ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ
अथ प्रथमाध्यायस्य चतुर्थः पादः
१. आनुमानिकाधिकरणम्
सूत्रभाष्यम्
॥ ॐ श्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धानामपि शब्दानां सामस्त्येन विशेषहेतुभि-र्विष्णावेव प्रवृत्तिं दर्शयत्यस्मिन्पादे ।
॥ ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥१॥
‘तत्तु समन्वयात्’ (ब्र.सू.१-१-४) इति सर्वशब्दानां परमेश्वरे समन्वय उक्तस् तन्न युज्यते । यतो ‘अव्यक्तात्पुरुषः परः’ (क.उ.१-३-११) इति साङ्ख्यानुमानपरिकल्पितं प्रधानमप्येकेषां शाखिनामुच्यत इति चेन्न तस्यैव पारतन्त्र्याच्छरीररूपकेऽव्यक्ते विन्यस्तस्य परमात्मन एवाव्यक्तशब्देन गृहीतेः । कप्रत्ययः कुत्सने । परमात्मन एवाव्यक्तशब्दः । तत्तन्त्रत्वेन तच्छरीररूपत्वादितरस्याप्यव्यक्तशब्दः । ‘तुच्छे(च्छ्ये)नाभ्वपिहितं यदासीत्’ (ऋ.सं.१०-१२९-३) इति दर्शयति च ।
‘अव्यक्तमचलं शान्तं निष्कलं निष्क्रियं परम् ।
यो वेद हरिमात्मानं स भयादनुमुच्यत’ इति पिप्पलादशाखायाम् ।
‘अक्षरं ब्रह्म परमम्’ इत्युक्त्वा ‘अव्यक्तोऽक्षर उच्यते’ (भ.गी.८-३,२१) इति वचनाच्च ॥
सत्तर्कदीपावली
अधिगते सर्वाधिकासाधारणे समन्वये अतिमुख्याधिकारिविषये महासमन्वये दुर्गमेऽपि बुद्धिरप्रभवतीत्यधुना सोऽभिधीयते भगवत इति भावेन पादार्थमाह ॥ श्रुतिलिङ्गादिभिरिति ॥ न चान्यत्र प्रसिद्धानामन्नप्राणेन्द्रादिशब्दानां समन्वयः प्रथमपाद एवोक्तः, न हि विष्ण्वावपि प्रसिद्धाः । तथा च सति तृतीयपादभेदानुपपत्तिरित्यत उक्तम् ॥ श्रुतिलिङ्गादिभिरिति ॥ अत्र प्राणेन्द्रादिशब्दानां बलवच्छ्रुत्यादिभिर् विष्णौ समन्वय उक्तः । दुःखादिशब्दानां तु तैरप्यन्यत्रैव प्रसिद्धेः । प्रसिद्धश्चायं विशेषोऽन्नादिशब्देभ्यो दुःखादिशब्दानाम् । न चैतत्पादतया गोचरः कोऽपि वैदिकशब्दः दुर्गमत्वेऽपि शिष्यत इति वोत्तराधिकरण एकस्मिन्नेव स्वरवर्णपदात्मनापि सर्ववेदसमन्वयाभिधानाद् वा सामस्त्येनेति । न चैवं सति भगवतः पुनरुक्तिसम्भवो वा शङ्कनीय इत्याह ॥ विशेषहेतुभिरिति ॥ ननु येषां वेदवचसामन्यपरत्वे ब्रह्मलक्षणमतिव्यापकं स्यात्तेषामेव समन्वयोऽभिधेयो न तु सर्वेषामिति शङ्कां परिहरत्सूत्रमुपन्यस्य तदंशोक्तं पूर्वपक्षं सविषयलक्षणमुक्तं सर्वजगज्जन्मादिकारणत्वात्सम्पूर्णं ब्रह्मेति । तदुभयं चास्य मूलम् । न ह्यानुमानिकमपि गुणसर्वस्वं शास्त्रं विना विशेषेण ज्ञातुं शक्यम् ॥ अयमयं भगवद्गुण इति ॥ अतस्तद्विशेषतो विज्ञापयितुं सर्वशब्दसमन्वयश्चतुर्थसूत्र उक्तः ॥ तन्न युज्यते इति ॥ यस्मात्साङ्ख्यानुमानकल्पितमचित्प्रधानमप्यादिकार्यात्, महतः परं विविधकार्याश्रयत्वेन व्याप्त-मपि तत्तद्दोषानोक्तमिति सूक्ष्मं चेत्यादि महागुणमुच्यते । नायमव्यक्तशब्दार्थो भगवान् अव्यक्तात्पुरुषः पर इत्यस्य पुरुषादवरत्वावगमात् । पुरुषश्च अव्यक्तात्परतोऽत्र जीवो भवितुमर्हति तस्य योनिमन्ये प्रपद्यन्त इत्यादिदुःखसम्बन्धावगमात् । न च भगवान् दुःखी बद्धो अवरो वा सर्वप्रमाणविरोधात् । अतोऽत्र गुह्यं ब्रह्मेत्यादिवाक्यपर्यालोचनया अर्थाज्जीव-परयोरैक्यमागच्छतीत्यनया दिशा पूर्वपक्षकरणन्यायेन पूर्वपक्ष इति भावः । सिद्धान्तांशं व्याचष्टे ॥ नेत्यादिना ॥ जीवे हिंसाहेतुत्वात्तत्प्रेर्यमाणत्वाच्छरीररूपकमव्यक्तम् । तस्यैव भगवत एव । जीवस्य तच्छरीरत्वावगमात् । य आत्मा शरीरं यस्य तेजः शरीरमित्यादौ शरीरतद्वतोश्च एकनियम्यत्वदर्शनात् । तद्गतस्य हरेरेव अव्यक्तनाम्ना उक्तेर्न उक्तदोष इत्यर्थः । शरीरस्य रूपमिव रूपमस्येति शरीररूपम् । जडाव्यक्तं तु शरीररूपमपि सम्यक् न भवति तुच्छशब्दा-दित्येतदर्थः कप्रत्यय इत्याह ॥ कप्रत्यय इति ॥ ननु मञ्चस्थे मञ्चशब्दवदव्यक्त-गहराव्यक्तशब्दश्चौपचारिकस् तत्र स्यादित्यत आह ॥ परमात्मन एवेति ॥ तुच्छतमेतज् जडाव्यक्तिं विन्यस्तं चात्र परमात्मेत्येतदर्थत्वेन सूत्रोपात्तश्रुतिं दर्शयति ॥ तुच्छेनेति ॥ तुच्छं न भवति गुणतो तमः शब्दोक्तम् आसमन्तात् सर्वैर्गुणैर् भूमात्मकम् । आनीदवातमित्युक्तं ब्रह्म । एवमव्यक्तविन्यस्तस्य परमात्मन एवाव्यक्तशब्दः सांख्यश्चेत्तत्र तस्य प्रयोगो योगश्चा-पेक्षितः । तत्र तावत्प्रयोगश्च शब्दसूचितश्रुतीतिहासयोरस्तीत्याह ॥ अव्यक्तमित्यादिना ॥
तत्त्वप्रदीपिका
‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ इति काठकानां शाखायामव्यक्तशब्देन प्रधानं परिपठ्यते । तस्य महतः परत्वात्पुरुषादवरत्वाच्च । न ह्यवरत्वं परस्य कयाऽपि विधया पश्याम इत्याशङ्का । परिहारभाष्यस्यायमर्थः । तस्यैव विष्णोः शरीररूपमव्यक्तम् । तदधीनत्वाच्छरीरमिव रूपमस्येति शरीररूपं, न तु हरेश्शरीरत्वात्तस्येति शरीररूपमित्युक्तम् । न च शरीरकल्पनायोग्यं तदिति कप्रत्ययेन कुत्सयामास । तस्मिन्नव्यक्ते नियामकत्वेन वर्तमानो विष्णुरेवाव्यक्तशब्देन गृह्यते । परमात्मन एवाव्यक्तशब्दो मुख्यः । तत्तन्त्रत्वेन तदावरकत्वेन च तच्छरीररूपकत्वादि-तरस्याव्यक्तशब्दः । ‘तुच्छ’मल्पं गुणतः । परमापेक्षयाऽल्पत्वं प्रकृतेः । आ समन्ताद्भूमात्म-कत्वादाभु ब्रह्म । यद् ब्रह्म प्रकृत्याऽपिहितमासीत् तदेव ‘तपसो’ ज्ञानस्य महत्तया प्रधानमासीत् । अव्यक्तमिति ज्ञातुमसुशकम्, अचलं न चाल्यं, शान्तं पूर्णसुखं, निष्कलं षोडशकलावर्जितं, निष्क्रियं न क्रियत इति ॥
तत्त्वप्रकाशिका
एतत्पादप्रतिपा(द्यं दर्शयति)द्यमाह ॥ श्रुतीति ॥ अन्यत्रोभयत्र च प्रसिद्धानां नाम-लिङ्गात्मकानां शब्दानां भगवति समन्वये सिद्धेऽवसरप्राप्तमन्यत्रैव प्रसिद्धानामुभयविधशब्दानां विष्णौ समन्वयं वक्त्यस्मिन्पादे सूत्रकार इत्यर्थः । नन्विन्द्रादिशब्दानामन्यत्रैव प्रसिद्धानां विष्णौ समन्वयस्य प्रथमपाद एव सिद्धत्वाद् व्यर्थ इ(ए)वायं पादः प्रतिभाति । न च तेषामन्यत्रैव प्रसिद्धताभावः । तथा सति तृतीयवैयर्थ्यात् । अन्यत्रैवान्यत्रापीत्यतः प्रकारान्तराभावादित्यत उक्तम् ॥ श्रुतिलिङ्गादिभिरिति ॥ लोकप्रसिद्ध्याऽन्यत्र रूढानामिन्द्रादिशब्दानां श्रुतिलिङ्गादिबलाद्विष्णौ समन्वयः प्राक्प्रतिपादितः । इदानीं तु श्रुतिलिङ्गादिभिरेवान्यत्र प्रसिद्धानामपि शब्दानां समन्वयनिरूपणान्नैतत्पादवैयर्थ्यम् । अनेनैवाभिप्रायेणा (न्यत्रान्यत्रैवेत्युक्ति) न्यत्रैवेत्युक्तिरिति भावः ।
पूर्वं क्वचिच्छ्रुत्यादिनैवान्यत्र प्रसिद्धशब्दसमन्वयोक्तावप्येतत्पादीयश्रुत्यादीनां प्राबल्यादिय-मुक्तिः । पूर्वं स्रष्टृत्वादिगुणाभिधायकानां शब्दानां तत्सङ्गतानां च समन्वयो निगदितोऽत्र पुनः स्वरवर्णपदात्मकानां समस्तशब्दानामिति वाऽवैयर्थ्यमिति भावेनोक्तम् ॥ सामस्त्येनेति ॥ यदुक्तं बलवच्छ्रुत्यादिभिरन्यत्र प्रसिद्धशब्दानां समन्वयोऽत्र कथ्यत इति तदयुक्तम् । असम्भवादित्यत उक्तम् ॥ विशेषेति ॥ ततोऽपि प्रबलहेतुभिरित्यर्थः । यदुदितमत्र समस्तशब्दसमन्वयनिरूपणादवैयर्थ्य-मिति । तदसत् । अंशे वैयर्थ्यादित्य(तो वा)तश्चाऽऽह ॥ विशेषेति ॥ प्रागनुक्तहेतुभिरित्यर्थः । स्यादेतत् । न समस्तशब्दसमन्वयोक्तिरुपपन्ना । वैयर्थ्यात् । जन्माद्यस्येत्युक्तजन्मादिकारणत्वे हि शास्त्रं प्रमाणीकृतम् । जन्मादिकारणत्वाभिधायकवाक्यानामेव परमात्मपरत्वं चतुर्थसूत्रे प्रतिज्ञातं तच्चातीतैः पादैः समर्थितमिति । मैवम् । चतुर्थसूत्रे सर्वशब्दानां परमात्मपरत्वस्य प्रतिज्ञातत्वात् । जन्मादिसूत्रे हि न जन्मादिकारणत्वमात्रं विवक्षितम् । किं तु ‘किं तद् ब्रह्म’ इत्याकाङ्क्षायां निखिल-गुणपरिपूर्णत्वस्यैव वक्तव्यत्वात् । न हि ब्रह्मशब्दः कतिपयगुणाभिधायकः । जन्मादिकारणत्व-गुणग्रहणं तु तस्याखिलगुणसाधकत्वेनान्योपलक्षणाभिप्रायेणैव । तृतीयसूत्रे च तत्रैव सर्वं शास्त्रं प्रमाणमुक्तम् । कतिपयशब्दानां निखिलगुणाभिधायकत्वायोगादिति ॥ सूत्रमेवादौ पठति ॥ आनुमानिकमिति ॥ अत्रावरत्वादिलिङ्गैर्भगवति विरुद्धतयाऽन्यत्रैव प्रसिद्धाव्यक्तादिशब्दानां भगवति समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयन् सौत्रं पूर्वपक्षांशं तावद् व्याचष्टे ॥ तत्त्विति ॥ तत्तु समन्वयादिति सूत्रे सर्वशब्दानां परमात्मपरत्वमुक्तम् । सर्वान्तर्गताव्यक्तादिशब्दैश्च काठकादौ किञ्चिदुच्यते । ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ । ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये तु संयान्ति यथा कर्म यथा श्रुतम्’ । ‘जीवा एव तु दुःखिनः’ इति । तस्याव्यक्तादेर्विष्णोरन्यत्वे न तस्य सर्वशब्दवाच्यतेत्यवश्यनिर्णेयता । तदव्यक्तजीवादिपदवाच्यं विषयः । किं विष्णुरन्यद्वेति सन्देहः । समन्वयसूत्रमन्यत्रैव प्रसिद्धिश्च सन्देहबीजम् । प्रधानाद्येवाव्यक्तादिपदवाच्यं न तु विष्णुरिति पूर्वः पक्षः । अव्यक्तादिशब्दानां प्रधानादावेव प्रसिद्धेः । न च तेषां विष्णावपि सावकाशतेति वाच्यम् । तत्राव्यक्तस्य पुरुषावरत्व-श्रवणात् । तच्च प्रधानस्य युक्तं न तु विष्णोः । ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इत्यादि-प्रमाणविरोधात् । तथाऽव्यक्तस्य महत्परत्वश्रवणात् । तदपि प्रधानस्यैवोपपन्नम् । ‘महान्तं च समावृत्य प्रधानं समवस्थितम्’ । इत्यादेर् विष्णोरव्यक्तादपि परत्वात् । जीवानां च दुःखि-बद्धत्वादिप्रतीतेः । तच्च विष्णोः प्रमाणविरुद्धम् । तस्मादव्यक्तादिशब्दवाच्यं प्रधानाद्येव । यत एवं केषाञ्चिच्छाखास्वव्यक्तादिशब्दैः प्रधानाद्येवोच्यतेऽतो यत्तत्तु समन्वयादिति सर्वशब्दानां परमेश्वराभिधायकत्वम् उक्तं तन्न युज्यत इति भावः ।
सिद्धान्तांशं व्याचष्टे ॥ नेति ॥ यतः परमात्मैव अव्यक्तादिशब्दवाच्यो न प्रधानादि । अतः परमात्मन एवाव्यक्तादिशब्दवाच्यत्वग्रहणाद् यत्सर्वशब्दानां परमात्मपरत्वं न युज्यत इत्युक्तं तन्न इत्यर्थः । यस्मिन्समन्वयः प्रतिज्ञातस् तस्यैवेति स्वपदं परमात्मन एवेति व्याख्यातम् । परमात्मन एवाव्यक्तादिशब्दवाच्यत्वे कथं प्रधानादौ तद्व्यवहारः । अवाचकत्वेऽप्यनभिज्ञानादिना व्यवहार इत्युक्तमिति चेन्न । तथा सत्यवाचकत्वाविशेषेण घटादिशब्दानां पटादौ व्यवहारप्रसङ्गा-दित्याशङ्कानिरासायोक्तं शरीररूपकविन्यस्तेति । तद्व्याचष्टे ॥ पारतन्त्र्यादिति ॥ यथा शरीरं पुरुषतन्त्रं तथा परमात्मतन्त्रत्वेन शरीरसमे प्रधानादौ स्थितस्य इत्यर्थः । नन्वत्र पारतन्त्र्याभिप्रायेण प्रधानादेः परमात्मशरीररूपत्वमसूत्रयदिति कुतो ज्ञायते शरीरत्वाभिप्रायेण किं न स्यादित्यत आह ॥ कप्रत्यय इति ॥ न प्रधानादेः परमात्मशरीरत्वाभिप्रायेणैतत्पदं प्रायुंक्त सूत्रकारः यावता तत्कप्रत्ययेन कुत्सयामास । न हि कुत्सनार्हं परमात्मशरीरमिति भावः । अन्यथा रूपपदवैयर्थ्याच्च । शरीररूपकविन्यस्तपदं व्याख्याय तदभिप्रायमाह ॥ परमात्मन एवेति ॥ यद्यपि परमात्मन एवाव्यक्तादिशब्दा वाचकास्तथापि न प्रधानादौ तद्व्यवहारायोगः । प्रधानादौ परमात्मनो विन्यस्ततया तत्सम्बन्धेन तत्रापि शब्दप्रवृत्तेः । न च वाच्यमुभयोरपि मुख्यवाच्यत्वं विपरीतं वा किं न स्यादिति । प्रधानादेर् भगवत्तन्त्रत्वेनोभयोर्मुख्यवाच्यत्वस्योक्तविपर्ययस्य चायोगादिति भावः । तदुक्तं गारुडे । ‘एवमेव हि शब्दानां प्रसिद्धिरपि लौकिकी । वाचकत्वं प्रधानस्य त्वितरस्य तदन्वयात्’ इति । न च मञ्चादावुक्तव्यभिचारः शङ्कनीयः । समाकर्षादिति वक्ष्यमाण-न्यायस्यात्राभिप्रेतत्वेन लक्षणानाश्रयणादिति । अत्र सर्वत्राव्यक्तपदं जीवाद्युपलक्षणार्थम् । ननु परमात्मन एवाव्यक्तादिशब्दाभिधेयत्वं प्रधानादेस्तु तत्सम्बन्धादेवेति युज्यते यदि प्रधानादेरल्पत्वं परमात्मनः स्वातन्त्र्यं प्रधानादिविन्यस्तत्वं च भवेत्तदेव कुत इत्यत आह ॥ तुच्छेनेति ॥ अल्पेनाव्यक्तेन विभुब्रह्मापिहितमासीदित्यर्थः । ‘य आत्मनि तिष्ठन्नित्यादिश्रुत्यन्तरं चात्रोदा-हर्तव्यम् । परमात्मनोऽव्यक्तादिशब्दवाच्यत्वे सिद्धे भवेत्प्राचीनचिन्ता । तदेव कुत इत्यतो दर्शयति चेतिशब्दाभ्यां सूचिते श्रुतिस्मृती पठति ॥ अव्यक्तमिति ॥ अचलमीश्वरभावात् । शान्तं निर्विकारम् । निष्क्रियम् अक्लिष्टकारित्वादेः । आत्मानमादानादेः । यस्याक्षरस्य ब्रह्मत्वमुक्तं तस्यैवाव्यक्तत्वमुच्यत इत्यर्थः । ‘अनेन जीवेनाऽऽत्मना’ इत्यादिश्रुतिः ‘जीवो विनयिता साक्षी’ इत्यादिस्मृतिश्चोदाहर्तव्या ॥
गुर्वर्थदीपिका
‘श्रुतिलिङ्गादिभिः’ इत्यत्र श्रुतिर् दुःखिबद्धावरादिशब्दश्रवणम् । ‘निरनिष्टो निरवद्य’ इत्यादिश्रुतिश्च । दुःखिबद्धावरादिपदप्रतिपाद्यदुःखवत्त्वादिलिङ्गं परत्वावधितया प्राप्तमवर-त्वाख्यलिङ्गं च । आदिपदेन रूढिप्रकरणादिकं गृह्यते । अंशे वैयर्थ्यादित्यस्य पादत्रये प्राक् समन्वितनामलिङ्गात्मकशब्दांशे पुनः समन्वयकथनस्य वैयर्थ्यादित्यर्थः । प्रागनुक्तहेतुभि-रित्यत्राज्ञरूढितो विद्वद्रूढिसहितमहायोगप्राबल्यस्य ‘तं शतं वर्षाण्यभ्यार्चत्’ इत्यादिप्रबल-श्रुत्याख्यप्रमाणोपादानेन ‘ता वा एताः सर्वा ऋचः’ इति कैमुत्येन भगवतः सकलवेदार्थत्व-प्रतिपादकश्रुत्युपादानेन च पादत्रयार्थेऽप्युपकारिणः सूत्रकृतैवोपात्तत्वादयो विशेषहेतव इत्यर्थः । जन्मादिकारणत्वगुणग्रहणमित्यस्य ब्रह्म सकलगुणपूर्णं भवितुमर्हति जन्मादिकारणत्वाद् व्यतिरेकेण देवदत्तवदित्यस्यासम्भावनापरिहारहेतुत्वेन साक्षादुपलक्षणतया द्वितीयसूत्रे सकलगुणपूर्णत्वस्याप्यभिप्रेतत्वात्तृतीयसूत्रेऽपि जन्मादिकारणत्वे अखिलगुणपूर्णत्वे च शास्त्रं प्रमाणीकृतम् । तदेव चतुर्थसूत्रे समर्थितम् । अतश्चतुर्थपादार्थोऽपि प्राक्प्रतिज्ञात एवेति नासङ्गतिरित्यर्थः । लक्षणानाश्रयणादिति परममुख्यवृत्तिः परमात्मनि अवान्तरमुख्यवृत्तिः प्रधानादाविति मुख्यवृत्तावेव द्वैविध्यं लक्षणादिरूपाऽमुख्यवृत्तिस्त्वन्यैवेति च सूचितम् । आ समन्ताद्भवनशीलत्वादाभु इति श्रौतस्याऽऽभुपदस्यार्थकथनं विभ्विति । रामः समागतो लक्ष्मणश्चेत्यादौ समागत इति क्रियावृत्तिवच् चशब्देन श्रुत्यन्तरं स्मृतिं चेति समुच्चये कृतं दर्शयतीति क्रियाया आवृत्तेरावश्यकत्वादेतत्समानार्थकश्रुतिस्मृत्योरेव लाभ इति भावेनाह दर्शयति चेतिशब्दाभ्यां सूचित इति ।
भावबोधः
प्रागनुक्तहेतुभिरिति ॥ ‘तदधीनत्वादर्थवत्’ इति । ‘तथा ह्यधीयत एक’ इत्यादि-प्रागनुक्तहेतुभिरित्यर्थः ।
जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।
ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ।
अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ॥
शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् ॥
इत्यनुव्याख्यानं मनसि निधायाऽऽह– चतुर्थसूत्रेऽपीत्यादि ॥ गुणपरिपूर्णत्वस्यैवेति ॥ किं तद्ब्रह्मेति लक्षणाकाङ्क्षायां जिज्ञास्ये प्रयुक्तब्रह्मनिर्वचनलभ्यानन्तगुणपरिपूर्णत्वमेव लक्षणत्वेन वक्तव्यम्; न तु जन्मादिकारणत्वमात्रमिति भावः । एवं सति यथाश्रुतसूत्रानुपपत्तिरित्य-तस्तत्तात्पर्यमाह– जन्मादिकारणत्वगुणग्रहणं त्विति ॥ सूत्रे गुणान्तरपरित्यागेन जन्मादि-कारणत्वस्यैवोपलक्षकत्वेनोपादाने किं निमित्तमित्याशङ्कापरिहारार्थमुक्तम्; तस्याखिलगुण-साधकत्वेनेति ॥ एतच्च ‘जन्माद्यस्य यत’ इति सूत्रस्यान्तःसमुद्रगमित्याद्यनुव्याख्यानकृत-व्याख्यानान्तरानुसारेणेति द्रष्टव्यम् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु वर्णशून्ये विष्णौ ब्राह्मणशब्दवाच्यत्वासम्भव इति समन्वेतव्यशब्दानुपपत्त्या पूर्वाधिकरण-पूर्वपक्षवदत्रापि विष्णौ सर्वप्रमाणविरुद्धावरत्वदुःखित्वादिप्राप्त्या श्रौताव्यक्तादिशब्दवाच्यत्वा-सम्भव इति समन्वेतव्यशब्दानुपपत्त्यैव पूर्वपक्षकरणादिति ज्ञातव्यम् । ‘दुःखिबद्धावराद्यास्तु’ इत्यनुव्याख्यानेनाव्यक्तादिशब्दानामिति न्यायविवरणानुसारेण भाष्यमुपलक्षणपरमित्यभि-प्रेत्याह– योनिमन्ये प्रपद्यन्त इत्यादि ॥ अत एव वक्ष्यति अत्र सर्वत्राव्यक्तपदं जीवाद्युप-लक्षणार्थमिति ॥ किं विष्णुरिति ॥ अत्र ‘अव्यक्तात् पुरुषः परः’ ‘जीवा एव तु दुःखिनः’ इत्यादिवाक्यगताव्यक्तादिजीवादिशब्दमुख्यार्थः किं प्रधानादिरुत विष्णुरिति चिन्ता । तदर्थं शब्दमुख्यार्थत्वसाधकं लोकप्रसिद्ध्यादिकमुत प्रमितशक्तिमूलकप्रयोगप्रवृत्तिनिमित्तातिशयौ वेति । तदर्थमुभयबलाद् विष्णोः श्रौताव्यक्तादिशब्दमुख्यार्थत्वाङ्गीकारे प्रमाणविरुद्धावरत्व-दुःखित्वादिकं किं प्राप्नोत्युत न प्राप्नोतीति । तदर्थमनाद्यनन्तमित्यादिमोक्षार्थज्ञेयत्ववचनं किं प्रधानपरमुत विष्णुपरमिति तदर्थं शब्दमुख्यार्थत्वप्रयोजकं किं तत्प्रवृत्तिनिमित्ताधिकरणत्वमेवोत तन्नियामकत्वमपीति । तदर्थं शब्दप्रवृत्तिनिमित्तनियामकत्वेन तच्छब्दार्थमुख्यार्थत्वे प्रमाणं नास्त्युतास्तीति । तथा प्रसिद्ध्यादिना प्रधानस्य श्रौताव्यक्तशब्दवाच्यत्वाङ्गीकारे बाधकं नास्त्युतास्तीति । तदर्थम् ‘अन्या वाचो विमुञ्चथ’ इति मोक्षार्थं ज्ञेयत्वनिषेधविषयत्वं किं प्रधानस्य नास्त्युतास्तीति । तदर्थं महतः परत्वरूपप्रधानलिङ्गं किं विष्णावनवकाशमुत सावकाशमिति । तदर्थम् ‘‘अनाद्यनन्तम्’’ इति वाक्यस्य विष्णुपरत्वनिश्चायकं नास्त्युता-स्तीति । न तत्समश्चाभ्यधिकश्च दृश्यत इत्यादिप्रमाणाविरोधात् तच्च विष्णोः प्रमाण-विरुद्धत्वमिति वाक्यद्वयेनाव्यक्तादिशब्दानां परमात्मविषयत्वाङ्गीकारे सर्वमानविरोध इति न्यायविवरणमुक्ततात्पर्यमिति ज्ञातव्यम् ॥ प्रधानाद्येवोच्यत इति ॥ अनेन सूत्रभाष्ययोर् अपि शब्दो अवधारणार्थक इत्युक्तं भवति । परमेश्वराभिधायकत्वमिति समन्वय उक्तस्तन्न युज्यत इति भाष्ये लिङ्गव्यत्यासः परिहृतो भवति ।
