१० कम्पनाधिकरणम्

ॐ कम्पनात् ॐ

१०. कम्पनाधिकरणम्

सूत्रभाष्यम्

‘यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।

महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति’ (क.उ. २-३-२)

इत्युद्यतवज्रज्ञानान्मोक्षः प्रतीयत (श्रूयत) इत्यतोऽब्रवीत् ।

॥ ॐ कम्पनात् ॐ ॥ ३९ ॥

एजतीति कम्पनवचनादुद्यतवज्रो भगवानेव । ‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ (तै.उ.२-७) इति हि श्रुतिः । ‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः’ इति (बृ.उ.६-४-१८) च ।

‘नभस्वतोऽपि सर्वाः स्युश्चेष्टा भगवतो हरेः ।

किमुतान्यस्य जगतो यस्य चेष्टा नभस्वत’ इति (च) (हि) स्कान्दे ॥

‘चक्रं चङ्क्रमणादेष वर्जनाद्वज्र(म्) उच्यते ।

खण्डनात्खड्ग एवैष हेतिनामा स्वयं हरिरिति ब्रह्मवैवर्ते ॥

सत्तर्कदीपावली

ऊर्ध्वं प्राणमुन्नयतीत्यत्र विष्णुः प्रतिपाद्यत इति यदुक्तं तद् दृढीकर्तुं तत्प्रकरणस्थं वाक्य-मुदाहृत्य विचारयति ॥ यदिदमित्यादिना ॥ नात्र वज्रशब्दाभिधेयायुधविशेषः प्रतिपाद्यते । भयादग्निस्तपति भयात्तपति सूर्य इत्युत्तरवाक्यविरोधात् । ‘भीषास्माद्वातः पवते’ इत्यादौ विष्णुभयाद्धि सर्वकम्पनं श्रूयते । अतो दैत्यैर्दूरादेव वर्ज्यते परिह्रियते न संमुखीक्रियत इति वज्रशब्दाभिधेयो विष्णुरित्यनवद्यम् ॥

तत्त्वप्रदीपिका

यदिदं जगद्दृष्टं श्रुतं च तत्सर्वं प्राण एजति प्राणाधारं कम्पते । एजृ कम्पन इति धातोः । प्राणान्निस्सृतं च तदेतद्वज्रं ये विदुस्तेऽमृता भवन्ति । भाययतीति भयम् । ‘कम्पनात्’ ॥ सर्वजगतस्तदाधारकम्पनवचनाद्वज्रो विष्णुरेव । न ह्यन्यस्य सर्वचेष्टकत्वं युक्तम् । नापि सदोद्यतत्वम् । चंक्रमयतीति चक्रम् ।

तत्त्वप्रकाशिका

अत्र लोकप्रसिद्ध्या भगवल्लिङ्गेन च साधारणवज्रनाम्नो हरौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति ॥ यदिदमिति ॥ तमेवं विद्वा-नित्यादौ भगवज्ज्ञानादेव मोक्ष इत्युक्तम् । काठके तु यदिदं किञ्चेति वज्रज्ञानान्मोक्षः श्रूयते । तस्य च विष्णोरन्यत्वेऽन्यज्ञानान्मो(क्षापत्ते)क्षोपपत्तेरवश्यं निर्णेयत्वम् । स वज्रोऽत्र विषयः । किं विष्णुरिन्द्रायुधं वेति सन्देहः । उक्तसाधारण्यं सन्देहबीजम् । इन्द्रायुधमेवेदं वज्रमिति पूर्वः पक्षः । वज्रश्रुतेस्तत्र रूढत्वादुद्यतत्वलिङ्गाच्च । तद्धि आयुध एवोपपद्यते । न च वज्रज्ञानेन मोक्षोक्तेर्विष्णुरिति वाच्यम् । लिङ्गमात्राच्छ्रुतिलिङ्गयोः प्राबल्यात् । न च लिङ्गस्य निरव-काशतया प्राबल्यम् । श्रुतिलिङ्गयोरपि तथात्वात् । अतो वज्रमिन्द्रायुधमेवेति न विष्णुज्ञानादेव मोक्ष इति भावः । यत्किंच सर्वं जगत्प्राणे स्थितं प्राणान्निःसृतं तदिदं जगद्यस्मादेजति यत्प्रेरणया चेष्टते तन्महद्भयङ्करं वज्रं ये विदुस्तेऽमृता भवन्तीत्यर्थः । प्राणः सर्वमिदं किं च जगच्च यस्मान्निःसृतं चेष्टते चेति वा । सर्वं जगद्यस्मान्निःसृतं स प्राणो यस्माच्चेष्टत इति वा । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ अयं वज्रो भगवानेव । वज्रस्य सर्वजग-च्चेष्टकत्वश्रवणात् । न चोद्यतत्वलिङ्गविरोधः । उद्यमित्वार्थतयोपपत्तेरिति भावः । लिङ्गमात्रेण कथमयं निश्चयः । लिङ्गस्य निरवकाशत्वादेवेत्याह ॥ को हीति ॥ यदा सामान्यतो जगच्चेष्टकत्वमेव विष्ण्वेकनिष्ठं तदा सुतरां वज्रस्योक्तं सर्वप्रवर्तकप्राणचेष्टकत्वं तदेकनिष्ठमिति भावेनाऽऽह ॥ प्राणस्येति ॥ ननूद्यतत्वलिङ्गस्य सावकाशत्वेऽपि वज्रश्रुतेर्निरवकाशत्वान्निरव-काशेनापि लिङ्गेन कथं निर्णय इत्यतः श्रुतेरपि विष्णाववकाशं स्मृत्या दर्शयति ॥ चक्र-मिति ॥ न च योगस्य रूढेर्दौर्बल्यादनिर्णय इति वाच्यम् । स्मृत्युक्तत्वेन विद्वद्रूढेरपि सत्त्वात् । आयुधानामहं वज्रम् । वज्रं प्रहरणोत्तमम् इति च । नन्वेवं सावकाशत्वे श्रुतिलिङ्गयोर्य एतद्विदुरित्युक्तलिङ्गं विहाय किं लिङ्गान्तरग्रहणेन । मैवम् । तदविहायैव लिङ्गान्तरस्याप्युक्त-त्वात् । एतदन्यत्राप्यनुसन्धेयम् । अतो विष्णुरेव वज्र इति तज्ज्ञानादेव मोक्ष इति सिद्धम् ॥

