ॐ शब्दादेव प्रमितः ॐ
७. वामनाधिकरणम्
सूत्रभाष्यं
विष्णुरेव जिज्ञास्य इत्युक्तम् । तत्र–
‘ऊध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वेदेवा उपासत’ (क.उ. ५-३)
इति सर्वदेवोपास्यः कश्चित्प्रतीयते । स च ‘एवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्ते’ (प्र.उ.३-४) ‘योऽयं मध्यमः प्राणः’ (बृ.उ.३-५-२१) ‘कुविदङ्ग’ (ऋ.सं. ७-९१-१) इत्यादिना प्राणव्यवस्थापकत्वान्मध्यमत्वात्सर्वदेवोपास्यत्वाच्च वायुरेवेति प्रतीयते । अतोऽब्रवीत् ।
॥ ॐ शब्दादेव प्रमितः ॐ ॥ २४ ॥
वामनशब्दादेव विष्णुरिति प्रमितः । न हि श्रुतेर्लिङ्गं बलवत् ।
‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।
पूर्वं पूर्वं बलीयः स्यादेवमागमनिर्णय’ इति स्कान्दे ।
तच्च लिङ्गं विष्णोरेव । तस्यैव प्राणत्वोक्तेः ‘तद्वै त्वं प्राणो अभव’ इति ॥
सत्तर्कदीपावली
विष्णुरेव जिज्ञास्य इत्यादेरयमर्थः । ऊर्ध्वं प्राणमुन्नयतीत्याद्याम्नायते । तत्र ताव-ल्लिङ्गान्मुख्यप्राणः प्रतीयते । यदत्र प्राणापानादिविनियोजकत्वं यन्मध्यस्थितत्वं यच्च सर्वदेवोपास्यत्वं तत्सर्वमेव प्राण इत्यादि श्रुत्यन्तरेषु मुख्यप्राणशब्दाभिधेयस्य प्रधान-वायोर्लिङ्गत्वेन उच्यते । कुविदङ्गेत्यस्यायमर्थः । ओति सम्बोधनम् । नमस्कारादिरूपया भक्त्या प्रवृद्धा अनवद्याः पुरा ये देवाः सूर्येण सहासन् ते ज्ञानिने क्लेशबाधितैः शरणत्वेन प्राप्ताय वायवे क्वचिदेकान्ते उषसः प्रकाशरूपा बुद्धिं ध्यानाख्याम् आवसन् स्थापयामासुरकुर्वन्निति । अतो यदुक्तं प्राग्विष्णुरेव निदिध्यासितव्य इति तन्न सिध्यतीति चेन्मैवम् । विष्णुरेवात्र प्रतिपाद्यते । वामनमासीनमिति वामनश्रुतेः । यदुक्तं मुख्यप्राणलिङ्गं तच्छृत्या बाध्यते दुर्बलत्वात् । तदुक्तं जैमिनिना ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्य-मर्थविप्रकर्षात्’ इति । यत्र श्रुतिलिङ्गादयः परस्परं विरुध्यन्ते तत्र पूर्वपूर्वबलीयस्त्वं पुराण-वचनेन साधयति ॥ श्रुतिरिति ॥ अत्र समाख्या नाम समानप्रकरणमुच्यते । विष्णावप्यु-पपन्नत्वेनान्यथा सिद्धत्वादप्यत्र मुख्यप्राणलिङ्गं न विरोधीत्याह ॥ तच्चेति ॥
तत्त्वप्रदीपिका
मोक्षस्यैव परमपुरुषार्थत्वात्तस्य च विना विष्णुप्रसादादलभ्यत्वात्, तस्य चातिमात्रस्य ज्ञानप्रसाध्यत्वात्, तस्य चापरोक्षस्य जिज्ञासासमायत्तत्वाद् विष्णुरेव जिज्ञास्य इत्युक्तम् । जिज्ञास्यो मीमांस्यो विचार्य इत्यर्थः । ‘जिज्ञासितं सुसम्पन्नम्’ इति भागवते । अर्थादुपास्य इत्यापद्यते । तत्र काठकश्रुतौ सर्वदेवोपास्यः कश्चित्प्रतीयते । स किं वायुरुत विष्णुरिति संशयः । किं तावत्प्राप्तम् ? वायुरेवेति ॥ ऊर्ध्वमित्यादिश्रुतेः । ‘योऽयं देहे देहिनामूर्ध्वं प्राणमुन्नयत्यपानमभिमुखमस्यति तं मध्य आसीनं देवा उपासते’ इति प्राणव्यवस्थापकत्वा-न्मध्यमत्वाच्च । ‘यथा सम्राडेवाधिकृतान्विनियुंक्त एतान्ग्रामानधितिष्ठस्वेति, एवमेवैष प्राणः’ इत्यादिश्रुत्यन्तरान्मुख्यप्राणस्यैव प्राणानां व्यवस्थापकत्वम् । ‘अथेममेव नाऽप्रोद्योऽयं मध्यमः प्राणः’ इति बृहदारण्यकवाक्यात्तस्यैव मध्यमत्वं च । सर्वदेवोपास्यत्वं चाविरुद्धं तस्य । कुविदङ्गेत्यादौ प्रसिद्धत्वात् । तथाहि– पुरा क्वचिद्ये नमस्कारादिना वृद्धास्सन्तो देवा रागाद्यवद्यशून्या आसन् ते । वायवे ज्ञानिने बाधिभिश्शरणार्थमितायाऽवासयन् स्वबुद्धिं सूर्येण सह । ‘उष प्रकाशन’ इति धातोर्बुद्धिरुषश्शब्दोक्ता । वायुमुद्दिश्य बुद्धिमावासयन्नित्यर्थः । तस्माद्वायुरपि जिज्ञास्य इति प्राप्ते प्रतिविधीयते । ‘शब्दादेव प्रमितः’ । एवमागमनिर्णयः । एवं पूर्वपूर्वबलीयोभिः श्रुत्यादिभिरागमार्थनिर्णयः ।
श्रुतिर्नाम समुद्दिष्टं लिङ्गं तल्लक्षणं स्मृतम् ।
पदानि निरपेक्षाणि वाक्यं प्रकरणं तथा ॥
एकस्य प्रतिपत्त्यङ्गवचनं स्थानमुच्यते ।
अन्यत्र तत्समोक्तिस्तु समाख्यास्थानमेव च ।
अध्यायादिप्रबन्धास्तु प्रभेदा आगमस्य च ॥
इति सम्प्रदायविद्वचनादेतेषां भेदो वेदितव्यः ।
तत्त्वप्रकाशिका
अत्र प्रेरकत्वसाम्येन भगवति वायौ च साधारणस्येशाननाम्नो विष्णौ समन्वय-प्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयसंशयौ च सूचयति ॥ विष्णुरेवेति ॥ ‘अथातो ब्रह्मजिज्ञासा’ इति जिज्ञास्यत्वं विष्णोरुक्तम् । तज्जिज्ञास्यत्वमीशानस्य काठके प्रतीयते । ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य’ इत्युक्त्वा ‘ऊर्ध्वं प्राणम्’ इत्यादौ ‘विश्वेदेवा उपासते’ इति जिज्ञासोपासनयोरैक्यात् । श्रवणादिरूपविचारो हि जिज्ञासोच्यते । उपासना च सैव । यदाहुः । ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव तदङ्गं धारणादिकम्’ इति । स च यदि विष्णोरन्यः स्यात्तदा जिज्ञास्यत्वं चान्यस्यैव प्रसज्जते इत्यवश्यं निर्णेयः । स ईशानोऽत्र विषयः । किं विष्णुर्वायुर्वेति सन्देहः । प्रागुक्तसाधारण्यमेव सन्देहबीजमिति भावः । ईशानशब्दस्य रुद्रे प्रसिद्धावपि तद्विषयसंशयः (अधिकारिसर्वोपास्य) सर्वदेवोपास्यत्वलिङ्गभिया गर्भस्रावेणैव निवृत्तः । य उन्नयति तमित्यन्वयः । सयुक्तिकं पूर्वपक्षयति ॥ स चेति ॥ स चेशानो वायुरेव भवेत् । ईशानस्योर्ध्वं प्राणमुन्नयतीति वाक्ये प्राणव्यवस्थापकत्वमध्यमत्वसर्वदेवोपास्यत्वश्रवणात् । न चैतल्लिङ्ग-श्रवणेऽपि कुतोऽयं वायुर्विष्णुः किं न स्यादिति । ‘यथा सम्राडेवाधिकृतान्विनियुङ्क्त एतान् ग्रामान् अधितिष्ठस्वैतान् ग्रामानधितिष्ठस्व इत्येवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव सन्निधत्ते’ इति प्राणव्यवस्थापकत्वस्य वायुलिङ्गत्वश्रवणात् । ‘अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः’ इति मध्यमत्वस्य तद्धर्मत्वोक्तेः । कुविदङ्गेति तस्य सर्वदेवोपास्यत्वप्रतीतेश्च । अतो वाय्वेकनिष्ठलिङ्गश्रवणादीशानो वायुरेवेति हेतोस्तस्यैव जिज्ञास्यत्वम् । न च वाच्यं नेदमनिष्टं वायोरिति जिज्ञास्यताभ्युपगमाद् विष्णुजिज्ञास्यत्वस्याबाधादिति । वायोः सर्वदेवोपास्यत्वे तस्य मोक्षदातृत्वापातात् । न हि प्राप्तसमस्तैश्वर्याणां देवानां प्रयोजनान्तरमस्ति । तथा च किं विष्णुजिज्ञासानियमेनेति विष्णुरेव मोक्षार्थं जिज्ञास्य इत्यस्यानुपपत्तिरिति भावः । अयं मन्त्रार्थः । ओति सम्बोधनम् । ये देवा वायोर्नमस्कारादिना ज्ञानादिगुणपूर्णा अज्ञानाद्यवद्य-विधुराश्च पुरा आसंस्ते क्वचिद्रहस्यस्थाने सूर्येण साकं ज्ञानिने संसारबाधवद्भिः शरणं प्राप्ताय वायवे बुद्धिमावासयंस्तद्विषयामकुर्वन्निति । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ विष्णुरेवेशानो भवेत् । ‘मध्ये वामनम्’ इति वामनश्रुतेः । तस्याश्च विष्णौ महायोगरूढि-सिद्धायास्तत्प्रमापकत्वात् । अतो विष्णोरीशानत्वेन तस्यैव जिज्ञास्यत्वमिति भावः । अत्र प्रमितपदं श्रुतेर्निरवकाशत्वसूचनार्थम् । ननु वायुलिङ्गसद्भावादीशानो वायुरेव किं न स्यादित्यत आह ॥ न हीति ॥ भवेत्सत्यामपि श्रुतौ लिङ्गेन वायुत्वनिश्चयो यदि श्रुतेर्लिङ्गं बलवद्भवेन्न च तदस्तीत्यर्थः । अनेन शब्दादेव इत्येवकाराभिप्रायो वर्णितो भवति । कुतो न श्रुतेर्लिङ्गं बल-वदित्यत आह ॥ श्रुतिरिति ॥ नाममात्रेण निर्देशः श्रुतिः । असाधारणधर्मो लिङ्गम् । निराकाङ्क्षपदानि वाक्यम् । एकप्रमेयप्रतिपादकानेकवाक्यानि प्रकरणम् । अनेकप्रमेयप्रतिपादक-मेकार्थे तात्पर्ययुक्तं स्थानम् । समानोक्तिः समाख्या । तत्र श्रुतेः साक्षादर्थधीजनकत्वात् सर्वतः प्राबल्यम् । लिङ्गस्यानुमापकतयाऽर्थबोधकत्वात् तदानन्तर्यम् । वाक्यस्यानेकार्थकथन-द्वाराऽर्थानुमापकत्वात् ततोऽपि दौर्बल्यम् । प्रकरणस्य बह्वर्थपरत्वेनार्थानुमितिहेतुत्वात्तदवमता । स्थानस्यातिबह्वर्थकथनेनाभिप्रायतोऽर्थानुमितिजनकस्य ततोऽपि दौर्बल्यम् । समाख्यायाः स्थानान्तरगतायाः सादृश्यमात्रेणार्थानुमापकत्वात्ततोऽपि दुर्बलत्वम् । अत्रापि पूर्ववन्निरव-काशात् स्वभावदुर्बलादपि स्वभावप्रबलसावकाशस्य दौर्बल्यमित्यादि द्रष्टव्यम् । अत्र विरुद्धैतेषां समवाये सत्येवं पूर्वपूर्वेणोत्तरोत्तरबाधायागमार्थनिर्णयो भवतीत्यर्थः । न च यथा स्थित एव क्रमः । आत्मा प्रकरणादित्यत्र समाख्यायाः प्रकरणेन बाधितत्वात् । तदाह जैमिनिः ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ इति । भाष्यकारोऽपि । ‘वाक्यं प्रकरणं स्थानं समाख्या च तथा विधा’ इति । श्रुतिलिङ्गवाक्यानां साक्षाद्विप्रतिपन्नार्थनिष्ठत्वे श्रुत्यादित्वेनैव ज्ञापकत्वम् । उपक्रमोपसंहारयोः श्रुतत्वे तन्निश्चायक-तया लिङ्गत्वमन्यत्र चेत्प्रकरणनिश्चायकत्वेन । उपक्रमोपसंहारावपि श्रुत्यादिना सत्यामर्थसिद्धौ तात्पर्यलिङ्गे । अन्यथा प्रकरणनिश्चायकौ । समाख्यापि साक्षाद्विप्रतिपन्ननिष्ठा समाख्यात्वेनैव लिङ्गम् । अन्यथा प्रकरणनिश्चायकत्वेन भवति । लिङ्गवाक्ययोः साक्षादसाक्षात्त्वेन भेदः ‘गोत्रभिदं’ ‘प्रवक्षणा अभिनत्पर्वतानाम्’ इत्यादिवदिति । नन्वस्तु श्रुतेः स्वभावप्राबल्यं तथापि बाहुल्येन लिङ्गानामपि प्राबल्यादनिर्णय एवेत्यत आह ॥ तच्चेति ॥ न बाहुल्येऽपि लिङ्गानां श्रुतिसाम्येनानिर्णयः । श्रुतेर्निरवकाशत्वात् । लिङ्गानां विष्णाववकाशात् । सावकाशशतादपि निरवकाशैकस्य प्राबल्यादिति भावः । श्रुत्यन्तरेण प्राणनिष्ठतया लिङ्गोक्तेः । कथं तद्विष्णोरित्यत आह ॥ तस्यैवेति ॥ वायुत्वमत्रोपलक्ष्यते ॥
गुर्वर्थदीपिका
प्राणव्यवस्थापकत्वमध्यमत्वेत्यत्र अपानप्राणयोर्मध्ये आसीनमित्युक्तत्वान्मध्यमत्वं श्रूयत इति भावः । न चास्य प्राणोन्नायकत्वमेव श्रूयते न तु प्राणत्वं तेन योऽयं मध्यमः प्राण इति श्रुतिर्न समाख्येति वाच्यम् । अत्र प्राणापानपदेन ऊर्ध्वाधःश्वासयोरेव गणनात्तन्नियामकतया मध्ये स्थितो मध्यमप्राण एवेति शङ्कितुरभिप्रेतत्वात् । अत एव वामनत्वमप्यङ्गुष्ठप्रमाणतया ह्रस्वत्वात्कथञ्चिन्नेयमित्यभिसन्धिः । उषःकालप्रवर्तकोषादेव्यभिमन्यमानत्वाद् बुद्धिरुषःपदे-नोच्यत इति भावेनोक्तम् ॥ बुद्धिमिति ॥ वामनपदस्य हरौ रूढेः सार्वजनीनत्वाद्वामनेऽ-तृत्वाख्ययोगस्य च निरवधिकत्वान् महारूढियोगसिद्धाया इत्युक्तम् । अत एव ह्रस्वो वामन इति शङ्काऽपि गर्भस्रावेणैव गता । विशेष्यभूतवामनाख्यपञ्चमभगवदतारविवक्षायां विशेष्य-पदाभावेन विशेषणमात्रस्य साकांक्षत्वेन वैयर्थ्याच्चाङ्गुष्ठमात्रपदेन पौनरुक्त्याच्च । अत एव शब्दस्य निरवकाशत्वद्योतनाय ‘शब्दादेव’ इत्युक्तम् । नाममात्रेणेत्यत्र असाधारणनाममात्रेण वस्तुनिर्देशः । यथा ‘मध्ये वामनम्’ इत्यत्र वामनश्रुतिः । असाधारणधर्मो लिङ्गमित्यत्र तद-साधारणधर्मबोधकसमस्तपदात्मकं लिङ्गवचनम् । यथा ‘गोत्रभिदं गोविदं वज्रबाहुम्’ इत्यादि । निराकांक्षपदानीत्यत्र पदान्तराकांक्षारहितत्वे सति संसर्गमर्यादया लिङ्गप्रतिपादकसमस्त-पदानीत्यर्थः । यथा ‘प्रवक्षणा अभिनत्पर्वतानाम्’ इत्यादि । वक्षःस्थानीयं मध्यं नयन्तीति वक्षणाः पक्षा ये वक्षणास्तानभिनदिति योजना । एकप्रमेयप्रतिपादकानेकवाक्यानि प्रकरण-मित्यत्र एकस्मिन्वाक्ये श्रुत्या लिङ्गेन वा निर्णीतं यत्प्रमेयं तदविरुद्धार्थप्रतिपादकानि तत्समीप-स्थानेकवाक्यानि प्रकरणमित्यर्थः । यथा ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति सत्यत्वादिलक्षणै-र्निर्णीतब्रह्मपरमन्त्रवर्णसमीपस्थानि ‘यो वेद निहितं गुहायाम्’ इत्यादीनि आनन्दमयान्त-वाक्यानि । अनेकप्रमेयप्रतिपादकमेकार्थे तात्पर्ययुक्तं स्थानमित्यत्र ब्रह्मकाण्डस्थतया ब्रह्मण्येव तात्पर्यवन्ति प्राणाद्यनेकप्रमेयप्रतिपादकानि प्राणसंवादाध्ययननियमदुःखास्वातन्त्र्यादि-प्रतिपादकतयैकप्रकरणस्थानि वाक्यानि स्थानमित्युच्यते । समानोक्तिः समाख्येत्यत्र निर्णीतस्थलस्थसमानोक्तिः समाख्येत्यर्थः । यथा विश्वकर्मसूक्तार्थनिर्णायकं ‘परो दिवा पर एना पृथिव्या’ इति लक्ष्मीसूक्तस्थवचनम् । विरुद्धैतेषामित्यत्र आपाततो विरुद्धानामेतेषां श्रुत्यादिनामित्यर्थः । उपक्रमोपसंहारयोः श्रुतत्वे इत्यत्र उपक्रमे उपसंहारे च श्रुत्यादीनां श्रुतत्वे सतीत्यर्थः । तन्निश्चायकतया उपक्रमादीनामेकार्थनियतत्वनिश्चायकतया । लिङ्गत्वं तत्समीपस्थ-वाक्यान्तरार्थानुमापकत्वं, परनिरपेक्षत्वेन प्रबलत्वात् श्रुत्यादिकमेवार्थानुमापकम् । उपक्रमस्तु तदा ‘लिङ्गं तात्पर्यनिर्णये’ इति वचनात्तस्मिन्नर्थे तात्पर्यमात्रानुमापकः । वायुत्वमत्रोपलक्ष्यत इत्यत्र ‘ते वायव’ इति श्रुत्युक्तवायुत्वं भाष्यस्थप्राणत्वपदेनोपलक्ष्यते ।
