ॐ दहर उत्तरेभ्यः ॐ
५. दहराधिकरणम्
सूत्रभाष्यं
चन्द्रादित्याद्याधारत्वं विष्णोरुक्तम् । तच्च ‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः…. किं तदत्र विद्यते….’ (छां.उ.८-१-२) ‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणि’ (छां.उ.८-१-३) इत्यादिनाऽऽकाशस्य प्रतीयते । स चाऽऽकाशो न विष्णुः । ‘तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’ (म.ना.उ.११) इति श्रुतेरित्यत आह ॥
॥ ॐ दहर उत्तरेभ्यः ॐ ॥ १४ ॥
‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामस्सत्य-सङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्य’ (छां.उ.८-७-३) इत्यादिभ्य उत्तरेभ्यो गुणेभ्यो दहरो’ विष्णुरेव । ‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ (बृ.उ.५-५) ‘स एष सर्वेभ्यः पाप्मभ्य उदित’ (छां.उ.१-६-७) इत्यादिना विष्णोरेव हि ते गुणाः ।
‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ।
अशनायादिकानन्ये तत्प्रसादात्तरन्ति हि’ इति पाद्मे ।
सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकर्तव्यम् ।
‘सत्यकामः परो (कामोऽपरो पा.) नास्ति तमृते विष्णुमव्ययम् ।
सत्यकामत्वमन्येषां भवेत्तत्काम्यकामिता’ इति स्कान्दे ॥
सत्तर्कदीपावली
चन्द्रेत्यादेरयमर्थः । अथ ‘यदिदमस्मिन् ब्रह्मपुरे’ इत्याम्नायते । तत्राकाशस्य चन्द्राद्याधारत्वमुच्यते । स चाकाशशब्दाभिधेयो भूताकाशो न विष्णुः । ‘हृदयं तद्विजानी-यात्’ । ‘तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम्’ इति श्रुत्यन्तरसंवादात् । अतश्च यदुक्तं चन्द्राद्याधारत्वम् ‘एतस्य वा अक्षरस्य’ इत्यादिना विष्णोरेवेति तन्न सिध्यतीत्येवं प्राप्तेऽभिधीयते । चन्द्राद्याधारो विष्णुरेवात्र निर्दिश्यते नाकाशम् । ‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघित्सोऽपिपासः सत्यकामः सत्यसङ्गल्पः’ इत्युत्तरवाक्य-विरोधात् । ‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश-स्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ इत्यन्वेष्टव्यतया यो निर्दिष्टो विष्णुर् दहराकाशस्थस् तद्धृदयाकाशसन्निहितं सर्वमुच्यते । ‘यावान्वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी’ इत्यादिना । अथवा विष्णुमेव न बाह्यमाकाशं व्यापकं हृत्कुहरस्थाकाशशब्देन निर्दिश्य तत्स्थं सर्वमुच्यते । उभे इत्यादिना अपहतपाप्मत्वादिगुणकश्च विष्णुरेवेतच्छ्रुत्यन्तरसंवादेन दृढीकरोति ॥ योऽशनायेत्यादिना ॥ अशनाया विजिघत्सा क्षुदित्यर्थः । नन्वशनायादिपिपासाद्यतिक्रमणं न विष्णोरेव मुक्तानामपि सम्भवादित्याशङ्कित आह ॥ नित्येति ॥ न च दहराकाशस्याप्यपहतपाप्मत्वादिकं किञ्चिदाशङ्कनीयम् अप्रसक्त-प्रतिषेधप्रसङ्गात् । भगवदनुकूलेच्छावत्वमेव मुक्तानां सत्यकामत्वमित्यर्थः ॥
तत्त्वप्रदीपिका
चन्द्रादित्याद्याधारत्वं विष्णोरुक्तं ‘सूर्याचन्द्रमसौ विधृतौ’ इत्यादिना । तच्च ‘एतस्मि-न्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति, स ब्रूयाद्यावान्वाऽयमाकाशस्तावानेषोऽऽन्तर्हृदय आकाशः । उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ’ इत्यादावा-काशस्य प्रतीयते । स चाऽदित्याद्याधारः किं दहराकाशस्स्यादाहोस्वित्तत्स्थः कश्चिदितीदानीं चिन्त्यते । किं तावत्प्राप्तम् ? दहराकाश इति ‘तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्’ इत्यादिश्रुत्यन्तरे दहरसुषिरस्य सर्वाधारत्वप्रतीतेः । तत्स्थः कश्चिदित्यपरः पक्षः । सोऽपि जीव इति प्राप्तम् । हृदयगतदहराकाशान्तस्थत्वात् । उपरि च तत्परामर्शदर्शनादिति । अत्रोत्तरं– ‘दहर उत्तरेभ्यः’ । न तावद्दहराकाशोऽत्र प्रतिपाद्यते । ‘तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ इति तदन्तस्थस्यैवान्वेष्टव्यत्वप्रतिज्ञानात् । किन्तु तत्स्थः कश्चिदेव । स च दहराकाशे स्थितो विष्णुरेव । ‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपि-पासस्सत्यकामस्सत्यसङ्कल्पः’ इत्यादिभ्यः । न चाऽकाशजीवयोरेते गुणास्सम्भवन्तीत्याह योऽशनायापिपासे इत्यादिना बृहदारण्यकवाक्येन स एष इत्यादिना छन्दोगवाक्येन च । अत्र ब्रह्मपुरं शरीरं दहरो भूताकाश इत्यादि छन्दोगोपनिषद्भाष्ये त्वभाणि निपुणतमं श्रीमच्चरणैः । तस्मादस्माकं न प्रयत्नोऽत्र । ‘दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते’ इत्यत्राऽकाशशब्देन भूताकाशो विवक्षितः । किं तदत्र विद्यते इत्यस्यायं परिहारो ऽस्मिन्भूताकाशे परब्रह्माख्य आकाशो विद्यते । आ समन्तात्काशनादाकाशः, आ समन्तात्कमश्नातीति वा । ‘अस्मि-न्कामास्समाहिताः’ इति वाक्यशेषादासमन्तात्कामानश्नातीति वा । स च यावान्परमात्मा व्याप्तोऽस्ति तावानेव विद्यते गुणतः । पूर्णगुणात्मकत्वात् । अल्पपरिमाणस्य महत्परिमाणत्वं च युज्यते । अचिन्त्यशक्तित्वात् । ‘यस्मिन्विरुद्धगतयोऽप्यनिशं पतन्ति विद्यादयो विविध-शक्तय आनुपूर्व्या’ इति वचनात् । आनुपूर्व्येति श्रुतिप्रमाणादित्यर्थः । ‘आनुपूर्वी श्रुतिर्वेद आम्नायश्चेति कथ्यत’ इत्यभिधानात् । अन्यथाऽनिशमित्युक्तिविरोधात् । ‘एष म आत्माऽन्त-र्हृदयेऽणीयान् व्रीहेर्वा एष म आत्माऽन्तर्हृदये ज्यायान्पृथिव्याः’’ इति हृदयस्थस्यैवाणुत्व-महत्त्वोक्तेश्चेत्यादि, ‘दहरोऽस्मिन्नन्तराकाश’ इति च पूर्वोक्ताकाशस्य दहरत्वमुक्तम् । उत्तरस्य ‘यावान्वाऽयमाकाशः’ इत्यनन्तपरिमाणत्वम् । अतो ब्रह्माकाश एवोत्तरः । पूर्वोक्तस्या-भूताकाशत्वे ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’’ ‘तत्रापि दह्रं गगनं विशोक स्तस्मिन्यदन्तस्तदुपासितव्यं’ ‘सहस्रशीर्षं देवम्’ इत्यादि कथं युज्येत । नहि भगवदन्तः-स्थितमेवान्यत्किञ्चिद्विजिज्ञास्यम् । तद्वावेत्यवधारणाच्चेत्यादि च सुविस्तृतम् ।
तत्त्वप्रकाशिका
अत्र ‘यो वेद निहितं गुहायाम्’ । ‘तस्यान्ते सुषिरं सूक्ष्मम्’ । ‘हृदि ह्येष आत्मा’ इत्यादिश्रुतिभिःब्रह्माकाशजीवेषु साधारणस्य हृत्पद्मस्थत्वलिङ्गस्य भगवति समन्वयप्रतिपादना-दस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं सूचयति ॥ चन्द्रेति ॥ एतस्य वाऽक्षरस्येत्यादिना विष्णोश्चन्द्रादित्याधारत्वमुक्तं तच्छन्दोगश्रुतौ हृत्पद्मस्थस्योच्यते । ‘एतस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति तं चेद् ब्रूयुः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति । स ब्रूयाद्यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी’ इत्यादिना । तस्य च विष्णोरन्यत्वेऽक्षरस्य विष्णुत्व-साधकसर्वाधारत्वं चान्यस्य प्रसज्ज्येतेत्यवश्यं निर्णेयता । तद्धृदयपद्मस्थत्वं विषयः । किं विष्णोरथाकाशस्योत जीवस्येति संशयः । उक्तसाधारण्यं सन्देहबीजम् । सर्वाधारतया हृत्पद्मस्थत्वमाकाशस्येति तावत्पूर्वः पक्षः । दहरोऽस्मिन्नन्तर आकाश इति हृत्पद्मे दहराकाशस्थितिश्रवणात् । तस्यैवोभे अस्मिन्निति सर्वाधारत्वोक्तेरित्यर्थः । नन्वस्त्वाकाशस्य सर्वाधारतया हृदयपद्मस्थत्वम् । तस्य चाऽऽकाशस्तलिङ्गादिति न्यायेन विष्णुत्वे तस्यैव हृत्पद्मस्थत्वसिद्धिरित्यत आह ॥ स चेति ॥ नात्रोक्ता काशो विष्णुः । तस्यान्ते सुषिरमिति प्रसिद्धाकाशस्यैव सर्वाधारतया हृत्पद्मस्थत्वोक्तेस् तत्समाख्यानादित्यर्थः । न च वाच्य-मस्त्वाकाशशब्देन सुषिरमेव । तस्मिन् यदन्तरिति हृत्पद्मस्थाकाशगतो विष्णुः सर्वाधार-तयोच्यत इति । तथा सति वाक्यान्वयानुपपत्तेः । तथा हि । तस्मिन्नित्यत्र विष्णुत्वाभिप्राये किं तदत्र विद्यत इति प्रश्नस्य ब्रह्म विद्यत इति परिहारं विना यावान्वा इत्यादेरभिप्रायासङ्गतिः । आकाशपक्षे त्वस्त्यन्वयः । हृदयाकाशस्थमुपास्यमित्युक्ते किं तत्र स्थितमिति प्रश्ने यावान्वा अयमाकाश इति प्रागुक्ताकाशमेव विशिष्योभे अस्मिन्नित्यादिपरिहारसंश्लेषात् । न च यावानित्यादिनाऽऽकाशाख्यो विष्णुः सर्वाधारतया परिहारे कथ्यत इत्यन्वयोपपत्तिः । तस्मिन् सर्वं प्रतिष्ठितमिति साक्षात्सुषिरस्यैव सर्वाधारत्वोक्तिविरोधात् । तस्मादाकाशस्यैव सर्वाधारतया हृत्पद्मस्थत्वम् । जीवस्य वैतद्भवेत् । उत्तरत्र ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच’ इति जीवस्य य आत्माऽपहतपाप्मा इत्युक्तहृत्पद्मस्थात्मतया परामर्शाद् दहरस्थत्वलिङ्गाच्च । तद्धि अणोर्जीवस्यैव युक्तं न सर्वगतस्य हरेः । न चान्वयाभावदोषः । विष्णुपक्षेऽपि साम्यात् । अतो भगवदितरदेव चन्द्रादित्याद्याधाराक्षरमिति । सिद्धान्तयत्सूत्र-मवतार्य व्याचष्टे ॥ अत इति ॥ दहरपद्मस्थो विष्णुरेव भवेत् । य आत्माऽपहत-पाप्मेत्यादिनोत्तरवाक्ये हृत्पद्मस्थस्यापहतपाप्मत्वादिगुणश्रवणादिति भावः । अपहतपाप्म-त्वादिकं कथं विष्णुत्वनिश्चायकमित्यत आह ॥ य इति ॥ अत्येति अतिक्रम्य वर्तते । न चाकाशस्यापि पापाद्यभावेनैते गुणा युक्ता इति वाच्यम् । तस्याचेतनस्य तत्प्राप्त्यभावेन निषेधायोगात् । विष्णोश्चेतनत्वादस्ति प्राप्तिः । सत्यकामत्वाद्ययोगाच्च । तथापि नैते गुणा विष्णोरेव रमादिष्वपि सम्भवादित्यत आह ॥ नित्येति ॥ ननु यथा कथञ्चिदपि तेऽन्यत्र गुणाः सन्त्येवातः कथं तैर्विष्णुत्वनिश्चय इत्यत आह ॥ सापेक्षेति ॥ अपहतपाप्मत्वादीनां कथञ्चिदन्यत्र वृत्तावपि न कथञ्चिदन्यत्र सत्यकामत्वादीत्याशयेनाऽऽह ॥ सत्यकाम इति ॥ अनेनाकाशाभिमानिविषयतयाऽपहतपाप्मत्वाद्युपपत्तिरिति परास्तम् ॥
