये न सन्देहः प्रबलयाऽन्यत्रप्रसिध्द्याऽन्यपरत्वनिर्णयसम्भवात् । न हि सत्यपि निर्णायके सन्देहो युज्यते । तदनुच्छेदप्रसङ्गादिति चेत्, उक्तम्, किमुक्तम्, सर्वाणि हि सूत्राणि संशयविपर्ययनिरासाय प्रवृत्तानि ‘इदमदो वेति सन्दिग्धे, अन्यदेवेति मिथ्यादृष्टिदुष्टे च भगवान्नारयणो व्यासत्वेनाऽवततार’ इत्यभिधानात् । ततश्चैकस्यैकदा संशयविपर्ययोरयोगात् कस्यचित्संशयः, कस्यचिद्विपर्ययो वाच्य इति समन्वयसूत्राऽन्यत्रैवप्रसिध्द्योः समबलत्वं मन्य-मानस्य संशयो ऽन्यत्रैव प्रसिद्धेः प्राबल्यं मन्यमानस्य पूर्वपक्षरूपो विपर्ययो भवति । अधिकारीति ॥ फलस्वामित्वावस्थायुक्तोऽधिकारी, विधिप्रेर्यत्वायुक्तो नियोज्यः । कर्म-कर्तृत्वावस्था, युक्तो यजमान इत्येक एवाऽवस्थाभेदेन त्रेधा व्यपदिष्ट इति बोध्यम् ॥ योगाङ्गीकारायोग इति ॥ योगेन परमात्मपरत्वाङ्गीकारायोग इत्यर्थः ॥ ननु मुख्यत इति ॥ रूढत्वेऽपि मुख्यतो मुनीनाचक्षत इति प्रतीतेरित्यर्थः ॥ यद्यपि पङ्कजादिशब्द इति ॥ पङ्कजादिशब्दे रूढेर्योगापहारित्वं नाम योगसंकोचकत्वम्, अंशे बाधकत्वमिति यावत् । एतेन पङ्कजादिशब्दे योगरूढ्योः सहैव बोधजनकत्वेन रूढेर्योगापहारित्वं न युक्तमिति परास्तम् ॥ तथापीति ॥ अत्र योगस्यरूढ्यपहारित्वं नाम प्रकृतपदसमन्वयकाले रूढ्युपस्थितार्थ-परित्यागहेतुत्वम् ।
वाक्यार्थमुक्तावली
श्रुत्यादिसङ्गतिमिति ॥ अविशेषादिति ॥ सूत्रखण्डोपात्ताया नामानीति श्रुतेः कर्म-क्रमादिलोपेनावश्यं सङ्कोचे स्वीकार्ये प्रसिद्धिबाधेनाव्यक्तादिशब्दविषयेऽपि सङ्कोचोऽस्त्विति तदाक्षेपेणोत्थनादनन्तरसङ्गतिः । तत्तु समन्वयादिति सर्वशब्दानां समन्वयः । तदिति पूर्वभाष्यानुवृत्तिमभिप्रेत्य कर्मक्रमादिविरोधादित्यंशं परित्यज्य सङ्गतिपरत्वेन भाष्यं योजयति ॥ सर्वशब्दानामिति ॥ किं विष्णुरिति ॥ अत्र ज्योतिरादिशब्दवाच्यं किं धर्मादि, उत विष्णुरिति चिन्ता । तदर्थं तस्य विष्णुपरत्वे कर्मक्रमादिलोपो व्युत्पत्यभावश्च प्राप्नोत्युत नेति । पूर्वपक्षपरत्वेन वसन्त इत्यादिसमग्रभाष्यं योजयति तत्रेत्यादिना । प्रसिद्धाभिधेयोऽपि स एवेत्युत्तरभाष्यानुसारेणाह ॥ ज्योतिष्टोमादीति ॥ भाष्ये कर्मक्रमादिविरोधापादनस्थापादक-सापेक्षत्वात् । आपादकमाह ॥ तत्तु प्रसिद्धमिति ॥ कालेति ॥ वसन्त इत्याद्युक्तकाललोपः ज्योतिषेत्याद्युक्तकर्मलोपः । वाजपेये नेत्याद्युक्तक्रमलोपः । स्वर्गकाम इत्याद्युक्ताधिकारलोपः । यजेतेत्याद्युक्तनियोज्यलोप इति द्रष्टव्यम् ॥ अधिकारित्वं फलकामत्वावस्थानियोज्यत्वं विधिप्रेर्यत्वसिद्धेरित्यर्थः । एवमाद्यसूत्रव्यावर्त्यं पूर्वपक्षं किं चेत्येदिनोक्त्वा द्वितीयसूत्रव्यावर्त्यं व्युत्पत्तेरप्यशक्यतेत्युक्तन्यायं विवृणोति ॥ न च योगोऽपि सम्भवतीति ॥ इत्यादिरूपा हीति ॥ इत्यादिरूपा हि सिद्धान्तिना भगवति व्युत्पत्तिरभिमतेत्यर्थः ।
एतेनैतदपि निरस्तम् । यत् केनचित्प्रलपितं तानि ह वा एतानि ज्योतींषि यदेतदस्य स्तोमा इति श्रुतौ ज्योतिंषि ऋग्जातानि स्तोमाः स्तुतिविशिष्टा यस्येति विग्रहदर्शनात्तद्विरोध इति कर्मणि तथाव्युत्पत्तिमङ्गीकृत्य भगवत्येव निर्वचनाङ्गीकारात् । यद्वा श्रुतेरपि यदेतस्य हरेरेतानि ज्योतींषि स्तुतिरूपा इति व्याख्येयत्वेनेत्यादिरूपेत्यादिपदेन तदुपादानाच्चेति ॥ यद्यपि श्रुतौ ज्योतिश्शब्दः स एव सूत्रे, जातमोतं हरौ यस्माज्योतिरित्यनुव्याख्याने चोपात्तः । तथापि यागान्तरपरज्योतिष्टोमशब्दोऽपीहोदाहरणमिति भावेन टीकायां तद्ग्रहणम् । चन्द्रिकाभावबोध-योस्तु पररीत्या ज्योतिष्टोमस्यैव वसन्तवाक्ये कालाख्यगुणविधानाज् ज्योतिष्टोमेन स्वर्गकामो यजेतेत्युत्पत्तिवाक्यस्य ज्योतिष्टोमशब्दग्रहणमित्युक्तम् । नास्मद्रीत्या तदुक्तं प्रमेयदीपिकायाम् । किं च नित्यनैमित्तिकातिरिक्तस्य ज्योतिर्नामकयज्ञस्य कामनया विना विधानाज्जोतिष्टोमस्यैवायं गुणविधानायानुवाद इति तु न संमतमिति ॥ अन्यपरत्वानभ्युपगम इति ॥ अवयवानामपि भगवत्परत्वे समुदायस्य ब्रह्मपरत्वं न स्यात् । न हि पङ्कः पङ्कजशब्दार्थ इति भावः ॥ अन्यथेति ॥ समुदायस्य भगवत्परत्वमङ्गीकृत्यावयवांशेन भगवत्परत्वानङ्गीकारे जगत्कर्ते-त्यादिगुणसमर्पणं विना घटः करीर इत्यादिवन्नाममात्रावृत्तित्वप्राप्तेरित्यर्थः । शरीररूपक-विन्यस्तेत्यादिना गतार्थतामाशङ्क्य निराह– न चेति ॥ लक्षणान्तरेति ॥ गङ्गाशब्दस्य तत्सम्बन्धिनि लक्षणावृत्तिरिवान्यत्रापि लक्षणापत्तेरिति भावः । न च तदधीनत्वन्यायेन ब्रह्मणि वृत्यङ्गीकारे न कर्मक्रमादिलोप इति वाच्यम् । तथात्वे सर्वैरपि शब्दैर्नियामकत्वातिरिक्त-गुणालाभप्रसङ्गात् । एष इमं लोकमभ्यार्चदित्युपक्रम्येत्यंशं परित्यज्येतरांशं व्याचष्टे ज्योतिष्टोमादीति ॥ आदिपदेन ज्योतिरादिकर्म ज्योतिरादित्यादिपदेन ज्योतिष्टोमादिशब्दश्च गृह्यते । कर्मपदं साङ्गकर्मपरमिति भावेनोक्तं तदङ्गेति ॥ भाष्येऽपि हिशब्दो यस्मादित्यर्थ इत्याशयेनोक्तम् ॥ यस्मादिति ॥ हरिमेवेत्यध्याहारः । वृत्यभावशङ्कापरिहाराय प्राप्तमुपक्रमा-दिति सूत्रांशं व्याकुर्वदेष इममिति भाष्यमवतार्य व्याचष्टे ॥ न चेति ॥ एतेनोपक्रम्य योगवृत्या हरिमधीयत इति सूत्रभाष्ययोरर्थ उक्तो भवति । न च योगमात्रेण रूढार्थापहारो युज्यते इति यच्चोदितं तदयुक्तम् । श्रौतयोगमात्रेण रूढ्यपहारस्य श्रुतावेव प्रतीतेरिति भावेनेष इममित्युप-क्रम्य तस्माच्छतर्चिन इत्याचक्षत एवमेव सन्तमित्यन्तं योगेन रूढ्यपहारमधीयत एक इति सूत्रार्थं मनसि निधायाह न चेत्यादिना ॥ न तु मुख्यं तान्मुनीनित्यन्वयः ॥ एवं श्रौतयोग-मात्रस्य रूढ्यपरिहारित्वं प्रमाणोक्तमसिद्धं च योगमात्रत्वं विद्वद्रूढेरपि सत्वादिति वदन् सुतरां रूढिसहितयोगस्य रूढ्यपरिहारित्वमित्याह ॥ यद्यपीत्यादिना ॥ एतेनैष इति योगमुपक्रम्या-चक्षत इति रूढि मप्यधीयत एक इति सूत्रार्थ उक्तो भवति । ननु श्रुतौ वसन्तशब्दस्य प्राथम्यात्तत्परित्यागे कारणाभावाद् द्वितीयज्योतिशब्दः सूत्रे कथमुपात्त इत्यत आह ॥ ज्योतिरिति शब्देनेति ॥ वसन्तकालापेक्षया प्रधानकर्माभिधायकत्वादित्यर्थः । सौत्रतुशब्द एवार्थः सन्नीक्षति कर्मव्यपदेशात्स इत्यतोऽनुवृत्तेन स इत्यनेनान्वेति । तमिति विपरिणतेन च तमेव हरिमेवेति चान्वेति । उपक्रमादित्यनेन चान्वेतीत्युक्तं भवति । ल्यब्लोपनिमित्ता पञ्चमी । अत एव सुधायाम्, उपक्रमं विधायेत्युक्तम् । हिर्हेतौ । ततश्च ज्योतिर् ज्योतिरादिसर्वस्वरवर्ण-पदघोषादिशब्दवाच्यः स हरिरेव हि यस्मादेके शाखिनो बह्वृचा एष इमं लोकमभ्यार्चदित्युप-क्रम्यैवोपसंहारे सर्वशब्दाभिधेयत्वेन तं हरिमेवाभिधीयतेऽत इति सूत्रार्थः । कैमुत्यगर्भतया श्रुत्यर्थमाह– यास्ता इति ॥ यद्यप्यैतरेयभाष्ये एकमेव व्याहरणमेकमेव नाम निर्दोषगुणपूर्ति-वाचकत्वादेकप्रकारता, प्राणो नारायण एव नारायणविषय एवेति व्याहृतशब्दस्य भावार्थकत्वं प्राणपदस्य सप्तम्यन्तत्वं चोक्तम् इह व्याख्यानान्तरमित्यदोषः (विरोधः) ।
तत्त्वसुबोधिनी
