ॐ पत्यादिशब्देभ्यः ॐ
१४. ब्राह्मणाधिकरणम्
सूत्रभाष्यम्
‘एष नित्यो महिमा ब्राह्मणस्य’ (बृ.उ.६-४-२२) इति ब्राह्मणस्यापि नित्यमहिमा प्रतीयते । स च ब्राह्मणः ‘स वा एष महानज आत्मा’ (बृ.उ.६-४-२४) इत्यज-शब्दाद्विरिञ्च इति प्राप्तम् । देवानां च विद्याकर्मणोः पदप्राप्तिः सूचिता तदुपर्यपीति । अतो ब्रवीति–
॥ ॐ पत्यादिशब्देभ्यः ॐ ॥ ४३ ॥
‘सर्वस्याधिपतिः सर्वस्येशानः … स वा एष नेति नेति’ (बृ.उ. ६-४-२१) इत्यादिशब्देभ्यो नित्यमहिमा विष्णुरेव । ‘उतामृतत्वस्येशानः । यदन्नेनातिरोहति’ (तै.आ.३-१२) ‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ (ऋ.सं. १-१६४-३६) ‘स योऽतोऽश्रुत’ (ऐ.आ.३-२-४) इत्यादिश्रुतिभ्यस्तस्यैव हि ते शब्दाः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥
सत्तर्कदीपावली
न च स वा एष महानज आत्मेति सन्निहितवाक्यबलादेष नित्यो महिमा ब्राह्मणस्येति तदपि हिरण्यगर्भविषयं सर्वस्याधिपतिरित्यादिबहुवाक्यविरोधापत्तेः । ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्’ इत्यादिश्रुत्या हिरण्यगर्भस्याजातालोकाधिपत्यनिषेधेन सर्वाधि-पत्त्याभावात् । न चेन्द्रादिवद्विद्याकर्मलब्धपदत्वेन देवाधिकारिणो हिरण्यगर्भस्य नित्यमहिमत्वं युज्यते । न च हिरण्यगर्भेतरदेवविषयं तद्वाक्यं, तत्र प्रमाणाभावात् ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेति’ इत्यादिवचनविरोधाच्च । उतामृतस्येशान इत्यादिश्रुत्यन्तरविरोधात् । सर्वस्याधिपतिः सर्वेशान एष सेतुर्विधारण एषां लोकानामसम्भेदाय स एष नेति नेत्यात्मा गृह्यो न हि गृह्यत इत्यादिवाक्यं विष्णुविषयमेव । तस्माद् ब्रह्मशब्दवाच्यवेदेन गम्यत्वाद् ब्राह्मणशब्दवाच्योऽजातत्वादजशब्दवाच्यो विष्णुरिति सिद्धम् । दशप्रमतिवरदः प्रीयताम् ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्ब्रह्मसूत्रभाष्यटीकायां पद्मनाभतीर्थभट्टारकविरचितायां सत्तर्कदीपावल्यां प्रथमाध्यायस्य तृतीयः पादः ॥
तत्त्वप्रदीपिका
‘पतिं विश्वस्याऽत्मेश्वरं शाश्वतम्’ इत्यादिना नित्यमहिमा परस्योक्तः । स ब्राह्मणस्यापि प्रतीयते । विरिञ्चस्य कादाचित्कपदप्राप्तेर्न नित्यमहिमेत्याशङ्क्याऽह– देवानां चेति । चकारोऽवधारणे । अन्यदेवानामेव विद्याकर्मणोः सकाशात्पदप्राप्तिः सूचिता देवताधिकरणे न विरिञ्चस्य । तस्माद्विरिञ्चोऽपि नित्यमहिमेति प्राप्त आह ॐ पत्यादिशब्देभ्यः ॐ । पतिशब्दादीशानशब्दादग्राह्याश्रुतत्वादिशब्देभ्यश्च नित्यमहित्वेनोक्तो ब्राह्मणो विष्णुरेव । ब्रह्मणा वेदेन गम्यत इति ‘ब्राह्मणः’, ब्रह्म अणति वाच्यत्वेनेति वा । अण गताविति धातोः । ‘उतामृतत्वस्येशानः’ इत्यादिना ‘पुरुष एवेदम्’ इति प्रतिज्ञाते सर्वेशत्वे हेतुरुच्यते । अमृतस्य मुक्तस्यापीशानोऽयं पुरुष इति यत्तस्मादिदं सर्वं पुरुष एव पुरुषाधीनमेवेत्यर्थः । न च सर्वस्य पुरुषैक्यमिहोच्यते । तथासत्यनिवृत्तेरयुक्तेश्च । तस्मात्तदधीनत्वमेव प्रतिज्ञातम् । पुरुषेणैवेदं व्याप्तमिति वाऽर्थः । तथा च पैङ्गिश्रुतिरिमां श्रुतिं व्याचष्टे । ‘पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पुरुषेणैवेदं व्याप्तं यद्भूतं यच्च भाव्यम् आतृणादाकरीषात्सर्वं भगवानिति मिथ्या-दृष्टिरेषा’ इति । ‘सर्वं समाप्नोति ततोऽसि सर्वः’ इति च भगवद्गीतासु । ‘यदन्नेनातिरोहति’ इत्यन्नशब्दोक्तो मर्त्यस्संसारी । एतदत्रोक्तं भवति । मुक्तसमुदायस्यापीशो विष्णुर् यदयं संसारिसमुदायमत्यगात् । यद्ययं मुक्तिगानामनीशः स्यात्, नैव संसारिणः संसारान्मोचयेत् । मोचयति च, तस्मान्मुक्तानामपीश एव । ‘सदाऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्’ इति च भागवते । अमृतत्वस्येति धर्मधर्म्यभेदाभिप्रायेण । अमृतत्वस्येशान इति वाऽर्थः । मुक्तेरपि तदधीनत्वात् ॥
इति श्रीत्रिविक्रमपण्डिताचार्यविरचितायां ब्रह्मसूत्रभाष्यटीकायां प्रथमाध्यायस्य तृतीयः पादः ।
तत्त्वप्रकाशिका
अत्र नित्यमहिमत्वलिङ्गेनाजश्रुत्या च विष्णुविरिञ्चयोः साधारणस्य ब्राह्मणनाम्नो विष्णौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति ॥ एष इति ॥ प्राचीनाधिकरणेषु विष्णोर्नित्यमहिमत्वमभिसंहितम् । अनन्यापेक्षया जगत्स्रष्टृत्वा-देरुपपादितत्वात् । तद्वाजसनेयके कस्यचिद् ब्राह्मणस्य प्रतीयते । ‘एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान्’ इति । तस्य च विष्णोरितरत्वेऽन्यस्यापि नित्य-महिमत्वप्रसङ्गादवश्यनिर्णेयत्वम् । स ब्राह्मणो विषयः । किं विष्णुर्विरिञ्चो वेति सन्देहः । उक्तसाधारण्यं सन्देहबीजमिति भावः । सयुक्तिकं पूर्वपक्षयति ॥ स इति ॥ स ब्राह्मणो विरिञ्चो भवेत् । अस्मिन्बहुशो अजशब्दश्रवणात् । अजशब्दस्य च तस्मिन् प्रसिद्धत्वात् । न च वाच्यं न जायत इत्यजशब्दो विष्णावपि सावकाशः । तत्र यौगिकोऽसाविति चेद् विरिञ्चेऽपि विष्णुजातत्वयोगेन प्रवृत्तत्वादिति । ब्राह्मणशब्देन सहपठितस्य विष्णावनवकाश(शात्)त्वात् । वर्णादिशून्यादीश्वराद्व्यावर्तमानस्य ब्राह्मणशब्दस्य सहश्रुताजशब्दव्यावर्तकत्वात् । महत्तत्त्वाभि-मानितया महच्छब्दोऽपि विरिञ्चिवाची । ब्राह्मणशब्देन सह श्रवणादजशब्दो यथा विरिञ्चि-वाचीत्युच्यते तथाऽऽत्मशब्देन सह श्रवणाद्विष्णुवाची किं न स्यादिति चेन्न । ‘आत्मा विरिञ्चः सुमनाः सुधौतश्चेति कथ्यते’ । इत्यादेरात्मशब्दस्य विरिञ्चेऽपि वृत्तेः । अतोऽजशब्दाद्विरिञ्च एवायं ब्राह्मण इति भावः ।