भावबोधः

अत्र लोकप्रसिद्ध्या भगवलिङ्गेन च साधारणेति ॥ न चैवं प्राणादिशब्दादीनामप्युभयत्र प्रसिद्धिः स्यादिति वाच्यम्, लिङ्गानां तत्पादद्वयसिद्धभगवत्परत्वमुपजीव्य ब्रह्मलिङ्गस्य विष्णौ वज्रशब्दादिप्रसिद्धिद्योतकत्वाङ्गीकारात् । प्राणादिशब्दसमभिव्याहृतभगवल्लिङ्गस्य न प्रथमपादतः पूर्वं विष्णौ समन्वयः केनचित् सिद्धः । येन तद्बलात्तेषां विष्णुपरत्वसिद्ध्योभयत्र प्रसिद्धत्वं स्यात् । तदुक्तमनुव्याख्याने–

‘उभयगतत्वं च स्यादतो लिङ्गशब्दयोः’ ।

इति । न चैवं नामपादन्यायैरादित्यादिनाम्नामपि ब्रह्मणि समन्वयस्योक्तप्रायत्वात् । तत्साहित्येन सर्वगतत्वादिलिङ्गानामप्युभयत्र प्रसिद्धता स्यादिति वाच्यम्, ततः पूर्वं नामपादे लिङ्गस्यानुक्ततया सर्वपुरुषाभिमुख्यादिभिरादित्ये प्रसिद्धैर्लिङ्गैरादित्यशब्दस्यान्यत्र प्रसिद्धेरुप-जीवनस्योक्तत्वादिति द्रष्टव्यम् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु पूर्वाधिकरणे रुद्रशब्दवच्छूद्रशब्दस्य यौगिकत्वाङ्गीकारेण तद्रूढेः पूर्वपक्षसाधकत्वनिरासवदिहापि वज्रशब्दस्य यौगिकत्वाङ्गीकारेणैव तद्रूढेः पूर्वपक्षसाधकत्वनिरासात् ।

यद्वा मनुष्याधिकारत्वादित्युक्ते स्मारितस्य देवानां वेदविद्याधिकारस्य शूद्राणां तदभावस्य चोपेक्षानर्हतया प्रसङ्गप्राप्तौ तदुभयविचारेऽधिकरणद्वयेन कृते प्रतिबन्धकजिज्ञासाविच्छेदो ह्यवसर इति समन्वयप्रतिपादनेवावसरप्राप्ते प्राणप्रेरक इति संक्षेपानुसारेण वामनाधिकरणे विष्णुनिष्ठत्वेन निर्णीतेन प्राणादिव्यवस्थापकत्वरूपप्राणादिचेष्टकत्वलिङ्गेनात्र वज्रशब्दस्य विष्णौ समन्वयसमर्थनादस्याधिकरणस्य वामनाधिकरणेनैव सङ्गतिरिति ज्ञातव्यम् ॥ किं विष्णुरिति ॥ अत्र ‘महद्भयं वज्रम्’ इत्युक्तवज्रशब्दवाच्यं किमिन्द्रायुधमुत विष्णुरिति चिन्ता । तदर्थं वज्रशब्दोद्यतत्वलिङ्गाभ्यां सर्वचेष्टकत्वलिङ्गबाध उत तेन लिङ्गेन तयोर्बाध इति । तदर्थं श्रुतिलिङ्गयोर्विष्णावनवकाशे सर्वचेष्टकत्वस्य विष्णुमात्रनिष्ठत्वे च प्रमाणं नास्त्युतास्तीति । वज्रश्रुतेस्तत्र रूढत्वादुद्यतलिङ्गाच्चेति । उद्यतवज्रज्ञानादिति भाष्याभिप्रायं वदतानेन ग्रन्थेन वज्रशब्दउद्यतत्वलिङ्गं चेति न्यायविवरणमपि व्याख्यातं भवति ॥ लिङ्गमात्राच्छ्रुतिलिङ्गयोः प्राबल्यादिति ॥ अनेन तादृग्द्वयमिति न्यायविवरणतद्वयशब्दाभिप्राय उक्तो भवति । श्रुतिलिङ्गयोरपि तथात्वादित्यनेन तद्गततादृगित्येतदुक्ततात्पर्यमिति ज्ञातव्यम् ॥ प्राणे स्थितं प्राणान्निःसृतमिति ॥ प्राण इति सप्तमीमङ्गीकृत्य तद्बलात् स्थितमित्यध्याहृत्य निःसृतशब्दानु-रोधात् प्राणादित्यध्याहृत्य वा प्राण इत्यस्य निमित्तसप्तमीत्वं वा विवक्षित्वा यस्मादित्यर्थत्वेन यदिदं किञ्चेति वाक्यं योजितमिति ज्ञातव्यम् । सर्वं जगादिति तृतीयव्याख्याने यदित्यस्या-वृत्तिः । यच्छब्दबलात् प्राणवाचकतया स इति तच्छब्दलाभ इति द्रष्टव्यम् । अत्र को ह्येवान्याद् इत्यादिभाष्यउदाहरिष्यमाणश्रुत्यनुसारेणाद्यं व्याख्यानद्वयम् । प्राणं ‘नभस्वतोऽपि सर्वा स्युः’ इति प्रमाणानुसारेण तृतीयं व्याख्यानमिति ज्ञेयम् ॥ उद्यमित्वार्थतयोपपत्तेरिति भाव इति । उद्यतवज्र इति भाष्ये उद्यतशब्दप्रयोगाभिप्रायं प्रतिपादयतानेन ग्रन्थेनोद्यतत्व-लिङ्गस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यमत्वमिति न्यायविवरणं व्याख्यातं भवति ॥ श्रुतेरपि विष्णाववकाशम् इति ॥ अनेन वज्रश्रुतेर्विष्णोरेवावकाश इति न्यायविवरण-भागोऽप्युक्तार्थो भवति । यद्यपि काठकभाष्ये–

