०३ अक्षराधिकरणम्

ॐ अक्षरमम्बरान्तधृतेः ॐ

३. अक्षराधिकरणम्

सूत्रभाष्यम्

अदृश्यत्वादिगुणा विष्णोरुक्ताः । अदृष्टं द्रष्ट्रश्रुतं श्रोतृ (बृ.उ.५.८.११) इत्यादिना । ‘अहं सोममाहनसं बिभर्मि’ (ऋ.सं.१०.१२५.२) इत्यादेस्तस्यापि सम्भवान्मध्यमाक्षर-स्योक्ता इत्यतो ब्रूते–

॥ ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ १० ॥

‘एतस्मिन् (न्नु) खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ (बृ.उ.५.८.११) इत्यम्बरा-न्तस्य सर्वस्य धृतेर्ब्रह्मैवाक्षरम् । ‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा’ (ऋ.सं.१.१५४.४) ‘भर्ता सन्भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । परास्य (निधाय, पा.) भारं पुनरस्तमेति’ (तै.आ.३.१४) । ‘यस्मिन्निदं सञ्च विचैधि सर्वं यस्मिन्देवा अधि विश्वे निषेदुः’ (म.ना.उ.१-२) इत्यादिश्रुतेः ।

‘पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।

विष्णुरेको विभर्तीदं नान्यस्तस्मात्क्षमो धृतौ’ इति स्कान्दे ॥

सत्तर्कदीपावली

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ इत्यादि श्रूयते । अत्र परमेश्वर-धर्मादृष्टत्वादिगुणत्वेनोच्यमानमक्षरं लक्ष्मीतत्वं भवेत् । ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत’ इत्यादिना चन्द्राद्याधारत्वेन विष्णोरुक्तत्वाच्चन्द्राद्याधारत्वस्य गुणत्वेन लक्ष्म्या उक्तत्वात् ‘अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्’ इति । अत्राहनसशब्देन आसमन्ताद्धन्तृत्वाद्रुद्र उच्यते । सोमशब्दस्तूमया सहितः सोम इति रुद्रविशेषणमपि भवति । अक्षरमदृष्टं द्रष्ट्रित्यादिना यदक्षरं तदन्यैरदृष्टत्वादिकं चोच्यते । तल्लक्ष्मीतत्वस्यापि सम्भवतीत्येवं पूर्वपक्षयति अदृश्यत्वेत्यादिना । सिद्धान्तयति अक्षरमित्या-दिना । अत्राक्षरशब्देन विष्णुरुच्यते न लक्ष्मीः । ‘यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते । आकाश एव तदोतं च प्रोतं च । एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इति सर्वाधारतयोक्ताकाशशब्दगृहीतलक्ष्म्याधाराक्षराज्ञानिमित्तजगद्धारणनिमित्तश्रवणादप्यत्राक्षरशब्देन विष्णुरुच्यते । विष्ण्वाज्ञया जगद्धारणस्य सप्तेत्यादिवचनसिद्धत्वात् । सप्तमहदहङ्कार-पञ्चभूताख्याः पदार्था आसमन्ताद् ऋद्धो गर्भो ब्रह्माण्डाख्यो येषां ते ऋद्धगर्भाः । वननीयो भजनीयश्चेति भुवनस्य विष्णोः रेतस्थानीयास् ते तस्य प्रदिशा आदेशेन आज्ञया विधर्मणि विधारणे तिष्ठन्ति आज्ञयैव धृता इत्यर्थः ॥ १०,११ ॥