ननु कथं ब्राह्मणो विरिञ्चो भवेत् । ‘तदुपर्यपि बादरायणः सम्भवात्’ इत्यत्र देवानां विद्याकर्मभ्यां पदप्राप्तेः समर्थितत्वेन ब्राह्मणे श्रुतनित्यमहिमत्वस्य विरिञ्चेऽसम्भवात् सादि-पदस्य चानित्यत्वनियमादित्यत आह ॥ देवानां चेति ॥ देवताधिकरणे देवानामेव विद्या-कर्मणोः सकाशात्पदप्राप्तिः समर्थिता न त्वीश्वरस्य । विरिञ्चश्चेश्वरस्वरूपमेव । अतस्तस्य नित्यमहिमत्वं युक्तमेव । न च विरिञ्चस्येश्वरस्वरूपत्वमेव कुत इति वाच्यम् । अन्यत्रै-तत्प्रकरणानुपपत्तेरेव तत्सिद्धेः । तथाहि– अत्र तावद् ब्राह्मणाजशब्दौ श्रूयेते । नित्यमहिमत्व-लिङ्गं ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्’ इति पापाद्यलेपलिङ्गं च । न च एतद्विष्णुविरिञ्चान्यतरमात्रग्रहणे युक्तम् । विष्णौ शब्दानवकाशाद्विरिञ्चे लिङ्गानवकाशात् । न च भिन्नतयोभयग्रहणेनोपपत्तिः । एकनिष्ठत्वात् । अत एतदन्यथानुपपत्त्या विष्णु-विरिञ्चयोरभेदसिद्धेर्युक्तं विरिञ्चस्यापि नित्यमहिमत्वमिति स एवात्रोक्तब्राह्मणः । ‘सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चहरेति संज्ञा’ इत्यादेश्च । तर्हि विरिञ्च एवेति निर्बन्धे को हेतुः । मैवम् । कारणशब्दानां कार्ये प्रवृत्त्युपपत्तिवत्कार्यशब्दानां कारणे तदनुपपत्तेरिति भावः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अयं ब्राह्मणो विष्णुरेव ‘सर्वस्य वशी सर्वस्येशानः । सर्वस्याधिपतिर् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्जेतेऽसितो न व्यथते न रिष्यति स एष आत्माऽजरोऽमरोऽमृतोऽभयः’ इति सर्वाधिपत्यादिवाचिशब्दसद्भावात् । तथा च तस्यैव नित्यमहिमत्त्वमिति भावः । सर्वाधिपत्यादिवाचिशब्दसद्भावेऽपि कुतो विष्णुत्व-निश्चय इत्यत आह ॥ उतेति ॥ यद्भूतं भविष्यद्वर्तमानं सर्वं तत्परमपुरुषाधीनम् । न केवलममुक्तसर्वाधिपतिः पुरुषः किन्तु मुक्तसमुदायस्यापि यस्मात्संसारिसमूहमतिशेते । मुक्तावनधीनत्वे सर्वज्ञस्य बुद्धिमतः स्वाधीनसंसारिभ्यो मोक्षप्रदानायोगादित्यर्थः । ईशान-पदोक्तसर्वप्रेरकत्वे द्वितीया श्रुतिः । नेति नेतीत्युक्तश्रुतदृष्टवैलक्षण्ये तृतीया । सर्ववशित्वादौ श्रुत्यन्तराण्यादिपदेन सूचयति । न च विष्णोर्ब्राह्मणत्वेऽजशब्दविरोधः । न जायत इति योगेनोपपत्तेः । न च विष्णौ ब्राह्मणशब्दानुपपत्त्याजशब्दापहारः । ब्रह्मणा वेदेन गम्यते इति योगेनोपपत्तेः । स्वरव्यत्ययस्याधिक्यार्थत्वात् । अण गताविति धातोः । अन्यथा पत्यादि-शब्दविरोधात् । न चाभेदात्पतित्वादिर्विरिञ्चेऽपि सम्भवतीति वाच्यम् । तदभेदे मानाभावात् । ब्राह्मणाजशब्दयोरुक्तरीत्याऽन्यथाप्युपपत्तेः । स्मृतेस्तदन्तर्गतेश्वररूपापेक्षयोपपत्तेः । ‘स्वधर्म-निष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम्’ इति वचनाद्विरिञ्चस्य कर्मफलाभावायुक्तेर्नित्यमुक्तेन परमात्मना भेदस्यैवोपपन्नत्वात् । ‘तत एते व्यजायन्त विश्वो हिरण्यगर्भः’ इत्यादिभेदश्रुतिबाहुल्याच्च । अतो विष्णुरेवायं ब्राह्मणो नित्यमहिमा (मः) चेति सिद्धम् ॥ ४३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थमुनिविरचितायां तत्त्वप्रकाशिकायां प्रथमाध्यायस्य तृतीयः पादः ॥
गुर्वर्थदीपिका
‘स वा एष महाजन आत्मा योऽयं विज्ञानमयः’ ‘स वा एष महानज आत्मा आनन्दः’ ‘स वा एष महानात्मा अजरो अमरो अमृतः’ इत्यस्मिन्नेव प्रकरणे स्थानत्रयेऽप्यजशब्दस्य विद्यमानत्वादस्मिन्बहुशो ऽजशब्दश्रवणादित्युक्तम् । अस्मिन्प्रकरणे इत्यर्थः । ‘य आत्मा नेति नेति’ इत्यन्यनिषेधरूपेण गृह्यः गृहीतुं योग्यः स एवागृह्यश्चेत्यावृत्त्या योजनीयम् । कस्मादगृह्य इत्यत उक्तं न हि गृह्यत इति । साक्षात्स्वमहिमप्रतिभासनपूर्वकं न गृह्यत इत्यर्थः । अतो न पूर्ववाक्यस्यापूर्तिर् नाप्युक्तप्रायपाठविरोधः । असितो न व्यथते न रिष्यति इत्यत्र ‘षीञ् बन्धन’ इति धातो बन्धजनितक्लेशमरणादिरहित इत्यर्थः । सर्वस्येशा ब्रह्माद्यास् तानपि अनयति प्रेरयतीति सर्वस्येशान इति व्युत्पत्तिमभिप्रेत्योक्तमीशानपदोक्तेति । सर्वप्रेरकत्वे इत्युपलक्षणम् । महदहङ्कारपञ्चमहाभूताख्यसप्तपदार्थान्तर्गतब्रह्मरुद्रयोरपि विष्ण्वाज्ञाधारित्वस्य श्रुत्यैवोक्तेस्सप्तार्धगर्भा श्रुतिस् तत्तन्नामवत्त्वेनैव योज्येत्यपि द्रष्टव्यम् ।
‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति श्रुतेः सर्वथा अश्रुतत्वा-दृष्टत्वादेरयोगात् ‘स योऽतोऽश्रुतः’ इत्यादिश्रुतेर् लोके यत् श्रुतं यच्च दृष्टं तद्विलक्षण इत्यादि-रेवार्थो वक्तव्य इत्यभिप्रेत्योक्तं तृतीयेति । ‘अण पण गतौ’ इति धातोर् गत्यर्थानां च ज्ञानार्थकत्वाद् ब्रह्मणा अण्यते ज्ञायत इति व्युत्पत्तिमभिप्रेत्योक्तं ब्रह्मणेति ॥ स्वरव्यत्यय-स्याधिक्यार्थत्वादित्यनेन ब्रह्मपदोक्तवेदे समन्तादित्यर्थकदीर्घरूपाकारस्य योगे सकलवेद-प्रतिपाद्यत्वरूपाधिक्यस्य लाभेन ब्राह्मणपदस्य ब्रह्मादिष्वयोग्यतां हरावेव योग्यतां चाभिप्रैति । नित्यमुक्तेन परमात्मनेति वदता एकजन्मवतोऽपि न परमात्मनैक्यं किं शतजन्मवत इति सूचितम् । अपुनर्भवाख्या मुक्तिः क्व? शतवारं पुनर्भवाः क्व? इति भावः । भेदश्रुतिबाहुल्या-च्चेत्युपलक्षणम् । चतुर्मुखस्य विष्णुनिष्ठनित्यमुक्तत्वप्रापणाय । तयोः कार्यकारणभावं च वदता त्वया तद्भेदस्यैव वाचोभङ्ग्यन्तरेणोक्तत्वाच्चेत्यपि द्रष्टव्यम् ॥
इति श्रीवादिराजतीर्थविरचितायां गुर्वर्थदीपिकायां प्रथमाध्यायस्य तृतीयः पादः ॥
भावबोधः
शब्दो ब्राह्मण इति न्यायविवरणोक्तशब्दस्योभयत्र प्रसिद्धत्वमाह– नित्यमहिमत्व-लिङ्गेनाजश्रुत्या चेति ॥ एकैकनिष्ठयोर्लिङ्गश्रुत्योरुभयत्र प्रसिद्धत्वसम्पादकत्वं कम्पनादित्यत्र च द्रष्टव्यम् । प्राचीनाधिकरणेष्वित्यनेन सुषुप्त्युक्रान्त्योर्भेदेनेत्यधिकरणस्य जगत्स्रष्ट्रत्वादे इत्यादि-पदेन स्वप्नादिस्रष्टृत्वोदेरपि ग्रहणेन टीकायामेवाव्यवहितपूर्वाधिकरणसङ्गतिरुक्तेति द्रष्टव्यम् ॥ अभिसंहितमिति ॥ कण्ठतोऽनुक्तत्वादिति भावः । केवलादव्यवहितत्वं ज्ञायत इत्यत आह– अनन्यापेक्षयेति ॥ किं विष्णुरिति ॥ अत्र एष नित्यो महिमा ब्राह्मणस्येति श्रुत्युक्त-ब्राह्मणः किं विरिञ्चः किं वा विष्णुरिति चिन्ता । तदर्थमेतत्प्रकरणगता अज-आत्म-महच्छब्दाः किं विरिञ्चपरा उत विष्णुपरा इति । तदर्थं तत्समभिव्याहृतब्राह्मणशब्दः किं रूढ उत यौगिक इति । तदर्थं पत्यादिशब्दनित्यमहिमत्वपापाद्यलेपत्वादिलिङ्गजातं विरिञ्चे सम्भव-त्युत न सम्भवतीति । तदर्थं ‘तदुपर्यपि’ इति विष्णुभिन्नसर्वदेवपदसादित्वोक्तिः किं विरिञ्च-पदविषयिणी न भवत्युत तदर्थं विरिञ्चस्य विष्णुनाऽभेद उत भेद इति । तदर्थं ‘स्थित्यादये हरिविरिञ्चहरेति संज्ञा’ इत्यादिवाक्यं किं प्रतीतार्थपरं किमुतार्थान्तरपरमिति । तदर्थं तदभेदे श्रुत्यादिप्रमाणविशेषो नास्त्युतास्तीति ॥ बहुशोऽजशब्दश्रवणादिति ॥ ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः । स वा एष महानज आत्मा अन्नमयः । स वा एष महानज आत्माऽजरोऽमरः’ इत्यादिवाक्येषु बहुशोऽजशब्दश्रवणादित्यर्थः । अत एव भाष्येऽज-शब्दयुक्तोदाहृतबहुवाक्यग्रहणाय स ‘वा एषा महानज आत्मा’ इत्येतावदेवोदाहृतमिति भावः ॥ विष्णुजातत्वयोगेनेति ॥ यद्यपि विरिञ्चेऽअजशब्दस्य रूढिरप्यस्ति । तथापि तस्मादहमज स्मृत इति भारतवचनाद्विष्णावपि रूढिरस्तीति विष्णुविरिञ्चयोरजशब्दस्य साम्यमेवेति भावः ॥ ब्राह्मणशब्देन सहपठितस्येति ॥ अत एव न्यायविवरणे विरिञ्चप्रापकतया ब्राह्मण-शब्दोपादनस्य ब्रह्मणा वेदेनेत्यादिसिद्धान्तन्यायविवरणानुरोधेनाभिप्राय उक्तो भवति ॥ वर्णादिशून्यादिति ॥ ‘अगोत्रमवर्णम्’ इत्यादि श्रुतेरित्यर्थः