गुर्वर्थदीपिका
तस्मिन्नित्यत्रेत्यत्र ‘तस्मिन्यदन्तः’ इति वाक्य इत्यर्थः । ‘तस्यान्ते सुषिर सूक्ष्मम्’ इति समाख्याश्रुतावपि आकाशाधिकरणन्यायेन सुषिरशब्दोऽपि विष्णुपरः किं न स्यादिति चेन्न । ‘तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः’ इत्युत्तरवाक्ये परमात्मनो वक्ष्यमाणत्वेन समाख्याश्रुतौ सुषिरपदस्याऽऽकाशपरत्वे सर्वेषामविवादात् । अविजिघित्स इत्यत्र विशेषेण जग्धुं भक्षितुमिच्छा विजिघत्सा तद्रहित अविजिघत्स इत्यर्थः ।
भावबोधः
न्यायविवरणे हृत्पद्मस्थितत्वसाधारणमित्युक्तम् । कुत्र कथञ्च साधारणमित्याकांक्षायां तत्सूचितश्रुत्युदाहरणपूर्वकं हृत्पद्मस्थत्वस्योभयत्र प्रसिद्धत्वमाह ॥ अत्र यो वेदेत्यादिना ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु ‘सदायतनाः सत्प्रतिष्ठाः’ इत्यादिना सद्धर्मतयोक्तसर्वाधारत्वादेः ‘उभे अस्मिन् द्यावापृथिवी’ इत्यादिना हृत्पद्मस्थे श्रवणात्तस्य विष्णोरन्यत्वे प्रागुक्तं सदप्यन्यदेव स्यादिति पूर्वाक्षेपस्यापि सम्भवादिति ज्ञातव्यम् ॥ तद्धृदयत्पद्मस्थत्वं विषय इति ॥ अत्र तच्छब्देन यद्यपि ‘दहरोऽस्मिन्नन्तर आकाशः’ इति वाक्योक्तस्य हृत्पद्मस्थत्वस्य न परामर्शः । तस्य सिद्धान्तेऽप्यब्रह्मनिष्ठत्वात् । नापि ‘तस्मिन् यदन्तस्तदन्वेष्टव्यम्’ इति वाक्योक्तस्य । तत्र भाष्योक्तस्य आकाशशब्दस्य पूर्वपक्षबीजस्या-भावात् । पूर्वपक्षे दहराकाशस्यैव सर्वाधारत्वाभ्युपगमेन तत्स्थस्य तदभावात् । अम्बरान्त-धृत्याक्षेपायोगाच्च । तथापि दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्’ इति वाक्यद्वयोक्तस्य साक्षात् परम्परासम्बन्धसाधारणस्य हृत्पद्मस्थत्वस्य परामर्शः । एवं च नोक्तानुपपत्तिः । ‘दहरोऽस्मिन्नन्तर आकाशः’ इति हृत्पद्मे दहराकाशस्थितिश्रवणात् । तस्यैवोभे अस्मिन्निति सर्वाधारत्वोक्तेरिति टीकायामेव द्वितीयपक्षोक्तदोषस्य परिहृतत्वात् । ‘तस्मिन् यदन्तः’ इति वाक्योक्तस्य हत्पद्मस्थत्वस्य सिद्धान्ते ब्रह्मनिष्ठत्वाच्च । इयांस्तु विशेषः । ‘तस्यान्ते सुषिरं सूक्ष्मम्’ इति समाख्याबलात् साक्षादेव हृत्पद्मस्थत्वमाकाशस्येति पूर्वपक्षिणोऽभिप्रेतम् । ‘तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तः’ इति समाख्याबलात् पद्मगतदहराकाशगततया विष्णोर् हृत्पद्मस्थत्वमिति सिद्धान्तिनामाशय इति ।
यद्वा तत्सर्वाधारत्वेनोक्तं हृत्पद्मस्थत्वं विषय इत्यर्थः । तेन सिद्धान्ते आकाशस्य हृत्पद्म-स्थत्वनिषेधो न व्याहत इति ध्येयम् । अत एव वक्ष्यति । ‘सर्वाधारतया हृत्पद्मस्थितत्वम्’ इति ॥ किं विष्णोरिति ॥ अत्र ‘दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्त’ इति वाक्योक्तं हृत्पद्मस्थत्वं किमाकाशस्योत विष्णोरिति चिन्ता । तदर्थमाकाशस्य सर्वाधारतया हृत्पद्म-स्थत्वसाधकतया ‘तस्यान्ते सुषिरं सूक्ष्मम्’ इति समाख्यया हृत्पद्मस्थस्य विष्णुत्वसाधकापहत-पाप्मत्वादिलिङ्गबाध उत अपहतपाप्मत्वादिना समाख्याबाध इति । तदर्थं समाख्यानिरव-काशापहतपाप्मत्वादिकं चाकाशस्याचेतनतया पापाद्यभावेन सावकाशमुताचेतनस्य पापादि-प्राप्त्यभावेनाप्राप्तनिषेधापातेनापहतपाप्मत्वादिकमाकाशेऽनवकाशं समाख्या तु विष्णौ लक्षणया सावकाशेति । तदर्थं किं तदत्र विद्यत इति प्रश्नस्य यावान् वायमाकाश इति प्रतिवचनेनान्वयस्य किमाकाशविष्णुपक्षयोः सम्भवासम्भवावुत विष्ण्वाकाशपक्षयोस्ताविति । तदर्थं ‘यावान् वायमाकाशस्तावानेषः’ इति विशेषणस्य उभे अस्मिन्नित्याद्युक्तपृथिव्याद्याश्रयत्वादेश्च किमाकाशविष्णुपक्षयोर्घटनाघटने उत विष्ण्वाकाशपक्षयोस्ते इति । तथा हृत्पद्मस्थत्वं किं जीवस्योत विष्णोरिति चिन्ता । तदर्थं परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति हृत्पद्मस्थात्मतया परामर्शः किं जीवस्य हृत्पद्मस्थत्वसाधको भवत्युत न भवतीति । तदर्थमपहतपाप्मत्वादिकं किं मुक्तिमादाय भाविभावेनामुख्यं सज्जीवे सावकाशमुत मुख्यं निरवकाशमिति । तदर्थम् एष आत्मेतीत्येतच्छब्द उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इत्युक्तजीवपर उत परञ्ज्योतिःशब्दोक्तपरमात्मपर इति तदर्थमेतच्छब्दस्य परमात्मपरत्व-नियामकमात्मब्रह्मशब्दसत्यसङ्कल्पत्वादिलिङ्गसमाख्यादिकं हृत्पद्मस्थस्य विष्णुत्वसाधकं न भवत्युत भवतीति । तदर्थमल्पस्थानस्थितत्वरूपजीवलिङ्गं किं विष्णावनवकाशमुत रूपविशेषेण विष्णौ सावकाशमिति । तदर्थं तत्र प्रमाणं नास्त्युतास्तीति ॥ सर्वाधारतया हृत्पद्मस्थत्व-मिति ॥ अत्राधिकरणोदाहृतश्रुतिस्मृतिबलात् सर्वाधारत्वस्य विष्ण्वेकनिष्ठत्वात् तस्य चात्र श्रवणात् हृत्पद्मस्थत्वं विष्णोरेव किं न स्यादित्याशङ्कायाम् ‘तस्मिन् सर्वं प्रतिष्ठितम्’ इति समाख्याबलात् तदाक्षिप्यत इति दर्शनार्थं सर्वाधारतयेत्युक्तमिति द्रष्टव्यम् । अत एवाक्षेप्य-लिङ्गात् समन्वीयमानलिङ्गादेर्विष्णुपरत्वमाशङ्क्य तत्र तत्र न चादृश्यत्वलिङ्गेनान्तःस्थो विष्णुरिति निराकृतम् ।
यद्वा आकाशस्य हृत्पद्मस्थत्वं सिद्धान्तेऽप्यङ्गीक्रियते इति सिद्धान्तिनामनिष्टप्रदर्शनार्थं विषयान्तर्गतया सर्वाधारतयेत्युक्तम् ॥ हृत्पद्मे दहराकाशस्थितिश्रवणादिति ॥ अनेन भाष्ये दहरोऽस्मिन्नन्तर आकाश इत्यंशोदाहरणस्य युक्तिसूचनमपि प्रयोजनम् इत्युक्तं भवति । सर्वं चैतदाकाशस्य प्रतीयत इति भाष्ये आकाशशब्दप्रयोगमूलकमित्यवगन्तव्यम् । अन्यथा हृत्पद्म-स्थस्येत्यवक्ष्यत् ॥ तस्यान्ते सुषिरमिति ॥ प्रसिद्धाकाशस्यैवेति ॥ श्रुतौ तच्छब्देन ‘पद्मकोशप्रतीकाशं हृदयम्’ इत्युक्तहृत्पद्मपरामर्शादिति भावः । न्यायविवरणोक्तान्वयाभाव-लक्षणयुक्तिं सङ्गमयितुमाह ॥ न च वाच्यमस्त्विति ॥ ‘दहरोऽस्मिन्नन्तर आकाशस् तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्यनेन ‘यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदयाकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम्’ इत्यनेन ‘यावान् वा अयमाकाशस्तावानेषो अन्तर्हृदय आकाश’ इत्यस्यान्वयाभाव इति न्यायविवरणार्थमाह । तथा सति वाक्यान्वयानुपपत्तेरित्यादिना ॥ अभिप्रायासङ्गतिरिति ॥ पूर्वोत्तरवाक्ययोरसङ्गतार्थप्रतिपादकत्वेनैवानन्वयः । न त्वन्वयाऽ-ननुकूलविभक्तिकपदत्वादिनेति भावः ॥ प्रागुक्ताकाशमेव विशिष्येति ॥ द्यावापृथिव्या-द्याश्रयत्वयोग्यत्वाय बाह्याकाशतुल्यतया विशिष्येत्यर्थः ॥ आकाशाख्यो विष्णुः सर्वाधार-तयेति ॥ तथा चान्वेष्टव्ये इत्थम्भावप्रदर्शनार्थमुभे अस्मिन्नित्यादिकं प्रवृत्तमिति तदपि नासङ्गतमिति भावः ॥ सर्वाधारत्वोक्तिविरोधादिति ॥ अनेन ‘तस्यान्ते सुषिरं सूक्ष्मम्’ इति श्रुतेरिति भाष्यं तदन्तःस्थत्वापेक्षत्वान्न सुषिरश्रुतिविरोध इत्युत्तरभाष्यानुरोधेन न्यायविवरण-शेषत्वेनापि योजितमिति ज्ञातव्यम् । ‘इतरपरामर्शात् स इति चेत्’ इत्यादिसूत्राभिप्रेत-पूर्वपक्षमाह ॥ जीवस्यैतदिति ॥ दहरं पुण्डरीकश्रुत्यनुसारेण सूत्रे तदनुसारेण भाष्ये च दहरपदप्रयोगाल्लिङ्गं हृत्पद्मस्थत्वमिति न्यायविवरणे ‘हृदब्जग’ इति संक्षेपे चाभिधाना-त्तदुभयानुकुल्यायाह ॥ दहरपद्मस्थ इति ॥ अन्यथा हृत्पद्मस्थ इति वक्तव्यम् । अनेन सूत्र-भाष्ययोः सप्तम्यन्तं दहरपदं दहरं पुण्डरीकमित्युक्तहृत्पद्मपरमित्युक्तं भवति । चेतनत्वादस्ति प्राप्तिरिति । चेतनजातीये जीवे पापादेर्दर्शनादिति ॥ अनेनेति ॥ ‘नित्यतीर्णाशनायादिः’ इत्यनेनेत्यर्थः ।
भावदीपः