यतोऽतःशब्दावध्याहृतपरमात्मन एव अव्यक्तशब्द इति भाष्यं परमात्मन एवाव्यक्तशब्देन गृहीतेरित्यनेनापि सम्बध्यत इति तद्वाक्यद्वयं व्याचष्टे– यतः परमात्मैवेत्यादिना ॥ परमात्मैवेत्यनन्तरं सर्वश्रुत्यादिष्विति परमात्मन एवेत्यनन्तरम् अव्यक्तात् पुरुषः पर इति वाक्य इति च द्रष्टव्यम् ॥ रूपपदवैयर्थ्यादिति ॥ शरीरस्य रूपमिव रूपं यस्येति विग्रहबलेन शरीर-पदोक्तप्रधानादेरमुख्यशरीरत्वप्रतिपादकरूपपदवैयर्थ्यादित्यर्थः । न च मञ्चादावुक्तव्यभिचार इति ॥ प्रधानादेर् भगवत्तन्त्रत्वेनेत्यत्र शब्दामुख्यार्थत्वसाधकत्वेन यत्परतन्त्रत्वमुक्तं तस्य ‘मञ्चाः क्रोशन्ति’ ‘मार्गाश्चलन्ति’ इत्यादि प्रयोगस्थमञ्चादिशब्दमुख्यार्थे मञ्चादौ पुरुष-तन्त्रत्वेन पारतन्त्र्ये विद्यमानेऽपि मञ्चादिशब्दामुख्यार्थत्वाभावाद् व्यभिचार इति नाशङ्क्य-मित्यर्थः ॥ लक्षणानाश्रयणादिति ॥ प्रधानादौ पारतन्त्र्येणाव्यक्तादिशब्दलक्ष्यार्थत्वं न साधितम् । येन व्यभिचारः स्यात् । किन्तु शक्यत्व एव हीनशक्तिविषयत्वं साधितम् । तच्च मञ्चशब्दहीनशक्तिविषयत्वमस्तीति न व्यभिचार इति भावः ।
यद्वा एकपदयोर्वाक्ययोर्मध्ये यस्यैकस्यापरार्थाधीनत्वं तदपेक्षया तस्यामुख्यत्वमिति वक्ष्य-माणन्यायस्य प्रधानादेर्भगवत्तन्त्रत्वेनेत्यत्राभिप्रेतत्वेन प्रधानादावव्यक्तशब्दलक्षणानाश्रयणात् । तथा च मञ्चादिशब्दवाच्येश्वराधीनमञ्चादौ तदपेक्षयाऽमुख्यार्थत्वरूपस्य साध्यस्य सत्त्वेन मञ्चादेस्तत्स्थपुरुषतन्त्रत्वेऽपि पुरुषादेर्मञ्चादिशब्दवाच्यत्वाभावेन हेत्वभावान्न मञ्चादौ व्यभिचार इति भावः ।
अथ वा भगवत्तन्त्रत्वेनेत्यनेन शब्दस्यामुख्यवृत्तौ निमित्तत्वेनोक्तपरतन्त्रत्वस्य पुरुषतन्त्रे मञ्चे सत्त्वेऽपि मञ्चशब्दाऽमुख्यवृत्तेरभावाद् आदिपदोक्तमञ्चातन्त्रे पुरषे मञ्चशब्दाऽमुख्य-वृत्तेर्दर्शनात् । अन्वयतो व्यतिरेकतश्च व्यभिचार इति नाशङ्क्यमिति– न च मञ्चादाविति वाक्यार्थः । यतो भगवत्तन्त्रत्वेनेत्यत्र परतन्त्रत्वं लक्षणावृत्तौ न निमित्तत्वेनोक्तम् । किन्तु अभिधावृत्तावेव हीनशक्तौ निमित्तत्वेनोक्तमित्युत्तरवाक्यार्थः ॥ अल्पत्वमिति ॥ परतन्त्रत्व-मित्यर्थः । उदाहरिष्यमाणश्रुतिगतपदार्थत्वेनैवमुक्तम् । श्रुत्यन्तरं चोदाहर्तव्यमिति जीवादि-विन्यस्तत्वादिप्रतिपादार्थमिति ज्ञातव्यम् । एवमनेन जीवेनेत्यादिश्रुत्याद्युदाहरणस्य प्रयोजनं द्रष्टव्यम् ।
भावदीपः
पूर्ववत्कृत्स्नपादार्था(र्थत्वा)प्रतीतेराह ॥ एतदिति ॥ अत्रैतत्समन्वये का सङ्गतिरित्यत आनन्दमयनये प्रागुक्तं स्मारयति ॥ अन्यत्रेति ॥ भाष्ये शब्दपदं नामलिङ्गपरमित्युपेत्याऽऽह ॥ उभयविधेति ॥ श्रुतिलिङ्गादिभिरित्यस्योपयोगं वक्तुमाह ॥ नन्विति ॥ पूर्वं क्वचिदिति ॥ द्वितीयपाद इत्यर्थः ॥ प्राबल्यादिति ॥ श्रुतेरर्थान्तरपरत्वमपि विनाऽनुपपद्यमानत्वरूपा-त्प्रबल्यादित्यर्थः । तादृशश्रुत्यादिकं च प्रतिनयं दर्शयिष्याम इति भावः । सामस्त्येनेत्येतद् व्याचष्टे ॥ पूर्वमिति ॥ त्रिपाद्यामित्यर्थः ॥ स्रष्टृत्वेति ॥ जन्मादिसूत्रे कण्ठोक्तेरित्यर्थः ॥ तत्सङ्गतानां चेति ॥ आनन्दमयाकाशादिशब्दानामित्यर्थः ॥ ततोऽपि प्रबलेति ॥ विष्णुपरत्वं विनाऽनुपपद्यमानैस्तदधीनत्वज्ञेयत्वावचनादिभिरित्यर्थः । विशेषहेतुभिरित्येतत्प्रकारान्तरेण व्याचष्टे ॥ यदुदितमिति ॥ प्रागनुक्तेति ॥ तदधीनत्वादिभिरित्यर्थः । तदधीनत्वादित्युक्तिः सूत्रकृताऽत्रोक्तैव भाष्यादौ पूर्वमुक्तेति भावः । तत्त्वित्याद्यग्रेतनभाष्योपपत्तिं जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये इत्याद्यानन्दमयनयानुभाष्यदिशा वक्तुमाह ॥ स्यादेतदिति ॥ न हीति ॥ सङ्कोचकाभावादिति भावः । अन्योपलक्षकत्वेनोक्तौ बीजमाह ॥ तस्याखिलगुणेति ॥ पूर्वत्रेव सङ्गतिभाष्यभ्रान्तिनिरासायाऽऽह ॥ सूत्रमेवेति ॥ अवरत्वादीति ॥ दुःखित्वादि-रादिपदार्थः । तस्य प्राबल्यायोक्तं भगवति विरुद्धतयेति ॥ श्रुत्यादीति ॥ समन्वयसूत्रे सर्वश्रुतिगतसर्वशब्दार्थत्वोक्त्या तदधिकरणेन तद्विषयभूतसर्वश्रुतिनिचयेन च सङ्गतिमित्यर्थः । उच्यत इत्यन्तं भाष्यं सङ्गतिसूचकत्वेन तावद् व्याख्यातुम् उक्त इत्यन्तस्यार्थमाह ॥ तत्त्वि-त्यादिना ॥ तन्नेत्यादेरर्थः सर्वेत्यादि ॥ अव्यक्तादीति ॥ दुःखिबद्धावरादिदोषवाचिनः सर्वेऽपि शब्दा आदिपदार्थाः । उक्तं चानुभाष्ये ॥ दुःखिबद्धावराद्यास्त्विति ॥ पूर्वपक्षे युक्तिसूचनाय महतः परमित्यंशोक्तिः । सूत्रभाष्ये उपलक्षणं मत्त्वाऽऽह ॥ योनिमिति ॥ अनेन बद्धत्वमुच्यते ॥ जीवा इति ॥ ‘अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत’ इति श्रुतौ किञ्चिदुच्यत इत्यर्थः । विष्णोरन्यत्वे वक्ष्यमाणदि-शेति भावः । उक्त इत्यन्तवाक्यस्य भावोक्तिः ॥ न तस्येति ॥ इति सङ्गतिसम्भवादितीति शब्दो हेत्वर्थः । एवमव्यक्तादिशब्दास्सर्वेऽन्यत्र प्रसिद्धा अपीति वक्ष्यमाणभाष्यानुरोधेन विषयादिकमाह ॥ तदव्यक्तेति ॥ तन्नेत्यादिभाष्यं पूर्वपक्षादिपरत्वेनापि व्याख्यातुं प्रधान-मप्युच्यत इति प्रतिज्ञामुपलक्षणत्वेन व्याचष्टे ॥ प्रधानाद्येवेति ॥ एतेनापिरेवार्थ इति दर्शितम् । तत्र हेत्वाकाङ्क्षायां वक्ष्यमाणभाष्यसूचितां युक्तिमाह ॥ अव्यक्तेति ॥ अव्यक्तादिशब्दानां परमात्मविषयत्वाङ्गीकारे सर्वमानविरोध इति न्यायविवरणमत्र योजयितुं शङ्कामाह ॥ न चेति ॥ नामपादीयन्यायेनेति भावः । ‘महतः परं ध्रुवम्’ इत्याद्यग्रेतनभाष्यलब्धां युक्तिमाह ॥ तथाऽव्यक्तस्येति ॥ महान्तं महत्तत्त्वम् । इत्येकादशगीताभाष्योक्तस्मृतेरित्यर्थः ॥ विष्णो-रिति ॥ अदृश्यत्वनये तथा निर्णयादिति भावः । न्यायविवणस्थादिपदार्थं व्यञ्चयन् तत्रापि मानविरोधयुक्तिमाह ॥ जीवानामिति ॥ तच्चेति ॥ दुःखित्वादिकं निरनिष्टो निरवद्य इत्यादिप्रमाणविरुद्धमित्यर्थः ।