‘वज्रवद्भयदं चैव स्वधर्मस्यातिलङ्घनम्’ ॥

इति वज्रशब्दस्य गौणत्वमुक्तम् । तथापि तद्वाक्यस्य तावतापि विष्णुपरत्वं सिध्यतीति तत्तत्रोक्तम् । इह तु समन्वयसूत्रप्रतिज्ञातमुख्यार्थत्वोपयोगादिदमेवोक्तमिति भावः । सावकाशत्वे श्रुतिलिङ्गयोरिति ॥ तथा च पूर्वपक्षप्रापकाभावेन मोक्षजनकज्ञानविषयत्व-स्यान्यगतत्वशङ्काया अयोगेन सिद्धान्ते निर्णायकत्वसम्भवादिति भावः ॥ एतदन्यत्राप्यनु-सन्धेयमिति ॥ यत्र पूर्वाधिकरणसिद्धसमन्वयश्रुतिलिङ्गादेर्विष्णुनिष्ठत्वाक्षेपः पूर्वपक्षप्रापक-श्रुत्यादेः सिद्धान्ते विष्णाववकाशभिधानञ्च तत्र पूर्वाधिकरणसिद्धस्य श्रुतिलिङ्गादेराक्षेपायोगेन विष्णुमात्रनिष्ठत्वानपायात् सिद्धान्तनिर्णायकत्वं सम्भवतीत्यनुसन्धेयमित्यर्थः । यथा अत एव प्राण इत्यादौ प्राणादिशब्दानां विष्णाववकाशे महान् भोग इत्युक्तपूर्णानन्दत्वादेरिति ॥

भावदीपः

न्यायविवरणेऽनुक्तेर्भाष्यदिशा स्वयं साधारण्यमाह ॥ लोकेति ॥ एवं हि प्राणा-काशाद्याद्यपादीयनाम्नामप्येवं स्यादिति चोद्यनिरासादि तु चन्द्रिकायां व्यक्तम् । सङ्गतिपरत्वेन तावद्भाष्यं व्याचष्टे ॥ तमेवमिति ॥ नेतरोऽनुपपत्तेरिति सूत्रभाष्ये उक्तमित्यर्थः । शेषोऽयम् । उद्यतवज्रेति पदद्वयभावमाह ॥ तस्य चेति ॥ वज्रश्रुतेरुद्यतत्वलिङ्गाच्चेन्द्रायुधत्व इत्यर्थः । अध्याहृतवाक्यभावमाह ॥ अन्यज्ञानेति ॥ इतिसङ्गतिसम्भवान्निर्णेयत्वं तस्येत्यन्वयः । पूर्वपक्षतद्युक्तितत्फलोक्तिपरत्वेनापि भाष्यं व्याचष्टे ॥ इन्द्रायुधमिति ॥ वज्रशब्द उद्यतत्वलिङ्गं चेति तादृग्द्वयमिति न्यायविवरणानुरोधेनोद्यतवज्रेति पदद्वयं श्रुतिलिङ्गरूपयुक्तिपरत्वेन व्याचष्टे ॥ वज्रश्रुतेरिति ॥ योगवृत्या श्रुतिर्विष्णावस्त्वित्यत आह ॥ तत्र रूढत्वादिति ॥ तथात्वे सर्वशब्दानां सर्वत्र यौगिकत्वसम्भवेनाव्यवस्थानात् प्राणाकाशादिशब्देष्वपि हरौ योगवृत्तिरिह पूर्वपक्षे न सम्मतेति भावः । लिङ्गस्यापि निरवकाशत्वमाह ॥ तद्धीति ॥ तेनेन्द्रो वज्र-मुद्गच्छन् । ‘उद्यतायुधदोर्दण्डा’ इत्यादावायुधे प्रसिद्धत्वादिति हेरर्थः । श्रुतिलिङ्गोपयोक्तेरुपयोगं वक्तुमाह ॥ न चेति ॥ द्वरोरपि निरवकाशत्वोक्तेः फलमाह ॥ न च लिङ्गस्येति ॥ एतेन तादृग्द्वयमित्येतद्विवृतं ध्येयम् । फलोक्त्योपसंहरति ॥ अत इति ॥ निरवकाशश्रुतिलिङ्ग-भावादित्यर्थः । श्रुतित्वनिरवकाशत्वाभ्यां प्रबलवज्रश्रुत्यैव निरवकाशस्वभावदुर्बललिङ्गबाधः सुशकः । तथाप्यभ्युच्चयतया लिङ्गोक्तिः कम्पकत्वरूपसिद्धान्तलिङ्गस्य वज्रनिष्ठताद्योतनाय । ‘प्राणाख्ये तु हरौ सर्वमेजत्यस्माच्च निःसृतम् । वज्रवद्भयदं चैव स्वधर्मस्यातिलङ्घनः’ इति काठकभाष्यानुरोधेन को हीति वक्ष्यमाणवाक्यानुगुणं श्रुत्यर्थमाह ॥ यत्किञ्चेति ॥ स्थित-मित्युक्त्या तद्भाष्योक्तस्मृतावपि शेष इति दर्शितम् । स्मृतावस्मादिति पदं पूर्वत्रोत्तरत्र चान्वेतीति मत्वा श्रुतौ प्राणपदस्याऽऽवृत्तिविपरिणामाभ्यामर्थमाह ॥ प्राणादिति ॥ यदित्युक्तिलब्धोक्तिस्तदिति । यदित्यस्याऽऽवृत्या वा यत्तच्छब्दावध्याहृत्य वाऽर्थमाह ॥ यस्मादिति ॥ प्राणस्य प्राणमिति वक्ष्यमाणश्रुत्यनुरोधेन क्रमेणार्थान्तरद्वयमाह ॥ प्राण इत्यादिना ॥ यद्वा द्वितीयोऽपि को हीति वाक्यानुगुणः । तृतीयस्तु प्राणस्येत्यादिश्रुति-स्मृत्यनुगुण इति ध्येयम् ॥ एजतीत्यादिभाष्यं व्याचष्टे ॥ अयमिति ॥ प्रागुक्तमाद्यं श्रुत्यर्थ-मुपेत्याह ॥ वज्रस्येति ॥ उद्यमित्वमेवोद्यतत्वमिति न्यायविवरणदिशोद्यतवज्र इत्युक्तोद्यतपद-प्रयोगतात्पर्यमाह ॥ न चेति ॥ उत्पूर्वस्य यती प्रयत्न इत्यस्य कर्तर्यकारप्रत्यये सति उद्यत उत्कृष्टप्रयत्नवानित्यर्थः । को हीति श्रुत्यर्थस्तु तद्धेतुसूत्रे प्रागेवोक्त इति भावः ॥ सर्वप्रवर्त-केति ॥ यद्यपि श्रुतौ प्राणमिति द्वितीयान्तद्वितीयप्राणस्य प्राणादयो वाक्यशेषादित्यग्रे वक्ष्यमाणदिशा विष्णुत्वेऽपि प्राणस्येत्यस्य न सर्वप्रवर्तकत्वं श्रुतम् । तथा नभस्वत इति स्मृत्यनुरोधाद् यस्मिन्पञ्च पञ्चजना इति प्रतिशरीरन्तस्थत्वोक्त्या सर्वप्रवर्तकत्वमार्थिक-मित्यभिप्रेत्य सर्वप्रवर्तकप्राणेत्युक्तम् । वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाश इति न्यायविवरणे द्वयोः सावकाशत्वमुक्त्वा उद्यमित्वमेवोद्यतत्वमिति लिङ्गस्य तद्विवृतम् । श्रुतेः सावकाशत्वस्य तत्राविवृतत्वाच्चक्रमित्यादिभाष्यं श्रुतेः सावकाशत्वविवरणपरतया व्याख्याति ॥ नन्वित्यादिना ॥ वर्जनात्सर्वदोषवर्जनादिति स्मृतावर्थः ।