तत्त्वप्रदीपिका

अदृश्यत्वादिगुणाः ‘तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोतृ’ इत्यादिनाऽक्षरस्यैवोच्यन्ते । तच्च ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्दमसौ विधृतौ तिष्ठतः’ इत्यादिना सूर्यादि-विधारणान्मध्यमाक्षरं भवितुमर्हति । ‘अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्’ इति मध्यमाक्षरस्य सूर्यादिविधारकत्वश्रुतेः । आहनसम् आ समन्तात् हन्तारं संहर्तारमित्यर्थः । यद्यप्यदृश्यत्वादयो विष्णोस्सम्भवन्ति तथाऽप्यक्षरशब्दस्यान्यत्रापि प्रसिद्धेरुक्तयुक्तेश्च मध्य-माक्षरस्यापि सम्भवादत्र तस्योक्ता इत्यत आह– ‘अक्षरमम्बरान्तधृतेः’ ॥ ‘यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते, आकाश एव तदोतं च प्रोतं च’ इत्युक्त्वा ‘एतस्मिन्नुखल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इति वचनेन अम्बरान्तस्य सर्वस्य धृतेरुक्तत्वाद् ब्रह्मैवाक्षरम् । भर्ता सन् विष्णुर्जीवैर्हृदि भ्रियमाणश्च बिभर्ति च । एतदुक्तं भवति । यद्यपि हरिर्जगता भ्रियत इत्युच्यते जगति व्याप्तत्वात् । जगद्बिभर्ति च । नैतावता तयोराधाराधेयभावस्तुल्य इति मन्तव्यम् । किन्तु मूलभर्ता सन् भ्रियमाणश्च बिभर्ति च । युज्यते च तस्यैकस्यैव बहुरूपतया निविष्टत्वादिति । यस्मिन्निदं सम्यक्च विविधं चैधि ॥

तत्त्वप्रकाशिका

अत्राविनाशित्वसाम्याच् चित्प्रकृतौ हरौ च साधारणस्याक्षरनाम्नो ब्रह्मणि समन्वय-प्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं च दर्शयति ॥ अदृश्यत्वादीति ॥ अदृश्यत्वादिगुणाः पूर्वं विष्णोरुक्तास्ते च वाजसनेयके अक्षरस्योक्ताः । ‘तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रे तस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इति । तस्याक्षरस्य विष्णोरन्यत्वेऽदृश्यत्वादिकं चान्यस्यैव प्रसज्ज्येत इत्यवश्यं निर्णेयत्वम् । तदक्षरं विषयः । किं विष्णुरुत चेतनप्रकृतिरिति सन्देहः । उक्तसाधारण्यं च सन्देहबीजम् । द्रष्टृत्वादिश्रवणाज् जडप्रकृतेरोङ्कारस्य च न सन्देहनिविष्टत्वम् । उत्तराधिकरणे त्वीक्षणस्य प्रथमप्रतीतेरस्त्यवकाशः । एतदक्षरं मध्यमं श्रीतत्त्वमेवेति पूर्वः पक्षः । तत्राक्षरशब्दस्य प्रसिद्धेः । ‘एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिनाऽक्षरस्य चन्द्रसूर्याद्याधारत्वप्रतीतेश्च । चन्द्राद्याधार-त्वस्य च ‘अहं सोमम्’ इत्यादेस्तद्धर्मत्वात् । न च वाच्यमदृश्यत्वादिविष्णुधर्मश्रवणात् तस्याक्षरत्वमिति । अदृश्यत्वादिगुणानां मध्यमाक्षरेऽपि सम्भवात् । तथा च स्मृतिः । ‘ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्’ । ‘आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः’ इत्यादि । अथापि स्यात् । अक्षरश्रुतेरदृश्यत्वादिलिङ्गानां च मध्यमोत्तमाक्षरयोः साम्येऽत्र मध्यमैवोच्यत इति निर्बन्धे को हेतुरिति । मैवम् । ‘न तदश्नाति किञ्चन’ इत्यक्षरस्यानशनोक्तेस् तच्च विष्णोर्विरुद्धम् । ‘अत्ता चराचरग्रहणात्’ इत्युक्तत्वात् । न च मध्यमाक्षरस्यानशनाङ्गीकारे विरोधोऽस्ति । अतो मध्यमाक्षरमेवैतदक्षरमिति तस्यैवादृश्यत्वादिगुणकत्वमिति भावः । आहनसं यज्ञेष्वभिषूय-माणम् । लताभिमानित्वेनेयमुक्तिः । ‘सोमं राजानं जुह्वति । तं देवा भक्षयन्ति’ इत्यादिवत् । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ इदमक्षरं ब्रह्मैव । ‘यदूर्ध्वं गार्गि दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षिरे गार्ग्याकाश ओतश्च प्रोतश्च’ इत्यक्षरस्य तदाधारत्वश्रवणादित्यर्थः । सर्वाधारत्वं कुतो विष्णुत्वनिश्चायकमित्यत आह ॥ य इति ॥ एको देवो भर्तृत्वेन बहुधा निविष्टो जगता म्रियमाणस्तद्बिभर्ति । स च यदा तं भारं भर्तुं नेच्छति तदासौ नश्यतीत्यर्थः । एतच्च तद्वै त्वं प्राण इत्युक्तप्राणस्योच्यते । यस्मिन्निदं सम्यग्विविधं चैधि तदेव ब्रह्मेत्यर्थः । विष्णुवदन्यस्यापि सर्वाधारत्वं किं न स्यादित्यत आह ॥ पृथिव्यादीति ॥