ननु भाष्ये प्रधानमप्युच्यत इति प्रतिज्ञामात्रं श्रूयते न तूक्तहेतुवाचि किमपीत्यतस् तन्नेत्यत्र तच्छब्दः पञ्चम्यन्ततया इहाप्युक्तसर्वहेतुपरामर्शितयाऽन्वेतीति भावेनाऽऽह ॥ तस्मादिति ॥ अव्यक्तादिशब्दानां प्रधानादौ प्रसिद्धत्वाद् अवरत्वादीनां श्रुतानामपि तत्परत्वे प्रमाणा-विरोधाच्चेत्यर्थः । एवं सानुषङ्गप्रतिज्ञांशं व्याख्याय समग्रभाष्यं यत इत्याद्युक्त्या अतो यदित्य-ध्याहृत्य योजयति ॥ यत एवमिति ॥ उपक्रमादिलिङ्गकशक्तितात्पर्यावधारणरूपसमन्वयस्य तत्रोक्तेराह ॥ परमेश्वरेति ॥ भाष्ये तन्नेति समन्वेयशब्दाभिमतस्य परमेश्वरवाचित्वपरामर्श इति भावः ॥ परमात्मन एवाव्यक्तशब्देन गृहीतेरित्येतन् नेत्यत्र हेत्वाकाङ्क्षापूरकं मत्वा हेतोर-सिद्धिनिरासायाऽनुवादलब्धविधेयमाह ॥ परमात्मैवेति ॥ अत इत्यस्यैवार्थः परमात्मन एवेत्यादि । नेत्यत्र प्रतियोग्यपेक्षायां तन्न युज्यत इत्येतदन्वेतीत्याशयेनाऽऽह ॥ यत्सर्वेति ॥ सूत्रेऽदर्शनादाह ॥ स्वपदमिति ॥ तस्यार्थो यस्मिन्नित्यादि । अपौनरुक्त्यायाऽऽह ॥ इति व्याख्यातमिति ॥ परमात्मन एवेत्यादिभाष्ये तात्पर्योक्त्यनुरोधेन सूत्रांशमवतारयति ॥ परमात्मन एवेति ॥ साक्षादप्यविरोधं जैमिनिरित्यनेन गतार्थत्वमाशङ्क्य निराह ॥ अवाच-कत्वेऽपीति ॥ शरीरसम इति ॥ रूपशब्दः समार्थ इति दर्शितम् । प्रायुङ्क्त प्रयुक्तवान् । प्रोपाभ्यां युजेरयज्ञपात्रेष्वित्यात्मनेपदम् । अन्यथा मुख्यशरीरत्वे शरीरविन्यस्तेत्येव सामञ्ज-स्यात् । अस्मत्पक्षे तु शरीरस्य रूपमिव रूपं यस्येति विग्रहसूचनार्थत्वेन सार्थक्यादिति भावः । पुनरुक्तिप्रतीतेराह ॥ शरीरेति ॥ अनेन भाष्येण प्रागुक्तशङ्कानिरासप्रकारं दर्शयति ॥ यद्यपीत्यादिना ॥ विपरीतं वेति ॥ प्रधानसम्बन्धाच्छब्दवृत्तिरिति ॥ एवमित्युक्तं व्यनक्ति ॥ वाचकत्वमिति ॥ प्रधानस्य स्वतन्त्रस्य हरेः । कर्मणि षष्ठी । इतरस्य जगतः । वाचकत्वं शब्दानां तदन्वयात् । प्रधानहरिसम्बन्धादित्यर्थः ॥ न च मञ्चादाविति ॥ पारतन्त्र्याद-मुख्यत्वमिति व्यभिचरितं मञ्चशब्दस्य अमुख्यार्थत्वदर्शनादिति न शङ्क्यमित्यर्थः । समाकर्षा-दित्यत्र परममुख्यमुख्यवृत्तिभेदेन वृत्तितारतम्यस्य मुख्यवृत्तावेव वक्ष्यमाणत्वेनेहापि हरौ परममुख्यत्वं तत्सम्बन्धात्प्रधानादौ मुख्यत्वं न लक्षणावृत्तिरिति मुख्यवृत्तावेव हीनत्वे प्रवृत्ति-निमित्तपारतन्त्र्यं हेतुर् न लक्षणायामित्यभिमतत्वेन पारतन्त्र्याभावेऽपि मञ्चादिशब्दे लक्षणाया-स्सम्भवादित्यर्थः । अव्यक्तादीत्यग्रे भाषणादाह ॥ अत्रेति ॥ अधिकरण इत्यर्थः । सर्वत्र सूत्रेषु भाष्ये चेत्यर्थः । अल्पत्वं पारतन्त्र्यमित्यर्थः । तुच्छेनेत्यस्यार्थोऽल्पेनेति । परतन्त्रे-णेत्यर्थः । अव्यक्तेनेति विशेष्यम् । अनेन प्रधानस्य पारतन्त्र्यं हरेस्तत्र स्थितत्वं च सिद्धमिति भावः ।
जीवस्य अस्वातन्त्र्ये हर्रेर्जीवविन्यस्तत्वे च अन्तर्यामिनये ब्रह्मपरत्वेन सिद्धश्रुत्यन्तरमाह ॥ य आत्मनीति ॥ प्राचीनेति ॥ अव्यक्तशब्दवाच्यभगवत्सम्बन्धादन्यत्र शब्दवृत्तिविचार इत्यर्थः । निष्क्रियमित्यनेनापौनरुक्त्यायाऽऽह । अचलमीश्वरभावादिति ॥ अक्लिष्टेति ॥ अकर्माक्लिष्टकारित्वाद् इत्येकादशस्कन्धतात्पर्योक्तेरिति भावः । प्राकृतादिक्रियाराहित्यमादि-पदार्थः । अन्यभावव्यावृत्तेरित्युक्तेः । निष्कलं प्राकृतषोडशकलारहितमिति स्पष्टमिति भावः । स्वात्मानमिति भ्रमनिरासायाऽऽह ॥ आत्मानमिति ॥ भाष्ये इत्युक्त्वेत्यन्तोक्तेरुपयोगायार्थमाह ॥ यस्येति ॥ उक्तमिति ॥ गीतायामष्टमेऽध्याये उक्तमित्यर्थः । जीवशब्दवाच्यत्वेऽपि श्रुति-स्मृती आह ॥ अनेनेति ॥ छान्दोग्ये षष्ठे श्रुतेयं श्रुतिः । तत्र जीवशब्दस्य ईशपरत्वं चेमास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीत्यादौ जीवानु-प्रवेशात्पूर्वमेव देवतापदप्रयोगेण चेतनत्वावगमेन पुनर्जीवप्रवेशोक्तेर् वैय्यर्थ्येन जीवाख्या-निरुद्धरूपात्मना भगवत एवानुप्रवेश इति तत्वनिर्णयछान्दोग्यभाष्यादौ व्यक्तमिति भावः ॥ जीव इति ॥ सहस्रनामसु ॥
अभिनवचन्द्रिका
एतत्पादप्रतिपाद्यमिति ॥ ‘अध्यायस्यैकार्थत्वात् पादभेदः किं निबन्धन इत्यतः समन्वयेऽप्यवान्तरभेदेनेति भावेन’ ति वर्तते । तस्य ‘एतत्पादप्रतिपाद्यं दर्शयति’ इत्यनेन सम्बन्धः । किं तद्ब्रह्मेत्याकाङ्क्षायामिति ॥ तद्विजिज्ञासस्व तद्ब्रह्म इति वाक्ये ब्रह्मशब्देन किमुच्यत इति ब्रह्मशब्दार्थाकाङ्क्षायामित्यर्थः । एनेन ‘ब्रह्मलक्षणजिज्ञासानिवृत्तेर् यत्किञ्चि-ल्लक्षणोक्त्यैव कृतत्वात् ‘निखिलगुणपूर्णत्वस्यैव वक्तव्यत्वात्’ इति निर्बन्धोऽनुपपन्नः । तथा च ‘ब्रह्मशब्दः कतिपयगुणाभिधायको न’ इत्यनुपपन्नं ब्रह्मशब्दस्य सर्वगुणाभिधायकत्वेऽपि कतिपयगुणानां ब्रह्मणो लक्षणत्वाऽनपायात्’ इति परास्तम् । ननु यदीदं सूत्रं ब्रह्मशब्दार्थ-निरूपणपरं, कथं तर्हि जन्मादिकारणत्वस्यैव ग्रहणमित्यत आह– जन्मादीति ॥ जन्मादि-कारणत्वगुणग्रहणन्तु अन्योपलक्षणाभिप्रायेणैवेति सम्बन्धः । गुणान्तरमेव अन्योपलक्षणत्वेन कुतो नोपात्तमित्यत उक्तं– तस्याखिलेति ॥ अस्मिन् गुणे विशेषसद्भावादिदमेवोपात्तमिति भावः । तृतीयसूत्रे चेति ॥ तत्रैव गुणपूर्तावेव । सर्वशास्त्रं=सर्वे वेदाः, सर्ववेदान्तर्गतपदानि च प्रमाणत्वेनोक्तानीत्यर्थः । न च पदानामप्रमाणत्वेन प्रमाणत्वेनोपन्यासो न युक्त इति वाच्यम् । यौगिकपदानां वाक्यतुल्यत्वेन प्रमाणत्वात् ।
एतेन तृतीयसूत्रे शास्त्रस्य प्रमाणत्वेन प्रतिज्ञातत्वेऽपि स्वरवर्णपदात्मकानां समस्तशब्दानां प्रमाणत्वेनाप्रतिज्ञातत्वात् तेषां समन्वयनिरूपणमयुक्तमिति परास्तम् । स्वरवर्णपदात्मकानामपि शब्दानाम् अधिकारिविशेषं प्रति योगेनार्थबोधकत्वेन तेषां प्रमाणत्वेन प्रतिज्ञानात् । काठकादौ किञ्चिदुच्यत इति ॥ अनेन समन्वयसूत्रप्रतिपाद्यशब्दराश्यन्तर्गतप्रधानादिशब्दप्रति– पादकत्व-मस्याधिकरणस्य तेनाऽधिकरणेन सङ्गतिरित्युक्तं भवति ॥ तस्याव्यक्तादेरिति ॥ परममुख्यया वृत्त्या अव्यक्तादिशब्दवाच्यस्य विष्णोरन्यत्वे, विष्णोः परममुख्यया वृत्त्या सर्वशब्दवाच्यत्वं न स्यादित्यर्थः ॥ केषाञ्चिच्छाखास्विति ॥ अनेन सूत्रे ‘एकेषाम्’ इत्यतः परं शाखास्विति शेषो बोध्यः । भाष्येऽपि ‘शाखिनाम्’ इत्यतः परं शाखास्विति शेषो बोध्य इति सूचितमिति बोध्यम् । नन्वत्र भाष्यं ‘तस्यैव पारतन्त्र्याच्छरीररूपकेऽव्यक्ते विन्यस्तस्य परमात्मन एवाव्यक्तशब्देन गृहीतेः’ इति तदयुक्तमिवाभाति । अव्यक्तशब्दस्यान्यत्रैव प्रसिद्धत्वाद् अत्राव्यक्तशब्देनान्यदेव ग्राह्यम्, न तु विष्णुरित्याक्षेपे तत्परिहाराय हेतुमनुपन्यस्य ‘परमात्मन एव गृहीतेः’ इत्युक्त्ययोगादित्यतस् तद्व्याख्याति – यतः परमात्मैवेति ॥ कथं प्रधानादा-विति ॥ वाच्य इव अव्यक्तादिशब्दनां प्रधानादौ सार्वजनीनो व्यवहार इत्यर्थः । एतेनावाच्येऽपि तीरादौ गङ्गाशब्दप्रयोगदर्शनात् कथमित्याक्षेप एवायमनुपपन्न इति परास्तम् । अवाचकत्वेऽ-पीति ॥ अव्यक्तादिशब्दानामव्यक्ताद्यवाचकत्वेऽपि पामराणामव्यक्ताद्यनभिज्ञानादिप्रसङ्गभिया प्राज्ञैरव्यक्तादि ज्ञानतद्व्यवहारसिध्द्यर्थं तत्र प्रयोगः क्रियते । तत्प्रयोगेण च पामराणां शक्तिभ्रमो भवति । तेन च प्रयोग इत्युक्तप्रायमित्यर्थः ॥ तथा सतीति ॥ घटादिशब्दानां घटवाचकत्वं, पटावाचकत्वमिति विशेषाभावेन निरङ्कुशत्वात् प्राज्ञानां घटादावेव घटादिशब्दव्यवहार इति नियमो न स्यात् । किंतु कस्यचित् प्राज्ञस्य पटेऽपि घटशब्दव्यवहारः स्यात्, नियामक-विशेषमन्तरा अनेकेषामैकमत्यासम्भवात् । तथा च तन्मूलकाज्ञव्यवहारस्यापि अनियमः स्यादित्यर्थः । एतेन अवाचकत्वस्यान्यत्र व्यवहारमूलत्वाभावेन अवाचकत्वाविशेषाद् घटादि-शब्दानां पटादौ व्यवहारः स्यादित्यापादनमयुक्तमिति परास्तम् ।
ननु शरीररूपकेत्युक्त्या कथं घटादिशब्दानां पटादौ व्यवहारप्रसङ्गपरिहार इत्यत आह – तदभिप्रायमाहेति ॥ तथापीति ॥ तत्तद्भगवद्रूपसम्बन्धेन तच्छरीररूपकाणां घटादीनां घटादि-शब्दवाच्यतया, न प्राज्ञव्यवहारस्य निरङ्कुशत्वम् । तथा च न पामरव्यवहाराणामव्यवस्थाप्रसङ्ग इति भावः । यद्यपि सर्वान्तर्गतभगवद्रूपाणां सर्वशब्दवाच्यत्वमस्ति, तथापि ईश्वरसङ्कल्पवशाद् दशरथकुमारस्य रामत्वं, वसुदेवकुमारस्य कृष्णत्वमित्यादिव्यवस्थावत्, अव्यक्तान्तर्गतस्य अव्यक्तशब्दवाच्यत्वं, घटान्तर्गतस्य घटशब्दवाच्यत्वमिति व्यवस्थासद्भावान् न घटादिषु अव्यक्तशब्दव्यवहारप्रसङ्ग इति बोध्यम् । ननु मञ्चादौ सत्यपि भगवत्तन्त्रत्वे मञ्चशब्द-लक्ष्यत्वाभावात्, यच्छब्दवाच्याधीनं यद्वस्तु तत् तच्छब्दलक्ष्यमित्युक्तनियमस्य व्यभिचार इत्यत आह– न च मञ्चादाविति ॥ कुतो न शङ्कनीयमित्यत आह– समाकर्षादिति ॥ स्यादिदं व्यभिचारशोधनं यदि यत्प्रवृत्तिनिमित्तं यदधीनं न तत् तच्छब्दवाच्यम् । अपि तु लक्ष्यमेवेति ब्रूमः । न चैवं, किं नाम यत्प्रवृत्तिनिमित्तं यदधीनं न तत् तत्समकक्ष्यतया तच्छब्दवाच्यमिति । न च एवं सति मञ्चादौ व्यभिचारो भवति, तत्र भगवत्तन्त्रत्वमिव तत्समकक्ष्यतया तच्छब्द-वाच्यताऽभावस्यापि सत्त्वादिति भावः । घटादाविति वक्तव्ये मञ्चादावित्युक्तिर् मञ्चशब्दस्यापि मञ्चे लक्षणैवेति न व्यभिचार इति शङ्कानुदयार्था । तथाहि – यदि मञ्चशब्दस्य मञ्चे लक्षणा स्यात् तर्हि मञ्चशब्दात् पुरुषमञ्चप्रतीत्योरविशेषः स्यात् । न चैवं तस्मान्मञ्चशब्दस्य मञ्चे शक्तिः पुरुषे लक्षणेति बाधकतर्कसद्भावात् शङ्कानुदयः । घटादावित्यभिधाने तु घटशब्दस्यापि घटे लक्षणेति शङ्का स्यादेव । न च तत्र घटशब्दाद् घटवल्मीकप्रतीत्योरविशेषप्रसङ्ग इति बाधकमुद्रेति । घटशब्दस्य घटे रूढिलक्षणा । वल्मीके तु लक्षणामात्रमिति परिहारसम्भवात् । न चायं परिहारो मञ्चशब्देऽपि भवति । मञ्चशब्दस्य पुरुषे रूढलक्षणया प्रवृत्तत्वादिति । न्यायविवरणे ‘अव्यक्तादिशब्दानाम्’ इत्यभिधानाद् भाष्ये एकस्यैवाव्यक्तशब्दस्य समन्वेतव्य-त्वाभिधानमुयक्तमित्यत आह– अत्र सर्वत्रेति ॥ ननु भाष्ये ‘अव्यक्तोऽक्षर उच्यते’ इति वाक्योदाहरणेन नार्थः, अनेन वाक्येनाक्षरस्याव्यक्तत्वसिद्धावपि ब्रह्मणस्तदसिद्धेरित्यत आह– यस्येति ॥ ‘अक्षरं ब्रह्म परमम्’ इति पूर्ववाक्ये यस्याक्षरस्य ब्रह्मत्वमुक्तं तस्यैवाक्षरस्य ‘अव्यक्तोऽक्षर उच्यत’ इति वाक्येनाऽव्यक्तत्वमुच्यत इति एतद्वाक्योदाहरणस्य अर्थः प्रयोजनमस्तीत्यर्थः ।