अत्र न्यायविवरणे स्पष्टत्वाच्छ्रुतीरनुदाहृत्य हृत्पद्मस्थितत्वं साधारणमित्युक्तम् । तदुदाहरणपूर्वकं साधारण्यं व्यञ्जयन्नस्य पादान्तर्भावमाह ॥ अत्र यो वेदेति ॥ एतच्चानन्द-मयनये ब्रह्मपरत्वेन निर्णीतम् । यद्यपि परमे व्योमन्निति हृदयगुहास्थाकाशस्थत्वमेव तत्रोक्तं मन्दिरे मणिमालेतिवत् सामान्येन गुहास्थत्वमविरुद्धम् । अत एव गुहायामित्याधारसप्तमीति भावः ॥ तस्येति ॥ ‘तैत्तिरीये पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् । अधोनिष्ठ्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति । ज्वालमालाकुलं भाति विश्वस्यायतनं महत् । सन्ततं शिलाभिस्तु लम्बत्याकोशसन्निभम् । तस्यान्त’ इति प्रकृतहृत्पद्मं तस्येति परामृश्य तदन्त-स्थत्वमाकाशस्योच्यते ॥ हृदीति ॥ षट्प्रश्ने मध्ये तु समान एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्तीति पूर्वत्र तस्मात्समानेनान्नस्य समीकरणादेताः सप्तार्चिषो भवन्तीत्युक्तौ आत्मैव विषयसंसर्गेण ताननुभविष्यति किमिन्द्रियवृत्तिभिरिति शङ्कायाम् अणुत्वात्तस्य नैवं युक्तमिति भावेन हृदि ह्येष आत्मा जीवः स्वरूपेण वर्तत इत्युक्तेः । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हीति सूत्रकृता जीवपरत्वेन वक्ष्यमाणत्वाच्चेति भावः ॥ हृत्पद्मस्थत्वेति ॥ साक्षात्परम्परासाधारणहृत्पद्मगतत्वलिङ्गस्येत्यर्थः । आकाशस्येति भाष्यं तु पूर्वपक्षहेत्वभिप्रायं न तु समन्वेतव्यनामाशयमिति भावः । इत्यन्तभाष्यं सङ्गतिसूचकत्वेन व्याकुर्वन्नुक्तमित्यन्तं व्याचष्टे ॥ एतस्य वा इति ॥ उक्तमक्षरनय इत्यर्थः । आकाशस्य प्रतीयत इत्यत्र हृत्पद्मस्थस्येत्याकाशविशेषणमुपेत्य तात्पर्यमाह ॥ तच्छन्दोगश्रुताविति ॥ उच्यते अष्टम इत्यर्थः । केनेत्यत एतस्मिन्नित्यादिभाष्यमिति भावेन भाष्ये पूर्वपक्षयुक्तिद्योतनाय समग्रानुक्तावपि वक्ष्यमाणानन्वययुक्तिसौकर्याय तद्वाक्यं समग्रं पठति ॥ एतस्मिन्निति ॥ ब्रह्मपुरे देहे । दहरं दभ्रमल्पमित्यर्थः । अस्मिन्पुण्डरीके । तस्मिन्नाकाशे । कथं तस्यान्वेषण-मित्यत उक्तम् ॥ विजिज्ञासितव्यमिति ॥ तमेवमुक्तवन्तं गुरुं शिष्याश्चेद् ब्रूयुः किं तदाह ॥ किं तदत्रेति ॥ यदन्वेष्टव्यत्वादिनोक्तं तदत्र किं विद्यते कुतश्च तदन्वेष्टव्यं कीदृशं च तद्विद्यत इति प्रश्नार्थः । स गुरुः शिष्यान् प्रति ब्रूयात् । किं तदाह ॥ यावानिति ॥ हृद्ययत इति हृदये हृत्स्थदहराकाशे । आकाश आकाशनाम ब्रह्म विद्यते । अयं बाह्याकाश आकाशनामा विष्णुर्यावान् व्याप्त्या तावानिति किमित्यस्य । अस्मिन् द्यावाभूम्यादि सर्वं समाहितं यतोऽतो द्यावापृथिव्याद्याधारत्वाज्जिज्ञास्यमिति कुतश्चेति प्रश्नस्योत्तरम् । कीदृशमित्यस्यापि यद्ब्रह्म कीदृशमस्तीति पृष्टं तस्य हृदये यावान्बाह्याकाशस् तावान् द्यावाभूम्यादिकं च सर्वं विद्यते सर्वाधारभूतं तदिति इदमेवोत्तरमिति सिद्धान्तीयोऽर्थः ।
पूर्वपक्षीयस्तु हृदये आकाश इति प्रागुक्तदहराकाशमनूद्य यावानिति बाह्याकाशतुल्यतया तं विशेष्यान्वेष्टव्यतया तत्र द्यावाभूम्यादिकमुच्यत इत्यर्थः । आकाशस्येत्यादेर्भावः ॥ तस्य चेति ॥ चन्द्राद्याहारहृत्पद्मस्थस्येत्यर्थः ॥ अन्यत्व इति ॥ सुषिरश्रुतिसमाख्यासहिताकाशश्रुत्या आकाशत्वे वक्ष्यमाणदिशा जीवत्वे वेत्यर्थः । उक्तमित्यन्तस्य तात्पर्यम् ॥ अक्षरस्येति ॥ इतीति ॥ इति सङ्गतिसम्भवादित्यर्थः ॥ तदिति ॥ यस्मिन् हृत्पद्मस्थे सर्वाधरत्वं श्रुतं तद्गतः साक्षात्परम्परासाधारण्येन पूर्वोत्तरवाक्यस्थहृत्पद्मस्थत्वसामान्यरूपो धर्म इत्यर्थः । तेन साक्षाच्चेद्दहरे विष्णुरेवेति विष्णोर्दहराकाशस्थत्वोक्तिः सिद्धान्ते न युक्ता । परम्परा चेदाकाश-स्थेति पूर्वपक्षायोग इति शङ्कानवकाशः । अस्मिन्पक्षे पूर्वोत्तरपक्षसामञ्जस्यमग्रे विवरिष्यते । जीवपरामर्शादित्युत्तरभाष्यानुरोधादाह ॥ उत जीवस्येति ॥ पूर्वपक्षादिपरत्वेनापि व्याकुर्वन् हृत्पद्मस्थत्वं साक्षाद् व्यवधानेन वा द्वेधा सम्भवति । तत्राद्ये तच्चाकाशस्य प्रतीयत इति प्रतिज्ञाभाष्यं विवृणोति ॥ सर्वेति ॥ दहरोऽस्मिन्नन्तरिति पूर्ववाक्ये य एषोऽन्तर्हृदय इत्युत्तरस्मिन्सर्वाधारवाक्ये च श्रुतहृत्पद्मस्थत्वमित्यर्थः ॥ तावदिति ॥ जीवस्येति पश्चाद्वक्ष्याम इत्यर्थः । पूर्वाक्षेपरूपफलोक्तिसौकर्याय वा सुषिरश्रुत्यैकार्थ्याय वा तदुक्त्यै शङ्कोत्थानाय वा सिद्धान्तिन इष्टापत्तिनिरासाय वा सर्वाधारतयेति विशेषणम् । तेन तच्चेत्येतदर्थो विवृतः । कुत इत्यतो दहरोऽस्मिन्नन्तर आकाश इत्यन्तवाक्योक्तेर्भावमाह ॥ दहर इति ॥ इदमुपलक्षणम् । य एषोऽन्तर्हृदय आकाश इति चेत्यपि बोध्यम् ॥ स्थितीति ॥ हृत्पद्मस्थे आकाशशब्दश्रवणा-दित्यर्थः । किं तदत्रेत्याद्युक्तेर्भावमाह ॥ तस्यैवेति ॥ अन्यथा किं तदत्रेति प्रश्नानानुगुण्यमिति भावः ॥ तस्यान्त इति ॥ विवृतमेतत्पूर्वम् । तस्मिन् सर्वं प्रतिष्ठितमिति वाक्यशेषार्थमाह ॥ सर्वेति ॥ तत्रापि सुषिरस्य विष्णुत्वं तु न युक्तम् । ‘तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थित’ इति सुषिरमध्येऽग्निशिखामुक्त्वा ‘तस्याः शिखाया मध्ये परमात्मा व्यवस्थित’ इति विष्णोः शिखामध्यस्थत्वोक्तेरिति भावेनोक्तमाकाशस्यैवेति ।
एवं साक्षाद्धृत्पद्मस्थत्वपक्षे भाष्यं योजयित्वा व्यवधानेन हृत्पद्मस्थत्वपक्षं शङ्कते ॥ न च वाच्यमिति ॥ अस्मिन् पक्षे न्यायविवरणोक्तं दहरोऽस्मिन्नन्तर आकाशस्तस्मिन् यदन्तस्तद-न्वेष्टव्यमित्यनेन यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय इत्यस्यान्वयाभाव इति दोषं व्यञ्जयन् द्यावाभूम्यादेरेवान्वेष्टव्यत्वं न विष्णोरित्याह ॥ तथा सतीति ॥ एतेन भाष्ये आकाशो न विष्णुः सुषिरश्रुतेरित्युपलक्षणम् । आकाशो न विष्णुर् वाक्यान्वयानुपपत्तेरित्यपि बोध्यमिति दर्शितम् । यावान्वा अयमाकाश इति वाक्यस्थाकाशः किं प्रसिद्ध एवोत ब्रह्मेति विकल्पौ हृदि कृत्वा आद्ये अन्वयाभावदोषमाह ॥ तस्मिन्नित्यत्रेति ॥ अन्वेष्टव्यवाक्ये अन्वेष्टव्यतयोक्तस्य दहराकाशस्थस्येत्यर्थः । अयं च दोषो न पूर्वपक्ष इत्याह ॥ आकाशेति ॥ आकाशान्त-र्ब्रह्मास्तीत्यनुपेत्य साक्षाद् हृत्पद्मस्थमाकाशं व्यवहितं तु द्यावाभूम्यादिकमिति पक्षे त्वित्यर्थः । अस्त्यन्वय इत्युक्तं तदुपपादकत्वेनापि एतस्मिन् ब्रह्मपुर इत्यादिभाष्यं योजयति ॥ हृदयेति ॥ इत्युक्त इति ॥ तस्मिन्यदन्तरिति वाक्य इत्यर्थः । किं तदत्रेत्यादि प्रतीयत इत्यन्तभाष्यभावमाह ॥ किमिति ॥ आधेयप्रश्न इत्यर्थः । विशिष्य द्यावाभूम्याद्याधारत्वयोग्यत्वाय बाह्याकाश-तुल्यतया विशिष्येत्यर्थः । यावान्वा इति वाक्यस्थाकाशो ब्रह्मेति द्वितीयपक्षशङ्कोत्तरत्वेन स चाकाश इत्यादिभाष्यं व्याचष्टे ॥ न चेति ॥ परिहारे परिहारवाक्ये । एतेन सः यावानिति वाक्योक्ताकाशो विष्णुरिति न च वाच्यमिति भाष्यार्थो दर्शितः । वाक्यशेषोक्तिपूर्वं तस्यान्त इत्युक्तसमाख्याविरोधं व्यनक्ति ॥ तस्मिन्निति ॥ तस्मादिति ॥ सुषिरश्रुतिसमाख्या-वाक्यान्वयसामञ्जस्याभ्यां सहितस्याऽऽकाशशब्दस्य साधकस्य भावात् ।
विष्णुत्वपक्षे वाक्यान्वयाभावसुषिरश्रुतिविरोधरूपबाधकभावाच्चेत्यर्थः । अपहतपाप्मत्वादिकं तु जडे आकाशे पापास्पृष्ट्या वा अभिमानिद्वारा वा युक्तमिति भावः । बाधवारणां सर्वाधार-तयेत्युक्तम् । इतरपरामर्शात् स इति चेदिति सूत्रतद्भाष्याभ्यामुक्तं व्यनक्ति ॥ जीवस्य वेति ॥ परामर्शादिति ॥ प्रकृतं जीवम् एष इति परामृश्य आत्मेत्यात्मपदेन य आत्मा अपहत-पाप्मेत्यादिवाक्येऽपहतपाप्मत्वादिनोक्तहृत्पद्मस्थात्मत्वस्य विधानादित्यर्थः । अल्पश्रुतेरिति चेदिति सूत्रतद्भाष्याभ्यामुक्तमाह ॥ दहरस्थत्वेति ॥ अर्भकौकस्त्वादिति सूत्रे व्योमवद्विष्णावपि युक्तमित्यतोऽस्य निरवकाशत्वमाह ॥ तद्ध्यणोरिति ॥ उत्क्रान्तिगत्यागतीनामिति वक्ष्यमाण-न्यायेनाणोरित्यर्थः ॥ सर्वगतस्येति ॥ अंशतोऽपीति योज्यम् । व्योम्नोंऽशेनैकत्राल्पदेशेऽ-वस्थितिसम्भवेऽपि हरेरंशस्याप्यपरिच्छिन्नत्वेनाल्पौकस्त्वस्य निरवकाशत्वादिति भावः । विवरिष्यते चैतदग्रे । अपहतपाप्मत्वादिकं तु जीवे मुक्तौ भावाद् भाव्यपेक्षया युक्तमिति भावः । ननु हृत्पद्मस्थाकाशस्थो जीवश्चेद्यावान्वा इति वाक्यानन्वय इत्यत आह ॥ न चेति ॥ हृत्पद्मस्थ आकाश एवेति वा जीव एवेति वा निर्णयाभावात् पूर्वपक्षस्य सन्देहादविशेषः स्यादित्यतो विष्ण्वितरत्वेन निश्चयः स्यादिति भावेन द्विविधपूर्वपक्षफलत्वेनोक्तमित्यन्तभाष्य-तात्पर्यमाह ॥ अत इति ॥ साक्षाद्व्यवधानाभ्यां क्रमादाकाशजीवयोरेव सर्वाधारतया हृत्पद्म-स्थत्वाद् विष्णोश्चैकेनापि रूपेण सर्वाधारतया हृत्पद्मस्थत्वाभावाच्चेत्यर्थः । विष्णोः साक्षाद्हृत्पद्मस्थत्वाभावेऽपि हृत्पद्मस्थदहराकाशस्थतया व्यवधानेन हृत्पद्मस्थत्वं स्यादेवेति भावेनाऽऽकांक्षाक्रमेण भाष्यं व्याचष्टे ॥ दहरेति ॥ परम्परया दहरहृत्पद्मस्थ इत्यर्थः । अत्येति अतिशयेन प्राप्नोतीति भ्रान्तिं निराह ॥ अतिक्रम्येति ॥ सर्वदा शोकादिहीन एवास्त इत्यर्थः ॥ विष्णोरिति ॥ सजातीये जीवे दर्शनेनात्रापि तत्प्राप्तिभ्रान्तौ निषेधसम्भवादित्यर्थः । अभिमानिद्वाराऽऽकाशेऽप्यस्त्वपहतपाप्मत्वमित्यत आह ॥ सत्यकामत्वेति ॥ तत्तु निरवकाशमित्यग्रे व्यक्तमिति भावः । कथञ्चिद् अभिमान्यादिद्वारेत्यर्थः ॥ अनेनेति ॥ क्वापि निरपेक्षधर्माभावकथनेनेत्यर्थः । ननु तर्कताण्डवे पाकसापेक्षस्यापि पृथिवीशौक्ल्यस्य तन्निरपेक्षा-बादिशौक्ल्यस्येव शुक्लशब्दमुख्यार्थत्वेन तुल्यतया प्रतीतेर् व्याप्तिसङ्गतिज्ञानादिसापेक्षयो-रप्यनुमानशब्दयोस्तन्निरपेक्षप्रत्यक्षवत् प्रमाणशब्दमुख्यार्थत्वेन तुल्यतया प्रतीतेश्चेत्यादिनोपक्रम-प्राबल्यभङ्गे सापेक्षस्यापि शब्दमुख्यार्थत्वोक्तेः सत्यकामः सत्यसङ्कल्प इति श्रुतौ सापेक्ष-धर्मस्यापि धीरस्तीति चेन्न । प्रतीतस्यापि तस्य त्यागोपपत्तेरिति भावः ॥