गुर्वर्थदीपिका

उत्तराधिकरणे त्वीक्षणस्य प्रथमाप्रतीतेरित्यत्र ‘‘तद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ’’ इतिवत् ‘‘सदेव सौम्येदमग्र आसीद्’’ इति प्राथमिकवाक्य एवाप्रतीतेरित्यर्थः । न च वाच्यं प्राथमिक-वाक्येऽप्रतीतत्वेऽपि ‘‘एकमेवाद्वितीयम्’’ इत्येकवाक्यमात्रव्यवहिततया प्रतीतस्येक्षणस्याति-दूरत्वाभावेन बुद्धिमतोन्नेतुं शक्यत्वात्कथमचेतनप्रकृतेः प्राप्तिरिति । विष्णौ श्रीतत्त्वे चासम्भावितस्य ‘‘बहु स्यां प्रजायेय’’ इत्युत्तरप्रकरणस्थश्रुत्युक्तजगदाकारविकारस्य प्रधान एव सम्भवेन ईक्षणस्याभिमानिव्यपेक्षयौपचारिकत्वकल्पनोपपत्त्या जडप्रकृतिप्राप्तिविघटकत्वाभावे तात्पर्यात् ।

भावबोधः

विष्णोश्चित्प्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः सावधारण इति न्यायविवरणोक्तमक्षर-शब्दस्योभयत्र प्रसिद्धत्वमाह ॥ अत्राविनाशित्वसाम्यादिति ॥ अविनाशित्वस्याक्षरशब्द-प्रवृत्तिनिमित्तत्वादिति भावः । उपलक्षणञ्चैतत् । अक्षरशब्दस्य तत्र प्रसिद्धत्वादित्यपि द्रष्टव्यम् । जीवानां शरीरक्षरणाख्यनाशस्य विद्यमानत्वान्न योगस्तत्साधारणः । अव्याकृता-काशादिसाधारण्येऽपि तस्य संशयकोटित्वाद्यसम्भवान्न तद्ग्रहणम् । उभयत्र प्रसिद्धिकथने यद्विष्ण्वितरल्लिङ्गशब्दोपेतत्वेनाभिधीयते तस्यैव संशयकोटित्वादिकं वक्तव्यम् । अव्याकृता-काशादेस्तु संशयकोटित्वादिकं न सम्भवति । प्रकृताक्षरशब्दवाच्यस्य ‘अदृष्टं’ ‘द्रष्टृ’ इत्यादिना द्रष्टृत्वादेरुक्तत्वादिति भावः । अत एव वक्ष्यति ‘द्रष्टृत्वादिश्रवणाज्जडप्रकृते-राकाशस्य च न सन्देहनिविष्टत्वम्’ इति । अक्षरशब्दस्य योगेनोभयत्र प्रसिद्ध्यङ्गीकारेऽपि यौगिकानन्दमयादिशब्दवदस्यापि नामत्वं विरुध्यत इत्यभिप्रेत्योक्तमक्षरनाम्न इति ॥ श्रुत्यादि-सङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु भूमि्न स एवाधस्तादित्युक्तव्यापकत्वोत्क्रान्त-प्राणानित्युक्तोत्क्रमणसिद्धाऽव्यापकत्वादिधर्माणामविरोधाय ‘अन्यभावव्यावृत्तेः’ इति सूत्रेण लोकवैलक्षण्योक्तेरिति ज्ञातव्यम् ।