वाक्यार्थमुक्तावली
जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।
ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥
इत्याद्यनुव्याख्यानं मनसि निधाय परिहारमाह ॥ चतुर्थसूत्र इत्यादिना ॥ किं तद्ब्रह्मेति ब्रह्मशब्देन जिज्ञास्यस्य जीवत्वापवादे कृते तज्जिज्ञास्यं ब्रह्म कीदृशमिति लक्षणाकाङ्क्षया-मन्तरङ्ग ब्रह्मशब्दप्रवृत्तिनिमित्तगुणपूर्णत्वस्यैव लक्षणत्वेन वक्तव्यत्वादित्यर्थः । गुणान्तर-परित्यागेन जन्मादिकारणत्वस्य मुखत उपादानं किमर्थमित्यत उक्तं निखिलगुणसाधकत्वे-नेति ॥ अयोगादित्यतः परं चतुर्थसूत्रे समन्वयमुखेन, गुणपूर्त्युक्त्यर्थं सर्वशब्दसमन्वयः प्रतिज्ञातस् त्रिपाद्यां जन्मादिसूत्रोक्तकतिपयगुणपरबहवः शब्दाः समन्विताः । इह तु ब्रह्म-शब्दार्थभूतगुणसर्वस्वसिद्धये स्वरवर्णपदात्मकाः सर्वशब्दाः समन्वीयन्त इति सार्थकोऽयं पाद इति पूरणीयम् ।
ॐ आनुमानिकमप्येकेषामिति चेन्न, शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ सूत्र-मेवेति ॥ सङ्गत्यादिजिज्ञासाजननायेत्यर्थः ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितसङ्गतिस्तु, नाव्यक्तादिशब्दवाच्यत्वं हरेर्युक्तम् । तथात्वेऽवरत्वादिप्राप्तेरीश्वरस्य च, सर्वस्याधिपतिः सर्वस्येशान इति सर्वोत्तमत्वोक्तेरन्यथा तन्न स्यादिति पूर्वाधिकरणसिद्धान्तन्यायेन विपक्षेण, तदाक्षेपेण च पूर्वपक्षोत्थानादिति ज्ञेयम् । दुःखीबद्धावराद्यास्तु तदधीनत्वहेतुतः ॥ शब्दा ब्रह्मणि वर्तन्ते, इत्यनुव्याख्यानानुसारेण भाष्यमुपलक्षणं मत्वाह ॥ योनिमन्ये इत्यादिना ॥
वक्ष्यति चात्र सर्वत्राव्यक्तपदं जीवास्तूपलक्षणमिति । स्थाणुं स्थावरम् ॥ किं विष्णु-रिति ॥ अव्यक्तजीवादिपदवाच्यं किं प्रधानमुत विष्णुरिति चिन्ता । तदर्थं विष्णुपक्षे साधकाभि प्रयोगवृत्तिनिमित्ततात्पर्यज्ञापकानि न सन्ति । व्यवहारविलोपावरत्वदुःखित्वादिप्रसिद्धरूप-बाधकानि सन्ति उत साधकानि न सन्ति बाधकानि न सन्तीति । तदर्थं तात्पर्यज्ञापकतया सिद्धान्ताभिमतं मोक्षार्थं ज्ञेयत्वं महतःपरत्वलिङ्गेन प्रधाने सावकाशमुत विष्णुप्रकरणात् त्रयाणामेव प्रश्नोपन्यासाभ्यां च निरवकाशमिति । प्रयोगोऽपि प्रवृत्तिनिमित्तसद्भावाल्पत्वात् प्रधानादौ बहुप्रयोगान्न मुख्यत्वहेतुर् उत महच्छब्दवच्चमसशब्दवच्च मुख्यत्वहेतुरिति । एवं तन्नेत्यन्तभाष्यं, तत्तुसमन्वयादिति सर्वशब्दानां समन्वय उक्तस् तत्र यद्यव्यक्तादिपदवाच्य-मन्यत्स्यात्तर्हि तन्न युज्यत इति सङ्गतिप्रदर्शनपरत्वेन व्याख्यायाधुना पूर्वपक्षफलपरत्वेनापि व्याख्यातुं प्रधानमपीति प्रतिज्ञामुपलक्षणत्वेन व्याचष्टे प्रधानाद्येवेति ॥ एतेनापिरेवार्थ इति दर्शितम् । यद्वा यथा त्रिपाद्युक्तन्यायेन विष्णुः कासुचिच्छाखासूच्यते एवं प्रधानमप्येकेषां शाखिनामुच्यते । तथा च न विष्णोः सर्वत्र प्रवेश इति भाष्यार्थतात्पर्यकथनम् ॥ प्रधाना-द्येवेति ॥ तत्र हेत्वाकांक्षायां प्रधानमुच्यत इत्येतदेव प्रकारान्तरेण व्याचष्टे अव्यक्तादीति ॥ गतार्थतामाशङ्कते न चेति ॥ नामपादीयन्यायेन महायोगविद्वद्रूढिभ्यामिति भावः । कुतो न वाच्यमित्यतो भाष्ये महतःपरमव्यक्तमिति प्रथमवाक्यं परित्यज्य यतोऽव्यक्तात्पुरुषः पर इति सर्वोत्तमत्वविरोधद्वितीयवाक्यग्रहणेन सूचितं सर्वमानविरोध इत्युक्तन्यायं विवृणोति ॥ अत्राव्यक्तस्येति ॥ प्रथमवाक्योक्तं लिङ्गमप्याह तथेति ॥ बद्धत्वादिति ॥ योनिमन्ये इत्यादौ देहसम्बन्धादिप्रतीतेरित्यर्थः । पूर्वपक्षफलप्रदर्शनपरतया तन्न युज्यत इत्यादि उच्यत इत्यन्तं व्याचष्टे ॥ यत एवमित्यादिना ॥ नेत्यादिसिद्धान्तभाष्ये नेत्यत्रत्वेत्याकांक्षापूरकत्वेन परमात्मन एवाव्यक्तशब्देन गृहीतेरित्येतत्सम्बध्यते । हेतोरसिद्धिनिरासाय परमात्मन एवाव्यक्तशब्द इति वक्ष्यमाणं सम्बध्यत इत्यभिप्रेत्य ततोऽत इति पदद्वयमध्याहृत्य नेत्यत्र निषेधप्रतियोगितया तन्न युज्यत इत्येतदन्वीयत इति चाभिप्रेत्य योजयति ॥ यत इत्यादिना ॥ यतः परमात्मैव अव्यक्तादिशब्दोक्तस्तत्र शब्दशक्तेः सिद्धत्वान्महतः परमव्यक्तमित्यादौ परमात्मन एवाव्यक्त-शब्दवाच्यत्वग्रहणादित्यर्थः । तस्यैवेति प्रधानस्येति प्रतीयते परमात्मन इत्यर्थकत्वे तस्यैव परमात्मन एवेत्येतदुक्तं भवति । स्वपदमिति तु तत्वित्यस्य षष्ठ्यन्ततया विपरिणम्य स्वयमर्थस्योक्तत्वादिति ज्ञेयम् । साक्षादप्यविरोधं जैमिनिरित्यनेन गतार्थतामाशङ्क्य निराह ॥ अवाचकत्वेऽपीति ॥ रूपशब्दार्थमाह शरीरसममिति ॥ शरीरस्य रूपमिव रूपं यस्येति साम्यं लभ्यत इति भावः ॥ शरीरत्वाभिप्रायेणेति ॥ शरीरस्वरूपप्रधानेष्ठ इत्येवार्थोपपत्तेरिति भावः । एवमित्युक्तं व्यनक्ति वाचकत्वमिति ॥ प्रधानस्य स्वतन्त्रस्य कर्मणि षष्ठी । इतरस्य जगतस् तदन्वयात् स्वतन्त्रहरिसम्बन्धात् ॥ न च मञ्चादाविति ॥ पारतन्त्र्यादमुख्यत्वमिति व्यभिचरितं मञ्चादौ । भगवत्पारतन्त्र्ये विद्यमानेऽपि अमुख्यवृत्तिविषयत्वाभावादिति न शङ्क्यम् । यतः प्रधानादौ पारतन्त्र्येण्याव्यक्तादिशब्दलक्ष्यार्थत्वं न साधितं किं तु परममुख्य-वृत्यविषयत्वं मञ्चादावपि वाच्यत्वेऽपि परममुख्यवृत्तिविषयत्वाभावात् । समाकर्षादित्यत्र मुख्यवृत्तावेव तारतम्यस्य वक्ष्यमाणत्वादिति भावः ।
यद्वा एकपदवाच्ययोर्मध्ये यद्यदधीनं तस्य तदपेक्षयामुख्यत्वमिति न्यायस्याभिप्रेतत्वेन लक्षणाश्रयणात् । मञ्चादेः पुरुषाधीनत्वेऽपि एकपदवाच्यत्वाभावान्न व्यभिचार इत्यर्थः । एतेन स्वातन्त्र्यान्मुख्यत्वमिति यदभिप्रेतं तन्मञ्चस्वामिनि पुरुषे व्यभिचरितमिति निरस्तम् । अथवा पारतन्त्र्यममुख्यत्वप्रयोजकमिति यदुक्तं तदयुक्तं मञ्चेऽन्वयतो व्यभिचारात् । प्रयोजकाभावेऽपि प्रयोज्यसद्भावादिति न शङ्क्यम् । परतन्त्रत्वं न लक्षणावृत्तौ प्रयोजकत्वेनोक्तं किं त्वभिधा-वृत्तावेव हीनवृत्तौ प्रयोजकत्वेनोक्तमित्यर्थः । अव्यक्तादीत्यग्रेतनभाष्यानुसारेणाह अत्रेति ॥ वाच्यत्वे सिद्ध इति ॥ परमात्मन्यव्यक्तादिशब्दशक्तौ सिद्धायां सिद्धशक्तिकस्य तस्यैवाव्यक्त-शब्देन गृहीतेः पूर्वपक्ष्युक्तं न युज्यत इति चिन्ता । शरीररूपकविन्यस्तेत्युक्ततत्सम्बन्धादन्यत्र शब्दशक्तिरिति चिन्ता च भवेदित्यर्थः ॥ शब्दाभ्यामिति ॥ पदद्वयेनेत्यर्थः । अचलं निष्क्रिय-मित्यनयोः पौनरुक्त्यं, प्रमाणविरोधं च परिहरति ॥ अचलमीश्वरभावादिति ॥ ईश्वरभावादचलं सदापीश्वरम् । सूत्रे अपिरवधारणे सिद्धान्तांशे विन्यस्तेत्यस्य विशेष्यतया तत्वित्यन्तं स्वस्यैवेत्यनुवर्तते । बुध्या विवेकेनान्वयः । यतस्तस्मादिति योज्यम् ॥ ततश्च एकेषां शाखिनां कासुचिच्छाखासु आनुमानिकं, सांख्यानुमानगम्यं प्रधानमेवाव्यक्तशब्दवाच्यं प्रतीयते न विष्णुरिति चेन्न । यतोऽव्यक्तमचलमिति श्रुतिः परमात्मन्यव्यक्तशब्दशक्तिः स्वयं प्रयुज्य दर्शयति ॥ स्मृतिश्च ज्ञापयत्यतः शरीररूपकविन्यस्तस्य पारतन्त्र्याच्छरीरे कुत्सितेऽप्रधाने नियामकतया विन्यस्तस्य परमात्मन एवाव्यक्तासु पुरुषः पर इति श्रुतावव्यक्त इति न गृहीतेरितरत्र तच्छब्दात्वृत्यङ्गीकारेण व्यवहारविलोपबाधकाभावाच्च ब्रह्मैवाव्यक्तशब्दवाच्यं न प्रधानमिति सूत्रार्थः । प्रधानमिति वक्तव्ये आनुमानिकग्रहणं मुख्यार्थतया साङ्ख्यानुमान-परिकल्पनामात्रं नत्वीश्वर इव शक्तिग्राहकं प्रमाणमस्तीति सूचयितुम् ॥