यत्तु काठकभाष्ये वज्रवद्भयदं चेति गौणत्वमुक्तं तत्तावताऽपि तद्वाक्यस्य ब्रह्मपरत्वसिद्धेः । इह तु समन्वयसूत्रे प्रतिज्ञातमुख्यार्थत्वाय योग एवोक्त इत्युक्तं चन्द्रिकायाम् । अत एव भाष्यद्वये श्रुतेः सावकाशताया द्वेधा विवृतत्वान्न्यायविवरणेनैतद्विवृतम् । स्मृत्या योगप्रदर्शनस्य कृत्यमाह ॥ न चेत्यादिना ॥ विद्वद्रूढेरिति ॥ ‘विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यत’ इत्युक्तेरिति भावः । एतच्च कर्मनिर्णयटीकायां ‘रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत्’ इत्यस्य न केवलं रूढो नापि केवलयौगिकोऽस्तीत्यर्थ इतीतरेतरद्वन्द्वमाश्रित्य रूढियोगरूप-वृत्तिद्वयसमुच्चयपरत्वेन व्याख्यातत्वात्तदनुरोधेन रूढिमपि वक्तुमुक्तम् । वस्तुतस्तु । श्रुत्यर्थ-निर्णयार्थत्वात्स्मृतेस्तत्र निरूपितोऽर्थो ग्राह्यो वेदवाक्ये तदभावे तु लौकिक इति चन्द्रिकोक्त-दिशा केवलश्रौतस्मार्तयोगस्यापि निरवकाशत्वेन अज्ञरूढितोऽपि प्राबल्यम् । अन्यथा स्मृत्यादौ वैदिकपदानां योगोक्तिरनर्था स्यादिति ध्येयम् । न केवलमार्थिकी रूढिः प्रयोगसिद्धा चेति भावेन प्रयोगमाह ॥ आयुधानामिति ॥ गीतायाम् । वज्रमिति स्थलान्तरे ॥ नन्वेव-मिति ॥ पूर्वं श्रुतिलिङ्गयोर्निरवकाशत्व एव अमृतत्वहेतुवेदनत्वलिङ्गमाक्षिप्तम् । तयो-स्सावकाशत्वेनेतर इत्यत्र ब्रह्मधर्मतया निर्णीतस्याक्षेपकाभावात् सिद्धान्ते साधकं भवत्येवेति भावः ॥ अन्यत्रापीति ॥ शब्दादेवेत्यत्र विश्वदेवोपास्यत्वम् अन्तस्तद्धर्मेत्यादिष्वदृश्यत्व-महाभोगत्वादिकमित्यर्थः । यथा वाऽऽकाशोऽर्थान्तरत्वादीत्यत्र ब्रह्मश्रुतेरत्यागेन लिङ्गान्त-रोक्तिः । एवं तत्र तत्र । अत एव चन्द्रिकायाम् आनन्दमयनयमारभ्य प्रतिनयं तत्तत्प्रकरण-स्थानेकश्रुतिलिङ्गाद्युपदर्शनं कृतम् । प्रपञ्चितं चास्माभिः सङ्क्षेपभाष्यविवृतौ प्रतिनयम् । एतेन भूमेत्यत्र पूर्वपक्षिणाऽऽक्षिप्तस्यैव सम्प्रसादपदोक्तपूर्णसुखत्वस्य भूमा विष्णुरित्यत्र हेतुत्वम् । द्युभ्वाद्यायतनमित्यत्राऽऽक्षिप्तपरविद्याविषयत्वेन प्रकरणादिति प्रकरणस्य वैष्णवत्वोज्जीवन-मित्यादि समाहितं ध्येयम् । फलोक्त्योपसंहरति ॥ अत इति ॥ निरवकाशलिङ्गाभावा-दित्यर्थः । इति हेतोरित्यर्थः ॥