नन्वत्र ‘तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’ ‘अस्थूलमनणु’ इत्यस्यादिवाक्यत्वेन तस्यैव भाष्यादौ विषयवाक्यत्वेनोदाहरणं युक्तम्; समन्वेतव्यशब्दस्य तत्रापि सत्त्वात् । ‘तद्वा एतदक्षरं गार्गि अदृष्टं’ इत्युत्तरवाक्योदाहरणं किमर्थमिति चेत्, न; पूर्ववाक्ये द्रष्टृत्वादि अदृष्टत्वादिगुणोक्त्यभावेन सङ्गत्यभावापत्तेः । अम्बरान्तधृतेरित्युक्तहेतोस्तत्रानुक्तत्वाच्च । द्रष्टृत्वादिकथनाभावेनैव जडप्रकृतेर्वर्णानां च सन्देहपूर्वपक्षविषयनिराकरणासम्भवेन न्यायविवरणेऽक्षरशब्दस्य प्रकृतिविष्णुमात्रसाधारण्योक्त्ययोगाच्च । अत एव न्यायविवरण-टीकायां नन्वचेतनप्रकृतौ वर्णेषु च कुतो न शङ्कापरिहृतमेतद् भाष्यकृता अदृष्टं दृष्टृ इत्यादि-विषयवाक्यमुदाहरतैवेत्युक्तम् । न च प्रथमवाक्योदाहरणेऽपि तत्प्रकरणस्थोत्तरवाक्यगत-द्रृष्टृत्वादिकं जडप्रकृतिवर्णयोः संशयकोटित्वनिरासकत्वेन वक्तुं शक्यमिति वाच्यम्; तथात्वे उत्तराधिकरणेऽपि तदैक्षतेत्युत्तरवाक्ये ईक्षणश्रवणाज् जडप्रकृतेः सन्देहादिविषयत्वाभावा-पातात् । अत एवोक्तं टीकायामुत्तराधिकरणे ईक्षणस्य प्रथमाप्रतीतेरस्त्यवकाश इति ॥ किं विष्णुरिति ॥ तद्वा एतदक्षरं गार्ग्यदृष्टमित्युक्तमक्षरं श्रीतत्त्वमुत विष्णुरिति चिन्ता । तदर्थं श्रीतत्त्वप्रापकाक्षरशब्दप्रसिद्ध्यादिबलाद् विष्णुत्वप्रापकसर्वाश्रयत्वादिलिङ्गबाध उत विष्णु-प्रापकलिङ्गेन तत्प्रसिद्ध्यादिबाध इति । तदर्थं प्रसिद्ध्यादिकं निरवकाशमुत सावकाशमिति । अम्बरान्तधृत्यादिकं तु आकाशशब्दस्य लक्ष्मीतत्त्वपरत्वादिना सावकाशमुताकाशशब्दस्य चित्प्रकतिपरत्वादिनाम्बरान्तधृत्यादिकं निरवकाशमक्षरश्रुत्यादिकं च विष्णौ सावकाशमिति । तदर्थं ‘न तदश्नाति किञ्चन’ इत्युक्तमनशनं विष्णोर्न युक्तमुत युक्तमिति । तदर्थं न तदश्नाति किञ्चनेति श्रुतिः किं विष्णोः सर्वथाशनाभावपरोत जीवनहेतुत्वेनाशनाभावपरेति ॥ प्रथम-प्रतीतेरिति ॥ न प्रतीतिः समन्वेतव्यसच्छब्दरूपधर्मिणः । अग्र आसीदित्युक्तनियतपूर्ववर्तित्व-लक्षणकारणत्वरूपसाधारणधर्मप्रतीतिकाल एवेत्यर्थः । अत्तेत्युक्त्वा न तदश्नाति किञ्चनेति विरुद्धेति न्यायविवरणं तन्निवर्तनीयाशङ्काप्रदर्शनपूर्वकं व्याचष्टे– अथापि स्यादित्यादिना ॥ न च मध्यमाक्षरस्येति ॥ ‘आत्मा वा इदमेक एव अग्र आसीन्नान्यत् किञ्चन मिषत्’ इति श्रुतौ स्वतन्त्रोन्मेषाभावेनानुन्मेषोक्तिवत् स्वतन्त्राशनाभावेन वा ब्रह्मवत्संहर्तृत्वाभावेन वा अत्तेत्यत्र संहाररूपतयोक्तस्याशनस्याभावस्य तत्र युक्तत्वादिति भावः ।