अभिनवचन्द्रिका
हृत्पद्मस्थत्वलिङ्गस्येति ॥ यद्यप्यत्र विषयवाक्ये हृत्पद्मस्थत्वरूपधर्माभिधायकलिङ्गात्मकः शब्दो न श्रूयते । तथाप्येतद्वाक्यसमन्वयाभिधाने हृत्पद्मस्थत्वरूपधर्मसिद्धिर्भवतीत्यभिप्रेत्य तथोक्तम् ॥ एतस्मिन्निति ॥ ब्रह्मपुरे देहे, दहरम् अल्पं पुण्डरीकं पुण्डरीकात्मकं वेश्म, विद्यते । अस्मिन् आकाशे, यदन्तः विद्यते, तदन्वेष्टव्यं, तद्वाव विज्ञासितव्यम्’ इति । तं गुरुं प्रति, शिष्याः, चेच्छब्दो यद्यर्थे । यदि ब्रूयुः किं तदत्र विद्यते, यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति । स गुरुः, शिष्यान्प्रति ब्रूयात् । यावान्वा अयमाकाश आकाशनामा विष्णुः, व्याप्त्या यावान्वर्तते, तावानेष आकाश आकाशनामा विष्णुः, अन्तः हृदये हृत्पद्मान्तर्गतदहराकाशे वर्तते, अस्मिन् आकाशनामि्न विष्णौ । उभे द्यावापृथिवी वर्तेते इति सिद्धान्तरीत्या श्रुत्यर्थः । अनेनैतदधिकरणप्रतिपाद्यस्य अक्षराधिकरणप्रतिपाद्यस्य च चन्द्र-सूर्याद्याधारत्वेन प्रतीयमानत्वं पूर्वाधिकरणतच्छ्रुतिभ्यामस्याऽधिकरणस्य सङ्गतिरित्युक्तं भवति ॥ सर्वाधारतयेति ॥ ‘हृत्पद्मस्थत्वम् आकाशस्येत्येतावन्मात्रोक्तौ न सिद्धान्तविरोधो भवति । सिद्धान्तिनाऽस्याकाशस्य हृत्पद्मस्थत्वाङ्गीकारात् । तदर्थं सर्वाधारतयेति विशेषणम् । नात्रोक्ताकाशो विष्णुरिति ॥ ‘किं तु प्रसिद्धाकाश एव’ इति शेषः । कुतोऽयं प्रसिद्धाकाश इत्यत आह ॥ तस्यांत इति ॥ स चाकाशो न विष्णुरिति प्रतिज्ञाय ‘तस्यांते सुषिरम्’ इति शाखान्तरस्थश्रुत्युदाहरणमयुक्तमित्यतस् तदभिप्रायमाह ॥ तत्समाख्यानादिति ॥ अस्त्वा-काशस्य हृत्पद्मस्थत्वं, तथापि न तस्य सर्वाधारत्वमत्रोच्यते । किंत्वाकाशान्तर्गतस्य विष्णोरेव । ततश्च ‘सर्वाधारत्वमाकाशस्य’ इति यत्प्रागुक्तं तदयुक्तमित्याशङ्क्य निषेधति ॥ न च वाच्यमिति ॥ तथा सतीति ॥ ‘तस्मिन्यदन्तः’ इति वाक्यस्य अस्मिन् आकाशे यदन्तः विष्ण्वाख्यं ब्रह्म विद्यते तदन्वेष्टव्यमित्यर्थकत्वे ‘किं तदत्र विद्यते यावान्वा अयमाकाश’ इति प्रश्नपरिहारयोरसङ्गतत्वापत्तेरित्यर्थः । ननु न प्रश्नपरिहारयोरसङ्गतिः । तावानेषोऽन्तर्हृदय आकाश’ इत्यनन्तरं ‘तत्र ब्रह्म विद्यत’ इत्यध्याहारेण योजनायां सङ्गतिसम्भवादित्यत आह ॥ तस्मिन्नित्यत्रेति ॥ सत्यमध्याहारेण प्रश्नपरिहारयोः सङ्गतिर्भवति, तथापि अध्याहारं विना आकाशपक्षे प्रश्नपरिहारयोः सङ्गतिवद् विष्णुपक्षे अध्याहारं विना सङ्गत्यभावाद् विष्णोरेव सर्वाधारत्वमिति न श्रुत्यभिप्रायः । ‘यत्रानवसरोऽन्यत्र पदं प्रतिष्ठितम् । वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्’ इति प्रमाणेन अध्याहारं विना योजनासम्भवे अध्याहारस्य निषिद्ध-त्वादिति भावः । अत एव टीकायां ब्रह्म विद्यत’ इति परिहारं विना ‘यावान्वा’ इत्यादे-रभिप्रायासङ्गतिः’ इत्युक्तम्, अन्यथा इति प्रश्नस्य ‘यावान्वा’ इत्यादेरभिप्रायासङ्गतिः’ इत्यवक्ष्यत् । एतेन यथा ‘किं तदत्र विद्यत’ इति प्रश्नस्य ‘यावान्वा’ इत्यादिपरिहार आकाशान्तर्गतार्थानिरूपकत्वात् सिद्धान्तिपक्षे असङ्गतः, तथा पूर्वपक्षिमते प्रागुक्ताकाशमेव विशिष्यं वक्तुं ‘यावान्वा’ इत्यादिवाक्यं सङ्गतं, तथा सिद्धान्तिमतेऽपि सङ्गतं भवेत्, ब्रह्म विद्यत इति परिहारं वक्तुं ‘यावान्वा अयमाकाश’ इति विशिष्योक्तिसम्भवादिति परास्तम् । सिद्धान्तिमते अध्याहारं विना न सङ्गतिरिति दूषणे तात्पर्यात् । नन्वकाशपक्षे प्रश्नार्थनिरूप-कत्वेन ‘उभे अस्मिन्नित्यादेः सङ्गतिभवेऽपि यावान्वेति वाक्यस्यासङ्गतिः । प्रश्नोत्तरत्वाभावा-दित्यत आह ॥ आकाशपक्ष इति ॥ हृदयेति ॥ हृदयाकाशस्थमुपास्यमित्युक्ते किं तत्रस्थं यन्मयोपास्यमिति प्रश्नो भवति, तस्मिंश्च प्रश्ने सति द्यावापृथिव्यादिकं तत्रस्थमिति वक्तुं हृदयाकाशस्य द्यावापृथिव्याद्याधारत्वं न सम्भावितम् । अल्पत्वादित्याशङ्कापरिहाराय ‘यावान्वा अयमाकाश’ इति प्रागुक्ताकाशं विशिष्य ‘उभे अस्मिन्’ इति परिहारप्रवृत्तेः । आकाशपक्षे अस्त्यस्य वाक्यस्यान्वय इति भावः ।
ननु न सिद्धान्तपक्षेत्यध्याहारः, ‘यावान्वा अयमाकाश’ इति वाक्यस्य विष्णुपरत्वेन ‘किं तदत्र विद्यत इति प्रश्नोत्तरत्वमित्याशङ्क्य निषेधति ॥ न चेति ॥ समाख्याविरोधादिति भावेनाह ॥ तस्मिन्निति ॥ उत्तरत्रेति ॥ उत्तरत्र उत्तरखण्डे जीवस्य ‘एष आत्मा’ इति वाक्येन हृत्पद्यस्थात्मत्वाभिधानादिति यावत् । जीवस्याप्रकृतत्वात्, ‘एष आत्मा’ इति वाक्येन तस्य हृत्पद्यस्थत्वमुच्यत इत्युक्तमित्यत उक्तम् ॥ परञ्ज्योतिरुपसंपद्येति ॥ इदमुक्तं भवति – ‘अथ यदेतस्मिन्ब्रह्मपुरे’ इत्येतस्मिन्वाक्ये हृत्पद्मस्थत्वमुक्तम् । अनन्तरं ‘एष आत्मा अपहत-पाप्मा’ इति आत्मनो हृत्पद्मस्थत्वमुक्तम् । अनन्तरं ‘परंज्योतिरुपं संपद्य, स्वेन रूपेण अभिनिष्पद्यत’ इति जीव उक्तः । स एव ‘एष आत्मा’ इति वाक्येन हृत्पद्मस्थात्मतयोक्तः । ततश्च जीवस्यैव हृत्पद्मस्थत्वमिति ॥ विष्णुपक्षेऽपि साम्यादिति ॥ नन्विदमयुक्तम् । विष्णुपक्षे दोषोद्भावनमात्रेण स्वपक्षदोषा परिहारात् । न हि पराङ्गं दग्धमिति स्वाङ्गदाहदुःखं निवर्तते इति चेत्, मैवं न ब्रूमो वयमन्वयाभावदोषः सिद्धान्तिन इव ममाप्यस्तीति । येनोक्त-दोषः स्यात् । किं तर्हि यथा सिद्धान्तिनाऽन्वयाभावदोषपरिहाराय वाक्ययोजना क्रियते, तथैवाऽहमपि करिष्यामीति । तथा हि – ‘ब्रह्मपुरम्’ इत्यनेनैव जीवस्थितिसिद्धेः कीदृशं तदितिभावेन ‘किं तदत्र विद्यत’ इति प्रश्ने तत्स्वरूपनिरूपणपरतया ‘यावान्वा अयमाकाश’ इत्यादिवाक्यान्वयः सम्भवतीति ।
अत्र गुणसूत्रं ‘गतिशब्दभ्यां तथा हि दृष्टं लिङ्गं च’ इति । नन्वयं योगः शक्योऽवक्तुम् । अत्रोक्तस्य ‘अहरहर्गच्छन्त्य एतम्’ इति सुप्तप्राप्यत्वस्य, ब्रह्मशब्दस्य च, ‘अरश्च हवै ण्यश्चार्णवौ ब्रह्मलोक’ इति अरण्याख्यसुधासमुद्राश्रयलोकत्वरूपलिङ्गस्य च पूर्वसूत्रोक्तोत्तरेभ्य इत्यनेनैव ग्रहणसम्भवादिति चेत्, सत्यम्, उत्तरेभ्य इत्यनेनैव सर्वेषां लाभ इति, तथापि कुरुपाण्डवन्यायेन पृथग्ग्रहणम् । तथा हि सर्वेषां साधकानां निर्दोषत्वेऽपि अपहतपाप्मत्वादीनां मुक्तेष्वपि सद्भावाद् व्यभिचार इत्याशङ्काऽऽस्कन्दितत्वेन दौर्बल्यम् । सुप्तप्राप्यत्वादीनाम-न्यत्राऽसम्भावितत्वेन तादृशशङ्काऽनुदयात्प्राबल्यमिति । एवमुत्तरत्रापि द्रष्टव्यम् ।
वाक्यार्थमुक्तावली
तस्यान्ते सुषिरं सूक्ष्ममिति ॥ ‘पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखं तस्यान्त’ इति शेषो बोध्यः । यद्यपि ‘यो वेद निहितं गुहायां परमे व्योमन्’, ‘हृदि ह्येष’ इति श्रुत्योर् नेशजीवयोर् हृत्पद्मस्थत्वं प्रतीयते, तथापि मन्दिरे मणिमालेत्यत्र मजूषानुक्तिवन्मध्ये पद्मा-नुक्तिमात्रं द्रष्टव्यम् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीति सुप्तप्रजाप्राप्यत्वेनोक्तं हृत्पद्मस्थं यद्यन्यत्स्यात्तदा सता सोम्य तदा सम्पन्नो भवतीति सुप्तप्राप्यत्वेनोक्तं सदप्यन्यत्स्यादित्याक्षेपेणोत्थानादिति बोध्यम् । अत एव भाष्ये गति शब्दाभ्यामिति सूत्रे समाख्यात्वेन सता सोम्येनेति वाक्यमुपादीयत इति बोध्यम् । भावबोधे तु, उभे अस्मिन् द्यावापृथिवीत्युक्तद्युपृथिव्याद्याधारपद्मस्थं यद्यन्यत्स्यात् तदा सदाय-तनाः सत्प्रतिष्ठा इति सर्वप्रजाश्रयत्वेनोक्तं सदप्यन्यत्स्यादित्याक्षेपिकी सङ्गतिरित्युक्तम् । चन्द्राद्याधारत्वमिति भाष्यम् । यद्यपि सूर्याचन्द्रमसौ विधृताविति पूर्वमुक्तत्वादत्रापि सूर्याचन्द्रमसावुभावित्युच्यमानत्वात् श्रुत्यनुसारेण सूर्याद्याधारत्वमिति वक्तव्यम् । तथाप्यहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्’ इत्यम्भृणीसूक्तसमाख्यावष्टम्भेन चन्द्राद्याधारत्वे श्रीतत्वस्य शङ्किते चन्द्राद्याधाराम्बराधारके, समाख्योक्तं चन्द्राद्याधारत्वमपि सावकाश-मित्युक्तत्वात्तद्विवक्षया चन्द्रस्यादित्वग्रहणम् । भाष्ये सर्वाधारतया हृत्पद्मस्थत्वमाकाश-स्यैवाकाशश्रुतेरिति पूर्वपक्षस्य द्योतनमेतावत्पठनेनैव भवति । तदन्वेष्टव्यमित्यादि तु पूर्वपक्षा-नुपयुक्तम् । यावान्वा इत्यादिकमपि पूर्वोक्ताकाशस्यैव विशेषकं, नातोऽतिरिक्तम् आकाशस्य सर्वाधारत्वमेव श्रुतिपर्यवसन्नोऽर्थ इति द्योतयितुमितरांशानुदाहरणेऽपि वक्ष्यमाणानन्वयाद्युक्ति-सौकर्याय तद्वाक्यं समग्रं पठति ॥ एतस्मिन्निति ॥ तद्धृदयपद्मस्थत्वमिति ॥ अत्र तच्छब्देन यद्यपि दहरोऽस्मिन्नन्तर आकाश इति वाक्योक्तस्य साक्षात् हृत्पद्मस्थत्वस्य न परामर्शः । तस्य सिद्धान्तेऽप्यब्रह्मनिष्ठत्वात् । दहरे विष्णुरेवेति दहराकाशस्थत्वोक्तेः । नापि तस्मिन्यदन्तस्तदुपासितव्यं, तदन्वेष्टव्यमिति वाक्योक्तस्य परम्परया हृत्पद्मस्थत्वस्य तत्राकाश-शब्दस्य भाष्योक्तपूर्वपक्षबीजस्य भावात् । पूर्वपक्षे दहराकाशस्यैव सर्वाधारत्वाभ्युपगमात् तस्थस्य तदभावात् । अम्बरान्तधृत्याक्षेपायोगाच्च । तथाप्येतद्वाक्यद्वयोक्तस्य साक्षात्परम्परा-सम्बन्धसाधारणस्य हृत्पद्मस्थत्वसामान्यमुभाभ्यामुभयमुभयत्राङ्गीकृतमिति न तस्य विषयत्वमिति वाच्यम् । सामान्यतो हृत्पद्मस्थत्वस्य पूर्वपक्षिणा विष्णावनङ्गीकारात् । यद् द्यावापृथिव्या-द्याश्रयतया साक्षाद्धृत्पद्मस्थत्वं तदाकाशस्यैव, भाष्योदाहृतसुषिरश्रुतेः । तद्व्यवहितमन्वेष्टव्य-तया हृत्पद्मस्थत्वं द्यावापृथिव्यादेरेव । तथा च यद्विशेषबाधे सामान्याभाव इति पूर्वपक्षे सति, सत्यं साक्षाद्धृत्पद्मस्थत्वम् आकाशस्य, व्यवहितं तु ब्रह्मणस् तस्यैवान्वेष्टव्यत्वम् । तथा च
