०८ देवताधिकरणम्

ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ

८. देवताधिकरणम्

सूत्रभाष्यम्

मनुष्याणामेव वेदविद्या(याम)धिकार इत्युक्तम् । तिर्यगाद्यपेक्षयैव मनुष्यत्व-विशेषणमुक्तं, न तु देवाद्यपेक्षयेत्याह–

॥ ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ॥ २६ ॥

तदुपरि मनुष्याणां सतां देवादित्वप्राप्त्युपरि । सम्भवति हि तेषां विशिष्टबुद्ध्यादि-भावात् । तिर्यगादीनां तदभावादभावः । तेषामपि यत्र विशिष्टबुद्ध्यादिभावस्तत्राविरोधः । निषेधाभावात् । दृश्यन्ते हि जरितार्यादयः ॥

सत्तर्कदीपावली

अत्र मनुष्याधिकारत्वादित्युक्तेऽप्यर्थित्वसामर्थ्यादिमत्वेन देवादीनां वेदोक्तब्रह्मोपासनाधि-कारसम्भवान्मध्ये वामनमासीनमित्यादिश्रुत्युक्तत्वाच्च नात्राधिकारस्तेषां वार्यः । इदानीन्तन-देवानामुत्पत्तिमत्वादुत्पत्तेः प्राक् ‘आत्मा वा ओ द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यादिशास्त्रं कथं तानधिकरोति कथं च तदुद्देशेन हविर्दानं तदानीमिति नाशङ्कनीयम् । ‘यत्र पूर्वे साध्या सन्ति देवा’ इति पूर्वमपि देवतान्तरसद्भावश्रुतिविरोधात् । तदाह मनुष्याणां सतां देवादित्वप्राप्त्युपरीत्यस्य देवादिपदयोग्यानां मनुष्यादीनां तत्तत्साधनानुष्ठानेन देवादिपदप्राप्तेर् उपर्यपि वेदोक्तब्रह्मोपासनाधिकारोऽस्तीत्यर्थः । तिर्यगादीनामित्यत्रादिशब्देन स्थावरग्रहणम् । दृश्यन्ते हि जातिस्मरणयोगात्सूक्तद्रष्टृत्वेन भारतादिषु जरितार्यादयः पक्षिणः । अतो मनुष्येभ्योऽन्योऽपि वेदोक्तब्रह्मोपासनाधिकारिदेवताङ्गीकारो न घटते । वेदानां नित्यत्वाद्देवानां विनाशित्वात् ।

तत्त्वप्रदीपिका

अथेदानीं प्रसङ्गादधिकारचिन्ता क्रियते । तिर्यगादिव्यावृत्त्यपेक्षयैव मनुष्यत्वविशेषण-मुक्तम् । न तु देवादिव्यावृत्त्यपेक्षयाऽपीति मन्तव्यम् । न ह्यत्र मनुष्यशब्देन मनुष्यमात्रविवक्षा । मर्त्योत्तमानामपि साधकानां मननादिशीलानां मनुष्यत्वात् । अत एव हि तदुपरीति सूत्रपदं मनुष्यत्वादुपरीति व्याचष्टे । ‘तदुपर्यपि बादरायणस्सम्भवात्’ । साधकानां सताम् इन्द्रादि-पदयोग्यानां स्वपदप्राप्तिकारणभूतविद्याकर्मसामग्रीयोगेन तत्तत्प्रदप्राप्तेरुपरितनकालेऽपि वेद-विद्यायामधिकारोऽस्तीति भगवान्बादरायणो वक्ति । तदधिकारसन्देहापोहतात्पर्यज्ञापनार्थ-मधिकाराधिक्यज्ञप्तिदार्ढ्यार्थं च बादरायणः स्वयमेव वक्तीत्याह । ननु नैवं भाष्यकार आह । सत्यम् । अनुक्तोऽपि तदभिप्रायो वर्ण्यते । सूत्रसिद्धं हि बादरायणपदम् । ‘यत्रानवसरोऽन्यत्र’ इत्युक्तन्यायसिद्धं वक्तिपदम् । नहि महतामतिस्पष्टार्थव्याख्यानचापलशीलता भवति । सर्वत्र चानुसन्धेयोऽयं न्यायः यत्र सूत्रपदानि मुखतः सिद्धार्थानि । तिर्यगादीनां तेषामपीत्यादिरपि-पदव्याख्या । तेषां मध्येऽपि येषु विशिष्टबुद्धिवागादिभावस्तेष्वविरोधो विशेषलक्षणभावे निषेधाभावात् । दृश्यन्ते हि जरितार्यादयस्तिर्यञ्चोऽपि ‘अयमग्ने जरिता’ इत्यादिसूक्तद्रष्टारः ॥

तत्त्वप्रकाशिका

अत्र देवानां ब्रह्मविद्याऽधिकारसमर्थनादस्ति शास्त्रसङ्गतिः । प्रासङ्गिकत्वान्नाध्यायादि-सङ्गतिर्गवेषणीया । श्रुत्यादिसङ्गतिं विषयसंशयतद्बीजानि सूचयति ॥ मनुष्याणामिति ॥ ‘मनुष्याधिकारत्वात्’ इति मनुष्याणामेव वेदविद्याधिकार इत्युक्तम् । स च यदि न देवानां स्यात्तदा ‘विश्वेदेवा उपासते’ इत्यादि श्रुत्यप्रामाण्यं प्रसज्येत इत्यवश्यं विचार्यः । स वेदविद्याधिकारो विषयः । देवानामस्ति न वेति सन्देहः । मनुष्याणामेवेत्युक्तिर्विश्वेदेवा उपासत इति श्रुतिश्च सन्देहबीजमिति भावः । न च श्रुत्युक्त्योरसाम्यादसन्देहबीजत्वम् । उक्तेरप्यङ्गुष्ठमात्रश्रुतिमूलत्वात् । न देवानां वेदविद्याधिकार इति पूर्वः पक्षः । तथाहि । किं देवा अनादिनित्या उत विद्यादिना पदप्राप्तिमुक्तिमन्तः । आद्ये न वेदविद्याधिकारः । अर्थी समर्थो विद्वानधिक्रियत इति न्यायात् । तेषां चार्थित्वाभावात् । न ह्यनादितः प्राप्तपदानां मोक्षशून्यानां च विद्याभिः प्रयोजनमस्ति येनार्थिता स्यात् । न द्वितीयः । अमराणां मुक्त्याद्यङ्गीकारे कर्मादिविरोधापातात् । अतो देवानां वेदविद्याधिकाराभावान्न तदुपास्यत्वलिङ्गं विष्णोः सम्भवति । अथ सन्देहबीजं विघटयन् सिद्धान्तयितुं सूत्रमवतारयति ॥ तिर्यगादीति ॥ मनुष्यपदं विशिष्टबुद्ध्यादिरहिततिर्यगादिव्यावृत्त्यर्थं प्रयुक्तं न तु देवतादिव्यावृत्त्यर्थमित्यभिप्रेत्य देवानामधिकारमाहाऽऽचार्यो बादरायण इत्यर्थः । सूत्रं व्याचष्टे ॥ तदिति ॥ देवानामपि वेदविद्याधिकारो विद्यत एव । विशिष्टबुद्ध्यादेरधिकारोपयोगिनो देवेषु विद्यमानत्वेन तेषामधिकारसम्भवात् । न चोक्तप्रकारेण देवानामर्थित्वाभावात्सामर्थ्यविद्वत्तासत्त्वेऽप्यधि-काराभाव इति वाच्यम् । विद्याकर्मभ्यां योग्यमनुष्याणां देवादित्वप्राप्त्यभ्युपगमेन विद्याभिस्तेषां मोक्षसिद्धेरिति भगवान् बादरायणो मन्यत इत्यर्थः । विप्रतिपत्तिसूचनाय बादरायणपदम् । न देवा वेदविद्याधिकारिणोऽमनुष्यत्वात्तिर्यगादिवदित्यत आह ॥ तिर्यगादीनामिति ॥ न तिर्यगादीनाममनुष्यत्वप्रयुक्तोऽधिकाराभावोऽपि तु विशिष्टबुद्ध्यादिराहित्यनिबन्धन एव । तथा च विशिष्टबुद्ध्यादिराहित्यं व्यावर्तमानं पक्षात्स्वव्याप्यमधिकाराभावं च व्यावर्तयतीति भावः । विशिष्टबुद्ध्यादिमतामपि तिरश्चां न वेदविद्याधिकार इति व्याप्तिविधुरोऽयमुपाधिरित्यत आह ॥ तेषामिति ॥ अविरोधोऽधिकाराङ्गीकारेऽपीति शेषः । कथं तिरश्चां वेदविद्याधिकाराविरोध इति चेत् । किं निषेधात्तिरश्चामधिकारायोगोऽदर्शनाद्वा । आद्यं दूषयति ॥ निषेधेति ॥ अनेन निषेधराहित्ये सति विशिष्टबुद्ध्यादिमत्त्वमधिकारे प्रयोजकमिति सूचितं भवति । तेन शूद्रादौ व्यभिचारपरिहारः । द्वितीयं निराह ॥ दृश्यन्ते हीति ॥ वेदाधिकारितयेति शेषः । अनेनैव स्वप्रयुक्तानुमानस्य मनुष्यत्वोपाधिरप्यपोढो भवति ॥

गुर्वर्थदीपिका

योग्यमनुष्याणामित्यत्र देवतापदयोग्यानां कर्मवशान्मनुष्यजन्मसु जातानामित्यर्थः । विप्रतिपत्तिसूचनायेत्यत्र जैमिनिः प्रकारान्तरेण वक्ष्यतीति विप्रतिपत्तिसूचनाय बादरायणपद-मित्यर्थः । विविधा प्रतिपत्तिर् विप्रतिपत्तिर् न तु विरुद्धा प्रतिपत्तिः । व्यासजैमिनिमतयो-र्विरोधाभावात् । दैवतानि प्रथमानि मुख्यानि धर्माणि लोकधारकाणि आसन्नित्यस्य प्रतिपदव्याख्यानम् ।