भावबोधः
अविनाशित्वसाम्यादित्यत्राक्षरशब्दप्रवृत्तिनिमित्ताविनाशित्वस्यैवेशानशब्दस्यापि यौगिकत्वेन तत्प्रवृत्तिनिमित्तप्रेरकत्वस्योभयत्र प्रसिद्धिहेतुत्वं स्फुटमिति पुनःशब्द ईशानो वज्रो योनिराकाश इति न्यायविवरणे साधारण्यमात्रमनुवर्त्य उक्तमिति भावेनाह– अत्र प्रेरकत्वसाम्येनेति ॥ एवं वज्राद्यधिकरणेष्वपि ज्ञातव्यम् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु मौक्तसुखविशेषार्थिदेवोपास्यतया ‘विश्वे देवा उपासत’ इत्युक्तस्येशानस्य विष्णोरन्यत्वे तमात्मस्थं येऽनुपश्यन्ति धीरा इत्युक्तशाश्वतसुखसाधनज्ञानोपासनाविषयोऽप्यन्यः स्यादित्यादि-पूर्वाक्षेपसम्भवादिति ज्ञातव्यम् । न्यायविवरणे ईशानशब्दः समन्वेतव्यत्वेनोक्तः भाष्ये तु कश्चिदित्येवोक्तम् । अत ईशानशब्दयुक्तश्रुत्यंशमुदाहरति– अङ्गुष्ठमात्र इति ॥ किं विष्णुरिति ॥ अत्रेशानो भूतभव्यस्येत्युक्त ईशानः किं मुख्यवायुरुत विष्णुरिति चिन्ता । तदर्थमूर्ध्वं प्राण-मुन्नयतीत्यादिनोक्तप्राणव्यवस्थापकत्वादिवायुलिङ्गैर्विष्णुवाचकवामनश्रुतिबाध उत तच्छ्रुत्या वायुलिङ्गबाध इति । तदर्थं लिङ्गान्यनेकत्वेन प्रबलानि उतैकत्वेऽपि श्रुतिः प्रबलेति । तदर्थं तानि किं निरवकाशानि श्रुतिः सावकाशोत विपरीतमिति । तदर्थमेवैष प्राण इति, योऽयं मध्यमः प्राण इति, ते वायवाय इति समाख्याश्रुतिगतप्राणवायुशब्दौ किं मुख्यपरावेवोत विष्णुपरावपीति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति । ईशानशब्दस्य रुद्रे प्रसिद्धावपीति । उपलक्षणञ्चैतत् । ईशानशब्दप्रवृत्तिनिमित्तप्रेरकत्वस्य रुद्रादौ साम्येऽपीत्यपि द्रष्टव्यम् । ऊर्ध्वं प्राणमुन्नयतीति श्रुतावन्वयाप्रतीतेर्यत्तच्छब्दावध्याहृत्यान्वयमाह ॥ य उन्नयति तमित्यन्वय इति । ऊर्ध्वं प्राणमिति वाक्य इति । अनेन भाष्ये ऊर्ध्वं प्राणमुन्नयतीत्यादितः श्रुत्युदाहरणं, पूर्वपक्ष-लिङ्गज्ञापनार्थम् । अन्यथा वामनमासीनमित्येवोदाह्रियेतेत्युक्तं भवति । ‘एवमेवैष’ इत्यत्र एवमित्यस्यार्थप्रतीत्यर्थं ‘यथा सम्राट्’ इत्यादिपूर्ववाक्योदाहरणं कृतमिति ज्ञातव्यम् । अतो वाय्वेकनिष्ठेति ॥ एतेनोर्ध्वं प्राणमुन्नयतीत्यात्मादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमिति न्यायविवरणं व्याख्यातं भवति । तत्र लिङ्गानां वायुनिष्ठत्वज्ञापकप्रदर्शनार्थं प्रवृत्तमेव ‘एष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्त’ इत्यादिवाक्यभ्रम इति न्यायविवरणं ‘यथा सम्राडेव’ इत्यादिना ‘सर्वदेवोपास्यत्वप्रतीतेश्च’ इत्यन्तेन व्याख्यातं भवति । कुविदित्यस्य क्वचिदित्युप-पदम् । रहस्यस्थान इति तात्पर्यकथनम् । एवमुषसमवासयन्नित्यस्यापि द्रष्टव्यम् । प्रमितपदं श्रुतेर्निरवकाशत्वसूचनार्थमिति । श्रुतेर्निरवकाशत्वरूपप्राबल्याभावे बहुलिङ्गबाधेन तत्प्रापितार्थ-प्रमापकत्वं न स्यात् । अतः श्रुत्यर्थस्य प्रमितत्वोक्त्या श्रुतेर्निरवकाशत्वमेव सूचितमित्यर्थः । अत एव तत्प्रमापकत्वाद् इत्युक्तम् ।
‘श्रुतिर्नाम समुद्दिष्टं लिङ्गं तल्लक्षणं स्मृतम् ।
पदानि निरपेक्षाणि वाक्यं प्रकरणं तथा ॥
एकस्य प्रतिपत्त्यङ्गवचनं स्थानमुच्यते ।
अन्यत्र तत्समोक्तिस्तु समाख्यास्थानमेव च ।
अध्यायादिप्रबन्धास्तु प्रभेदा आगमस्य तु ॥’
इति तत्त्वप्रदीपोदाहृतवचनानुसारेण श्रुत्यादीनां लक्षणमाह– नाममात्रेणेत्यादि ॥ अत्र केवलयौगिकशब्दव्यावृत्त्यर्थं मात्रपदम् । तथा च नाममात्रेणेत्यस्य केवलयौगिकशब्दभिन्न-पदेनेत्यर्थः । तेन योगरूढानां वामनादिशब्दानां च श्रुतित्वहानिरिति द्रष्टव्यम् ॥ असाधारण-धर्म इति ॥ तत्प्रतिपादकशब्द इत्यर्थः ॥ निराकाङ्क्षपदानीति ॥ पर्यवसिताकाङ्क्षापदानीत्यर्थः । अत एवानुव्याख्याने–
‘निराकाङ्क्षपदान्येवं वाक्यमित्युच्यते बुधैः ।
तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ॥’
इत्युक्तम् ॥ एकप्रमेयेति ॥ स्थानेऽतिव्याप्तिवारणाय एकप्रमेयप्रतिपादकेति । वाक्ये अतिव्याप्तिवारणायानेकेति । अनेकाक्षरात्मकपदादावतिव्याप्तिवारणाय वाक्येत्युक्तम् । अनेक-प्रमेयेति । प्रकरणेऽतिव्याप्तिवारणायानेकप्रमेयप्रतिपादकेत्युक्तम् । विरुद्धार्थशास्त्रयोर्मिलितयोः स्थानत्वपरिहारार्थमेकार्थतात्पर्यमुक्तमिति ॥ समानोक्तिरिति ॥ निर्णीतस्थल इत्युपस्कर्तव्यम् । तेन विप्रतिपन्नप्रकरणादिगतसमानोक्तेः समाख्यात्वव्यवच्छेदः ॥ साक्षादर्थधीजनकत्वादिति ॥ व्याप्यादिप्रतिप्रादनद्वारमन्तरेण आगमतयाऽविप्रतिपन्नार्थधीजनकत्वादित्यर्थः ॥ अनुमापक-तयेति ॥ व्याप्यार्थप्रतिपादनद्वारेत्यर्थः । यथाऽत्रैव योऽयं मध्यम इति मध्यमपदस्य मध्यमत्वरूपव्याप्यप्रतिपादनद्वारेशानशब्दोक्तस्य वायुत्वनिश्चायकत्वम् ॥ तदानन्तर्यमिति ॥ ततो दौर्बल्यमित्यर्थः । यथाऽत्रैव वामनश्रुतितो मध्यमत्वादिलिङ्गानाम् ॥ अनेकार्थकथन-द्वारेति ॥ यथा ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त’ इति वाक्यसम्भूता-द्यनेकार्थप्रतिपादनद्वारा भूतकारणत्वरूपव्याप्यप्रतिपादनद्वारा भूतकारणत्वरूपव्याप्य-प्रतिपादकत्वेनाकाशपदोक्तस्य भूताकाशत्वानुमापकत्वम् । ततोऽपि दौर्बल्यमिति ॥ यथा लिङ्गादित्यत्रैवानन्तलिङ्गाद् वाय्वादिभूतकारणत्वरूपभूताकाशत्वव्याप्यार्थकस्य ‘सर्वाणि ह वा इमान्याकाशादेव समुत्पद्यन्त’ इति वाक्यस्य ॥ बह्वर्थपरत्वेनेति ॥ यथा ‘मूर्धानं दिव’ इत्याद्यग्निप्रकरणस्य देवमुख्यत्वयज्ञनाभित्वाद्यग्निज्ञानकबह्वर्थप्रतिपादकत्वेन ज्योतिःशब्दोक्त-स्याग्नित्वानुमापकत्वम् ॥ तदवमतेति ॥ यथा ‘ज्योतिश्चरणाभिधानात्’ इत्यत्र विकरणादि-विरुद्धत्वलिङ्गप्रतिपादक ‘विमे कर्णे’ इति वाक्यादुदाहृताग्निप्रकरणस्य दौर्बल्यम् । अतिबह्वर्थ-कथनेनाभिप्रायत इति । यथा षट्प्रश्नोपनिषद्रूपस्थानस्य बह्वर्थकत्वेनानेकप्रकरणार्थधीपूर्वकमिदं स्थानं विष्णुपरमिति यज्ज्ञानं तत्पूर्वकं स्थानान्तर्गतस्यैव ‘तस्यैवमेवैष प्राणः’ इति वाक्यस्य स्थानानुगुणार्थकत्वमेव वक्तव्यमिति तद्वाक्यगतप्राणशब्दोक्तस्य विष्णुत्वानुमापकत्वम् ॥ ततोऽपि दौर्बल्यमिति ॥ यथा ‘अस्यैव प्राणस्य भवः कुत एषः प्राणो’ ‘अजायत’ इत्यादि-खण्डरूपान्मुख्यप्राणधर्मप्रतिपादकत्वेन तत्प्रकरणात् ॥ सादृश्यमात्रेणेति ॥ ‘यथान्नमय-प्राणमयमनोमयविज्ञानमय आनन्दमया मे शुध्यन्ताम्’ इति कोशपरसमाख्याया अत्रोक्तमेव स्थानान्तरस्थविप्रतिपन्नवाक्येनापि बोध्यमित्येवं स्थलद्वयानुसन्धानपूर्वकं तत्सदृशत्वादिदं तदर्थ-परमित्येवं सादृश्यमात्रेणैतमन्नमयमात्मानमुपसंक्रम्य’ ‘एतमन्नमयमात्मानमुपसङ्क्रामति’ इत्याद्यन्नमयादिशब्दोक्तस्य कोशत्वानुमापकत्वम् । यथा वा ‘स्मर्यमाणमनुमानं स्यात्’ इति सूत्रोपात्तायाः ‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’ इति गीतासमाख्याया वैश्वानरस्य विष्णुत्वानुमापकत्वम् ॥ ततोऽपि दौर्बल्यमिति ॥ यथा– ‘ब्रह्मविदाप्नोति परम्’, ‘भृगुर्वै वारुणिः’ इति विष्णुधर्मप्रतिपादकतया विष्णुस्थानादुदाहृतसमाख्याया इति द्रष्टव्यम् । अत्र यद्यपि वामनश्रुत्या अनन्तत्वलिङ्गादीनां निरवकाशत्वेन मध्यमपदसर्वाणीत्यादिवाक्य-प्रतिपादितमध्यमत्वादेः प्राबल्यं तत्र तत्र व्युत्पाद्य तत्तद्बाधकत्वं व्युत्पादितम् । तथापि जातिकृतप्राबल्येनापि बाधकत्वाङ्गीकारे न कोऽपि विरोध इत्येतेषामुक्तोदाहरणत्वं द्रष्टव्यम् ॥ पूर्ववदिति ॥ सप्तान्वयाधिकरणोक्तोपक्रमादिवदित्यर्थः ॥ इत्यादीति ॥ आदिपदेन निरवकाशादेकस्माद्बहुत्वेन प्रबलस्य सावकाशस्य दौर्बल्यमित्यस्य ग्रहणम् ।
ननु तर्हि सावकाशत्वनिरवकाशत्वे एव बाध्यबाधकत्वोपयोगिनी न श्रुत्यादित्वमित्यतः सावकाशत्वादिरहितश्रुत्यादीनां जातिकृतप्राबल्यदौर्बल्यनिमित्तको बाध्यबाधकभाव इत्यभि-प्रेत्यैवमागमनिर्णय इत्येतत्तथा व्याचष्टे ॥ विरुद्धैतेषामिति ॥ अनेन ‘एवमागमनिर्णय’ इत्यस्य पूर्वपूर्वं बलीय इत्यागमनिर्णय इत्यन्यथाप्रतीतिर्निरस्ता भवति ॥ श्रुतिलिङ्गवाक्यानामिति ॥ यथा ‘सर्वेषु भूतेष्वेतमेव ब्रह्म’ इत्यत्र ‘अभिविमानमात्मानं वैश्वानरम्’ इत्यादौ च विप्रतिपन्न-सर्वगतवैश्वानरादिनिष्ठब्रह्मात्मशब्दादेर् यथा च आकाशपरायणं स एष परोवरीयानुद्गीथः स एषोऽनन्त इत्यत्र य एषो अन्तरक्षणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतद् ब्रह्मेत्यादौ च विप्रतिपन्नाकाशचक्षुरन्तस्थगतानन्तत्वामृतत्वादेर् यथा ‘विमे कर्णा’ इत्यत्र ‘यं पृथिवी न वेद’ इत्यादौ विप्रतिपन्नज्योतिरन्तर्याम्यादिनिष्ठस्योदाहृतादिवाक्यस्येति ज्ञेयम् ॥ उपक्रमोपसंहारयोः श्रुतत्व इति ॥ यथा वैश्वानर इत्यत्र को न आत्मा किं ब्रह्मेत्युपक्रमस्थ-ब्रह्मादिश्रुतेः । यथा च ‘प्रथमे श्रवणात्’ इत्यत्र ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इत्युपसंहारस्थाबादिश्रुतेः । लिङ्गस्य तु यथा ‘आत्मा वा इदमेक एव अग्र आसीत्’ इत्यत्र ‘य एष तपति’ इत्यादिना बहुशोऽनुसन्धानाच्चैतरेयभाष्ये तथोक्तत्वात् । ‘सर्वत्र प्रसिद्धोपदेशात्’ इत्यत्र ‘स योऽतोऽश्रुतः’ इत्युपसंहारस्थाश्रुतत्वादिलिङ्गस्य । वाक्यस्य तु यथा– अन्तर इत्यत्र कं ब्रह्म खं ब्रह्मेत्युपक्रमस्थवाक्यस्य ‘प्राणस्तथानुगमात्’ इत्यत्र ‘ता वा एता सर्वा ऋचः’ इत्यादिरूपोपसंहारवाक्यस्य ॥ अन्यत्र चेदिति ॥ विप्रतिपन्नार्थप्रतिपादक-वाक्योपक्रमोपसंहारेभ्योऽन्यत्रेत्यर्थः । यथा ‘प्राणस्तथा’ इत्यत्र ‘ब्रह्मेमं पुरुषम्’ इत्यादि-ब्रह्मश्रुतेः । ‘दहर उत्तरेभ्यः’ इत्यादौ य ‘आत्मा अपहतपाप्मा’ इत्यादिलिङ्गस्य । अत एव प्राण इत्यादौ ‘श्रीश्च ते लक्ष्मीश्च पत्न््नयौ’ इत्यादिवाक्यस्येति द्रष्टव्यम् । यद्यपि श्रुत्यादिना विप्रतिपन्नार्थाविनिश्चयदशायामुपक्रमोपसंहारश्रुत्यादेरपि प्रकरणनिश्चायकत्वमेव । तथाप्युप-क्रमादिनिश्चयद्वारा तस्य प्रकरणनिश्चायकत्वमन्यत्र श्रुत्यादेस्तु साक्षादेव प्रकरणनिश्चायकत्व-मिति बोद्धव्यम् ॥ उपक्रमोपसंहारावपि श्रुत्यादिनेति ॥ उपक्रमोपसंहारावपि उपक्रमोप-संहाराभ्यामन्यत्र श्रुतश्रुत्यादिनार्थनिश्चये सति तस्मिन्नेवार्थनिश्चये सति तस्मिन्नेवार्थे तात्पर्याति-शयज्ञापकावित्यर्थः । ‘अत्ता चराचर’ इत्यत्रात्तुर् ब्रह्मत्वे सर्वहन्तृत्वादिना निर्णीते, ‘नैवेह किञ्चनाग्र आसीत्’ इत्युपक्रमः यथा सर्वत्र प्रसिद्धेत्यत्र सर्वगतस्य ब्रह्मत्वे ब्रह्मशब्दादिना निर्णीते ‘स योऽतोऽश्रुत’ इत्याद्युपसंहार इति बोद्धव्यम् ॥ अन्यथा तु प्रकरणनिश्चायका-विति ॥ यथा द्युभ्वाद्यधिकरणे ‘प्रकरणात्’ इत्यत्र ‘द्वे विद्ये वेदितव्ये’ इति परमेश्वरोपक्रमः । ‘अन्यमीशम्’ इत्यत्रापि तस्यैव प्रकृतत्वनिश्चायकः । यथा चानुमानिकाधिकरणे ‘प्रकरणात्’ इत्यत्र तद्विष्णोः परमं पदमित्युपसंहारः । अनाद्यनन्तं महतः परम्’ इत्यादेर्विष्णुप्रकरणत्व-निश्चायक इति ज्ञेयम् ॥ समाख्यापीति ॥ यथा ‘पुरुषविधमपि चैनम्’ इत्यत्र ‘शीर्ष्णोर् द्यौः समवर्तत, चक्षोः सूर्यो अजायत’ इति पुरुषसूक्तोक्तिसमाना साक्षाद् विप्रतिपन्नवैश्वानरनिष्ठा वैश्वानरस्य ‘मूर्ध्यैव सुतेजाश्चक्षुर्विश्वरूप’ इत्याद्युक्तिः । अन्यथा प्रकरणनिश्चायकत्वेनेति । यथा ‘परोदिवा पर एना पृथिव्यै तावती’ इत्यम्भृणीसूक्तोक्तिसमाना । ‘अजस्य नाभौ’ इति विप्रति-पन्नाजे साक्षादश्रुता ‘परो दिवा पर एना पृथिव्या परो देवेभिः’ इत्याद्युक्तिरिति द्रष्टव्यम् ।
ननु ‘परोवरीयानुद्गीथोऽनन्त’ इत्यादिलिङ्गस्य ‘श्रीश्च ते लक्ष्मीश्च पत्न््नयौ’ इत्यादिवाक्यस्य विप्रतिपन्नार्थव्याप्यप्रतिपादकत्वाविशेषात् । कथं लिङ्गवाक्यभाव इत्यत आह ॥ लिङ्गवाक्य-योरिति ॥ अनेकार्थप्रतिपादनमन्तरा व्याप्यप्रतिपादकत्वं साक्षात्त्वं लिङ्गस्य । तद्द्वारा विप्रतिपन्नार्थव्याप्यप्रतिपादकत्वं वाक्यस्याऽसाक्षात्त्वमिति बोद्धव्यम् । तथा च लक्षणवाक्ये व्याप्यार्थकं पदं लिङ्गम् । तदर्थकानि निराकांक्षपदानि वाक्यमिति विवक्षितमिति भावः । तदेवोदाहरणमुखेन विशदयति ॥ गोत्रभिदमिति ॥ इत्यादिवदिति ॥ वत्करणस्य तद्यथेत्यादितदुदाहरणार्थत्वं द्रष्टव्यम् । ‘अन्तस्तद्धर्मोपदेशात्’ ‘अत एव प्राणः’ ‘तथा हि लिङ्गं च’ इत्यादिसूत्रेषु तद्व्याख्यानेषु भाष्यानुव्याख्यानन्यायविवरणेषु तट्टीकायाञ्चानेक-पदार्पितेऽपि व्याप्ये लिङ्गत्वोक्तिस्तु बोधकस्य शब्दस्य वाच्यत्वेऽपि बोध्यस्य समुद्रशायित्व-लक्ष्मीपतित्वादेर्व्याप्यत्वमित्यभिप्रेत्यावान्तरभेदविवक्षया युक्तेति भावः ॥ श्रुतेर्निरवकाश-त्वादिति ॥ अनेन वामनश्रुतेरेवानवकाश इतीशानशब्दोक्तो विष्णुरेवेति न्यायविवरणमपि व्याख्यातं भवति ॥ लिङ्गानां विष्णाववकाशादिति ॥ एतेन लिङ्गानां परमात्मन्यवकाशो विद्यत एवेति न्यायविवरणमपि व्याख्यातं भवति ।