‘विष्णोर्ब्राह्मणजातिः सन् यज्ञे ब्रह्मा चतुर्मुखः’ इति
चतुर्मुखस्य ब्राह्मणजातित्वात्तत्र ब्राह्मणशब्दः सम्भवतीति भावः । कथं विरिञ्चेश्वर-योरैक्याभावे एतत्प्रकरणानुपपत्तिरित्यतो ब्राह्मणशब्दस्य पापाद्यलेपलिङ्गस्य च चतुर्मुखेन सह परमात्मनो भेदं विना सावकाशराहित्याद् अर्थादभेदप्राप्तिरिति न्यायविवरणं मनसि निधायाह– तथा हीति ॥ इत्यादेश्चेति ‘आदि’पदेन ‘स त्रेधा बभूवैषां गुणानामुपादानाय विष्णुर्वा सत्त्वस्य रजसो ब्रह्मा ईशानो नाम तमसः’ इत्यादिश्रुतिग्रहणम् । तथा च न केवलमेतत्प्रकरणा-न्यथानुपपत्त्या विष्णुविरिञ्चयौरेक्यसिद्धिः । किन्तूदाहृतागमादपीति भावः । विरिञ्चस्यापि स्वावरपतित्वादिना पत्यादिशब्दवाच्यत्वसम्भवेन सौत्रपत्यादिशब्दानां विष्णुत्वानिश्चायकत्वात् श्रुतावपि सर्वस्याधिपतिरित्यादिश्रवणाच्चाह– सर्वाधिपत्यादीति ॥ ‘उतामृतत्वस्येशानः’ इति वाक्येनैव सर्वाधिपतित्वं न प्रतीयत इत्यतो भाष्याभिप्रेतं ‘पुरुष एवेदं सर्वम्’ इति तत्पूर्व-वाक्यमपि व्याचष्टे– यद्भूतं भविष्यद्वर्तमानमिति ॥ पुरुष एवेत्यस्य व्याख्यानं परमपुरुषाधीनमिति ।
‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते ।’
इत्यादेरिति भावः । न जायत इति योगेनेति । अनेनाजशब्दोऽपि तस्मिन्नेवेति न्यायविवरणं व्याख्यातं भवति । ब्रह्मणा वेदेनेति । अनेन वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इति न्यायविवरणमुक्तार्थमिति ज्ञातव्यम् ।
ननु ब्राह्मणशब्दस्य ब्रह्मणा वेदेनेत्याद्युक्तरीत्या यौगिकत्वे ब्रह्माण इति भवेत् । ब्राह्मण इति कथमित्यत आह– स्वरव्यत्ययस्याधिक्यार्थत्वादिति ॥ अन्यथा पत्यादिशब्द-विरोधादिति ॥ अनेनोक्तविरोधश्चेति न्यायविवरणं व्याख्यातं भवति । चतुर्मुखस्य कर्मफला-भावायुक्तेस्तयोर्भेदोऽर्थादापद्यत इति न्यायविवरणं सप्रमाणकं व्याचष्टे– स्वधर्मनिष्ठ इत्यादिना ॥ तत्रैव भेदश्रुतिबाहुल्यादिति न्यायविवरणं भेदश्रुत्युदाहरणपूर्वकं व्याचष्टे– तत एव इत्यादिना ॥ ततश्चतुर्मुखस्येशाद्भेदसिद्धेर्न तदभेदेन चतुर्मखे पापाद्यलेपलिङ्गं पत्यादि-शब्दश्च सावकाश इति वक्तुं शक्यमिति तल्लिङ्गं स शब्दश्च ईशे(चतुर्मुखे)ऽनवकाश इति समस्तमेतदिति न्यायविवरणं प्रवृत्तमिति ज्ञातव्यम् ।
अत्राद्याधिकरणं द्युभ्वाद्यायतनत्वलिङ्गसमन्वयरूपैकार्थप्रतिपादकमेका पेटिका । तदुत्तरमधिकरणत्रयं शब्दसमन्वयप्रतिपादकत्वेन एका पेटिका । तत्राद्ये– भूमशब्दस्य, द्वितीये अक्षरशब्दस्य, तृतीये– सच्छब्दस्य समन्वयप्रतिपादनम् । तदुत्तरमधिकरणद्वयं लिङ्गसमन्वय-रूपैकार्थप्रतिपादकतयैका पेटिका । तत्राद्ये– हृत्पद्मस्थत्वलिङ्गस्य, द्वितीये– आनुकूल्येन गृह्यमाणत्वलिङ्गस्य समन्वयप्रतिपानम् । तदुत्तरमधिकरणमीशानशब्दसमन्वयप्रतिपादकमेका पेटिका । तदुत्तरमधिकरणद्वयं प्रसङ्गप्राप्तवेदविद्याधिकाररूपैकार्थप्रतिपादकत्वेनैका पेटिका । तत्राद्ये देवानां वेदविद्याधिकारसद्भावसमर्थनम् । द्वितीये– त्रिवर्णेतरेषां तदभावसमर्थनम् । तदुत्तराधिकरणत्रयं शब्दसमन्वयरूपैकार्थप्रतिपादकमेका पेटिका । तत्र यथाक्रमं वज्रज्योति-राकाशशब्दानां समन्वयप्रतिपादनम् । तदुत्तरादिकरणद्वयं जीवेशाभेदभेदाभ्यां पूर्वपक्षसिद्धान्त-समर्थनपरमेका पेटिका । तत्राद्ये सर्वजीवेशाभेदभेदाभ्यां पूर्वपक्षसिद्धान्तसमर्थनपरमेका पेटिका । तत्राद्ये सर्वजीवेशाभेदभेदाभ्यां पूर्वपक्षसिद्धान्तौ । द्वितीये– विरिञ्चेश्वरयोरभेद भेदाभ्यां पूर्वपक्षसिद्धान्ताविति ॥
नन्वेवं चेल्लिङ्गसमन्वयप्रतिपादकं द्युभ्वाद्यायतनमित्याद्यधिकरणचतुष्टयम्, नामसमन्वय-प्रतिपादकं, भूमा सम्प्रसादादित्याद्यधिकरणाष्टकमेकैकपेटिकात्वेन कुतो न निबद्धमिति चेत्, न; एतेषामधिकरणानां यथास्थितक्रमेऽनन्तरसङ्गतिकथनावसरे निमित्तस्योक्तत्वादिति ॥
इति श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमयतिकृते श्रीमज्जयतीर्थपूज्यचरणविरचित-
तत्त्वप्रकाशिकाभावबोधे प्रथमाध्यायस्य तृतीयः पादः ॥ ३ ॥
भावदीपः
भाष्यसूचितं साधारण्यबीजमाह ॥ अत्र नित्यमहिमत्वेति ॥ सङ्गतिपरतया भाष्यं व्याकुर्वन् ब्राह्मणस्यापीत्यपिपदसूचितमाह ॥ प्राचीनेति ॥ साक्षादनुक्तेराह ॥ अभिसंहित-मिति ॥ तद्व्यनक्ति ॥ अनन्येति ॥ एष इत्यादि व्याचष्टे ॥ एतदिति ॥ षष्ठेऽध्याय इत्यर्थः । स चेत्यादेस्तात्पर्यं तस्य चेति ॥ वक्ष्यमाणदिशा विरिञ्चत्व इत्यर्थः । अपिपदसूचिताभि-संहितमित्यन्तवाक्यस्य भावोऽन्यस्यापीति ॥ विरिञ्चो वेति ॥ विप्रमात्रे ब्राह्मणपदस्य लोकप्रसिद्धावपि इहाजश्रुत्या न तस्य सन्देहनिविष्टत्वमिति भावः । पूर्वपक्षादिपरत्वेनाप्यवतार्य स च ब्राह्मणो विरिञ्च इति प्रतिज्ञार्थमाह ॥ सयुक्तिकमिति ॥ स वा एष इति भाष्योपात्त-वाक्यस्यास्मिन्प्रकरणे बहुकृत्वः श्रवणादाह ॥ बहुश इति ॥ प्रसिद्धत्वादिति रूढत्वादित्यर्थः ॥ यौगिक इति ॥ उपलक्षणमेतत् । विरिञ्चे रूढत्ववत् ‘तस्मादहमजः स्मृत’ इति भारतवाक्यादजशब्दस्य विष्णौ रूढेरपि सत्वादित्यपि ध्येयम् । अन्यथा विरिञ्चे योगरूढ्योः केवलयोगात्प्राबल्येन पूर्वपक्षसम्भवात् । ब्राह्मणपदसाहित्येनोज्जीवनायोगात् । एवं भाष्योक्त-मजशब्दं सावकाशं कृत्वा ब्राह्मणशब्दस्य पापालेपलिङ्गस्य च चतुर्मुखेन सह परमात्मनो भेदं विनाऽवकाशराहित्यादर्थादप्राप्तिरिति न्यायविवरणे ब्राह्मणश्रुतितो विरिञ्चप्राप्तेरुक्त्या तत्साहित्येनाजश्रुतेर्नि रवकाशतामाह ॥ ब्राह्मणेति ॥ वर्णादीति ॥ अगोत्रमवर्णमित्यादे-र्ब्राह्मण्यादिवर्णगोत्रशून्यादित्यर्थः ॥ व्यावर्तकत्वादिति ॥ ईश्वरादित्यनुषङ्गः । विरिञ्चस्य तु विप्रत्वाद् विप्रत्वजातौ निरूढब्राह्मणश्रुतिर्युक्तेति भावः । उत्कृष्टत्ववाचिमहच्छब्दविरोध इत्यत आह ॥ महत्तत्वेति ॥ द्वितीये वक्ष्यमाणाभिमानिनयन्यायादिति भावः । प्रथमेऽध्याये बृहद्भाष्योक्ताभिधानमाह ॥ आत्मेति ॥ इत्यादेरित्यादिपदेन बुद्धेरात्मा महान्पर इति प्रयोगग्रहः । अत इति विष्णावनवकाशब्राह्मणश्रुतिसाहित्याद् बाधकाभावाच्चेत्यर्थः । ब्राह्मणो ब्राह्मणशब्दार्थः । प्रागुक्तन्यायविवरणोक्तश्रुतिलिङ्गे भाष्योक्ताजश्रुतिनित्यमहिमत्त्वलिङ्गयो-रप्युलक्षणमिति भावेन न्यायविवरणभाष्याभ्यामुक्तविरुद्धश्रुतिलिङ्गानि व्यक्तीकृत्याभेदं विनाऽवकाशराहित्यादिति न्यायविवरणोक्तदिशाऽभेदप्रापकतां व्यनक्ति ॥ तथा हीत्यादिना ॥ ननु श्रुत्युपेतम् अजआत्मेत्यादिकं विरिञ्चविषयं विष्णुलिङ्गोपेतवाक्यं तु विष्णुविषय-मित्यन्यथोपपत्तिं श्रुत्यादेराशङ्क्य निराह ॥ न च भिन्नेति ॥ वाक्यभेदमाश्रित्येति योज्यम् ॥ एकेति ॥ एकार्थनिष्ठत्वेनैकवाक्यत्वावगमादित्यर्थः ॥ स एवेति ॥ पूर्वाधिकरणपूर्वपक्षन्यायाद् वक्ष्यमाणदिशा वेति भावः । विवरिष्यते चैतदग्रे इति भावः । न केवलमर्थापत्त्येत्याह ॥ सत्त्वमिति ॥ भागवते प्रथमस्कन्धे परमपुरुषस्यैकस्यैव क्रमेण सत्वादिगुणै रक्षासृष्टिसंहारार्थं हरिविरिञ्चहरात्मना रूपत्रयोक्तेरित्यर्थः । इत्यादेरित्यादिपदेन तृतीयस्कन्धे एकादशाध्याये तात्पर्योदाहृतं ‘स त्रेधा बभूवैषां गुणानामुपादानाय विष्णुर्वाव सत्त्वस्य रजसो ब्रह्मा ईशानो नाम तमस’ इत्यादिश्रुतिवाक्यं च गृह्यते ॥ ब्राह्मणशब्दो विष्णावेवेति ॥
न्यायविवरणानुरोधाद् ब्राह्मणपदमध्याहृत्य नित्यमहिमा विष्णुरेवेति प्रतिज्ञार्थमाह ॥ अयं ब्राह्मणो विष्णुरेवेति ॥ भाष्ये पत्यादीति सूत्रोपात्तशाखान्तरस्थवाक्यस्यैवोदाहृतत्वेन स्वयमेव तत्प्रकरणस्थवाक्यमुदाहृत्य पत्यादिशब्देभ्य इति हेतुपरभाष्यं व्याचष्टे ॥ सर्वस्येति ॥ सेतुर्विधारण इति ॥ धारणसमर्थ आश्रय इत्यर्थः ॥ इति नेति ॥ इति नेति श्रुतदृष्टवन्ने-त्यर्थः । असितो ऽबद्धः । षिङ्बन्धने । न रिष्यति न नश्यति । रिषहिंसायाम् । सूत्रे पत्यादिशब्दः सर्वाधिपत्यादिवाचिपर इति मत्वाऽऽह ॥ सर्वाधिपत्येति ॥ तेन सर्वस्य वशीत्याद्यपि शाखान्तरस्थवाक्यमिह सङ्गृहीतमिति भावः । नित्यमहिमा विष्णुरेवेत्येतद् व्याचष्टे ॥ तथा चेति ॥ भाष्ये सर्वस्य वशीत्यादावुदाहर्तव्ये सर्वस्याधिपतिरित्युक्तिः शाखान्तरणामुपसङ्ग्रहार्थेत्यस्य धृतेश्च महिम्न इति सूत्रे एवमन्यत्रापीत्युक्त्या उक्तप्रायत्वादत्रा-नुक्तिः । उतशब्दाकाङ्क्षितं पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पूर्ववाक्यार्थमाह ॥ यद्भूत-मिति ॥ उपलक्षणं मत्वोक्तं वर्तमानमिति । इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थान-निरोधसम्भव इत्याद्यानन्दमयनयभाष्योक्तस्मृतेरधीनमित्युक्तम् । पुरुष एवेदं सर्वं भूतं भव्यं भवच्च यत् । इत्युच्यते तदीशत्वान्न तु सर्वस्वरूपत इति प्रथमे बृहद्भाष्योक्तभारतस्मृतेरिति भावः । उतेत्यस्यार्थो न केवलमिति । अमृतत्वस्येत्यस्यार्थः ॥ मुक्तसमुदायस्येति ॥ विचित्रा हि तद्धितगतिरिति समुदाये भावप्रत्ययः । भावभवित्रोरभेदादमृतत्वशब्दोऽत्र मुक्तसमुदायपर इति वा भावः । द्वितीया सप्तार्धगर्भेति श्रुतिरित्यर्थः । इयमक्षरनये व्याख्यातत्वान्नेह व्याख्याता ॥ तृतीयेति ॥ स योऽत इति श्रुतिः । इयं च सर्वत्र प्रसिद्धेतिनये व्यक्ता । ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोऽपि तस्मिन्नेवेति न्यायविवरणं प्रागुक्तशङ्काव्यावर्तकत्वेन योजयितुं शङ्कामनूद्याकाङ्क्षाक्रमेण योजयति ॥ न चेत्यादिना ॥ स्वरेति ॥ ब्रह्मणा वेदेन गम्यत इति विग्रहे ब्रह्माण इति वाच्ये ब्राह्मण इति स्वरशब्दित-दीर्घव्यत्यास आधिक्येऽधिकमित्येव हरिणा सूत्रमीरितमिति ऋग्भाष्योक्त्या वेदेन गम्यत्वाधिक्यद्योतनार्थ इत्यर्थः ।
ननु गम्यत इति व्युत्पत्तौ ब्रह्मगम इत्यादि स्यात् स्वरव्यत्यय इति कथमित्यत आह ॥ अणगताविति ॥ उक्तविरोधश्च तत्रैवेति न्यायविवरणोक्तमाह ॥ अन्यथेति ॥ माना-भावादिति ॥ अभेदः किमर्थापत्त्याऽथ पुराणवाक्येन । नाद्यः । श्रुत्या यौगिकत्वोक्ति-परन्यायविवरणेन परिहृतत्वादित्याह ॥ ब्राह्मणेति ॥ स्मृतिस्तु तात्पर्ये स्मृत्यैव व्याख्यातेति मत्वाऽऽह ॥ स्मृतेस्त्विति ॥ सत्त्वं रजस्तम इत्यादेः ‘ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थितः’ इत्यादिस्मृतेरिति भावः । चतुर्मुखस्य कर्मफलाभावायुक्तेस्तयोर्भेद एवार्थादापद्यत इति न्यायविवरणोक्तमत्र व्यनक्ति ॥ स्वधर्मेति ॥ इति वचनादिति ॥ चतुर्थस्कन्धे त्रयोविंशेऽ-ध्याये । मां लक्ष्मीमित्यर्थः ॥ नित्यमुक्तेनेति ॥ तथा च परमात्मनो नित्यमुक्तत्वेन कर्मफला-भावाद् विरिञ्चस्य चोदाहृतवचनेन कर्मफलसद्भावावगमेन तदभावायुक्तेरित्यर्थः । भेदश्रुति-बाहुल्यादित्यन्यत्रोक्तं व्यनक्ति ॥ तत इति ॥ अदृश्यत्वनयभाष्योक्तेयं श्रुतिः ॥ अत इति ॥ निरवकाशप्रापकसद्भावादित्यर्थः । नित्यमहिमा चेति फलोक्तिः । अकारान्तत्वमुपेत्य क्वचिन्नित्यमहिमश्चेति पाठः ॥
इति श्रीमद्भाष्यटीकाभावदीपे श्रीराघवेन्द्रयतिकृते प्रथमाध्यायस्य तृतीयः पादः ॥
अभिनवचन्द्रिका