भावबोधः

प्रासङ्गिकत्वादिति ॥ मनुष्याधिकरत्वादित्यनेन देवाद्यधिकारादेः स्मारितत्वादिति भावः । ननु स्मृतस्योपेक्षानर्हत्वं प्रसङ्गसङ्गतिः । तथापि कथमस्य उपेक्षानर्हत्वमित्यतस्तत्प्रदर्शनपरत्वेन मनुष्याणामेवेति भाष्यं व्याचष्टे ॥ मनुष्याधिकारत्वादिति ॥ यद्यपि तृतीयाध्याये ‘असार्व-त्रिकी’ इत्यादावपरोक्षज्ञाने देवादीनामधिकारसदसद्भावचिन्तावदियमपि चिन्ता तत्रैव कर्तव्या । तथापि पूर्वाधिकरणस्थमनुष्यग्रहणस्य विशिष्टबुद्ध्यादिहीनतिर्यगाद्येव व्यावर्त्यं; न तु देवादीत्यनेन रूपेणेयं चिन्ता न तृतीये सङ्गता । किन्त्वत्रैव । यथा ‘भोक्त्रापत्तेः’ इति मुक्ते-शयोर्भेदसमर्थनं फलविचाररूपेण चतुर्थसङ्गतमपि युक्तिविरोधपरिहाररूपेण द्वितीये सङ्गतं तद्वदिति भावः । ‘उपासत’ इत्यादीति ‘आदि’पदेन ‘तं भूतिरिति देवा उपासाञ्चक्रिरे’ इत्यादिग्रहणम् ॥ देवानामिति ॥ अत्र देवानां ब्रह्मविद्यायामधिकारो नास्त्युतास्तीति चिन्ता । तदर्थं वेदविद्याधिकारप्रयोजकं किं मनुष्यत्वमुत विशिष्टबुद्ध्यादिमत्त्वमिति । तदर्थं विशिष्ट-बुद्ध्यादिमत्त्वस्याधिकारप्रयोजकत्वेऽपि देवानां किं मोक्षाद्यर्थिता न युक्ता उत युक्तेति । तदर्थं ब्रह्मादिदेवतापदस्याद्यन्तवत्त्वे पूर्वोत्तरकालयोर्देवतोद्देशेने क्रियमाणस्य कर्मणो वैयर्थ्यरूपो देवतासत्त्वप्रतिपादकवेदाप्रामाण्यरूपविरोधः प्राप्नोत्युत न प्राप्नोतीति । तदर्थं देवाः किमेकैक-व्यक्तिकाः किं वानाद्यनन्तकालेषु प्रवाहतोऽनेकव्यक्तिका इति । तदर्थमनेकव्यक्तिकत्वेऽपि देवतापदस्थानां प्रतिकल्पं किं भिन्नभिन्ननामरूपवत्त्वमुत सर्वेषु कल्पेषु समाननामरूपवत्त्व-मेवेति । तदर्थं समाननामरूपविशिष्टदेवतापदस्यानादिनित्यत्वे प्रमाणं नास्त्युतास्तीति । मनुष्याणामेवेत्युक्तिरिति । पूर्वाधिकरणे सूत्रभाष्ययोर्मनुष्याधिकारत्वादित्यत्र बुद्ध्यादिविवेकेन मनुष्याणामेवाधिकारित्वादित्यभिप्रेतम् । अन्यथा तथापि नाङ्गुष्ठमात्रत्वं विष्णोरिति शङ्का-परिहारत्वं न स्यात् । अत एवात्र भाष्ये मनुष्याणामेवेत्युक्तमिति भावः । अत एव पूर्वाधिकरणे टीकायां मनुष्याणामेव वेदविद्योपासनेत्युक्तम् । न तदुपास्यत्वलिङ्गं विष्णोः सम्भवतीति । तथा च पूर्वाधिकरणे पूर्वपक्षप्रापकलिङ्गस्य विष्णाववकाशोक्तिर्न सम्भवतीति भावः । ‘दैवतैरपि ज्ञेयो न वेदैः’ इति संक्षेपोऽप्यधिकरणतात्पर्यप्रदर्शनपरः न फलितलिङ्गसमन्वयप्रदर्शनपर इति ज्ञातव्यम् । सन्देहबीजं विघटयन्निति । तिर्यगाद्यपेक्षयैवेत्यादिभाष्येण मनुष्याणामेवेत्यन्ययोग्य-व्यवच्छेदपरैवकारव्यावर्त्यविवेककथनेन सावधारणोक्तेर्देवानामधिकाराभावरूपशङ्काद्युप-स्थापकत्वाभावोक्तेरिति भावः । तिर्यगाद्यपेक्षयेति भाष्यार्थस्य सूत्रे कण्ठतोऽनुक्तेराह ॥ मनुष्यपदमिति ॥ अत एवोक्तमभिप्रेत्येति ॥ विद्याभिस्तेषां मोक्षसिद्धेरिति ॥ देवादिपदस्य सादित्वाभ्युपगमे अर्थात् सान्तत्वस्याप्यङ्गीकृतत्वादिति भावः । ‘मध्वादिषु’ इति वक्ष्यमाण-भाष्याभिप्रायेणोक्तम् ॥ विप्रतिपत्तिसूचनायेति ॥ व्यभिचारपरिहार इति ॥ शूद्रादावधिकारा-भावरूपसाध्यस्य सत्त्वेऽपि विशेषणाभावप्रयुक्तविशिष्टाभावरूपोपाधेरपि निषेधविषयशूद्रादौ सत्त्वेन न व्यभिचार इत्यर्थः । वेदाधिकारितयेति शेष इति ।

एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् ।

तुष्टाव प्राञ्चलिर्भूत्वा यत्तच्छृणु नराधिपः ॥

इत्यादिभारतवचनैर्जरितारिसारिसृक्वस्तम्बमित्रद्रोणाख्यानां चतुर्णां पक्षिणाम् ‘अयमग्ने जरिता’ इत्याग्नेयसूक्तेनाग्निस्तावकत्वेन तन्मन्त्रद्रष्ट्रत्वस्य प्रसिद्धत्वादिति भावः । अनेनैव स्वप्रयुक्तानुमानस्येति । मनुष्यादीनां जरितार्यादीनां वेदविद्याधिकारप्रदर्शनेनैव ‘सम्भवति हि तेषां विशिष्टबुद्ध्यादि’ इति स्वप्रयुक्तस्य देवा विद्याधिकारिणो निषेधरहितत्वे सति विशिष्ट-बुद्ध्यादिमत्त्वाद्योग्यत्रैवर्णिकवदित्यनुमानस्येत्यर्थः । उपाधेः साध्याव्यापकत्वादिति भावः ।

भावदीपः

अधिकारेति ॥ योग्यतेत्यर्थः ॥ प्रासङ्गिकत्वादिति ॥ मनुष्येत्युक्त्या तिर्यगादि-वद्देवानामपि नेति प्रसक्तस्य निवृत्यर्थत्वादित्यर्थः । ‘अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ’ इत्यनुभाष्योक्तेरिति भावः ॥ नाध्यायादीति ॥ साक्षादिति भावः । फलतस्तस्य सत्त्वात् । सङ्गतिपरत्वेन भाष्यं व्याचष्टे ॥ मनुष्येति ॥ मनुष्यपदस्य मनुष्यमात्रपरत्वेन व्याख्यानादाह ॥ मनुष्याणामेवेति ॥ तिर्यगादीत्यादेस्तात्पर्यं स चेति ॥ श्रुतीति ॥ एतेनास्य पूर्वेणाक्षेपिकी सङ्गतिर्दर्शिता । तदुपरीति सौत्रोक्तिसूचितसादित्वव्यावर्त्ययुक्तिं वक्तुं विकल्पयति ॥ किमिति ॥ विद्यादिना विद्याकर्मभ्याम् । विरोधः कर्मणीति सूत्रभाष्योक्तमाह ॥ अमराणा-मिति ॥ मुक्तीति ॥ पदप्राप्तेरप्युपलक्षणम् । क्वचिन्मुक्त्यादीत्येव पाठः । इन्द्रादिपदप्राप्तेः पूर्वं पश्चाच्चेन्द्रादिदेवताभावेन तदुद्देशेन द्रव्यत्यागात्मकयागायोगादित्यर्थः । वक्ष्यमाणशब्दविरोध आदिपदार्थः । अमराणामित्युक्त्या तेषां मरणवर्जितत्वप्रसिद्धेर्मुक्त्यङ्गीकारोऽनुचित इति सूचयति । फलोक्त्योपसंहरति ॥ अत इति ॥ अनित्यत्वे कर्मादिविरोधेनानादिनित्यत्वाङ्गी-कारेऽर्थित्वादेरसम्भवादित्यर्थः ॥ न तदुपास्यत्वलिङ्गं विष्णोस्सम्भवतीति ॥ न चेष्टापत्तिः । श्रुत्यप्रामाण्यापत्तेरुक्तत्वादिति भावः । लिङ्गपदोक्त्या न प्रासङ्गिकत्वमेव किं तर्हि अत्र देवानामधिकारसिद्धौ तदुपास्यत्वरूपलिङ्गसमन्वयस्यापि सिद्ध्या अन्तर्नयवैश्वानरनययोरिव

फलतोऽध्यायपादसङ्गतिरप्यस्तीति सूचितम् । प्रसङ्गादेव चिन्तितावित्यनुभाष्योक्तिस् तमेव समन्वयं प्रकटयति समस्तेनाध्यायेन प्रायेणेत्येतद्भाष्योक्तिश्च साक्षात्समन्वयानुक्त्यभिप्रायेति भावः ॥

अथ देवानामधिकारसद्भावरूपमर्थान्तरं साधयितुमित्यथशब्दस्य प्रकृतादनधिकारा-दर्थान्तरपरत्वमर्थः । मनुष्याधिकारेत्युक्तिरूपसंशयबीजविघटनप्रकारमेव भाष्यव्याख्यानेन व्यनक्ति ॥ मनुष्येति ॥ ननु मनुष्येत्युक्त्या तद्भिन्नामनुष्यमात्रव्यावृत्तिप्रतीतेः कथं तिर्यगित्युक्तिरित्यतः सूत्रे मनुष्यत्वं व्यावर्तकत्वेन न विवक्षितं किन्तु विशिष्टबुद्ध्यादिमत्त्वमेव विवक्षितमिति भावेनोक्तम् ॥ विशिष्टबुद्धीति ॥ यद्वा तिर्यगाद्यपेक्षयेत्युक्तिस् तेषामपीत्यग्रेतन-वाक्यविरुद्धेत्यत उक्तम् ॥ विशिष्टेति ॥ न सर्वतिर्यगाद्यपेक्षयेत्यर्थः । पूर्वस्माद् बुद्ध्या विभागेनाधिकारपदमनुवर्त्य सम्भवति तेषामिति भाष्यार्थमाह ॥ देवानामिति ॥ विशिष्टे-त्यादिभाष्यं व्याकुर्वन् तेषां सम्भवतीत्येतद्धेतुगर्भतयाऽपि व्याचष्टे ॥ विशिष्टेति ॥ तदुप-रीत्यादिभाष्यं शङ्कानिरासकतया व्यनक्ति ॥ न चेति ॥ न हि अनादित इत्यादिनोक्तेत्यर्थः ॥ योग्येति ॥ देवतापदयोग्यानां मनुष्यत्वेन भूमौ जातानामित्यर्थः ॥ मोक्षेति ॥ विद्याकर्मभ्यां देवत्वप्राप्त्युक्त्या सादित्वस्य तद्व्याप्तसान्तत्वस्यापि लब्धत्वादिति भावः ॥ विप्रतिपत्तीति ॥ अनधिकारं जैमिनिरित्यनेनेत्यर्थः । देवानामधिकारो विद्यते विशिष्टबुद्ध्यादिमत्त्वात् सम्मत-वदिति स्वप्रयुक्तानुमाने प्रतिपक्षमाशङ्कते ॥ न देवा इति ॥ अपि तु विशिष्टेति ॥ प्रतिपक्षे प्रतिपक्षान्तरवद् उपाधिरपि न वाच्य इति कस्यचिदुक्तिर्नादर्तव्या । हेतोर्व्यभिचारव्याप्यत्वा-सिद्ध्याश्रयेण तदुक्तिसम्भवादिति भावः ॥ अयमुपाधिरिति ॥ विशिष्टबुद्ध्यादिराहित्यरूपः ॥ तेन शूद्रादाविति ॥ सम्भवति हि तेषां विशिष्टबुद्ध्यादिभावादित्यत्र स्वप्रयुक्तविशिष्ट-बुद्ध्यादिमत्त्वरूपहेतोर्वा प्रतिपक्षानुमानेऽभिहितविशिष्टबुद्ध्यादिराहित्यरूपोपाधेर्वेत्यर्थः । शूद्रादेश्चाग्रे निषिद्धत्वं व्यक्तमित्यनिषिद्धत्वे सति विशिष्टबुद्ध्यादिमत्त्वाभावरूपोपाधेस् तत्रापि सत्त्वेन न व्यभिचार इति भावः ॥ वेदाधिकारितयेति ॥ खाण्डववनस्थानां जरितारि-सारिसृक्वस्तम्बमित्रद्रोणाख्यानां चतुर्णां पक्षिण समातृकाणां कृत्स्नवनं परिलेलिहानेन वह्निना स्वदाहप्रसक्तौ भ्रातृभिःप्रार्थितो जरितारिरग्निमयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा प्रीतेनाग्निना तान्मोचयामासेति । एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् । तुष्टाव प्राञ्जलिर्भूत्वा यत्तच्छृणुनराधिपेत्यादिना भारते प्रसिद्धत्वादिति भावः ॥ अनेनैवेति ॥ जरितार्यादयोऽधि-कारितया दृश्यन्त इति वचनेनैवेत्यर्थः । साध्याव्यापकत्वादिति भावः ॥