ननु ‘अहं सोमम्’ इति वाक्यस्य सूर्याचन्द्रमसौ विधृतावित्यनेन समानार्थत्वलाभाय सोमशब्देन चन्द्रो यदि ग्राह्यस्तर्हि कथं तस्याऽऽहनसमिति यज्ञेष्वभिषूयमाणत्वोक्तिरित्यत आह ॥ लताभिमानित्वेनेति । यथा ‘सोमं राजानम्’ इत्यादौ हूयमानतया वक्ष्यमाण-सोमलताभिमानित्वाच्चन्द्रे हूयमानत्वादिव्यपदेशस्तथात्रापि सोममभिषुणोतीति वाक्यविहिताभि-षवणयुक्तसोमलताभिमानित्वाच्चन्द्रे अभिषूयमाणत्वव्यपदेश इत्यर्थः । भाष्योदाहृतश्रुतिभागे अम्बरधृतिरेव प्रतीयते, न त्वम्बरान्तधृतिरित्यतो सर्वाधारप्रकृत्याधारत्वमिति न्यायविवरणानु-सारेण यदूर्ध्वमित्यादितत्पूर्ववाक्योदाहरणपूर्वकं दिव उपरितनादीनामाकाशान्तानां साक्षात् परमात्मधृतत्वाभावेऽपि सर्वाधाराकाशाधारत्वे सर्वाधारत्वमपि सिध्यत्येवेत्यभिप्रेत्य सूत्रभाष्य-योरम्बरान्तसर्वधृतिरुक्तेति मनसि निधाय एतस्मिन् खल्विति भाष्यं व्याचष्टे– इदमक्षरं ब्रह्मैवेत्यादिना ॥ आकाशाख्यप्रकृतेरिति ॥ न चात्राकाशपदेन जडप्रकृत्यादिकमेव विवक्षित-मिति, अम्बरान्तधृतिः श्रीतत्त्वे आकाशे इति वाच्यम्; अत्र चाकाशो ‘यद्भूतम्’ इत्यादिना ‘आकाश एव तदोतश्च प्रोतश्च’ इत्यनेन सर्वचेतनपोषकतया ‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेत्यनन्याश्रितत्वेन चोच्यते । न च तच् चित्प्रकृतितोऽन्यत्र युक्तम्; न चात्रोक्त-त्वादिकमुपादेयत्वमाधेयत्वं वा न तु पोष्यत्वम् । तच्च सर्वस्य जडप्रकृतिं प्रति सम्भवतीति शङ्क्यम्; एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्चेत्याकाशाश्रयत्वेनोष्यमानाक्षरस्य द्रष्टृत्वादिना चेतनत्वेनोपादानत्वायोगात् । कस्मिन् खलु इन्द्रलोका ओतश्च प्रोतश्चेति प्रजापतिलोकेषु गार्गीत्यादावाधेयत्वस्याभावाच्च । न ह्यधस्तन इन्द्रलोक उपरितने प्रजापतिलोके, आहित एकप्रकरणस्थस्यौतादिशब्दस्य नानार्थत्वं चायुक्तम्; तस्मात् ‘रुद्रं समाश्रिता देवाः ‘राज्ञि राज्यं समाहितम्’ इत्यादाविव पोष्यत्वादिकमेव ओतत्वम् । न चाचेतनस्य पोष्यत्वं युक्त-मिति । भूतादिपादमपि देहद्वारा भूतत्वादियुक्तचेतनपरमेवेत्याकाशश् चित्प्रकृतिरेव ततश्च तदाश्रयोऽक्षरं ब्रह्मैव, न चित्प्रकृतिः । स्वाश्रयत्वस्य विरुद्धत्वादिति भावः । तदुक्तं बृहदारण्यकभाष्ये–