श्रुतिसङ्गतिमिति ॥ अत्र विशेषादिति सूत्रतदुपात्तनामानि इति श्रुतिभ्यां सर्वशब्दवाच्यत्वे अभिहिते सर्वमध्येय इति तज्ज्योतिरादिशब्दानां कर्मक्रमविरोधव्युत्पत्यभावप्रसङ्गेन च विष्णु-वाचकत्वं न सम्भवतीति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः । अधिकारिनियोज्ययजमानेति अधिकारित्वं फलस्वामित्वानियोज्यत्वं विधिप्रेर्यत्वावस्थायजमानत्वं कर्तृत्वावस्था इत्यवस्था-भेदमादायैव मुक्तं प्रमाणान्तरेणैव कर्मादिसिद्धिर्भविष्यतीत्याह ॥ न हीति ॥ प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेन तत्राप्रवृत्तेः । अनुमानस्य च प्रत्यनुमानपरिहारत्वादिति भावः । अस्तु कर्माद्यभावस् ततः किमित्यत आह ॥ तथाचेति ॥ परमात्मनि सर्वशब्दव्युत्पत्तेरेवाशक्यत्वान्न सर्वशब्दवाच्यत्वं धत्ते इत्यत आह ॥ न चेति ॥ रूढेर् योगापेक्षया प्रबलत्वादिति भावः । योगमङ्गीकृत्य रूढ्यभावेन सर्वशब्दवाच्यत्वं न सम्भवतीत्यङ्गीकृत्योक्तम् । अधुना योगेऽपि न सम्भवतीत्यत आह– अभ्युपेत्य चेति ॥ ज्योतिष्ठोमादीति ॥ यद्यपि सूत्रे ज्योतिःशब्द एवोपात्तस् तथापि ज्योतिष्ठोमे नेत्युत्पत्तिवाक्यविहितज्योतिष्ठोमयागस्य वसन्तवाक्येन कालाख्य- गुणविधानाद् उत्पत्तिवाक्यस्य ज्योतिष्टोमशब्दस्य ग्रहणमिति ज्ञातव्यम् ॥ भगवन्नामा-वृत्तित्वप्राप्तेरिति ॥ प्रतिपादकप्रकृतिप्रत्ययादीनां सर्वेषां विष्णुनामत्वादित्यर्थः । योगस्य सत्त्वान्नवृत्यभाव इत्यत आह ॥ एष इति ॥ एषः नारायण इमं लोकं ब्रह्मादिशरीरम् अभ्यार्चत् प्रविवेशेत्यर्थः । तस्मादित्यत्र कथं योगेन रूढ्यपरिहार उक्त इत्यतस्तदर्थमाह ॥ एवमेवेति ॥ तं ब्रह्मादिदेहं वर्षाणि अभ्यार्चद् यद्यस्मात् तस्मात् पुरुषायुषः शतं वर्षाणि भवन्ति तं शतं वर्षाण्यभ्यार्चत् । इति यद्यस्मात्तस्मादित्यर्थः । ननु वसन्तविषयवाक्ये वसन्त-शब्दस्य प्रथमपठितत्वात् सूत्रे वसन्तशब्द एव ग्राह्यः ज्योतिःशब्दग्रहणं किमर्थमित्यत आह– ज्योतिःशब्देति ॥ तु शब्द एवार्थ इति । उपक्रमादिल्यब्लोपनिमित्ता पञ्चमी तथा च उपक्रमस्यैवेत्यर्थः । तथा च रूढिनात्रापरिहारकविद्वद्रूढिसहितमहायोगं दर्शयितुम् एष इमं लोकमभ्यार्चद् इत्युपक्रमवाक्यम् । अन्यथा तावा एता इत्येतावतैव पूर्णत्वे इदं व्यर्थं स्यादिति सूत्रतात्पर्यमिति भावः ।
वाक्यार्थविवरणं
ननु ‘वसन्ते ज्योतिषा यजेत’ इत्यत्र वसन्तशब्दस्य प्रथमपठितत्वात् तस्यैव समन्वयो वक्तव्यः । ज्योतिश्शब्दसमन्वयकथनमसङ्गतमित्यत आह ॥ ज्योतिश्शब्दस्येति ॥ प्रधान-कर्मेति ॥ ज्योतिष्टोमयागाख्यप्रधानकर्माभिधायकत्वादित्यर्थः । वसन्तादिपदानां तु कर्माङ्गाभिधायकत्वादिति भावः ।
वाक्यार्थमञ्जरी
