ॐ ईक्षतिकर्मव्यपदेशात्सः ॐ
४. सदधिकरणम्
सूत्रभाष्यम्
‘सदेव सोम्येदमग्र आसीत्’ (छां.उ.६-२-१) इत्यादिना सतः स्रष्टृत्वमुच्यते । तच्च सत् ‘बहु स्यां प्रजायेय’ (छां.उ.६-२-३) इति परिणामप्रतीतेर्न विष्णुः । स ‘ह्यविकार-स्सदा शुद्धो नित्य आत्मा सदा हरिः’ इत्यादिनाऽविकारः प्रसिद्ध इत्यतो ब्रवीति ॥
॥ ॐ ईक्षतिकर्मव्यपदेशात्सः ॐ ॥ १३ ॥
‘तदैक्षत’ इतीक्षतिकर्मव्यपदेशात्स एव विष्णुरत्रोच्यते । ‘नान्योऽतोऽस्ति द्रष्टा’ (बृ.उ.५-७-२३) ‘नान्यदतोऽस्ति द्रष्टृ’ (बृ.उ.५-८-११) इत्यादिना तस्यैव हि तल्लक्षणम् । बहुत्वं चाविकारेणैवोक्तम् । ‘अजायमानो बहुधा विजायते’ (तै.आ.३-१३-१) इति ॥
सत्तर्कदीपावली
सदेव सोम्येत्यादेरयमर्थः । ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत’ इत्यादिश्रुत्या यज् जगत्स्रष्टृ श्रूयते तत्प्रधानं भवेत् । बहुधा जायमानत्वेनोच्यमानत्वात् । बहुधा परिणामस्तु जडरूपप्रधानधर्मो न विष्णुधर्मः । ‘अविकारः शुद्ध’ इत्यादिवचनैर् विष्णोरविकारत्वेनोक्तत्वादिति चेन्मैवम् । विष्णुरेवात्र सच्छब्देनोच्यते न प्रधानम् ईक्षितृत्वेनोच्यमानत्वात् । ईक्षितृत्वं मुख्यं न विष्ण्वन्यस्य सम्भवति ‘नान्योऽतोऽस्ति द्रष्टृ’ इत्यादि श्रुतिविरोधात् । ‘अजायमानो बहुधा विजायत’ इति अपरिणामस्यैव बह्ववतार-श्रवणाद् विष्णोर्न बहुभावनश्रुतिर्विरुध्यते ॥
तत्त्वप्रदीपिका
सदेव सोम्येदमग्र आसीदित्युपक्रम्य ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ इति सतः स्रष्टृत्वमुच्यते । तच्च सत्परिणामप्रतीतेः प्रकृतिरिति प्राप्ते प्रत्याह– ‘ॐ ईक्षतिकर्मव्यपदेशात्सः ॐ’ । तत्सदैक्षत बहुभवेयं प्रजनयेयमितीक्षतिकर्मव्यपदेशात् । ‘तत्तेजोऽसृजत’ इति तत्पूर्वकर्म व्यपदेशान्नामरूपे व्याकरवाणीत्यादिना चेक्षतिपूर्वकव्याकरणादिकर्मव्यपदेशात् । स एवेश्वरस्सन् सर्वशब्दोक्तः । न तत्प्रधानमीक्षतिशक्त्या कर्तृकर्मशक्त्या च विहीनत्वात् ॥
तत्त्वप्रकाशिका
अत्र ‘सदेव सोम्य’ इत्यादिसृष्टिप्रतिपादकस्थानगतसन्नाम्नो ब्रह्मप्रधानयोः कारणत्वसाम्येन साधारणस्य भगवति समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयवाक्य-मुदाहृत्य विषयादिकं च सूचयति ॥ सदिति ॥ ‘जन्माद्यस्य यतः’ इति जगत्स्रष्टृत्वं विष्णोरुक्तं तच्छन्दोगश्रुतौ सतः प्रतीयते ‘तत्तेजो असृजत’ इत्यादिना । तस्य च विष्णोरन्यत्वे अन्यस्यैव स्रष्टृत्वप्रसङ्गादवश्यं निर्णेयत्वम् । तत्सदत्र विषयः । किं ब्रह्म उत प्रधानमिति सन्देहः । कारणत्वसाम्यं सन्देहबीजमिति भावः । सयुक्तिकं पूर्वपक्षयति ॥ तच्चेति ॥ एतत्सत् प्रधानमेव भवेन्न तु विष्णुः । ‘बहुस्यां प्रजायेय’ इति सतो बहुभावाख्यविकारित्वश्रवणा-दित्यर्थः । विकारित्वप्रतीतावपि कुतोऽयं न विष्णुरित्यत आह ॥ स हीति ॥ विष्णोः प्रमाणैरविकारित्वप्रसिद्धेस्तस्मिंस्तदसम्भवात् प्रधाने च तत्सम्भवात् तदेव सदिति तस्यैव जगत्कारणत्वमिति भावः । न वेतत्स्थाने प्रधानस्य प्रतिपाद्यत्वेऽपि तस्योपादानकारणताऽ-भ्युपगमेनानिष्टाभावाद्व्यर्थमेवेदमधिकरणं प्रतीयत इति । मैवम् । भवेदेतद्यद्येतत्प्रकरणे विकारिकारणमेवोच्येत । नैतदस्ति । ‘एकमेवाद्वितीयम्’ ‘तत्तेजोऽसृजत’ ‘सन्मूलाः सोम्येमाः सर्वाः सदायतनाः सत्प्रतिष्ठाः’ ‘सता सोम्य तदा सम्पन्नो भवति’ इत्यादिब्रह्मलक्षणानां श्रवणात् । सिद्धान्तयत् सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ सदेवेत्यादिस्थाने सच्छब्देन विष्णुरेवोच्यते । सतस्तदैक्षतेतीक्षत्याख्यव्यापारश्रवणात् । जडप्रधानस्येक्षणासम्भवादित्यर्थः । अपि च विष्ण्वन्यस्य कस्यापीक्षतिर्मुख्यतो न विद्यते किमु जडस्येत्याशयेनाऽऽह ॥ नेति ॥ एतेन ‘सोमो वै राजा गन्धर्वेष्वासीत्’ इत्यादिवद् अभिमानिविवक्षयेक्षत्युक्तिरिति परास्तम् । ननु निरवकाशविकारित्वलिङ्गेनेक्षतिव्यपदेशो गौणः किं न स्यात् । ‘सत्वात्सञ्जायते ज्ञानम्’ इत्यादेः प्रधानस्य ज्ञानोपादानत्वादित्यत आह ॥ बहुत्वं चेति ॥ बहुभावस्य विकारित्वं विनैव स्वरूपबहुत्वेन सावकाशत्वान्न तद्बलेनेक्षतेर्गौणत्वं कल्प्यमिति भावः । अजायमानोऽ-विकुर्वाणः। अतः परं ब्रह्मैवैतत्स्थानप्रतिपाद्यं सदिति तस्यैवैतत्स्रष्टृत्वम् इति सिद्धम् ॥