ननु भाष्योक्तन्यायेन प्राणशब्दस्य विष्णुवाचकत्वेन ‘एवमेवैष प्राणो योऽयं मध्यमः प्राण’ इति प्राणशब्दोपेतवाक्योक्तप्राणव्यवस्थापकत्वमध्यमत्वयोर्विष्णावकाशसिद्धावपि वायुशब्दोपेत-कुविदङ्गेति वाक्योक्तसर्वदेवोपास्यत्वलिङ्गस्य कथं विष्णाववकाशसिद्धिरित्यत आह ॥ वायुत्व-मिति ॥ प्राणत्वपदेनेत्यर्थः । ‘प्रेरकोऽस्यापि यद्धरिः’ इति अनुव्याख्यानानुसारेण अन्तर्यामि-तया जीवनान्वयव्यतिरेकेन्द्रियाभिमानिचेष्टकत्वादिलिङ्गाधिकरणत्वेन यथा ‘तद्वै त्वं प्राणोऽ-भव’ इति वाक्यगतप्राणशब्दवाच्यत्वं विष्णोस्तथैतद्वाक्यगतप्राणशब्दवाच्यत्वमन्तर्यामितयैव तद्वाक्योक्तप्राणव्यवस्थापकत्वादिलिङ्गाधिकरणत्वेनेति ज्ञातव्यम् ।
भावदीपः
अत्र न्यायविवरणे पुनरीशानशब्द इत्येतावन्मात्रोक्तावपि प्राणप्रेरक इति सङ्क्षेपभाष्योक्त्या सूचितम् उर्ध्वं प्राणमुन्नयतीति भाष्योक्तवाक्यशेषलब्धं धर्ममादाय साधारण्यमक्षरनयन्यायेनाह ॥ प्रेरकत्वेति ॥ उपलक्षणमेतत् । रूढिसाम्येन चेत्यपि ध्येयम् । ‘ईशानः प्राणदः प्राण’ इति विष्णाविव ईशानो मारुतः प्राणो वायुर्जिष्णुस्तथैव चेति प्रथमाध्यायबृहद्भाष्योक्त्या वायावपि रूढेः सत्वात् । सङ्गतिपरत्वेन तावद्भाष्यं व्याकुर्वन् प्रतीयत इत्यन्तस्यार्थमाह ॥ अथात इत्यादिना ॥ ईशानस्येति ॥ तेन भाष्ये कश्चिदित्यस्यार्थो दर्शितः । सङ्गत्यादिद्योतनाय भाष्ये उपासनावाक्योक्तावपि समन्वेतव्यशब्दादि दर्शयितुं पूर्ववाक्यं चाऽऽह ॥ अङ्गुष्ठेति ॥ इत्यादाविति ॥ प्राणोन्नयनादिप्रतिपादकवाक्य इति योज्यम् । तेनोक्तेति युक्तम् । भाष्ये विश्वे देवा इत्यादावेव वाच्ये ऊर्ध्वमित्यादि पूर्वशेषोक्तेरुपयोगोऽग्रे व्यक्तः ॥ यदाहुरिति ॥ अनुभाष्ये तृतीये सर्ववेदान्तनय इत्यर्थः । स चेत्यादेर्भावमाह ॥ स च यदीति ॥ वक्ष्यमाणदिशा प्राणव्यवस्थापकत्वादिना वायुः स्यादित्यर्थः । उक्तमित्यन्तवाक्यस्य भावमाह ॥ तदेति ॥ इत्यवश्यमित्युक्तार्थम् । निर्णेय ईशान इत्यनुषङ्गः । श्रुतौ देवमात्रोक्तावपि कैमुत्यलब्धं मत्वाऽऽह ॥ अधिकारिसर्वेति ॥ इयदामननादित्यादौ रुद्रादप्यधिकारिणो वक्ष्यमाणत्वादिति भावः । स्वेतरेत्यधिकारिविशेषणं बोध्यम् । तेन न वायावप्यनुपपत्तिरिति । एतेन प्रेरकत्वस्या-न्यत्रापि वृत्तेः कथं द्वयसाधारण्यमित्यपि शङ्काऽपास्ता । ननूर्ध्वं प्राणमुन्नयतीत्यत्र कर्तुरन्यस्या-प्रतीतेः प्रकृतेशानस्यैव कर्तृत्वेनान्वयेऽपि नोत्तरार्धे । तत्र वामनमिति श्रुतेर् अन्यस्यैवोपास्यत्व-प्रतीतेः । अस्य तदप्रतीतेश्च कथं तल्लिङ्गतयेत्युक्तिरित्यत आह ॥ य इति ॥ अन्यथा समभिव्याहारेण प्रतीतैकवाक्यताभङ्गप्रसङ्गात् । मध्य आत्मनीत्युक्तस्य मध्ये वामनमिति प्रत्यभिज्ञानाच्चेत्यर्थः । पूर्वपक्षतद्युक्तितत्फलपरत्वेनापि भाष्यं व्याचक्षाणः स चेत्याद्यंशमवतार्य स च वायुरेवेति प्रतिज्ञांशार्थमाह ॥ सयुक्तिकमिति ॥ स चेत्यनुवाद ईशान इति व्याख्या । कुत इत्याकाङ्क्षायाम् एवमेवैष प्राण इत्यादिवाक्यत्रयं श्रवणोपलक्षणमुपेत्य तद्व्याचष्टे ॥ ईशानस्येति ॥ अनेन ईशान एवात्र वाक्ये कर्तृत्वेनान्वेतीति दर्शितम् ॥ इति वाक्य इति ॥ एतेन भाष्ये पूर्वम् ऊर्ध्वमित्यादि त्रिपाद्युक्तेरुपयोगो दर्शितः । इदानीम् ऊर्ध्वं प्राणमुन्न-यतीत्यादिलिङ्गानां प्राणादन्यत्रावकाशराहित्यमित्यन्यत्रोक्तलिङ्गनिरवकाशत्वविवरणपरतया एवमेवैष इत्यादि उपास्यत्वाच्चेत्यन्तं भाष्यं शङ्कापूर्वं व्याचष्टे ॥ न चेति ॥ भाष्यस्थैवम्पदार्थ-विवरणाय षट्प्रश्नस्थपूर्वशेषमाह ॥ यथेति ॥ सम्राट् सार्वभौमोऽधिकृतान्नियोगिनो विनियुङ्क्ते । कथम्, एतान्ग्रामानधितिष्ठस्व । तदाधिपत्येन तिष्ठेति । एवमेवैष आत्मत एष प्राणो जायत इति आत्मजातत्वेनोक्तः प्राणो मुख्यप्राण इतरान् भिन्नान् स्वस्माज्जातत्वेन उपचारेण आत्मप्रविभागान् प्राणान्वायून् पृथक्पृथगेव स्थानेषु स्थापयतीत्यर्थः ॥ अथेति ॥ वाजसनेये तृतीये वागादीनां मुत्युनात्तत्वमुक्त्वा अथेमं वायुं मृत्युर्नाऽऽप्नोदिति वागादिश्रैष्ठ्यं प्राणस्योच्यत इति तस्य मुख्यप्राणत्वद्योतनाय पूर्वशेषोक्तिः । अयं वा शिशुर् योऽयं मध्यमः प्राणः प्राणः स्थूणेत्युपरि चतुर्थे शिशुब्राह्मणेऽप्यस्ति । फलितमाह ॥ अत इति ॥ तस्य व्याख्या वाय्वेकेति ॥
यद्वा अत एवमेवैष इत्यादि समाख्यानादित्यर्थः । सर्वदेवोपास्यः कश्चित्प्रतीयत इत्यस्य तात्पर्यमाह ॥ इति हेतोस्तस्यैवेति ॥ उक्तमित्यन्तभाष्यभावं वक्तुं विष्णोरेव । इत्यव-धारणोक्तेर्भावं शङ्कोत्तराभ्यां व्यनक्ति ॥ न च वाच्यमिति ॥ वायोरपीति ॥ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदमिति तृतीये वक्ष्यमाणत्वादिति भावः । भाष्ये उपास्यः कश्चित्प्रतीयत इत्युक्त्यैव पूर्तौ सर्वदेवेत्युक्तिलब्धमाह ॥ न हीति ॥ एवमुक्तेस्तात्पर्यं मोक्षार्थमिति शेषपूर्त्या भाष्यवाक्यारूढं करोति ॥ विष्णुरेवेति ॥ पूर्वं कुविदङ्गेति तस्य सर्वदेवोपास्यत्वप्रतीतेरित्युक्तं तद्व्याख्यानेन व्यनक्ति ॥ अयं मन्त्रार्थ इति ॥ ‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येणेति’ मन्त्रः । नमसेत्युपलक्षणं मत्वाऽऽह ॥ नमस्कारादिनेति ॥ वृधासः ज्ञानादिगुणपूर्णाः कुवित् क्वचित् । बाद्भिर् इतायेत्युपेत्याऽऽह ॥ संसारेति ॥ उषसं बुद्धिम् । त्रयोऽर्थाः सर्ववेदेष्वित्युक्त्या कल्पनोपदेशा-दित्यादिचतुर्थपादोक्तन्यायैरन्यपरत्वस्यापि सत्त्वाद्वा सर्वसूक्तानां तत्र तत्रस्थवाय्वादिशब्दानां च ज्योतिरादिनयैर्वैष्णवत्वसिद्धावपि इह मन्त्रे विष्णुलिङ्गाभावेन अन्तरादिनयन्यायाविषयत्वाद्वाऽयं मन्त्रोऽत्र वायुपरत्वेनोक्तो व्याख्यातश्च । वक्ष्यते चैतत्तृतीये मन्त्रादिवद्वाऽविरोध इति सूत्रे । उक्तं च ऋग्भाष्ये । पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मता इति ॥ प्रमित इत्यत्र विशेष्या-काङ्क्षाम् ईशानशब्दोक्तो विष्णुरेवेत्यन्यत्रोक्तेनैव पूरयन् भाष्यं व्याचष्टे ॥ विष्णुरेवेति ॥ ननु वामनश्रुतिरप्यणुश्चेति सूत्रे द्वितीये वक्ष्यमाणदिशाऽणुभूतप्राणरूपाद्यभिप्रायेण वायावपि सावकाशेत्यतो वामनश्रुतेरेवानवकाश इत्यन्यत्रोक्तमनवकाशत्वं सौत्रप्रमितपदोक्तमिति दर्शयन् भाष्यस्थप्रमितपदतात्पर्यमाह ॥ तस्याश्चेति ॥ अन्तरनये स्थानादीति गुणसूत्रोक्ते एष उ एव वामनिरेष हि सर्वाणि वामानि नयतीति सावधारणश्रुतिवाक्ये वामनि शब्दनिरुक्त्या एकदेशविकृतमनन्यवद्भवति इति न्यायेन देवासो देवा इत्यादेरिव वामनिवामनशब्दयोरैकार्थ्येन महायोगस्य स वामनः स आनन्दः सोऽच्युत इति तद्भाष्योक्तश्रौतप्रयोगस्य ‘उपेन्द्रो वामनः प्रांशुः’ इति सहस्रनामोक्तस्मार्तप्रयोगस्य च सत्त्वेन रूढेश्च सत्त्वादिति भावः ।
अस्त्वेवं प्रागुक्तजिज्ञासानियमाक्षेपे किमुक्तमुत्तरमित्यत आह ॥ अत इति ॥ निरवकाश-श्रुतेरेवेत्यर्थः । निरवकाशत्वं भाष्ये कुतो नोक्तमित्यत आह ॥ अत्रेति ॥ भाष्ये सूत्रे चेत्यर्थः । यद्वा अत एव प्राण इत्यत्र लिङ्गं बलवदेव स्यादित्यनुभाष्ये लिङ्गनिरवकाशत्वस्यैवकारार्थ-त्वोक्त्या तत्रेवात्राप्येवकारो निरवकाशत्वार्थ इति भ्रमनिरासायोक्तम् ॥ अत्रेति ॥ एवकारस्तु श्रुतेर्लिङ्गादितोऽपि जात्या प्राबल्योक्त्यर्थ इत्याह ॥ अनेनेति ॥ एवं सति श्रुत्यैव निर्णयोपपत्तौ तन्निरवकाशत्वमभ्युच्चयत्वेनोक्तमिति भावः । स्मार्तक्रमो न विवक्षित इति भावेन ‘श्रुतिर्नाम समुद्दिष्टं लिङ्गं तल्लक्षणं स्मृतम् । पदानि निरपेक्षाणि वाक्यं प्रकरणं तथा । एकस्य प्रतिपत्त्यङ्गवचनं स्थानमुच्यते । अन्यत्र तत्समोक्तिस्तु समाख्या स्थानमेव च । अध्यायादि-प्रबन्धास्तु प्रभेदा आगमस्य च’ इति तत्वप्रदीपोक्तवचनानुरोधेन क्रममुपेत्य लक्षणान्याह ॥ नाममात्रेणेति ॥ आपाततः धर्मद्वारं विना धर्मिनिर्देशकः शब्द इत्यर्थः । यथा द्युभ्वा-द्यायतनं स्वशब्दादित्यत्र तमेवैकं जानथ आत्मानम् इत्यत्राऽऽत्मश्रुतिः । यथा वा अत्रैव वामनश्रुतिः ॥ असाधारणेति ॥ एकपदार्पितो वाऽनेकपदार्पितो वेत्यर्थः । तथा च तादृश-धर्मबोधकशब्दोऽपि लिङ्गमित्युच्यते । योग्यतावद्वाक्यमपि तथेति भावः । तत्राऽद्यं यथा आकाशस्तल्लिङ्गादित्यत्र स एषोऽनन्त इत्यनन्तत्वम् । द्वितीयं तु अत एव प्राण इत्यत्र श्रीश्च ते लक्ष्मीश्च पत्न््नयाविति श्रीपत्नीकत्वादिकम् । एतेन श्रीश्च त इत्यादेर्वाक्यत्वेऽपि तद्बोध्य-स्यासाधारणधर्मत्वात् तदभिप्रायेण तत्र सूत्रभाष्यादौ लिङ्गत्वोक्तिर्युक्तेति भावः ॥ निराकाङ्क्षेति ॥ स्वस्मिन्नेव पूर्णाकांक्षत्वेनान्यत्र निराकांक्षाणि पदानीत्यर्थः । एतच्च वाक्यं विप्रतिपन्नस्वान्तर्गतपदार्थनिर्णायकं वा समभिव्याहृतवाक्यान्तर्गतविप्रतिपन्नपदार्थनिर्णायकं वा भवति । आद्यं यथा । हेयत्वावचनाच्चेति सूत्रे जानथ आत्मानमिति वाक्यम् ओयत्वरूप-लिङ्गोपस्थापनद्वारा जीवं निवार्य परमात्मानम् आत्मपदार्थं निर्णाययति । द्वितीयमपि वाक्यान्तरनिर्णायकश्रुत्यादियुक्तत्वेन वा सहपाठमात्रेण वेति द्वेधा । आद्यं यथा । तत्रैव स एषोऽन्तश्चरते बहुधा जायमान इति जीवलिङ्गोपस्थापकवाक्यसमभिव्याहारेण पुनरात्मशब्दे जीवपरत्वे विप्रतिपत्तौ अमृतस्यैष सेतुरिति मुक्तोपसृप्यत्वलिङ्गोपेतवाक्यान्तरस्य जानथ आत्मानमिति वाक्यस्थात्मपदार्थस्य परमात्मनिर्णायकत्वम् । द्वितीयं यथा । दहरनये किं तदत्र विद्यत इति प्रश्नवाक्यम् एषोऽन्तर्हृदय आकाश इति वाक्यस्थाकाशपदस्य ब्रह्मरूपार्थत्वं निर्णाययति ॥ एकेति ॥ एकप्रमेयतात्पर्यकानेकवाक्यानीत्यर्थः । यथा द्युभ्वादिनये प्रकरणादित्यत्र जुष्टं यदा पश्यत्यन्यमीशमितीशशब्दार्थे विप्रतिपत्तौ द्वे विद्ये इति निर्बाधोपक्रमेण ब्रह्मपरतया निर्णीतं प्रकरणं स्वान्तर्गतेशशब्दार्थब्रह्मेति निर्णाययति । स्मृतौ ऐक्यस्येत्यादिकमुत्तरेणाप्यन्वेतीति मत्त्वाऽऽह ॥ अनेकेति ॥ एकार्थे तात्पर्ययुक्तानेकप्रमेय-प्रतिपादकप्रकरणजातं स्थानमित्यर्थः । यथा शन्नोमित्रादिभिर्वाक्यैस्तैरेव हरिमस्तुवत् । भृगुः पञ्चात्मकं पूर्णमन्नादिमयमच्युतम् । मुक्तगीतावसनैस्त्विति स्मृत्या ब्रह्मपरत्वेनावधारितवल्ली-त्रयात्मकस्थानस्य स्वान्तर्गतान्नमयादीनां ब्रह्मत्वनिर्णायकत्वम् ॥ समानेति ॥ निर्णीतस्थले समानोक्तिरित्यर्थः ।
सा च शब्दतोऽर्थतश्चेति द्वेधा । आद्या यथा । अन्तर्यामिनये शारीरश्चेति सूत्रे य आत्मनि तिष्ठन्नात्मनोऽन्तर इत्यादिसमाख्याया यो विज्ञाने तिष्ठन्नित्यादिवाक्यस्थविज्ञानस्य जीवत्वनिर्णायकत्वम् । उक्तं च तट्टीकायाम् । विज्ञानपदेन शारीरः कुत इति चेद् उदाहृत-श्रुतिसमाख्यानादेवेति । द्वितीया तु वैश्वानरनये वैश्वानरस्य विष्णुत्वे पुरुषसूक्तसमाख्या-निर्णायिकेत्याद्यूह्यम् । अत्र लक्षणेषु विशेषणकृत्यं स्पष्टम् । तेषु पूर्वबलीयस्त्वं बीजोक्त्या व्यनक्ति ॥ तत्रेति ॥ साक्षाद् लिङ्गवद्व्याप्त्यादिबुद्धिमनपेक्ष्य शब्दविधयेत्यर्थः ॥ अनुमापक-तयेति ॥ इदमेतदर्थकं तदसाधारणधर्मबोधकशब्दसमानाधिकृतत्वात् । य एवं स एवं यथाऽमुक इति वा । अयमेतत्पदार्थस् तत्समानाधिकृतपदबोध्यासाधारणधर्मवत्त्वात् । य एवं स एवं यथाऽमुक इति वाऽनुमापकतयेत्यर्थः । व्याप्त्यादिबुद्धिव्यवधानेनानुमापकत्वात् तदानन्तर्य-मित्यर्थः । यथाऽत्रैव वामनश्रुतितः प्राणादिव्यवस्थापकत्वलिङ्गस्य । यदोर्ध्वं प्राणमुन्नयतीति शब्दावगतो धर्मः वाय्वविनाभावानुसन्धानवत एव, ईशानशब्दार्थो वायुरेव तत्समानाधिकृत-शब्दबोध्यतदविनाभूतप्राणव्यवस्थापकत्वरूपधर्मवत्वात् । यो यत्समानाधिकृतशब्दबोध्या-साधारणधर्मवान् स तच्छब्दार्थः । यथा तल्लिङ्गादित्यादौ स एषोऽनन्त इत्याकाशशब्द-समानाधिकृतानन्त शब्दबोध्यासाधारणधर्मवान् विष्णुर् आकाशशब्दार्थ इति ईशानशब्दार्थं वायुरिति निर्णाययितुं प्रवर्तन्ते ततः प्रागेव ईशानशब्दसमानाधिकृता वामनश्रुतिर् व्याप्तिधियं विनैवेशान् शब्दार्थरूपं स्वार्थं स्वनिष्ठशक्त्यैव निश्चाययतीति प्राबल्यमित्यर्थः ॥ अनेकेति ॥ अनेकपदार्थकथनद्वारा स्वार्थान्वययोग्य एव समभिव्याहृतवाक्यान्तरार्थ इत्यादिरूपेणानु-मापकत्वादित्यर्थः ।