विशेषसद्भावात्सामान्यमप्यस्तीति । सिद्धान्तस् तथाचोभयसाधारणं हृत्पद्मस्थत्वं विषयो भवत्येव ।
यद्वा सर्वाधारतया हृत्पद्मस्थत्वं विषयो ऽत एव टीकायां सर्वाधारतया हृत्पद्मस्थत्व-माकाशस्येति तावत्पूर्वपक्ष इत्याद्युक्तम् । नन्वेवं सति जीवस्य न संशयपूर्वपक्षविषयत्वमिति वाच्यम् । हृदि ह्येष आत्मेति आत्मश्रुत्या दहरस्थत्वलिङ्गेन हृदि ह्येष आत्मेति समाख्यया च जीवप्रसक्तौ अदृष्टद्वारा सर्वाधारत्वोपपत्तेरित्याशयेन पूर्वपक्षाद्युपपत्तेरिति दिक् । विस्तरस्तु प्रमेयमुक्तावल्याम् ॥ किं विष्णोरिति ॥ तत्र दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्त इति वाक्योक्तं, सर्वाधारतया हृत्पद्मस्थत्वमाकाशश्रुत्या, सुषिरश्रुतिसमाख्यया विष्णुपक्षेऽन्वयाभाव-बाधकेन किमाकाशस्य उत इतरत्र परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते एषात्मेति होवाचेति जीवस्य य आत्मा अपहतपाप्मेत्युक्तहृत्पद्मस्थात्मतया परामर्शात्, दहरस्थत्वलिङ्गाच्च जीवस्य । अथवापहतपाप्मत्व, सत्यकामत्वादिसुप्तप्राप्यत्व, ब्रह्मशब्द, अरण्याख्यसुधा-समुद्राश्रयलोकत्व, ससेतुरित्युक्तसर्वाधारकत्व, य एषोऽन्तर्हृदय आकाश इति वाजसनेय-समाख्या न प्रसिद्धलिङ्गैर् विष्णोरिति चिन्ता । तदर्थमपहतपाप्मत्वादीनामभिमानिविवक्षयाऽ-काशे मुक्त्यवस्थाविशिष्टजीवे च सावकाशत्वमुत निरवकाशबहुलिङ्गश्रुतिबलाद्विष्णावाकाश-श्रुतेस् तल्लिङ्गादितिन्यायेन सुषिरश्रुतेस्तदन्तस्थत्वविवक्षयान्वयाभावस्य परपक्ष एवोपपादनेन परामर्शस्यान्यार्थत्वेन दहरस्थत्वलिङ्गस्य निचाय्यत्वादेवं व्योमवच्चेत्युक्तन्यायेन सावकाशत्व-मिति । एवं विष्णोरुक्तं चन्द्राद्याधारत्वम् ‘एतस्मिन्ब्रह्मपुर’ इत्यादिनाऽकाशस्य प्रतीयत इति भाष्यमाकाशपदस्थाने हृत्पद्मस्थेति संयोज्य सङ्गतिप्रदर्शनपरत्वेन व्याख्यातम् । अधुना हृत्पद्मस्थस्याकाशस्य प्रतीयत इति संयोज्य तल्लब्धपूर्वपक्षमाह ॥ सर्वाधारतयेति ॥ हृत्पद्म-स्थत्वसामान्यं विषय इति पक्षे सर्वाधारतयेति किमर्थमिति चेन्न । अक्षराधिकरणोदाहृत-श्रुत्यादिबलात्सर्वाधारत्वस्य विष्ण्वैकनिष्ठत्वात्तस्य चात्र श्रवणाद्धृत्पद्मस्थं ब्रह्मैवेत्याशङ्कायां समाख्याबलात्तदप्याक्षिप्यत इति प्रदर्शनार्थत्वेनोपपत्तेः ॥ आकाशस्यैवेति ॥ ‘पद्मकोश-प्रतीकाशं हृदयं चाप्यधोमुखम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्’ इति प्रसिद्धाकाशस्यैव सर्वाधारतया हृत्पद्मस्थत्वमुक्त्वा ‘तस्य मध्ये वह्निशिखाऽणीयोर्ध्वा व्यवस्थितेति,’ सुषिरमध्ये वह्निशिखामुक्त्वा ‘तस्याः शिखाया मध्ये परमात्मा व्यवस्थित’ इति विष्णोस्तच्छिखामध्यस्थत्वोक्तेरिति भावः । भाष्ये दहरम्पुण्डरीकं वेश्म, ‘दहरोऽस्मिन्नन्तर आकाशः किं तदत्र विद्यते उभेऽस्मिन्द्यावापृथिवी’ इत्यादिवाक्यपठनेन किं तदत्र विद्यते इति प्रश्नस्य ब्रह्म विद्यत इति परिहाराभावात् । प्रत्युतोभेऽस्मिन्नित्यादिपरिहारसंश्लेषाद् विष्णुपक्षे यावान्वा इत्यादेरनन्वय इति सूचितां, न्यायविवरणोक्तामनन्वययुक्तिं सङ्गमयितुमाह न च वाच्यमित्यादिना ॥ अभिप्रायासङ्गतिरिति ॥ पूर्वोत्तरवाक्ययोरसङ्गतार्थप्रतिपादकत्वेनैवानन्वयः न तु अनन्वयानुकूलविभक्तिकपदत्वादिनेति भावः ॥ विशिष्येति ॥ द्युपृथिव्याद्याश्रयत्व-योग्यत्वाय बाह्याकाशतुल्यतया विशिष्येत्यर्थः । पूर्वं ‘स चाकाशो न विष्णुरिति’ भाष्यं दहरोऽस्मिन्नन्तर इत्युक्ताकाशस्य विष्णुत्वाभावपरत्वेन व्याख्यातम् । अधुना विष्णुपक्षेऽन्वयो-पपत्तये यावान्वाऽयमाकाश इत्युक्ताकाशो विष्णुरिति शङ्किते तन्निषेधकतया व्याचष्टे न च यावानित्यादिना ॥ अत एव तदन्तस्थत्वादिसिद्धान्ते परिहारो भविष्यतीति बोध्यम् । इतरपरामर्शादिति सूत्र एव जीवपूर्वपक्षप्रदर्शनाद्भाष्ये त्यागेऽपि एकबुध्यारोहाय स्वयमाह ॥ जीवस्य वेति ॥ अपहतपाप्मेत्युक्तेऽपि मुक्तौ भाविविवक्षयाऽपहतपाप्मत्वं जीवेऽविरुद्ध-मिति भावः ।
अल्पश्रुतिसूत्रोक्तमाह ॥ दहरस्थत्वेति ॥ अंशतोऽपीति योज्यम् । तेनार्भकौकसूत्रे व्योमवत्सर्वगतस्याप्यंशतोऽल्पस्थानगतत्वमुक्तमिति निरस्तम् ॥ तस्यांशतोऽपि सर्वगतत्वादिति भावः । सूत्रभाष्ययोः सप्तम्यन्तं दहरपदं दहरं पुण्डरीकम् इत्युक्तदहरपद्मपरम् । सूत्रे तदित्यनु-वर्तते । उत्तरेभ्य इत्युत्तरवाक्योक्तेभ्यो गुणेभ्य इत्यर्थः । उपसंहारस्थततया प्राबल्यं सूचयितु-मुत्तरग्रहणमित्यभिप्रेत्य व्याचष्टे– दहरपद्मस्थ इति ॥ य आत्मेति ॥ यद्यप्येष आत्मेति साक्षाद्धृत्पद्मस्थे श्रूयते तथाप्युत्तरत्र बहुवारं य आत्मेत्यभ्यासलिङ्गाभ्याससूचनाय य आत्मेति भाष्ये पठितमिति ज्ञेयम् । विष्णोरेवेत्येवकारव्यवच्छेद्यमाह न चाकाशस्येति ॥ अस्ति प्राप्तिरिति ॥ चेतनजातीये जीवे पापादिदर्शनादिति भावः ॥ सत्यकामत्वादीति ॥ सत्यकामः सत्यसङ्कल्प इति तदुत्तरवाक्ये सत्यकामत्वादिकथनादिति भावः ॥ कथञ्चिदिति ॥ जीवेषु मुक्त्यनन्तरं रमायां परतन्त्रेणेत्यर्थः । केचिदभिमानिद्वारे(णे)त्यर्थमाहुर् न कथञ्चिदिति । तत्काम्यकामितेत्यविनाभूतत्वेन सत्यकामत्वोक्तेरिति भावः ॥ अनेनेति ॥ क्वापि निरपेक्ष-धर्माभावकथनेनेत्यर्थः ।
तत्त्वसुबोधिनी
अत्र ‘सदायतनाः सत्प्रतिष्ठा’ इत्यादिना सद्धर्मतयोक्तसर्वाधारत्वादेः ‘उभे अस्मिन् द्यावापृथिवि’ इत्यादिना हृत्पद्मस्थे श्रवणात्तस्य विष्णोरन्यत्वे प्रागुक्तं सदप्यन्यदेव स्यादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिः । श्रुतिसाधारण्येनोभयत्र प्रसिद्धत्वमाह ॥ अत्र यो वेदेति ॥ अथानन्तरं ब्रह्मपुरे शरीरे यदिदं दहरम् अल्पं पुण्डरीकं वेश्म हृत्पद्मं वर्तते । अस्मिन् हृत्पद्मे दहरो ऽल्प आकाशोऽस्ति तस्मिन् आकाशे यदन्तस् तदन्वेष्टव्यम् । वा वेति निपातौ । तज्जिज्ञासितव्यं विचारणीयमिति गुरुणोक्ते शिष्यास् तं चेद्यदि ब्रूयुः किं तद्ब्रूयुरत आह अत्राकाशे किं विद्यते यदन्वेष्टव्यम् । तथा जिज्ञास्यतया चोच्यते इति शिष्यैरुक्ते तान्प्रति सगुरुर् ब्रूयाद् यावान्वायम् आकाशस् तावानेष आकाशः हृदये अन्तस्तिष्ठति अस्मिन्नाकाशे द्यावापृथिव्यन्तरिक्षादिकं समाहितमित्यर्थः ॥ तत् हृत्पद्मस्थत्वमिति ॥ यद्यप्यत्र तच्छब्देन दहरोऽस्मिन्नन्तराकाश इति वाक्योक्तस्य तस्मिन्यदन्तस् तदन्वेष्टव्यमिति वाक्योक्तस्य वा परामर्शः । प्रथमे तस्य सिद्धान्तेऽप्यब्रह्मनिष्ठत्वात् । द्वितीये भाष्योक्तस्याकाशशब्दस्य पूर्वपक्ष-बीजस्याभावात् । अम्बरान्तधृत्याक्षेपायोगाच्च । तथाहि दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस् तदन्वेष्टव्यमिति वाक्योक्तस्य साक्षात्परम्परासाधारणस्य हृत्पद्मस्थत्वस्य परामर्श इति नोक्तानुपपत्तेरिति भावः । सर्वाधारतया हृत्पद्मस्थत्वमिति । अत्राक्षराधिकरणोदाहृत-श्रुतिस्मृतिबलात् सर्वाधारत्वस्य विष्ण्वेकनिष्ठत्वात्तस्य चात्र श्रवणात् हृत्पद्मस्थत्वं विष्णोरेव किं न स्यादित्याशङ्कायां तस्मिन्सर्वं प्रतिष्ठितमिति समाख्याबलात्तदप्याक्षिप्यत इति प्रदर्शनार्थं सर्वाधारतयेत्युक्तमिति द्रष्टव्यम् । हृत्पद्मे दहराकाशस्थिति श्रवणादिति । अनेन भाष्ये दहरोऽस्मिन्नन्तर आकाश इत्यंशोदाहरणस्य युक्तिसूचनं प्रयोजनमिति भावः । सर्वमेतदाकाश-शब्दस्य भाष्ये प्रयोगमूलकमित्यव गन्तव्यम् । अन्यथा हृत्पद्मस्थस्येत्वक्ष्यत् ॥ तस्यान्ते सुषिरमिति ॥ प्रसिद्धाकाशस्यैवेति ॥ श्रुतौ तच्छब्देन ‘‘पद्मकोशप्रतीकाशं हृदयं’’ इत्युक्त हृत्पद्मपरामर्शादिति भावः । वाक्यान्वयानुपपत्तिम् एव दर्शयति ॥ तथा हीत्यादिना ॥ अभिप्रायसङ्गतिरिति ॥ पूर्वोक्तवाक्ययोरसङ्गतार्थप्रतिपादकत्वेनैवानन्वयः । नत्वन्यथाऽननुकूल-विभक्तिकपदत्वादिनेति भावः । नन्वाकाशपक्षेऽप्यन्वयाभावात् कथमाकाशस्यैव हृत्पद्म-स्थत्वमुच्यते इत्यत आह ॥ आकाशपक्षेऽत्वस्त्यन्वय इति । प्रागुक्ताकाशमेव विशिष्येति । द्यावापृथिव्याद्याश्रयत्वयोग्यत्वाय बाह्याकाशतुल्यतया विशिष्येत्यर्थः । आकाशाख्यो विष्णुः सर्वाधारतयेति । तथाचान्वेष्टव्ये इत्थं भावप्रदर्शनार्थमुभेऽस्मिन्नित्यादिकं प्रवृत्तमिति तदपि नासङ्गतमिति भावः । न चाकाशपक्षेऽपहतपाप्मत्वादिकमनुपपन्नमिति वाच्यम् । तस्याचेतनत्वेन पापात्यन्ताभावस्य सत्त्वात् । सत्यकामत्वे तु प्रतिहतकामादिराहित्यात् । यद्वाभिमान्यभिमन्य-मानाभिप्रायेणैतदिति न कोऽपि दोष इति भावः । इतरपरामर्शादिति सूत्रं निरस्य पूर्वपक्षमाह ॥ जीवस्य वैतदिति ॥ तत्र युक्तिमाह ॥ उत्तरत्रेति ॥ इति वाक्यस्थैतच्छब्देन प्रकृतं जीवमनूद्येति शेषः । हृत्पद्मस्थात्मतया परामर्शात् ॥ हृत्पद्मस्थस्यात्मत्वविधानादित्यर्थः ॥ जीवलिङ्गाच्च जीव एव हृत्पद्मस्थ इत्याह ॥ दहरस्थत्वलिङ्गाच्चेति ॥ चेतनत्वादस्ति प्राप्तिरिति ॥ चेतनजातीये जीवे पापादेर् दर्शनादिति भावः ॥ अनेनेति ॥ नित्य-तीर्णाशनायादिरित्यनेनेत्यर्थः ।
