१२ आकाशाधिकरणम्

ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ

१२. आकाशाधिकरणम्

सूत्रभाष्यं

सर्वाधारत्वं विष्णोरुक्तम् । तच्च ‘आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छां.उ. ८-१४-१) इत्यत्राऽऽकाशस्य प्रतीयते । वै नामेति प्रसिद्धोपदेशात् प्रसिद्धाकाश-श्चाङ्गीकर्तव्य इत्यत उच्यते–

॥ ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ ४१ ॥

‘ते यदन्तरा तद्बह्म’ (छां.इ.८-१४-१) इत्यर्थान्तरत्वादिव्यपदेशादाकाशो हरिरेव । ‘अवर्णं’ (अवर्णमचक्षुः श्रोत्रम् इत्याद्याथर्वणी श्रुतिः) ‘यतो वाचो निवर्तन्त’ (तै.उ. २-४) इत्यादिश्रुतेस्तस्यैव हि तल्लक्षणम् ।

‘अनामा सोऽप्रसिद्धत्वादरूपो भूतवर्जनात्’ इति (हि) ब्राह्मे ॥

सत्तर्कदीपावली

नन्वाकाशो वै नाम नामरूपयोर्निर्वहितेत्यत्र सर्वाधिकतयाप्याम्नातोऽप्याकाशो न विष्णुः किं तु भूताकाश एव । वै नामेति प्रसिद्धिद्योतकनिपातश्रवणाल्लोकप्रसिद्धाकाशो हि भूताकाश इति न वक्तव्यम् । ये यदन्तरा तद् ब्रह्मेति वाक्यशेषविरोधात् । यतो यमाकाशस्ते नामरूपे विना ताभ्यामस्पृष्टो वर्तते । अतो नामरूपात्मकभूतभौतिकादिप्रपञ्चानिर्वाहत्वाद् अर्थान्तरभूत इत्यर्थः । तद्ब्रह्म तदमृतं स आत्मेति निर्दिष्टमानत्वाच्च नायमाकाशः । वै नामेत्यनेन प्रकाश-मानो भगवान्नामरूपनिर्वहितेत्यत्र प्रसिद्धिद्योतकेन नामरूपातीतत्वं विष्णोरेव युज्यते । ‘अगोत्रमवर्णमचक्षुःश्रोत्रं’ ‘यतो वाचो निवर्तन्त’ इत्यादिश्रुतेः । अनामासौऽप्रसिद्धत्वादरूपो भूतवर्जनादिति वचनान्नात्र विरोधः शङ्कनीयः । तदिदमुक्तं सर्वाधारत्वमित्यादिना ।

तत्त्वप्रदीपिका

‘आकाशस्तल्लिङ्गात्’ इत्यत्र विष्णोर्यौगिकाकाशत्वप्रसाधनाद्यद्यपि न विष्णुर्विहातुं शक्यते । तथाऽप्यत्र वै नामेति प्रसिद्ध्यतिशयद्योतकनिपातद्वययोगेन रूढेर्बलवत्त्वा-त्प्रसिद्धाकाशोऽप्यङ्गीकर्तव्यः । आकाशशब्दस्योभयत्र प्रसिद्धेरिति पूर्वः पक्षः । अयं चास्मिन्पादे प्रत्यधिकरणमनुगमयितव्यो न्यायः । ‘आकाशोऽर्थान्तरत्वादिव्यपदेशात्’ । ते यदन्तरा ते नामरूपे अन्तरा, यन्नाम च रूपं च न भवतीति यावत्, यद्वा नामि च रूपि च न भवति तद्ब्रह्मेति नामरूपाभ्यामर्थान्तरत्वतद्रहितत्वब्रह्मत्वव्यपदेशादाकाशो हरिरेव । अर्थान्तरत्वनामान्तरत्वादिव्यपदेशादिति वा । ‘अवर्णमचक्षुश्श्रोत्रम्’ इत्याद्याथर्वणी श्रुतिः । अवर्णं न वर्णः, शुक्लादिवर्णरहितं च, न च वर्ण्यते नापि वर्णात्मकमिति । अनामा सोऽप्रसिद्धत्वात् सर्वात्मना स्वात्मनोऽन्यस्य । अरूपो भूतवर्जनाद् भौतिकदेहवर्जनात् ॥

तत्त्वप्रकाशिका

अत्र प्रयोगवशाद् गगने भगवति च साधारणस्याकाशनाम्नो हरौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति ॥ सर्वेति ॥ द्युभ्वाद्यायतनं स्वशब्दादित्यादौ सर्वाधारत्वं विष्णोरुक्तम् । तच्छन्दोगश्रुतावाकाशस्य प्रतीयते । ‘आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतम्’ इति । स च विष्णोरितरश्चे-त्सर्वाधारत्वमन्यस्य प्रसज्जेत इत्यवश्यं निर्णेयः । स आकाशोऽत्र विषयः । किं विष्णुः प्रसिद्धाकाशो वेति सन्देहः । उक्तसाधारण्यं सन्देहबीजमिति भावः । सयुक्तिकं पूर्वपक्षयति ॥ वै नामेति ॥ अयमाकाशः प्रसिद्ध एव भवेत् । आकाशशब्दस्य तत्र रूढत्वात् । न च वाच्य-माकाशशब्दस्य विष्णावपि वृत्तेः सावकाश इति । यौगिकत्वात् । योगस्य रूढेर्दौर्बल्यात् । सर्वाधारत्वलिङ्गेन योगोऽप्याश्रीयत इति चेन्न । प्रसिद्धाकाशपरित्यागेनात्र विष्ण्वङ्गीकारे वै नामेत्युक्तनिपातद्वयविरोधात् । तस्योक्तार्थप्रसिद्धिद्योतकत्वात् । न हि विष्णुस्तन्निर्वहितृत्वं वा प्रसिद्धम् । अतः प्रसिद्धाकाश एवायमिति तस्य सर्वाधारत्वमिति भावः । सिद्धान्त-यत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अयमाकाशो हरिरेव । अस्याकाशस्य ते यदन्तरेति नामरूपराहित्याख्यविलक्षणार्थत्वव्यपदेशात् । ‘तद्ब्रह्मेति’ ब्रह्मत्वव्यपदेशाच्चेत्यर्थः । अर्थान्तरत्वमिति रूपराहित्यमादिपदेनानामत्वमिति वा ते नामरूपे अन्तरा विना वर्तत इत्यर्थः । अरूपत्वादिलिङ्गेन कुतो विष्णुत्वनिश्चय इत्यत आह ॥ अवर्णमिति ॥ रूपस्य वाच्यान्तर्भावेन प्राधान्यात् क्रमोल्लङ्घनम् । ननु हरेः कथमनामरूपत्वमुक्तविरोधादित्यत आह ॥ अनामेति ॥ न च विष्णुपक्षे निपातद्वयविरोधः । भगवतो नामादिनिर्वहितृत्व-स्यालोकप्रसिद्धत्वेऽपि ‘एको दाधार भुवनानि विश्वा’ इत्यादिवेदप्रसिद्धत्वेन तदर्थत्वेनोपपत्तेः । अन्यथा अनामरूपत्वविरोधात् । अव(आ)काशस्यापि नाम(रूप)वत्त्वात् । अतोऽयमाकाशो विष्णुरेवेति तस्यैव सर्वाधारत्वमिति स्थितम् ॥