यथा दहरनये ‘एषोऽन्तर्हृदय आकाश’ इति वाक्यं हृत्स्थदहराकाशस्थितब्रह्मार्थकम् । तद्गतान्वेष्टव्यवस्तुप्रश्नार्थककिन्तदत्रेत्यादिवाक्यसमभिव्याहारात् । यद्यदर्थकवाक्यसमभिव्याहृतं तद्वाक्यं तदर्थान्वययोग्यार्थकम् । यथा स य एवंविदिति ब्रह्मज्ञानिवाक्यसमभिव्याहृतम् अन्नमयमात्मानमुपसंक्रामतीत्यादिवाक्यं ब्रह्मप्राप्त्यर्थकमिति सामान्यव्याप्त्या वा यथाऽधीहि भगवो ब्रह्मेति ब्रह्मपश्नार्थकवाक्यसमभिव्याहृतं चक्षुःश्रोत्रमित्याद्युत्तरवाक्यं ब्रह्मार्थकमित्यादि-रूपेण विशिष्य वाऽनुमापकत्वादित्यर्थः । तथा ‘जानथ आत्मानम्’ इत्याद्यपि वाक्यं ‘अन्या वाचो विमुञ्चथ’ इत्यादिवाक्यसहपाठाद् ब्रह्मार्थकम् । तथा एतमेव ब्रह्मेत्याचक्षत इतिवाक्यं ब्रह्मपदं मुख्यपरब्रह्मार्थकम् । अन्यत्रायोग्यान्वयप्रतियोग्यर्थकसावधारणपदसमभिव्याहारात् । सामान्यव्याप्त्या संमतवदिति स्वान्तर्गतपदर्थानुमापकमित्याद्यूह्यम् ॥ बह्वर्थेति ॥ अनेक-वाक्यात्मकस्य प्रकरणस्यानेकवाक्यार्थधीपूर्वकमिदं प्रकरणमेतत्परमिति यज्ज्ञानं तज्ज्ञानपूर्वकं स्वान्तर्गतविप्रतिपन्नवाक्यस्य प्रकरणानुगुण एवार्थ इत्यनेकवाक्यार्थधीद्वारा लिङ्गत्वादित्यर्थः । यथा प्रागुक्तप्रकरणम् अन्यमीशमिति वाक्यं जीवब्रह्मभेदार्थकमित्यस्यानुमापकमित्यादि बोध्यम् ॥ अतिबह्वर्थेति ॥ अनेकप्रकरणार्थधीपूर्वकमिदं स्थानमेतत्परमिति यज्ज्ञानं तत्पूर्वकं स्वान्तर्गतस्य विप्रतिपन्नवाक्यस्य स्थानानुगुण एवार्थ इत्येनकप्रकरणार्थधीद्वाराऽनुमापकत्वादित्यर्थः । प्रागुक्तमेवोदाहरणम् ॥ स्थानान्तरेति ॥ स्थानान्तरस्थाया अत्रोक्तमेव स्थानान्तरस्थ-विप्रतिपन्नवाक्येनापि बोध्यमिति स्थानद्वयानुसन्धानपूर्वकं तत्सदृशत्वादिदं तत्परमित्येवं सादृश्यमात्रेण लिङ्गत्वादित्यर्थः । उक्तमेवोदाहरणम् ।
नन्वेवं कथमन्तरादिनयेषु लिङ्गात् श्रुतेदौर्बल्योक्तिः । कथं वा वैश्वानरनये असम्भवा-त्पुरुषविधमिति प्रकरणादिना पाचकत्वादिलिङ्गबाध इत्यत आह ॥ अत्रापीति ॥ नोपक्रमादा-वेवेत्यपेरर्थः । पूर्ववत्समन्वयसूत्रोक्तोपक्रमादाविवेत्यर्थः । एवं त्रिपादीं व्याख्याय अस्त्वेवं ततश्च किमित्यत एवमागमनिर्णय इति चतुर्थपादं व्याचष्टे ॥ अत्र विरुद्धेति ॥ एवमित्यनुवादः पूर्वेणोत्तरेण च वाक्यद्वयेन व्याख्येयतयाऽन्वेति । एवं विरुद्धैतेषां समवाये सतीति । एवं पूर्वपूर्वेण उत्तरोत्तरबाधायेति च । आगमार्थविनिर्णय इत्युक्त्या श्रुत्यादिषट्कम् आगमार्थ एव लिङ्गतया निर्णायकम् । उपक्रमादिकं तु तात्पर्यानुमापकमिति दर्शितम् । अत एव तत्र लिङ्गं तात्पर्यनिर्णय इत्युक्तम् । समाख्यावाक्यप्रकरणस्थानानि चेति प्रमाणलक्षणटीकायाम् उपक्रमा-दीनां तात्पर्यलिङ्गत्वम् एतेषां पुनरर्थ एवेति योगविभाग इति । वक्ष्यते चात्रैवाग्रे उपक्रमे-त्यादिना । अत्रैषामुदाहरणानि तु चन्द्रिकायामुक्तानि । विवृतानि च तानि चन्द्रिका-प्रकाशेऽस्माभिः । तत्र श्रुत्यादिलिङ्गबाधोऽत्रैव स्पष्टः । स्मृतावुक्तक्रमो न विवक्षितः किन्तु सौत्र एवेति वक्तुमाह ॥ न चेति ॥ आत्मेति ॥ चतुर्थस्य चतुर्थपादे आत्मा प्रकरणादिति नये परं ज्योतिरुपसम्पद्येति दहरविद्यास्थवाक्यगतं ज्योतिः किं सूर्यस् तद्देवाज्योतिषां ज्योतिरित्यादौ प्रयोगसत्त्वेऽपि स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते एव हैव स पाप्मना विनिर्मुक्त इति श्रुतिसमाख्यानात् सूर्य इति प्राप्ते सिद्धान्तितम् । ज्योतिः परमात्मैव । य आत्माऽपहतपाप्मेति परमात्मप्रकरणात् । समाख्या तु विष्णौ सावकाशेति । तथा च तद्विरोधः स्यादिति भावः । तर्हि स्वोक्त एव क्रमः कुत इत्यत आह ॥ तदाहेति ॥ अस्माभिरुक्तं श्रुत्यादिपौर्वापर्यं तृतीयेऽध्याय इत्यर्थः ।
यद्वा श्रुत्यादिबलाबलबीजमस्माभिरुक्तमेव जैमिनिसूत्रेऽप्यभिमतं न तु पूर्वमीमांसाकारै-रुक्तमित्यभिप्रेत्याऽऽह ॥ तदाह जैमिनिरिति । श्रुत्यादिबलाबलबीजमित्यर्थः । परोक्त-बलाबलबीजखण्डनं तु तर्कताण्डवे द्वितीयपरिच्छेदान्ते प्रपञ्चितम् । सूत्रे विरुद्धानामिति योज्यम् । भाष्यमपि स्वोक्तक्रमे संवादयति ॥ भाष्यकारोऽपीति ॥ भक्तिपादीयानु-व्याख्यानकारोऽप्याहेत्यर्थः । आगमार्थावसित्यर्थानियतव्याप्तयोऽखिला इति पूर्वशेषः । ननु वैश्वानरनये असम्भवादिति गुणसूत्रे को न आत्मा किं ब्रह्मेति श्रुतात्मादिश्रुतेरुपक्रम-निश्चयद्वारा प्रकरणनिश्चायकत्वमुक्तम् । अत्र तूच्यते विप्रतिपन्नेशानशब्दार्थप्रमापकत्वं वामनश्रुतेः । तथा तल्लिङ्गादित्यादौ अनन्तत्वादिलिङ्गस्य विप्रतिपन्नार्थनिर्णायकत्वमुक्तम् । अत्ता चराचरग्रहणादित्यादौ अप्संवत्सरसृष्ट्यादेर्लिङ्गस्य प्रकरणनिर्णायकत्वमुक्तम् । तथा मान्त्रवर्णिकसूत्रे ब्रह्मविदाप्नोति परमिति वाक्यं ब्रह्मप्रकरणनिर्णायक(मित्यु)मुक्तम् । दहरन-यादौ किं तदत्रेत्यादिवाक्यं समभिव्याहृतवाक्यान्तरार्थनिर्णायकं भवति । तत्कथमित्यत आह ॥ श्रुतिलिङ्गवाक्यानामिति ॥ एतेषामुदाहरणानि चन्द्रिकायां व्यक्तानि । तर्हि उपक्रमादिकं व्यर्थमित्यत आह ॥ उपक्रमेति ॥ अन्यथेति ॥ अर्थसिद्ध्यभावे । नन्वसाधारणधर्मो लिङ्गमिति निराकांक्षपदानि वाक्यमिति चोक्तम् । तदयुक्तमिव । तथात्वे श्रीश्च त इत्यादे-र्लिङ्गत्वेनोक्तस्य वाक्यतापत्तेरित्याह ॥ लिङ्गेति ॥ असाधारणधर्मबोधकत्वाविशेषेऽपि एकः कर्ता वर्तमानकाले स्वार्थं पाकक्रियां निर्वर्तयतीत्यस्य पचते इत्यस्य चैकार्थत्वेऽपि एक इत्यादिवाक्यात् पचते इति पदस्यैव झडित्यर्थबोधकत्वादेकपदात्मकं लिङ्गम् अन्यत्तु वाक्यमिति भेद इत्यर्थः । तथा चान्तरादिनये यस्याण्डकोशं शुष्मम् । श्रीश्च ते लक्ष्मीश्च पत्न््नयौ । वि मे कर्णा पतयत इत्यादीनां वाक्यत्वेऽपि लिङ्गत्वोक्तिस् तद्बोध्यस्य असाधारणधर्मत्वात्तद्विवक्षयेति भावः । प्रवक्षणाः पक्षान् । इत्यादिवद् इत्यादौ यथा साक्षादसाक्षादर्थबोधकत्वेन लिङ्गं वाक्यमिति व्यवहारः । तथा अनन्तः श्रीश्च त इत्यादाविति भावः ।
एतेन ऊर्ध्वं प्राणमुन्नयतीत्यादेः शब्दस्य वाक्यत्वेऽपि तद्बोध्यस्य लिङ्गत्वाभिप्रायेण भाष्यादौ लिङ्गत्वोक्तिर्युक्तेति भावः । ननु सौत्रैवकारसूचितस्वभावप्राबल्येनैव श्रुतेर्लिङ्ग-बाधकत्वोपपत्तौ भाष्ये तच्च लिङ्गमित्यादिना लिङ्गस्य सावकाशत्वोक्तिरयुक्तेत्यतो व्यावर्त्य चोद्यमाह ॥ नन्विति ॥ बाहुल्येनेति ॥ द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावत इत्युक्तेरिति भावः । यद्यपि तयोः स्वभावो बलवानित्युक्त्या अनेकलिङ्गानामप्येकश्रुत्या बाधो युज्यते । उक्तश्चायमर्थः पादान्त्यप्राणनयटीकायाम् । तथापि सौत्रप्रमितपदसूचितश्रुतिनिरवकाशत्वा-वैयर्थ्यायाभ्युपेत्यवादेन वा प्रागुक्तदिशा लिङ्गानां निरवकाशत्वमप्यस्तीति हृदि कृत्वा लिङ्गानामपि प्राबल्यादनिर्णय एवेत्युक्तम् । ततश्च किमित्यतो भावमाह ॥ न बाहुल्येऽपीति ॥ निरवकाशादिति ॥ तस्याश्च विष्णौ महायोगेति प्रागुक्तदिशेति भावः ॥ अवकाशादिति ॥ वक्ष्यमाणदिशेति भावः । एतेन लिङ्गानां परमात्मन्यवकाशो विद्यत एव वामनश्रुतेरेवानवकाश इत्यन्यत्र श्रुतिलिङ्गयोर्निरवकाशत्वसावकाशत्वोक्तेरप्यभिप्रायो विवृतः ॥ इत्यत आहेति ॥ ‘तद्धै त्वमिति वाक्ये यद्देवान्प्राणयो नव तस्मात्त्वं प्राणोऽभव’ इत्युक्तप्राणनेतृत्वरूपप्राणत्व-स्यात एव प्राण इत्यत्र विष्णौ साधितत्वात् । समाख्याया वायुपरत्वे प्राणमुन्नयतीत्याद्यं विष्णोरेव । तथा योऽयं मध्यम इत्युक्तमध्यमत्वस्य वायुधर्मत्वेऽपि इह न तत्प्रतीयते । मध्ये वामनमिति मध्यदेशस्थत्वस्यैव प्रतीतेः । तच्चाल्पश्रुतेरित्युक्तदिशा विष्णोरेवेति भावः । अथापि कुविदङ्गेति मन्त्रे वायोर्देवोपास्यत्वमुक्तमित्यत आह ॥ वायुत्वमिति ॥ अत्र प्राणत्वेति भाष्ये अन्तर्नये आधिदैविकसर्वशब्दानां महायोगविद्वद्रूढिभ्यां विष्णावुक्तत्वेन वायुशब्दस्याप्युक्ते-रित्यर्थो बोध्य इति भावः ॥
अभिनवचन्द्रिका
तज्जिज्ञास्यत्वमीशानस्येति ॥ अनेन जिज्ञासाधिकरणैतदधिकरणयोर् जिज्ञास्यत्वेन प्रतीयमानवस्तुप्रतिपादकत्वमेव सङ्गतिरित्युक्तमिति बोध्यम् । ननु ईशानस्य जिज्ञास्यत्वं काठके प्रतीयत इत्ययुक्तम् । तत्रोपासनाया एवोक्तत्वादित्यत आह ॥ जिज्ञासोपासानयोरिति ॥ तदा जिज्ञास्यत्वमन्यस्यैव प्रसज्यत इति ॥ उपलक्षणमेतत् । ईशानशब्दोक्तगुणोऽप्यन्यस्यैव स्यात् । ततश्च गुणपूर्णत्वं न सिध्यतीति । ननु ईशानस्य विष्णुत्वेऽपि न जिज्ञास्यत्वस्य विष्ण्वैकनिष्ठत्वं सिद्ध्यति, ‘कुविदङ्ग’ इति श्रुत्या सर्वदेवोपास्यत्वरूपजिज्ञास्यत्वस्य वायुधर्म-त्वावगमात् । न च ‘ईशानो भूतभव्यस्य’ इति वाक्यवत्कुविदङ्गेत्यस्यापि इह समन्वयः सिद्ध्यतीति वाच्यम् । तर्हि सर्वदेवोपास्यत्वस्य वायुधर्मत्वोपपादनाय पूर्वपक्षिणस् तद्वाक्यो-दाहरणमयुक्तं स्यात् । वायुपरतया सन्दिग्धेन ‘कुविदङ्ग’ इत्यनेन वाक्येन वायुधर्मत्व-निश्चयायोगात् । एवं चेदमधिकरणमनारम्भणीयं व्यर्थत्वादिति चेत्
‘आलम्ब्य चरणौ सत्यनिधेस्तस्य कृपाबलात् ।
अशक्तोऽपि समाधातुं वक्ष्येऽभिनवमुत्तरम्’ ।
तथा हि न ब्रूमो वयम्, उपास्यत्वप्रतिपादकं सर्ववाक्यं युगपदेव विषयीकृत्य सकृदेवाधि-करणं प्रवर्तत इति । किं तर्हि विषयवाक्यसङ्ख्यया बहुवारं प्रवर्तते । एवं च सति यदा काठक-वाक्यं विषयीकृत्य प्रवर्तते तदा कुविदङ्गेति वाक्येन देवोपास्यत्वस्य वायुधर्मत्वं पूर्वपक्षी प्रतिपादयति । यदा च ‘कुविदङ्ग’ इति वाक्यं विषयीकृत्य प्रवर्तते, तदा वाक्यान्तरेण देवोपास्यत्वादीनामन्यधर्मत्वं प्रतिपादयेदिति न कश्चिद्दोष इति ॥ सर्वदेवोपास्यत्वश्रवणा-दिति ॥ ननु इदं पूर्वग्रन्थविरुद्धम् । पूर्वं ‘स च यदि विष्णोरन्यः स्यात् तदा जिज्ञास्यत्वं चान्यस्यैव प्रसज्यत’ इति ईशानस्य विष्ण्वन्यत्वसिद्धौ जिज्ञास्यत्वस्य विष्ण्वन्यधर्मत्वसिद्धिः स्यादित्युक्तम् । इदानीन्तु सर्वदेवोपस्यत्वरूपजिज्ञास्यत्वस्यान्यधर्मत्वाद् ईशानो विष्णवन्य इत्युच्यत इति चेत्, सत्यम् । तथापि सर्वदेवोपास्यत्वेन ईशानस्य विष्ण्वन्यत्वसाधनं युज्यते । अधिकारिभेदेन कस्यचिद्विष्ण्वन्यत्वसिद्ध्या जिज्ञास्यत्वसिद्धिः । अन्यस्य तु जिज्ञास्यत्वस्य विष्ण्वन्यधर्मत्वसिद्ध्या ईशानस्य तदन्यत्वसिद्धिरित्यङ्गीकारात् । अत एव ‘प्राणव्यस्थापक-त्वात्’ इति हेतुत्रयोपन्यासः । प्राणव्यवस्थापकत्वस्य वायुलिङ्गत्वश्रवणादिति ॥ ननु यथा सम्राडिति वाक्ये प्राणव्यस्थापकत्वस्य वायुनिष्ठत्वमात्रश्रवणेऽपि न तल्लिङ्गत्वं श्रूयत इति चेत्, न ‘यथा सम्राट्’ इति दृष्टान्तोक्तिबलेन तल्लिङ्गत्वलाभात् । अधिकृतव्यवस्थापकत्वस्य तल्लिङ्ग-त्वात् । अन्यथा दृष्टान्तोपादानमयुक्तं स्यात् ॥ मध्यमत्वस्य तद्धर्मत्वोक्तेरिति ॥ ननु हेतुकृतं मध्यमत्वं प्राणापानयोर्मध्ये स्थितत्वमात्रम् । इह तु ‘योऽयं मध्यमप्राण’ इति उच्यमानत्व-मन्यदेव । ‘अक्षरत्रयमीरितम्’ इत्यत्र श्रीतत्वस्य मध्यमाक्षरत्ववद् इहापि प्राणपदवाच्येषु त्रिषु मध्यमस्यैव विवक्षितत्वात्, अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् । अतो मध्यमतामाहुस्तस्य वेदेषु वेदिन’ इति वचनात् । ततश्चैतच्छ्रुत्युदाहरणमयुक्तमिति चेत्, न ऊर्ध्वं प्राणमुन्नयति’ इति श्रुतौ प्राणव्यवस्थापकत्ववन् मध्यमत्वमपि ईशानस्य विशेषणमुच्यते । न च मध्यमदेश-स्थितत्वमात्रं विशेषणं भवितुमर्हति । साधारणत्वात् । प्राणव्यवस्थापकत्वरूपमुख्यप्राणलिङ्ग-सहपाठान् मध्यमत्वमपि अवान्तरेश्वरत्वरूपमिति मन्वानस्येह पूर्वपक्षित्वेन अवान्तरेश्वरत्वमपि कुतो मुख्यप्राणलिङ्गमिति शङ्कापनोदायैतच्छ्रुत्युदाहरणस्योचितत्वादिति ॥ अयं मन्त्रार्थ इति ॥ ‘कुविदङ्ग मनसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधिताय आवासयन्नुषसं सूर्येण’ इति मन्त्रार्थ इत्यर्थः ॥ अनेनेति ॥ सूत्रे वामनश्रुतेः प्रमितपदेन निरवकाशत्वप्रयुक्तं प्राबल्यमुक्तम् । एवकारेण तु श्रुतिमात्रस्य लिङ्गमात्रात्स्वभावप्रयुक्तं प्राबल्यमुक्तमिति भावः ॥ नाममात्रेणेति ॥ नामशब्दोऽत्र रूढिपर्यायः । रूढ्या अर्थ-प्रतिपादकशब्दः श्रुतिरित्यर्थः । योगरूढानां शब्दानां यल्लोकसिद्धश्रुतित्वं तद्रूढिप्रयुक्तमेव । न योगस्य तद्धटकत्वमिति द्योतनाय मात्रशब्दः ॥ असाधारण इति ॥ असाधारणधर्म-प्रतिपादकशब्दो लिङ्गमित्यर्थः । समाख्याया वाक्यप्रकरणाभ्यां दुर्बलत्वेन ‘पूर्वं पूर्वं बलीयः स्यात्’ इत्युक्तबलीयस्त्वोपपत्तये समाख्यापदम् अन्ते ग्राह्यमिति भावेन वाक्यं व्याचष्टे ॥ निराकाङ्क्षेति ॥ लिङ्गस्येति ॥ लिङ्गात्मकशब्दस्य स्वार्थबोधजननद्वारा अर्थानुमितिहेतुत्वा-त्तदानन्तर्यमित्यर्थः ॥ आत्मप्रकरणादित्यत्रेति ॥ निरवकाशत्वं विनापि प्रकरणेन समाख्याया बाधदर्शनादिति भावः । ननु लिङ्गात्मकः शब्दः स्वार्थप्रतिपादनद्वारा अर्थानुमापकः । वाक्यमपि तथेति तयोरैक्यमित्यत आह ॥ लिङ्गवाक्ययोरिति ॥ गोत्रभिदामिति ॥ लिङ्गात् । गोत्रभिच्छब्दः पर्वतभेत्तारमिन्द्रं साक्षात् प्रतिपादयति । ‘प्रवक्षणा अभिनत्पर्वतानाम्’ इत्ये-तद्वाक्यं तु अनेकार्थप्रतिपादनद्वारा अर्थं प्रतिपादयतीत्यर्थः । ‘तच्च लिङ्गं विष्णोरेव’ इति मूले एकवचनं जात्यभिप्रायेणेति तन्मूलमवतारयति ॥ तथापीति ॥ अत्र टीकायां ‘न बाहुल्येऽपि लिङ्गानां श्रुतिसाम्येनाऽनिर्णयः श्रुतेर्निरवकाशत्वात्, लिङ्गानां विष्णाववकाशात्, सावकाशा-दपि निरवकाशस्यैकस्य प्राबल्यादिति भाव’ इति वाक्यानि न टीकावाक्यानि । अपि तु भाष्ये – ‘तच्च लिङ्गं विष्णोरेव’ इत्यभिधानान् न्यायविवरणे च ‘लिङ्गानां परमात्मनि अवकाशो विद्यत एव’त्यभिधानात् तयोर्वैरूप्यमसहमानेन विदुषा तयोरेकरूपसंपत्तये प्रक्षिप्तानि वाक्यानि । कुतस्तर्हि टीकाकृता वैरूप्यं न परिहृतमिति चेद् वैरूप्यस्य वास्तवत्वादिति ब्रूमः । न हि प्रस्थानभेदेनोच्यमानं सर्वमेकविधमेवेति नियमोऽस्ति । प्रस्थानभेदेनोक्तेर् वैयर्थ्यप्रसङ्गात् ।