गुर्वर्थदीपिका
सोमो वै राजा गन्धर्वेष्वासीदित्यत्र प्रस्तुतसोमलतां ‘सोमो वै’ इत्यनूद्य तस्य राजत्वं गन्धर्वेषु भवनं चोच्यते । तदुभयं सोमलतायामसम्भावितम् । लताऽभिमानिचन्द्रविवक्षया यथा तथेत्यर्थः । यद्यपि ‘बहु स्याम्’ इति श्रुतौ बहुभावः प्रागुक्तविधया बहुरूपत्वेनापि सावकाशः । तथाऽपि प्रकर्षेण जायेयेत्युत्तरपदे विकाररूपजननश्रवणात्परिणाममादायैवेति शङ्कितुरभिप्राय-माशङ्क्य प्रजायेयेत्येतदन्तं वाक्यमुदाहृत्य ‘परिणामप्रतीतेः’ इत्याह भगवान्भाष्यकारः । स्वरूपबहुत्वेनेति वदता टीकाकृताऽपि प्राशस्त्यमेव प्रशब्दार्थः । न तु प्रकर्षेण जन्मेति सिद्धान्ते परिहारोऽपि सूचितः । भगवत्स्वरूपाणां मत्स्यकूर्मादीनामवताररूपं बहुधा जन्म प्रशस्तमेव पुण्यकरत्वात् । न प्रकर्षेण जन्म । शुक्लशोणितविकाररूपदेहाभावादिति विवेकस्य स्वरूपपदेनैव सूचनादित्यनुसन्धेयम् । नन्वेवमुभयोरपि प्रशब्दार्थत्वसम्भवात्कथं निर्णय इति चेन्न । ‘‘नान्यदतोऽस्ति द्रष्टृ’’ इत्यादिश्रुतेः । भगवतोऽन्यत्र चित्प्रकृतावपि मुख्यत ईक्षितृत्वासम्भवेन पराभिमतोपचारस्याऽप्यसम्भवान्निरवकाशसौत्रहेतुना निर्णयोपपत्तेः । अत एव गङ्गाशब्दव-दीक्षितृशब्दमात्रस्य कथञ्चिदन्यथीकरणसम्भवेऽपि गङ्गायाः प्रवहनव्यापारवदीक्षणव्यापारस्या-शब्दतया कथञ्चिदप्यन्यथीकरणासम्भवेन स्वहेतोरतिदृढत्वसम्पादनाय ‘ईक्षति कर्म’ इत्याह भगवान्सूत्रकारः । तदपि ‘तदपोऽसृजत’ इति ईक्षणव्यापारकार्यसृष्टिकर्तृत्वाख्यपुंप्रयत्नकथनात् श्रुत्यैवोक्तप्रायमेवेति न श्रुतिसूत्रयोर्वैरूप्यमिति विवेकिभिरूह्यम् ॥
भावबोधः
कारणत्वसाम्याद् विष्णोरचेतनप्रकृतेश्च ‘सदेव सोम्य’ इत्यादिसृष्टिस्थानसाधारणमिति न्यायविवरणं मूलीकृत्य सच्छब्दस्योभयत्र प्रसिद्धत्वमाह ॥ अत्र सदेव सोम्येत्यादीति ॥ स्थानगतसन्नाम्न इति ॥ तथा च ‘स्थानं लिङ्गमनुग्रहः’ इत्यनुव्याख्यानोदाहृतन्यायविवरण-विसंवादो न भाष्यस्येति भावः । अनुव्याख्यानन्यायविवरणयोः स्थानशब्दग्रहणं तु ‘सदेव सोम्येदं सदायतनाः सत्प्रतिष्ठाः’ इत्यादिसृष्टिस्थानगतबहुवाक्येषु सच्छब्दस्य श्रुतत्वा-त्तत्समन्वयोक्त्या तद्युक्तवाक्यानां विष्णुपरत्वसाधने स्थानसमन्वयोऽप्युक्तो भवतीति ज्ञापयितुं कृतमिति भावः ॥ कारणत्वसाम्येनेति ॥ अत्र ‘अग्र आसीत्’ इति प्रतीतं महदादिसकलकार्यं प्रति पूर्ववृत्तित्वरूपं कारणत्वमुभयत्र प्रसिद्धिद्योतकत्वेन तत एव सन्देहबीजत्वेन च विवक्षितम्; न तु ‘तत्तेजोऽसृजत’ इत्यादिनोक्तं तस्येक्षणादिना सह प्रतीतस्य साधारण्यहेतुत्वाद्यनुपपत्तेः । टीकायाम्, तत्तेजोऽसृजतेत्यादिनेति तु भाष्योक्तस्रष्टृत्वाक्षेपसमर्थनार्थमुक्तम् । अत एव, सदेव सोम्येति वाक्यमुदाहृतम् । कारणत्वमात्रं सन्देहबीजमिति । वक्ष्यति च श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु सदेवेत्युक्तसतो विष्णुत्वं न सम्भवति । अस्य सतो बहु स्यामिति परिणामरूपजडधर्मोक्तेः । तस्य च ‘अन्यभावव्यावृत्तेश्च’ इति विष्णोरन्यवस्तु-स्वभावव्यावृत्तेरुक्तत्वेन विष्णावपीति पूर्वाधिकरणसिद्धान्तन्यायमुपजीव्य पूर्वपक्षोत्थानादिति ज्ञातव्यम् ॥ किं ब्रह्मेति ॥ अत्र सदेव सोम्येत्युक्तं सत् किं जडप्रकृतिः किं वा ब्रह्मेति चिन्ता । तदर्थं बहुस्यामित्युक्तबहुभावस्य विकारात्मकत्वेन विष्णावनवकाशतया तदैक्षतेत्युक्त-मीक्षणं परिणामिजडप्रकृतौ गौणमङ्गीकार्यम् । किं वा ईक्षणस्य मुख्यत्वमङ्गीकृत्य मुख्येक्षण-कर्तृत्वस्य जडप्रकृतावनवकाशेन बहुस्यामिति श्रुतेः स्वरूपबहुत्वार्थकत्वेन सावकाशत्व-मङ्गीकार्यमिति । तदर्थमस्मिन् प्रकरणे तत्कल्पकानि सतो विष्णुत्वज्ञापकानि न सन्त्युत सर्वाधारत्वसुप्तप्राप्यत्वादीनि सन्तीति । भाष्ये पूर्वपक्षे प्रधानग्रहणज्ञापकाभावेऽपि उदाहृत-न्यायविवरणगताचेतनप्रकृतेश्चैतन्मूलीकृत्य पूर्वपक्षमाह– एतत्सत्प्रधानमेवेति ॥ ‘अविकारः सदा’ इत्युदाहरिष्यमाणप्रमाणानुरोधेन भाष्यगतपरिणामपदं व्याचष्टे– बहुभावाख्यविकारि-त्वेति ॥ तस्मिंस्तदसम्भवादिति ॥ अनेन बहुस्यां प्रजायेयेत्यन्यस्यान्यभावादृष्टिरिति न्यायविवरणमुक्ततात्पर्यकं भवति ।