साधारणस्येति ॥ अत्र ब्राह्मणशब्दस्य साधारण्यं नाम उभयपरत्वसम्भावनाविषयत्वमिति बोध्यम् । एतेन विष्णुलिङ्गाऽजश्रुत्योर् एकस्मिन्नेव वाक्ये श्रवणात् तयोश्च विरुद्धत्वान् नोभयपरत्वनिश्चयरूपं साधारण्यं सम्भवतीति परास्तम् । ब्राह्मणस्य प्रतीयत इति ॥ अस्याधिकरणस्य पूर्वाधिकरणाऽभिसंहित नित्यमहिमत्वधर्माक्रान्तब्राह्मणप्रतिपादकत्वं, पूर्वाधि-करणैः सङ्गतिरित्युक्तमिति बोध्यम् । ब्राह्मणशब्देन सहपठितस्येति ॥ अजशब्दो द्विविधः । आज्जात इति विरिञ्चिगतवृत्तिविशिष्टः, न जायत इति विष्णुगतवृत्तिविशिष्ट इति । ब्राह्मण-शब्दसामानाधिकरण्याद् आज्जात इति योगविशिष्ट एवायमजशब्दः । न चाऽसौ विष्णा-ववकाशमर्हतीति भावः ॥ विरिञ्चिश्चेश्वरस्य रूपमेवेति ॥ नन्वभेदेन पूर्वपक्षो न युज्यते । सिद्धान्ते भेदानाभिधानात् । अभेदेन नित्यमहिमत्वादिघटनवत् सिद्धान्तप्रापकपत्यादि-शब्दानामपि घटयितुं शक्यत्वेन सिद्धान्ताऽनुदयाऽप्रसङ्गाच्चेति चेत्, न अभेदेन पूर्वपक्षस्य सूत्रज्ञापितभेदावतारिकारूपत्वेन वक्तव्यत्वात् । तथा हि सूत्रकारस्तावद् ब्राह्मणस्य विष्णुत्व-समर्थनाय पतिशब्दमात्रस्य पूर्णत्वात् सूत्रस्याल्पाक्षरत्वाय ‘पतिशब्दात्’ इत्येव वक्तव्ये यत् ‘पत्यादिशब्देभ्य’ इत्याह, तेनेदं सूचयां बभूव । चतुर्मुखासाधारणाजश्रुति, विष्ण्वसाधारण-नित्यमहिमत्वयोरस्मिन् ब्राह्मणे श्रवणात् तदन्यथानुपपत्त्या विष्णुविरिञ्चयोरैक्यमङ्गीकृत्य, कारणशब्दानां कार्ये सम्भवाभिप्रायेण ‘नित्यो महिमा’ इत्युक्तनित्यमहिमत्वं ब्राह्मणे घटयित्वा, ब्राह्मणो विरिञ्च एवेति न मन्तव्यम् । कुत इति चेत्, भवेदिदं तयोरैक्यं यदि उभयप्रापकयोः साम्यं स्यात् । न चैवं किं नाम विष्णुप्रापकाणां बहुत्वात्, निरवकाशत्वाच्च, अल्प-सावकाशविरिञ्चप्रापकबाधसम्भवेन अन्यथानुपपत्तेरभावादिति । अत एव – इममेवाभिप्रायं मनसि निधाय, सत्तर्कदीपावल्यां तस्माद्वेदेन गम्यत्वात्, ब्राह्मणशब्दवाच्यत्वात्, अजातत्वात्, अजशब्दवाच्यो विष्णुरिति सिद्धमित्युक्तम् । अत एव सिद्धान्तानुदयोऽपि परास्तः । तत्वप्रदीपे तु ‘देवानां च’ इति भाष्यम्, ‘विरिञ्चस्य कादाचित्कपदप्राप्तेर् न नित्यमहिमेत्याशङ्कयाह – देवानां चेति ॥ चकारोऽवधारणे । अन्यदेवानामेव विद्याकर्मणोः सकाशात्पदप्राप्तिः सूचिता देवताधिकरणे न विरिञ्चस्य तस्माद्विरिञ्चोऽपि नित्यमहिमेति प्राप्त आह पत्त्यादिशब्देभ्य’ इति व्याख्यातम् । यद्यपि देवताधिकरणे न विरिञ्चेतरस्य पदप्राप्तिः सूचिता किंतु विरिञ्चस्यापीति नित्यमहिमत्वासम्भव एव तथापि अङ्गीकारवादेन सूत्रकृता समाहितमिति तत्वप्रदीप-कृतोऽभिप्रायो बोध्यः । सर्वस्य वशीति ॥ ‘पत्यादिशब्देभ्य’ इति सूत्रे शाखान्तरस्थं वाक्यं विषयवाक्यत्वेनाऽभिसंहितमिति भावेन भाष्यकृता ‘सर्वस्याधिपतिः सर्वस्येशान’ इति शाखान्तरस्थं वाक्यमुदाहृतम् । टीकाकृता तु तत्समानार्थत्वाद् वाजसनेयवाक्यमपि विषय-वाक्यमित्यभिप्रेत्य ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः’ इति वाक्यमुदाहृतमिति बोध्यम् ।
एतेन वाजसनेयके ‘सर्वस्याऽधिपतिः’ इत्यस्य प्राथम्याभावाद् भाष्यकारीयं ‘सर्वस्याधि-पतिः सर्वस्येशान’ इति श्रुत्युदाहरणमयुक्तमिति परास्तम् । सूत्रकाराऽभिमतशाखान्तरस्थ-वाक्यस्यैव भाष्यकृता उदाहृतत्वात् । एतेन ‘सर्वस्य वशि’ इति वशीत्यस्य प्राथम्यात् ‘वश्यादिशब्देभ्य’ इति सूत्रपाठेन भाव्यमिति परास्तम् । ‘पत्यादिशब्देभ्य’ इत्यत्रादिशब्दगृहीतं शब्दान्तरं वक्तुमाह– एष सर्वेश्वर इति ॥ एषां लोकानामसम्भेदाय=असाङ्कर्याय, विधारणः= धारणसमर्थः, सेतुः=आश्रयश्चेत्यर्थः । एष नेति नेतीति ॥ स एष आत्मा इति न, इति न श्रुतवन्न, दृष्टवन्न, श्रुतदृष्टविलक्षण इति यावत् । अगृह्यः=साकल्येन ग्रहीतुमशक्यः । कुत इत्यत उक्तं न हि गृह्यत इति ॥ हि यस्मात् कारणात् केनापि न गृह्यते । एवं ‘न हि शीर्यते’ इत्यादेरपि व्याख्या द्रष्टव्या । अशीर्यः विदारणायोग्यः । असङ्गः सङ्गरहितः । असितः बन्धनायोग्यः । न रिष्यति न नश्यतीत्यर्थः । स एष आत्मेति ॥ ‘आत्माऽजरोऽमृतोऽभय’ इत्येव श्रुतिग्रहणम्, ‘स एष’ इति टीकाकारीयपूर्वोक्तपरामर्शः । एतेन ‘सवा एष महानज आत्माऽजरोऽमृतोऽभय’ इति श्रुतौ पाठदर्शनात् स एष आत्मेति श्रुत्युदाहरणमयुक्तमिति परास्तम् । ‘पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमित्यस्यार्थमाह – यद्भूतमिति ॥ ‘उतामृतत्व-स्येशान’ इत्येतद्व्याचष्टे – यस्मादिति ॥ अन्नेनेत्येतद् विभक्तिपरिणामेन संसारिसमूहमिति व्याख्यातमिति बोध्यम् । अमुक्ताधिपत्यं मुक्ताधिपत्ये कथं हेतुरित्यत आह – मुक्ताविति ॥ न च विष्णाविति ॥ ननु शङ्कैव तावदनुपपन्ना । अन्योन्याश्रयात् । तथा हि ब्राह्मणशब्दस्य विष्णावयोगेन अजशब्दापहारः, तस्मिंश्च सति विष्णोरब्राह्मणत्वमिति । ततो ब्राह्मणशब्दस्य यौगिकत्वेन समाधानं व्यर्थमिति चेत्, मैवं न ब्रूमो वयमजश्रुत्या विष्णौ ब्राह्मणशब्दापहार इति, तस्य जातिविशेषप्रवृत्तिनिमित्तकस्य जातिविधुराद्विष्णोर्नित्यनिवृ-त्तत्वात्, किं नाम अजश्रुत्या विरिञ्चत्वनिर्णयो भवतीति । एवं चान्योन्याश्रयाभावात् शङ्केयमुपपन्नेति सार्थकं समाधानम् । स्वरव्यत्ययस्येति ॥ ब्रह्म अण इति स्थिते सवर्णदीर्घे ब्रह्माण इति जातं, एवं च ब्रह्मेत्यस्याऽऽकारः ब्रेत्यकारस्थाने, स च आकारस्थान इति स्वरव्यत्यय आधिक्यार्थ इत्यर्थः । स्मृतेरिति ॥ ‘सत्त्वं रजस्तम’ इति स्मृतेरित्यर्थः ॥ स्वधर्मनिष्ठ इति ॥ शतानाम् ऋजूनां जन्मभिः शतजन्मसमानकाले स्वधर्मनिष्ठः पुमान् विरिञ्चतामेतीत्यर्थः ।
पूर्वपक्षस्तु – अयं ब्राह्मणो विरिञ्चो भवेत् । अस्मिन् बहुशोऽजशब्दश्रवणात् । न च अजातत्वयोगेनाजशब्दः विष्णौ सावकाश इति वाच्यम् । ब्राह्मणशब्दसहपठितस्य विष्णाव-नवकाशात् । न च आत्मशब्देन सह पाठादजशब्दो विष्णौ सावकाश इति वाच्यम् । ‘आत्मा विरिञ्चः सुमनाः सुधौतश्चेति कथ्यते’ इत्यादेर् आत्मशब्दस्य विरिञ्चेऽपि वृत्तेः । न च असङ्गत्वलिङ्गानवकाशान् न विरिञ्चो ब्राह्मण इति वाच्यम् । विष्णुविरिञ्चयोरभेदेन तस्य तत्र सम्भवात् । ततश्चायं ब्राह्मणो विरिञ्च इति नित्यमहिमत्वं तस्यापीति प्रागुक्तं नित्यमहिमत्वं विष्णोरेवेत्यनुपपन्नमिति ॥
सिद्धान्तस्तु – अयं ब्राह्मणो विष्णुरेव । ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः’ इत्यादौ पत्यादिशब्दस्य सद्भावात् । न च विष्णोर्ब्राह्मणत्वेऽजशब्दविरोधः ‘न जायत’ इति योगेनोपपत्तेः । न च विष्णौ ब्राह्मणशब्दानुपपत्त्या अजशब्दापहारः ब्रह्मणा वेदेन अण्यते गम्यते इति योगेनोपपत्तेः । न च अभेदात् पतित्वादिविरिञ्चेऽपि सम्भवतीति वाच्यम् । तदभेदे मानाभावात् । ब्राह्मणाजशब्दयोरुक्तरीत्या अन्यथाप्युपपत्तेः । ‘तत एते व्यजायन्त विश्वो हिरण्यगर्भ’ इति भेदश्रुतिबाहुल्याच्च । अतो विष्णुरेवायं ब्राह्मणो नित्यमहिमादिरिति सिद्धम् ।
इति श्रीमत्सत्यनिधितीर्थ श्रीचरणाराधक श्रीसत्यनाथयतिविरचितायां
तत्वप्रकाशिकाभिनवचन्द्रिकायां प्रथमाध्यायस्य तृतीयः पादः ॥
वाक्यार्थमुक्तावली