गुर्वर्थदीपिका

उक्तसाधारण्यमित्यत आकाशाधिकरणन्यायेन भगवति प्रयोगवशादस्मिन्नधिकरणे वै नामेति बाधकसहितत्वेन मन्दानामन्यत्र प्रयोगवशाच्चेत्यर्थः । प्रसिद्धिद्योतकत्वादित्यस्य एकार्थकनिपातद्वयस्यैकत्रैव प्रयोगेनातिशतियप्रसिद्धिद्योतकत्वादित्यर्थः । न हि विष्णोस्त-न्निर्वहितृत्वमित्यत्र अनेनाकारेण प्रसिद्धं न हीति योजना । ते नामरूपे नामात्मकरूपात्मक-जगती । रूपस्य वाच्यान्तर्भावेनेत्यत्र वाच्यान्तर्भावेन वाच्यार्थरूपत्वेन अर्थानां चान्नोदकक्षेत्र-कटकमुकुटादिरूपाणां सर्वोपजीव्यत्वेन प्राधान्यम् । नाम्नां तु तद्बोधकत्वमात्रेणोपादेया-नामप्राधान्यमिति भावः । उक्तविरोधादित्यत्र आनन्दमयाधिकरणे शिरःपाण्यादिरूपोक्त्या आकाशाधिकरणे नामोक्त्या चोक्तविरोधादित्यर्थः । भगवतो नामादिनिर्वहितृत्वस्येत्यत्र आकारान्तरेण प्रसिद्धावप्यनेनैवाकारेण प्रसिद्धिर्नेति न शङ्कनीयम् । तद्वाचकपदान्तरेण प्रसिद्धावपि तत्प्रसिद्धेरेवोक्तत्वात् । अन्यथा सार्वजनीनतया घटपदवाच्यतया प्रसिद्धे घटेऽपि अर्घ्यपात्रादिपदानामसाधकत्वप्रसङ्गात् । आकाशस्यापि नामरूपवत्त्वादित्यत्र आकाशादिनाम-वत्त्वादवकाशदायकविराकाशवत्त्वाच्च । अन्यथा आकाशस्य रूपप्रपञ्चाद्बहिर्भावप्रसङ्गः । सत्यस्य वस्तुनो निःस्वरूपत्वयोगेनासत्त्वापत्तेश्च । कथं तर्हि नामरूपविभाग इति चेत् कुरुपाण्डवन्यायेनेति द्रष्टव्यम् ॥

भावबोधः

प्रयोगवशादिति ॥ ‘तद्धेतुव्यपदेशात्’ इत्याद्युक्तरीत्या ‘को ह्येवान्यात् कः प्राण्याद् य एष आकाश आनन्दो न स्यात्’ इत्यादौ विष्णौ यः प्रयोगः ‘आत्मन आकाशः’ इत्यादौ यश्च भूते प्रयोगस्तद्वशादित्यर्थः ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु तद्ब्रह्म तदमृतम्’ इत्यमृतत्वेनोक्ताकाशस्य विष्णोरन्यत्वे ‘बहिः कुलायादमृतश्चरित्वा’ इत्यमृत-त्वेन पूर्वोक्तज्योतिषोऽप्यन्यत्वं स्यादित्यपि पूर्वाक्षेपसम्भवादिति ज्ञातव्यम् ॥ स्वशब्दा-दित्यादाविति ॥ ‘अक्षरमम्बरान्तधृतेः’ इत्यादावपि अम्बरान्तधृतिरूपहेतुत्वादिना सर्वाधारत्वस्योक्तत्वादिति भावः ॥ किं विष्णुरिति ॥ आकाशो ह वै नामरूपयो-र्निर्वहितेत्युक्ताकाशः किं प्रसिद्धभूताकाश उत विष्णुरिति चिन्ता । तदर्थं तस्य विष्णुत्वे प्रसिद्धिद्योतक ‘वै नाम’ इति निपातद्वयं किं विरुध्यते न वेति । तदर्थं द्योत्याप्रसिद्धिः किं लौकिकी उत वैदिकीति । तदर्थं लौकिकग्रहणे बाधकं वैदिकग्रहणे च साधकं नास्त्युता-स्तीति । तदर्थं ते यदन्तरेत्याद्युक्तनामरूपराहित्यब्रह्मत्वादिकमाकाशे सावकाशमुत निरवकाश-मिति । तदर्थं तस्य निरवकाशत्वे प्रमाणं नास्त्युतास्तीति ॥ प्रसिद्ध एवेति ॥ अनेन भाष्ये प्रसिद्धाकाशश्चेति ‘च’शब्द एवार्थे इत्युक्तं भवति । ‘वै नाम’ इति प्रसिद्धोपदेशादिति, भाष्य-व्याख्यानपरेण प्रसिद्धाकाशपरित्यागेनात्र विष्ण्वङ्गीकार इत्यादिना ग्रन्थेन ‘वै नाम’ इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधीति न्यायविवरणमपि व्याख्यातं भवति ॥ निपातद्वयविरोधादिति ॥ ‘यद्यप्याकाशस्तल्लिङ्गात्’ इति सूत्रस्य विषयवाक्ये ‘अस्य लोकस्येत्यत्र सर्वाणि ह वै’ इति ‘वै’शब्दाख्यनिपातो वर्तते । तथापि तत्र ‘वै’शब्दस्य सर्वभूतशब्दमध्यपतितत्वेन सर्वभूतान्वयान्नाकाशप्रसिद्धिद्योतकत्वम् । इह तु ‘वै’ शब्दस्याकाशशब्दसन्निधानान्नान्यथासिद्धिः । नामेत्येतदधिकं चेति वैषम्यम् । अत एव भाष्ये ‘वै नाम’ इति निपातद्वयमुक्तम् । न्यायविवरणे च प्रसिद्धिद्योतकनिपातद्वयमित्युक्तमिति भावः ॥ न हि विष्णोस्तन्निर्वहितृत्वं वा प्रसिद्धमिति ॥ यद्यपि वेदे ‘यदेष आकाश आनन्दो न स्यात्’ । आकाशः परायणम् इत्यादौ विष्णोर्नामरूपादिसर्वसाधारणतया आकाशशब्दार्थत्वेन प्रसिद्धिरस्ति तथापि प्रसिद्धाकाशस्य स्वरूपेण नामरूपावकाशदानात्तन्निर्वाहकतया च लोके वेदे च प्रसिद्धिवद्विष्णोः स्वरूपेण नामरूपनिर्वाहकतया न लोकवेदयोः प्रसिद्धिरस्ति । न हि निपातद्वयेनासङ्कुचितप्रसिद्धिद्योतनं सम्भवति । सङ्कुचितप्रसिद्धिद्योतनं युक्तमिति भावः । अत एव वक्ष्यति भगवतो नामादिनिर्वहितृत्वस्यालोकप्रसिद्धत्वेऽपीति ॥ अर्थान्तरत्वादीति सूत्रभाष्यगतादिशब्दार्थमाह– तद्ब्रह्मेति ॥ ब्रह्मत्वव्यपदेशाच्चेत्यर्थः । अनेन भाष्ये तद्ब्रह्मेति श्रुत्यंशोदाहरणेन सूत्रगतादिशब्दो ब्रह्मत्वव्यपदेशार्थ इति सूचितमित्युक्तं भवति ॥ आदिपदेनानामत्वमिति वेति ॥ अस्मिन् पक्षे भाष्ये तद् ब्रह्मेति श्रुत्यंशोदाहरणं सूत्रानुक्त-ब्रह्मत्वव्यपदेशरूपयुक्तिसूचनार्थम् । सूत्रे तदनुक्तिः, स्फुटत्वादिति भाव इत्यवधेयम् ।