तत्त्वसुबोधिनी
तथा सति तृतीयेति ॥ द्युभ्याद्यायतनमिति तृतीयपादं व्यर्थं स्यादित्यर्थः । कुत इत्यत आह ॥ अन्यत्रैवेति ॥ इन्द्रादिशब्दा अन्यत्र प्रसिद्धा इति कोऽर्थः । किमन्यत्रैव प्रसिद्धा इति किं वा अन्यत्र प्रसिद्धा इति । तथा च इन्द्रादिशब्दानामन्यत्रैव प्रसिद्धत्वाभावे अन्यत्रापि प्रसिद्धत्वं स्यात् । तथा च तेषां प्रथमपाद एव समन्वयस्य उक्तत्वेन तृतीयपादं व्यर्थं स्यादिति भावः ॥ अनेनैवेति ॥ उक्तेनैवेत्यर्थः । नन्वग्निश्रुत्यादिसाहित्येन सर्वगतत्वादेरपि अन्यत्र प्रसिद्धत्वाद् अन्यत्रैव प्रसिद्धत्वापत्तिरित्यत आह ॥ पूर्वं क्वचिदिति ॥ भाष्ये सामस्त्येनेति । प्रकारान्तरेण पादवैयर्थ्यपरिहारार्थमित्यभिप्रेत्य पूर्वं स्रष्टृत्वासम्भवादिति । बलवद्युक्त्यादिभिर् अन्यत्रप्रसिद्धानां विष्णुपरत्वस्यैवासम्भवादित्यर्थः ॥ अंशेति ॥ एषां शब्दानां समन्वय उक्तस् तदंश इत्यर्थः । प्रागनुक्तहेतुभिरिति तदधीनत्वादर्थवदिति । तदा ह्यधीयत एक इत्यादि प्रागनुक्तहेतुभिरित्यर्थः । ननु तत्र सर्वशब्दसमन्वय प्रतिज्ञानं कुतः कारणानभिधायक-शब्दसमन्वयः प्रतिज्ञानं कुतः कारणाभिधायकशब्दसमन्वयप्रतिज्ञानमेव किं न स्यादत आह ॥ जन्मादिसूत्र इति ॥ कुत इत्यत आह ॥ किं तद्ब्रह्मेति ॥ लक्षणाकाङ्क्षायां जिज्ञास्ये प्रयुक्तब्रह्मशब्दनिर्वचनाय अनन्तगुणपरिपूर्णत्वमेव लक्षणत्वेन वक्तव्यम् । न तु जन्मादि-कारणत्वमिति भावः । ननु जिज्ञास्ये ब्रह्मपदप्रयोगेऽपि गुणपरिपूर्णत्वमेव लक्षणत्वेन कुतो वक्तव्यमित्यत आह– न हीति ॥ ननु तर्हि जन्माद्यस्य यत इति सूत्रानुपपत्तिरित्यत आह ॥ जन्मादीति ॥ सूत्रे गुणान्तरपरित्यागेन जन्मादिकारणत्वस्यैव उपलक्षणत्वेन उपादाने किं निमित्तमित्याशङ्कापरिहारार्थम् उक्तं तस्याखिलगुणसाधकत्वेनेति ॥ कतिपयेति ॥ कतिपय-शब्दसमन्वये कतिपयशब्दगुणस्यैव सिद्धेः पूर्वगुणवत्वसिद्ध्यर्थं सर्वशब्दसमन्वयो वक्तव्य इति भावः ।
अत्र वर्णशून्ये विष्णौ ब्राह्मणशब्दवाच्यत्वाभावासम्भव इति समन्वेतव्यशब्दानुपपत्या पूर्वाधिकरणपूर्वपक्षवदत्रापि विष्णौ सर्वप्राणविरुद्धावरत्वदुःखित्वादिप्राप्त्या श्रौताव्यक्तादिशब्द-वाच्यत्वाभावसम्भव इति समन्वेतव्यशब्दानुपपत्त्यैव पूर्वपक्षकरणादनन्तरसङ्गतिः । भाष्य-मुपलक्षणपरम् । अनुव्याख्याने दुःख्यादिशब्दसमन्वयस्य उक्तत्वादिति भावेन दुःख्यादि-शब्दप्रतिपादकवाक्यमुदाहरति ॥ योनिमिति ॥ अन्ये देहिनं शरीरत्वाय शरीरप्राप्त्यर्थं योनिं प्रपद्यन्ते । अन्ये तु स्थाणुं वृक्षादिशरीरं यथाकर्म कर्मानुसारेण यथाश्रुतं श्रुतानुसारेण अनु-संयन्ति प्राप्तुवन्तीत्यर्थः ॥ प्रधानाद्येवेति ॥ अनेन सूत्रभाष्ययोर् अपिशब्दो ऽवधारणार्थक इत्युक्तं भवति । ननु विष्णोरपि तस्य सम्भवान्न तस्य प्रधानसाधकमुपपन्नमित्यर्थः ॥ परमेश्वराभिधायकत्वमिति ॥ समन्वय उक्तस् तन्न युज्यते इति भाष्ये लिङ्गव्यत्यासः परिहृतो भवति । यतः परमात्मा एवाव्यक्तशब्देन गृहीतेर् इत्यनेनापि सम्बध्य तद्वाक्यद्वयं व्याचष्टे ॥ यतः परमात्मैवेत्यादिना । अत्र परमात्मैवेत्यनन्तरं सर्वश्रुत्यादिष्विति । परमात्मन एवेत्यनन्तरम् अव्यक्तात्पुरुषः पर इति वाक्य इति च द्रष्टव्यम् । तस्यैव परमात्मन इति पदद्वयस्यान्वया-प्रतीतेराह ॥ यस्मिन्निति ॥ अन्यारूपवैयर्थ्याच्चेति । प्रधानस्य मुख्यशरीरत्व इत्यर्थः । शरीरस्य रूपमिव रूपं यस्येति विग्रहबलेन शरीरपदोक्त प्रधानादेर् अमुख्यत्वशरीरत्व-प्रतिपादकपदवैय्यर्थ्यादित्यर्थः । च शब्दः कप्रत्ययवैयर्थ्यसमुच्चयार्थः । शब्दः प्रधानेऽर्थे मुख्यस् तदधीने तु इत्यत्र प्रमाणमाह ॥ तदधीनेति ॥ ननु प्रधानादेर् भगवत्तन्त्रत्वेन इत्यत्र शब्दा-मुख्यार्थसाधकत्वे यत्परतन्त्रत्वमुक्तं तदयुक्तम् । मञ्चाः क्रोशन्ति मार्गाश्चलन्तीत्यादिप्रयोगः स्यात् । मञ्चशब्दमुख्यार्थे मञ्चादौ पुरुषतन्त्रत्वेन पारतन्त्र्ये विद्यमानेऽपि मञ्चादिशब्दे मुख्यार्थत्वाभावेन व्यभिचारादित्याशङ्क्य निषेधति ॥ न च मञ्चादाविति ॥ लक्षणा-नाश्रयणादिति ॥ प्रधानादौ पारतन्त्र्येण अव्यक्तादिशब्दलक्ष्यार्थत्वं न साधितम् । येन व्यभिचारः स्यात् । शक्यत्व एव हीनशक्तिविषयत्वं साधितम् । तत्र मञ्चादौ मञ्चशब्दे हीनशक्तिविषयत्वम् अस्तीति न व्यभिचारः ।
अथवा भगवत्तन्त्रत्वेनेत्यनेन शब्दस्यामुख्यत्वमिति तत्वेनोक्तपरतन्त्रत्वस्य पुरुषतन्त्रे मञ्चे सत्वेऽपि मञ्चशब्दामुख्यवृत्तेरभावाद् आदिपदोक्तमञ्चातन्त्रे पुरुषे मञ्चशब्दामुख्यवृत्तेर् दर्शनाद् अन्वयतो व्यतिरेकतश्च व्यभिचार इति नाशङ्क्यमिति । न च मञ्चादाविति वाक्यार्थः । यतो भगवत्तन्त्रत्वेनेत्यत्र परतन्त्रत्वं न लक्षणावृत्तौ निमित्तत्वेनोक्तं किन्तु अभिधावृत्तावेव हीनशक्तौ निमित्तत्वेनोक्तमित्युत्तरवाक्यार्थः । अत्र चाद्ये पक्षे परतन्त्रत्वस्यामुख्यार्थे हेतुत्वपुरस्कारेण द्वितीये च मुख्यवृत्तौ परतन्त्रत्वस्य प्रवृत्तिनिमित्तत्वेन तत्पुरुस्कारेण प्रवृत्तेर् भेद इति भावः । ननु पूर्वं जीवादिशब्दानामपि समन्वेतव्यतया उक्तत्वात् सिद्धान्ते तेषां भगवत्परत्वप्रतिपादकं किमपि न प्रतीयते अतः कथमेतदित्यत आह ॥ असर्वत्रेति ॥ अल्पत्वमिति ॥ परतन्त्रत्व-मित्यर्थः । उदाहरिष्यमाणश्रुतिगतपदार्थत्वेनैवमुक्तम् ॥ श्रुत्यन्तरं चेति ॥ जीवादिविन्यस्तत्व-प्रतिपादनार्थमिति भावः । एवमनेन जीवेनेत्यादिश्रुत्युदाहरणस्य प्रयोजनं द्रष्टव्यम् । प्राचीन-चिन्तेति प्रधानपरमात्मनोः स्वातन्त्र्यपारतन्त्र्यचिन्तेत्यर्थः । दर्शयति चेति शब्दाभ्यामिति । दर्शयतिशब्दश् चशब्दश्चेति शब्दाभ्यामित्यर्थः । अचलत्वे पर्वतवद् अचेतनत्वं स्यादित्यत उक्तम् ईश्वरभावादिति । जाग्रत्सर्जनादिरूपक्रियावत्त्वान् निष्क्रियत्वं कथमित्यत उक्तम् ॥ अक्लिष्टेति ॥
वाक्यार्थविवरणं
तथा सतीति ॥ अन्यत्रैव प्रसिद्धत्वाभावे उभयत्रप्रसिद्धत्वप्राप्त्या तृतीयपादवैय्यर्थादिति भावः । आनन्दमयाधिकरणे प्रायेणान्यत्र प्रसिद्धानामित्युक्तिर् अत्र पादेऽअन्यत्रैवेत्युक्तिरिति ध्येयम् । स्यादेतदित्याद्युत्तरशङ्कोत्थापनाय योजनान्तरमाह ॥ यदुदितमिति ॥ प्रधानस्येति ॥ श्रेष्ठस्य उत्तमस्येत्यर्थः । आभु इत्यस्यार्थो विभ्विति । तुच्छेनेत्यल्पत्वम् । आभ्वित्यनेन स्वतन्त्रत्वम् अव्यक्तेनापि हितत्वोक्त्या तदन्तर्विन्यस्तत्वमुक्तमिति द्रष्टव्यम् ।
वाक्यार्थमञ्जरी
अवसर प्राप्तानामिति ॥ आनन्दमयनयोक्तरीत्यान्यत्रैव प्रसिद्धानां समन्वयस्य प्रथमं बुध्यनारोहात्प्रथममन्यत्रोभयत्र प्रसिद्धानां समन्वयजिज्ञासायां तन्निरूपणेन तज्जिज्ञासा-विच्छेदादिति भावः ॥ प्रकारान्तराभावादिति ॥ तथाचेन्द्रादिशब्दानामन्यत्रैव प्रसिद्धत्वाभावे अन्यत्रापि प्रसिद्धत्वप्राप्त्या तादृशशब्दसमन्वयपरतृतीयपादवैय्यर्थ्यं दुर्वारमिति भावः । तर्हि सर्वत्र प्रसिद्धोपदेशादित्यादावादिश्रुत्यादिभिरन्यत्रप्रसिद्धसर्वगतत्वादेः समन्वयनिरूपणेन तेषा-मप्यन्यत्रैवप्रसिद्धत्वप्रसङ्ग इत्यत आह ॥ पूर्वं क्वचिदिति ॥ अत्र वक्तव्यमानन्दमयनय एवास्माभिरुक्तं तत्रैवानुसन्धेयम् । अल्पानल्पविषयत्वाभ्यां चावैय्यर्थ्यमित्याह ॥ पूर्वमिति ॥ न च वर्णानामपि वाचकत्वे विभक्त्यन्तत्वेन पदत्वमेवेति पृथग्ग्रहणमयुक्तमिति वाच्यम्, एकानेक-वर्णात्मकविवक्षया तदुपपत्तेः ॥ असम्भवादिति ॥ प्रबलहेतुभिरन्यत्र प्रसिद्धत्वे कथमपि भगवत्परत्वस्य वक्तुमशक्यत्वादिति भावः ॥ अंश इति ॥ एषां शब्दानां समन्वयः प्रागुक्तस्तदंश इत्यर्थः ॥ प्रागनुक्तहेतुभिरिति ॥ तदधीनत्वादर्थवदिति तथा ह्यधीयत इत्यादि-प्रागनुक्तहेतुभिरित्यर्थः । तदेवोपपादयति ॥ जन्मादीति ॥ प्रमाणीकृततृतीयसूत्रे ।