अभिनवचन्द्रिका

श्रूयत इति ॥ अनेन मोक्षसाधनज्ञानविषयप्रतिपादकत्वम्, अस्याधिकरणस्य पूर्वाधिकरणेन सङ्गतिरित्युक्तं भवति ॥ श्रुतिलिङ्गयोरपि तथात्वादिति ॥ ननु मोक्षसाधनीभूतज्ञानविषयत्वं निरवकाशमित्यनुमतं न वा । नेति पक्षे श्रुतिलिङ्गयोरपि तथात्वादिति व्यर्थम् । जात्या श्रुतेः प्राबल्येन श्रुतिमात्रेणैव बाधकसम्भवात् । आद्ये मोक्षसाधनीभूतज्ञानविषयत्वस्यौपचारि-कत्वापातेन विष्णुज्ञानादेव मोक्ष इति पूर्वोक्ताक्षेपानुपपत्तिरिति चेत्, उच्यते । पूर्वपक्षिणो मोक्षसाधनीभूतज्ञानविषयत्वं लिङ्गं निरवकाशमित्यनुमतमेव । न चेन्द्रायुधे मोक्षजनक-ज्ञानविषयत्वलिङ्गस्यौपचारिकत्वापातेन विष्ण्वेकनिष्ठात्वाविघातात् पूर्वोक्ताक्षेपानुपपत्तिरिति वाच्यम् । भावानवबोधात् । तथा हि इदमिह पूर्वपक्षी मन्यते ‘तमेवं विद्वानमृत’ इति श्रुत्या मोक्षजनकज्ञानविषयत्वं तावद् भगवदेकनिष्ठमित्यभ्युपगन्तव्यम् । ‘नान्यः पन्था’ इति निषेधात् । ‘तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत’ इति वचनात्, श्रुतिः प्राणिनां निःश्रेयसाय प्रवृत्ता यज्ज्ञानात्प्राणिनां मोक्षस् तदेव प्रतिपादयतीत्यवश्यमभ्युपेयम् । ‘यदिदं किं च जगत्सर्वं प्राण एजति निःसृतम्’ इति वाक्यं तु निरवकाशवज्रश्रुतिर् उद्यतत्वलिङ्गबलादिन्द्रायुधस्यैव प्रतिपादकं, न तु विष्णोः । ततश्च ‘य एतद्विदुरमृतास्ते भवन्ति’ इत्युक्तमोक्षजनकज्ञानविषयत्वं तस्याऽभ्युपेयम् । इयांस्तु विशेषः भगवदिन्द्रायुधयोर् मोक्षजनकज्ञानविषयत्वं समानम् । परन्तु भगवति तत्फलोपहितं, तज्ज्ञानादेव सर्वेषां मोक्षात् । इन्द्रायुधे तु अरण्यस्थदण्डवत् स्वरूपयोग्यम् । एवं च सति मोक्षजनकविषयत्वस्य लिङ्गस्य निरवकाशत्वं फलोपधानापेक्षया, स्वरूपयोग्यतापेक्षयाऽऽक्षेपश्चोपपन्नः । सिद्धान्तिमते इन्द्रायुधे योग्यताया अप्यभावेन तस्यानिष्टत्वादिति । मूले ‘प्राणे’ इति सप्तम्यन्तपदात् परतः ‘स्थितम्’ इति शेषो बोध्य इत्यभिप्रायेण व्याचष्टे – प्राणे स्थितमिति ॥ श्रुतौ ‘प्राण’ इति प्रथमान्तं ततश्च प्राणो जगच्च यस्मान्निःसृतं, चेष्टते चेति श्रुतेर्योजनान्तरमाह – प्राणः सर्वमिति ॥ श्रुतौ ‘प्राण’ इति पदं प्रथमान्तमेव, तथापि जगदपेक्षया प्राणस्य कश्चनातिशयो वर्तत इत्यभिप्रेत्य श्रुतिं प्रकारान्तरेण व्याचष्टे– सर्वं जगदिति ॥ श्रुतेरपि विष्णाववकाशमिति ॥ श्रुतित्वेनाभिमतस्य वज्रशब्दस्य योगेन विष्णाववकाशं दर्शयतीत्यर्थः । एतेन वज्रशब्दस्य रूढेरप्रदर्शितत्वाच्छ्रुतेरवकाशं दर्शयतीत्ययुक्तमिति परास्तम् ।

नन्वत्र सूत्रे श्रुत्यनुगमाय ‘एजनात्’ इति वक्तव्यं, न तु ‘कंपनात्’ इति चेत्, मैवम् एजनादित्युक्ते एजनमेव हेतुतया विवक्षितमिति विज्ञायेत, तन्मा विज्ञायि । ‘य एतद् विदु’-रित्युक्तलिङ्गमपि विवक्षितमिति ज्ञापनार्थत्वात् । ‘कंपनात्’ इत्युक्ते हि श्रुत्यनुगमाय ‘एजनात्’ इति वक्तव्ये कम्पनात्’ इति यदाह, तज् ज्ञापयत्याचार्यः, ‘अन्यदपि लिङ्गमिह विवक्षितम्’ इति शिष्या जानीयुरिति । य एतद् विदुरित्युक्तं लिङ्गं विहायेति ॥ नन्विदमचोद्यं चोद्यते ‘य एतद् विदुः’ इत्युक्तमोक्षजनकज्ञानविषयत्वस्येहाक्षेप्यत्वात् । न हि यदेवाक्षिप्यते तत्साधनाय तदेव हेतुरिति शक्यते वक्तुम् । अन्योन्याश्रयत्वात् । मोक्षजनकज्ञानविषयत्वस्य विष्ण्वेक-निष्ठत्वसिद्धौ वज्रश्रुतेरिन्द्रायुधपरत्वाभावसिद्धिः । तत्सिद्धौ च वज्रस्य विष्णुत्वसिद्ध्या मोक्ष-जनकज्ञानविषयत्वस्य विष्णुमात्रनिष्ठत्वसिद्धिरितीति चेत्, उक्तं किमुक्तम् । यदिह पूर्वपक्षिणो निरवकाशतयाऽभिमतं फलोपहितमोक्षजनकज्ञानविषयत्वं, तदेवेह हेतुतया किं न विवक्षितमिति चोद्यत इति । न चैवं सति अन्योन्याश्रयो भवति । अयं वज्री विष्णुः, ‘अमृतास्ते भवन्ति’ इति फलोपहितमोक्षदातृत्वाभिधानादिति प्रयोगाङ्गीकारात् । तदविहायैवेति ॥ अत एव सूत्रे श्रुत्यनुगमाय ‘एजनात्’ इति वक्तव्ये ‘कम्पनात्’ इत्युक्तम् । श्रुत्यनुगमं विहाय कम्पाना-दित्युक्तेः, लिङ्गान्तरमप्यूह्यमित्यभिप्रायवत्त्वादिति भावः ।