वाक्यार्थविवरणं
तस्मिन् यदन्तरित्यादि ॥ तस्मिन्यदन्तरिति वाक्येन उक्तो यो हृत्पद्मस्थाकाशगतो विष्णुः स सर्वाधारतया ‘उभेऽस्मिन्’ इत्यादिवाक्येनोच्यत इति योज्यम् ॥ इत्युक्ते ॥ तस्मिन् यदन्त इति वाक्येन ॥ प्रश्ने ॥ किं तदत्र विद्यत इति वाक्येन ॥ परिहारेति ॥ द्यावा-पृथिव्यादिकं तत्र विद्यत इति परिहारः शिष्ट इत्यर्थः । तर्हि यावान्वा इत्यादेरसङ्गतिरित्यत उक्तं यावान्वेत्यादिविशिष्येत्यन्तम् । अल्पस्य हृत्पद्मस्थाकाशस्य कथं द्यावापृथिव्या-द्याश्रयत्वमिति शङ्कापरिहाराय हत्पद्मस्थाकाशस्य द्यावापृथिव्याद्याश्रयत्वयोग्यत्वाय दहरोऽस्मि-न्नन्तराकाश इति प्रागुक्ताकाशमेव यावन्वा इत्यादिवाक्येन बाह्याकाशतुल्यतया विशिष्यत इत्यर्थः । विष्णुपक्षे अन्वयमाशङ्कते ॥ न च यावानित्यादिनेति ॥ तस्मिन् यदन्तरित्यादिना हृत्पद्मस्थाकाशस्थं ब्रह्मान्वेष्टव्यमित्युक्ते कीदृशं तदिति भावेन किं तदत्र विद्यत इति पृष्टे तत्स्वरूपनिरूपणाय यावान्वा इत्यादि वाक्यं प्रवृत्तम् । तथा च यावान्वा अयमासमन्तात् काशनादाकाशो भगवान् बहिर्व्याप्ततया तिष्ठति तावानेषोऽन्तर्हृदये आकाशो तिष्ठतीत्येक-महिमानं निरूप्य, उभेऽस्मिन्नित्यादिना सर्वाधारत्वरूपमहिमान्तरमुच्यते । इत्यन्वयो-पपत्तेरित्यर्थः ॥ विरोधादिति ॥ विष्णोः सर्वाधारत्वोक्ताविति शेषः ॥ अन्वयाभावदोष इति ॥ तस्मिन्यदन्त इत्यत्र जीवत्वाभिप्राये किं तत्र विद्यत इति प्रश्नस्य जीवो विद्यत इति परिहारं विना यावान्वा इत्यादेरन्वयाभाव इत्यर्थः । एवं सिद्धान्तिना शङ्किते कुतो न चेत्यतः पूर्वपक्षी सिद्धान्तिनं प्रत्याह ॥ विष्ण्विति ॥ साम्यादिति ॥ तस्मिन्नित्यत्र विष्णुत्वाभिप्राये इत्युक्तरीत्या विष्णुपक्षेऽप्यन्वयाभावः समान एवेत्यर्थः ॥ चेतनत्वादिति ॥ तज्जातीये जीवे प्राप्तिरस्तीत्याशयः ।
वाक्यार्थमञ्जरी
तस्यान्त इति ॥ तत्र तच्छब्देन पद्मकोशप्रतीकाशं हृदयमिति प्रकृतं हृत्पद्मं परामृश्यते । तथा च तस्य हृत्पद्मस्यान्ते अन्तः सूक्ष्मम् अल्पं सुषिरम् आकाशं वर्तते । तस्मिंश्चाकाशे भगवांस्तत्र च सर्वं जगत्प्रकर्षेण वर्तत इत्यर्थः ॥ अथ यदिदमिति ॥ अथेत्यारम्भे अस्मिन्ब्रह्मपुरे पुरुषदेहव्यापिपरब्रह्मशरीरे इदं बुद्धिसन्निहितं दहरम् अल्पं पुण्डरीकं पद्मरूपं वेश्म गृहं यदस्ति अस्मिन्नन्तः पद्ममध्ये दहराकाशः भूताकाशोऽस्ति ततः किमित्यत आह ॥ तस्मिन्निति ॥ तस्मिन्नाकाशे यदन्तर्वर्तते तदन्वेष्टव्यं मार्गणीयम् । न घटादिवदस्यान्वेषण-मप्रत्यक्षत्वादित्यतस्तदेव विवृणोति ॥ तद्वावेति ॥ वावेत्यवधारणे तदेवावजिज्ञासितव्यमिति गुरुणोक्ते सतीति शेषः । तङ्गुरुं प्रति शिष्याः पृच्छेयुर् यदिदमित्याद्यनुवादः यद्विजिज्ञासितव्यं तदत्र हृत्पद्मगताकाशे किं विद्यते ब्रह्म च न सम्भवति तस्य व्याप्तत्वेन दहराकाशगतत्वा-योगादिति भावः । इति ब्रूयुरिति सम्बन्धः । तदा स गुरुर् ब्रूयात् ॥ किमिति ॥ अन्तः-शरीरान्तर्हृदये हृद्ययत इति हृदयशब्दवाच्ये हृत्पद्मगते भूताकाशे आकाश आकाशाख्य-परमात्मा वर्तते । एषोऽन्तस्थः यावानयं बहिर्विद्यमान आकाशाख्यपरमात्मा तावान्वै गुणतः परिमाणतश्च तावानेव अनेन हृत्पद्मगतं ब्रह्माण्वपि व्याप्तं लोकदृष्ट्या विरुद्धयुगपदणुत्व-महत्त्वादीनां तस्मिन्समावेश्यस्य प्रमितत्वादित्युक्तं भवति । अन्यपरित्यागेन तस्यैव जिज्ञास्यत्वप्रयोजकं तत्सामर्थ्यमाह ॥ उभेत्यादिना ॥ अस्मिन्नन्तरे वोभे मुक्ते द्यावापृथिव्यौ समाहिते समाश्रिते उभयविधाग्निवायुसूर्यचन्द्रविद्युन्नक्षत्राणि च समाहितानीत्यर्थः । किमाकाशे विद्यत इति प्रश्ने आकाशगतस्यैव वक्तव्यत्वेन यावानित्यादेरसङ्गताकाशपक्षेऽप्यन्वयानुपपत्ति-रित्यत आह ॥ आकाशपक्षे त्विति ॥ हृत्पद्माकाशस्य द्यावापृथिव्याद्याश्रितत्वयोग्यत्वद्योतनाय दहरोऽस्मिन्नन्तर आकाश इति प्रागुक्ताकाशमेव यावान्वेत्यादिना बाह्याकाशतुल्यतया विशिष्येत्यर्थः ॥ परिहारे कथ्यत इति ॥ एतच्च तद्वाक्यव्याख्यावसरे एव व्यक्तम् । उत्तरत्र उत्तरखण्डे । परञ्ज्योतिरिति योऽधिकारी सम्प्रसादः सम्यग्विष्णुप्रसादवान्, एषो ऽस्माच्चरम-शरीरात्समुत्थाय निर्गतः, परं ज्योतिर् अतिप्रकाशमान् परमात्मानम् उपसम्पद्य, स्वेन रूपेणाभिनिष्पद्यते स्वस्वरूपाविर्भावं प्राप्नोति । हृत्पद्मस्थात्मनिरूपणावसरे किं ज्योतिः-प्रसङ्गेनेत्यत उक्तम् ॥ एष इति ॥ यं प्राप्य स्वस्वरूपमाप्नोति स एष प्रागुक्तपरमात्मेति होवाचेत्यर्थः । अत्र यः निष्पद्यते एष आत्मेत्यन्वयः पूर्वपक्षिणोऽभिमतः । न चेति किं तदत्र विद्यत इति प्रश्नस्य जीवे विद्यत इति परिहारं विना यावान्वायमाकाश इत्यादेरसङ्गतत्वादिति भावः ॥ ॐ दहर उत्तरेभ्यः ॐ ॥ दहरे दहरं पुण्डरीकमित्याद्युक्तदहरपद्मे स्थितं ब्रह्मैव उत्तरेभ्यः य आत्मापहतपाप्मेत्याद्युत्तरवाक्योक्तापहतपाप्मत्वादितद्धर्मेभ्य इत्यर्थः । अपहतपाप्मा दूरनिरस्तपापः, अविजिघत्सः बुभुक्षापीडारहितः, अतिशयेन प्राप्नोतीति भ्रान्तिं वारयति ॥ अतिक्रम्येति ॥ कथञ्चिद् अभिमानिद्वारा । अनेन नित्यतीर्णेत्यादिना ।
ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ
सूत्रभाष्यम्
॥ ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ १५ ॥
‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ इति (छां.उ.८-३-२) सुप्तस्य तद्गति-र्ब्रह्मशब्दश्चोच्यते । ‘सता सोम्य तदा सम्पन्नो भवति’ (छां.उ.६-८-१) इति श्रुतेस्तं हि सुप्तो गच्छति । ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोक’ (छां.उ.८-५-३) इति लिङ्गं च । तथा हि दृष्टम् । ‘अरश्च वै ण्यश्च सुधासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ’ इत्यादिना तस्यैव हि तल्लक्षणत्वेनोच्यते ॥
सत्तर्कदीपावली
गतीत्यादेरयमर्थः । द्यावापृथिव्याधारं प्रकृत्य ‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ इति श्रूयमाणत्वादप्यसौ विष्णुरेव न हि दहर आकाशः । विष्णुरेव हि सुप्तगम्यः प्रसिद्धो ‘यत्र तत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति’ इत्यादि श्रुतो ब्रह्मलोकशब्दोऽत्र दहराकाशविषयत्वे अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके इति लिङ्गदर्शनं विरुध्यते । अरण्यशब्दाभिधेयसुधासमुद्रयोर्विष्णुलोकस्थत्वेन प्रसिद्धत्वादा-गमेषु । तथा हि उक्तं पुरुषोत्तमतन्त्रे ‘अरश्च वै ण्यश्च सुधासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ’ इति ।
तत्त्वप्रदीपिका
‘इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ न विजानन्तीत्यर्थः ।
अज्ञत्वादेव सुप्तौ तु नित्यं यान्तोऽपि माधवम् ।
नैव पश्यन्त्यसौ विष्णुर्हृदयं नाम हृद्गतेः ॥ इति पर्यङ्कोपासनायाम् ।
तद्गतिर्दहरस्थं प्रति गतिः । सुप्तगम्यत्वलिङ्गाद् ब्रह्मशब्दाच्च दहरस्थो विष्णुरेव । अरण्य-नामार्णवद्वयाधिकरणलोकवत्त्वं लिङ्गं च तथा दृष्टं हि, ब्रह्मशब्देन सहैव दृष्टमित्यर्थः ।
‘परस्य ब्रह्मणो लोके श्वेतद्वीपाभिधे परे ।
अरो ण्यश्चार्णवौ दिव्यौ चिदानन्दरसात्मकौ’ इति च पर्यङ्कोपासनायाम् ॥
तत्त्वप्रकाशिका