ननु उक्तरीत्या कतिपयशब्दसमन्वये प्रतिज्ञातव्ये सर्वशब्दसमन्वयप्रतिज्ञा न सङ्गतेत्यत आह ॥ जन्मादिसूत्रे हीति ॥ गुणपरिपूर्णस्यैवेति ॥ किं तद् ब्रह्मेति लक्षणाकांक्षायां जिज्ञास्ये प्रयुक्तब्रह्म शब्दनिर्वचनलभ्यानन्तगुणपूर्णत्वमेव लक्षणत्वेन वक्तव्यं न तु जन्मादि-कारणत्वमात्रमिति भावः ॥ न हीति ॥ येन जन्मादिकारणत्वमात्रोक्त्या कृती स्यादिति भावः । एवं सति यथाश्रुतसूत्रानुपपत्तिरित्यतस्तत्तात्पर्यमाह ॥ जन्मादिकारणत्वेति ॥ सूत्रे गुणान्तरत्यागेन जन्मादिकारणत्वस्यैवोपलक्षकत्वेनोपपादने किं निमित्तमित्याशङ्कापरिहारार्थ-मुक्तम् ॥ तस्याखिलगुणसाधकत्वेनेति ॥ साधकत्वं चान्तःसमुद्रगमित्याद्यनुव्याख्याने व्यक्तम् । तत्रैव गुणपूर्णत्व एव ॥ कतिपयेति ॥ तथा च न यत्किञ्चिच्छास्त्रस्य तत्र प्रामाण्य-मिति भावः ॥ ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ आनुमानिकमपि साङ्ख्यानुमानगम्यं प्रधानादिकमेवाव्यक्तात्पुरुषः पर इत्यादि केषाञ्चिच्छाखा-सूच्यते अतो न विष्णौ सर्वशब्दसमन्वय इति चेन्न तत्राव्यक्तादिशब्दैर्विष्णुग्रहणात् कुतः यतो दर्शयति अव्यक्तमचलं शान्तमिति श्रुतिश् चशब्दादव्यक्तोऽक्षर उच्यत इति स्मृतिश्च विष्णोरेवा व्यक्तादिशब्दवाच्यत्वे कथमन्यत्र व्यवहार इत्यतो अव्यक्तादिशब्दवाच्यब्रह्मसम्बन्धा-त्प्रधानादावव्यक्तादिशब्दव्यवहार इत्याशयेनोक्तम् ॥ शरीरेति ॥ शरीरस्य रूपमिव रूपं यस्य तच्छरीररूपं कुत्सितं शरीररूपं शरीररूपकं प्रधानादिकं तत्र विन्यस्तस्य स्थितस्य विष्णो-रव्यक्तादिपदेन गृहीतेरित्यर्थः ॥ महत इति ॥ महतो महत्तत्वात्तदभिमानिचतुर्मुखाद्वा अव्यक्तं प्रधानं तदभिमानिश्रीतत्वं वापरम् अव्यक्तात्परुषः पूर्णषड्गुणो भगवान्पर इत्यर्थः ॥ योनिमिति ॥ अन्ये केचिद्देहिनो मृताः सन्तो शरीरत्वाय मनुष्यादियोनिं प्राप्नुवन्ति । अन्ये च स्थाणुं वृक्षादिजन्म अनुगच्छन्ति कुत एवं वैषम्यमित्यत उक्तम् ॥ यथेति ॥ कर्मानुसारेण ज्ञानानुसारेण चेत्यर्थः । समावृत्यातिक्रम्येतियावत् ॥ अव्यक्तादपीति ॥ तथा च न तस्य साक्षान्महतः परत्वमिति भावः ॥ प्रमाणेति ॥ निरनिष्ठो निरवद्य इत्यादीत्यर्थः । शङ्कते ॥ परमात्मन इति ॥ उक्तं साक्षादप्यविरोधं जैमिनिरित्यत्र प्रायुङ्क्त प्रयुक्तवान् यावता येन प्रकारेण कुत्सयामास गर्हयामास ॥ अन्यथेति ॥ अव्यक्तादेर्मुख्यशरीरत्वे शरीरसमत्व-प्रतिपादकरूपपदवैय्यर्थ्यादित्यर्थः । परमात्मन एवेत्यादिनोक्तशङ्कापरिहारप्रकारं दर्शयति ॥ यद्यपीति ॥ विपरीतं प्रधानादेर्मुख्यवाच्यत्वम् ॥ एवमेव हीति ॥ शब्दानां मुख्यतः प्रधानवाचकत्वं प्रधानान्वयादप्रधानवाचकत्वमित्येवं लौकिकप्रसिद्धिरप्यस्तीत्यर्थः ॥ न च मञ्चादावुक्तव्यभिचार इति ॥ प्रधानादेर्भगवत्तन्त्रत्वेनेत्यत्र शब्दामुख्यार्थत्वसाधकत्वेन यत्पर-तन्त्रत्वमुक्तं तस्य मञ्चाःक्रोशन्ति मार्गाश्चरन्तीत्यादिप्रयोगस्थमञ्चादिशब्दमुख्यार्थे मञ्चादौ पुरुषतन्त्रत्वेन विद्यमानत्वेऽपि तत्र मञ्चादिशब्दामुख्यार्थत्वाभावाद्व्यभिचार इति न शङ्क्य-मित्यर्थः ॥ समाकर्षादिति ॥ सर्वशब्दानां ब्रह्मणःसकाशाज्जगति सम्यगाकर्षणाद्व्यवहारो न तु लक्षणयेति न्यायस्येत्यर्थः ॥ लक्षणानाश्रयणादिति ॥ प्रधानादौ परतन्त्रत्वेनाव्यक्तादि-शब्दलक्ष्यार्थत्वं न साधितं येन व्यभिचारः स्यात्किन्तु शक्यत्व एव हीनशक्तिविषयत्वं साधितं मञ्चादौ च मञ्चशब्दहीनशक्तिविषयत्वमस्तीति न व्यभिचार इति भावः ॥ अल्पत्वमिति ॥ परतन्त्रत्वमित्यर्थः । उदाहरिष्यमाणश्रुतिस्तत्तुच्छपदार्थत्वेनैवमुक्तम् । अभ्वित्यस्यार्थो विभ्विति तेन स्वतन्त्रत्वम् अव्यक्तादितत्वोक्त्या तदन्तर्गतत्वं चोक्तं बोध्यम् । श्रुत्यन्तरञ्चोदाहर्तव्यमिति जीवादिविन्यस्तत्वादिप्रतिपादनार्थमिदम् । एवमनेन जीवेनेत्यादि श्रुत्युदाहरणप्रयोजनं द्रष्टव्यम् । प्राचीनचिन्ता परमात्मनो मुख्यवाच्यत्वं तत्सम्बन्धादन्यस्येति चिन्तां दर्शयति । शब्दश्च शब्दश्च ताभ्याम् ईश्वरभावाद् ईश्वरत्वान् निष्कलं प्राकृतषोडशकलाहीनम् उक्तं गीतायाम् । तस्य चाक्षरस्यान्यत्वशङ्कानिरासाय पूर्वांशोदाहरणमितिभावः ॥ अनेनेति ॥ अनेन जीवेनात्मना अनिरुद्धरूपेणेमा स्तिस्रो देवता अनुप्रविश्य नामरूपे व्याकरणवाणीत्यर्थः ।
ॐ सूक्ष्मं तु तदर्हत्वात् ॐ
सूत्रभाष्यम्
॥ ॐ सूक्ष्मं तु तदर्हत्वात् ॐ ॥ २ ॥
सूक्ष्ममेवाव्यक्तशब्देनोच्यते । तद्ध्यव्यक्ततामर्हति । सूक्ष्मत्वं च मुख्यं तस्यैव ।
‘यत्तत्सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवं ह्यामनन्ति ।
यत्तल्लोका न विदुर्लोकसारं विन्दन्त्येतत्कवयो योगनिष्ठाः ॥’
इति च पिप्पलादशाखायाम् । मुख्ये च विद्यमाने नामुख्यं युक्तम् ॥
सत्तर्कदीपावली
योगोऽप्यस्ति न व्यज्यत इत्यव्यक्तमिति । तद्योगस्तु सूक्ष्ममेव । तच्च परं ब्रह्मैव विष्ण्वाख्यमित्येवं सप्रमाणकं प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे ॥ सूक्ष्मं त्वित्यादिना ॥ प्रधानस्यापि सूक्ष्मत्वात् तत्राप्ययं किं न स्यादित्यत आह ॥ मुख्ये चेदिति ॥ यदीशवदति सूक्ष्मत्वाभावादानुमानिकस्याव्यक्तत्वम् अव्यक्तशब्दप्रवृत्तिनिमित्तभूतार्थरहितमनतिमुख्यं तर्ह्यवर- दुःखिबद्धादिशब्दप्रवृत्तिनिमित्तजाड्यदुःखबद्धाद्यर्थरहितमवरत्वदुःखिबद्धत्वादिकर्मोपचारिकमेव स्याद् भगवतः । अतोऽत्र प्रधानजीवावेवाव्यक्तपुरुषशब्दोक्तावितिशङ्कापरिहारत्वेनोत्तरसूत्र-मवतार्य व्याचष्टे । तदधीनत्वादित्यादिना । न केवलं प्रकृतिजीवयोर् अव्यक्तत्वपरत्वपुरुष-त्वादीनामीशापेक्षया अत्यल्पसूक्ष्मत्वादतिसूक्ष्मस्य सर्वोत्तमस्यातिपूरुषषड्गुणस्येव अव्यक्त-त्वादिकमव्यक्तशब्दादिप्रवृत्तिनिमित्तार्थवत् । किन्तु तद्गताव्यक्तत्वपरत्वपुरुषत्वादीनामपि ईशाधीनत्वाच्च । ईश्वरस्य तु निरनिष्टो निरवद्य इत्यादिश्रुत्या दोषासंस्पर्शनियमात् । अवरत्व-दुःखित्वबद्धत्वादीनामन्यगतानामेव ईशाधीनत्वात् । तस्यैवावरत्वादिकमर्थवत् प्रकृत्यादि-गतादित्येषा दिक् । अतोऽसावेवातिमुख्यतो अव्यक्तपुरुषपरावरदुःखिशब्दार्थः ।
तत्त्वप्रदीपिका
सूक्ष्मं ह्यव्यक्ततामर्हति । सूक्ष्माः खलु परमाण्वाकाशादयोऽव्यक्ता लक्ष्यन्ते । वैष्णवं पदं विष्णुस्वरूपम् ।
‘‘उत्तमानां हि पादेन सर्वरूपं हि कथ्यते ।
विष्णोः पदमिति ह्यस्मात्प्रथितिर्वैदिकी स्मृता’’ इति वैश्वानरविद्यायाम् ॥
लोकसारं लोकोत्तमम् । योगनिष्ठा ब्रह्मणि मनोयोगनिष्ठाः ॥
तत्त्वप्रकाशिका
नन्वस्त्वेवं श्रौतस्मार्तप्रयोगबलेनाव्यक्तादिशब्दानां भगवद्वाचित्वम् । तत्र तेषां मुख्यत्वं तु कुतः प्रयोगस्यामुख्यवाच्येऽपि (अमुख्येनापि) सम्भवादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे ॥ सूक्ष्ममिति ॥ अव्यक्तत्वस्यैवाव्यक्तशब्दप्रवृत्तिनिमित्तत्वात्कथं सूक्ष्ममेवाव्यक्तशब्देनोच्यत इति तत्राऽऽह ॥ तद्धीति ॥ अस्तु सूक्ष्मस्यैवाव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्ततार्हत्वात्तद-व्यक्तशब्दवाच्यम् । तथापि प्रकृते किमायातमित्यत आह ॥ सूक्ष्मत्वं चेति ॥ युक्तं परमात्मन्यव्यक्तशब्दस्य मुख्यत्वम् । तदर्थभूताव्यक्तत्वस्य परमात्मनि सत्त्वात् । अव्यक्त-त्वोपयोगिनः सूक्ष्मत्वस्य तत्र सद्भावात् । न च वाच्यं प्रधानस्यापि सूक्ष्मत्वेनाव्यक्तत्वसम्भवात् कथमव्यक्तशब्दस्य परमात्मनि मुख्यतेति । विष्णोरतिसूक्ष्मत्वेना(स्या)त्यन्तमव्यक्तत्वादति-शयेन प्रवृत्तिनिमित्तवत्येव शब्दस्य मुख्यत्वादिति भावः । कुतो विष्णोर् मुख्यसूक्ष्मत्वं येन तस्य मुख्याव्यक्तत्वमिति तत्राऽऽह ॥ यदिति ॥ ‘यत्तल्लोकोत्तमं नित्यं विष्णोः स्वरूपं परमसूक्ष्मं वेदितव्यम्’ ‘एषोऽणुरात्मा चेतसा वेदितव्यः’ इत्याद्यामनन्ति । यच्च पृथग्जना न विदुस्तदेतदुपायसिद्धा ज्ञानिनः पश्यन्तीत्यर्थः । एवं जीवादिशब्दप्रवृत्तिनिमित्तानां प्राणधारणा-दीनां भगवति मुख्यत्वेन तच्छब्दानां तत्र मुख्यत्वं द्रष्टव्यम् । तदुक्तं ‘स जीवनामा भगवान् प्राणधारणहेतुतः । उपचारेण जीवाख्या संसारिणि निगद्यते’ इत्यादि । नन्वस्तु विष्णौ मुख्यं शब्दप्रवृत्तिनिमित्तं प्रधानादावपि किञ्चिदव्यक्तत्वादिसद्भावादव्यक्तात्पुरुषः पर इत्यादौ तद्वाच्यं किं न स्यादिति चेत् । तत्किं परमात्मनो मुख्यवाच्यत्वमङ्गीकृत्य मुख्यतयाऽन्यस्यापि वाच्यत्वं स्यादित्युच्यते । उतान्यस्यैव । आद्ये न विरोधः । न चोभयार्थत्वे वाक्यभेदः । प्रधान-विशिष्टस्यैव परमात्मनः शब्दवाच्यत्वाभ्युपगमात् । द्वितीयं निराह ॥ मुख्ये चेति ॥ मुख्यतोऽव्यक्तादिशब्दार्थवति विष्णावव्यक्तादिशब्दवाच्यतया सम्भवति तत्परित्यागेनामुख्यतः शब्दार्थवतां प्रधानादीनामत्र वाच्यतया ग्रहणं न युक्तम् । मुख्यासम्भव एव गौणाश्रयणस्य न्यायत्वा(प्राप्तत्वा)दिति भावः ॥