अभिनवचन्द्रिका

अत्र देवानामिति ॥ यद्यपि मनुष्यपदेन विद्याविशेषाधिकाराभावस्यैव प्राप्तत्वात् तत्रैवाऽधिकारभावः समर्थनीयः, तथापि विद्यामात्रेऽऽनधिकारप्रापकपूर्वपक्षनिरासाय प्रसङ्गाद् वेदविद्याधिकारसामान्यसमर्थनमिति बोध्यम् । नाध्यायादिसङ्गतिर्गवेषणीयेति ॥ नन्वत्रा-स्त्येवाऽध्यायसङ्गतिः । देवोपास्यत्वरूपलिङ्गसमन्वयसमर्थनात् । तदुक्तमणुभाष्ये ‘उपास्यो दैवतैरपि’ इति । टीकायां च ‘न तदुपास्यत्वलिङ्गं विष्णोः सम्भवति’ इति । किं च प्रासङ्गिकत्वान्नाध्यायादिसङ्गतिर्गवेषणीयेत्ययुक्तम् । प्रसङ्गसङ्गतेरन्तर्भावसङ्गत्यविरोधादिति चेत्, उच्यते सत्यमिह देवोपास्यत्वलिङ्गसमन्वयो भवतीति, किं तु न साक्षात्, अपि तु जिज्ञासाधि-करणे जिज्ञासाकर्तव्यत्वसिद्धौ अर्थाज् जिज्ञास्यत्वलिङ्गसिद्धिवदिहापि देवानामधिकार-समर्थनेऽर्थात्तदुपास्यत्वमपि सिध्यति । अणुभाष्यन्तु जिज्ञासाधिकरणे ‘विष्णुरेव विजिज्ञास्य’ इतिवद् इहाप्यार्थिकार्थप्रदर्शनपरम् । यदपि चोक्तप्रसङ्गसङ्गतेः सङ्गत्यन्तराविरोध इति, तत्तथैव । कथं तर्हि ‘प्रासङ्गिकत्वान्नाध्यायादिसङ्गतिर्गवेषणीया’ इत्युक्तिरिति चेत्, इत्थम् अस्मिन्नधि-करणे नाऽधिकरणान्तरवद् अध्यायपादाभ्यामन्तर्भावलक्षणा सङ्गतिः, किन्तु जिज्ञासाधि-करणवद् आर्थिकार्थमपेक्ष्य । सम्मतं चैतद्भाष्यकारस्य, एतदधिकरणद्वयव्यावृत्तये पादप्रातिपाद्यकथनावसरे प्रायेणेत्यभिधानात् । एवं चासङ्गतं न वक्तव्यमिति शङ्कापरिहारार्थ-मार्थिकार्थमादाय सङ्गतिव्युत्पादनाय मनःखेदो न कार्यो ऽनायाससिद्धप्रसङ्गसङ्गतिनिरूपणेनैव शङ्कापरिहारादिति । तदिदमुक्तम् ॥ न गवेषणीयेति ॥ अन्यथा नेत्येवाऽवक्ष्यत् । ततश्चैवं योजना प्रसङ्गसङ्गतेर्विद्यमानत्वात् तन्निरूपणेनैवाऽसङ्गतिशङ्कापरिहारान् महता प्रबन्धेन अन्तर्भावलक्षणसङ्गतिगवेषणं न कार्यमिति ॥ मनुष्याणामेव वेदविद्याधिकार इत्युक्तमिति ॥ मनुष्याणामिति असाधारण्योक्तिबलाद् एवकारार्थो लब्ध इति भावेन मनुष्याणामिवेत्युक्तम् । एतेन सूत्रे मनुष्याधिकारत्वाद् इत्येवोक्तत्वान् मनुष्याणामेवेत्युक्तमित्यनुवादो न युक्त इति परास्तम् । अनेनाऽस्याधिकरणस्य पूर्वाधिकरणेन व्याख्यानव्याख्येयभावलक्षणसङ्गतिरित्युक्तं भवति । भाष्ये ‘तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणं न तु देवाद्यपेक्षयेत्याह’ इति अस्याधि-करणस्य तदभिप्रायकथनरूपत्वाभिधानात् । श्रुत्यप्रामाण्यं प्रसज्जत इति नन्विदमयुक्तम् । अधिकारशून्यैरपि देवैरुपासनायाः क्रियमाणेन श्रुतेर्विषयबाधशून्यत्वात्, न ह्यनधिकारिण उपासनां न कुर्वन्तीति नियमोऽस्ति । मुक्तैरपि उपासनायाः क्रियमाणत्वादिति चेत्, स्यादयं दोषः यदि सर्वदेवानामनधिकृतोपासने प्रत्यवायहेतौ प्रवृत्तिरुपपद्येत । न चैतत्सम्भवति । लोकेऽपि सतां सङ्घे पापकारित्वादर्शनात् । अत एव देवाः स्वोत्तमोपास्यान् गुणान् नोपासते । एवं च ‘विश्वेदेवा उपासत’ इति श्रुतेर् देवोपासनं वाचनिकोऽर्थः । अधिकारत्वादिरार्थि-कोऽर्थः । तस्य च बाधात् श्रुत्यप्रामाण्यमवर्जनीयम् । यद्यपि साक्षादेवाऽधिकारप्रतिपादकानि वचनानि सन्ति । तेषामेवाऽप्रामाण्यमापादयितुं शक्यम् । तथापि अङ्गुष्ठविद्यायामेवाऽनधिकार इत्यङ्गीकारेऽपि वेदाप्रामाण्यवर्जनीयमिति तदर्थमप्येतदधिकरणमावश्यकमिति द्योतनाय एतद्वाक्याप्रामाण्यमापादितम् ॥ सवेदविद्याधिकार इति ॥ अङ्गुष्ठविद्याधिकारो विषय इत्यर्थः । यद्यपि सिद्धान्ते वेदविद्याधिकारमात्रसमर्थनाद् वेदविद्याधिकारो विषय इति वक्तव्यम्, तथापि सामान्यस्य विषयत्वे विशेषस्य विषयत्वं न विहन्यते इति तथोक्तम् ॥ सन्देह इति ॥ यद्यप्ययं नाऽधिकारमात्रविषयः, तथापि विशेषविषयस्यापि संशयस्यैतदधिकरणनिवर्त्यत्वादुपन्यासः ॥ किं देवा इति ॥ देवत्वप्रयोजकं पदं किमनादिनित्यम्, उतोत्पत्तिविनाशवदित्यर्थः । न ह्यनादितः प्राप्तपदानामिति ॥ ननु पदस्य विद्याकार्यत्वमस्ति, न वा । नाद्यः देवानामनादि-नित्यत्वेन अन्यस्य चायोग्यत्वेन विद्यया कस्यापि पदप्राप्तेरभावात् । न हि कदापि कस्यापि विद्यायाः पदजनकत्वाभावे पदं विद्याकार्यमिति सम्भवति । अतिप्रसङ्गात् । नेतिपक्षे प्राप्त-पदानामिति व्यर्थम् । अकामत्वव्युत्पादनाय विद्याफलसिद्धेरेव वक्तव्यत्वादिति चेत्, सत्यम् अकामत्वव्युत्पादनाय विद्याफलसिद्धिरेव वक्तव्येति, उक्ता च विद्याफलसिद्धिः, तथापि विद्याफलं हि द्विविधं मोक्षः, अभ्युदयश्चेति । तत्र न तावद् देवानां मोक्षकामना सम्भवति । तेषां तद्योग्यताविरहात् । न हि सर्वज्ञानामयोग्ये कामना सम्भवतीति सम्भवति । नाप्यभ्युदय-कामना सम्भवति । तेषां प्राप्तपदत्वात् । प्राप्तपदानां च सर्वसमृद्धियुक्तत्वात् । न हि सिद्धेऽर्थे कामना सम्भवतीति भावेन ‘न ह्यनादितः प्राप्तपदानां मोक्षशून्यानां च विद्याभिः प्रयोजन-मस्तीति पूर्वपक्षिणाऽभिधानात् । न द्वितीयः । ननु द्वितीयकल्पदूषणं व्यर्थं, तस्य देवानां वेदविद्याधिकारानापादकत्वेन पूर्वपक्षाविरोधित्वात् । तथाहि पदप्राप्तेः पूर्वं तेषां वेदविद्याधि-कारसिद्धावपि तदा तेषामदेवत्वेन देवानां वेदविद्याधिकाराप्राप्तेः । नापि मुक्त्यर्थं वेदविद्याधि-कारः सिध्यति । मनुष्यत्वावस्थायामेव मोक्षसाधनस्यानुष्ठितत्वात् । वस्वादिविद्याया मोक्ष-साधनत्वात् पदस्य नान्तरीयकत्वात् । उक्तं च पदप्राप्तेर् नान्तरीयकफलत्वं ‘ऐन्द्रं पदं नान्तरीयं फलं तु हरितोषणमित्यादाविति चेत्, सत्यम्, नायं कल्पोऽधिकारप्रापकः, तथापि देवानामनादिनित्यत्वमिति मन्यमानेन पूर्वपक्षिणा वस्तुस्थितिप्रदर्शनार्थमयं कल्पो दूषितः ॥ मुक्त्यङ्गीकार इति ॥ विद्यादिना पदप्राप्तिमुक्तिमन्त इति द्वितीयपक्षाङ्गीकार इत्यर्थः । कर्मादिविरोधः, ततः पूर्वं देवताभावेन देवोद्दिष्टकर्मणस् तदुपासनायाश्च विरोधः ।