यद्वा सूत्रभाष्ययोरादिशब्देनानामत्वं ब्रह्मत्वव्यपदेशश्चेति द्वयमपि ग्राह्यमिति भावः । अत्र ब्रह्मत्वव्यपदेशस्य कण्ठतोऽनुक्तिस्तु ब्रह्मत्वव्यपदेशाच्चेति । पूर्वमुक्तत्वादिति द्रष्टव्यम् ।

ननु ते यदन्तरेत्यत्र तच्छब्देन नामरूपयोरिति प्रकृतनामरूपयोः परामर्शो न नामरूप-राहित्यमर्थः । तथा च तत्र प्रमाणत्वेन प्रथमं ‘यतो वाचो निवर्तन्ते’ इत्यनन्तरम् ‘अवर्णम्’ इति श्रुतिरुदाहर्तव्या । तत्कुतो वैपरीत्यमित्यत आह– रूपस्य वाच्यान्तर्भावेनेति ॥ अनेनार्थान्तरत्वमिति व्याख्याने सूत्रेऽनामत्वादिव्यपदेशादित्येव वक्तव्यम् । कुतोऽर्थान्तरत्वादि व्यपदेशादित्युक्तमिति शङ्का परास्ता भवति ॥ उक्तविरोधादिति ॥ ‘ईक्षतेर्नाशब्दं’ ‘रूपोप-न्यासाच्च’ इत्युक्तविरोधादित्यर्थः ॥ अनामेतीति ॥ अत्रानामरूपत्वं साकल्येन शब्दा-गोचरत्वम्, प्राकृतरूपरहितत्वं विवक्षितमिति न तेन विरोध इति भावः । कथं न निपा-तद्वयविरोध इत्यतः ‘वै नाम’ इति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यमिति न्यायविवरणोक्त-युक्तिमाह– भगवत इति ॥ अवैदिकलोकप्रसिद्ध्यपेक्षया वैदिकप्रसिद्धेः प्राबल्यम् । वैदिक-प्रसिद्धिश्च विष्णौ तदीयनामरूपनिर्वहितृत्वे चाकाशापेक्षया बहुलेति सैव निपातद्वयद्योत्येति भावः । न चानामा सोऽप्रसिद्धत्वाद् इति भाष्यविरोध इति वाच्यम्, तत्राप्रसिद्धशब्देन साकल्येनाप्रमितत्वस्य निपातद्वयद्योत्यतया नामादिनिर्वहितृत्वेन निर्णीतस्वरूपेण च प्रसिद्धे-र्विवक्षितत्वादिति भावः । प्रसिद्धाकाशस्योक्तनामरूपत्वं विरुद्धमिति न्यायविवरणं व्याचष्टे– अन्यथेति ॥ अवकाशस्यापि नामरूपवत्त्वादिति ॥ साकल्येन स्वप्रतिपादकनाम-प्राकृतरूपवत्वादित्यर्थः ॥

भावदीपः

न्यायविवरणेऽनुक्तेर्भाष्यपर्यालोचनया लब्धं साधारण्यबीजमाह ॥ प्रयोगेति ॥ आकाश-स्तल्लिङ्गादित्याकाशशब्दस्य विष्णौ प्रयोगस्य दर्शितत्वाद् गगने च प्रयोगस्य प्रसिद्धत्वा-दित्यर्थः । यद्वाऽत्र प्रयुक्तवैनामेति निपातद्योतितप्रसिद्धेर्व्यावर्त्यत्वेनाप्रसिद्धब्रह्मण्याकाशशब्द-प्रयोगस्य पूर्वपक्षिणाऽङ्गीकृतत्वादित्यर्थः । सङ्गत्यर्थतया भाष्यं व्याचष्टे ॥ द्युभ्वादीति ॥ अक्षरमम्बरान्तधृतेर् दहर उत्तरेभ्य इत्यादावित्यादिपदार्थस् तच्चेत्यादि व्याचष्टे ॥ तच्छन्दोगेति ॥ अष्टमान्ते । यद्यपि नामेति शब्दप्रपञ्चोक्तावपि रूपपदेनात्रावर्णमित्याद्युक्त्या वर्णविशेषोक्तेर्न सर्वाधारत्वलाभः । तथाप्यस्य वाच्यरूपार्थप्रपञ्चमात्रोपलक्षणत्वमिति भावः । एतेन इत्यत्रेत्ये-तद्व्याख्यातम् । रूपेत्यर्थमात्रोपलक्षणम् । नामरूपयोः शब्दार्थप्रपञ्चयोर् निर्वहिता निर्वोढा आश्रय इत्यर्थः । ते निर्वाह्यतया प्रकृते प्राकृतनामरूपे अन्तरा विना तद्रहितमिति यावत् । साकल्येन नामावाच्यं प्राकृतरूपरहितं च यद्वर्तत इति फलितार्थः । वैनामेत्यादिभाष्यभावमाह ॥ स चेति ॥ वक्ष्यमाणदिशेति भावः । उक्तमित्यन्तस्य तात्पर्यं सर्वेति ॥ इति सङ्गति-सम्भवादित्यर्थः । पूर्वपक्षादिपरत्वेनापि व्याख्यातुं पूर्वपक्षतद्युक्तिकथनपरांशमवतार्य प्रसिद्धा-काशश्चाङ्गीकर्तव्य इति प्रतिज्ञातार्थमाह ॥ सयुक्तिकमित्यादिना ॥ प्रसिद्धपदसूचितां युक्ति-माह ॥ आकाशेति ॥ पूर्वेण गतार्थत्वमाशङ्कते ॥ न चेति ॥ विष्णावपीति ॥ आकाश-स्तल्लिङ्गादित्युक्तन्यायादिति भावः ॥ यौगिकत्वादिति ॥ यच्छब्दा योगवृत्तय इति सङ्क्षेप-भाष्योक्तेः । अन्यथा ब्रह्मपदोक्तगुणपूर्त्यसिद्धेस्तदर्थत्वात् समन्वयस्येति भावः ॥ दौर्बल्या-दिति ॥ तथा च प्रबलरूढित्यागेन यौगिकग्रहणे निरवकाशानन्तत्वादिलिङ्गादाकाश इति होवाच इत्यादौ यौगिकस्यापि विष्णोर्ग्रहणेऽपीह कारणाभावादिति भावः । कारणमप्यत्राऽऽ-शङ्कते ॥ सर्वेति ॥ तथा चाऽऽकाशस्तल्लिङ्गादित्यनेनैव गतार्थमिदमिति भावः । एतदुप-मर्दकतयाऽधिकां शङ्कां वक्तुं वैनामेति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थ-स्वीकारविरोधीति न्यायविवरणं योजयित्वा वै नामेति भाष्यं योजयति ॥ प्रसिद्धेति ॥ प्रसिद्धाकाशश्चाङ्गीकर्तव्य इत्युक्तिलब्धमेतदापादकम् । तस्येत्यादि तु भाष्ययोजना । तद्धि निपातद्वयम् । य आकाशः प्रसिद्धः स नामरूपनिर्वहितेत्युद्देशेन वाऽन्वितं स्यात् । य आकाशः स नामरूपनिर्वहिता वै नाम तस्य नामरूपनिर्वोढृत्वं प्रसिद्धमिति विधेयेन वाऽन्वितं स्याद् द्वेधाऽपि न विष्णौ युक्तमित्याह ॥ न हीति ॥ य आकाशो विष्णुः प्रसिद्ध इति वा य आकशशब्दितो विष्णुस्स नामरूपयोर्निर्वहिता प्रसिद्ध इति वाऽर्थः स्यात् । न हि विष्णुर्वा तस्य निर्वोढृत्वं वा लोकतः प्रसिद्धम् । औपनिषदत्वात् तस्येति भावः । श्रौतपदानुकरण-रूपत्वान्निर्वहितृत्वमित्युक्तम् । फलोक्त्योपसंहरति ॥ अत इति ॥ वै नामेति प्रसिद्धोप-देशादित्यर्थः । उक्तमित्यन्तवाक्यस्य तात्पर्यं तस्येति ॥ आकाङ्क्षाक्रमेण भाष्यं व्याचष्टे ॥ अयमाकाश इति ॥ आदिपदार्थमाह ॥ तद्ब्रह्मेति ॥ पूर्वमर्थान्तरत्वपदेन नामरूपोभयराहित्यं विवक्षित्वा आदिपदेन ब्रह्मत्वं गृह्यत इति मत्वा व्याख्यातम् ।