कर्मक्रमेति ॥ कर्मतत्क्रमादित्यर्थः ॥ ज्योतिष्टोमादीति ॥ यद्यपि सूत्रादौ ज्योतिःशब्द एवोपात्तस् तथापि ज्योतिष्टोमेन स्वर्गकामो यजेतेत्युत्पत्तिवाक्यविहितज्योतिष्टोमयागस्य वसन्ते वसन्त इति वाक्येन कालाख्यगुणविधानादुत्पत्तिवाक्यानुसारेणात्रत्यज्योतिःशब्दोऽपि ज्योतिष्टोमपर एवेत्याशयेन ज्योतिष्टोमशब्दग्रहणमिति ध्येयम् । कालो वसन्तादिः, कर्म यज्ञादि, क्रमो वेदकरणानन्तरं वेदिकरणादिः, अधिकारित्वं फलस्वामित्वावस्था, नियोज्यत्वं विधिप्रेर्यत्वावस्था, यजमानत्वं कर्तृत्वावस्थेत्यवस्थाभेदेनैकस्याधिकारित्वाद्युक्तिरुपपन्ना । फलं स्वर्गादि, ऋत्विजो होत्रादयः, प्रमाणान्तरेण प्रत्यक्षादिना येन तदभावाख्यविरोधो न स्यादिति भावः । व्युत्पत्त्ययोगादयुक्तं चेत्तच्छब्दवाच्यत्वमित्याह ॥ किञ्चेति ॥ गुणपूर्त्यसिद्धेरिति ॥ अवयवव्युत्पत्तावेव गुणलाभादिति भावः । किंज्योतिरादिपदानां प्रकाशादिवाचकत्वमुपेत्य ज्योतिष्टोमादिशब्दानां भगवति योगोऽङ्गीक्रियते उतान्यवाचकत्वं विना द्वितीयं दूषयति ॥ ज्योतिषामिति ॥ भगवन्नामेति ॥ प्रातिपदिकप्रकृतिप्रत्ययादीनां सर्वेषां विष्णुनामत्वादिति भावः । आद्य आह ॥ स्तोमादीति ॥ अन्यत्रापीति ॥ अतो न कालकर्माद्यभावापात इति भावः ॥ लक्षणेति ॥ मुख्यार्थप्रवाहसम्बन्धेन तीरे प्रवृत्तगङ्गादिशब्दस्य लाक्षणिकत्व-निश्चयादिति भावः ॥ ॐ ज्योतिरूपक्रमात्तु तथा ह्यधीयत एके ॐ ॥ ज्योतिरादिशब्दवाच्यं ब्रह्मैव न कर्मादिः कुतः हि यस्मादेके शाखिन उपक्रमाद् एष इमं लोकमभ्यार्चदितियोगेन शतर्च्यादिशब्दवाच्यत्वमुपक्रम्य तावा एता इति हरिमेव तथा सर्वशब्दवाच्यत्वेनाधीयन्ते पठन्ति तस्मादित्यर्थः । तथेति सौत्रपदानुवादः ॥ योगस्योक्तत्वादिति ॥ यस्माद् ब्रह्मादिदेहप्रविष्टं भगवन्तं शतं वर्षाण्यभ्यार्छत् तस्माच्छतर्चिन इति योगस्योक्तत्वादित्यर्थः । समग्रैतत् श्रुति-व्याख्यानं प्राणस्तथानुगमादित्यत्रास्माभिः कृतं द्रष्टव्यम् । कथमित्यत आह ॥ एतमेवेति ॥ प्रथमप्राप्तवसन्तपदत्यागेन ज्योतिर्ग्रहणे किं बीजमत आह ॥ ज्योतिःशब्दस्येति ॥ तस्यैवेति ॥ राजा गच्छतीत्यादौ प्रधानपरराजशब्दस्यैव परिचारोपलक्षकत्वदर्शनादिति भावः ॥ तुशब्द एवार्थ इति ॥ तस्य प्रागेव हरिमेवाभिधीयत इत्यध्याहृतेन सम्बन्धो दर्शित इति ध्येयम् । प्रथमप्राणशब्दस्य सप्तम्यन्तत्वे तद्भाष्येऽभिहितत्वेऽपि प्रथमान्तत्वमभ्युपेत्याह– विष्णुरिति ॥