अयं भावः देवास्तावद् इन्द्रादिपदप्रापकयज्ञादिकर्मानुष्ठानेन प्राप्तपदा भवन्तीति वक्तव्यम् । ततः पूर्वं देवताभावेनोद्देश्याभावाद् व्यङ्गं कर्म न पदप्राप्त्यादिफलहेतुर्भवति । साङ्गस्यैव कर्मणः फलहेतुत्वात् । अन्यथा बाह्यकृतयागस्यापि फलहेतुत्वप्रसङ्गः । एवं च देवानामेव वन्ध्यापुत्रवद् अत्यन्तासत्त्वान् न वेदविद्याधिकार इति । नन्वत्र भाष्यं तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणमुक्तं न तु देवाद्यपेक्षयेत्याह’ इति, तदयुक्तम् । मनुष्यत्वविशेषणस्य तिर्यगादिप्राप्तिहेतुत्वाभावेन तदपेक्षया तद्विशेषणोपादनायोगात् । ‘न तु देवाद्यपेक्षया’ इत्यस्याऽप्रसक्तप्रतिषेधत्वाच्च । न हि मनुष्यत्वविशेषणं देवादिप्रापकं येन तदपेक्षया प्रयुक्तमिति सम्भावना स्यात् । ‘इत्याह’ इत्यस्यान्यथानुवादत्वाच्च । न हि सूत्रे मनुष्यविशेषणकृत्यमुपलभ्यते येनान्यथानुवादो न स्यादित्यत आह ॥ मनुष्यपदमिति ॥ मनुष्यपदं विशिष्टबुद्धिमत्परम् । ततश्च तेन विशेषणेन तद्रहिततिर्यगादीनां व्यावृत्तिर् न तु देवानामिति भावः ॥ न चोक्तप्रकारणेति ॥ अनादितः प्राप्तपदत्वेन नित्यत्वान् मोक्षासम्भवेनाऽर्थित्वाभावात् सामर्थ्यविद्वत्त्वयोः सत्त्वेऽपि अधिकारा-भाव इति भावः ॥ विप्रतिपत्तिसूचनायेति ॥ ननु विप्रतिपत्तिसूचनाय बादरायणपदमित्य-युक्तम् । तथाहि– विरुद्धा प्रतिपत्तिर् विप्रतिपत्तिः । न च जैमिन्यादिप्रतिपत्तिर्बादरायण-प्रतिपत्तिविरुद्धा, तथा सति अप्रामाण्यापातात् । न च तदप्रामाण्यमिष्टमिति शक्यते वक्तुम् । जैमिन्यादिमतस्य भगवन्मतैकदेशत्वात् ॥ तदुक्तम् ॥

‘सर्वज्ञस्यैव कृष्णस्य त्वेकदेशविचिन्तितम् ।

स्वीकृत्य मुनयो ब्रूयुस् तन्मतं न विरुध्यते ॥’

इति । ‘उक्तफलानधिकारमात्रं जैमिनिमतम्’ इत्यादिना अविरोधस्य स्ववचनेनाप्युक्तत्वा-च्चेति चेत् ।

‘मुहूर्त्तमतुलं ध्यात्वा रामचन्द्रं रमापतिम् ।

प्रसादमतुलं लब्ध्वा समाधानमहं ब्रुवे ॥

तथा हि न ब्रूमो वयं विरुद्धप्रतिपत्तिसूचनार्थं बादरायणपदमिति । येनोक्तदोषः स्यात् । किं नाम विशिष्टा प्रतिपत्तिर् विप्रतिपत्तिः । विप्रतिपत्तिसूचनाय बादरायणपदमिति । तद्यथा महाराजेनायं ममेत्युक्ते तस्य तत्र विशिष्टा प्रतिपत्तिर् गम्यत एवमिहापि वक्ष्यमाणजैमिन्यादि-मतस्य स्वकीयत्वेऽपि अस्य मतस्य स्वकीयत्वोक्त्या विशिष्टप्रतिपत्तिस्तत्र तस्य ज्ञायते । सर्वनाम्नां भगवन्नामत्वेऽपि शिवादिनाम्नामन्येषां दत्तत्वेन तदपेक्षया नारायणादिनामसु प्रतिपत्तिविशेषवदिति ध्येयम् ॥ शङ्कते न देवा विद्याधिकारिण इति ॥ अपि त्विति ॥ अस्यानुमानस्य सोपाधिकत्वेन दुर्बलत्वान् न बाधकत्वमिति भावः । ननु तिरश्चां तावन्नाधि-कारः शक्यते वक्तुम् । अङ्गुष्ठाभावात् । ततश्च तत्र सत्यप्यनधिकारे विशिष्टबुध्द्यादिराहित्या-भावाद् व्याप्तिविधुरोऽयमुपाधिरिति भावेन शङ्कते ॥ विशिष्टबुध्द्यादिमतामपीति ॥ अधिकारेऽपीति शेष इति ॥ भवेदिदं व्याप्तिवैधुर्यमुपाधेः, यदि तिरश्चामधिकारो न स्यात् । न चैवं किं नाम अस्त्येव केषांचित्तिरश्चामधिकारः । न चाङ्गुष्ठाभावविरोधस् तद्विद्यायामनधि-कारेऽपि विद्यान्तराधिकारादिति भावः । तदुक्तं – ‘तेषामपि यत्र विशिष्ठबुध्द्यादिभावस् तत्राऽ-विरोध’ इति । यस्यां विद्यायां विशिष्टबुद्ध्यादिभावस् तत्राधिकारे विरोधाभावः । यस्यां विद्यायामधिकारे अङ्गुष्ठाभावरूपो विरोधः, न तत्र विशिष्टबुध्द्यादिमत्त्वमित्यर्थः । ननु तिरश्चां वेदविद्याधिकाराभावावेदकप्रमाणविरोधादधिकारेऽप्यविरोध इत्ययुक्तमिति भावेन शङ्कते – कथं तिरश्चामिति ॥ कथमित्याक्षेपे । नन्वधिकाराभावावेदकं प्रमाणमधिकारनिषेधरूप आगमः, किं प्रतियोगिनोऽधिकारस्य निष्प्रमाणकत्वलिङ्गमिति भावेन पृच्छति ॥ किं निषेधादिति ॥ अदर्शनाद्वेति ॥ प्रमाणेनेति शेषः । एतेन अधिकारस्यायोग्यत्वात् तदनुपलब्धिर्नाऽभाव-साधिका । योग्यानुपलब्धेरेवाऽभावसाधकत्वादिति परास्तम् । प्रमाणानुपलब्धेरभावव्याप्यत्वात् ॥ अधिकारितयेति शेष इति ॥ ‘एवमुक्तो भातृभिस्तु जरितारिर्विभावसुम् । तुष्टाव प्राञ्जलि-र्भूत्वा यत्तच्छृणु नराधिप’ ॥ इत्यादिना भारते जरितारिसारिसृक्वस्तंबमित्रद्रोणाख्यानां, चतुर्णां पक्षिणां जरितारेः, ‘अयमग्ने जरिता’ इत्याग्नेयसूक्तेन अग्निस्तावकत्वोक्तेस् तत्रैव ‘स्तम्बमित्र-स्तपः कुर्याद् द्रोणो ब्रह्मविदुत्तमः’ ।

इति द्रोणादेर्ब्रह्मवित्त्वाद्युक्तेश्च । ऋषीनस्मान्बालकान्पालयस्वेति ऋषिशब्देन मन्त्रद्रष्टृ-त्वोक्तेश्च अधिकारित्वं ज्ञायते इति भावः ॥ उपाधिरप्यपोढ इति ॥ जरितर्यादिषु साध्याव्यापकत्वादिति भावः ।

वाक्यार्थमुक्तावली

॥ शास्त्रसङ्गतिरिति ॥ विश्वेदेवा उपासत इति श्रुत्यर्थभूतदेवोपास्यत्वरूपब्रह्मगुण-निर्णयाङ्गन्यायानुसन्धानस्यात्र क्रियमाणत्वादिति भावः ॥ यथोक्तं दैवतैरपि ज्ञेय इति ॥ प्रासङ्गिकत्वादिति ॥ मनुष्येत्युक्त्या तिर्यगादिवद्देवानामपि नेति स्मारितस्य देवाधिकारा-भावस्यावश्यं निरसनीयत्वेनोपेक्षानर्हत्वात् ॥ स्मृतस्योपेक्षानर्हत्वरूपप्रसङ्गप्राप्तत्वान्नाध्याय-पादान्तर्भावसङ्गतिर्गवेषणीयेत्यर्थः ॥ उपेक्षानर्हत्वमेव प्रकटयितुं भाष्यमवतारयति ॥ श्रुत्यादीति ॥ मनुष्याणामेवेति ॥ मनुष्याधिकारेत्यत्राधिकारावच्छेदकत्वेन मनुष्यत्वविशेषणस्योपात्त-त्वात् । तस्य चेतरव्यावर्तकत्वादवधारणं लभ्यते । अत एव भाष्ये मनुष्यत्वविशेषणमिति वक्ष्यतीति भावः । भावबोधे तु, एवार्थकतुशब्दस्य बुध्या विवेकेनान्वये मनुष्याणामेवेति लभ्यत इत्युक्तम् ॥ श्रुत्यप्रामाण्यमिति ॥ ननु श्रुत्यप्रामाण्यनिरासो द्वितीये सङ्गतः । अधिकरणद्वये क्रियमाणाधिकारचिन्ता चासार्वत्रिकीत्यादौ तृतीये सङ्गता कथमत्र तद्विचार इति चेत् प्रासङ्गिकत्वस्योक्तत्वात् । यथोक्तम् ‘अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ’ इति नात्र श्रुत्यप्रामाण्यनिरासे देवाधिकारसमर्थने देवोद्देश्यतात्पर्यं किं तु मनुष्याणामेवाधिकार इत्युक्ते मनुष्यत्वविशेषणेन, विशिष्टबुध्यादिहीनतिर्यगाध्येव व्यावर्त्यं न तु देवादिनापि शूद्रादि-सङ्ग्राह्यम् । तथात्वे ‘विश्वेदेवा उपासते’ श्रवणे त्रपूजतुभ्यां श्रोत्रपूरणमित्यादिश्रुत्य-प्रामाण्यप्रसङ्गात् । न च तदुचितम् । तथात्वे पूर्वाधिकरणे सर्वदेवोपास्यत्वलिङ्गस्य पूर्वपक्ष-प्रापकस्य सिद्धान्तसावकाशत्वकथनं न स्यादित्येवं रूपेण चिन्तायाः प्रसङ्गप्राप्ताया अत्रैव कर्तव्यत्वे द्वितीयतृतीययोरकर्तव्यत्वात् । यथा भोक्त्रापत्तेरिति मुक्तेशयोर्भेदसमर्थनं फलचिन्ता-रूपेण चतुर्थसङ्गतमपि युक्तिविरोधपरिहाररूपेण द्वितीये सङ्गतं तद्वदिति भावः ॥ अस्ति न वेति सन्देह इति ॥ अत्र किं देवानां ब्रह्मविद्याधिकारो नास्त्युतास्तीति चिन्ता । तदर्थं मोक्षार्थिता नास्त्युतास्तीति तदर्थं तत्तत्पदविशिष्टा देवाः किमनादिनित्या उताद्यन्तवन्त इति । तदर्थं किमाद्यन्तवतां कर्मशब्दो विरुद्धो न वेति । तदुपरीतिसूचितसादित्वव्यावर्त्ययुक्तिं वक्तुं विकल्पकोटिमुत्थापयति ॥ किमिति ॥ विरोधःकर्मणि शब्द इतीति सूत्रोक्तपूर्वपक्षं वक्तुं कोटिमुत्थापयति ॥ उत विद्यादिनेति ॥ आदिपदेन कर्म गृह्यते ॥ अर्थित्वाभावादिति ॥ कथं तदभाव इत्यतः पदे वा मोक्षे वेति विकल्पं हृदि निधाय दूषयति– न हीति ॥ मुक्त्यादीत्यादिपदेन पदप्राप्तिर्गृह्यते कर्मादीत्यादिपदेन शब्दविरोध उच्यते । अमराणां मुक्तिरिति स्वव्याहतिश्च ॥ न तदुपास्यत्वलिङ्गमिति ॥ यत्पूर्वाधिकरणे पूर्वपक्षसाधकतयोक्तं लिङ्गं विष्णौ सावकाशमित्युक्तं न तद्युक्तमिति । पूर्वाधिकरणाक्षेपः पूर्वपक्षफलमिति भावः ।