पूर्वपक्षस्तु– ‘यदिदं किं च’ इत्यत्रोक्तं वज्रम् इन्द्रायुधमेव भवेत् । वज्रश्रुतेः, उद्यतत्व-लिङ्गाच्च । तध्द्यायुध एवोपपद्यते । न च वज्रज्ञानेन मोक्षोक्तेर् विष्णुरिति वाच्यम् । लिङ्ग-मात्राच्छ्रुतिलिङ्गयोः प्राबल्यात् । न च लिङ्गस्य निरवकाशतया प्राबल्यम् । श्रुतिलिङ्गयोरपि निरवकाशत्वात् । न चैवं सति मोक्षजनकज्ञानविषयत्वलिङ्गस्य विष्ण्वेकनिष्ठत्वाऽविघातादस्य वज्रस्येन्द्रायुधत्वं नानिष्टत्वमिति वाच्यम् । फलोपहितस्य मोक्षजनकज्ञानविषयत्वलिङ्गस्याऽ-विघातेऽपि तद्योग्यत्वरूपलिङ्गस्य विष्ण्वेकनिष्ठत्वविघातात् । ततश्च वज्रमिन्द्रायुधमेवेति न विष्णुज्ञानादेव मोक्ष इति ।

सिद्धान्तस्तु – अयं वज्रो भगवानेव । एजतीति कम्पनवचनात् । ‘अमृतास्ते भवन्ति’ इति फलोपहितमोक्षजनकज्ञानविषयत्वाभिधानाच्च । न चोद्यतत्वलिङ्गविरोधः । उद्यमित्वार्थत्वेन सावकाशत्वात् । न च वज्रश्रुतिविरोधः । ‘वर्जनाद् वज्र उच्यत’ इति वचनात् । तस्यापि सावकाशत्वात् । ततश्च विष्णुरेव वज्र इति तज्ज्ञानस्यैव मोक्षजननयोग्यता नान्यज्ञानस्येति सिद्धम् ।

वाक्यार्थमुक्तावली

लोकप्रसिध्या भगवल्लिङ्गेन चेति ॥ नन्वेवं प्राणादिशब्दानामप्युभयत्र प्रसिद्धिस्स्यात् । श्रीपतित्वादिलिङ्गेन लोकप्रसिध्या च तदुपपत्तेरिति चेन्न । प्रथमपादे लिङ्गेन नामसमन्वयो शिक्षिते तन्न्यायलोकतश्चान्यत्रप्रसिद्धत्वात् । उभयसाधारण्यमिति विवक्षितत्वात् । न च प्रथम-पादात् पूर्वलिङ्गादिना नामसमन्वयः शिक्षितो येन तन्न्यायेन तत्पादीयशब्दानां भगवत्परत्वस्य सिद्धत्वाद् लोकप्रसिद्ध्योभयत्रप्रसिद्धत्वं स्यात् । न चैवं तृतीयपादवैयर्थ्यं प्रथमपादन्यायेन वज्रादिनाम्नां समन्वयस्य सिद्धत्वेऽपि पुनः समन्वये प्रथमपादीयशब्दानां पुनः समन्वय प्रसङ्गाच्चेति वाच्यम् । तृतीयेऽस्मिन् पादे स्वतः प्रसिद्धोभयप्रसिद्धानां पादद्वयापादितोभय-प्रसिद्धानां च स्वतोऽनवसेयावधारणानामन्यत्र प्रसिद्धिं त्याजयित्वा ब्रह्मण्येव समन्वय इत्यवधारणार्थत्वात् । न चैवं नामपादीयन्यायैरादित्यादिनाम्नां ब्रह्मणि प्रयोगस्योक्तप्रायत्वात् । तत्साहित्येन सर्वगतत्वलिङ्गानामप्युभयत्र प्रसिद्धता स्यादिति वाच्यम् । ततः पूर्वं नामपादे लिङ्गसमन्वयस्यानुक्ततया सर्वपुरुषादिभिरादित्ये प्रसिद्धलिङ्गैर् आदित्यशब्दस्यान्यत्र प्रसिद्धे-र्जीवनाद् वज्रप्रसिध्यै उद्यतत्वादिलिङ्गैस्तु न वज्रादिशब्दानामन्यत्र प्रसिध्युज्जीवनमितः पूर्वं लिङ्गपादे उद्यतत्वादिलिङ्गानामपि समन्वयस्योक्तप्रायत्वात् । न चैवं बीजाभावात् पूर्वपक्षानुदयः सावकाशलिङ्गैरप्यवधारणपूर्वपक्षसम्भवात् । अत एवोक्तमनुव्याख्याने । ‘आहोभयत्र गतत्वं च स्यात्’ अतो लिङ्गशब्दयोरित्यास्ताम् । प्रपञ्चविस्तारस्तु चन्द्रिकायाम् । या श्रुत्यादिसङ्गति-स्तु । अव्यवहितसङ्गतिस्तु पूर्वं शूद्रश्रुत्या पूर्वपक्षितेरयित्वादिलिङ्गेन श्रुतेः सावकाशत्वमुक्तम् इह तु तद्वैषम्येन वज्रश्रुत्योद्यतत्वादिलिङ्गेन च पूर्वपक्षितेति प्रबलकल्पकत्वलिङ्गेनैव वज्रश्रुतिः सावकाशमिति पूर्वन्यायेनैव सिद्धान्तप्रवृत्तेरिति ध्येयम् ॥