इदानीं प्रकारान्तरेण व्याचष्टे ॥ अर्थान्तरत्वमिति ॥ अस्मिन्पक्षे भाष्ये तद्ब्रह्मेत्यंशोक्तिः सौत्रलिङ्गोक्तेरुपलक्षणत्वाभिप्राया । कम्पनादित्यत्र तदविहाय लिङ्गान्तरस्यापीत्युक्त्वा एत-दन्यत्राप्यनुसन्धेयमित्युक्तत्वादिति भावः ॥ इत्यत आहेति ॥ अवर्णमिति श्रुतिरदृश्यत्वनये ब्रह्मपरत्वे सिद्धम् । यतो वाच इति तु वाक्यमानन्दमयनय इति भावः । नन्वादिपदेनानामत्वं ग्राह्यमिति व्याख्याने सूत्रभाष्ययोरनामत्वादिव्यपदेशादिति वाच्यम् । तत्क्रमेणैव च वैष्णवता व्युत्पाद्या । नामरूपयोरिति ते इति च श्रौतक्रमानुरोधात् शब्दलाघवाच्चेत्यत आह ॥ रूपस्येति ॥ नाम्नो वाच्यसापेक्षत्वादप्राधान्यमिति भावः ॥ उक्तेति ॥ ईक्षतेर्नाशब्दमित्यत्र वाच्यत्वोक्त्या नामवत्त्वस्य रूपोपन्यासादित्यत्र रुग्मवर्णमिति रूपस्य चोक्तेस्तद्विरोधा-दित्यर्थः । अप्रसिद्धत्वात् साकल्येनागोचरत्वात् ॥ भूतेति ॥ भौतिकरूपराहित्यादित्यर्थः । वै नामेति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यमिति न्यायविवरणोक्तमत्र योजयितुमाह ॥ न चेति ॥ ‘अन्नाध्येव खल्विमानि भूतानि जायन्त’ इत्यादौ प्रसिद्धेर्विधेयान्वयदर्शनादिहापि तथेति नामरूपनिर्वहितुत्वस्येत्युक्तम् । साधुत्वं प्राग्वत् ॥ अलोकेति ॥ लोकतोऽप्रसिद्धत्वेऽपीत्यर्थः । वेदवैदिकप्रसिद्धेरेवासम्भाव्याज्ञानादिमूलकत्वेनान्तरङ्गत्वेन च ग्राह्यत्वादिति भावः । प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धमिति न्यायविवरणांशमर्थतो योजयति ॥ अन्यथेति ॥ प्रसिद्धाकाशत्व इत्यर्थः । नन्वाकाशे नीलिमोदेतीति श्रुतेर्भूताकाशस्य रूपादिमत्त्वेऽपि अत्राभिमताव्याकृताकाशस्य त्वनामरूपत्वमस्तु । तस्मिन् रूपाश्रुतेरचाक्षुषत्वाच्चारूपत्व-निश्चयादित्यत आह ॥ अवकाशस्यापीति ॥ अनामत्वहेत्वप्रसिद्धत्वस्यावकाशेऽभावेन नामवत्त्वादित्यर्थः ॥ अत इति ॥ निरवकाशश्रुतिलिङ्गभावादित्यर्थः ॥