अयमत्र विवेकः । भाष्यकृता तानि लिङ्गानि विष्णोरेव मुख्यानीति वस्तुस्थितिमवलम्ब्य ‘तच्च लिङ्गं विष्णोरेव’ इत्याद्युक्तम् । न्यायविवरणकृता तु किं लिङ्गानां विष्णौ मुख्यत्व-साधनप्रयासेन, लिङ्गानां सावकाशत्वोक्तिमात्रेणाप्यभिमतसिद्धिसम्भवादिति भावेन तथोक्त-मिति । अवश्यं चैतदेवं विज्ञेयम् । भाष्ये विष्णोरेव तस्यैवेत्यवधारणद्वयप्रयोगेण लिङ्गानां सावकाशत्वाभिप्रायवर्णनायोगात् । तर्हि सावकाशप्रतिपादनायाऽवधारणद्वयकृत्यमस्ति । येन लिङ्गानां सावकाशत्वाभिप्रायं भाष्यस्य प्रतीमः । नापि प्रक्षिप्तवाक्यस्य टीकान्तर्गतत्वाङ्गीकारे श्रुत्यन्तरेणेत्युत्तरवाक्यं सङ्गच्छते । लिङ्गानां प्राणनिष्ठतया श्रुत्यन्तरोक्तावपि विष्णाववकाश-सम्भवात् । न हि यत् श्रुत्या यस्योच्यते तत्तदन्यत्रानवकाशमिति नियमोऽस्ति । येन लिङ्गानां विष्णावनवकाशं प्रतीमः ।
नन्वस्तु विष्णोरेव प्राणत्वस्योक्तत्वात् ‘प्राणव्यवस्थापकत्वं मध्यमत्वं च’ इति लिङ्गद्वयं, न तु ‘कुविदङ्ग’ इति श्रुत्युक्तं सर्वदेवोपास्यत्वं, तस्य वायुनिष्ठत्वेनोक्तत्वादित्यत आह ॥ वायुत्वमिति ॥ तस्यैव प्राणत्वोक्तेर् वायुत्वोक्तेः, तल्लिङ्गमपि विष्णोरेवेति भावः ।
वाक्यार्थमुक्तावली
अत्र न्यायविवरणे पुनरीशानशब्द इत्येतावन्मात्रोक्तावपि प्राणप्रेरक इति सङ्क्षेपभाष्योक्त्या ऊर्ध्वं प्राणमुन्नमयतीति भाष्ये वाक्यशेषोदाहरणे च लब्धमीशानशब्दप्रवृत्तिनिमित्तप्रेरकत्व-रूपधर्ममादायाक्षरनये विनाशित्वस्येव साधारण्यमाह ॥ अत्रेति ॥ उपलक्षणमेतत् । ईशानः प्राणदः प्राण इति हरौ ईशानो मारुतः प्राण इति बृहद्भाष्ये वायौ च प्रयोगाद् रूढि-सामान्येनेत्यपि द्रष्टव्यम् । अन्यथा नामत्वायोगात् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहित-सङ्गतिस्तु, आनुकूल्येन गृह्यमाणस्य एको वशी सर्वभूतान्तरात्मा, तमात्मस्थं येऽनुपश्यन्ति धीरा इति सर्वप्रेरकत्वम्, आत्मसंस्थत्वं, देवादिसर्वधीरोपास्यत्वं चोक्तं तदीशानस्य अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति, ईशानं विश्वेदेवा उपासत इति तस्मिन्नेव काठके प्रतीयते, स च यदा विष्णोरन्यः स्यात्तदा आनुकूल्येन गृह्यमाणोऽप्यन्यः स्यादित्याक्षेपिकीति बोध्यम् ॥ काठक इति ॥ तेनैव भाष्ये तत्रेति पूर्वाधिकरणविषयकाठकपरामर्श इत्युक्तं भवति ।
भाष्ये सङ्गतिसंशयद्योतनाय कश्चिदिति सामान्येनोक्तावपि विषयभानाय न्यायविवरणानु-सारेणेशानस्य प्रतीयत इत्युक्तम् । अत एवेशानशब्दघटितं पूर्वशेषमुदाहरति ॥ अङ्गुष्ठमात्र इति ॥ भाष्ये सङ्गत्यर्थं विश्वे देवा उपासते इत्येतावत्येव वाच्ये ऊर्ध्वमित्याद्युक्तिः पूर्वपक्ष-सौकर्यायेति बोध्यम् । ननु जिज्ञासा नाम ज्ञानेच्छा कथं तस्या उपासनैक्यमित्यत आह ॥ श्रवणादीति ॥ जिज्ञासितं सुसम्पन्नमिति प्रयोगाद्रूढ्या वा लक्षणया वेति भावः ॥ किं विष्णुरिति ॥ अत्रेशानः किं प्राणव्यवस्थापकत्व, मध्यमत्व, सर्वदेवोपास्यत्वलिङ्गैर् विष्णुपक्षे अङ्गुष्ठमात्रत्वश्रुतिबाधकेन च वायुर् उत वामनश्रुत्या विष्णुरिति । तदर्थं बहुत्वेन, निरवकाश-त्वेन च लिङ्गानां प्राबल्यमुत स्वभावतो निरवकाशत्वेन च श्रुतिविरोधेन लिङ्गानि सावकाशा-नीति ॥ प्रसिद्धावपीति ॥ प्रेरकत्वसाम्येऽपीत्यपि ग्राह्यम् । ऊर्ध्वं प्राणमुन्नमयतीति श्रुतौ कर्तुरप्रतीतेः प्रकृतस्येशानस्य कर्तृतया सम्बन्धेऽपि ईशान उन्नयति । वामनमुपासत इत्युक्तौ तर्योर्भेदप्राप्तेश्चेत्यत आह ॥ य उन्नयतीति ॥ य ईशान उन्नयति तं वामनमित्यन्वयः । अत एव मध्य आत्मनीत्युक्तस्य, मध्ये वामनमिति प्रत्यभिज्ञेति भावः । स च प्राणव्यवस्थापकत्वात्, मध्यमत्वात्, सर्वदेवोपास्यत्वाच्च वायुरेवेत्यंशं तावद्व्याचष्टे ॥ स चेशान इति ॥ एवमेवैष प्राण इति षट्प्रश्नवाक्यं, योऽयं मध्यमः प्राण इति वाजसनेयवाक्यं, कुविदङ्गेति मन्त्रश्च समाख्यारूप इति भावेनावतार्य योजयति ॥ न चैतल्लिङ्गेति ॥ एवमेवैष इत्यत्रेवमित्यस्यार्थप्रतीत्यर्थं यथा सम्राडित्यादिपूर्वशेषोदाहरणम् । अधिकृतान्नियोगिनः ॥ अथेममिति ॥ पूर्वं वागादीनां मृत्युनान्यत्वमुक्त्वा अथेमं वायुं मृत्युर्नाप्नोदिति वागादिश्रैष्ठ्यं मुख्यप्राणस्योच्यत इति तस्य मुख्यप्राणत्वद्योतनाय पूर्वशेषोक्तिः ॥ मध्यमत्वस्य तद्धर्मत्वोक्तेरिति ॥ यद्यपि योऽयं मध्यम इत्युक्तमध्यमत्वमवान्तरेश्वरत्वं न तु काठकोक्तहृन्मध्यवर्तित्वं तथाप्युभयत्र प्राणगणमध्ये राजतया निविष्टत्वं मध्यमत्वमिति पूर्वपक्ष्यभिप्रायः ॥ सर्वदेवतोपास्यत्वेति ॥ चतुर्मुखोपास्यत्वं च नानिष्टमिति पूर्वपक्ष्यभिप्रायो बोध्यः । विष्णुरेव जिज्ञास्य इत्युक्तमित्यवधारणस्य कृत्यं वक्तुमाशङ्क्य निषेधति न च वाच्यमिति ॥ पूर्वपक्षिणा भ्रान्त्या वायोरेव जिज्ञास्यत्व-मित्युक्तावपि, विश्वेदेवा उपासत इत्युक्तं वायोर्जिज्ञास्यत्वं सिद्धान्तिनो नानिष्टं विष्णोरिव वायोरपि जिज्ञास्यताभ्युपगमात् । न च वामनश्रुतिविरोधः । तत्प्रवृत्तिनिमित्तसौन्दर्यस्याणुत्वस्य तत्राप्युपपत्तेः । अस्तु वास्याःतद्विजिज्ञासस्वेतिवद् विष्णुपरत्वं कुविदङ्गेति श्रुत्युक्तं सर्व-देवोपास्यत्वं वायोर्भविष्यति । तत्र विष्णुप्रापकश्रुत्यभावात् । तथाच वायोर्जिज्ञास्यत्वे विष्णो-र्जिज्ञास्यत्वहान्यभावान्न तदधिकरणाक्षेप इतीदमधिकरणं व्यर्थमिति शङ्कार्थः ॥ मोक्षेति ॥ न च वायुश्च तदनुज्ञयेत्युक्तेस्तदप्यस्तीति वाच्यम् । मुख्यतो ब्रह्मादिसर्वदेवोपास्यत्वे स्वातन्त्र्येण मोचकत्वस्याप्यापातादित्यर्थः ।
ननु देवैः क्रियमाणवायूपासनायाः फलान्तरार्थमप्युपपत्तेर् वायोस् तत्प्रदत्वमेवास्तु मोचकत्वं कुत इत्यत आह ॥ न हीति ॥ मोक्षस्याप्यपरोक्षेण सिद्धत्वेऽप्यानन्दातिशयाख्य-प्रयोजनस्य सत्वादिति भावः । कुविदङ्गनमसा ये वृधासः, ‘पुरोदेवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसंसूर्येण’ इति मन्त्रार्थमाह ॥ अयमिति ॥ कुविदित्यस्यार्थः क्वचिदिति ॥ तात्पर्यमाह रहस्येति ॥ बाधितायेत्यस्यार्थः ॥ संसारेति ॥ बाधिभिरिताय प्राप्तायेति विग्रह इति भावः ॥ उषसमित्यस्यार्थो बुद्धिमिति ॥ तदुक्तं सत्तर्कदीपावल्याम् । उषसं प्रकाशरूपां बुद्धिं ध्यानाख्यामिति । ईशानशब्दोक्तो विष्णुरेवेति न्यायविवरणोक्तेन भाष्यं पूरयन् व्याचष्टे ॥ विष्णुरेवेति ॥ अणुश्चेति वक्ष्यमाणदिशाऽणुभूतवायावपि वामनश्रुतिः सावकाशेत्यतः वामनश्रुतेरेवानवकाश इति न्यायविवरणोक्तमनवकाशत्वं सौत्रप्रमितिपदोक्तमिति दर्शयन्नाह ॥ तस्याश्चेति ॥ ‘सवामनः सभामनः’ ‘उपेन्द्रो वामनः प्रांशुः’ इति श्रौतस्मार्त-प्रयोगाद्रूढेर्वामानि नयतीति योगस्य च सत्वादिति भावः ॥ प्रमितपदमिति ॥ सावकाशत्वे हि संशयेन न प्रमापकत्वमिति भावः । अत एव पूर्वं प्रमापकत्वादित्युक्तम् । यद्वा निरवकाशत्व-रूपप्राबल्याभावे, बहुलिङ्गबाधेन, तत्प्रमापितार्थप्रमापकत्वं न स्यादतः श्रुत्यर्थस्य प्रमितत्वोक्त्या श्रुतेर्निरवकाशत्वमेव सूचितमिति भावः । एवकारस्तु श्रुतेर् लिङ्गाज्जात्या प्राबल्योक्त्यर्थमाह ॥ अनेनैवेति ॥ सूत्रे समन्वेतव्यशब्दानुक्तिस्तु तत्प्रकरणगतप्राणोन्नयनादिलिङ्गानां सावकाशत्वं च वक्तुमिति बोध्यम् । ततश्च लिङ्गाज्जात्या प्रबलवामनशब्दादेवेशानः प्राणोन्नय-नादिकर्ता च विष्णुरिति प्रमितः । शब्दस्य निरवकाशत्वेन प्रमापकत्वादिति सूत्रार्थः । अत एव संक्षेपभाष्ये प्राणप्रेरक इत्युक्तम् । आनन्दमालायां च प्राणापानयोर्मुख्यप्राणस्यापि प्रेरको विष्णुरेवेति प्रमित इति ।
श्रुतिर्नाम समुद्दिष्टं लिङ्गं तल्लक्षणं स्मृतम् ।
पदानि निरपेक्षाणि वाक्यं प्रकरणं तथा ।
एकस्य प्रतिपत्यङ्गवचनं स्थानमुच्यते ॥
अन्यत्र तत्समोक्तिस्तु समाख्यास्थानमेव च ॥
अध्यायादिप्रबन्धास्तु प्रभेदा आगमस्य तु इति तत्त्वप्रदीपोदाहृतवचनानुसारेण श्रुत्यादीनां लक्षणान्याह ॥ नाममात्रेणेत्यादिना ॥ अत्र नामपदेनैव केवलयौगिकव्यवच्छेदः । पङ्कज-शब्दस्य भेकनामत्वाभावात् । मात्रपदं तु नामत्वायोगव्यवच्छेदकम् । तेन योगरूढस्यापि सङ्ग्रहः । भवतु वा योगो मा वा रूढित्यागेनेति ॥ तथा च नाममात्रेणेत्यस्य रूढिमत्यजता शब्देनेत्यर्थः ।
यद्वा नामपदस्य वाचकशब्दपरत्वे केवलयौगिकशब्दव्यावृत्यर्थं मात्रपदम् । तथा च नाममात्रेण केवलयौगिकशब्दभिन्नशब्देनेत्यप्याहुः ॥ असाधारणधर्म इति ॥ असाधारण-धर्मार्थकं पदं वाक्यं वा तदर्पितासाधारणधर्मो वेत्यर्थः । यथाकाशनये स एषोऽनन्त इत्यनन्तत्वं, यथा वा अत एव प्राण इत्यत्र श्रीलक्ष्मीपतित्वम् ॥ निराकाङ्क्षेति ॥ पदान्तर-निरपेक्षाणि स्वस्मिन्नेव पूर्णान्वयानि पदानि वाक्यमित्यर्थः । न च श्रीश्च त इति लिङ्गेति व्याप्तिरिति वाच्यम् । असाधारणधर्मप्रतिपादकानीति विशेषणात् । यथा असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषादित्यत्र तम आसीदिति वाक्यम् । नासदासीन्नोसदासीदित्यत्राव्यक्तत्व-पारतन्त्र्यादिधर्मान्तरेणैव सर्वासत्वमुच्यते न तु स्वरूपेणेत्यत्र स्वविरोधान्यथानुपपत्तिमुखेन निर्णायकम् । न चेदं वाक्यं साधारणधर्मप्रतिपादकम् । नाप्यागमतया बोधकम् । किं तु वाक्यशेषत्वेनैव । तथाप्राणादयो वाक्यशेषादित्यत्रापि वाक्यस्य निर्णायकत्वं बोध्यम् । यथा वा दहरनये, यावान्वाऽयमाकाश इति वाक्यस्य किं तदत्र विद्यत इति प्रश्नवाक्येनान्वितस्य दहरस्थो भूताकाश इति पूर्वपक्षनिर्णायकत्वं, विष्णुरिति सिद्धान्तनिर्णायकत्वं च, यथा वाऽन्तिमप्राणाधिकरणे, न वक्तुरात्मोपदेशादित्यत्र प्राणो वा अहमस्मीति वाक्यमिन्द्र एवप्राणशब्दवाच्य इत्यत्र लिङ्गम् । न चेदं वाक्यमसाधारणधर्मप्रतिपादकं, नाप्यागमतया प्रमाणम् इन्द्रः प्राणशब्दवाच्य इत्यननुशासनात् तात्पर्यलिङ्गोक्तिप्रस्तावे आगमप्रमाणोप-न्यासायोगाच्च । तत इदं स्वविरोधान्यथानुपपत्तिमुखेन वाक्यत्वेनैव लिङ्गम् । तदुक्तं न्यायविवरणेऽन्यगतलिङ्गादीनामिति । तट्टीकायां चादिपदेन प्राणो वा अहमस्मीति वाक्यं गृह्यत इत्युक्तम् । यद्वाऽसाधारणधर्मो लिङ्गमित्यत्रासाधारणधर्मप्रमापकमनन्त इत्यादिपदं लिङ्ग-मित्यर्थः । निराकाङ्क्षपदानीत्यत्रासाधारणधर्मार्पकाणि निराकाङ्क्षपदानि वाक्यमित्यर्थः । यथा श्रीश्च ते लक्ष्मीश्चेत्यादिकम् । नतु अन्तस्तद्धर्मोपदेशात् ‘अत एव प्राणः’ ‘तथा हि दृष्टं लिङ्गं च’ इत्यादौ समुद्रशायित्व, श्रीलक्ष्मीपतित्वादेरनेकवाक्यार्पितस्य लिङ्गत्वोक्तेः कथं वाक्यं लिङ्गात् पृथगिति चेत् । तस्या लिङ्गवाक्ययोरित्युत्तरटीकायामेव निरशिष्यमाणत्वात् । नन्वस्तङ्गतः सवितेत्यादिवाक्यं सन्ध्यामुपास्वेत्याद्यर्थे लिङ्गम् उक्तं हि सुधायां वाक्यलिङ्गानुमा हि सेति । तत्रोदाहरणं किं न स्यादिति चेन् न । तस्य वाक्यान्तरार्थावसितावलिङ्गत्वात् । उक्तं चानुव्याख्याने– ‘आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः । वाक्यं प्रकरणं स्थानं समाख्या च तथाविधा’ इति ॥ एकप्रमेयेति ॥ स्थाने वाक्ये अनेकाक्षरपदादौ चातिव्याप्ति-वारणाय क्रमेणैकप्रतिपादकेति ॥ अनेकेति ॥ वाक्येति च विशेषणानि ॥ यथात्तेत्यत्र प्रकरणादिति सूत्रेणात्तुर् विष्णुत्वनिर्णयः । अनेकप्रमेयप्रतिपादकप्रकरणजातमित्यर्थः । अन्यथा तादृशपदसमुदायरूपवाक्येऽतिव्याप्तेर् विरुद्धप्रकरणयोर्मिलितयोः स्थानत्ववारणाय द्वितीय-विशेषणम् । पुनरुक्तप्रकरणयोस्तद्वारणायाद्यम् ॥ समानोक्तिरिति ॥ निर्णीतस्थल इति शेषः । अन्यथा समाख्यालिङ्गस्य सन्दिग्धासिद्धिप्रसङ्गात् । सा च द्वेधाऽर्थतः शब्दत इति । तत्रार्थतः समाख्या यथा वैश्वानरस्य विष्णुत्वे पुरुषसूक्तसमाख्या । शब्दतो यथा ॥ छान्दोग्योक्त-दहरस्थस्य विष्णुत्वे, धृतेरिति सूत्रे वाजसनेयसमाख्या । तत्र पूर्वं पूर्वं बलीयस्त्वं बीजोक्त्याह ॥ तत्रेति ॥ साक्षादिति ॥ व्याप्यार्थमन्तरा श्रुतित्वेनैवेत्यर्थः । यथा वामनश्रुतिर्व्याप्यार्थ-मबोधयित्वैव श्रुतित्वेनैवेशानो विष्णुरिति धीजनकेति ज्ञेयम् ॥ अनुमापकतयेति ॥ व्याप्यार्थप्रतिपादनद्वारेत्यर्थः । यथात्रैव प्राणव्यवस्थापकत्वादिव्याप्यार्थप्रतिपादकस्योर्ध्वं प्राण-मित्यादेर्वामनश्रुतिबाध्यत्वम् । यथा वा द्युभ्वादिनये जायमानत्वलिङ्गस्य जीवत्वनिश्चायकत्व-मात्मश्रुतिबाध्यत्वं च ॥ अनेकार्थेति ॥ यथा दहरनये यावान्वाऽयमाकाश इति वाक्यस्य किं तदत्र विद्यत इति प्रश्नवाक्येनान्वितस्य दहरपद्मस्थाकाशो भूताकाश इत्यर्थानुमापकत्वम् अपहतपाप्मत्वादिलिङ्गबाध्यत्वं चेति भावः । वाक्यस्याप्यसाधारणलिङ्गार्पकत्वमिति पक्षे तु आकाशनये भूतान्याकाशादेवसमुत्पद्यन्त इति वाक्यप्राप्तस्य सर्वभूतकारणत्वलिङ्गस्यानन्तत्व-रूपैकपदार्पितलिङ्गबाध्यत्वं ज्ञेयम् ॥ बह्वर्थपरत्वेनेति ॥ अनेकवाक्यात्मकप्रकरणस्यानेकार्थ-धीपूर्वकम् इदं प्रकरणमेतत्परमिति यदज्ञानं तत्पूर्वकं स्वान्तर्गतस्य विप्रतिपन्नवाक्यस्य प्रकरणानुगुण एवार्थ इत्यनेकवाक्यार्थधीद्वारा लिङ्गत्वादित्यर्थः । यथा, ज्योतिर्दर्शनादित्यत्र किं ज्योतिरेवायं पुरुष इत्यादिजीवप्रकरणस्य जीवज्योतिष्टत्वनिश्चायकत्वं, कतमआत्मेत्यादि प्रश्नवाक्यबाध्यत्वं च । जीवस्य प्रसिद्धत्वेन कतमआत्मेति प्रश्नायोगादिति तट्टीकोक्तेः । वाक्यस्य लिङ्गत्वपक्षे ज्योतिश्चरणेत्यत्र, अग्निसूक्तप्रकरणस्य प्रसिद्धाग्निनिश्चायकत्वं, विमे-कर्णेति वाक्यबाध्यत्वं च । बह्वर्थकथनेनाभिप्रायत इति अनेकप्रकरणधीपूर्वकम् इदं स्थान-मेतत्परमिति यदज्ञानं तत्पूर्वकं स्वान्तर्गतस्य विप्रतिपन्नवाक्यस्य स्थानानुगुण एवार्थ इत्यनेक-प्रकरणार्थधीद्वारानुमापकत्वादित्यर्थः । यथा षट्प्रश्नोपनिषत्स्थानस्यैवमेवैष प्राण इतरान् प्राणान् इति वाक्यस्य विष्णुपरत्वे लिङ्गत्वं ततोऽपि दौर्बल्यमिति । तस्यैव स्थानस्य भगवन् कुत एष प्राणो जायते आत्मत एष प्राणो जायत इत्यादिखण्डरूपात्प्राणप्रकरणाद्दौर्बल्यमिति भावः ॥ स्थानान्तरेति ॥ स्थानान्तरसमाख्यया अत्रोक्तमेव स्थानान्तरस्थविप्रतिपन्नवाक्येऽपि बोध्यमिति स्थलद्वयानुसन्धानपूर्वकं तत्सदृशत्वादिदं तत्परमित्येवं निर्णायकत्वम् । तस्य च ब्रह्मविदाप्नोति, अधीहि भगवो ब्रह्मेति, सैषा भार्गवी वारुणी विद्या, परमे व्योमन् प्रतिष्ठिता, इत्यादिना वैष्णवत्वेन प्रमितस्थानाद्दौर्बल्यं चेति ज्ञेयम् ।
ननु कथमन्तर्नये लिङ्गात् श्रुतिबाधः । ज्योतिर्दर्शनादित्यत्रोभयलोकसञ्चरणादिजीवलिङ्गस्य कतम आत्मेति प्रश्नवाक्येन बाधः । आनुमानिकनये प्रकरणादित्यत्र लिङ्गादतिदुर्बलेन प्रकरणेन महतः परमव्यक्तमित्युक्तलिङ्गबाधः । वैष्णवेन षट्प्रश्नस्थानेन एवमेवैष प्राण इतरान् प्राणानिति प्राणप्रकरणबाधः । ब्रह्मभृगुप्रकरणसमुदायात्मकस्थानेनान्नमयादिप्रकरणबाधश्च । वैश्वानरविद्यास्थानस्य पुरुषसूक्तसमाख्याबाधश्चेत्यत आह ॥ अत्रापीति ॥ समन्वयाधि-करणोक्तोपक्रमादाविवेत्यर्थः । अत्र स्वभावपदेन श्रुतित्वलिङ्गत्वादिजातिरुच्यते । आदिपदेन निरवकाशादेकस्माद्बहुत्वेन प्रबलस्य, सावकाशदौर्बल्यमित्यस्य ग्रहणम् । पूर्वं पूर्वं बलीय इत्यागमनिर्णय इति प्रतीतिं वारयन् व्याचष्टे ॥ विरुद्धेति ॥ विरुद्धयोः श्रुतिलिङ्गयोः, लिङ्गवाक्ययोरित्यादिरूपेणैकार्थनिष्टत्व इत्यर्थः । सावकाशत्वनिरवकाशत्वाभ्यामेव सर्वत्र निर्णयेन स्वभावदौर्बल्यं नामान्यदस्ति । तत्कथं श्रुत्यादित्वेन निर्णय इति शङ्का समन्वयाधि-करणटीकायामेव परिहृता । विवृतं चास्माभिः । आगमार्थनिर्णये लिङ्गमित्युक्त्या नोपक्रमादि-वत्तात्पर्यानुमापकमित्युक्तं भवति । अत एव ‘लिङ्गं तात्पर्यनिर्णय’ इत्युक्तम् । तथाचानु-व्याख्याने, ‘आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥ वाक्यं प्रकरणं स्थानं समाख्या च तथाविधा’ इति ॥ तदिति ॥ अस्मदुक्तं पौर्वापर्यं बलाबलबीजं चेत्यर्थः । श्रुत्यादीनां समवाये एकार्थनिष्ठत्वे परस्यानन्तरमुक्तस्य लिङ्गादेः पूर्वपूर्वापेक्षया दौर्बल्यमर्थप्रमापनांशे व्यवधानादिति जैमिनि सूत्रार्थः ॥ भाष्यकार इति ॥ भक्तिपादानुव्याख्यानकृदित्यर्थः । श्रुत्यादीनामागमार्थ-निर्णायकत्वमिवोपक्रमादिनिर्णायकत्वमप्यस्तीत्याह ॥ श्रुतिलिङ्गेति ॥ यथा सर्वगतत्वाधिकरणे सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत इति विप्रतिपन्नसर्वगते श्रुताया ब्रह्मश्रुतेर् वैश्वानरनये चात्मानं वैश्वानरमिति वैश्वानरे श्रुताया आत्मश्रुतेश्च यत्र यन्नाम प्रयुज्यते बाधकाभावे स तन्नामवाच्य इति श्रुतित्वेनानुमापकत्वमित्यर्थः । चन्द्रिकायां तु अत्र च श्रुतिः स्वनिर्णेतव्ये श्रुतित्वेनैव निर्णायका । वाक्यादित्वानुमानत्वेन अत एव ‘वाक्यं प्रकरणं स्थानं समाख्या च तथाविधा’ इत्यनुव्याख्याने समाख्यावाक्यप्रकरणस्थानानि च उपपत्तिविशेषा इति प्रमाणलक्षणे च वाक्यादीनामेव लिङ्गतोक्ता । न तु श्रुतेः । लिङ्गस्य त्वनुमानत्वमविप्रतिपन्नमिति न लिङ्गं तत्रोक्तमिति । लिङ्गस्यानन्त इत्यादेः साक्षादेव देशकालगुणैरपरिच्छिन्नत्वरूपविष्णुत्वव्याप्य-धर्मोपस्थापकतयैव ज्ञापकत्वम् । वाक्यमपि ‘तम आसीत्’ इति वाक्यशेषरूपं ‘नासदासीत्’ इत्यारभ्य ‘न परः किञ्च नास’ इत्यन्तोक्तसर्वाभावरूपविप्रतिपन्नार्थे श्रुतं स्वविरोधान्यथानु-पपत्तिमुखेनाव्यक्तत्वस्वतन्त्रत्वादिरूपेण सर्वाभावे लिङ्गमिति ज्ञेयम् ।
वाक्यस्यापि व्याप्यधर्मोपस्थापकतया लिङ्गत्वमिति पक्षे विमे कर्णेति वाक्यं विप्रतिपन्नार्थ-निष्ठं बोध्यम् ॥ उपक्रमोपसंहारयोरिति ॥ यथा वैश्वानरनये सम्भवादिति सूत्रखण्डे को न आत्मा किं ब्रह्मेत्यादिश्रुतेः । उपक्रमानिश्चायकतया प्रकरणनिश्चयद्वारा विप्रतिपन्नार्थलिङ्गत्वं, प्रथमे श्रवणादित्यत्र आपः पुरुषवचसो भवन्तीत्युपसंहारनिश्चयद्वारेति ज्ञेयम् । लिङ्गस्य तु द्युभ्वादिनये प्रकरणादित्यत्र द्वे विद्ये इत्युक्तपरविद्याविषयत्वस्योपक्रमनिर्णयद्वाराप्राकरणिकेश-शब्दस्य विष्णुपरत्वे लिङ्गत्वम् ।
सर्वगतत्वाधिकरणे ‘स योऽतोऽश्रुत’ इत्युपसंहारस्थाश्रुतत्वादिलिङ्गस्योपसंहारनिर्णयद्वारा वाक्यस्य, यथा अन्तर इत्यत्र कं ब्रह्म खं ब्रह्मेति वाक्यस्य ज्योतिर्दर्शनादित्यत्र कतम आत्मेति प्रश्नवाक्यस्य वेति बोध्यम् ॥ लिङ्गत्वमिति ॥ वैश्वानरो विष्णुस् तत्प्रकरणपठितत्वाद् इदं विष्णुप्रकरणं को न आत्मेति तदुपक्रमवत्वात् । अयं च विष्णूपक्रमस् तच्छ्रुतिघटितत्वादिति विप्रतिपन्नार्थलिङ्गत्वमित्यर्थः ॥ अन्यत्रेति ॥ साक्षाद्विप्रतिपन्नार्थादुपक्रमोपसंहाराभ्यां चान्य-त्रेत्यर्थः । यथा प्राणस्तथानुगमादित्यत्र ब्रह्मेमं पुरुषमित्यादिब्रह्मश्रुतेः, दहर इत्यत्र अपहत-पाप्मत्वादिलिङ्गस्य, न सङ्ख्योपसङ्ग्रहादित्यत्र प्राणस्य प्राणमिति वाक्यशेषस्य, अत एव प्राण इत्यत्र श्रीश्च त इति वाक्यस्य वेति ज्ञेयम् । यद्यप्युपक्रमोपसंहारश्रुत्यादेरपि प्रकरणनिश्चाय-कत्वमेव तथापि उक्तरीत्या उपक्रमादिनिश्चयद्वारैव । अन्यत्र श्रुतश्रुत्यादेस्तु साक्षादेव प्रकरणनिश्चायकत्वमिति भेदः ॥ उपक्रमोपसंहारावपीति ॥ उपक्रमोपसंहारावपि अन्यत्र श्रुतश्रुत्यादिना श्रुत्यर्थनिश्चये तस्मिन्नेवार्थे तात्पर्यातिशयज्ञापकावित्यर्थः । यथा ब्रह्मविदाप्नोति परमित्युपक्रमस्य श्रुत्यादिनाऽनन्दमयस्य ब्रह्मत्वे निर्णीते तात्पर्यातिशयद्योतकत्वम् । यथा सर्वत्र प्रसिद्धेत्यत्र सवर्गतस्य ब्रह्मत्वे ब्रह्मशब्दादिना निर्णीते विवक्षितगुणेत्युक्तस्य श्रुत इत्युपसंहारस्य चेति बोध्यम् । ननु वैश्वानरस्यात्मानं वैश्वानरमित्यात्मशब्दादिना ब्रह्मत्वे निर्णीतेऽपि को न आत्मा किं ब्रह्मेत्युपक्रमस्य प्रकरणनिश्चायकत्वं भाष्यटीकयोरुक्तमिति विरोध इति चेन्न । तत्रात्मशब्देन स्मृतिसमाख्यया नार्थसिद्धिः पूर्वपक्षे श्रुतिसमाख्यादेर्भावादिति शब्दादिभ्य इत्याक्षिप्ते असम्भवादित्युपक्रमोपन्यासादिति ज्ञेयम् ॥ अन्यथेति ॥ यथा द्युभ्वादिनये ‘द्वे विद्ये वेदितव्ये इति परमेश्वरोपक्रमो ऽन्यमीशमित्यत्र चेशशब्दार्थो विष्णुरित्यत्र प्रकरणनिश्चायकः यथा च आनुमानिकनये प्रकरणादित्यत्र ‘तद्विष्णोः परमं’ पदमित्युपसंहार’ ‘अनाद्यनन्तं महतः परं ध्रुवम्’ इत्यादेर्विष्णुप्रकरणत्वनिश्चायक इति ज्ञेयम् ॥ समाख्यापीति ॥ यथा पुरुषविधमपि चैनमधीयत इत्युक्तस्य वैश्वानरस्य विष्णुत्वे पुरुषसूक्तसमाख्या समाख्यात्वेनैव लिङ्गम् । अजस्य नाभावित्यत्र विप्रतिपन्नाजे साक्षादश्रुतायाः ‘परो दिवा पर एना पृथिव्या’, परोदिवेभिरित्यस्याः ‘परो दिवा पर एना पृथिव्यै तावती’ इत्यम्भृणीसूक्तसमाख्या तु प्रकरण-निश्चायकत्वेन लिङ्गमित्यर्थः ।
ननु प्राक् लिङ्गस्यानुमापकतयाऽर्थबोधकत्वात्तदानन्तर्यं वाक्यस्यानेकार्थकथनद्वाराऽर्थानु-मापकत्वात्ततोऽपि दौर्बल्यमित्युक्तम् । तदयुक्तम् । अनेकार्थकथनद्वाराऽर्थानुमापकत्वेन वाक्य-शेषादिरूपवाक्यस्य लिङ्गादवमजातीयत्वेऽनन्त इत्याद्येकपदात्मकलिङ्गात् श्रीश्च त इत्याद्यनेक-पदात्मकलिङ्गस्य भिन्नजातीयत्वप्रसङ्गेनात एवेत्यतिदेशानुपपत्तिरित्यत आह ॥ लिङ्गवाक्य-योरिति ॥ लिङ्गस्य व्यापकस्यैकपदात्मकलिङ्गस्यानन्त इत्यादेः साक्षात् श्रुत्यैवासाधारण-धर्मोपस्थापकत्वेन वाक्यस्य श्रीश्च त इत्यादेर् असाक्षात्संसर्गमर्यादया साधारणधर्मोप-स्थापकत्वनैव भेदः । न तु प्राबल्यदौर्बल्यापादको जातिभेदः । उभयोरप्यसाधारण-धर्मोपस्थापकत्वाविशेषात् । उपस्थापने प्रकारवैचित्र्याप्रयोजकत्वात् । तम आसीदित्यादि-वाक्यशेषादिरूपवाक्यस्य स्वयमनेकार्थकथनद्वारा तमसः सत्वसंसर्गबोधं जनयित्वा स्वविरोधा-न्यथानुपपत्या अर्थानुमापकत्वादुभयविधलिङ्गाज्जात्यन्तरत्वं दुर्बलत्वं चेति भावः । प्रकरणा-त्प्रबलं लिङ्गाद्दुर्बलं वाक्यं श्रीश्च त इत्यादिकमेवेति पक्षे तु लिङ्गवाक्ययोरित्यसावयमवतारः । ननूभयोरप्यसाधरणधर्मोपस्थापकत्वाविशेषात् कथं भेद इत्यत आह ॥ लिङ्गवाक्ययोरिति ॥ असाधारणधर्मोस्थापने प्रकरणवैचित्र्याद् लिङ्गवाक्ययोर्भेद एकः कर्ता वर्तमानकाले स्वार्थपाकक्रियां निवर्तयति पचत इति वाक्याख्यातपदयोः पाचकत्वलक्षणधर्मोपस्थापकत्वेऽपि अनेकार्थप्रतिपादनमन्तरा साक्षाद्धर्मोपस्थापकत्वमाख्यातस्य वाक्यस्य तु तद्वारेति यथा भेदस् तथा प्रकृतेऽपीत्यर्थः । अत्र वैदिकमुदाहरणमाह ॥ गोत्रेति ॥ प्रवक्षणाः पक्षानित्यादिवत् । इत्यादौ यथा ॥ अनिर्णय एवेति ॥ न च ‘तयोः स्वभावो बलवान्’ इति बहुत्वेन प्रबला-पेक्षया स्वभावशब्दितजातेः प्राबल्यस्योक्तेः कथमनिर्णय इति वाच्यम् । तत्र स्वभावपदेन जातिवदुपजीव्यत्वनिरवकाशत्वयोरपि व्याख्यातत्वेन लिङ्गानां निरवकाशतया बहुतया च प्राबल्यम् । श्रुतेरुक्तजात्या निरवकाशतया च प्राबल्यमिति अनिर्णय एवेति विवक्षितत्वात् । तस्यैव प्राणत्वोक्तेरिति ॥ ‘तद्वैत्वं प्राणोऽभव’ इत्यत्र यस्मान्नव देवान् प्राणयस् तस्मात्वं प्राणशब्दवाच्योऽभव इति प्राणशब्दवाच्यत्वोक्तेरित्यर्थः । यद्यपि षट्प्रश्ने आत्मन एष प्राणो जायत इत्युक्तमुख्यप्राणस्यैवमेष इतरान् प्राणानिति परामर्शनात् । वाजसनेये च योऽयं मध्यमः प्राण इत्युक्तस्यायं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्य प्राण इति मध्यमप्राणस्य शिशुत्व-ब्रह्माश्रितत्वप्रतिपादनात् प्राणपदं प्रसिद्धपरमिति सिद्धम् । तथापि भूमाधिकरणे पृथगुभयग्रहणे बाधकाभावादिति टीकोक्तरीत्यान्तर्यामिविवक्षया विष्णुपरत्वं बोध्यम् । कुविदङ्गेत्यत्र वायोः सर्वदेवोपास्यत्वकथनात् तद्भाष्येऽनवकाशितमित्यत आह ॥ वायुत्वमिति ॥ प्राणत्वोक्ते-रित्यनेन वायुत्वोक्तेरित्युपलभ्यते । अन्तर्नये आधिदैविकसर्वशब्दसमन्वयस्य उक्तत्वेन तस्यैव वायुत्वोक्तेरित्यर्थः । यद्वा श्रुत्यन्तरे प्राणनिष्ठतयेति टीकाया षट्प्रश्नवाजसनेयाख्यश्रुत्यन्तर इत्यर्थः । तयोर् विषयवाक्यसमानोक्तित्वाभावेनसावकाशयितव्यत्वात् । विषयवाक्ये प्राणापान-मात्रव्यवस्थापकत्वस्य मध्यदेशगतत्वस्य चोक्तेः षट्प्रश्नवाजसनेयप्रोक्त इतरान्प्राणानिति सर्व-प्राणानियामकत्वस्य ‘योऽयं मध्यम’ इत्युक्त्या प्राणदासप्राणापेक्षया मध्यमत्वरूपावान्तरेश्वर-त्वस्य चोक्त्या समानोक्तित्वाभावात् । अतः श्रुत्यन्तर इति टीका अत्रापठित श्रुत्यन्तरपरतया योज्येति ज्ञेयम् । अभ्युपगमवादेन सावकाशत्वोक्तिरिति बोध्यम् ।