यद्वा अधिकरणद्वयस्य प्रासङ्गिकत्वात् । वामनादिईशानशब्दसमन्वयोक्त्या लब्धप्रमाणादि-प्रेरकत्वलिङ्गस्येह सिद्धान्तत्वेन उपादानात्तेन अनन्तरसङ्गतिरिति बोध्यम् । यथोक्तं संक्षेपे प्राणप्रेरक इति ॥ मोक्ष इत्युक्तमिति ॥ नेतरोनुपपत्तेरित्यत्रेत्यर्थः ॥ किं विष्णुरिति ॥ अत्र वज्रं किमिन्द्रायुधम् उत विष्णुरिति चिन्ता । तदर्थं किं वज्रस्य श्रुत्योद्यतत्वादिलिङ्गानुसारेण कम्पकत्वादिब्रह्मलिङ्गं नेत्यन्तविपरीतमिति । तदर्थं वर्जनाद्वज्रमिति स्मार्तयोगे श्रौतवज्रशब्दस्य रूढित्यागोऽपि किं न युक्तमुत युक्तमिति । उद्यतवज्रज्ञानादिति भाष्यसूचितं पूर्वपक्षमात्रम् इन्द्रेति रूढित्वादिति एतेन योगेन सावकाशत्वमयुक्तमिति सूचयति तद्धीति ॥ तेनेन्द्रो वज्रमुद्यच्छन् । यथा उद्यतायुधदोर्दण्डा इत्यादावायुधे प्रसिद्धत्वादिति हेरर्थः । द्वयोरुक्तोरुपयोगं वक्तुमाह न चेति ॥ द्वयोरपि निरवकाशत्वोक्तेः फलमाह– न च लिङ्गस्येति ॥ श्रुतेर्योगेन सावकाशत्वेन च प्रबलश्रुत्यैव दुर्बललिङ्गबाधसम्भवेऽप्यभ्युच्चयेन लिङ्गोक्तिरिति ज्ञेयम् । प्राण इति सप्तमीमङ्गीकृत्याधिकरणसप्तमीबलाल्लब्धमाह ॥ स्थितमिति ॥ निःसृतशब्दबला-न्निमित्तसप्तमीत्वं च विवक्षित्वाह– प्राणादिति ॥ यस्मादिति ॥ यदित्यस्यावृत्तिरिति भावः । एवं प्राणाख्ये तु हरौ यस्मादेजत्यस्माच्च निःसृतम् । वज्रवद्भयदं यैवेति काठकभाष्यानुसारेण व्याख्याय ‘को ह्येवान्यात्’ ‘प्राणस्य प्राणं’ ‘नभस्वतोऽपि’ इति वक्ष्यमाणश्रुतिस्मृत्यनुरोधेन प्रकारान्तरेण द्वेधा व्याचष्टे ॥ प्राण इत्यादिना ॥ तृतीय व्याख्यानेऽपि यदित्यस्यावृत्तिः । यच्छब्दश्रवणात् प्राणवाचकतच्छब्दलाभ इति द्रष्टव्यम् । वज्रो भगवानित्यनुक्त्वा उद्यतेति युक्त्या लिङ्गं च सावकाशमिति भावेनाह– चेति वेति ॥ उद्यमीति ॥ उत्पूर्वस्य यतीप्रयतन इत्यस्य कर्तर्यकारप्रत्यये सति उद्यत उत्कृष्ट प्रयत्नवानित्यर्थ इति भावः ।

यद्यपि प्राणस्येति ॥ षष्ट्यन्तनिर्दिष्टस्य मुख्यप्राणस्य न सर्वप्रवर्तकत्वं प्रतीयते । तथापि न स्वत इति स्मृत्यनुरोधात् ‘यस्मिन् परं पञ्च पञ्च जना’ इति प्रतिशरीरस्थत्वोक्त्यार्थाद्वा सर्वप्रवर्तकत्वलाभ इति बोध्यम् ॥ सावकाशत्वेऽपीति ॥ उपपदविशेषमन्तरा धात्वर्थ-पर्यालोचनया सावकाशत्वेऽपीत्यर्थः । अनिर्णय इति रूढ्या श्रुतेः प्राबल्यं निरवकाशतया लिङ्गस्येति साम्यादनिर्णय इति ॥ विद्वद्रूढेरिति ॥ स्मृतौ योगप्रदर्शनपूर्वं हेति नामेति रूढ्युक्ते विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते इत्युक्तेरिति भावः । न केवलमार्थिकी रूढिः प्रयोग-सिद्धा चेति भावेनाह आयुधानामिति ॥ उक्तलिङ्गं परविद्याविषयत्वरूपम् अन्यत्रेति ॥ यद्वा शब्दादेवेत्यत्र विश्वदेवोपास्यत्वम्, अन्तस्तद्धर्मेत्यादिष्वदृश्यत्वमहाभोगत्वादिकम् आकाशोऽ-र्थान्तरेत्यग्रे ब्रह्मश्रुत्यत्यागेन लिङ्गान्तरोक्तिः । भूमनये पूर्वपक्षिणाक्षिप्तस्यैव सम्प्रसादि-तशब्दितपूर्णसुखत्वस्य भूमत्वसाधकतयोक्तिः । द्युभ्वादिनये आक्षिप्तपरविद्याविषयत्वेन प्रकरणादिति प्रकरणस्य वैष्णवत्वोज्जीवनमिति बोध्यम् । ननु काठकभाष्ये वज्रवद्भयदं चैवेति वज्रशब्दस्य भयप्रदत्वे दृष्टान्तीभूतेन्द्रायुधपरत्वस्वीकारात् । कथमिह भगवत्परत्वोक्तिरिति चत्तत्र वज्रशब्दस्यैव गौण्या भगवत्परत्वम् अत्र तु समन्वयसूत्रप्रतिज्ञामुख्यार्थत्वाय योगवृत्तिरुक्तेत्युभयत्र भगवत्परत्वानपायात् । भाष्ये चंक्रमणात् । नित्यविक्रान्तिरूपे वर्जनाद्दोषवर्जनाद्दोषिभि-र्वर्जनादिति वार्थः । सूत्रे योग्यतया वज्र इत्यन्वीयते । तत्वित्यस्ति एजतीति कम्पवचना-ज्जगच्चेष्टकत्वलिङ्गाद्वज्रो ब्रह्मैवेत्यर्थः । सूत्रे श्रुत्यनुसारादेजतीति वक्तव्ये कम्पनादित्युक्तिस्तु भयादस्याग्निस्तपति भयात्तपति सूर्य इत्यादि वाक्यशेषे सर्वकम्पकत्वश्रवणात् तत्सूचनार्थमिति प्रमेयमुक्तावल्यामस्माभिः सत्तर्कदीपावल्यां वाक्योदाहरणपूर्वं निपुणतरं प्रतिपादितम् ।