तदक्षरार्थस्तु– बहुस्यां प्रजायेयेत्युक्ततेज आदिभवनं चेतनत्वेन ततो भिन्नब्रह्मणो न सम्भवति । चेतनस्य जडादत्यन्तभिन्नस्य जडात्मना भवनस्य यतो देवदत्तघटादावन्यत्रादृष्टिरिति विकारिकारणमेवेति ‘तदपोऽसृजत’ इत्यादौ तेजःप्रभृतिभूतानामबाधिकं प्रत्युपादानस्यापि विवक्षितत्वादिति भावः ॥ ब्रह्मणो लक्षणश्रवणादिति ॥ समाधिकराहित्यस्रष्टृत्वादीनामप्ये-तद्वाक्योक्तत्वात्तस्य प्रधानपरत्वे उक्तब्रह्मलक्षणानामतिव्याप्तिप्रसङ्गेन सिद्धान्तिनोऽनिष्टं स्यादिति तत्समन्वयो वक्तव्य इति भावः । अनेन स्रष्टृत्वग्रहणमुपलक्षणत्वेनेत्युक्तं भवति ईक्षत्याख्यव्यापारश्रवणादिति अनेन सूत्रे कर्मपदं क्रियापदमित्युक्तं भवति । जडप्रधानस्य ईक्षणासम्भवादित्यर्थ इति । अनेनाचेतनस्येक्षणादृष्टिरिति न्यायविवरणमुक्ताभिप्रायं भवति ॥ एतेनेति ॥ विष्णुव्यतिरिक्तचेतनस्य मुख्यतो द्रष्टृत्वाभावप्रतिपादकश्रुत्युदाहरणेनेत्यर्थः ॥ सोमो वै राजेति ॥ ‘यथा सोमो वै राजा गन्धर्वेष्यासीत्तं देवाश्च ऋषयश्चाभ्यध्यायन्’ इत्यादौ सोमलताभिमानिचेतनविवक्षया गन्धर्वेष्वासीदिति व्यपदेशस् तथात्रापि प्रधानाभिमानिचेतन-विवक्षया ईक्षितृत्वव्यपदेश इत्यर्थः ॥ बहुभावस्य विकारित्वं विनैवेति ॥ अनेन बहुभावश्रुतिस्त्वन्यभावं विना तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यत इति न्यायविवरण-मप्युक्तभावं भवति । तत्तन्नियामकतयैव स्वरूपबहुत्वस्य विवक्षितत्वात् ॥ अविकुर्वाण इति ॥ तेन न तदुदाहरणस्य प्रकृतासङ्गतिरिति भावः ॥
भावदीपः
अत्र न्यायविवरणे कारणत्वसाम्याद्विष्णोरचेतनप्रकृतेश्च ‘सदेव सोम्य’ इत्यादिसृष्टिस्थानं साधारणमिति अनेकप्रकरणजातरूपस्थानं समन्वेतव्यमुक्तम् । तच्च न साक्षात् । किन्तु तत्स्थसन्नामसमन्वये तद्युक्तानेकप्रकरणसमन्वयो भवतीति सच्छब्दसमन्वयद्वारेत्यभिप्रेत्य भाष्ये तच्च सदिति सन्नाम समन्वेतव्यं प्रदर्शितमिति भावेनान्यत्रोक्तमेव साधारण्यं व्यनक्ति ॥ अत्र सदेवेति ॥ सृष्टीत्युपलक्षणम् । सदेव सोम्य । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः । सता सोम्य तदा सम्पन्नो भवति सति सम्पद्य न विदुः । सत आगत्य न विदुरित्यादिसृष्टिसुप्तिसर्वाश्रयत्वादिप्रतिपादकानेकप्रकरणजातरूपस्थानगतस्येत्यर्थः ॥ कारण-त्वेति ॥ सदेवेति वाक्ये विश्वस्मात् पूर्वं सत्वोक्त्या प्रतीतकारणत्वसाम्येनेति वा तत्तेजोऽ-सृजतेति वाक्यप्रतीतकारणत्वसाम्येनेति वाऽर्थः । अधिकं चन्द्रिकायाम् । सङ्गतिपरत्वेन तावद्भाष्यं व्याकुर्वन् सतः स्रष्टृत्वमुच्यत इति स्रष्टृपदसूचितमाक्षेप्यं दर्शयति ॥ जन्मादीति ॥ अत्र भाष्यटीकयोः स्रष्टृत्वशब्दः कारणत्वमात्रपरः स च गुणान्तरोपलक्षक इत्यग्रे व्यक्ती-भविष्यति । उच्यत इत्यस्यार्थः ॥ प्रतीयत इति ॥ सदेवेत्यादि तु वाक्यप्रतीकं सन्नामप्रदर्शनार्थमिति दर्शयन् व्याचष्टे ॥ छान्दोगश्रुतौ सत इति ॥ षष्ठेऽध्याय इत्यर्थः । ‘इत्यादिनेत्यनेनोपात्तं वाक्यमाह ॥ तत्तेज इति ॥ एतेन जन्मादिनयोक्तं स्रष्टृत्वमित्यादिना सत उच्यत इति भाष्ययोजना दर्शिता । तच्च सदित्यादिभाष्यतात्पर्यमाह ॥ तस्य चेति ॥ विष्णावयुक्तविकाररूपपरिणामोक्तेर्विष्णोरन्यत्व इत्यर्थः । स्रष्टृत्वमित्युक्तितात्पर्यमाह ॥ अन्यस्यैवेति ॥ इति सङ्गतिसम्भवान्निर्णेयत्वम् । सत इत्यनुषङ्गः । भाष्ये न विष्णु-रित्युक्तावपि न्यायविवरणोक्तिमनुरुध्य उत प्रधानमित्युक्तम् । तदैक्षतेतीक्षणश्रवणेऽप्यदृष्टं द्रष्ट्रित्यक्षरवाक्य इव प्रथमत एवाप्रतीतेरस्ति सन्देहनिविष्टत्वं प्रधानस्येति पूर्वमेवोक्तमिति भावः । पूर्वपक्षादिपरत्वेनापि व्याख्यातुमवतारयति ॥ सयुक्तिकमिति ॥ तच्च सन्न विष्णुरिति प्रतिज्ञाभाष्यं फलितार्थपरं मत्वा व्याख्याति ॥ प्रधानमेवेति ॥ हेत्वंशार्थमाह ॥ बहु स्यामिति ॥ बहुभावेति ॥ तेजःप्रभृत्यात्मना । न तु स्वरूपबहुभावेनेत्यर्थः । इत्यादिनेत्यस्यार्थः ॥ प्रमाणैरिति ॥ भाष्ये हिर्हेताविति भावः । अस्त्वविकारित्वं विष्णोः परिणामोऽप्यस्त्वित्यतः बहु स्यां प्रजायेयेत्यन्यस्यान्यभावादृष्टिरिति न्यायविवरणोक्तं हृदि कृत्वाऽऽह ॥ तस्मिन्निति ॥ निर्विकारे हरौ । तस्य तेजःप्रभृत्यात्मना बहुभवनरूपविकारस्य क्वाप्येवमदृष्ट्याऽसम्भवादित्यर्थः ॥ प्रधाने चेति ॥ तस्य विकारित्वादिति भावः ॥ जगत्कारणत्वमिति ॥ एतेन भाष्ये स्रष्टृत्वपदम् अनन्याधीनकारणत्वमात्रपरमिति दर्शितम् । ईक्षणं त्वभिमानिद्वारा वा ज्ञान-हेतुत्वाद्वा युक्तमिति भावः ॥ नन्विति ॥ उक्तदिशाऽनन्याधीनकारणत्वरूपब्रह्मलक्षणाक्षेपा-सम्भवेऽपि गुणान्तराक्षेपप्रदर्शनायेयमाशङ्केति ज्ञेयम् । प्रधानस्य सत्पदवाच्यत्वेऽपीत्येतावति वाच्ये स्थान इत्युक्तिर्वक्ष्यमाणानेकप्रकरणगतबहुगुणाक्षेपोक्तिसौकर्याय । उच्यते । प्रतीयेत ।
यद्वा तेजःप्रभृतेरग्रे त्रिवृत्करणोक्त्योपादानभूतत्वमप्यस्तीत्येवमुक्तिः ॥ एकमेवेति ॥ तेन समाभ्यधिकराहित्योक्त्या सदेवेत्युक्तकारणत्वस्यानन्याधीनतोक्तेः कारणत्वं ब्रह्मलक्षणमिति वा समाभ्यधिकराहित्यादिकं पृथगेकं लक्षणमिति वा एतदुक्तिः । एतच्च जन्मादिसूत्रेऽर्थात्सिद्धम् । ‘सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृत्तिः । बन्धमोक्षौ च कथ्यन्ते तस्योत्कर्षप्रसिद्धय’’ इत्युक्तेः ॥ सन्मूला इति ॥ प्रजाः प्रतिनिमित्तत्वस्थितिहेतुत्वसुप्तगम्यत्वादीनां श्रवणा-त्तेषामतिव्याप्तिः स्यादिति भावः । प्रतिष्ठापकत्वं च मुक्तिदत्वम् । तत्प्रतिष्ठाश्च मोक्षगा इति तद्भाष्योक्तेः ॥ सता सोम्येति ॥ लयकर्तृत्वं च लब्धम् । प्रजास्तद्वत् प्रजालय इति तद्भाष्योक्तेरेवेति ध्येयम् । किञ्चित् शेषोक्त्या प्रतिज्ञाहेतूक्तिपरं भाष्यं व्याचष्टे ॥ सदेवेति ॥ अत्रेत्यस्यार्थः स्थान इति । कर्मशब्दार्थो व्यापारेति । तत्कृत्यं चन्द्रिकायां व्यक्तम् । तत्वप्रदीपे तु न कर्तृत्वं न कर्माणीति गीतावाक्य इव कर्मेति सृष्टिरुच्यते । ईक्षतिसृष्ट्योरुपदेशादित्यर्थ इत्युक्तम् । विष्णुरेवेत्युक्त्या न प्रधानमिति दर्शितम् । तत्र हेत्वाकाङ्क्षायामचेतनस्येक्षणा-दृष्टिरित्यन्यत्रोक्तमीक्षणस्य निरवकाशत्वमाह ॥ जडेति ॥ तत्तेज ऐक्षतेत्युक्तं तेजःप्रभृत्यपि चेतनमेवेत्यभिमानिनये वक्ष्यत इति भावः । श्रुत्यर्थं वदन्नेवावतारयति ॥ अपि च विष्ण्विति ॥ एतेनेति ॥ श्रुतौ विष्ण्वन्यस्य मुख्येक्षणनिषेधेनेत्यर्थः । यथा सोमो वै राजा गन्धर्वेष्वासीत्तं देवा ऋषयश्चाभ्यध्यायन्नित्यादौ सोमलताभिमानिचेतनविवक्षया गन्धर्वेष्वासीदित्युक्ति-स्तथेत्यर्थः । भाष्ये बहुत्वं चाविकारेणोक्तं श्रुतावित्युक्तम् । तावता कथमुक्तशङ्काव्युदास इत्यतो बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थतयैव युज्यत इत्यन्यत्रोक्तमत्र संयोज्य भाष्यभावमाह ॥ बहुभावस्येति ॥ स्वरूपेति ॥ अत्र श्रुतौ स्वरूपबहुभवनमेवोच्यते न तु तेजःप्रभृत्यात्मना बहुभवनम् । बहुस्यामित्युक्त्वा ‘तत्तेजोऽसृजतेत्युक्तिस्तु सृष्ट्वा जगदिदं सर्वं नियामकतयाऽस्य तु । बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत्’ इति तैत्तिरीयभाष्योक्त-दिशा तत्तन्नियामकतया स्वरूपबहुभावसङ्कल्पानन्तरं नियम्यं तेजः प्रभृतिसृष्टवानित्युपपन्नेति । तदुक्तं चतुर्थपादीयानुव्याख्याने । ‘बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते । तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगदिति’’ । न्यायविवरणे चोक्तं बहुभावश्रुतिस्त्वित्यादि । विवृतमेत-च्चन्द्रिकायाम् । ‘बहु स्यामिति सङ्कल्प्य तेजः प्रभृतिसर्जनम् । गुरुः स्यामिति सङ्कल्प्य शिष्य-सम्पादनादिवत्’ इति । सूत्रार्थं विवृण्वन्नेव फलोक्त्योपसंहरति ॥ अत इति ॥ निरवकाश-निर्बाधमुख्येक्षणरूपसाधकभावादित्यर्थः । सदिति सूत्रे शेषोक्तिः । सदिति नपुंसकानुरोधाद् ब्रह्मेत्युक्तिः । मम योनिर्महद्ब्रह्म’ इति प्रधानेऽपि ब्रह्मशब्दोऽस्तीति परं ब्रह्मैवेत्युक्तम् । अयं च तत्त्वित्यनुवृत्ततुशब्दस्य स इत्यनेनान्वयेन लब्धोऽर्थः । इतिशब्दो हेत्वर्थः । तस्यैवेति पूर्वाक्षेपकभाष्यस्य विपर्ययेणोपसंहारः ॥ स्रष्टृत्वमिति ॥ अनन्याधीनकारणत्वादिकम् अत्र श्रुतं प्रागुक्तं चेत्यर्थः । यद्वा ईक्षणेन सच्छब्दितस्य चेतनत्वे निश्चिते तत्तेजोऽसृजतेत्यादेः सृष्टि-परत्वस्यैव सम्भवेन कारणत्वमात्रपरत्वस्याकल्प्यत्वात् स्रष्टृत्वमित्युक्तम् । यत्तु कश्चिदाह । व्यापारपरस्य कर्मपदस्य धातुनिर्देशरूपे क्षतिपदेन सामानाधिकरण्यायोगः कर्मपदवैयर्थ्यम् । स इत्यस्य साध्यनिर्देशरूपत्वे पक्षनिर्देशाभावेन पूर्वोत्तराधिकरणवैरूप्यं चेत्यादि । तन्न । धातुनिर्देशेन तदर्थस्येक्षणस्यात्र लक्ष्यत्वात् । अत एव टीकायां प्रधानस्येक्षणासम्भवा-दित्युक्तम् । न्यायविवरणे चाचेतनस्येक्षणादृष्टिरिति । तथा चेक्षणाख्यव्यापारेत्यर्थोपपत्तेः । कर्मपदसार्थक्यस्य पक्षविशेषानुक्तिकृत्यस्य च चन्द्रिकायां व्यक्तत्वात् ॥
अभिनवचन्द्रिका
ईक्षतिरिति धातुनिर्देशः ॥ तेन तदर्थो लक्ष्यते । ततश्च ईक्षत्याख्यव्यापारश्रवणात्, सः पुंस्त्ववान् विष्णुः सच्छब्दार्थ इति सूत्रार्थः । ननु स इति तच्छब्दग्रहणं शक्यमकर्तुम्, ‘अक्षर-मम्बरान्तधृतेः’ इत्यादाविव ‘तत्तु समन्वयात्’ इत्यतोऽनुवृत्ततच्छब्दान्वयसम्भवात् । अस्तु वा तच्छब्दग्रहणं कथंचित्सार्थकं, तथापि ‘ईक्षतिकर्मव्यपदेशात्’ तदिति वक्तव्यम् । ब्रह्मेति नपुंसकशब्देन ब्रह्मणः प्रकृतत्वात् । नपुंसकशब्देन प्रकृतस्य पुल्लिङ्गेन परामर्शे कारणाभावादिति चेत्, उच्यते । तदित्यनुवर्त्तमानतच्छब्देनोक्ते ब्रह्मणि पुस्त्वं सूचयितुं स इति पुल्लिङ्गपदम् । पुंस्त्वसूचनं च माभूद् ईक्षतिकर्मव्यपदेशाज् जडप्रकृतेर् जगत्कारणत्वे न सन्नामार्थत्वं, चित्प्रकृतेस्तु स्यात्, ‘तदैक्षत’ इत्युक्तेक्षणस्य तत्र सम्भवादिति शङ्कापरिहाराय पुंस्त्वोक्त्या कथं शङ्कापरिहार इति चेत्, इत्थम् – ईक्षणव्यपदेशात् । अत्रोक्तं जगत्कारणत्वं नोपादानत्वं किन्तु जगन्निमित्तत्वमेव । तच्च न केवलायाश् चित्प्रकृतेः सम्भवति । केवलाभ्यः स्त्रीभ्यः पुत्रजन्मानुपलब्धेः । न चेश्वरपक्षेऽप्ययं दोषः केवलेभ्यो भरद्वाजादिभ्यो द्रोणद्रुपदाद्युत्पत्ति-दर्शनादिति ॥ छन्दोगश्रुतौ सतः प्रतीयत इति ॥ जन्माधिकरणैतदधिकरणप्रतिपाद्ययोर् जगत्त्कारणत्वेन प्रतीयमानत्वमेव सङ्गतिरिति भावः ॥ बहुभावाख्येति ॥ ननु नेदं विकारित्वश्रवणम्, अपि तु बहुस्यामिति बहुभावालोचनश्रवणम् । ‘न हि तदैक्षत अहं गच्छेयम्’ इति श्रवणं गमनश्रवणम् । येनेदं बहुभावश्रवणं स्यात् । ततश्चाऽसिद्धो हेतुरिति चेत्, सत्यम् बहुस्यामित्याकारकमीक्षणं श्रूयते, तथापि बहुस्यामित्याकारकज्ञानस्य प्रमात्वेन तद्विषयीभूतं विकारित्वमपि सिध्यत्येवेति भावेन विकारित्वश्रवणादित्युक्तम् ॥ तस्मिन्निति ॥ विष्णौ विकारित्वासम्भवात्, प्रधाने च तत्सम्भवात्, प्रधानमेव सच्छब्दवाच्यमित्यर्थः । ननु यथा विष्णौ विकारित्वमसम्भवि तथेक्षणं प्रधानेऽसम्भवि इति चेत्, न सर्वोपादानस्य प्रधानस्य ईक्षणं प्रत्युपादानत्वेनोपादानस्योपादेयाश्रितत्वसम्भवेन तत्रेक्षणस्य सुलभत्वात् । शिष्यः शङ्कते ॥ नन्विति ॥ भवेदेतदिति ॥ यद्यस्मिन्प्रकरणे कारणत्वमेवोच्येत तदा प्रधानपरत्वे बाधका-भावात् तन्निरासकैतदधिकरणवैयर्थ्यं स्यात् । न चैतदस्ति । अपि तु ब्रह्मधर्माः श्रूयते । ततश्च अस्य स्थानस्य ब्रह्मपरत्वसमर्थनाभावे ब्रह्मधर्माणामन्यगामित्वबुद्धिः स्यादिति तन्निरासायेद-मधिकरणं सार्थकमिति भावः । ननु अनेकब्रह्मधर्मश्रवणात् पूर्वपक्षानुदय इति चेत्, न तज्ज्ञान-विधुरस्येह पूर्वपक्षित्वात् । ननु ईक्षतिकर्मव्यपदेशाद् विष्णुत्वसाधनमयुक्तं प्रधानस्य आदौ ‘बहुस्याम्’ इति ईक्षणात्मना परिणामः, तदनन्तरं तेजःप्रभृतिकार्यात्मना परिणाम’ इति पूर्वपक्षिणाऽङ्गीकृतत्वेनेक्षणाऽनुपपत्तेरभावादित्यतः सूत्रभाष्ययोः ‘ईक्षितिव्यपदेशात्’ इति वक्तव्ये ईक्षतिकर्मव्यपदेशादित्युक्तं तदभिप्रायमाह ॥ ईक्षित्याख्यव्यापारश्रवणादिति ॥ इदमुक्तं भवति ॥ यदीक्षणं तेजःप्रभृतिकार्यमिव कार्यतया उच्यते न चैवं, किं नाम कार्यजनने व्यापारतया उच्यते । ततश्च प्रेक्षापूर्वकारित्वमनेनोक्तं भवति । तस्य च जडे प्रधानेऽ-सम्भवाद्विष्णुत्वसिद्धिरिति । ननु नात्रेक्षणं कर्तृव्यापारतयोच्यते । येनानेन विष्णुत्वं सिद्धं स्यात् किं नाम कार्यतयोच्यते । अन्यथा निरवकाशविकारित्वलिङ्गविरोध इत्याशङ्कते ॥ नन्विति ॥