अभिनवचन्द्रिका

साधारणस्येति ॥ यद्यप्ययं शब्दोऽन्यत्र प्रसिद्धस् तथापि पुरुषविशेषं प्रति उभयत प्रसिद्ध इति भावः । तच्छन्दोगश्रुताविति ॥ अनेन अस्याधिकरणस्य द्युभ्वाद्यधिकरणप्रतिपाद्य-निष्ठसर्वाधारत्वधर्मवदर्थप्रतिपादकत्वं तेनाधिकरणेन सङ्गतिरित्युक्तं भवति । नन्वाकाशस्वीकारे निपातद्वयविरोधः । आकाशस्य प्रसिद्धत्वेऽपि तन्निर्वाहकत्वस्याप्रसिद्धत्वादित्यत आह– न हि विष्णुरिति ॥ विष्णुपक्षे विष्णुस्तन्निर्वाहकत्वं चेत्युभयमपि अप्रसिद्धम् । आकाशपक्षे तु तन्निर्वाहकत्वमात्रस्याऽप्रसिद्धत्वेऽपि आकाशस्य प्रसिद्धत्वाद्विष्णुपक्षवन् निपातद्वयविरोधा-भावात् प्रसिद्धाकाश एव स्वीकार्य इति भावः । एतेन आकाशस्य नामरूपनिर्वाहकत्वस्य प्रसिद्धत्वे पूर्वपक्षोदयात्प्रागेव सिद्धत्वान् न पूर्वपक्षफलत्वं, तथा सिद्धान्तेऽपि ‘आकाशो वैनाम’ इत्युक्ताकाशस्य विष्णुत्वसाधनेऽपि प्रसिद्धिप्रयुक्ताऽन्यगामित्वशङ्कानिरासाभावाद् अधिकरणवैयर्थ्यम् । अप्रसिद्धत्वे निपातद्वयविरोधसाम्यमिति परास्तम् । तस्यैव सर्वाधारत्वमिति ॥ ‘आकाशाद्वायुः’ इत्यादिप्रमाणेनाकाशस्य साक्षात्परंपरया वा सर्वोपादानत्वात्, कार्यस्य कारणाश्रितत्वदर्शनात्, आकाशस्यैव सर्वाधारत्वं सम्भावितं, न विष्णोरिति तस्यैव सर्वाधारत्वमभ्युपेयमिति भावः । ननु भाष्ये ‘ते यदन्तरा तद्ब्रह्म’ इति एक एव अर्थान्तरत्वव्यपदेशः प्रदर्शितः न त्वादिशब्दगृहीतव्यपदेशः प्रदर्शित इति न्यूनतेत्यत आह – आकाशस्येति ॥ अत्र बुध्या विवेकेन सम्बन्धे व्यपदेशद्वयस्यापि भावात्, न न्यूनतेति भावः । अत्र टीकायां ‘तद्ब्रह्मेति ब्रह्मत्वव्यपदेशाच्च’ इत्यर्थ इत्यतः परम्, अर्थान्तरत्वमिति रूपराहित्यम्, आदिपदेनाऽनामत्वम्’ इति वाक्यं श्रूयते । नैतट्टीकाकृद्वाक्यम्, अपितु प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् । ‘इति वा अर्थ’ इति पूर्वेण सम्बन्धस्य कर्तुमशक्यत्वात् । ‘अथ विवक्षितम्’ इत्यध्याहृत्य तेन सम्बन्धं मन्यसे, तथापि भाष्ये ‘तद्ब्रह्मे’ति श्रुत्युदाहरण-वैयर्थ्यं प्राप्नोति ।

किं चार्थान्तरत्वमित्यनेनैव नामरूपराहित्यस्य ‘ते यदन्तरा’ इति श्रुत्यनुसारेण सङ्ग्रह-सम्भवात् सूत्रे’ अर्थान्तरम्’ इत्यनेन रूपराहित्यम् आदिशब्देन नामराहित्यं विवक्षितमित्यत्र न नियामकं पश्यामः । न ह्यल्पाक्षरसूत्रे एकेनैव पदेनोभयराहित्यग्रहणसम्भवे तदर्थमेवादि-शब्दप्रयोगो युक्तः । किं चैवं सति यदि परो ब्रूयादर्थान्तरत्वमिति नामराहित्यम्, आदिपदेन रूपराहित्यमुच्यत इति, तर्हि किन्नियामकमुदाहृत्य परो बोधनीयः । ननु भाष्ये ‘ते यदन्तरा’ इति श्रुत्युदाहरणमयुक्तं, नामरूपराहित्यस्य तत्रानभिधानादित्यतः श्रुतिं व्याख्याति – ते नामरूपे इति ॥ ननु श्रुतौ नामरूपयोर्निर्वहितेति नाम प्रथमं निर्दिष्टं रूपन्तु पश्चात् । अतः भाष्यकृतापि ‘यतो वाचो निवर्तन्त’ इति श्रुतिमुदाहृत्य ‘अवर्णमिति श्रुतिरुदाहर्तव्येत्यत आह– रूपस्य वाच्यान्तर्भावेनेति ॥ उक्तविरोधादिति ॥ ‘ईक्षतेर्नाशब्दं, रूपोपन्यासाच्च’ इत्युक्तविरोधादित्यर्थः । अन्यथेति ॥ ‘ते यदन्तर’ इत्यस्य स्मृत्युक्तार्थानङ्गीकारे श्रुतेर्निरर्थकत्वं स्यात् । अनामरूपवत्त्वविरोधेन आकाशपरत्वाङ्गीकाराऽयोगादिति भावः ॥ आकाश-स्यापीति ॥ विष्णुवदाकाशस्यापि नामरूपवत्त्वादित्यर्थः ।

पूर्वपक्षस्तु – अयमाकाशः प्रसिद्धाकाश एव भवेत् । आकाशशब्दस्य तत्र रूढत्वात् । न चाकाशशब्दस्य विष्णावपि वृत्तेरसौ विष्णुरिति वाच्यम् । आकाशशब्दस्य विष्णौ यौगिकत्वात् । योगस्य रूढेर्दुर्बलत्वात् । ननु सर्वाधारत्वलिङ्गेन विष्णुः किं न स्यादिति चेत् प्रसिद्धाकाशपरित्यागेन विष्ण्वङ्गीकारे ‘वै नाम’ इत्युक्त निपातद्वयविरोधः स्यात् । न च वाच्यमाकाशपक्षेऽपि निपातविरोधस्समः । नामरूपनिर्वाहकत्वस्य तत्राप्रसिद्धत्वादिति । विष्णुपक्षे विष्णुस्तन्निर्वाहकत्वं चेति द्वयमप्यप्रसिद्धम् । आकाशपक्षे तु तन्निर्वाहकत्व-मात्रमप्रसिद्धमिति वैषम्यात् । नामरूपनिर्वाहकत्वलिङ्गन्तु आकाशस्योपादानत्वात्सम्भावितं न तु विष्णोः । तस्मात्प्रसिद्धाकाश एवायमिति तस्यैव सर्वाधारत्वमिति ।

सिद्धान्तस्तु – अयमाकाशो विष्णुरेव । अस्याकाशस्य ‘ते यदन्तरा’ इति नामरूप-राहित्याख्यविलक्षणार्थत्वव्यपदेशात् ‘तद्ब्रह्म’ इति ब्रह्मत्वव्यपदेशाच्च । अस्त्वनामरूपत्वं कुतोऽसौ विष्णुरिति चेत्, अनामरूपत्वस्य तल्लक्षणत्वेन ‘अवर्णं, यतो वाचो निवर्तन्त’ इत्यादिश्रुतिसिद्धत्वात् । न च ‘वै नाम’ इति निपातद्वयविरोधः ‘एको दाधार भुवनानि विश्वा’ इति श्रुतिप्रसिद्धत्वाभावात् । लोकप्रसिध्द्यपेक्षया श्रुतिप्रसिद्धेः प्रबलत्वेन तस्या एव ग्राह्यत्वात् प्रत्युत आकाशस्य नामरूपत्त्वेन आकाशग्रहण एव विरोधः । अतोऽयमाकाशो विष्णुरेवेति तस्यैव सर्वाधारत्वमिति सिद्धमिति ।