तत्त्वसुबोधिनी

अत्र पूर्ववैषम्येण वा पूर्वाक्षेपेण वा पूर्वपक्षोत्थानादनन्तरसङ्गतिः ॥ वज्रश्रुतेरिति ॥ रूढेश्च योगापेक्षया बलवत्त्वादिति भावः । नन्विदं विष्णुलिङ्गमेव किं न स्यादित्यत आह ॥ तद्धीति ॥ तथा च लिङ्गं निरवकाशमिति भावः ॥ तथात्वादिति ॥ निरवकाशत्वादित्यर्थः । अत्र प्राण इति सप्तमीमङ्गीकृत्य तद्बलात् स्थितमित्यध्याहृत्यार्थत्वेन यदित्यावृत्या यदिदं किंचेति वाक्यं योजयति ॥ प्राणे स्थितमित्यादिना ॥ सर्वं जगदिति तृतीये व्याख्याने यदित्यस्यावृत्तिः । यच्छब्दबलात् प्राण वाचकतया स इति तच्छब्दलाभ इति द्रष्टव्यम् । अत्र को ह्येवान्यादिति भाष्यम् उदाहरिष्यमाण श्रुत्यन्तरेणाद्यं व्याख्यानद्वयम् । प्राणस्य प्राणम् । नभस्वतोऽपि सर्वाःस्युरिति । प्रमाणानुसारेण तृतीयं व्याख्यानमिति ज्ञेयम् । शङ्कते । लिङ्गमात्रेण कथमयं निश्चय इति । उत्तरमाह ॥ लिङ्गस्येति ॥ सावकाशत्वोक्ति-श्रुतिलिङ्गयोरिति ॥ तथा च पूर्वपक्षप्रापकाभावेन मोक्षजनकज्ञानविषयत्वस्यान्यगतत्वशङ्काया अयोगेन सिद्धनिर्णायकत्वसम्भवादिति भावः ॥ एतदन्यत्राप्यनुसन्धेयमिति ॥ अत एव प्राण इत्यादौ पूर्वपक्षप्रापकश्रुत्यादीनां सिद्धान्ते सावकाशत्वात् पूर्वाधिकरणसिद्धसमन्वयमहाभोग-त्वादिति लिङ्गादेरेतत्प्राणस्य विष्णुत्वनिश्चयोपपत्तेः किं लिङ्गान्तरेणेत्यतस् तत्रापि तदविहायैव लिङ्गान्तरमुक्तमिति अनुसन्धेयमित्यर्थः ॥

वाक्यार्थमञ्जरी

भगवल्लिङ्गेनेति ॥ मोक्षसाधनज्ञानविषयत्वरूपेणेत्यर्थः ॥ उद्यतत्वेति ॥ उद्धृत्य धृतत्वेनेत्यर्थः ॥ तद्धीति ॥ तेनेन्द्रो वज्रमुदयच्छत् । उद्यदायुधदोर्दण्डा इत्यादावायुधे प्रसिद्धिं हिशब्देन दर्शयति ॥ प्राणे स्थितं प्राणान्निःसृतमिति ॥ प्राण इति सप्तमीमङ्गीकृत्य तद्बलात् स्थितमित्यध्याहृत्य निसृतशब्दानुरोधात्प्राणादित्यध्याहृत्य निमित्तसप्तमीत्वं वा विवक्षयित्वा यस्मादित्यर्थत्वेन यदित्यावृत्य यदिदं किंचेति वाक्यं योजितमिति ज्ञातव्यम् ॥ सर्वं जगदिति ॥ तृतीयव्याख्याने यदित्यस्यावृत्तिर् यच्छब्दबलात्प्राणवाचकतया स इति तच्छब्द-लाभ इति द्रष्टव्यम् । अत्र को ह्येवान्यादिति भाष्ये उदाहरिष्यमाणश्रुत्यनुसारेणाद्यव्याख्यानद्वयं प्राणस्य प्राणं नभस्वतोऽपि सर्वाः स्युरिति प्रमाणानुसारेण तृतीयव्याख्यानं द्रष्टव्यम् ॥ ॐ कम्पनात् ॐ ॥ वज्रमुद्यतमित्युक्तवज्रो भगवानेव एजतीति जगच्चेष्टकत्वरूपकम्पनवचना-दित्यर्थः ॥ उद्यमित्वेति ॥ उत्कृष्टप्रयत्नवत्वेत्यर्थः । तस्य उत्पूर्वस्य यते रूपत्वादिति भावः । शङ्कते ॥ लिङ्गमात्रेणेति ॥ परिहरति ॥ लिङ्गस्येति ॥ भाष्ये चक्रंमणात् पादविक्षेपाद् वर्जनाद्दोषवर्जनात् प्रयोगं चाह ॥ आयुधानामिति ॥ प्रहरणोत्तमम् आयुधोत्तमम् ॥ श्रुतिलिङ्गयोः सावकाशत्व इति ॥ तथा च पूर्वपक्षप्रापकाभावेन मोक्षजनकज्ञानविषयत्वस्य अन्यगतत्वशङ्कायोगेन सिद्धान्तनिर्णायकत्वासम्भवान्न तत्त्यागेन चेष्टकत्वग्रहणं युक्तमिति भावः ॥ एतदन्यत्राप्यनुसन्धेयमिति ॥ यत्र पूर्वाधिकरणसिद्धसमन्वयश्रुतिलिङ्गादेर् विष्णुनिष्ठत्वाक्षेपः पूर्वपक्षप्रापकश्रुत्यादेः सिद्धान्ते विष्णाववकाशाभिधानं च तत्र पूर्वाधिकरणसिद्धस्य श्रुति-लिङ्गादेराक्षेपायोगेन विष्णुमात्रनिष्ठत्वानपायात्सिद्धान्तनिर्णायकत्वं सम्भवतीत्यनुसन्धेयमित्यर्थः। यथा त एव प्राण इत्यादौ प्राणादिशब्दानां विष्णाववकाशे महायोग इत्युक्तपूर्णानन्दत्वादेरिति ॥

॥ इति कम्पनाधिकरणम् ॥