अत्र ब्राह्मणशब्दस्य विप्रत्वजातौ प्रसिद्धत्वेऽपि तत्समभिव्याहृतलिङ्गश्रुतिभ्यां विष्णु-विरिञ्चोभयप्रसिद्धिमाह ॥ अत्रेति ॥ अतिप्रसङ्गस्तु वज्राधिकरण एव परिहृतोऽनुसन्धेयः ॥ श्रुत्यादीति ॥ असङ्गो बहिः स जात इत्यत्र श्रुतस्यासङ्गस्याब्रह्मत्वे असङ्गोऽह्ययं पुरुष इति पूर्वोक्तस्याप्यब्रह्मत्वं स्यादित्याक्षेपेणोत्थानादिति द्रष्टव्यम् ॥ अभिसंहितमिति ॥ कण्ठतोऽ-नुक्तत्वादिति भावः ॥ तदुपपादयत्यन्यथेति ॥ अन्यापेक्षायां हि कर्तृत्वादेर्महिम्नो नित्यत्वं स्यादिति भावः ॥ किं विष्णुरिति ॥ ब्राह्मणस्येत्युक्तो ब्राह्मणः विरिञ्च उत विष्णुरिति चिन्ता । तदर्थं ब्राह्मणशब्दः किं रूढ उत यौगिक इति । तदर्थं रूढिबाधकः नास्त्युतास्तीति । तदर्थं स वा एष इत्यादिकं किं चतुर्मुखे ब्रह्माभेदाभिप्रायेण नेतुं शक्यमुताशक्यमिति । बहुशोऽजशब्दश्रवणादिति ॥ स वा एष महानज’ आत्मा योऽयं विज्ञानमयः स वा एष महानज आत्मान्नादः स वा एष महानज आत्माजरामर इत्यादि बहुवाक्येष्वजशब्दस्याभ्य-स्तत्वादित्यर्थः । अत एव भाष्ये बहुवाक्यसूचनाय प्रतीकग्रहणं कृतमिति भावः । प्रसिद्धत्वादिति रूढत्वादित्यर्थः ॥ योगेन प्रवृत्तत्वादिति ॥ आज्जायत इत्यज इति योगेनेत्यर्थः । न च विरिञ्चे रूढिरप्यस्तीति वाच्यम् । तस्मादहमजः स्मृतः । इति भारतवचनाद्विष्णावपि रूढिसाम्यात्तथा च नाजश्रुत्या ब्राह्मणस्य विष्णुत्वनिर्णय इति भावः । प्रवृत्त्यत्वादित्यस्य न च वाच्यमिति पूर्वेणान्वयः । कुतो वाच्यमित्यतो न्यायविवरणे ब्राह्मण-शब्दस्य पापालेपलिङ्गस्य च चतुर्मुखस्य परमात्माभेदं विनावकाशराहित्यादभेदप्रतीतिरिति ब्राह्मणश्रुतितो विरिञ्चप्राप्युक्तेस्तदविरोधाय तत्साहित्येनात्मश्रुतेर्निरवकाशत्वमाह ॥ ब्राह्मण-शब्देनेति ॥ वर्णादीति ॥ अगोत्रमवर्णमित्यादेर्ब्राह्मणादितिशब्दादित्यर्थः ॥ विष्णो-र्ब्राह्मणशब्देनेति ॥ जातिः सन् जज्ञे ब्रह्मा चतुर्मुख इति वचनाच्चतुर्मुखस्य ब्राह्मणजातित्वात् । तत्र ब्राह्मणांशः स भवतीति भावः ।
नन्वजश्रुतेर् ब्राह्मणश्रुत्या निरवकाशत्वोपपादने ब्राह्मणश्रुत्यैव पूर्वपक्षोपपत्तौ भाष्ये अज श्रुतिग्रहणं व्यर्थमन्योन्याश्रयत्वं च ब्राह्मणश्रुत्याऽजश्रुतेर्निरवकाशत्वमुपपाद्याजश्रुत्या ब्राह्मण-शब्दस्य चतुर्मुखादितरत्रानवककाशोक्तेरिति चेन्न । भावानवबोधात् । न ब्राह्मणश्रुतिमात्रेण पूर्वपक्षो युज्यते । ब्राह्मणशब्दस्य द्विजत्वजातिविशिष्टरूढत्वेऽपि विशिष्टचतुर्मुखे प्रसिद्धत्वात् । अजश्रुत्या पूर्वपक्षो युक्तः । अजश्रुतेरप्युभयत्र रूढिसाम्येन सावकाशत्वे च चोदिते तस्या-जातिवाचकब्राह्मणशब्दसामानाधिकरण्यात् । वर्णादिशब्दादीश्वराद्व्यावर्तमानस्य ब्राह्मणशब्दस्य सहश्रुताजशब्दव्यावर्तकत्वात् । सामान्यतो जातिवाचकब्राह्मणशब्दबलादजशब्दस्य योग-रूढिभ्यां विष्णुपरस्याप्यत्र प्रकरणे विष्णुतो व्यावर्तते । सिद्धायां ब्राह्मणजातिमतोऽन्यस्याज-शब्दस्याभावात् । अजश्रुत्या ब्राह्मणशब्दवांश्चतुर्मुख एवेति विवक्षितत्वादिति ॥ अत एव वक्ष्यति ॥ अतोऽजशब्दाद्विरिंच एवायं ब्राह्मण इत्यजशब्दस्यैव साधकत्वमिति ज्ञेयम् । भाष्येऽजशब्दादित्युपलक्षणम् । महच्छब्दादित्यपि बोध्यमत एव भाष्ये तदुदाहरणं दिवा नक्तं महतः समुत्पन्नं चतुर्मुखादिति प्रयोगात् ॥ असामान्यधिकरणन्यायाच्च ॥ न च तस्योक्तस्पष्ट-वाचित्वादीश्वरपरिग्रहो युक्तः । प्रयोगनिमित्ताभ्यां विशेषपरत्वसम्भवे सामान्यवाचित्वा-योगादिति भावेनाह ॥ महत्तत्त्वेति ॥ प्रवृत्तिनिमित्तपौष्कल्ये भगवत्परत्वनिर्बन्धेऽपि बाधकमाह ॥ ब्राह्मणशब्देन सहश्रवणादिति ॥ अथवैतदुत्तरत्र शङ्काग्रन्थ एव सम्बध्यते । भाष्ये स एष महानज इत्येतावता पूर्तौ आत्मेत्यन्तग्रहणम् आत्मशब्दविरोधमाशङ्क्य तस्यापि सावकाशत्व-प्रदर्शनार्थमिति । इत्यादेरित्यादिपदेन बुद्धेरात्मा महान् पर इत्यादिग्रहणम् । भाष्योक्त-विरिञ्चेश्वरयोरैक्ये पठितन्यायविवरणार्थापत्तिं प्रमाणमाह ॥ अन्यथेति ॥ न चाभिन्नेति । विरिञ्चेशयोर्भेदमङ्गीकृत्यात्रश्रुतिबलाद्विरिञ्चस्य लिङ्गबलाद्विष्णोर्ग्रहणेनार्थापत्येरन्यथोपपत्तिरिति नेत्यर्थः ॥ एकेति ॥ एष नित्यो महिमा ब्राह्मणस्येति नित्यमहिमत्वब्राह्मणत्वयोरेक-निष्ठत्वावगमात् । स न साधु नेत्यादौ ब्राह्मणपरामर्शाच्च । वाक्यभेदमाश्रित्य पृथगुभयग्रहणा-योग इति भावः ।
ननु पूर्वाधिकरणे नित्यतानुग्राहकविशेषप्रमाणसद्भावाद्भेदव्यपदेशस्तदतिरिक्तपर इति भावेनाह ॥ सत्त्वमिति ॥ आदिपदेन सत्रे बभूवैषां गुणानामुपादानाय विष्णुर्वाव सत्त्वस्य रजसो ब्रह्मा ईशानो नाम तमस इत्यादिग्रहणम् । न च शास्त्रदृष्ट्येत्युक्तन्यायेनैक्य-व्यपदेशोपपत्तिः । तस्य जीवमात्रसाधारण्येन विशिष्टाभेदोक्त्ययोगादिति भावः ॥ कारण-शब्दानामिति ॥ नित्यमहिमत्वपापाद्यलेपलिङ्गबोधकानां जीवचैतन्यमुख्यहिरण्यगर्भादौ सावकाशत्वं न तु विशिष्टबोधकानां ब्राह्मणादिशब्दानां निर्गुणे वृत्तिरनुपपन्ना घटे मृत्वानु-स्मृत्या मठशब्दान् मृदादिघटपदाप्रयोगादिति भावः । सूत्रे तत्वित्यनुवृत्तिः सिद्धा ब्राह्मण इत्यध्याहारः । पतित्वादीनां प्रत्येकलिङ्गत्वसूचनाय बहुवचनमित्यभिप्रेत्य व्याचष्टे ॥ अयमिति ॥ नित्यमहिमा विष्णुरेवेति भाष्ययुक्तितत्प्रदर्शनपरमिति भावेनोक्तम् ॥ तथा च तस्यैवेति ॥ सूत्रे पत्यादीत्यनुसारेण भाष्ये सर्वस्याधिपतिरिति शाखान्तरपठितं टीकायां तु वाजसनेयवाक्यं पठितम् ॥ स एष आत्मा इति ॥ यस्मादिदानीं न गृह्यतेऽतो ग्रहणायोग्य इति योज्यम् । असितो अबद्धः । न रिष्यति । न नश्यति । ऋषहिंसायाम् ॥ कुत इति ॥ सर्वस्मै देवा महिमावहन्तीति चतुर्मुखस्यापि सर्वाधिपत्योपपत्तेरिति भावः ।