वाक्यार्थमुक्तावली

प्रयोगवशादिति ॥ ‘यदेष आकाश आनन्दो न स्यात्’ इति विष्णौ आत्मन आकाशः सम्भूत इति गगने च प्रयोगादित्यर्थः । न चैवं प्रथमपादे तल्लिङ्गादित्यत्राप्याकाशब्दस्योभयत्र-प्रसिद्धसमन्वयपरत्वप्रसङ्ग इति वाच्यम् । तत्र यदेष आकाश इत्युक्तस्यैव पूर्वपक्षिणाक्षिप्यत्वेन ततः पूर्वं भगवत्परत्वसिध्योभयत्र प्रसिध्ययोगादिहेतुतल्लिङ्गादित्यत्र आकाशशब्दस्य विष्णुपरत्वे सिद्धे यदेष आकाश इत्याकाशशब्दस्यापि विष्णुपरत्वनिर्णयात् । प्रयोगादुभयत्र प्रसिद्धत्व-मित्युपपत्तेरिति भावः ॥ श्रुत्यादीति ॥ तद्ब्रह्मतदमृतमित्यमृतत्वा’ इनोक्ताकाशस्य विष्णो-रन्यत्वे बहिः कुलायादमृतश्चरित्वेत्यनेन पूर्वोक्त ज्योतिषोऽप्यमृतत्वं न स्यादित्याक्षेपेणोत्थाना-दनन्तरसङ्गतिरिति भावः ॥ किं विष्णुरिति ॥ अत्राकाशः किं भूताकाशः किं वा ब्रह्मेति चिन्ता तदर्थं ब्रह्मग्रहणे प्रसिद्धिद्योतकौ वै नामेति निपातौ विरुध्यते न वेति । तदर्थं तद्योतकप्रसिद्धिः किं लौकिकी उत वैदिकीति । तदर्थं लौकिकग्रहणे बाधकं वैदिकग्रहणे च साधकं नास्तीति ॥ प्रसिद्ध एवेति ॥ अनेन प्रसिद्धाकाशश्चेति चशब्द एवार्थक इत्युक्तं भवति । प्रसिद्धपदसूचितयुक्तिमाह ॥ रूढत्वादिति ॥ तल्लिङ्गादित्यनेन गतार्थतामाशङ्क्य निराकरोति ॥ न च वाच्यमिति ॥ यौगिकत्वादिति ॥ आसमन्तात् काशते यदकाशो मुख्यतो हरिरित्युक्तरीत्या यौगिकत्वादित्यर्थः । नन्वन्यत्र शब्दानामज्ञरूढिर् हरौ विद्वद्रूढिरिति प्रत्यधिकरणमाम्नातत्वात् । अथ विष्णुलिङ्गाच्च योगो विद्वद्रूढिश्चाश्रीयतेऽत आकाशो विष्णुरेव गतार्थं चेदमधिकरणमिति शङ्कते ॥ सर्वाधारत्वलिङ्गेति ॥ सर्वगत्वं चाकाशादेव समुत्पद्यन्त इत्यादावनन्तत्वादिनिरवकाशलिङ्गेन महायोगविद्वद्रूढिभ्यां विष्णोः परिग्रहः । तथापीह वैनामेति निपातद्वयस्येति प्रसिद्धिर्न ब्रह्मणि युक्ता । लोके तस्याप्रसिद्धत्वाद्वेदप्रसिद्धत्वेऽ-प्यनादिर्वा अयमाकाश इत्यादौ गगनस्यापि प्रसिद्धेः । व्यावृत्यप्रसिध्याऽऽकाशस्यैवाभावेन निपातवैय्यर्थ्यात् । गगनपक्षे तु शास्त्रयोनित्वेन लोकप्रसिद्धत्वान्न ब्रह्माकाशस्य व्यावर्त्य-लौकिकप्रसिद्धिद्योतकनिपातवैय्यर्थ्यम् । सर्वाधारत्वं तु आकाशेऽप्यवकाशदानत्वे युज्यत इति भावेन परिहरति ॥ प्रसिद्धाकाशेति ॥ ननु वेदे विद्वद्रूढिरूपाप्रसिद्धिं गगनं व्यावर्त्यत इत्यत आह ॥ न हीति ॥ निपातद्वयं वैनामप्रसिद्ध आकाशः निर्वहितेत्युद्धेशेन च । य आकाशः स नाम रूपनिर्वहित वै नाम तस्य नाम रूपनिर्वोढुप्रसिद्धिमिति । विधेयेनान्वितं स्याद् द्वेधापि न विष्णौ युक्तम् । वेदतः प्रसिद्धत्वेऽपि लोकतोऽप्यसत्वात् । गगनं तु लोके वेदे च स्वरूपेण नामरूपावकाशदानतन्निर्वाहकतया प्रसिद्धमिति भावः । यद्यपि लोके निर्वोढृ शब्द एव साधुस्तथापि टीकादौ श्रुत्यनुकरणार्थनिर्वहितृशब्द इति ज्ञेयम् ।