ननु विश्वेदेवा उपासत इत्येतद्विषयीकृत्य देवाधिकारसमर्थनद्वारा देवोपास्यत्वलिङ्ग-समन्वय एव क्रियत इति किं न स्यात् । दैवतैरपि ज्ञेय इति संक्षेपभाष्योक्तेरिति चेत् । अत्र हि चन्द्रिकायां नाध्यायादिसङ्गतिर्गवेषणीयेति । मुख्यतो विद्याधिकारे न साक्षादध्यायसङ्गति-र्गवेषणीयेत्यर्थः । प्रासङ्गिकसङ्गतेस्तत्रापि चेत्युक्तम् । अतस्तेषां पक्षे लिङ्गसमन्वयपरमिद-मधिकरणम् । अन्तर्नये फलतो नाम्न इव वैश्वानरनये लिङ्गानामिव फलतोऽत्रापि लिङ्ग-समन्वयोऽपीष्ट एवेति । भावबोधे तु दैवतैरज्ञेय इति संक्षेपीति अधिकरणतात्पर्यार्थप्रदर्शनपरः । न फलितलिङ्गप्रदर्शनपर इति ज्ञातव्यमित्युक्तम् । तेषामयमाशयः । लिङ्गसमन्वयाभिप्राये लिङ्गस्योभयत्र प्रसिद्धिर्वक्तव्या । पूर्वपक्षिणा चान्यस्यैव तल्लिङ्गमिति वक्तव्यम् । न च तदिह सम्भवति । देवानामनधिकारेण कुत्रापि देवतोपास्य त्वस्यात्र निषेधात् । ततश्च समन्वयस्यात्र प्रसिध्यादिमुखेनैवात्राध्याये करणान् नाध्यायपादसङ्गतिः पलतोऽपि । अत एव तमेव समन्वयं प्रकटयति समस्तेनाध्यायेन प्रायेण प्रसङ्गादेव चिन्तितावित्यवधारणपूर्वभाष्यप्रवत्तिरिति । अथ सन्देहबीजं विघटयति । तदविघटने सूत्रकारेण मनुष्याणामेव वेदविद्याधिकार इति पूर्वमुक्तत्वेन देवानामधिकारप्रतिपादकसिद्धान्तसूत्रस्य स्वव्याहतत्वप्रसङ्गात् ।

‘न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृत’ इति न्यायविषयतापातेन सन्देहबीजविघटन-स्यावसरप्राप्तत्वादिति भावः । अत एवाथशब्दः । अथैवं सन्देहबीजविधानावसरप्राप्तौ सत्य-मिति मनुष्याधिकारेत्युक्तिरूपसंशयबीजविधानप्रकारमेव भाष्यव्याख्यानेन व्यनक्ति ॥ मनुष्येति ॥ ननु मनुष्याधिकारत्वादिति सूत्रे मनुष्यत्वं ह्यधिकारिविशेषणमुक्तम् ॥ विशेषणं च मनुष्यव्यावर्तकम् ॥ तथा च तिरश्चामिव देवानामपि व्यावर्त्यत्वात् कथं न तु देवाद्यपेक्षयेति वचनमित्यतः मनुष्यत्वरूपसामान्यं न व्यावर्तकत्वेन विवक्षितम् । किं तु मनुष्यगतं यद्विशिष्ट-बुध्यादिमत्वं तदेव व्यावर्तकत्वेन विवक्षितमित्याशयेनोक्तम् ॥ विशिष्टबुध्यादीति ॥ मनुष्य-गतविशिष्टबुध्यादिमत्वबोधकं मनुष्यपदमित्यर्थः ॥ यद्वा तिर्यगाद्यपेक्षयेत्युक्तं तेषामपीति ॥ तिर्यञ्चामप्यधिकारस्य वक्ष्यमाणत्वादित्यत उक्तम् ॥ विशिष्टेति ॥ न सर्वतिर्यगाद्यपेक्षयेत्यर्थः । बुध्यादीत्यादिपदेनेन्द्रियपाटवाद्यपिग्राह्यम् । तिर्यगादीत्यादिपदेन स्थावरग्रहणमिति सत्तर्कदीपा-वल्याम् । देवादीत्यादिपदेनोपदेवऋष्यादिग्रहणम् । पूर्वसूत्राद्बुध्याविवेकेनाधिकारपदमनुवर्त्य सूत्राभाष्यार्थमाह ॥ देवादीनामपीत्यादिना ॥ मनुष्याणां सतां देवादित्वप्राप्त्युपर्यपीत्यस्य तात्पर्यं देवानामपीति ॥ सूत्रे सम्भवादित्यस्य विशिष्टबुध्यादेः सम्भवात्ततश्चाधिकारस्य च सम्भवादित्यर्थद्वयमभिप्रेत्य सम्भवति हि तेषामित्यादिभाष्यं प्रवृत्तम् । तस्य च तेषामधिकारोप-योगिविशिष्टबुध्यादिभावात् तेषामधिकारः सम्भवतीति स्यात् तस्मादस्त्येवाधिकार इत्यादिसूत्रे देवानामित्यनुक्त्वा तदुपरीत्युक्तेर्भावं वक्तुं तद्व्यावर्त्यमाशङ्क्य दूषयति ॥ न चोक्तेति ॥ न ह्यनादित इत्यत्र यदाय मोक्षाय चेति विकल्प्योक्तप्रकारेणेत्यर्थः । देवादित्वप्राप्त्यभ्युगमेन मोक्षसिद्धेरिति देवादिपदस्य सादित्वाभ्युपगमे तद्व्याप्ततया सान्तत्वस्यापि लब्धत्वादिति भावः ॥ विप्रतिपत्तीति ॥ ऋषिमतविप्रतिपत्तीत्यर्थः ॥ अत एव ‘अनधिकारं जैमिनिरिति वक्ष्यतीति भावः । ततश्च सूत्रे पूर्वस्माद्बुध्या विवेकेन प्रथमान्ततया विपरिणम्याधिकार इत्यनुवर्तते । तदुपर्यपि तस्य प्रकृतस्य मनुष्यस्योपरि विद्याकर्मभ्यां देवत्वप्राप्त्युपरिविद्याकर्मभ्यां देवत्वप्राप्त-युपरिदेवानमपीति यावत् । अधिकारोऽस्ति कुतः सम्भवाद्विशिष्टबुध्यादेरधिकारोपयोगिनोऽ-भावात् । ततश्चाधिकारसम्भवादिति बादरायणो भगवान्मन्यत इत्यर्थः । देवत्वस्य सादित्वेन सान्तत्वनैय्यत्यान्मोक्षसम्भवात्तत्रार्थिता युक्तेति सूचयितुं देवानामित्यनुक्त्वा तदुपरीत्युक्तम् ।

न केवलं मनुष्यत्वदशायामित्यपेरर्थः । देवा वेदविद्याधिकारिणः विशिष्टबुध्यादिमत्वा-त्संमतवदिति स्वप्रयुक्तानुमानस्य प्रतिपक्षमाशङ्कते ॥ न देवा इति ॥ तिर्यक्षु अधिकारा-भावरूपसाध्यसत्वेऽपि विशिष्टबुध्यादिराहित्यरूपोपाध्यभावाद्व्याप्तिविधुरोऽयमुपाधिरिति शङ्कते ॥ विशिष्टबुध्यादिमतामपीति ॥ अविरोध इति ॥ तेषु साध्यस्यापि सत्वान्न दोष इति भावः । व्यभिचारपरिहार इति ॥ शूद्रादावधिकाराभावरूपसाध्यमस्ति विशिष्टबुध्यादिरूपोपाधिर्नास्ति अतो व्यभिचार इति वक्तव्यम् । न चेदं युक्तम् ।

निषेधराहित्ये सति विशिष्टबुध्यादिमत्वाभावस्योपाधित्वेन शूद्राणां विशिष्टबुध्यादिमत्वेन तदभावरूपविशेष्याभावेऽपि निषेधराहित्यरूपविशेषणाभावेन विशिष्टाभावरूपोपाधेरपि सत्वान्न व्यभिचार इत्यर्थः । यद्वा स्वप्रयुक्तानुमानस्य व्यभिचारपरिहार इत्यर्थः ॥ वेदाधिकारतयेति ॥ जरितारि, सारिसृक्, स्तम्बमित्र, द्रोणाख्यानां चतुर्णां पक्षिणाम् । एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुं तुष्टाव प्राञ्जलिर्भूत्वा यत् तत् श्रुणु नराधिप इति भारते । अयमग्रे जरितेत्यादिमन्त्रे च वेदाधिकारितया मन्त्रदृष्टृतया च दृश्यमानत्वादिति भावः ॥ अनेनैवेति ॥ अमनुष्याणामपि जरितार्यादीनां वेदविद्याधिकारोपपादनेन सूत्रकृता सम्भवादिति देवा वेदविद्याधिकारिणः विशिष्टबुध्यादिमत्वात् त्रैवर्णिकवद् इति स्वप्रयुक्तानुमानस्येत्यर्थः ।