पुरुष एवेदं सर्वमित्याद्यैक्यपरं वाक्यं ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’ इति न्यायमनुसृत्य व्याचष्टे ॥ यद्भूतमित्यादिना ॥ अमृतत्वस्येत्यस्यायमर्थः मुक्तसमुदायस्येति ॥ विचित्रा हि तद्धितगतिरितिन्यायात् । अमृतशब्दसमुदायार्थे त्वप्रत्ययः । जातिवाचक-शब्दमहिम्नैवेतदवच्छिन्नसर्वलाभो वेति भावः । यदन्नेनातिरोहतीत्यत्र यदित्यस्यर्थो यस्मादिति । अन्नेन अलम् अघं मर्त्यमिति विवक्षित्वोक्तं संसारीति ॥ अतिरोहतीत्यस्य अतिरोहित इति एवं सर्वस्याधिपतिरित्युक्तसर्वाधिपत्ये उतेति श्रुतिं व्याख्याय सप्तार्थगर्भेति द्वितीयस्य आदिपदोपात्तस्य एको वशी सर्वभूतान्तरात्मेत्यादिवाक्यस्य च विषयमाह ॥ ईशानेति ॥ सर्वस्येशान इतीशानपदोक्तेत्यर्थः । एवम् इत्यादि श्रुतिभ्यस्तस्यैव ते शब्दा इति भाष्यं पत्यादि शब्दश्रुतिभिर्निरवकाशत्वप्रदर्शनपरत्वेन व्याख्याय अजब्राह्मणमहच्छब्दा अपि तस्यैवेति पूर्वपक्षप्रापकाणां सावकाशत्वप्रदर्शनपरतया व्याचष्टे ॥ न च विष्णोरित्यादिना ॥ उक्तं च न्यायविवरणे ब्रह्मणा वेदेन गम्यते इति ब्राह्मणशब्दो विष्णावेव युज्यते इत्यर्थादजशब्दोऽपि तस्मिन्नेवेति ॥ स्वरेति ॥ ब्रह्मणाण्यते । भाष्ये ब्रह्मेत्यतःपरं विद्यमानदीर्घाकारतया गम्यत इत्याधिक्यज्ञापनार्थ इत्यर्थः । धातुव्याख्यानं पठति ॥ अण गताविति ॥ ब्राह्मणशब्दादे-र्जात्यादौ रूढत्वात् । मुख्ययोगाङ्गीकारो युक्त इत्यतो भाष्ये इतिशब्दसूचितम् । उक्तविरोधश्च तत्रैवेति न्यायविवरणे स्पष्टमुक्तम् । बाधकमाह ॥ अन्यथेति ॥ भाष्ये पत्यादिशब्दा ब्राह्मणादिशब्दाश्च विष्णोरेवेत्युक्त्या यदुक्तमुभयप्रापकशब्दान्यथानुपपत्या भेद इति तदपि निरस्तमित्याशयेन तदाशङ्क्य दूषयति ॥ न चाभेदादित्यादिना ॥ एवमर्थापत्यादि निरस्य श्रुतिस्मृत्योः सावकाशत्वमाह ॥ स्मृतेरिति । तेन सर्वस्याधिपतिरित्यादौ विष्णोर्हरहिरण्य-गर्भोत्तमत्वात्तत्प्रेरक तया तदन्तर्गतत्वस्य तद्भिन्नत्वस्य च सर्वस्याधिपतिः सर्वस्येशानः नेति नेतीत्युक्तत्वाद् उतामृतत्वस्येत्यादावस्यार्थस्य स्पष्टमुक्तत्वाच्च । श्रुतिस्मृतिरूपा ऐक्यपरशब्दा अपि तदन्तर्गतेश्वरैक्यपरा एव न तु प्रतीतार्थपराः । अन्यथा विरोधादिति भाष्यार्थ उक्तो भवति । तदुक्तं न्यायविवरणे उक्तविरोधश्चातत्पक्षे इति । चतुर्मुखस्य कर्मफलाभावायुक्तेस् तयोर्भेद एवार्थादापद्यत इति । भेदश्रुतिबाहुल्यादिति न्यायविवरणं मनसि निधाय ऐक्यपर-शब्दान्तर्गतस्वरूपापेक्षयैव चतुर्मुखविष्णोरैक्यपरा इत्यत्र द्विशब्दसूचितलिङ्गं श्रुतिं चाह ॥ स्वधर्मेत्यादिना ॥ अधिकरणफलितार्थमाह ॥ अत इति ॥ नित्यमहिमा चेति क्वचित्पाठः नित्यमहिमश्चेति क्वचित्पाठः । अत्र पादे चतुर्दशाधिकरणानि । तत्र अधिकरणद्वयं प्रासङ्गिकम् । अधिकरणचतुष्टयं लिङ्गसमन्वयपरम् । अधिकरणाष्टकं नामसमन्वयविषयम् । अनन्तरसङ्गतिविशेषवशादधिकरणसङ्कलनमिति सर्वमनवद्यम् ।
श्रीमद्विठ्ठलाचार्यतनूजेन श्रीमत्तीर्थार्यचरणसेविना श्रीनिवासेन रचितायां श्रीमत्तत्वप्रकाशिकावाक्यार्थमुक्तावल्यां प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥
तत्त्वसुबोधिनी
प्राचीनाधिकरणेष्वित्यनेन सुषुप्त्युत्क्रान्त्योर् भेदेन इति अधिकरणस्य जगत्स्रष्ट्रत्वादे-रित्यादिपदेन स्वप्नादिस्रष्टृत्वादेरपि ग्रहणेन टीकायामेवाव्यवहितपूर्वाधिकरणसङ्गतिरुक्ते इति द्रष्टव्यम् ॥ अभिसंहितमिति ॥ कण्ठतोऽनुक्तत्वादिति भावः । किं बलादभिसंहितत्वं ज्ञायते इत्यत आह ॥ अनन्यापेक्षयेति ॥ बहुशोऽजशब्द श्रवणादिति ॥ ‘स वा एष महानज’ ‘आत्मा योऽयं विज्ञानमयः’ स वा एष महानज आत्मा इत्येतावदेव उदाहृतमिति भावः । अस्त्वजशब्दश्रवणं ततः किमित्यत आह ॥ अजशब्दस्येति ॥ विष्णुजातत्वयोगेनेति ॥ यद्यपि विरिञ्चेऽजशब्दस्य रूढिरप्यस्ति तथापि तस्मादहमजः स्मृतमिति भारतवचनाद्विष्णावपि रूढिरस्तीति विष्णुविरिञ्चयोरजशब्दस्य साम्यमेवेति भावः । ब्राह्मणशब्देन सहपाठेऽपि विष्णौ अनवकाशः कुत इत्यत आह ॥ वर्णादिशून्यादिति ॥ अगोत्रमवर्णमित्यादेरित्यर्थः । विष्णोर् ब्राह्मणजातिः । ‘सञ्जज्ञे ब्रह्मा चतुर्मुख’ इति वचनाच् चतुर्मुखस्य ब्राह्मणजातित्वात्तत्र ब्राह्मणशब्दः सम्भवतीति भावः । ननु विरिञ्चपक्षे महच्छब्दो न सम्भवतीत्यत आह । महत्तत्वेति ॥ तत्सिद्धेरिति ॥ विरिञ्चेश्वरयोरैक्यसिद्धेरित्यर्थः । कथं विरिञ्चेश्वरयोरैक्याभावे एतत्प्रकरणानुपपत्तिरित्यत आह ॥ तथाहीति ॥ स ब्राह्मणः साधुना पुण्येन कर्मणा भूयान् श्रेष्ठो न भवति अधुना पापकर्मणा कनीयान्नीचो न भवतीत्यर्थः ॥ एतदिति ॥ पापाद्यलिङ्गमित्यर्थः । ननु पापाद्यलिङ्गत्वेन विष्णुरजशब्दार्थत्वेन विरिञ्च इति पृथगेव उभय-ग्रहणं क्रियते इत्यत आह ॥ न चेति ॥ एकनिष्ठत्वादिति ॥ लिङ्गद्वयस्य एकवस्तु-निष्ठत्वादित्यर्थः ॥ अत एवेति ॥ लिङ्गद्वयस्य एकनिष्ठत्वादेवेत्यर्थः । विरिञ्चस्य ईश्वररूपत्वे प्रमाणं चाह ॥ सत्वमिति ॥ इत्यादेश्चेत्यादिपदेन । ‘स त्रेधा बभूव एषां गुणानाम् उपादानाय विष्णुर्वा सत्त्वस्य रजसो ब्रह्मा ईशानो नाम तमस’ इत्यादि श्रुतिग्रहणम् । तथा च न केवलम् एतत्प्रकरणान्यथानुपपत्या विष्णुविरिञ्चयोर् ऐक्यसिद्धिः । किन्तूदाहृतप्रमाणादपीति भावः । विरिञ्चस्यापि स्वावरपतित्वादिनापत्यादिशब्दसम्भवेन सौत्रपत्यादिशब्दानां विष्णुत्वानिश्चाय-कत्वात् श्रुतावापि सर्वस्याधिपतिर् इत्यादिश्रवणाच्चाह ॥ सर्वाधिपत्यादीति ॥ उतामृत-त्वस्येशान इति वाक्येनैव सर्वाधिपतित्वं न प्रतीयते इत्यतो भाष्याभिप्रेतं पुरुष एवेदं सर्वमिति तत्पूर्ववाक्यमपि व्याचष्टे ॥ यद्भूतं भविष्यद्वर्तमानमिति ॥ पुरुष एवेत्यस्य व्याख्यानं परमपुरुषाधीनमिति । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इत्यादेरिति भावः । उत शब्दस्यार्थो न केवलमिति । यच्छब्दस्य हेतुपरत्वम् अन्नशब्दस्य संसारिसमूहपरत्वम् अति-रोहतीत्यस्य अतिशयार्थत्वमाश्रित्याह ॥ यस्मादित्यादिना ॥ ईशानपदोक्तेति ॥ ईशान-पदस्यार्थद्वयं सर्वाधिपत्यं सर्वप्रेरकत्वं च तथा च उतेति श्रुतिर् उभयत्र प्रमाणम् । सप्तेति श्रुतिस्तु सर्वप्रेरकत्वे प्रमाणम् । तत्राऽज्ञाधारकत्वस्य उक्तत्वादिति भावः ।
ननु ब्राह्मणशब्दस्य ब्रह्मणा वेदेन इत्याद्युक्तरीत्या यौगिकत्वे ब्रह्मण इतिवद् ब्राह्मण इति कथमित्यत आह ॥ स्वरव्यत्ययस्य अधिकारार्थत्वादिति ॥ आधिक्येऽधिकमित्येव हरिणा सूत्रमीरितमिति ऋग्भाष्ये उक्तत्वाद् ब्रह्मणा वेदेन गम्यत्वाधिक्यविवक्षया दीर्घ इत्यर्थः ॥ अत्राण इत्यस्याश्रुतत्वाद्गम्यत इति कथमित्यत आह ॥ अण्गताविति ॥ अन्यथेति ॥ यौगिकार्थानङ्गीकारे इत्यर्थः । उपसंहरति ॥ अत इति ॥
इति पाण्डुरङ्गि श्रीनिवासाचार्यविरचितायां श्रीमत्तत्वप्रकाशिकातत्त्वसुबोधिन्यां