युक्त्यन्तरेण हृत्पद्मस्थत्वं विष्णोः प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे ॥ गतीति ॥ अत्र हृत्पद्मस्थस्याहरहर्गच्छन्त्य एतमिति सुप्तप्रजाप्राप्यत्वव्यपदेशात् हृत्पद्मस्य ब्रह्मलोकत्वोक्त्या तदन्तर्गते ब्रह्मशब्दश्रवणाच्च विष्णुरेवायमित्यर्थः । ब्रह्मैव सर्वाश्रयत्वादिना लोकपदोक्तं वा । सुप्तप्राप्यत्वं कुतो विष्णुत्वनिश्चायकमित्यत आह ॥ सतेति ॥ सम्पन्नः सङ्गतः । ब्रह्मशब्दस्तु विष्ण्वेकपर इति प्रागेवोक्तम् । किं च हृत्पद्मस्थस्यारण्याख्यसुधासमुद्राश्रयलोकवत्त्वलिङ्ग-श्रवणाच्च तदन्तर्गतो विष्णुरिति सूत्रशेषं व्याचष्टे ॥ अरश्चेति ॥ हृत्पद्मस्थस्यारण्याश्रय-लोकवत्वलिङ्गश्रवणेऽपि कुतोऽयं विष्णुरिति चेत् । तस्य च विष्णुलोकैकलिङ्गत्वादिति हिशब्दाभिप्रायमाह ॥ अरश्चेति ॥ अनेनारण्याश्रयत्वं सत्यलोकलिङ्गमित्यप्यपास्तम् । क्षीराब्धिमध्ये इति तत्प्रसङ्गात् । अरण्याश्रयलोकवत्त्वं हृत्पद्मस्थस्य नोच्यत इति शङ्कापनोदाय तथेत्युक्तम् । यथाऽहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीत्येतत् हृत्पद्मस्थविषयं तथैतदपि लिङ्गं तन्निष्ठम् । ब्रह्मलोकशब्दश्रवणादेवेति भावः । अथवा ब्रह्मलोकमिति हृत्पद्मस्य विष्णुलोकत्वोक्तेस्तदन्तर्गतो विष्णुरित्युक्तम् । ब्रह्मलोकपदं कुतो विष्णुलोकवाचीत्यत आह
॥ अरश्चेति ॥ ब्रह्मलोकपदस्य विष्णुलोके अरश्चेति प्रयोगादत्रापि तत्परत्वमेव । तत्रापि तत्कुतः । अरण्याश्रयता(त्व)लिङ्गादित्यर्थः । तस्य भगवल्लोकलिङ्गत्वं कुत इत्यत आह ॥ अरश्चेति ॥
गुर्वर्थदीपिका
‘अरश्च ह वै ण्यश्च’ इति श्रुतौ ह वै इति निपातद्वयम् । अरसंज्ञो ण्यसंज्ञश्च सुधासमुद्र इति भावेनोक्तम् अरण्याख्येति ॥ अर इति ण्य इति च आख्या ययोरिति । ‘एष भूताधिपतिरेष भूतपालः’ इत्याद्यस्य महिमाऽस्मिन् हृत्पद्मस्थे उपलब्धेर् बृहदारण्यकशाखायां श्रवणादस्यापि प्रकरणस्य हृत्पद्मस्थविषयकत्वेन तत्समाख्यानात् । छन्दोगोपनिषदुक्तहृत्पद्मस्थोऽपि विष्णुरेवेत्यर्थो ज्ञेयः ॥
भावबोधः
गच्छन्त्य इति स्त्रीलिङ्गाभिप्रायमाह– सुप्तप्रजेति ॥ सर्वाश्रयत्वादिना लोकपदोक्तं वेति ॥ अनेन न पूर्ववत् हृत्पद्मप्राप्तिद्वारा तन्निष्ठभगवतः सुप्तप्राप्यत्वं किन्तु साक्षादेवेत्युक्तं भवति । अत्राऽऽदिना प्रकाशरूपत्वादिकं ग्राह्यम् । हृत्पद्मस्थस्यारण्याख्यसुधासमुद्राश्रयलोक-वत्त्वलाभाय ब्रह्मलोकशब्दश्रवणादेवेत्यादिवक्ष्यमाणाभिप्रायेण हृत्पद्मस्य ब्रह्मलोकत्वोक्त्या इति प्राचीनं व्याख्यानमित्यवधेयम् ॥ लोकवत्त्वलिङ्गश्रवणादिति ॥ सुप्तप्राप्यत्वस्यापि लिङ्गत्वे ‘अपि शब्दादिभ्योऽन्तःप्रतिष्ठानात्’ इत्यत्रेव गतिः पृथगुक्तेति भावः ॥ हिशब्दाभिप्राय-माहेति ॥ अत एव भाष्ये ‘लिङ्गञ्च तथा दृष्टम्’ इत्यत्र ‘हि’ इत्यनुक्त्वा तस्यैव ‘हि’ तल्लक्षणत्वेनोच्यत इत्यत्र ‘हि’ शब्दो योजित इति भावः ॥ एतद्हृत्पद्मस्थविषयमिति ॥ ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ इत्यस्यानन्तरं स एव आत्मा हृदि’ इति श्रवणादिति भावः ॥ ब्रह्मलोकशब्दश्रवणादेवेति ॥ हृत्पद्मस्थस्यावासत्त्वेन तल्लोके हृत्पद्मे एतं ब्रह्मलोकमिति प्रयुक्तस्य ब्रह्मलोकशब्दस्यारण्याश्रयलोकेऽपि श्रवणादित्यर्थः । अनेन सूत्रे गतिशब्दलिङ्गैरित्यनुक्त्वा लिङ्गञ्चेति किमर्थं पृथगुक्तमिति परास्तम् । गतिशब्दयोर् हृत्पद्म-निष्ठतया प्रसिद्धत्वेन लिङ्गस्योक्तरीत्या साध्यत्वेन पृथगुक्तेरिति भावः ।
पूर्वं हृत्पद्मस्थस्य ब्रह्मत्वे हेत्वन्तरोक्त्यर्थं सौत्रं लिङ्गपदमित्येवं परतया अरश्चेत्यादिभाष्यं व्याख्यातम् । अधुना ब्रह्मलोकशब्दस्य प्रसिद्ध्या सत्यलोकपरत्वशङ्कानिरासार्थं तदित्येव-म्परतया अरश्चेत्यादिभाष्यं व्याचष्टे– अथवा ब्रह्मलोकमिति । अनेन ‘लिङ्गं च’ इति सूत्रोक्तं लिङ्गं न केवलं गतिशब्दवत् हृत्पद्मस्थस्य विष्णुत्वसाधकं; किन्तु हृत्पद्मे प्रयुक्तब्रह्मलोक-पदोक्तस्य विष्णुलोकत्वसाधकत्वेन हृत्पद्मस्थस्य विष्णुत्वसाधकब्रह्मशब्दाख्यहेतुसाधक-मपीत्यतस् तत् पृथक्कृत्योक्तमिति तस्य पृथग्वचने प्रयोजनान्तरमपि सूचितं भवति ॥ अरश्चेति ॥ ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके’ इति वाक्य इत्यर्थः ॥ अत्रापीति ॥ एवं ब्रह्मलोकं न विन्दन्तीत्यत्रापीत्यर्थः ॥ तत्परत्वमिति ॥ ब्रह्मलोकपदस्य विष्णुलोक-परत्वमित्यर्थः ॥ तत्रापि तद् इति ॥ अरश्च ह वैण्यश्चेति वाक्ये बह्मलोकपदस्य विष्णुलोकपरत्वमित्यर्थः । तस्य भगवल्लोकलिङ्गत्वमिति ॥ अरण्याख्यसमुद्राश्रयत्वस्येत्यर्थः ।
भावदीपः
युक्त्यन्तरेणेति ॥ जातावेकवचनम् । भाष्यं व्याकुर्वन् सूत्रार्थमाह ॥ अत्रेति ॥ इमाः प्रजा अहरहर्गच्छन्त्य इति पूर्वोक्तप्रजापेक्षया गच्छन्त्य इति स्त्रीलिङ्गमित्युपेत्योक्तम् ॥ सुप्तप्रजेति ॥ परं ब्रह्मैव लोकनात् । ब्रह्मलोक इति प्रोक्तस्तस्य लोकोऽपि कथ्यत इति तद्भाष्योक्तेः षष्ठ्यर्थत्वमुपेत्यार्थमाह ॥ हृत्पद्मस्येति ॥ अयं सर्वाधारतया हृत्पद्मस्थ इत्यर्थः । अर्थान्तरं चाऽऽह । ब्रह्म चासौ लोकश्चेति व्युत्पत्त्येति भावः । अस्मिन्पक्षे साक्षादेव हृत्पद्मस्थस्य गतिशब्दौ । पूर्वव्याख्याने त्वार्थिकौ । तद्व्याख्यानं तूत्तरलिङ्गोक्तिसौकर्यायेति भावः । तादात्म्यं प्राप्त इति भ्रान्तिं निराह ॥ सङ्गत इति ॥ लिङ्गं चेति चार्थं वदन् भाष्यं भावार्थोक्तिपूर्वमवतारयति ॥ किं चेति ॥ लोकवत्त्वलिङ्गेति ॥ ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि’ इत्युत्तरवाक्ये अरण्याख्यसुधासमुद्राश्रयलोके प्रयुक्तब्रह्म-लोकपदस्य हृत्पद्मे प्रयोगात् हृत्पद्मस्थस्य तादृशलोकवत्वं लभ्यत इति भावः ॥ हिशब्देति ॥ पूर्वं भाष्ये लिङ्गं च तथाहि दृष्टमिति हिशब्दः केवलमनूदित एवेति भावः ॥ अनेनेति ॥ हिशब्दसूचितस्मृतिकथनेनेत्यर्थः ॥ तत्प्रसङ्गादिति ॥ विष्णुलोकप्रसङ्गादित्यर्थः । अरश्च वै ण्यश्च इति भाष्योक्तवाक्ये पूर्वत्र क्षीराब्धिमध्य इत्युपक्रम्योक्तविष्णुलोकप्रस्तावे अरश्चेति पाठादित्यर्थः ।
यद्वा वराहादिपुराणान्तरे चतुर्दशाध्यायादौ पूर्वत्र क्षीराब्धिमुक्त्वा तन्मध्ये मम लोकस्तु परितो वलयाकृतिरित्युक्त्या अरण्याख्यसुधाम्भोधिरित्याद्युक्तेरिति भावः । भाष्ये हि शब्दार्थ-मात्रविवरणात् सौत्रतथाशब्दकृत्यं स्वयमाह ॥ अरण्येति ॥ ब्रह्मलोकेति ॥ सुधासमुद्राश्रय-लोके प्रयुक्तब्रह्मलोकपदस्य हृत्पद्मे श्रवणादित्यर्थः । एतेनास्य लिङ्गस्य विष्णुनिष्ठताया अस्पष्टत्वेनोपपादनसापेक्षत्वाद् गतिशब्दलिङ्गेभ्य इत्यनुक्त्वा पृथगुक्तिरिति दर्शितम् । पूर्वं हृत्पद्मस्थस्य ब्रह्मत्वे हेत्वन्तरोक्त्यर्थं सौत्रं लिङ्गपदमित्येवम्परतया अरश्चेत्यादिभाष्यं व्याख्यातम् । अधुना ब्रह्मलोकशब्दस्य प्रसिद्धसत्यलोकपरत्वशङ्कानिरासार्थं तदित्येवम्परतया अरश्चेत्यादिभाष्यांशं व्याचष्टे ॥ अथवेति ॥ भाष्ये इतिशब्दानन्तरं हेतुसाध्ये अध्याहृत्य वा सति (यथा) विष्णुलोके ब्रह्मलोकपदप्रयोगस् तथा ब्रह्मलोकमित्यत्रापि विष्णुलोकत्वे लिङ्गमनु-मापकं दृष्टमित्यर्थमुपेत्य वा अरश्चेत्यादिवाक्यं व्याचष्टे ॥ ब्रह्मलोकेति ॥ अरश्चेति ॥ वाक्ये इत्यर्थः । अत्रापि ब्रह्मलोकं न विन्दन्तीत्यत्रापि विष्णुलोकपरत्वमेवेत्यर्थः । तथा अरश्चेत्यादि वाक्येऽपि ब्रह्मलोकशब्दस्य विष्णुलोकवाचित्वेऽपि लिङ्गं सुधासमुद्राश्रयत्वादिरूपविष्णुलोक-लिङ्गं दृष्टमित्यर्थमुपेत्य लिङ्गं चेत्यादिभाष्यमवतार्य व्याचष्टे ॥ तत्रापीति ॥ अरश्चेत्यादि-वाक्येऽपीत्यर्थः ॥ तस्येति ॥ समुद्राश्रयत्वस्येत्यर्थः । भाष्ये तस्यैव विष्णुलोकस्यैव तत् समुद्राश्रयत्वमित्यर्थः ।
अभिनवचन्द्रिका
ननु ‘ब्रह्मशब्दस्योच्यत’ इति भाष्यमनुपपन्नम् । ‘अहरहर्गच्छन्त्य’ इति वाक्ये हृत्पद्मस्य ब्रह्मलोकत्वश्रवणेऽपि हृत्पद्मस्थे ब्रह्मशब्दाश्रवणादित्यत आह ॥ हृत्पद्मस्येति ॥ यद्यपि हृत्पद्मस्थे साक्षाद्ब्रह्मशब्दो न श्रुतः, तथापि हृत्पद्मस्य ब्रह्मलोकत्वोक्त्या हृत्पद्मस्थं ब्रह्म-शब्दोक्तं भवतीत्यर्थः ॥ ब्रह्मैवेति ॥ वाशब्दात्पूर्वम्, ‘इति तदन्तर्गते ब्रह्मशब्दश्रवणा-द्विष्णुरेवायम्’ इति वाक्यं ग्राह्यम् । वाशब्दात्परम्, अर्थशब्दो ग्राह्यः । ततश्चैवं टीका-वाक्यपाठः । ‘ब्रह्मैव सर्वाऽश्रयत्वादिना लोकपदोक्तमिति तदन्तर्गते ब्रह्मशब्दश्रवणाद् विष्णुरेवायमिति वाऽर्थ’ इति । एतेनेदं वाक्यमनन्वितमिति परास्तम् । कुतोऽसाविति ॥ इति चेदित्यतः परं नेति शेषो बोध्यः ॥ अनेनेति ॥ हिशब्दसूचितश्रुत्युदाहरणपूर्वकं विष्णुलिङ्गत्व-कथनेनेत्यर्थः । नन्वेतद्वाक्यस्य विष्णुलोकपरत्वं कुत इत्यत आह ॥ क्षीराब्धिमध्य इति ॥ विष्णुलोकपरत्वमिति शेषः । लिङ्गं च ‘तथा हि दृष्टम्’ इति भाष्ये लिङ्गशब्दस्य तथा शब्दान्वयाभिधानप्रयोजनमाह ॥ अरण्याश्रयेति ॥ ‘लिङ्गं तथा’ इत्युक्त्या कथमुक्तशङ्का-परिहार इत्यतस् तदभिप्रायमाह ॥ यथा अहरहरिति ॥ ‘अहरहर्गच्छन्त्य एतम्’ इति सुप्तप्राप्यत्वं तावत् हृत्पद्मस्थस्योच्यत इत्यविवादम् । स्वापस्य हृदयस्थानत्वात् । तत्सादृश्या-दरण्याश्रयलोकवत्त्वमपि हृत्पद्मस्थस्योच्यत इत्यभ्युपेयम् । तदुभयाभिधायकवाक्ययोर् ब्रह्मलोकशब्दश्रवणेन सदृश्यत्वादिति भावः ।
वाक्यार्थमुक्तावली