एतेन ‘सर्वाणि ह वा इमानि भूतान्याकाशादेवेति’ प्रथमपादीयाकाशनयविषयवाक्येऽपि प्रसिद्धिद्योतकसत्वात् तत्रापीयं शङ्का समेति निरस्तम् । तत्र निपातस्य भूतान्वितत्वे-नाकाशान्वयभावादेकत्वादत्र निपातद्वयस्याकाशेन निर्वहितृत्वेन चान्वितत्वादिति । आकाशो वै नाम’ इति श्रुतेः । आकाशो भगवन्नामरूपयोर्नामरूपात्मकस्य वाच्यवाचकरूपस्य प्रपञ्चस्य निर्वहिता वै नाम श्रुतिशतप्रसिद्धं किल ये तु यस्याकाशस् ते नाम रूपेतराद्विना वर्तते । अत्र रूपपदेन वाच्यान्तर्गतप्राकृतभौतिकं शुक्लादि च गृह्यते । साकल्ये वा प्रसिद्धः प्राकृत-भौतिकशरीरेण शुक्लादिवर्णेन च रहित इति यावत् । किं च तद्वस्तु ब्रह्म पूर्णमित्यर्थं मनसि निधाय सिद्धान्तभाष्यं व्याचष्टे अयमित्यादिना ॥ सूत्रभाष्यगगनादि शब्दार्थमाह ॥ तद्ब्रह्मेति ॥ उपलक्षणमेतत् । तद्ब्रह्म तदमृतं स आत्मेति निर्दिश्यमानत्वाच्चायं न जडाकार इति सत्तर्कदीपावल्युक्तमपि ग्राह्यम् । भूमिपूर्वसर्वपदार्थानां नामरूपत्वादाकाशस्य ते यदन्तरेषूक्त्या नामराहित्याख्यसर्ववस्तुवैलक्षण्यव्यपदेशादाकाशो न विष्णुरिति व्याख्यातम् । प्रकारान्तरेण व्याचष्टे ॥ अर्थान्तरत्वमिति ॥ वाच्यवाचकयोः प्रकृतत्वाद् अर्थः वाच्यः रूपमन्तरा वर्तत इत्यर्थान्तरं तस्य भावोऽर्थान्तरत्वम् इति । अर्थान्तरत्वमिति पदेन रूपराहित्यं लक्ष्यते इत्यर्थः ॥ आदिपदेनेति ॥ ब्रह्मत्वमिवानात्मत्वमप्यादिपदेन गृह्यते इति भावः । ननु नामरूपयोरित्ये-तदनुसारेण ते यदन्तरे यत्र नामरूपे इत्यर्थस्य सिद्धत्वात् । भाष्ये पूर्वमनामत्वे यतो वाच इति प्रमाणमुदाहृत्य पश्चाद् रूपत्वे अवर्णमिति प्रमाणमुदाहरणीयम् । क्रमोल्लङ्घनं किमर्थमित्यत आह ॥ रूपस्येति ॥ द्वितीयव्याख्याने सूत्र एव क्रमोल्लङ्गनमिति वा । अत एव श्रौतक्रममनुसृत्यानामेति स्मृतिप्रवृत्तिरिति भावः ॥ उक्तविरोधादिति ॥ ईक्षतेर्नाशब्दं, रूपोपन्यासाच्येत्युक्तविरोधादित्यर्थः । साकल्येन वाचकशब्दप्राकृतरूपराहित्यं चात्र विवक्षितम् । वस्तुतस्तु इत्यधिकरणाद्युक्तन्यायेन निखिलश्रुतसमधिगम्यो प्राकृतरूपवांश्चेति भावः । विरोधपरिहारमुखेन परमात्मनो वैदिकप्रसिध्युपपादकस्य प्रयोजनं वक्तुमाशङ्क्य परिहरति ॥ न चेति ॥ उक्तं च न्यायविवरणे । वै नामेति निर्वहितृत्वे च श्रुत्यादिबाहुल्यमिति अलीक-प्रसिद्धत्वेऽपीत्युक्त्या आकाशस्य स्वरूपतो वेदप्रसिद्धत्वेऽपि निर्वहिर्तृत्वे वा न वेदप्रसिद्धिः । किन्तु लोकत एव लौकिकप्रसिध्यपेक्षया वैदिकप्रसिद्धेरसम्भाव्या ज्ञानादिमूलत्वेन प्राबल्यात् । विजातीयबहिरङ्गलौकिकप्रसिद्धिसङ्ग्रहाय सजातीयान्तरङ्गवैदिकप्रसिद्धिपीडनायोगाच्च सैवात्र ग्राह्येति सूचयति । सूत्रे तत्वित्यनुवर्तते । आकाशो विष्णुरेव नान्यः नामरूपराहित्यलक्षण-विलक्षणार्थत्वव्यपदेशाब्रह्मत्वादिव्यपदेशाच्चेति सूत्रार्थो भाष्ये निरूपितः । तत्र नामरूप-राहित्यप्रसिध्या आकाशव्यावर्तकमित्यत्र आकाशस्योक्तमनामरूपत्वं विरुद्धमिति न्यायविवरणानुसारेणाह ॥ अन्यथेति ॥ वैदिकबाधितप्रसिद्धमतिलङ्घ्य लौकिकाल्प-प्रसिद्ध्याकाशस्वीकार इत्यर्थः ॥ अवकाशस्यापीति भूताकाशस्य ‘आकाशो नीलीमोदेति न प्रदेशः कथञ्चनेति श्रुतेर्नामरूपत्वादिति भावः । न चाकाशपदमव्यावृतशक्तमिति वाच्यम् । आकाशशब्दप्रवृत्तिनिमित्तस्याकाशत्वस्य श्रुतेर्भूतेऽपि साम्यात् । क्वचित् श्रुतेऽपि तत्प्रयोग-सम्भवात् । तदुक्तं सुधायाम् आकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं श्रुतेर्निरवधिकमिति । उक्तं च सत्तर्कदीपावल्यां सर्वाधारतयाम्नातोऽप्याकाशो न विष्णुः किं तु भूताकाश एव वै नामेति प्रसिद्धिद्योतकनिपातश्रवणात् ॥ लोकप्रसिद्धाकाशो हि भूताकाश इति ॥ चन्द्रिकायां तु अवकाशस्यापि नामत्वादित्येव टीकापाठमाश्रित्यावकाशपदमनुसृत्याव्याकृताकाश एवात्र पूर्वपक्षाभिमत इति निरूपितम् । विस्तरस्तु प्रमेयमुक्तवल्याम् ॥

तत्त्वसुबोधिनी

प्रयोगवशादिति ॥ तद्धेतुव्यपदेशादित्युक्तरीत्या को ह्येवान्यात्कः प्राण्याद् यदेष आकाश आनन्दो न स्याद् इत्यादौ विष्णौ यः प्रयोग आत्मन आकाश इत्यादौ च यश्च भूते प्रयोगस् तद्वशादित्यर्थः । यद्वा तल्लिङ्गादित्यत्र ब्रह्मण्यपि आकाशशब्दप्रयोगस्य दर्शितत्वाद् वा वै नामेति निपातद्योतितप्रसिद्धे व्यावर्त्यत्वेन प्रसिद्धे ब्रह्मणि आकाशशब्दप्रयोगस्य पूर्वपक्षिणापि अङ्गीकृतत्वाद्वा । उभयत्र प्रसिद्धमिति भावः ॥ श्रुत्यादिसङ्गतिमिति ॥ अत्र तद् ब्रह्म तदमृत-मित्यमृतत्वेनोक्ताकाशस्य विष्णोरन्यत्वे ‘बहिः कुलायादमृतश्चरित्वा’ इत्यमृतत्वेन पूर्वोक्त-ज्योतिषोऽप्यन्यत्वं स्यादिति पूर्वाक्षेपेणोत्थानादिति भावः ॥ स्वशब्दादित्यादाविति ॥ अक्षरमम्बरान्तधृतेर् इत्यादावपि सर्वाधारत्वस्योक्तत्वादिति भावः ॥ आकाशादिति ॥ अत्र वै नामेति निपातौ । आकाशः नामरूपयोर् निर्वहिता नामरूपधारकस् ते नामरूपे यदन्तरा यद्विना तदमृतं मरणरहितं ब्रह्मेत्यर्थः ॥ प्रसिद्ध एवेति ॥ एवं च भाष्ये प्रसिद्धाकाशश्चेति चशब्द एवार्थ इति भावः ॥ निपातद्वयविरोधादिति ॥ यद्यपि आकाशस्तल्लिङ्गादिति सूत्रस्य विषयवाक्ये अस्य लोकस्येत्यत्र सर्वाणि ह वा इति वैशब्दः निपातो वर्तते । तथापि तत्र वैशब्दस्य सर्वशब्दभूतशब्दमध्यपतितत्वेन सर्वभूतान्वयान्नाकाशप्रसिद्धद्योतकत्वम् । इह तु वैशब्दस्य आकाशशब्दसन्निधानान्नान्यथासिद्धिः । नामेत्येतदधिकं चेति वैषम्यम् । अत एव भाष्ये वै नामेति निपातद्वयमुक्तमिति भावः । ननु कथं विष्णुपरत्वे निपातद्वयविरोधः विष्णोरपि ‘यदेष आकाश आनन्दो न स्यात्’ ‘आकाशः परायणम्’ इत्यादौ नामरूपादि-सर्वाधारतया आकाशशब्दार्थत्वेन प्रसिद्धत्वादित्यत आह ॥ न हीति ॥ तथाचाकाश-स्यावकाशत्वेन स्वरूपे वा नामरूपावाकाशदानात्तन्निर्वाहकलोके वेदे च प्रसिद्धवद् विष्णोः स्वरूपेण नामरूपनिर्वाहकतया च न लोकवेदयोः प्रसिद्धिरस्ति । न च वेदे प्रसिद्धिरस्तीति वाच्यम् । निपातद्वयेनासङ्कुचितप्रसिद्धिद्योतने सम्भवति सङ्कुचितवेदमात्रप्रसिद्धिद्योतनस्या-युक्तत्वादिति भावः । अत एवाग्रे अलोकप्रसिद्धत्वेऽपीत्युक्तम् । अर्थान्तरत्वादिव्यपदेशादिति सूत्रभाष्यगतादिशब्दो ब्रह्मत्वव्यपदेशार्थक इति सूचितम् ॥ आदिपदेनेति ॥ अस्मिन्पक्षे भाष्ये तद्ब्रह्मेति श्रुत्यंशोदाहरणं सूत्रानुक्तब्रह्मत्वव्यपदेशरूपयुक्तिसूचनार्थं सूत्रे तदनुक्तिस्तु स्फुटत्वादिति भावः ।