तत्त्वसुबोधिनी
तमात्मानं येऽनुपश्यन्ति धीरास् तेषां सुखं शाश्वतमिति पूर्वत्र विष्णुज्ञानादेव मोक्ष इत्युक्तम् । तदयुक्तम् । विश्वेदेवा उपासते इत्यन्यस्यैव देवोपास्यत्वप्रतीतेः । प्राप्तसमस्तैश्वर्याणां देवानां मोक्षादन्यार्थमुपासनायोगादन्यप्रार्थनायाञ्च विष्णोर् ज्ञानायोगादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिः । प्रकृतिनिमित्तसाधारण्येन उभयत्र प्रसिद्धिमाह ॥ अत्र प्रेरकत्वसाम्येनेति ॥ अङ्गुष्टमात्रो ऽङ्गुष्टपरिमाण आत्मनि हृदयमध्ये पुरुषस्तिष्ठति भूतभव्यस्य अतीतानागतस्य ईशानः प्रेरकः । ननु जिज्ञासासूत्रे जिज्ञास्यत्वमेवोक्तं न तूपास्यत्वम् । अत्र तु उपास्यत्वमुच्यत इति कथं तदाक्षेप इत्यत आह ॥ जिज्ञासेति । कथं तयोर् ऐक्यम् इत्यतो लक्षणैक्यादित्याह ॥ श्रवणादिरूपेति ॥ ननु ईशानशब्दस्य रुद्रे प्रसिद्धत्वात् सोऽपि किमिति न सन्देहकोटौ निवेश्यत इत्यत आह ॥ ईशान शब्दस्येति ॥ उपलक्षणं चैतत् । ईशानशब्दप्रवृत्तिनिमित्तप्रेरकत्वस्य रुद्रादौ साम्येऽपीत्यपि द्रष्टव्यम् । ऊर्ध्वं प्राणमुन्नयतीति श्रुतावन्वयाप्रतीतेर् यच्छब्दाध्याहृत्यान्वयमाह ॥ य उन्नयति तमित्यन्वय इति ॥ ऊर्ध्वं प्राणमिति वाक्येति ॥ अनेन भाष्ये ‘ऊर्ध्वं प्राणम् उन्नयति’ इत्यादिश्रुत्युदाहरणं पूर्वपक्षे लिङ्गज्ञापनार्थम् । अन्यथा वामनमासीनमित्याद्यैव उदाह्रीयेत इत्युक्तं भवति । लिङ्गत्रयस्यापि वायुपरत्वमुपपादयति ॥ यथेति ॥ यथा सम्राट् राजा अधिकृतान् अधिकारिणः विनियुंक्ते आज्ञापयति । कथं ‘त्वम् एतान् ग्रामानधितिष्ठस्व’ इति एवमेव ‘एष प्राण इतरान् प्राणान् पृथक् पृथक्स्थाने सन्निधत्ते’ स्थापयतीत्यर्थः । वृधास इत्यस्यार्थमाह ॥ ज्ञानादिति ॥ कुविदित्यस्य क्वचिदित्युपपदं रहस्यस्थान इति तात्पर्यकथनम् । एवमुषसम् आवासयन्नित्यस्यापि बुद्धिमुत्थापयन्नित्युपपदकथनम् । तद्विषयामकुर्वन्निति तात्पर्यकथनम् ।
अस्तु वामनश्रुतितस्तस्यापि ईशानस्य विष्णुत्वं कुत इत्यत आह ॥ तस्याश्चेति ॥ ‘एष एव वामनिरेष हि सर्वाणि वामानि नयति’ इति श्रुत्यन्तरे योगस्य उक्तत्वेन ‘उपेन्द्रो वामनः प्रांशुर् इति स्मृतेर् आर्यप्रसिद्धेश्च महायोगरूढिसिद्धत्वमितिभावः ॥ अत्र प्रमितपदमिति ॥ श्रुतेर् निरवकाशत्वरूपप्राबल्याभावे बहुलिङ्गबाधेन तत्प्रापितार्थविपरीतार्थप्रमापकत्वं न स्यात् । यतः श्रुत्यर्थस्य प्रमितत्वोक्त्या श्रुतेर् निरवकाशत्वमेव सूचितमित्यर्थः ॥ अनेनेति ॥ श्रुतेर् लिङ्गापेक्षया बलवत्वकथनेनेत्यर्थः । अर्थनिर्णायकश्रुत्यादीनां क्रमेण लक्षणान्याह ॥ नाम-मात्रेणेत्यादिना ॥ अत्र मात्रपदेन शुद्धयोगो व्यावर्त्यते । तथा च नाममात्रेणेत्यस्य केवल-यौगिकशब्दभिन्नपदेनेत्यर्थः । तेन न योगरूढानां वामनादिशब्दानां श्रुतित्वहानिरिति द्रष्टव्यम् ॥ असाधारणधर्म इति ॥ असाधारणधर्मप्रतिपादकः शब्दः शब्दार्पितो ऽसाधारण-धर्म इत्यर्थः । न हि इहानुमानमात्रं लक्ष्यं तस्य वाक्याद् दुर्बलत्वात् । किन्तु श्रुतितो दुर्बलं वाक्याच्च प्रबलवैदिकं लिङ्गमिति भावः ॥ निराकाङ्क्षपदानीति ॥ पर्यवसिताकाङ्क्षपदानीत्यर्थः ॥ एकप्रमेयेति ॥ स्थानेति व्याप्तिवारणाय एकप्रमेयप्रतिपादकेति ॥ वाक्येति व्याप्ति-वारणायानेकेति ॥ अनेकाक्षरात्मकपदादावतिव्याप्तिपरिहाराय वाक्येत्युक्तम् ॥ अनेक-प्रमेयेति ॥ प्रमाकरणे अतिव्याप्तिपरिहारार्थम् अनेकप्रमेयप्रतिपादकेत्युक्तम् । विरुद्धार्थशास्त्रयोर् मिलितयोः स्थानत्वपरिहारार्थम् एकार्थतात्पर्ययुक्तमिति ॥ समानोक्तिरिति ॥ निर्णीतस्थल इत्युपस्कर्तव्यम् । तेन विप्रतिपन्नप्रकरणादिगतसमानोक्तेः समाख्या त्वव्यवच्छेदः । साक्षा-दर्थधीजनकत्वादिति व्याप्त्यादिप्रतिपादनद्वारमन्तरेणागमतया विप्रतिपन्नार्थधीजनकत्वादित्यर्थः ॥ अनुमापकतयेति ॥ व्याप्त्यर्थप्रतिपादनद्वारेत्यर्थः । यथात्रैव योऽयं मध्यम इति मध्यमपदस्य मध्यमत्वरूपव्याप्यप्रतिपादनद्वारेशानशब्दोक्तस्य वायुत्वनिश्चायकत्वम् ॥ तदानन्तर्यमिति ॥ ततो दुर्बलमित्यर्थः । यथात्रैव वामनश्रुतितो मध्यमत्वादिलिङ्गानाम् अनेकार्थकथनद्वारेति ॥ यतो ‘सर्वाणि हवा इमानि भूतानि आकाशादेव समुत्पद्यन्ते’ इति वाक्यस्य भूताद्यनेकार्थ-प्रतिपादनद्वारा भूतकारणत्वरूपे व्याप्यप्रतिपादकत्वेन आकाशपदोक्तस्य भूताकाशत्वानु-मापकत्वम् ॥ ततोऽपि दौर्बल्यमिति ॥ तल्लिङ्गादित्यत्रैव अनन्तत्वादिलिङ्गाद् वाय्वादि-भूतकारणतया व्याप्यार्थकस्य ‘सर्वाणि हवा इमानि भूतानि आकाशादेव समुत्पद्यन्ते’ इति वाक्यस्य ॥ बह्वर्थपरत्वेनेति ॥ यथा ‘मूर्धानन्दिव’ इत्यग्निप्रकरणस्य देवमुखत्वय-ज्ञनाभित्वाद्यग्निज्ञापकबह्वर्थप्रतिपादनत्वेन ज्योतिःशब्दोक्तस्याग्नित्वानुमापकत्वम् ॥ तदवमतेति ॥ यथा ज्योतिश्चरणाभिधानाद् इत्यत्रैव कर्णादिविदूरत्वलिङ्गप्रतिपादकविमे कर्णेति वाक्या-दुदाहृताग्निप्रकरणस्य दौर्बल्यम् ॥ अतिबह्वर्थकथनेति ॥ यथा षट्प्रश्नोपनिषत्रूपस्थानस्य बह्वर्थकत्वेन अनेकप्रकरणार्थधीपूर्वकम् इदं स्थानं विष्णुपरमिति यज्ज्ञानं तत्पूर्वं स्थानान्तर्गत-स्यैवमेवैष प्राण इति वाक्यस्य स्थानानुगुणार्थकत्वमेव वक्तव्यमिति तद्वाक्यगतप्राणशब्दोक्तस्य विष्णुत्वानुमापकत्वम् ॥ ततोऽपि दौर्बल्यमिति ॥ यथा स्वस्यैव स्थानस्य भगवत्कृत एव प्राणो जायत इत्यादि खण्डरूपान्मुख्यप्राणधर्मप्रतिपादकत्वं तत्प्रकरणात् ॥ सादृश्यमात्रे-णेति ॥ यथा अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्यन्तामिति कोशपरसमाख्यया अत्रोक्तमेव स्थानान्तरस्थविप्रतिपन्नवाक्येनापि बोध्यमित्येव स्थलद्वयानुसन्धानपूर्वकतत्सादृश्य-त्वादि अन्ततस् तदर्थपरमित्येवं सादृश्यमात्रेण ।
एतमन्नमयमात्मानमुपसङ्क्रम्य एतमन्नमयमात्मानमुपसङ्क्रामतीत्याद्यन्नमयशब्दोक्तस्य कोश-त्वानुमापकत्वम् । यथा वा ‘स्मर्यमाणमनुमानं स्यात्’ इति सूत्रोपात्तायाः ‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः’ इति समाख्याया वैश्वानरस्य विष्णुत्वानुमापकत्वम् ॥ ततोऽपि दौर्बल्यमिति ॥ यथा ब्रह्मविदाप्नोति परं भृगुर्वै वारुणिर् इति विष्णुधर्मरूप प्रतिपादकतया विष्णुस्थानाद् उदाहृतसमाख्याया इति द्रष्टव्यम् ॥ पूर्ववदिति ॥ समन्वयाधिकरणोक्तोप-क्रमादिवदित्यर्थः । इत्यादीत्यादिपदेन निरवकाशाद् एकस्माद् बहुत्वेन प्रबलस्य सावकाशस्य दौर्बल्यमित्यस्य ग्रहणम् । ननु तर्हि सावकाशत्वनिरवकाशत्वे एव बाध्यबाधकत्वोपयोगिनी न श्रुत्यादित्वम् इत्यतः सावकाशत्वादिरहितश्रुत्यादीनां जातिकृतप्राबल्यदौर्बल्यनिमित्तको बाध्य-बाधकभाव इत्यभिप्रेत्यैव आगमनिर्णय इत्येतद्व्याचष्टे ॥ विरुद्धतैषामिति ॥ अनेनैवागमनिर्णय इत्यस्य पूर्वपूर्वं बलीय इत्यागमनिर्णय इत्यन्यथाप्रतीतिर् निरस्ता भवति ॥ श्रुतिलिङ्ग-वाक्यानामिति ॥ यथा ‘एष सर्वेषु भूतेषु’ एवमेव ‘ब्रह्मेत्येवाभिविमानमात्मानं’ वैश्वानरम् इत्यादौ च विप्रतिपन्नसर्वगतवैश्वानरादिनिष्ठब्रह्मात्मशब्दादेः । यथा च ‘आकाशः परायणं स एव परोवरीयान् उद्गीथः स एषोऽनन्तः’ इत्यत्र ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ ‘एष आत्मेति होवाच’ ‘एतदमृतमभयमेतद्ब्रह्म’ इत्यादौ च विप्रतिपन्नाकाशचक्षुरन्तस्थगतानन्तत्वा-मृतत्वादेः । यथा विमेकर्णेत्यत्र यं पृथिवी न वेद इत्यादौ च विप्रतिपन्नज्योतिरन्त-र्याम्यादिनिष्ठस्य उदाहृतवाक्यस्य इति ज्ञेयम् ॥ उपक्रमोपसंहारयोरिति ॥ यथा वैश्वानर इत्यत्र कोऽनु आत्मा किं ब्रह्म इत्युपक्रमादिश्रुतेः । यथा च प्रथमे श्रवणादित्यत्र इति तु पञ्चम्या-माहुतावापः पुरुषवचसो भवन्तीत्युपसंहारस्थबहुश्रुतेर् लिङ्गस्य । यथा आत्मा वा इदमेवाग्र आसीद् इत्यत्र एष तपतीत्याद्युपक्रमवाक्योक्तसूर्यस्थितलिङ्गस्य सर्वत्र प्रसिद्धेत्यत्र स योऽतोऽ-श्रुत इत्युपसंहारस्य श्रुतत्वादिलिङ्गस्य वाक्यस्य तु यथा अन्तर इत्यत्र कं ब्रह्म खं ब्रह्म इत्युपक्रमस्थवाक्यस्य । प्राणस्तथेत्यत्र ‘ता वा एता सर्वा ऋचः’ इत्यादेर् उपसंहारस्य वाक्यस्य ॥ अन्यत्र चाह इति ॥ विप्रतिपन्नार्थप्रतिपादकवाक्योपसंहारेभ्योऽन्यत्रेत्यर्थः । यथा प्राणस्तथेत्यत्र ‘ब्रह्मेमं पुरुषम्’ इत्यादि ब्रह्मश्रुतेः । दहर इत्यत्र ‘य आत्मा अपहतपाप्मा’ इत्यादिलिङ्गस्य । ‘अत एव प्राण’ इत्यत्र ‘श्रीश्च ते लक्ष्मीश्च पत्न््नयौ’ इत्यादिवाक्यस्येति द्रष्टव्यम् । उपक्रमोपसंहारावपि उपक्रमोपसंहाराभ्यामन्यत्र श्रुतौ श्रुत्यादिना अर्थनिश्चये सति तस्मिन्नेवार्थतात्पर्यातिशयज्ञापकावित्यर्थः ।
यथा अत्ता चरेत्यत्र अत्तुर् ब्रह्मत्वे सर्वात्तृत्वादिना निर्णीतेनैवेह किं चाग्र आसीदित्युप-क्रमः । यथा च सर्वत्रेत्यत्र सर्वगतस्य ब्रह्मत्वे ब्रह्मशब्दादिना निर्णीते ‘स योऽत’ इत्युपसंहार इति बोद्धव्यम् ॥ अन्यथा प्रकरणेति ॥ यथा द्युभ्वाद्यधिकरणे प्रकरणादित्यत्र ‘द्वे विद्ये’ इति परमेश्वरोपक्रमः । अन्यमीशमित्यत्रापि तस्यैव प्रकृतत्वनिश्चायकः । यथा वा अनुमानाधिकरणे प्रकरणादित्यत्र तद्विष्णोः परममित्युपसंहारो ऽनाद्यनन्तमित्यादेर् विष्णुप्रकरणत्वनिश्चायक इति ज्ञेयम् ॥ समाख्यापीति ॥ ‘यथा पुरुषविधम्’ इत्यत्र शीर्ष्णोरित्यादिपुरुषसूक्तोक्तिसमाना साक्षाद्विप्रतिपन्नवैश्वानरनिष्ठा वैश्वानरस्य मूर्धेवेत्याद्युक्तिः ॥ अन्यथाप्रकरणेति ॥ यथा ‘परो दिवा पर एना पृथिवी तावती’ इत्यम्भ्रणीसूक्तोक्तिरिति द्रष्टव्यम् । ननु परोवरीयानुद्गीथोऽनन्त इत्यादिलिङ्गस्य ‘श्रीश्च ते लक्ष्मीश्च पत्न््नयौ’ इत्यादि वाक्यस्य विप्रतिपन्नार्थवाक्यप्रतिपादकत्व-विशेषात् कथं लिङ्गवाक्याभाव इत्यत आह ॥ लिङ्गवाक्ययोरिति ॥ अनेकार्थप्रतिपादनमन्तरा व्याप्यप्रतिपादकत्वं साक्षात्त्वलिङ्गस्य तद्वारा विप्रतिपन्नार्थव्याप्यप्रतिपादकत्वं वाक्यस्य साक्षात्त्वमिति बोद्धव्यम् । तथा च लक्षणवाक्ये व्याप्यार्थकं पदं लिङ्गं तदर्थकानि निराकाङ्क्ष-पदानि वाक्यमिति विवक्षितमिति भावः । तदेवोदाहरणमुखेन दर्शयति ॥ गोत्रभिदमिति ॥ तत्करणस्य जप्येत्यादाविवोदाहरणार्थत्वमिति भावः ।
यद्वा लिङ्गं द्विविधम् । एकपदात्मकम् अनेकपदात्मकं चेति । नन्वेकपदात्मकस्य लिङ्गस्य वाक्यस्य च कथं भेदः द्वयोरपि अनेकपदात्मकत्वाविशेषादित्यत आह ॥ लिङ्गवाक्य-योरिति ॥ यत्र वाक्यार्थो व्याप्यरूपस् तदेव वाक्यस्य असाक्षत्वमिति बोद्धव्यम् । एतदेवो-दाहरणमुखेनाह ॥ गोत्रभिदमिति ॥ यथानयोर् लिङ्गयोः साक्षाद् असाक्षत्त्वेन भेदस् तथा प्रकृतयोर् लिङ्गवाक्ययोरपि भेद इत्यर्थः । तथा चात्र लिङ्गवाक्ययोर् भेदो लिङ्ग एव दृष्टान्तिते न तु लिङ्गवाक्ये इति भावः । अत एव इत्यादिवदितिवत्करणम् । अनेकपदात्मकस्यापि असाधारणधर्मस्य लिङ्गत्वं सूत्रतद्भाष्यतट्टीकादौ सर्वत्रोक्तमिति भावः । ननु भाष्योक्तदिशा प्राणशब्दस्य विष्णुवाचकत्वेनेवैष प्राणोऽयं मध्यमः प्राण इति प्राणशब्दोपेतवाक्योक्त-प्राणव्यवस्थापकमध्यमत्वयोर् विष्णाववकाशसिद्धावपि वायुशब्दोपेतकुविदङ्गेति वाक्योक्तसर्व-देवोपास्यत्वलिङ्गस्य कथं विष्णाववकाशस्थितेरित्यत आह ॥ वायुत्वमिति ॥ प्राणत्वोक्तेरिति अत्र प्राणत्वपदेन वायुत्वमुपलक्ष्यत इत्यर्थः ।
वाक्यार्थविवरणं
ननु वायोर्मोक्षार्थं देवोपास्यत्वं नोच्यते किं नामैश्वर्यादिप्रयोजनान्तरार्थमिति चेत्तत्राह ॥ न हीति ॥ वायोर् मोक्षदातृत्वे प्राप्ते किं पूर्वपक्षे फलमित्यत आह ॥ तथा चेति ॥
वाक्यार्थमञ्जरी