उपाधेः साध्यव्यापकत्वादिति भावः । एतेन सौत्रापिपदं जरितार्यादिसमुच्चायकं च तेषामपि निषेधराहित्ये सति विशिष्टबुध्यादिसम्भवाद् अधिकार इति सूत्रार्थ उक्तो भवति ॥ तेषामपीति ॥ भाष्यतट्टीकयोस्तथा प्रतीतेः । तिर्यञ्चोऽपि केचिदपिशब्दगृहीता इत्यानन्दमालायां दैवतैरपीत्यपि-शब्दस्य व्याख्यातत्वाच्च । यद्यपि प्रतिपक्षानुमानेनोपाध्युद्भावनं युक्तम् । उपाधेः पक्षादि-निष्पत्यन्तरं प्रतिपक्षोन्नायकत्वेन दूषकत्वात् । तस्य चोपाध्यभावरूपस्य प्रागेवास्माभि-रुपन्यस्तत्वात् । तथापि उपाधेरेव प्रयोजकत्वं हेतोरप्रयोजकत्वमित्यप्रयोजकतोपन्यासाय तदुक्ति-र्युक्तैव । यद्वा इह परेण अस्मदीयानुमाने मनुष्यत्वस्योपाधितयाऽमनुष्यत्वस्य प्रतिपक्षतया चोद्भावनाद् उपाधेरनुमानस्य च जरितार्यादौ व्यभिचारमुद्भावयद्भिरस्माभिरनधिकारस्य मनुष्यत्वप्रयुक्तत्वान्न व्यभिचार इति परेणोक्तावनधिकारेऽपि विशिष्टबुध्यादिमत्वमेव प्रयोजकं नामनुष्यत्वम् । अतोऽमनुष्यत्वेऽपि नाधिकारहानिरतो व्यभिचार एवेति तदुपयोगितयोपाधे-रप्युद्भावनीयत्वेन स्वतन्त्रदोषतानुद्भावनान्तदोष इति ज्ञेयम् ।

तत्त्वसुबोधिनी

ननु अध्यायपादासङ्गतत्वान् नेदमधिकरणमारब्धव्यमित्यत आह ॥ प्रासङ्गिकत्वादिति ॥ मुख्यतो व्युत्पाद्येऽधिकारे न साक्षादध्यायसङ्गतिर्गवेषणीयेत्यर्थः । प्रासङ्गिकसङ्गतेस् तत्रापि सत्त्वात् फलिते देवोपास्यत्वलिङ्गसमन्वये साक्षात्सङ्गतेरपि सत्त्वाच्च मनुष्याधिकारत्वादित्यनेन देवाद्यधिकारादेः स्मारितत्वात् प्रासङ्गिकत्वमिति भावः । ननु स्मृतस्योपेक्षानर्हत्वं प्रसङ्ग-सङ्गतिः । तथा च कथमस्यापेक्षानर्हत्वमित्यतस् तद्दर्शनपरत्वेन मनुष्याणामेवेति भाष्यं व्याचष्टे ॥ श्रुत्यादिसङ्गतिमिति ॥ यद्यपि सार्वत्रिकीत्यादौ देवानाङ्गमपरोक्षज्ञानाधिकारसदसद्भाव-चिन्ता । यदीयमपि चिन्ता तत्रैव कर्तव्या । तथापि पूर्वाधिकरणस्थमनुष्यपदस्य विशिष्ट-बुद्ध्यादिहीनतिर्यगाद्येव व्यावर्त्यं न तु देवादीत्यनेन रूपेणेयं चिन्ता न तृतीये सङ्गता किन्तु अत्रैव यथा भोक्त्रापत्तेरिति मुक्तेशयोर् भेदसमर्थनं फलरूपेण चतुर्थे सङ्गतमपि युक्ति-विरोधपरिहारेण द्वितीये सङ्गतं तथेति भावः ।

उपासत इत्यत्रादिपदेन तं भूतिरिति देवा उपासाञ्चक्रिर इत्यादिग्रहणम् । मनुष्याणा-मेवेत्युक्तिरिति पूर्वाधिकरणे सूत्राभाष्ययोर् मनुष्याधिकारत्वाद् इत्यत्र बुद्ध्या विवेकेन मनुष्याणामेवाधिकारित्वादित्यभिप्रेतम् । अन्यथा तथापि नाङ्गुष्ठमात्रत्वं विष्णोरिति शङ्का-परिहारत्वं न स्यादिति भावः ॥ कर्माधिविरोधापातादिति ॥ देवानां मुक्त्याद्यङ्कीकारे पूर्वमुत्तरत्र च देवानामभावे न तदुद्देशेन द्रव्यत्यागात्मककर्मणो वैयर्थ्याख्यविरोधः स्यादित्यर्थः। आदिपदेन शब्दविरोधसङ्ग्रहः । न तदुपास्यत्वं विष्णोः सम्भवतीति । तथा च पूर्वाधिकरणे पूर्वपक्षप्रापकलिङ्गस्य विष्णाववकाशोक्तिर्न स्यादिति भावः ॥ सन्देहबीजं विघटयन्निति ॥ तिर्यगाद्यपेक्षयेत्यादिभाष्येण मनुष्याणामेवेत्यन्ययोगव्यवच्छेदपरैवकारव्यावर्त्यविवेककथनेन सावधारणोक्तेर् देवानामधिकाराभावरूपकोट्युपस्थापकाभावोक्तेरिति भावः । तिर्यगाद्यपेक्षयेति भाष्यार्थस्य सूत्रे कण्ठतोऽनुक्तेराह ॥ मनुष्यपदमिति ॥ विद्यादिभिरिति देवादिपदस्य सादित्वाभ्युपगमेऽर्थात्सान्तत्वस्याप्यङ्गीकृतत्वादिति भावः । नन्वत्र बादरायणपदप्रयोगः किमर्थ इत्यत आह ॥ विप्रतिपत्तीति ॥ मध्वादिष्विति वक्ष्यमाणजैमिन्यादिनाविप्रतिपत्तिसूचनायेत्यर्थः विशिष्टबुध्यादिराहित्यरूपोपाधिग्रस्तत्वान्नानुमानं युक्तमित्याह ॥ न तिर्यगादीनामिति ॥ यत्राधिकाराभावस् तत्र विशिष्टबुद्ध्यादिराहित्यमितिसाध्योपाध्योः सहचारो वक्तव्यः । तत्र तिर्यगादिषु अधिकाराभावरूप साध्यसत्वेऽपि उपाध्यभावेन साध्याव्यापकत्वान् नायमुपाधि-रित्याशयेन शङ्कते ॥ विशिष्टबुद्ध्यादीति ॥ ननु शूद्रादावधिकाराभावरूपसाध्यसत्वेऽपि विशिष्टबुद्ध्यादिराहित्यरूपउपाधेरभावेन व्यभिचारान्नोपाधिः सम्भवतीत्यत आह ॥ अनेनेति ॥ निषेधाभावकथनेनेत्यर्थः । तथा च शूद्रादावधिकाराभावरूपसाध्यस्य सत्वेऽपि निषेधराहित्यरूपविशेषणाभावप्रयुक्तविशिष्टाभावरूपउपाधेरपि निषेधविषये शूद्रादौ सत्वेन न व्यभिचार इत्यर्थः । तथा च देवा वेदविद्याधिकारिणः निषेधराहित्ये सति विशिष्टबुद्ध्यादि-मत्वात् । योग्यत्रैवर्णिकवदित्यनुमानमुक्तं भवति ॥ वेदाधिकारितयेति ॥ शेष इति ॥ ‘एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् । तुष्टाव प्राञ्जलिर्भूत्वा यत्तत् श्रुणु नराधिप’ इत्यादि-भारतवचनैर्जरितारिसृक्वस्तम्बमित्रदोणाख्यानां चतृर्णां पक्षिणामयमग्ने जरितेत्याग्नेयसूक्ते-नाग्निस्तावकत्वेन तन्मन्त्रद्रष्ट्रत्वस्य प्रसिद्धत्वादिति भावः ।

नन्वेवं भवदुक्तानुमानेऽपि मनुष्यत्वमुपाधिः स्यात् । साध्यव्यापकत्वसाधनाव्यापकत्वयोः सत्त्वादित्यत आह ॥ अनेनैवेति ॥ अमनुष्याणां जरितर्यादीनां वेदविद्याधिकारप्रदर्शने-नैवेत्यर्थः । उपाधेः साध्याव्यापकत्वादिति भावः ।