युक्त्यन्तरेणेति समुदायवचनम् । इमाः प्रजा अहरहर्गच्छन्त्य इत्येतदनुसारेण सुप्त-प्रजेत्युक्तम् । सर्वाश्रयत्वादिनेत्यादिपदेन प्रकाशरूपत्वं परं ब्रह्मैव लोकनाद् ब्रह्मलोक इति प्रोक्तमिति वचनादवलोककर्तृत्वं च गृह्यते । अस्मिन्पक्षे हृत्पद्मस्थस्य गतिशब्दो साक्षादेव, पूर्वव्याख्याने त्वार्थिकौ । तद्व्याख्यानन्तु अरण्याश्रयलोकवत्वलक्षणं लिङ्गं ब्रह्मलोकं न विन्दन्तीत्येतद्वत् हृत्पद्मनिष्ठं ब्रह्मलोकशब्दश्रवणादेवेति वक्ष्यमाणोक्तिसौकर्यायेति ज्ञेयम् ॥ लोकत्वलिङ्गेति ॥ अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितोदिवीत्युत्तरवाक्ये अण्याख्यसुधासमुद्राश्रयलोके ब्रह्मलोकं न विन्दन्तीत्यत्र हृत्पद्मे प्रत्युक्तब्रह्मलोकपदश्रवणात् हृत्पद्मस्थमेव ब्रह्मसंज्ञितं, सुधासमुद्राश्रयलोकवत्वं हृत्पद्भस्थस्य लिङ्गमिति भावः । स्पष्टी-भविष्यतीति बोध्यम् ॥ क्षीराब्धिमध्ये इति ॥ पुरुषोत्तमसंहितायाम् । ‘अरश्च ह वै ण्यश्च सुधासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ । अतोऽनवद्या हरिमेव नित्यं विद्याधराणामपि सन्घसन्घा इत्याद्युक्त्वा, तत्रैव विष्णोस्तु सभा मनोज्ञा महाचतुःस्तम्भनिविष्टकोणाः ॥ स्तम्भैश्च मध्ये परिवर्जिता च चित्रा महायोजनकोटिमात्रेत्यादि चोक्त्वा क्षीराब्धिमध्ये तु शुभा-मनन्तां ध्यायेदिमां विश्वकृता कृतां ताम् । स ब्रह्मलोकोद्भववृक्षषण्ढाद् ब्रह्मादिदेवैः सततार्चितां च इत्युक्तत्वादिति भावः । अरश्चेत्यस्याव्यवहितपूर्ववाक्ये, अश्वत्थसन्धश्च पयोब्धिमध्ये, इति क्षीराब्धिप्रसङ्गादिति वा ॥ हृत्पद्मस्थविषयमिति ॥ एतद्वाक्यानन्तरं, स एष आत्मा हृदीति प्रयोगात्, हृत्पद्मस्थविषयमिति गम्यत इति भावः ॥ ब्रह्मलोकशब्देति ॥ प्रागुक्तब्रह्मलोक-शब्दस्य, सुधासमुद्राश्रयलोके श्रवणादित्यर्थः । अभिप्रायस्तु प्रागेवोक्तः ।
पूर्वं सुप्तप्राप्यत्व, ब्रह्मशब्द, सुधासमुद्राश्रयलोकत्वलिङ्गैर् हृत्पद्मस्थो विष्णुरिति व्याख्यातम् । अधुना शब्दपदेन ब्रह्मशब्दो विवक्षितः, किं तु हृत्पद्मे ब्रह्मलोकशब्दश्रवणात्तस्य विष्णुलोके रूढत्वात्तदन्तर्गतो विष्णुरिति शब्देत्यंशं व्याख्याय, ब्रह्मलोकशब्दस्य विष्णुलोके रूढत्वे, प्रयोगाख्यलिङ्गप्रदर्शकतया तथाहीत्यंशः प्रवृत्त इत्याशयेन भाष्यमवतारयति अथवेति ॥ इत्युक्तमिति ॥ शब्देत्यंशेनेत्यर्थः । अत्रापि, ब्रह्मलोकं न विन्दन्तीत्यत्रापि । प्रयोगाख्य-लिङ्गं दृष्टमिति व्याख्यातं भवति ॥ तत्रापीति ॥ अरश्चेत्यत्रापीत्यर्थः ॥ तस्येति ॥ समुद्राश्रयस्येत्यर्थः । अनेन लिङ्गमिति प्रकारान्तरेण व्याख्यातं सूत्रे तत्वित्यस्ति । शब्दपदेन ब्रह्मशब्दो विष्णुलोकवाचकब्रह्मलोकशब्दश्च गृह्यते । तत्र ब्रह्मशब्दः साक्षात् श्रुतित्वेन विष्णुत्वसाधकः ब्रह्मलोकशब्दस्तु हृत्पद्मं, विष्ण्वाश्रयं, विष्णुलोकत्वात् । न चासिद्धिः । विष्णुलोकरूढब्रह्मलोकशब्दस्य तत्र श्रवणादिति लिङ्गविद्यया विष्णुत्वसाधकः । ततश्च सुप्तस्य हृत्पद्मस्थगतिब्रह्मशब्दाभ्यां हृत्पद्मे ब्रह्मलोकशब्दाच्च दहरे विष्णुरेव । किं च यथा गतिशब्दौ हृत्पद्मनिष्ठौ तथा समुद्राश्रयलोकत्वलिङ्गं च हृत्पद्मस्थगतं दृष्टम् अतोऽपि दहरे ब्रह्म । एतल्लोकवत्वं च विष्णोःप्रसिद्धमिति हीत्युक्तम् । ब्रह्मलोकपदं कुतो विष्णुलोकवाचीत्यतश्चोक्तं तथेत्यादि । तथा तथात्वे । ब्रह्मलोकशब्दस्य विष्णुलोकवाचित्वे, अरश्चेति प्रयोगाख्यं लिङ्गं दृष्टम् । तथा च तत्रापि, अरश्चेति श्रुतावपि ब्रह्मलोकपदस्य विष्णुलोकपरत्वे अरण्याश्रयत्वं लिङ्गं दृष्टं तस्य च भगवल्लोकलिङ्गत्वं च श्रुतिसिद्धमिति हेरर्थः । गतेर्लिङ्गत्वेऽपि, अन्तः-प्रतिष्ठानादित्यत्र पाचकत्वेनान्तप्रतिष्ठानस्य कर्मत्वात्पृथगुक्तिवदत्रापि पृथुगुक्तिः । गतिशब्द-योरेकश्रुत्युक्तत्वाल्लिङ्गस्य हृत्पद्मनिष्ठताया उपपादनीयत्वेन गतिशब्दवदस्पष्टत्वाद् ब्रह्मलोक-शब्दस्य विष्णुलोके प्रयोगादिप्रदर्शकतया शब्देत्युक्तशेषत्वाच्च लिङ्गस्य पृथुगुक्तिरिति सर्वमनवद्यम् ।
तत्त्वसुबोधिनी
गच्छन्त्य इति स्त्रीलिङ्गाभिप्रायमाह ॥ सुप्तप्रजेति ॥ हृत्पद्मस्य ब्रह्मलोकत्वोक्त्येति ॥ एतं ब्रह्मलोकमिति ॥ ब्रह्मलोकत्वोक्त्येत्यर्थः । सर्वाश्रयत्वादिना लोकपदोक्तं वेति । अनेन पूर्ववत् पद्मप्राप्तिद्वारा तन्निष्ठभगवतः सुप्तप्राप्यत्वं किन्तु साक्षादेवेत्युक्तं भवति । अत्रादिपदेन प्रकाशरूपत्वादिकं ग्राह्यम् । हृत्पद्यस्थस्यारण्याख्यसुधासमुद्राश्चयलोकवत्वलाभाय ब्रह्मलोक-शब्दश्रवणादेवेत्यादिवक्ष्यमाणाभिप्रायेण हृत्पद्यस्थत्वस्य ब्रह्मलोकत्वोक्त्येति प्राचीनं व्याख्यान-मित्यवधेयम् ॥ तस्येति ॥ अरण्यालोकत्वस्येत्यर्थः ॥ हि शब्दाभिप्रायमाहेति ॥ अत एव भाष्ये लिङ्गं च तथादृष्टमित्यत्र हीत्यनुक्त्वा तस्यैव तल्लक्षणत्वेनोच्यत इत्यत्र हिशब्दो योजित इति भावः ॥ अनेनेति ॥ अरण्याश्रयलोकत्वस्य विष्णुलोकलिङ्गत्वप्रतिपादकप्रमाणोदाहरणे-नेत्यर्थः । नन्वरश्चेत्यत्रापि तत्रेत्येतत्सत्यलोकपरम् । तथा च कथं तेन प्रमाणेन ब्रह्मलोक-शब्दस्य सत्यलोकपरत्वशङ्कानिरास इत्यत आह ॥ क्षीराब्धिमध्य इति ॥ तत्प्रसङ्गात् । विष्णुप्रकरणात् । एतत्पूर्ववाक्ये क्षीराब्धिमध्य इत्युक्तत्वेन विष्णुप्रकरणात् । न तत्रेत्यस्य सत्यलोकपरत्वमिति भावः ॥ एतद्हृत्पद्मस्थविषयमिति ॥ ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विदन्तीत्यस्यानन्तरं स एष आत्मा हृदीति श्रवणादिति भावः ॥ ब्रह्मलोकशब्दश्रवणा-देवेति ॥ हृत्पद्मस्थस्याब्रह्मत्वेन तल्लोके हृत्पद्म एव तं ब्रह्मलोकमिति प्रयुक्तस्य ब्रह्मलोक-शब्दस्यारण्याश्रयलोकेऽपि श्रवणादित्यर्थः । अनेन एतत्सूत्रे गतिशब्दलिङ्गैरित्यनुक्त्वा लिङ्गं चेति लिङ्गं किमर्थं पृथगुक्तमित्यपास्तम् । गतिशब्दो यो हृत्पद्मनिष्ठतया प्रसिद्धत्वेन लिङ्गस्योक्तरीत्या साध्यत्वे पृथगुक्तेरिति भावः । पूर्वं हृत्पद्मस्थस्य विष्णुत्वे हेत्वन्तरोक्त्यर्थं सौत्रलिङ्गं पदमित्येवम्परतया अरश्चेत्यादिभाष्यं व्याख्यातम् । अधुना ब्रह्मलोकशब्दस्य प्रसिध्या सत्यलोकपरत्वशङ्कानिरासार्थं हृत्पद्मान्तर्गतो विष्णुर् हृत्पद्मस्य विष्णुलोकत्वात् । तस्य विष्णुलोकत्वं कुत इति चेत् । तत्र ब्रह्मलोकशब्दस्य प्रयुक्तत्वम् । ततः किमिति चेत् । ब्रह्मलोकपदस्य विष्णुलोकवाचकत्वात् । तदपि कुतः । विष्णुलोकलिङ्गस्यारण्याश्रयत्वस्य ब्रह्मलोकप्रयुक्तत्वात् । इत्येवम्परतया अरश्चेत्यादिभाष्यं व्याचष्टे ॥ अथवा ब्रह्मलोकमिति ॥ अनेन सूत्रे लिङ्गं चेत्युक्त लिङ्गं न केवलं गतिशब्दवत् हृत्पद्मस्थस्य विष्णुत्वसाधकं किन्तु हृत्पद्मे प्रयुक्तब्रह्मलोकपदोक्तस्य विष्णुलोकसाधकत्वेन हृत्पद्मस्थस्य विष्णुत्वसाधकब्रह्म-शब्दाख्यहेतुसाधकमपीत्यतस् तत्पृथकृत्योक्तमिति तस्य पृथग्वचने प्रयोजनान्तरमिति सूचितम् ॥ अरश्चेतीति ॥ अरश्च ह वैण्यश्चार्णवौ ब्रह्मलोक इति वाक्य इत्यर्थः ॥ तत्परत्वमिति ॥ ब्रह्मलोकपदस्य विष्णुलोकपरत्वमित्यर्थः । तत्रापीति । एतं ब्रह्मलोकं न विन्दन्तीत्यत्रापीत्यर्थः ॥ तस्येति ॥ अरण्याख्यसमुद्राश्रयत्वस्येत्यर्थः ।
वाक्यार्थमञ्जरी
गतिः सुप्तप्राप्तिर् अहरहर्गच्छन्त्य एतं ब्रह्मलोकमिति सुप्तगम्यत्वलिङ्गब्रह्मशब्दाभ्यां च हृत्पद्मस्थं ब्रह्मैव । किञ्च यथागतिशब्दौ हृत्पद्मस्थगौ तथा लिङ्गम् अरण्याख्यसुधासमुद्राश्रय-लोकवत्त्वरूपलिङ्गं च अरश्च वैण्यश्च अर्णवौ ब्रह्मलोक इति तन्निष्ठतया दृष्टं यतोऽतोऽपि हृत्पद्मस्थं ब्रह्मैवेत्यर्थः ॥ अहरह इति ॥ इमाः सर्वाः प्रजा एतं ब्रह्मलोकं विष्णुलोकं हृत्पद्मं तत्रत्यं ब्रह्मैवेति यावत् । अथवा लोकं सर्वाधारत्वेन प्रकाशवत्त्वेन लोकशब्दाभिधेयं ब्रह्मविष्णुम् अहरहः प्रतिदिनं प्राप्नुवन्त्यः सत्य एतं जानन्तीत्यर्थः । हृत्पद्मस्थे ब्रह्मशब्दं प्रकारद्वयेन घटयति ॥ हृत्पद्मस्थेत्यादिना ॥ अरश्च वैण्यश्च अर्णवौ ब्रह्मलोके तृतीयस्यामितो दिवीत्य-स्यायमर्थः । इतो मेर्वपेक्षया तृतीयायां दिवि विद्यमाने ब्रह्मलोके श्वेतद्वीपे अरश्च वैण्यश्चेत्ये-तन्नामानौ लक्ष्म्यात्मकौ ह वै प्रसिद्धार्णवौ समुद्रौ समुद्रोपमे च सरसी तिष्ठत इति । प्रसङ्गात् प्रकरणाद् इदं भाष्योदाहृतात्पूर्ववाक्ये द्रष्टव्यम् । यद्वा वराहादिपुराणान्तरे चतुर्दशाध्यायादौ पूर्वत्र क्षीराब्धिमुक्त्वा तन्मध्ये मम लोकस्तु परितोवलयाकृतिरित्युक्त्वा अरण्याख्यसुधाम्भोधि-रित्याद्युक्तेरिति भावः ॥ नोच्यत इति ॥ हृत्पद्मस्थस्याद्यखण्डे तादृशलोकवत्त्वस्य पञ्चमखण्डे अभिहितत्वेन व्यवधानादिति भावः । एवं हृत्पद्मस्थस्य ब्रह्मत्वे हेत्वन्तरोक्त्यर्थं सौत्रं लिङ्गपद-मित्येवम्परतया अरश्चेति भाष्यं व्याख्यायाधुना ब्रह्मलोकशब्दस्य प्रसिद्ध्यनुसारेण सत्यलोक-परत्वशङ्कानिरासार्थं तदित्येवम्परतया व्याचष्टे ॥ अथवेति ॥ अरश्चेतीति ॥ अरश्चेत्यादिना । अत्र एतं ब्रह्मलोकमित्यत्र ।