गुर्वर्थदीपिका
लोका न विदुरिति वक्ष्यमाणाज्ञेयत्वघटकतया परमसूक्ष्ममित्येव पदसम्बन्ध इति भावेनोक्तं ‘परमसूक्ष्मम्’ इति । लोकसारमिति भगवत्परमत्त्वस्य पृथगुक्तत्वाल्लोका इत्यस्यार्थकथनं पृथक् जना इति पामरा इत्यर्थः । ‘मुख्ये च विद्यमान’ इत्यत्र सम्भवदन्वये मुख्य इत्यर्थः ।
भावबोधः
अतिसूक्ष्मत्वेनेति ॥ अनेन सूक्ष्मत्वं तु मुख्यमिति भाष्यगतमुख्यशब्दाभिप्राय उक्तो भवति ॥ गौणाश्रयणस्येति ॥ अमुख्याश्रयणस्येत्यर्थः ।
भावदीपः
मुख्यत्वमिति ॥ परममुख्यत्वमित्यर्थः । एवं पदार्थानुक्त्वा तात्पर्योक्त्या उक्तशङ्कां निराह ॥ युक्तमित्यादिना ॥ मुख्यमित्युक्तमुख्यपदतात्पर्यं व्यनक्ति ॥ न चेत्यादिना ॥ लोकसारं लोकोत्तमम् । पदं स्वरूपम् । ‘उत्तमानां स्वरूपं तु पादशब्देन भण्यत’ इत्युक्तेः । एषोऽणु-रित्याथर्वणे । पृथग्जनाः पामरा इत्यर्थः । यच्च पृथग्जना न विदुः । तदेतदिति तच्छब्दद्वयस्य च योजना । योगनिष्ठा उपायसिद्धाः । कवयो ज्ञानिनः । विन्दन्तीत्यस्य योगनिष्ठा इत्या-द्युक्त्यनुरोधेनार्थमाह ॥ पश्यन्तीति ॥ साक्षात्कुर्वन्तीत्यर्थः ॥ तदुक्तमिति ॥ गीतातात्पर्ये द्वितीय इत्यर्थः । मुख्यवाच्यत्वं परममुख्यवाच्यत्वम् ॥ अमुख्यतयेति ॥ परममुख्यवृत्त्यपेक्षया एवमुक्तिः । लोकसिद्धयोगरूढ्यादिरूपमुख्यवृत्त्येत्यर्थः । न तु लक्षणादिनेति भ्रमितव्यम् । लक्षणानाश्रयणादिति प्रागेवोक्तत्वात् । एवमग्रेऽपि बोध्यम् । शरीररूपकविन्यस्तगृहीतेरित्यंश-तात्पर्यमाह ॥ प्रधानविशिष्टस्यैवेति ॥ लोकसिद्धन्यायमाह ॥ मुख्यासम्भव इति ॥ यद्वा परममुख्यापेक्षया गौणेत्युक्तिः ॥
अभिनवचन्द्रिका
ननु भाष्ये ‘सूक्ष्मत्वं च मुख्यं तस्यैव’ इत्यभिधानं व्यर्थं कस्यचिद्धर्मस्यातिशयेन कस्य-चिच्छब्दस्य मुख्यतादर्शनादित्यत आह – युक्तं परमात्मनीति ॥ ननु तदर्थभूताव्यक्तत्वस्य परमात्मनि सत्त्वाद् अव्यक्तशब्दः परमात्मनि मुख्य इत्युक्तम् । तत्प्रवृत्तिनिमित्तस्य प्रधानेऽपि सत्त्वेन तत्रापि शब्दस्य मुख्यत्वापातात् । न च प्रधानेऽव्यक्तत्वमेव नेति युक्तं तत्प्रयोजकत्वस्य सूक्ष्मत्वस्य परमात्मनीव प्रधानेऽपि भावादित्याशङ्क्य निषेधति – न च वाच्यमिति ॥ कुतो न वाच्यामित्यतस्तदभिप्रायमाह– विष्णोरित्यादिना ॥ नात्र प्रवृत्तिनिमित्तातिरिक्तधर्मातिशयान् मुख्यत्वमभिप्रेतं, नापि प्रवृत्तिनिमित्ताधिकरणत्वमात्रात्, किं तु सूक्ष्मत्वातिशयप्रयुक्त-प्रवृत्तिनिमित्तपौष्कल्यं शब्दमुख्यत्वे तन्त्रत्वेनाऽभिमतमिति भावः । अत्र टीकायां, लेखक-दोषात् ‘तदधीनत्वादर्थवत्’ इति सूत्रव्याख्यानटीकायां पतितम् ‘एतेन प्रधानादेरतिसूक्ष्मत्वाद्य-भावेन नाऽमुख्यार्थत्वम् । अल्पपङ्कजेऽपि पद्मे पङ्कजशब्दस्यामुख्यतादर्शनादिति शङ्का निरस्ता भवति’ इति वाक्यं द्रष्टव्यम् । तस्यार्थः यद्भाष्ये प्रवृत्तिनिमित्तातिरिक्तसूक्ष्मत्वातिशयेन अव्यक्तशब्दस्य विष्णौ मुख्यत्वम् । तस्य प्रधानेऽल्पत्वादमुख्यत्वमभिमतम् । तदयुक्तं, प्रवृत्ति-निमित्तातिरिक्तपरिमाणतारतम्येऽपि अल्पमहापङ्कजयोः पङ्कजशब्दप्रवृत्तितारतम्याऽदर्शनादिति शङ्का, एतेन भाष्याभिप्रायकथनेन निरस्ता भवतीति । एतेनाल्पपङ्कजे निमित्तपङ्कस्याऽल्पत्वेऽपि प्रवृत्तिनिमित्तभूतपङ्कजनिकर्तृत्वस्याल्पत्वाभावात्, अल्पपङ्कजेऽपि पद्मे, पङ्कजशब्दस्या-मुख्यताऽदर्शनादिति शङ्काऽयुक्तेति परास्तम् । भाष्याभिप्रायकथनात्पूर्वं शङ्काप्राप्तिसद्भावात् । अवश्यं चैतदेवं विज्ञेयम् । अस्य वाक्यस्य ‘अत्राऽव्यक्तग्रहणेनाऽव्यक्तशब्दस्य द्वेधापि परमात्मनि वृत्तिरिति दर्शयति’ इत्यतः परमसङ्गतत्वात्, न हि अव्यक्तशब्दस्य द्वेधा परमात्मनि वृत्तिकथनेनोक्तशङ्कानिरासो भवति । येनेदं तत्र सङ्गतं स्यात् ॥ न चोभयार्थत्व इति ॥ वाक्यस्योभयत्र तात्पर्ये अन्वयभेदस्याऽवर्जनीयत्वेन वाक्यभेदः स्यादिति न वाच्यमित्यर्थः ॥ प्रधानविशिष्टस्यैवेति ॥ प्रधानविशिष्टस्यैवाऽन्वयप्रतियोगित्वाङ्गीकारेणाऽन्वयद्वयानङ्गीकारा-दिति भावः ।
इदमुक्तं भवति । योगरूढशब्देन युगपद्योगरूढिभ्यामिवाऽव्यक्तशब्देनापि – युगपत्परम-मुख्यमुख्यवृत्तिभ्यामर्थद्वयस्यैकोपस्थितौ महत्परत्वं युगपदुभयत्रान्वेति । एकोपस्थिति-विषयोभयपरत्वन्तु युगपदेव पुरुषेऽन्वेति । न चैवं सति वाक्यभेदः । अन्वयबोधद्वयानङ्गी-कारात् । अन्यथा ‘देवदत्तयज्ञदत्तौ साध्वसाधू’ इत्यत्रापि वाक्यभेदः स्यादिति ॥ गौणाश्व-श्रयणस्येति ॥ मुख्यपरित्यागपूर्वकं गौणाश्रयणस्येत्यर्थः ।
वाक्यार्थमुक्तावली
मुख्यत्वमिति ॥ परममुख्यत्वमित्यर्थः ॥ अमुख्येति ॥ परममुख्यत्वरहितेऽपि प्रधानादौ भवद्भिः प्रयोगाङ्गीकारात्तद्वदित्यर्थः ॥ अस्तु सूक्ष्मस्यैवेति ॥ एतेन सूत्रे तुरवधारणे । तदर्हत्वादिति तन्त्रम् । तथा च सूक्ष्ममेव लोकेऽव्यक्तशब्देनोच्यते । तस्य सूक्ष्मस्यैव तदर्हत्वात् प्रकृताव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्ततार्हत्वादिति सूत्रार्थ उक्तो भवति । प्रकृत इति ब्रह्मणो व्यक्तशब्दमुख्यार्थत्वे किमायातमित्यतः सूत्रस्यार्थान्तरमाहेत्यर्थः । भाष्ये सूक्ष्मत्वं चेति च प्रकरणाल्लभ्यते । तुशब्दो विशेषार्थः । ततश्च ब्रह्मैवाव्यक्तशब्दमुख्यवाच्यं तदर्हत्वादव्यक्तशब्द-प्रवृत्तिनिमित्ताव्यक्ततार्हत्वात् तद्वत्वादिति यावत् । तदपि कुतः ब्रह्म सूक्ष्मं सूक्ष्मत्वेऽप्यव्यक्तत्वं कुतः सूक्ष्मस्यैवाव्यक्ततार्हत्वादिति सूत्रार्थं मनसि निधायात्र यदुक्तमित्यादिना तुशब्दार्थतया भाष्ये मुख्यमित्युक्तम् । तद्व्यावर्त्याशङ्काप्रदर्शनपूर्वकं तात्पर्यतो व्याचष्टे ॥ न च वाच्य-मित्यादिना ॥ यत्तल्लोकोत्तममिति ॥ अत्र तदिति प्रसिद्धमित्यर्थः । विष्णोः स्वरूप-मित्यन्तमेकं कर्म परमं सूक्ष्मं वेदितव्यमित्यपरम् । तथाचामनन्तादिह कर्मकं के आमनन्तीत्यत एषोऽणुरात्मा चेतसा वेदितव्य इत्यध्याहारः । यच्च पृथग्जना अज्ञजना न विदुस्तदेतदिति तच्छब्दद्वयस्यैतच्छब्दस्य च योजना दर्शिता ॥ तदुक्तमिति ॥ गीतातात्पर्य इत्यर्थः ॥ मुख्यवाच्यतामिति ॥ परममुख्यवाच्यतामित्यर्थः ॥ अमुख्यत एवेति ॥ परममुख्यवृत्यपेक्षया हीनमुख्यवृत्येत्यर्थः ॥ उतान्यस्यैवेति ॥ अमुख्यतयान्यस्यैवेत्यर्थः ॥ गौणेत्यमुख्येयर्थः ॥
तत्त्वसुबोधिनी
अतिसूक्ष्मत्त्वेनेति ॥ अनेन सूक्ष्मत्वं मुख्यमिति । भाष्यगतमुख्यशब्दाभिप्राय उक्तः । अस्तु अतिसूक्ष्मत्वेनाप्यव्यक्तत्वं तथाप्यव्यक्तशब्दस्य तत्राव्यक्तशब्दस्य मुख्यत्वं कुत इत्यत आह ॥ अतिशयेनेति ॥ जीवशब्दप्रवृत्तिनिमित्तस्य भगवदधीनत्वे प्रमाणमाह ॥ तदुक्त-मिति ॥ ननु जीवस्य भगवति मुख्यत्वे संसारिणि कथं तत्प्रयोग इत्यत आह ॥ उपचारेणेति ॥ गौणाश्रयणस्येति ॥ अमुख्याश्रयणस्येत्यर्थः ।
वाक्यार्थविवरणं
वाक्यभेद इति ॥ अर्थैकत्वादेकवाक्यमित्युक्तत्वादिति भावः ।
वाक्यार्थमञ्जरी
सूक्ष्मन्तु सूक्ष्ममेवाव्यक्तशब्दवाच्यं ब्रह्म चातिसूक्ष्ममिति तदेव मुख्यतोऽव्यक्तपदवाच्यम् । अव्यक्तत्वस्यैवाव्यक्तपदनिमित्तत्वात्कथं सूक्ष्ममव्यक्तपदवाच्यमित्यत उक्तम् ॥ तदर्हत्वादिति ॥ तस्य सूक्ष्मत्वस्यैवाव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्ततार्हत्वात् सूक्ष्ममेवाव्यक्तपदवाच्यमित्यर्थः । कुत इत्यत आह ॥ अव्यक्तत्वोपयोगीति ॥ अणुर्वेदितव्य इत्यन्वयः । पृथग्जनाः पामराः । तदुक्तं गीतातात्पर्ये । प्राणधारणहेतुतो जीवानामिति सम्बन्धः जीवप्राणधारण इति धातोरिति भावः ॥ वाक्यभेद इति ॥ अर्थैकत्वादेकं वाक्यमित्युक्तेरिति भावः ॥ प्रधानविशिष्टेति ॥ प्राधान्येनोभयग्रहण एव तस्य दोषत्वमिति भावः ॥ गौणाश्रयणस्येति ॥ अमुख्या-श्रयणस्येत्यर्थः ।