वाक्यार्थमञ्जरी

अधिकारेति ॥ योग्यतेत्यर्थः ॥ प्रासङ्गिकत्वादिति ॥ मनुष्याधिकारत्वमित्यनेन देवाद्यधिकारादेः स्मारितत्वादिति भावः ॥ नाध्यायसङ्गतिरिति ॥ मुख्यतो व्युत्पाद्येऽधिकारे न साक्षादध्यायसङ्गतिर्गवेषणीयेत्यर्थः । प्रासङ्गिकसङ्गतेस्त्वत्रापि सत्वात् फलिते देव-तोपास्यत्वलिङ्गसमन्वये साक्षात्सङ्गतेरपि सत्वाच्च । अत एव सङ्क्षेपे देवैर्वेदैर्ज्ञेय इत्युक्तम् । टीकायामपि न तदुपास्यत्वलिङ्गं विष्णोरिति पूर्वपक्षोपसंहारात्तदुपास्यत्वं हरेरित्यधिकरणोप-संहाराच्च । प्राक् प्रायःशब्देन व्यावर्तनन्तु मुख्यतः साक्षात्सङ्गत्यभावेनेति ध्येयम् । ननु स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः न स्मृतत्वमात्रं तत्कथमस्योपेक्षानर्हत्वमित्यतस्तत्प्रदर्शनपरभाष्य-मवतार्य व्याचष्ये ॥ श्रुत्यादिसङ्गतीति ॥ असाम्यादिति ॥ श्रुतेरपौरुषेयत्वेन प्राबल्यादिति भावः । अर्थीति प्रयोजनार्थी तत्साधनकरणसमर्थः । साधनेति कर्तव्यताज्ञान्यधिकारी भवतीति न्यायार्थः ॥ कर्मादिविरोधेति ॥ तथात्वे प्रागूर्ध्वदेवताभावेन तदुद्देशेन कृतकर्मणो वैयर्थ्याख्य-विरोधेनेत्यर्थः । अमराणामित्युक्त्या तेषां मुक्त्यङ्गीकारे मरणवर्जितत्वप्रसिद्धिविरोधं सूचयति । सन्देहबीजं निषेधकोट्युपस्थापकम् ॥ ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ॥ तेषां प्रकृतानां मनुष्याणामुपरि विद्याकर्मभ्यां देवत्वप्राप्त्यनन्तरमपि देवानामिति यावदधिकारोऽस्ति कुतः विशिष्टबुद्ध्यादिसम्भवादिति बादरायण आहेत्यर्थः । विघटनप्रकारं व्यञ्जयन्नाह ॥ मनुष्येति ॥ विशिष्टबुद्ध्यादीति वाक्यार्थज्ञानोपयोगिशक्तिगृहादित्यर्थः ॥ योग्येति ॥ देवत्वयोग्यानां मनुष्येषु साधानसम्पत्त्यर्थमवतारादिति भावः । स्वोक्तिमात्रेणेतरसूत्रेष्विव स्वमतस्य ज्ञातुं शक्यत्वाद्बादरायणग्रहणमनर्थकमित्यत आह ॥ विप्रतिपत्तीति ॥ मध्वादिष्व-सम्भवादिति वक्ष्यमाणत्वादिति भावः ॥ विशिष्टबुद्ध्यादिराहित्येति ॥ तथा चानुमानस्य सोपाधिकत्वमिति भावः । उपाधेः साक्षाद्दोषत्वाभावादाह ॥ तथा चेति ॥ तथा च देवा वेदाधिकारिणः निषेधरहितत्वे सति विशिष्टबुद्ध्यादिमत्त्वाद्योग्यत्रैवर्णिकवदिति प्रतिपक्षानुमानं भाष्यसूचितमिति भावः ॥ व्याप्तिविधुर इति ॥ तिर्यक्षु साध्याव्यापक इत्यर्थः ॥ व्यभिचार-परिहार इति ॥ अधिकाराभावरूपसाध्यवति सच्छूद्रे विशेषणाभावप्रयुक्तस्य निषेधराहित्ये सति विशिष्टबुद्ध्यादिराहित्यरूपोपाधेरपि सत्वात्साध्याव्यापकत्वपरिहार इत्यर्थः । उत्तराधि-करणन्यायेन सच्छूद्रस्याधिकारनिषेधादिति भावः ॥ वेदविद्याधिकारितयेति शेष इति ॥ खाण्डववनस्थानां जरितारिसरिसृक्वस्तम्बमित्रद्रोणाख्यानां चतृर्णां पक्षिणां समात्रकाणां कृत्स्नं वनं परितो दहता वह्निना स्वदाहप्रसक्तौ भ्रातृभिः प्रार्थितो जरितारिर् अयमग्रेजरितेत्यादिमन्त्रैः स्तुत्वा प्रीतेनाग्निना तान्मोचयामासेति । एवमुक्तो भ्रातृभिस्तु जरितारिर् विभावसुं तुष्टाव प्राञ्जलिर्भूत्वा यत्तत् शृृणु नराधिपेत्यादिना भारते प्रसिद्धत्वादिति भावः ॥ अनेनेति ॥ अमनुष्याणां जरितार्यादीनां वेदाधिकारप्रदर्शनेनेत्यर्थः ॥ स्वप्रयुक्तेति ॥ प्रतिपक्षानुमानेत्यर्थः । अपोढः निराकृतः साध्याव्यापकत्वादिति भावः ।


ॐ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ

सूत्रभाष्यम्

॥ ॐ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ ॥ २७ ॥

मनुष्या एव देवादयो भवन्तीति तदुपरीत्युक्तम् । तत्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देवताभावाद्देवतोद्दिष्टकर्मणि विरोध इति चेन्न । अनेकेषां देवतापद-(प्रतिपत्ते)प्राप्तेर्दर्शनात् । ‘ते ह नाकं महिमानः सचन्ते(न्त) यत्र पूर्वे साध्याः सन्ति देवा’ (तै.आ.३-१२) इति ॥

तत्त्वप्रदीपिका

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । किञ्चित्कालं मनुष्या एव सन्तः पश्चा-द्देवोपदेवादयो भवन्तीति हि तदुपरीत्यत्रोक्तम् । मनुष्याणां सतां देवादित्वप्राप्त्युपरीति विवरणात् । यद्येतदेवं तर्हि तत्पूर्वं तेषां देवादित्वप्राप्तेः पूर्वं, देवतानामभावात्तत्तद्देवतोद्देशेन चोद्यमानेषु कर्मसु विरोधः । उद्देश्याभावादिति चेन्न । केषाञ्चिदिन्द्रादीनां देवानां स्वस्व-पदात्ययेऽन्येषामिन्द्रादीनां तत्तत्पदप्रतिपत्तिः । तेषामत्यये वाऽपरेषामित्यनेन क्रमेणा-नेकेषामधिकारिणामेकैकगणशोऽनन्तानां देवतापदप्रतिपत्तेर्दर्शनात् । ‘ते ह नाकं महिमानः सचन्त’ इत्यादिवाक्यात् । ‘ते’ देवा ‘नाकं’ मोक्षं महिमगुणात्मकाः ‘सचन्तः’ आप्नुवन् । यत्र नाके पूर्वे साध्या वस्वादयो देवास्सन्ति । अथवा यत्र पूर्वे सिद्धा मुक्तास्सन्तीत्यर्थः । न चात्र नाकः स्वर्गः । न हि स्वर्गे पूर्वसिद्धानां पश्चात्तनानां च देवानां सहभावः सम्भवति । नाकशब्दश्चादुःखवाची मोक्षं वदन्नेव स्वार्थं पूर्णं लभते ॥

तत्त्वप्रकाशिका

देवानां वेदविद्याधिकारमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद्व्याचष्टे ॥ विरोध इति ॥ यदुक्तं देवानां वेदविद्याधिकारसिद्ध्यर्थं सादिविनाशित्वम् । तदयुक्तम् । तथात्वे तेभ्यः पूर्वं देवताऽभावेन पूर्वकल्पप्रयुक्तकर्मण्युद्देश्याभावाद्वैयर्थ्याख्यविरोधापत्तेः । अतः कर्म-विरोधपरिहाराय देवानामनादिनित्यत्वमेवाभ्युपेयम् । तथा चार्थित्वाभावेनानधिकार एवेत्यर्थः । परिहारांशं व्याचष्टे ॥ नेति ॥ भवेदयं विरोधो यदि पूर्वं देवताऽभावः । न चासावस्ति । एतद्देवानां पूर्वमभावेऽपि देवान्तरसद्भावात् । न च तत्र प्रमाणाभावः । अनेकेषां योग्य-मनुष्याणां पूर्वं पूर्वं देवतापदप्राप्तेः श्रुत्युक्तत्वादित्यर्थः । देवा देवत्वयोग्या मनुष्या यज्ञेन ज्ञानकर्मात्मकेन यज्ञं भगवन्तमयजन्त । ततस्ते ज्ञानपूर्वकर्मणा स्वपदं प्राप्य मुख्यलोकधारका आसन् । ते पुनर्महात्मानो देवाः स्वाधिकारावसाने पूर्णसुखात्मकं मोक्षं प्राप्नुवन् । यत्र मोक्षे पूर्वकल्पे मुक्ताः साध्या देवाः सन्तीति मन्त्रार्थः ॥

गुर्वर्थदीपिका

ततस्त इत्यादिश्रुतौ साध्या देवा इत्येतद्देवान्तरस्याप्युपलक्षणमिति भावेनोक्तं साध्यादिदेवा इति । देवानां प्रवाहतोऽनादित्वात्प्रवाहतोऽनादिकर्मणि विरोधाभावेऽपि स्वरूपानादिभूते वेदे देवानां प्रलयेऽभावेनार्थाभावप्रयुक्ताप्रामाण्याख्यविरोधः स्यादित्यतः सूत्रान्तरारम्भ इति विवेचनीयम् ।

भावबोधः

देवतापदस्यादित्वप्रतिपादकतया भाष्योदाहृतश्रुतिं व्याचष्टे– देवत्वयोग्या मनुष्या इति ॥ अन्यथा आसन्निति यज्ञानन्तरं देवतापदप्राप्त्युक्तिर्न स्यादिति भावः ।

भावदीपः

भवन्तीत्यन्तभाष्यभावमाह ॥ यदुक्तमिति ॥ तत्पूर्वमित्यादि व्याचष्टे ॥ तथात्व इति ॥ सादित्व इत्यर्थः । नेत्येतद्व्याचष्टे ॥ न चासाविति ॥ पूर्वं देवताभावो नास्तीत्यर्थः । अनेकेषामित्यादि व्याचष्टे ॥ एतदिति ॥ योग्येति ॥ देवत्वयोग्यमनुष्याणामित्यर्थः । प्रकृतोपयोगितयाऽर्थमाह ॥ देवा इति ॥ भगवन्तमिति ॥ यज्ञो वै विष्णुरिति श्रुतेरिति भावः । पूर्वोक्तं हेतूकृत्य तानीत्यादेरर्थमाह ॥ ततस्त इत्यादिना ॥ ते ह नाकमित्यादेरर्थः ॥ ते पुनरिति ॥ कं सुखं तदन्यदकं नेति नाकमिति नञ्द्वयार्थमाह ॥ पूर्णसुखेति ॥

अभिनवचन्द्रिका

‘यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा’ इति ऋचं व्याचष्टे ॥ देवा इति ॥

वाक्यार्थमुक्तावली

तदुपरीत्युक्तमित्यनन्तरं तद्भाष्यभावमाह ॥ यदुक्तमिति ॥ तत्र यदीत्यत्र यदि मनुष्या सन्तो देवादयोर् भवन्ति तत्र तर्हीत्यर्थमभिप्रेत्य व्याचष्टे ॥ तथात्वे इति ॥ नेत्यस्य विरोधो न देवताभावो न इत्यर्थद्वयमाह ॥ न चासाविति ॥ देवत्वयोग्या इति ॥ अन्यथा आसन्निति यज्ञानन्तरं देवतापदप्राप्त्युक्तिर्न स्यादिति भावः । तानि देवतानि धर्माणि धारकाणि कं सुखं तदन्यदकं तन्नेति नाकमिति । नञ्द्वयार्थमाह ॥ पूर्णसुखेति ॥ सचन्त आप्नुवन् । साध्यादि-देवा इति बहुवचनमाद्यर्थे । तेन साध्यादीत्युक्तसाध्यपदेन च ‘ऋजवो ब्रह्ममुख्या हि सुपर्णः शेष एव च । सरस्वती सुपर्णी च वारुणी साध्यनामकाः’ इति छान्दोग्यभाष्योक्तदेवा ग्राह्याः । तदुपरीत्यस्य देवपदस्य सादित्व इत्यर्थः । ततोऽनुवृत्याऽसूत्रार्थः स्फुटः ।