अङ्गुष्ठमात्र इति ॥ हृद्यवकाशापेक्षयाङ्गुष्ठपरिमाणः भूतभव्यस्य अतीतानागतस्य ईशानः प्रेरकः पुरुष आत्मनि देहमध्ये हृद्गुहायान्तिष्ठतीत्यर्थः ॥ ऊर्ध्वमिति ॥ यो हरिः प्राणवायुं मुख्यप्राणस्वरूपम् ऊर्ध्वभागं प्रापयति अपानं मुख्यावायुरूपं प्रत्यक् अधो ऽस्यति क्षिपति तं हृदयमध्ये आसीनं सन्तं वामनं सौन्दर्यनेतृत्वेन तच्छब्दवाच्यं भगवन्तं सर्वे देवा उपासत इत्यर्थः । नन्वत्र उपास्यत्वमेवोच्यते न जिज्ञास्यत्वमित्यत आह ॥ जिज्ञासोपासनयोरिति ॥ श्रवणादीति ॥ नन्विदमयुक्तं युक्तिभिरनुचिन्तनरूपमननस्य त्वविचाररूपत्वे औपदेशिक-वाक्यार्थग्रहणरूपश्रवणस्याखण्डस्मृतिरूपनिदिध्यासनस्य च विचाररूपत्वाभावात् । न च श्रवणमादिर्यस्य मननस्य तच्छ्रवणादीत्यतद्गुणसंविज्ञानबहुव्रीहिणा मननस्यैव विचाररूपत्वमुक्त-मिति वाच्यम् । तथासति श्रवणादित्रितयस्यापि विचारापरपर्यायोपासनत्वप्रतिपादक-वाक्योदाहरणासङ्गतिः । तच्च श्रवणमनननिदिध्यासनरूपा जिज्ञासैवेत्युक्तमिति वक्ष्यमाण-विरोधाच्चेति चेन्न । अत्र विचारपदेनाजत्स्वार्थलक्षणयौपदेशिकवाक्यार्थग्रहणमखण्डस्मृतिश्च गृह्यते । शक्यसम्बन्धश्च तज्जनकत्वात्स्मृतेश्च तज्जन्यत्वाज्जन्यजनकभावस् तथा च श्रवण-मनननिदिध्यासनापरपर्यायौपदेशिकवाक्यार्थग्रहणमखण्डस्मृतिरूपा जिज्ञासेति लभ्यत इति न कोऽपि दोषः । यदाहुरनुव्याख्याने । अत्र शास्त्राभ्यासशब्देनोपदिष्टशास्त्रार्थज्ञानरूपश्रवणं युक्तिभिस्तदनुचिन्तनरूपं मननं चोच्यते । ध्यानमखण्डस्मृतिः । धारणा खण्डस्मृतिः । यथाहुः ‘खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यत’ इति । आदिपदेन प्राणायामादि ॥ प्रसिद्धा-वपीति ॥ ईश्वरः सर्व ईशान इत्यादावित्यर्थः । श्रुतावन्वयाप्रतीतेर्यत्तच्छब्दाध्याहारेण तं दर्शयति ॥ उन्नयतीति ॥ व्यवस्थापकत्वेनेति ॥ नियोजकत्वेनेत्यर्थः ॥ यथेति ॥ यथा लोके सम्राट् सार्वभौमोऽधिकृतान्नियोगिनः विनियुङ्क्ते व्यवस्थापयति । कथं त्वमेतान्पाटलीपुत्रादीन् ग्रामानधितिष्ठस्व तदाधिपत्ये तिष्ठस्व । त्वमेतान्कौशाम्बिप्रभृतीन् ग्रामानधितिष्ठस्वेति । एव-मेवैष मुख्यप्राण इतरान् भिन्नानात्मजातत्वादुपचारेणात्मविभागान् प्राणान्वायून्पृथग्पृथगेव हृदयगुहास्थानेषु सन्निधत्ते संस्थापयति । स्वयं च तत्र तत्प्रवर्तकतया प्राणादिरूपोऽवतिष्ठत इत्यर्थः ॥ अथेममिति ॥ अथेतरदेवानां श्रमप्राप्त्यनन्तरं प्रजापतिर्योऽयं मध्यमप्राणस्तमिममेव नाप्नोद् ब्रह्मणो वायुसमशक्तित्वात्तन्नापेत्यर्थः । प्राणशब्दवाच्येषु विष्णोरुत्तमत्वादन्येषाम-धमत्वाद्वायोर्मध्यमत्वान्मध्यम इत्युक्तम् । अभ्युपगमात्सिद्धान्तिभिः ॥ अबाधादिति ॥ अत्र विष्णोर्जिज्ञास्यत्वनिषेधेऽपि अन्यत्रानिराकरणादिति भावः । न देवा मोक्षार्थं वायूपासां कुर्वन्ति येन तस्य मोक्षदातृत्वं स्यात्किन्त्वैश्वर्यादिप्रयोजनान्तरायेत्यत आह ॥ न हीति ॥ कुविदङ्गनमसाये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येणेति मन्त्रं व्याचष्टे ॥ ओत्यादिना ॥ कुविदित्यस्य प्रतिपदं क्वचिदिति रहस्यस्थान इति तात्पर्यकथनं बाधितायेत्यस्य संसार इत्यादि उषसमित्यस्य बुद्धिमिति ।
ॐ शब्दादेव प्रमितः ॐ ॥ ईशानो विष्णुरेव प्रमितः मध्ये वामनमिति वामनशब्दा-दित्यर्थः ॥ महायोगरूढीति ॥ ‘एष उ एव वामनिरेष एव हि भामनिरेष हि सर्वाणि वामानि नयति’ इति वामनिवामनशब्दयोरेकार्थत्वेन महायोगस्य स भामनः ‘उपेन्द्रो वामनः प्रांशुः’ इति रूढेश्च सत्त्वादिति भावः । अनेन श्रुतेः प्राबल्यनिरूपणेन । निर्देशः वस्तुप्रतिपादक-शब्दः । यथा वामनमित्यादि अत्र केवलयौगिकशब्दव्यावृत्त्यर्थं मात्रपदम् । तेन योगरूढानां वामनादिशब्दानां श्रुतित्वहानिरिति ध्येयम् ॥ असाधारणधर्म इति ॥ यथा मध्यमत्वादि ॥ निराकाङ्क्षपदानीति ॥ पर्यवसिताकाङ्क्षपदानीत्यर्थः । यथा ‘सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्त’ इति ॥ एकप्रमेयेति ॥ यथा अग्निरूपैकार्थप्रतिपादकं ‘मूर्धानन्दिव’ इत्यादि । अत्र स्थानेति व्याप्तिवारणायैकप्रमेयप्रतिपादकेति । वाक्येति व्याप्तिवारणायानेकेति । अनेकाक्षरपदादावतिव्याप्तिवारणाय वाक्येत्युक्तम् ॥ अनेकप्रमेयेति ॥ यथा विष्णौ तात्पर्यो-पेतानेकार्थप्रतिपादकषट्प्रश्नोपनिषदादि । अत्र प्रकरणव्यावृत्त्यर्थमनेकप्रमेयप्रतिपादकमिति । विरुद्धार्थयोः शास्त्रयोर्मिलितयोः स्थानत्वव्यावृत्त्यर्थम् एकार्थतात्पर्ययुक्तमित्युक्तम् ॥ समानोक्तिरिति ॥ निर्णीतस्थल इत्युपस्कर्तव्यम् । तेन विप्रतिपन्नप्रकरणादिगतसमानोक्तेः समाख्यात्वव्यवच्छेदः । यथा स वा एष इत्यादिनोक्तान्नमयादिपञ्चकस्यान्नमयप्राणमयमनोमय-विज्ञानमयानन्दमया मे शुध्यन्तामित्यत्रोक्तिः । इदानीं प्राबल्यादि निरूपयति ॥ तत्रेत्यादिना ॥ साक्षादर्थधीजनकत्वादिति ॥ व्याप्त्यादिप्रतिपादनद्वारमन्तरेणागमतयाऽ-विप्रतिपन्नार्थधीजनकत्वादित्यर्थः । यथा वामनश्रुतिश्रवणमात्रेणेशानस्य विष्णुप्रतिपत्तिः ॥ अनुमापकतयेति ॥ व्याप्त्यादिप्रतिपत्तिद्वारेत्यर्थः । यथा मध्यमपदस्य मध्यमत्वरूपव्याप्य-प्रतिपादनद्वारेशानस्य वायुत्वनिश्चायकत्वम् । तदानन्तर्यम् । ततो दौर्बल्यं यथात्र वामनश्रुतितो मध्यमत्वादिलिङ्गानां दौर्बल्यम् ॥ अनेकार्थकथनद्वारेति ॥ यथा सर्वाणि हवेत्यस्य भूताद्यनेकार्थप्रतिपादनद्वारा भूतकारणत्वरूपव्याप्यप्रतिपादकत्वेनाकाशपदोक्तस्य भूताकाशानु-मापकत्वम् ॥ ततोऽपि दौर्बल्यमिति ॥ यथा परोवरीयस्त्वानन्तत्वादिलिङ्गापेक्षया सर्वाणि हवेति वाक्यस्य दौर्बल्यम् ॥ बह्वर्थपरत्वेनेति ॥ यथा मूर्धानन्दिव इत्यस्य देवमुखत्वयज्ञ-नाभित्वाद्यग्निज्ञापकबह्वर्थप्रतिपादकत्वेन ज्योतिर्हृदयाहितेति ज्योतिःशब्दस्याग्नित्वानुमापकत्वम् ॥ तदवमतेति ॥ यथोदाहृतप्रकरणस्य कर्णादिविदूरत्वलिङ्गप्रतिपादकविमे कर्णा इति वाक्या-द्दौर्बल्यम् ॥ अतिबह्वर्थकथनेनाभिप्राय इति ॥ यथाषट्प्रश्नोपनिषद्रूपस्थानस्य बह्वर्थानेक-प्रकरणार्थपूर्वकविष्णुपरस्थानगत एषः प्राण इति वाक्यस्य तत्परत्वेनैतद्वाक्यस्थप्राणशब्दस्यापि विष्णुपरत्वानुमापकत्वम् ॥ ततोऽपि दौर्बल्यमिति ॥ यथास्यैव स्थानस्य भगवन् कुत एष प्राणो जायत इति खण्डरूपान्मुख्यप्राणधर्मप्रतिपादकत्वेन मुख्यप्राणप्रकरणाद्दौर्बल्यम् ॥ सादृश्यमात्रेणेति ॥ यथान्नमयप्राणमय इति कोशसमाख्यायास्तत्सदृशत्वादिदन्तदर्थकसादृश्य- मित्येवंरूपसादृश्यमात्रेणैतमन्नमयमात्मानमुपसङ्क्रामतीत्याद्यन्नमयादिशब्दोक्तस्य कोशत्वानु-मापकत्वम् ॥ ततोऽपि दौर्बल्यमिति ॥ यथा ब्रह्मविदाप्नोति परं भृगुर्वै वारुणिरिति विष्णु-धर्मप्रतिपादकतया विष्णुस्थानादुदाहृतसमाख्यानाद्दौर्बल्यम् । नन्वेवं लिङ्गादेः श्रुत्यादेः सकाशाद्दौर्बल्ये कथमाकाशस्तल्लिङ्गादित्यादौ लिङ्गादिना श्रुत्यादेर्बाध इत्यत आह ॥ अत्रापीति ॥ पूर्ववदिति ॥ समन्वयाधिकरणोक्तोपक्रमादिवदित्यर्थः । इत्यादीत्यादिपदेन निरवकाशादेकस्माद्बहुत्वेन प्रबलस्य सावकाशस्य दौर्बल्यमित्यस्य ग्रहणम् । निरवकाशत्वादि-रहितश्रुत्यादावेव जातिकृतप्राबल्यादिकमिदं प्रदर्शितमिति भावः । समवाये संमेलने ।
ननु श्रुतिलिङ्गेति वाक्यानुसारेण समाख्याया वाक्यप्रकरणाभ्यां प्राबल्यं किं नाश्रित-मित्यत आह ॥ न चेति ॥ उदाहृतवाक्यानुक्तं स्थानं किमर्थं सूच्यत इति शङ्कापरिहारं सूचयन्नेव स्वोक्तक्रमसाधकजैमिनिसूत्रानुव्याख्याने क्रमेणोदाहरति ॥ श्रुतिरित्यादिना ॥ विरुद्धानां श्रुत्यादीनां समवाये सति पारदौर्बल्यम् । परेषामुत्तरोक्तानां दौर्बल्यम् । कुतस् तेषां तत्र श्रुतेः साक्षादित्यादिनोक्तरीत्या विलम्बेनार्थसाधकत्वादिति जैमिनिसूत्रार्थः । ननु श्रुत्यादेः किं श्रुत्यादित्वेन साक्षादवयवार्थनिश्चायकत्वमुतोपक्रमादिनिश्चायकत्वेन परम्परया वा नाद्यः क्वचित्परम्परयापि हेतुत्वात् । न द्वितीयः क्वचित्साक्षादपि हेतुत्वादिति अतोऽत्र नियमो न विवक्षित इत्याशयेनाह ॥ श्रुतिलिङ्गवाक्यानामित्यादिना इत्यादिवदित्यन्तेन ॥ यथात्मानं वैश्वानरमित्यत्र विप्रतिपन्नवैश्वानरगतात्मश्रुतेर्विष्णुत्वनिश्चायकत्वम् । यथा च ‘आकाशः परायणं स एष परोवरीयान्’ इत्यत्र विप्रतिपन्नाकाशगतपरोवरीयस्त्वलिङ्गस्य विष्णुत्वनिश्चाय-कत्वम् । यथा च ‘विमे कर्णापतयतो विचक्षुर्विदञ्ज्योति’ इति प्रतिपन्नज्योतिर्निष्ठोदाहृतवाक्यस्य विष्णुत्वनिश्चायकत्वम् ॥ उपक्रमोपसंहारयोः श्रुतत्व इति ॥ यथा को नात्मा’ इत्युपक्रमे श्रुतात्मश्रुतेरुपक्रमस्य विष्णुपरत्वनिश्चायकतया वैश्वानरमुपास्त इत्युक्तवैश्वानरस्य विष्णुत्व-निश्चायकत्वम् ।
यथा च ‘पञ्चम्यामाहुतावाप’ इत्युपसंहारे श्रुतापश्रुतेरुपसंहारस्य भूतपरत्वनिश्चायकतया ‘श्रद्धां जुह्वति’ इत्यत्र श्रद्धाशब्दस्य भूतपरत्वनिश्चायकत्वम् । यथा च ‘य एष तपति’ इत्युपक्रमे श्रुतसूर्यस्थत्वलिङ्गस्योपक्रमस्य विष्णुपरत्वनिश्चायकतया ‘आत्मा वा इदमेक एव’ इत्युक्तात्मनो विष्णुत्वनिश्चायकत्वं यथा च ‘स योऽतोऽश्रुत’ इत्युपसंहारे श्रुताश्रुतत्व-लिङ्गस्योपसंहारस्य विष्णुपरत्वनिश्चायकतया ‘य एषोऽन्तरक्षिणि पुरुष’ इत्युक्त चक्षुरन्तस्थस्य विष्णुत्वनिश्चायकत्वम् । यथा च ‘कं ब्रह्म खं ब्रह्म’ इत्युपक्रमे श्रुतवाक्यस्योपक्रमस्य विष्णुपरत्वनिश्चायकत्वेनान्तरक्षिणीत्युक्तस्य विष्णुत्वनिश्चायकत्वम् । यथा च ‘ता वा एताः सर्वा ऋच’ इत्युपसंहारे श्रुतवाक्यस्योपसंहारस्य विष्णुपरत्वनिश्चायकतया चक्षुर्मनोवाक्प्राण इत्युक्तप्राणस्य विष्णुत्वनिश्चायकत्वम् ॥ अन्यत्रेति ॥ विप्रतिपन्नार्थप्रतिपादकवाक्योपक्रमोप-संहारेभ्योऽन्यत्रेत्यर्थः । यथा ब्रह्मेमं पुरुषमिति प्रकरणे श्रुतब्रह्मश्रुतेः प्रकरणस्य वैष्णवत्व-निश्चायकतया मनोवाक्प्राण इत्युक्तप्राणस्य विष्णुत्वनिश्चायकत्वम् । यथा चापहतमाप्मेति प्रकरणे श्रुतापहतपाप्मत्वलिङ्गस्य प्रकरणस्य वैष्णवत्वनिश्चायकतया दहरेऽस्मिन्नन्तर आकाश इत्युक्ताकाशस्य विष्णुत्वनिश्चायकत्वं यथा च ‘श्रीश्च ते लक्ष्मीश्च पत्न््नयौ’ इति प्रकरणे श्रुत-स्यास्य वाक्यस्य प्रकरणस्य वैष्णवत्वनिश्चायकतया तद्धेत्वं प्राण इत्युक्त प्राणस्य विष्णुत्व-निश्चायकत्वमिति । यद्यपि श्रुत्यादिना अर्थनिश्चयदशायामुपक्रमोपसंहारे श्रुतश्रुत्यादेरपि प्रकरणनिश्चायकत्वं तथापि तत्र साक्षादन्यत्र परम्परयेति भेदः । प्रसङ्गात्पूर्वमनुक्त-त्वेनावश्यकत्वाच्चाह ॥ उपक्रमोपसंहारावपीति ॥ उपक्रमोपसंहारावपि उपक्रमोपसंहारा-भ्यामन्यत्र श्रुतश्रुत्यादिनार्थनिश्चये सति तस्मिन्नेवार्थे तात्पर्यज्ञापकावित्यर्थः । यथा सर्वं वा अत्तीति तददितेरित्युक्तात्तुः सर्वात्तृत्वलिङ्गेन विष्णुत्वनिश्चये सति नैवेह किं च नाग्र आसी-दित्युपक्रमस्य अत्तुर्विष्णुत्वनिश्चायकत्वं यथा च ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत’ इत्युक्त-सर्वगतस्य ब्रह्मश्रुत्या विष्णुत्वनिश्चये सति ‘स योऽतोऽश्रुत’ इत्युपसंहारस्य सर्वगतस्य विष्णुत्वनिश्चायकत्वम् ॥ अन्यथा प्रकरणेति ॥ यथा ‘द्वे विद्ये वेदितव्य’ इति विष्णूपक्रमस्यान्यमीशमित्यस्य विष्णुप्रकरणत्वनिश्चायकत्वम् । यथा च ‘तद्विष्णोः परमं पदम्’ इति विष्णूपसंहारस्य ‘अनाद्यनन्तं महतः परं ध्रुवम्’ इत्यादेर्विष्णुप्रकरणत्वनिश्चायकत्वम् ॥ समाख्यापीति ॥ यथा ‘चक्षोः सूर्यो अजायत’ इति पुरुषसूक्तोक्तिसमाख्यानात्साक्षाद्वि-प्रतिपन्नवैश्वानरनिष्ठा चक्षुर्विश्वरूप इत्याद्युक्तिर्वैश्वानरस्य विष्णुत्वनिश्चायिका ॥ अन्यथेति ॥ यथा ‘परो दिवा पर एना पृथिव्यै तावती महिना सम्बभूव’ इत्यम्भ्रणीसूक्तोक्तिसमाना ‘अजस्य नाभौ’ इति विप्रतिपन्नार्थे साक्षादश्रुता ‘परो दिवा पर एना पृथिव्यै‘ ‘परोदेवेभिः’ इत्युक्तिः ।
ननु ‘परो वरीयानुद्गीथोऽनन्त’ इत्यादिलिङ्गस्य श्रीश्च ते लक्ष्मीश्च पत्न््नयौ’ इतिवाक्यस्य च विप्रतिपन्नार्थव्याप्यप्रतिपादकत्वाविशेषात्कथं लिङ्गवाक्यभाव इत्यत आह ॥ लिङ्गवाक्ययो-रिति ॥ अनेकार्थप्रतिपादनमन्तरा व्याप्यप्रतिपादकत्वलिङ्गस्य साक्षात्त्वम् । तद्द्वारा तत्प्रति-पादकत्वं वाक्यस्य साक्षात्त्वम् । यथा च लक्षणवाक्ये व्याप्यार्पकपदं लिङ्गम् । तदर्थकाणि लिङ्गानि निराकाङ्क्षपदानि वाक्यमिति विवक्षितमिति भावः । तदेवोदाहरणमुखेन क्रमेण दर्शयति ॥ गोत्रभिदमिति ॥ पर्वतभेत्तारमित्यर्थः । इन्द्रलिङ्गमिदम् ॥ प्रवक्षणा इति ॥ वज्री पर्वतानां प्रवक्षणाः पक्षान् अभिनद् बिभेदेत्यर्थः । इदमिन्द्रपरवाक्यम् ॥ विष्णावव-काशत्वादिति ॥ प्राणनियामकत्वस्यान्तर्यामिनयन्यायेन सर्वनियामके हरौ युक्तत्वात् । मध्यम इति मध्यमशब्दस्योर्ध्वप्रत्यक्शब्दसहोक्तस्य मध्यदेशवाचित्वेन मध्यमोक्त्यभावेन मध्यदेशाव-स्थानस्य विष्णावपि सम्भवात् । सर्वदेवोपास्यत्वस्यापि सर्वजिज्ञासापरपर्यायस्य हरौ दहरनये सिद्धत्वादिति भावः । श्रुत्यन्तरेण सम्राडित्यादिना । प्राणशब्दोपेतयोः सम्राडथेति श्रुत्यो-र्विष्णुपरत्वेऽपि वायुशब्दोपेतकुविदङ्गेति श्रुतेर्न विष्णुपरत्वसिद्धिरित्यत आह ॥ वायुत्वमिति ॥ प्राणपदेनेति शेषः ।