पूर्वपक्षस्तु – एतत्सत् प्रधानमेव भवेत् । न तु विष्णुः । यतो बहुभावादिविकारित्व-श्रवणात् । न च परमात्मनो विकारित्वं सम्भवति । ‘अविकारः सदा शुद्ध’ इत्यादिना तस्याऽविकारित्वात् । ततश्च प्रधानमेव सदिति तस्यैव जगत्कर्तृत्वमिति ।
सिद्धान्तस्तु– ‘तदैक्षैत’ इति ईक्षत्याख्यव्यापारश्रवणात् । तेन प्रेक्षापूर्वकारित्वलाभाद् विष्णुरेव सत् । प्रधाने ईक्षणस्य कथमप्ययोगात् । मा भूत्तर्हि अचेतना प्रकृतिः किं न स्यादिति चेत्, स्त्रीत्वेन स्वातत्र्येण सर्जकत्वायोगात् । न च बहुभावाख्यप्रधानलिङ्गश्रवणात् स न विष्णुरिति वाच्यम् । ‘अजायमानो बहुधा विजायत’ इत्यविकारस्यापि बहुभावश्रवणेन तस्य सावकाशत्वात् । विष्णुरेव तत्स्थानोक्तं सदिति तस्यैव स्त्रष्टृत्वमिति सिद्धम् ।
वाक्यार्थमुक्तावली
स्थानगतसन्नाम्न इति ॥ तथा च स्थानं लिङ्गमनुग्रहः सृष्टिस्थानं साधारणमित्यनु-व्याख्यानन्यायविवरणविरोधो भाष्यस्येति निरस्तम् । तत्र स्थानपदेन तद्गतसन्नाम्नो विवक्षित-त्वात् । अत एव सङ्ग्रहभाष्ये ‘सोऽक्षरः सन् हृदब्जगः’ इति सन्नामगृहीतम् । अनुव्याख्याने स्थानग्रहणं तु सदेव सौम्येदं, सदायतनाः सत्प्रतिष्ठा इत्यादि सृष्टिस्थानस्थबहुवाक्येषु श्रुतत्वात्समन्वयोक्त्या तद्युक्तवाक्यानां विष्णुपरत्वसाधने स्थानसमन्वयोऽप्युक्तो भवतीति फलितविवक्षया कृतम् । इदमग्र आसीत्’ इति सकलकार्यं प्रति, प्रतीतपूर्ववृत्तित्वसाम्यं नेत्यर्थः । तदैक्षतेति प्रकृतौ विरुद्धमिति चेद् बहुस्यामिति विष्णोरपि विरुद्धमिति साम्यमेवेति । स्पष्टमेतन्न्यायविवरणटीकायाम् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितसङ्गतिस्तु सदेवेत्युक्तसतो विष्णुत्वे बहुस्यामित्युक्तबहुभावो युक्तः । अन्यभावव्यावृत्तेरुक्तत्वेन परिणामरूपजडधर्मा-योगादिति पूर्वाधिकरणसिद्धान्तन्यायमुपजीव्य पूर्वपक्षोत्थानादिति ज्ञेयम् ।
यद्वा तदैक्षतेत्युक्तस्वातन्त्रेणेक्षिताऽन्यः स्यात् । ‘तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्र, नान्यदतोऽस्ति द्रष्ट्र’ इत्युक्तस्वातन्त्र्येण द्रष्ट्रक्षरं चान्यत्प्रसज्येतेत्याक्षेपेणोत्थानादाक्षेपिकी सङ्गतिरिति ज्ञेयम् । अत एव भाष्ये नान्योऽतोऽस्ति द्रष्टा, नान्यदतोऽस्ति द्रष्ट्रित्यादेस् तस्यैव तल्लक्षणमिति वक्ष्यतीत्यतिचतुरस्रम् ॥ तत्तेजोऽसृजदित्यादिनेति ॥ यद्यपि भाष्ये सदेव सौम्येदमग्र आसीत्’ इत्यादिनेत्युक्तं तथापि तत्र कारणत्वमात्रप्रतीतेः स्रष्ट्रत्वाक्षेपायोगादादि-पदगृहीतस्य तदैक्षत तत्तेजोऽसृजतेत्यस्यैव ग्रहणं कृतम् । भाष्ये मुखतस्तदुदाहरणं तु विषयप्रदर्शनार्थम् ॥ किं ब्रह्मेति ॥ किमत्रोक्तं, सद्बहुभावश्रवणात्प्रधानम् । उत ईक्षणश्रवणाद् ब्रह्मेति चिन्ता । तदर्थं निरवकाशबहुभावबलादीक्षतिव्यपदेशस्योपादाने कर्तृत्वोपचारेणाभिमानि विवक्षया वा सावकाशत्वम्, उत मुख्यार्थेक्षणकर्तृत्वोक्तिबलाद्बहुभावस्य सावकाशत्वमिति । कारणत्वमात्रमिति ॥ अग्र आसीदिति प्रतीतपूर्ववृत्तित्वरूपकारणत्वमात्रम् । न तु तत्तेजोऽसृजतेत्युक्तानन्याधीनकारणत्वम् । तस्येक्षणादिना सह प्रतीतस्य साधारण्यहेतु-त्वानुपपत्तेः । तस्यैव ब्रह्मलक्षणस्याक्षेप्यत्वाच्च ॥ प्रधानमेवेति ॥ उभयत्र प्रसिद्धशब्दस्य पूर्वपक्षिणा भगवति प्रसिद्धिमात्रं त्याजनीयम्, न तु प्रधाने सिद्धिः सम्पादनीया सिद्धत्वात् । सिद्धान्तिनापि अन्यत्र प्रसिद्धिमात्रं त्याजनीयं, न तु भगवति प्रसिद्धिः सम्पादनीया, सिद्धत्वादित्याशयेन भाष्ये तच्च सन्न विष्णुरित्येवोक्तावपि वस्तुतः प्रधानस्य पूर्वपक्षकोटित्वाद-चेतनप्रकृतेश्चेति न्यायविवरणानुरोधेन प्रधानमेवेति संयोज्यैवकारव्यवच्छेद्यप्रदर्शनपरतया भाष्यं योजितं द्रष्टव्यम् ॥ तस्यैव जगत्कारणत्वमिति ॥ एतेन भाष्ये स्रष्ट्रत्वपदमनन्याधीन-कारणत्वमात्रपरमित्युक्तं भवति । सतः स्रष्ट्रत्वमुच्यत इति स्रष्टपदस्वारस्यं वक्तुं तदुपलक्षणं मत्वा स्थानसमन्वयप्रतिपादनेन जन्मादिसूत्रोक्तानां सर्वेषामपि लक्षणानामतिव्याप्तिपरिहारः क्रियतेऽतः स्थानसमन्वयोऽर्थवानेवेति च वक्तुमाशङ्कते ॥ नन्वेतत्स्थान इति ॥ विकारि-कारणमेवेति तदपोऽसृजतेत्यादौ तेजःप्रभृतिभूतानाम् अबादिकं प्रत्युपादनस्यापि विवक्षितत्वादिति भावः ॥ श्रवणादिति ॥ तथाचातिव्याप्तिप्रसङ्गात्तन्निरासाय स्थान-समन्वयोऽर्थवानेवेति भावः । सूत्रे स्थानसमन्वयद्योतनाय समन्वेतव्यशब्दानुपादानम् । अत एव भाष्येऽत्रेत्युक्तम् । समन्वयसूत्रात्तुरन्वेति । तदित्यनुवृत्तेः सर्वत्रानुषङ्गस्मरणाय एको नारायण आसीत्समुनिर्भूत्वा समचिन्तयदित्यादौ यः कारणतया समाख्यातः स एवेति समाख्या-प्रदर्शनाय वा पुनः स इति निर्देशः । अत भाष्ये स एव विष्णुरित्युक्तम् । ईक्षतिरित्यस्य धातुनिर्देशत्वेऽपि तदर्थभूतमीक्षणमिह लक्ष्यते । ईक्षतिव्यपदेशादित्युक्तेन प्रधानव्यावृत्तिर् उपादानकारणे कर्तृत्वोपचारेण तदैक्षतेति व्यपदेशसम्भवादित्यतः कर्मपदम् । तच्चावान्तरव्यापारं (परं) तथा च नेक्षणं तेज आदिकमिव प्रधानकार्यतयोच्यते । किं नाम तेजआदिकार्यजनकत्वे पूर्वभाव्यवान्तरव्यापारतयोच्यते । न च ज्ञानमवान्तरव्यापारीकृत्य स्रष्ट्रत्वमचेतनस्योपपद्यत इति सूत्रार्थं मनसि निधाय सतः प्रतीयत इत्यादिभाष्यं चानुसृत्य भाष्यार्थमाह ॥ सदेवेत्यादिस्थान इति ॥ सूत्रार्थस्तु स्पष्टः । अपि चेति युक्त्यन्तरपरतया सूत्रस्यार्थान्तरमित्यर्थः ।
तथाचायं सूत्रार्थः । नान्योऽतोऽस्ति द्रष्टा, नान्यदतोऽस्ति द्रष्टृ’ इत्यादौ तस्य विष्णोरेव स्वातन्त्र्येण सर्वविषयतया सम्पूर्णमीक्षणाख्यं कर्म नान्यस्येति व्यपदेशादत्र च तदैक्षतेति सतः मुख्ये सम्प्रत्यय इति न्यायेन, मुख्यस्य निर्विशेषेणेति न्यायेन वा, स्वातन्त्र्येण सर्वविषये ईक्षणरूपक्रियारूपभगवल्लक्षणव्यपदेशाद्विष्णुरेव सन् नान्यचेतनाः ॥ किमु जडस्येति ॥ अत्र कर्मपदं तु विशेषबलादेव तदैक्षतेति क्रियाकर्तृभावः । अतस्तल्लक्षणं भवत्येवेति द्योतयितुम् । अत एव भाष्ये तस्यैव तल्लक्षणमित्युक्तम् । एतेनेति ॥ एवं भाष्यकृता सूत्रस्य वृत्यन्तर-वर्णनेनेत्यर्थः ॥ सोमो वै राजेति ॥ ‘सोमो वै राजा गन्धर्वेष्वासीत्तन्देवाश्च ऋषयश्चाभ्य-ध्यायन्’ इत्यादौ लता विवक्षिता । गन्धर्वदेशोत्पन्नस्य सोमस्य स्त्रीकामा वै गन्धर्वा मयैव स्त्रियापणध्वमिति तया सोमं राजानमक्रीणन्निति विक्रियादिलिङ्गश्रवणात् । तत्र राजत्वम् ऋषिदेवताध्येयत्वं च यथाऽभिमानिविवक्षया एवं प्रकृते प्रधाने विरुद्धमीक्षणमभिमानिविवक्षयेति भावः । ननु तदैक्षतेत्यत्र तेज आदिसृष्ट्यर्थं तत्सदैक्षतेति, ईक्षणाख्यव्यापारवदभवदिति न तेज आदिकार्यजनने ईक्षणमवान्तरव्यापारतयोच्यते, किन्तु तदीक्षणमात्मनि परिणतमभवदित्येव । बहुस्यामिति निरवकाशविकारित्वलिङ्गश्रवणेनैक्षतेति कर्तृनिर्देशस्यापि गौणतया व्याख्येय-त्वादिति भावेन शङ्कते ॥ ननु निरवकाशेति ॥ व्याहतिपरिहाराय प्रकृतसङ्गत्यर्थं चाह ॥ अजायमानोऽविकुर्वाण इति ॥
तत्त्वसुबोधिनी
सदेवेत्युक्त सतो विष्णुत्वं न सम्भवतीत्यस्य सत बहुस्यामिति परिणामरूपजडधर्मोक्तेस् तस्य चान्यभावव्यावृत्तेश्चेति विष्णोरन्यवस्तुस्वभावव्यावृत्तेर् उक्तत्वेन विष्णावसम्भवादिति पूर्वाधिकरणसिद्धान्तन्यायमुपजीव्य पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिः । कारणत्वधर्मसाधारण्येन उभयत्र प्रसिद्धत्वमाह ॥ कारणत्वसाम्येनेति ॥ अत्राग्र आसीदिति प्रतीतं महदादिसकलकार्यं प्रति पूर्ववृत्तित्वरूपं कारणत्वमुभयत्र प्रसिद्धिद्योतकत्वेन तदेव सन्देहबीजत्वेन विवक्षितम् । न तु ‘तत्तेजोऽसृजत’ इत्यादिनोक्तं तस्येक्षणादिना सह प्रतीतस्य साधारण्यहेतुत्वाद्यनुपपत्तेः । टीकायां तत्तेजोऽसृजतेत्यादिनेति तु भाष्योक्तस्रष्टृत्वाक्षेपसमर्थनार्थमुक्तमिति भावः । न चात्र सृष्टिस्थानसमन्वयस्य प्रतिपाद्यमानत्वाद् भाष्ये तच्छब्दग्रहणमयुक्तमिति वाच्यम् । सदेव सौम्येदं सदायतनाः सत्प्रतिष्ठा इत्यादिसृष्टिस्थानगतबहुवाक्येषु श्रुतत्वात् तत्समन्वयोक्त्या तद्युक्त-वाक्यानां विष्णुपरत्वसाधने स्थानसमन्वयोऽप्युक्तो भवतीति ज्ञापयितुं कृतमिति भावः । अविकारः सदेत्युदाहरिष्यमाणप्रमाणानुरोधेन भाष्यगतपरिणामपदं व्याचष्टे ॥ बहुभावाख्येति ॥ विकारिकारणमेवेति ॥ तदपोऽसृजतेत्यादौ तेजः प्रभृतिभूतानामबादिकं प्रति उपादानत्व-स्यापि विवक्षितत्वादिति भावः ॥ ब्रह्मलक्षणानां श्रवणादिति ॥ समधिकराहित्यस्रष्टृत्वादीना-मप्येतद्वाक्योक्तत्वात्तस्य प्रधानपरत्वे उक्तब्रह्मलक्षणानामतिव्याप्तिप्रसङ्गेन सिद्धान्तिनोऽनिष्टता स्यादिति तत्समन्वयो वक्तव्य इति भावः । अनेन भाष्ये स्रष्टृत्वग्रहणमुपलक्षणत्वेनेत्युक्तं भवति ॥ ईक्षत्याख्यव्यापारेति ॥ अनेन सूत्रोक्तकर्मपदं क्रियापरमित्युक्तं भवति ॥ एतेनेति ॥ विष्णुव्यतिरिक्तचेतनस्य मुखतो द्रष्टृत्वाभावप्रतिपादकश्रुत्युदाहरणेनेत्यर्थः ॥ सोमो वै राजेति ॥ यथा ‘सोमो वै राजा गन्धर्वेषु आसीत्तं देवाश्च ऋषयश्चाभ्यध्यायन्’ इत्यादौ सोमलताभि-मानिचेतनविवक्षया गन्धर्वेषु आसीदिति व्यपदेशस् तथा तत्रापि प्रधानाभिमानिचेतनविवक्षया ईक्षितृत्वव्यपदेश इत्यर्थः । ननु गौणव्यपदेशे गुणयोगनिमित्तं तत्र प्रकृते गुणयोगः कथमित्यत आह ॥ सत्त्वादिति ॥ तथा च ज्ञानोपादानत्वरूपगुणयोगाद् गौणीवृत्तिरुपपन्नेति भावः । नन्वजायमान इत्यत्राविकारेण बहुत्वानुक्तेः कथं प्रकृते तदुदाहरणम् । अत्राह ॥ अविकुर्वाण इति ॥ तथा च तदुदाहरणं न प्रकृतासङ्गतमिति भावः ।
वाक्यार्थविवरणं
स्वरूपबहुत्वेनेति ॥ स्वस्य यानि रूपाणि तेषां बहुत्वेनेत्याशयः । यथोक्तम् । बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ॥ तत्तद्गतेन रूपेणेति ॥
वाक्यार्थमञ्जरी
स्थानेति ॥ अनेकप्रमेयप्रतिपादकमेकार्थे तात्पर्ययुक्तं स्थानम् ॥ कारणत्वसाम्येनेति ॥ अत्र ‘सदेव सौम्येदमग्र आसीत्’ इत्यत्र अग्र आसीदित्यनेन प्रतीतं महदादिसकलकार्यं प्रति पूर्ववृत्तित्वरूपं कारणत्वमुभयत्र प्रसिद्धिद्योतकत्वेन । तत एव च सन्देहबीजत्वेन विवक्षितम् । न तु तत्तेजोऽसृजतेत्यादिनोक्तम् । तस्य प्रधानासम्भावितेक्षणादिना सह प्रतीतस्य साधारण्य-हेतुत्वाद्यनुपपत्तेः । पूर्वाधिकरणे उत्तराधिकरणेत्वीक्षणस्य प्रथमाप्रतीतेरस्त्यवकाश इत्युक्तेश्च टीकायां तत्तेजोऽसृजत’ इत्युक्तिस्तु भाष्योक्तस्रष्टृत्वापेक्षत्वसमर्थनार्थम् । अत एव पूर्वं सदेव सौम्येति वाक्यमुदाहृतम् । ‘तदैक्षत बहुस्यां प्रजायेय’ इति ‘तत्तेजोऽसृजत्’ इति अस्याय-मर्थः । तत्सदाख्यं ब्रह्म ऐक्षत विचारमकरोत् । किमिति? अहं बहुस्यां जगन्नियामकतया बहुरूपं स्यामिति । तदर्थं प्रजायेय सृज्यं प्रजनयामीति तदित्थं विचिन्त्य । तेजस् तेजोनाम-करमासहितं तदभिमन्यमानं तेजोभूतम् असृजतेति । तेजःप्रभृतीनामग्रे त्रिवृत्करणोक्त्या तेजः शब्दादेरभिमन्यमानभूतपरत्वस्यापि सत्वेनोपादानस्यापि प्रतिपाद्यत्वाद्विकारिकारणमेवोक्तम् । एकं स्वावयवगुणकर्मादिभेदरहितम् अद्वितीयं समाभ्यधिकरहितम् ॥ सन्मूला इति ॥ हे सौम्य इमाः सर्वाः प्रजाः सत्परं ब्रह्म मूलकर्तु यासां ताः सन्मूलाः । न केवलमेतावत् । किं तु सद् आयतनम् आश्रयो यासां ताः सदायतनाश्च । न केवलं सांसारिकाः किं तु सत्प्रतिष्ठाः सत् प्रतिष्ठा प्रतिष्ठापकं यासां मुक्तप्रजानां ताः सत्प्रतिष्ठा इत्यर्थः ॥ सतेति ॥ हे सौम्य यदा जीवः स्वपिति सुप्तो भवति तदा सता परमात्मना सम्पन्नः सङ्गतो भवतीत्यर्थः ॥ ब्रह्मलक्षण-श्रवणादिति ॥ एतद्वाक्यस्य प्रधानपरत्वे ब्रह्मलक्षणानामतिव्याप्तिप्रसङ्गेन सिद्धान्तिनोऽनिष्टं स्यादिति तत्समन्वयो वक्तव्य एवेति भावः ॥ ॐ ईक्षतिकर्मव्यपदेशात्सः ॐ ॥ सदेवेत्यादौ श्रुतसच्छब्दवाच्यं सः विष्णुरेवेक्षतिरूपं च तत्कर्म च तस्य व्यपदेशात्तदैक्षतेतीक्षणाख्य-व्यापारोक्तिरित्यर्थः ॥ एतेनेति ॥ विष्णुव्यतिरिक्तचेतनस्य मुख्यतो द्रष्टत्वाभावप्रतिपादक-श्रुत्युदाहरणेनेत्यर्थः ॥ सोमो वै राजेति ॥ यथा सोमो वै राजागन्धर्वेष्वासीत्तं देवाश्च ऋषयश्चाभ्यध्यायन्नित्यादौ सोमलताभिमानिचेतनविवक्षया गन्धर्वेष्वासीदिति व्यपदेशस्तथात्रापि प्रधानाभिमानी चेतनविवक्षयेक्षत्यादिव्यपदेश इत्यर्थः । गौणत्वव्यपदेशप्रयोजकमीक्षितृ-गतकारणत्वरूपगुणयोगं प्रधाने दर्शयति ॥ सत्त्वादिति ॥ सत्वगुणात्मकप्रधानादित्यर्थः ॥ स्वरूपबहुत्वेनेति ॥ स्वस्य यानि रूपाणि तेषां बहुत्वेनेत्यर्थः । प्रकृतोपयोगायाह ॥ अविकुर्वाण इति ॥
॥ इति सदधिकरणम् ॥