प्रथमाध्यायस्य तृतीयः पादः ॥
वाक्यार्थविवरणम्
भाष्योदाहृतसप्तार्धेति श्रुत्यर्थः । महदहङ्कारपञ्चभूताख्यसप्तदेवता ब्रह्माण्डाख्यातिसमृद्ध-गर्भंस्तदावरणभूता भुवनस्य रतिप्रदाः सारभूता वा भुवनस्य रतिप्रदस्य विष्णोराज्ञया विविधविश्वधारणे तिष्ठन्तीत्यर्थः ॥ स्वधर्मनिष्ठेति ॥ स्वधर्मनिष्ठ इति वाक्यस्येत्थं योजना । यथा पुमान् ऋजुजीवसमुदायः भागवतो ऽनादितो ज्ञानभक्त्यादिसम्पन्नोऽपि विशेषेणापरोक्ष-ज्ञानानन्तरं शतजन्मभिः शतसङ्ख्याकब्रह्मकल्पैः स्वधर्मनिष्ठः विशेषेण हर्युपासनारूप-धर्मानुष्ठानवान् विरिञ्चितामेति ब्रह्मपदं प्राप्नोतीति ब्रह्मणो हरिप्रसादप्राप्तपदवत्वात् । हरेर्भेदः सिध्यत्येवेत ‘स्वधर्मनिष्ठःपुमान् विरिञ्चतामेति’ इत्येतदयुक्तं कथमुच्यत इति चोद्यानवकाशः ॥
वाक्यार्थमञ्जरी
किम्बलादभिसंहितत्वं ज्ञायत इत्यत आह ॥ अनन्यापेक्षयेति ॥ एष इति ॥ ब्रह्मणा वेदेनाण्यते गम्यत इति ब्राह्मणशब्दवाच्यस्य विष्णोरेव पूर्वोक्तमहिमा नित्य आद्यन्तरहितः ॥ नेति ॥ एष महिमा पुण्येन कर्मणा नाभिवर्धते पापेन कर्मणा न कनीयानपकृष्टो न भवतीत्यर्थः ॥ बहुशोऽजशब्दश्रवणादिति ॥ स वा एष महानज आत्मा योऽयं विज्ञानमयः स वा एष महानज आत्मान्नादः स वा एष महानज आत्माजरोमर इत्यादिवाक्येषु ब्राह्मणनिष्ठतया बहुशोऽजशब्दश्रवणादित्यर्थः । ब्राह्मणस्य विरिञ्चत्वे हेत्वन्तरमाह ॥ महत्तत्त्वाभिमानि-तयेति ॥ आत्मा विरिञ्च इति बृहद्भाष्योक्ताभिधानम् । नियमादिति जन्यभावस्य विनाश-व्याप्तत्वादिति भावः ॥ स इति ॥ सब्राह्मणः साधुकर्मफलेन सुखेन भूयानुच्चोऽसाधुकर्मफलेन दुःखेन नीचश्च नैव भवतीत्यर्थः । एतत् श्रुतिद्वयं लिङ्गद्वयञ्च एकनिष्ठत्वाद् एकनिष्ठत्वाव-गमात् । विरिञ्चेश्वरयोरैक्ये प्रथमभागवतसंमतिमाह ॥ सत्त्वमिति ॥ पुरुषः पूर्णषड्गुणो हरिः प्रकृतेःपरोऽपि अप्राकृतविग्रहोऽपि ‘सत्त्वं रजस्तम इति’ प्रकृतेर्येगुणास्तैर्युक्तस्तेषामाश्रयः सन् इह जगति एक एव हरिविरिञ्चहरेति संज्ञा नामानि धत्ते किमर्थमित्यत उक्तम् अस्य जगतः स्थित्योदये उपलक्षणमतेत् स्थित्युत्पत्तिसंहरान्कर्तुमिति । कारणमीश्वरः कार्यं विरिञ्चः मृच्छब्दस्य घटे प्रवृत्तिवद्धटस्य मृद्यप्रयोगादितिभावः ॥ ॐ पत्यादिशब्देभ्यः ॐ ॥ एष नित्यो महिमा ब्राह्मणस्येति उक्तब्राह्मणो विष्णुरेव सर्वस्याधिपतिः सर्वस्येशानः स वा एष नेति नेतीति सर्वाधिपतित्वसर्वप्रेरकत्वश्रुतदृष्टविलक्षणत्वप्रतिपादकशब्दसद्भावादित्यर्थः । सर्व-वशीत्यादिश्रुतिर्दहराधिकरणे व्याख्यातेत्यत्र न व्याख्यायते ॥ स इति ॥ स वा एष आत्मा ब्राह्मणः नेतिश्रुतविलक्षण इति नेति दृष्टविलक्षण इति चोच्यते तदेवोपपादयति ॥ अगृह्य इति ॥ हि यस्मान्न गृह्यते अतो अगृह्य इत्युच्यत इत्यर्थः । कुत इत्यत आह गृह्यत इति ॥ एवमग्रेऽपि शीर्यते सज्जते सम्बध्यते असितो ऽव्ययः न रिष्यति न नश्यति ऋषहिंसायामिति धातोर् उतामृतत्वस्येशान इति वाक्येनैव सर्वाधिपतित्वं न प्रतीयत इत्यतः पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पूर्वार्धेन सह व्याचष्टे ॥ यद्भूतं भविष्यदित्यादिना ॥ ततश्चेयमक्षरयोजना यद्भूतमतितं भव्यं भविष्यच्च शब्दाद्वर्तमानं च तदिदं सर्वं पुरुष एव पुरुषाधीनमेव यदधीना यस्य सत्ता तत्तदित्येव भण्यत इत्युक्तेः । पुरुषः यद्यस्मादन्नेनेति तृतीया द्वितीयार्थे अद्यते विनश्यत इत्यन्नं संसारिजातम् अतिरोहति अपि शेते तदधिपतिरिति यावत् तस्मादमृतत्वस्येति भवितृ-प्रधानोऽयं निर्देशः । अमृतत्वस्य मरणादिभयरहितस्यापि मुक्तवर्गस्य ईशानः प्रेरकः । सोऽ-मृतस्याभयस्येशो मर्त्यमन्नं यदत्यगादिविभागवतोक्तेरिति हेतुहेतुमद्भावस्य स्पष्टमप्रतीतेराह ॥ मुक्ताविति ॥ मुक्तावनधीनत्वाज्ञानेन मोक्षप्रदानं किं न स्यादित्यत उक्तम् ॥ बुद्धिमत इति ॥ भविष्यद्बुद्धिमत इत्यर्थः । तदेव कुत इत्यत उक्तम् ॥ सर्वज्ञस्येति ॥ योगेनेत्युपलक्षणं तस्मादहमजः स्मृत इति रूढिरप्यस्तीति द्रष्टव्यम् । ननु ब्राह्मणशब्दस्य ब्रह्मणा वेदेनेत्या-द्युक्तरीत्या यौगिकत्वे ब्रह्मण इति भवेद् ब्राह्मण इति तु कथमित्यत आह ॥ स्वरव्यत्या-सेति ॥ आधिक्येऽधिकमित्येवहरिणा सूत्रमीरितमिति ऋग्भाष्योक्तेर्ब्रह्मणा वेदेन गम्यत्वाधिक्य-विवक्षया दीर्घस्वरव्यत्यास इत्यर्थः ॥ तदन्तर्गतेति ॥ ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थित इत्युक्तेरिति भावः ॥ न केवलमभेदे मानाभावः किन्तु भेदसाधकमानविरोधश्चेत्याशये-नाह ॥ स्वधर्मनिष्ठ इत्यादिना ॥
इदमुक्तं भवति । हरिविरिञ्चौ भिन्नौ कर्मफलभोगतदभावरूपविरुद्धधर्मादिकरणत्वात् । न चासिद्धिः । विरिञ्चेर्कर्मफलभोगस्योदाहृतवचनसिद्धत्वादिति वचनार्थस्तु पुमान् ऋजुर्जीवो ऽनादितो भगवज्ज्ञानभक्त्यादिसम्पन्नोऽपि विशेषेणापरोक्षज्ञानानन्तरं शतजन्मभिर् एकोन-शतसङ्ख्याकब्रह्मकल्पैः स्वधर्मनिष्ठहर्युपासनादिस्वयोग्यधर्मनिष्ठावानेव विरिञ्चतां प्राप्नोति ततःपरं मां श्रियमेतीति यथा श्रुते तु विरिञ्चजन्मन एकोत्तरशतत्वप्राप्त्या ऋजूनामपरोक्षज्ञानानन्तरं शतकल्पैरेव मोक्ष इति नियमानुपपत्तिर् ब्रह्मणस्त्वेव तावत्त्वमित्यनुव्याख्यानव्याख्यानसुधायां ब्राह्मणस्तु तावत्वमेव ब्रह्मकल्पानां शतेनैव कर्मक्षयवत्वमित्युक्त्या एकोत्तरशतजन्मवतो विरिञ्चस्य प्रारब्धभोगाभावप्रसंङ्गश्च न चेष्टापत्तिः प्रारब्धकर्मशेषस्तु विरजातरणावधि ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इत्यादिविरोधात् । एवमेव लिङ्गाल्लब्धव्यतः पूर्वमृजोर्ब्रह्मत्वतः शतादित्यनुव्याख्यानं शतजन्मप्रयत्नत इत्यादिचतुर्थतात्पर्यादिकमपि व्याख्येयं यत्तूदाहृतानु-व्याख्यानसुधायां यस्यैतस्माद् ब्रह्मकल्पादारभ्य ब्रह्मकल्पानां शतङ्गते ब्रह्मत्वं भविष्यतीत्युक्तं तदप्यनुव्याख्यानानुवादमात्रं शते आगते इतिपदच्छेदो वेत्यदोषो ऽत एव सन्न्यायरत्नावल्या-
मुदाहृतानुव्याख्यानव्याख्यानावसरे एकोनशतब्रह्मस्वतीतेष्वित्युक्तमिति संक्षेपः । विश्वो वायुः ॥
इति श्रीमत्तत्त्वप्रकाशिकावाक्यार्थमञ्जर्यां शर्कराश्रीनिवासविरचितायां
प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥
॥ इति ब्राह्मणाधिकरणम् ॥