यद्वा सूत्रभाष्ययोर् आदिशब्देनानामत्वब्रह्मत्वव्यपदेशश्चेति द्वयमपि ग्राह्यमिति भावः । अत्र ब्रह्मत्वव्यपदेशस्य कण्ठतोऽनुक्तिर् ब्रह्मत्वव्यपदेशाच्चेति पूर्वमुक्तत्वादिति ज्ञेयम् ।

ननु ते यदन्तरा इत्यत्र तच्छब्देन नामरूपयोरिति प्रकृतनामरूपयोः परामर्शेन नामरूप-रहितमित्यर्थः । तथा च तत्र प्रमाणत्वेन प्रथमं यतो वाचो निवर्तन्ते इति अनन्तरम् अवर्णमिति श्रुतिरुदाहर्तव्या तत्कुतो वैपरीत्यमत आह ॥ रूपस्य वाच्यान्तर्भावेनेति । वाच्ये परमात्मनि अन्तर्भावेनेत्यर्थः । एवं च प्राधान्यकथनेन अर्थान्तरत्वमिति रूपराहित्यमिति व्याख्याने सूत्रे अनामत्वादिव्यपदेशादित्येव वक्तव्यं कुतोऽर्थान्तरत्वादिव्यपदेशादित्युक्तमिति शङ्का परास्ता भवति ॥ उक्तविरोधादिति ॥ ‘ईक्षतेर्नाशब्दं’ ‘रूपोपन्यासाच्च’ इत्यत्र शुक्लादिरूपत्वस्य वाच्यस्य उक्तत्वेन तद्विरोधादित्यर्थः ॥ अनामेतीति ॥ अनामरूपत्वं च विवक्षितमिति न तेन विरोध इति भावः । कथं निपातद्वयविरोध इत्यत आह ॥ भगवत इति ॥ वैदिकेऽर्थे लोकप्रसिद्ध्यपेक्षया वैदिकप्रसिद्धेः प्राबल्यम् । वैदिकप्रसिद्धेश्च विष्णौ तदीयनामरूपनिर्वहितृत्वे चाकाशापेक्षया बहुलेति सैव निपातद्वयद्योत्येति भावः ॥ तदर्थत्वेनोपपत्तेरिति ॥ निपातद्वयस्य चेदं प्रसिद्धार्थत्वेनोपपत्तेरित्यर्थः ॥ अन्यथेति । वैदिकप्रसिद्धार्थत्वाभाव इत्यर्थः । आकाशस्यापि अनामरूपकत्वं भविष्यतीत्यत आह ॥ आकाशस्येति । साकल्येन स्वप्रतिपादकनामप्राकृतरूपवत्वादित्यर्थः ॥

वाक्यार्थमञ्जरी

प्रयोगवशादिति ॥ यदेष आकाश इति हरावन्यत्र तु प्रसिद्धिरेवेति भावः ॥ आकाशो वै नामेति ॥ आसमन्तात्काशमानत्वादाकाशनामा भगवान्नामरूपात्मकप्रपञ्चस्य निर्वहिता निर्वोढा आश्रय इति यावत् । निपातद्वयेनास्यार्थस्य प्रसिद्धत्वमाह । ते नामरूपे अन्तरा विना यद्वर्तते तदमृतं नित्यमुक्तं ब्रह्मेत्यर्थः ॥ ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ आकाशो वै नामेत्युक्ताकाशो विष्णुरेव ते यदन्तरेत्याकाशस्य विष्णुमात्रनिष्ठनामरूपराहित्याख्य-लिङ्गोपदेशादित्यर्थः ॥ विलक्षणार्थत्वेति ॥ अनेन अन्तरः विलक्षणोऽर्थोऽर्थान्तरस्य भावोऽर्थान्तरत्वमिति व्याख्यातं भवति । आदिपदोपात्तमाह ॥ तद्ब्रह्मेति ॥ नन्वादिपदेनानामत्वमिति व्याख्याने सूत्रभाष्ययोरनामत्वादीति वाच्यं तेनैव क्रमेण श्रुत्युदाहरणं कार्यं किमर्थं श्रौतक्रमोल्लङ्घनमित्यत आह ॥ रूपस्येति ॥ नाम्नो वाच्यसापेक्षत्वादप्रधान्यमिति भावः ॥ उक्तविरोधादिति ॥ ईक्षतेर्नाशब्दम् । रूपराहित्यं च विवक्षितं प्राक्चावाच्यत्वाभावो ऽप्राकृतरूपत्वं च विवक्षितमिति न तद्विरोध इति भावः ॥ अलोकेति ॥ लोकतोऽप्रसिद्धत्वेऽपीत्यर्थः । अन्यथा आकाशपक्षे नन्वाकाशो नीलिमोदेतीति श्रुतेर्भूताकाशस्य रूपत्वेऽप्यत्राभिमताव्याकृताकाशस्य तद्राहित्यं युक्तमित्यत आह ॥ आकाशस्यापीति ॥ अनामत्वप्रयोजकाप्रसिद्धत्वस्याकाशे अभावेनानामत्वाभावादित्यर्थः ॥

॥ इति आकाशाधिकरणम् ॥