तत्त्वसुबोधिनी

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्नित्यस्यार्थमाह ॥ देवा इति ॥ देवतापदस्य सादित्वप्रतिपादकतया भाष्योदाहृतश्रुतिं व्याचष्टे ॥ देवत्वयोग्या मनुष्या इति ॥ अन्यथा आसन्निति यज्ञानन्तरं देवतापदप्राप्त्युक्तिर् न स्यादिति भावः । तानीत्यस्य व्यत्ययेन तेनेत्यर्थः । धर्माणीत्यस्यार्थो लोकधारका इति ॥ महिमान इत्यस्यार्थो महात्मानः । ह इत्यत्य पुन इत्यर्थः । नाकमित्यस्यार्थः पूर्णसुखात्मकं मोक्षमिति ।

वाक्यार्थमञ्जरी

देवपदस्य सादित्वाङ्गीकारे कर्मणि कर्मविषये विरोध उक्तरीत्या व्यर्थतालक्षणः स्यादिति चेन्न । अनेकेषां योग्यमनुष्याणां प्रतिपत्तेः पूर्वं देवतापदप्राप्तेर् यज्ञेनेति श्रुत्युक्तत्वादित्यर्थः ॥ उद्देश्येति ॥ यदुद्देश्य हविस्त्यागस् तदभावादित्यर्थः । यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्निति प्रथमार्धेन सह ते ह नाकमिति श्रुतिं देवतापदस्य सादित्वपरतया व्याचष्टे ॥ देवत्वयोग्या इति ॥ पदप्राप्त्यनन्तरमेव देवसंज्ञेति भावः । प्रथमानि धर्माणीत्यस्यार्थो मुख्य-लोकधारका इति कं सुखं तदन्यदकं तन्न भवतीति नाकम् इति नञ्द्वयार्थमाह ॥ पूर्णसुखेति ॥ साध्या देवाश्चेत्यर्थः ।

सूत्रभाष्यम्

॥ ॐ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ ॥ २७ ॥

मनुष्या एव देवादयो भवन्तीति तदुपरीत्युक्तम् । तत्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देवताभावाद्देवतोद्दिष्टकर्मणि विरोध इति चेन्न । अनेकेषां देवतापद-(प्रतिपत्ते)प्राप्तेर्दर्शनात् । ‘ते ह नाकं महिमानः सचन्ते(न्त) यत्र पूर्वे साध्याः सन्ति देवा’ (तै.आ.३-१२) इति ॥

तत्त्वप्रदीपिका

विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । किञ्चित्कालं मनुष्या एव सन्तः पश्चा-द्देवोपदेवादयो भवन्तीति हि तदुपरीत्यत्रोक्तम् । मनुष्याणां सतां देवादित्वप्राप्त्युपरीति विवरणात् । यद्येतदेवं तर्हि तत्पूर्वं तेषां देवादित्वप्राप्तेः पूर्वं, देवतानामभावात्तत्तद्देवतोद्देशेन चोद्यमानेषु कर्मसु विरोधः । उद्देश्याभावादिति चेन्न । केषाञ्चिदिन्द्रादीनां देवानां स्वस्व-पदात्ययेऽन्येषामिन्द्रादीनां तत्तत्पदप्रतिपत्तिः । तेषामत्यये वाऽपरेषामित्यनेन क्रमेणा-नेकेषामधिकारिणामेकैकगणशोऽनन्तानां देवतापदप्रतिपत्तेर्दर्शनात् । ‘ते ह नाकं महिमानः सचन्त’ इत्यादिवाक्यात् । ‘ते’ देवा ‘नाकं’ मोक्षं महिमगुणात्मकाः ‘सचन्तः’ आप्नुवन् । यत्र नाके पूर्वे साध्या वस्वादयो देवास्सन्ति । अथवा यत्र पूर्वे सिद्धा मुक्तास्सन्तीत्यर्थः । न चात्र नाकः स्वर्गः । न हि स्वर्गे पूर्वसिद्धानां पश्चात्तनानां च देवानां सहभावः सम्भवति । नाकशब्दश्चादुःखवाची मोक्षं वदन्नेव स्वार्थं पूर्णं लभते ॥

तत्त्वप्रकाशिका

देवानां वेदविद्याधिकारमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद्व्याचष्टे ॥ विरोध इति ॥ यदुक्तं देवानां वेदविद्याधिकारसिद्ध्यर्थं सादिविनाशित्वम् । तदयुक्तम् । तथात्वे तेभ्यः पूर्वं देवताऽभावेन पूर्वकल्पप्रयुक्तकर्मण्युद्देश्याभावाद्वैयर्थ्याख्यविरोधापत्तेः । अतः कर्म-विरोधपरिहाराय देवानामनादिनित्यत्वमेवाभ्युपेयम् । तथा चार्थित्वाभावेनानधिकार एवेत्यर्थः । परिहारांशं व्याचष्टे ॥ नेति ॥ भवेदयं विरोधो यदि पूर्वं देवताऽभावः । न चासावस्ति । एतद्देवानां पूर्वमभावेऽपि देवान्तरसद्भावात् । न च तत्र प्रमाणाभावः । अनेकेषां योग्य-मनुष्याणां पूर्वं पूर्वं देवतापदप्राप्तेः श्रुत्युक्तत्वादित्यर्थः । देवा देवत्वयोग्या मनुष्या यज्ञेन ज्ञानकर्मात्मकेन यज्ञं भगवन्तमयजन्त । ततस्ते ज्ञानपूर्वकर्मणा स्वपदं प्राप्य मुख्यलोकधारका आसन् । ते पुनर्महात्मानो देवाः स्वाधिकारावसाने पूर्णसुखात्मकं मोक्षं प्राप्नुवन् । यत्र मोक्षे पूर्वकल्पे मुक्ताः साध्या देवाः सन्तीति मन्त्रार्थः ॥

गुर्वर्थदीपिका

ततस्त इत्यादिश्रुतौ साध्या देवा इत्येतद्देवान्तरस्याप्युपलक्षणमिति भावेनोक्तं साध्यादिदेवा इति । देवानां प्रवाहतोऽनादित्वात्प्रवाहतोऽनादिकर्मणि विरोधाभावेऽपि स्वरूपानादिभूते वेदे देवानां प्रलयेऽभावेनार्थाभावप्रयुक्ताप्रामाण्याख्यविरोधः स्यादित्यतः सूत्रान्तरारम्भ इति विवेचनीयम् ।

भावबोधः

देवतापदस्यादित्वप्रतिपादकतया भाष्योदाहृतश्रुतिं व्याचष्टे– देवत्वयोग्या मनुष्या इति ॥ अन्यथा आसन्निति यज्ञानन्तरं देवतापदप्राप्त्युक्तिर्न स्यादिति भावः ।

भावदीपः

भवन्तीत्यन्तभाष्यभावमाह ॥ यदुक्तमिति ॥ तत्पूर्वमित्यादि व्याचष्टे ॥ तथात्व इति ॥ सादित्व इत्यर्थः । नेत्येतद्व्याचष्टे ॥ न चासाविति ॥ पूर्वं देवताभावो नास्तीत्यर्थः । अनेकेषामित्यादि व्याचष्टे ॥ एतदिति ॥ योग्येति ॥ देवत्वयोग्यमनुष्याणामित्यर्थः । प्रकृतोपयोगितयाऽर्थमाह ॥ देवा इति ॥ भगवन्तमिति ॥ यज्ञो वै विष्णुरिति श्रुतेरिति भावः । पूर्वोक्तं हेतूकृत्य तानीत्यादेरर्थमाह ॥ ततस्त इत्यादिना ॥ ते ह नाकमित्यादेरर्थः ॥ ते पुनरिति ॥ कं सुखं तदन्यदकं नेति नाकमिति नञ्द्वयार्थमाह ॥ पूर्णसुखेति ॥

अभिनवचन्द्रिका

‘यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा’ इति ऋचं व्याचष्टे ॥ देवा इति ॥

वाक्यार्थमुक्तावली

तदुपरीत्युक्तमित्यनन्तरं तद्भाष्यभावमाह ॥ यदुक्तमिति ॥ तत्र यदीत्यत्र यदि मनुष्या सन्तो देवादयोर् भवन्ति तत्र तर्हीत्यर्थमभिप्रेत्य व्याचष्टे ॥ तथात्वे इति ॥ नेत्यस्य विरोधो न देवताभावो न इत्यर्थद्वयमाह ॥ न चासाविति ॥ देवत्वयोग्या इति ॥ अन्यथा आसन्निति यज्ञानन्तरं देवतापदप्राप्त्युक्तिर्न स्यादिति भावः । तानि देवतानि धर्माणि धारकाणि कं सुखं तदन्यदकं तन्नेति नाकमिति । नञ्द्वयार्थमाह ॥ पूर्णसुखेति ॥ सचन्त आप्नुवन् । साध्यादि-देवा इति बहुवचनमाद्यर्थे । तेन साध्यादीत्युक्तसाध्यपदेन च ‘ऋजवो ब्रह्ममुख्या हि सुपर्णः शेष एव च । सरस्वती सुपर्णी च वारुणी साध्यनामकाः’ इति छान्दोग्यभाष्योक्तदेवा ग्राह्याः । तदुपरीत्यस्य देवपदस्य सादित्व इत्यर्थः । ततोऽनुवृत्याऽसूत्रार्थः स्फुटः ।

तत्त्वसुबोधिनी

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्नित्यस्यार्थमाह ॥ देवा इति ॥ देवतापदस्य सादित्वप्रतिपादकतया भाष्योदाहृतश्रुतिं व्याचष्टे ॥ देवत्वयोग्या मनुष्या इति ॥ अन्यथा आसन्निति यज्ञानन्तरं देवतापदप्राप्त्युक्तिर् न स्यादिति भावः । तानीत्यस्य व्यत्ययेन तेनेत्यर्थः । धर्माणीत्यस्यार्थो लोकधारका इति ॥ महिमान इत्यस्यार्थो महात्मानः । ह इत्यत्य पुन इत्यर्थः । नाकमित्यस्यार्थः पूर्णसुखात्मकं मोक्षमिति ।

वाक्यार्थमञ्जरी

देवपदस्य सादित्वाङ्गीकारे कर्मणि कर्मविषये विरोध उक्तरीत्या व्यर्थतालक्षणः स्यादिति चेन्न । अनेकेषां योग्यमनुष्याणां प्रतिपत्तेः पूर्वं देवतापदप्राप्तेर् यज्ञेनेति श्रुत्युक्तत्वादित्यर्थः ॥ उद्देश्येति ॥ यदुद्देश्य हविस्त्यागस् तदभावादित्यर्थः । यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्निति प्रथमार्धेन सह ते ह नाकमिति श्रुतिं देवतापदस्य सादित्वपरतया व्याचष्टे ॥ देवत्वयोग्या इति ॥ पदप्राप्त्यनन्तरमेव देवसंज्ञेति भावः । प्रथमानि धर्माणीत्यस्यार्थो मुख्य-लोकधारका इति कं सुखं तदन्यदकं तन्न भवतीति नाकम् इति नञ्द्वयार्थमाह ॥ पूर्णसुखेति ॥ साध्या देवाश्चेत्यर्थः ।