‘दीप्तेराकाशशब्दोक्ता श्रीर्हि सर्वाश्रया मता ।

तदाश्रयः परो विष्णुः सोऽस्थूलादिगुणो मतः ॥’ इति ।

अत एव भाष्योदाहृतश्रुतौ ‘भर्ता’ ‘बिभर्ति’ इत्यनयोः पोषकत्वमप्यर्थो ग्राह्यः । न्यायविवरणोदाहृतश्रुतौ पतिशब्देनात्मानमित्यात्मशब्देन परायणमित्यनेन चायमेवार्थोऽभिप्रेतः। ‘एको देवो बहुधा निविष्टः’ इत्यस्य शेषभूतं वाक्यं ‘यदा भारं तंद्रयते स भर्तुं निधाय भारं पुनरस्तमेति’ इति । तस्यार्थमाह– स च यदेत्यादिना ॥ ननु ‘भर्ता सन्’ इति श्रुतौ विष्णुवाचकपदाभावात् कथं तस्या विष्णोः सर्वाधारत्वप्रतिपादकत्वमित्यत आह– एतच्च तद्वै त्वं प्राण इत्युक्तप्राणस्येति । तस्य प्राणस्य विष्णुत्वं प्रागेव साधितमिति भावः । ‘यस्मिन्निदं सञ्चविचैधि सर्वम्’ इति श्रुतौ यच्छब्दस्य यतः प्रसूतेत्यादियच्छब्दवत् ‘तदेव ब्रह्म परमं कवीनाम्’ इत्युत्तरवाक्यस्थेन तच्छब्देनान्वय इत्याह– तदेव ब्रह्म परमं कवीनाम्’ इत्युत्तर-वाक्यस्थेन तच्छब्देनान्वय इत्याह ॥ तदेव ब्रह्मेत्यर्थ इति ॥ श्रुतावेधीत्यस्यावर्धतेत्यर्थः । तथा चास्या अपि श्रुतेर्विवक्षितार्थप्रतिपादकत्वादत्रोदाहरणं युक्तमिति भावः । विष्णुवदन्यस्यापि सर्वाधारत्वं किं न स्यादिति । अनेन सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धमिति न्यायविवरणमप्यवतारितं सद् उक्ततात्पर्यकं भवतीति द्रष्टव्यम् ।

भावदीपः

विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारण इति न्यायविवरणोक्तं साधारण्यमाह ॥ अविनाशित्वेति ॥ अक्षरशब्दप्रवृत्तिनिमित्तेति योज्यम् । उपलक्षणमेतत् । अक्षरशब्दस्य रूढ्या चेत्यपि ध्येयम् । अविनाशित्वयोगमात्रस्यातिप्रसङ्गात् । देहतोऽ-विनाशित्वसाम्यादिति वाऽर्थः । विशेषस्तु चन्द्रिकायाम् । इत्यन्तभाष्यं सङ्गतिपरत्वेन ताव-द्व्याकुर्वन् अदृश्यत्वादिगुणा अक्षरस्योक्ता इत्येतावदंशं व्याचष्टे ॥ अदृश्यत्वादिगुणा इति ॥ अदृश्यत्वनये उक्ता इत्यर्थः । वाजसनेयके पञ्चमाध्याये अदृष्टं द्रष्ट्रश्रुतं श्रोत्रित्यादिनेत्यर्थः ॥ तद्वा एतदिति ॥ अम्बराधारत्वद्योतनायादिपदोपात्तपरशेषोक्तिः । अदृश्यत्वादेरक्षरस्थता द्योतनाय पूर्वशेषोक्तिः ॥ इतीति ॥ इत्युक्ता इत्यन्वयः । अहं सोममित्यादेर्भावमाह ॥ तस्येति ॥ वक्ष्यमाणदिशा चन्द्राद्याधारत्वलिङ्गाच्चित्प्रकृतित्व इत्यर्थः । गुणा इत्येतस्य तात्पर्यमदृश्यत्वादिकं चेति ॥ इतीति ॥ इति सङ्गतिसम्भवादवश्यनिर्णेयत्वमक्षरस्येत्यर्थः ॥ उक्तेति ॥ देहाक्षरणरूपाविनाशित्वाख्यप्रवृत्तिनिमित्तसाधारण्यमित्यर्थः । नन्वक्षरत्रयमीरित-मित्यदृश्यत्वनयोक्तस्मृत्या जडप्रकृतौ तथा यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुष-मभिध्यायीतेत्योङ्कारेऽप्यक्षरपदप्रयोगदर्शनात् प्रवृत्तिनिमित्तस्यापि तत्साम्येनैव वाच्यत्वात्तयोः कुतो न संशयकोटित्वमित्यत आह ॥ द्रष्टृत्वादिश्रवणाज्जडप्रकृतेरोङ्कारस्य चेति ॥

एतेन ॐकारेण सर्वा वाक् सन्तृण्णेत्यादिश्रुत्या सर्ववर्णात्मकोङ्कारस्य सन्देहकोटित्वं वदन्तो निरस्ताः । क्वचित्तु जडप्रकृतेराकाशस्य चेति पाठः । स च न साधुरेव तत्राक्षरशब्दा-प्रवृत्तेः । अविनाशित्वरूपप्रवृत्तिनिमित्तस्य भूताकाशेऽभावात् । अव्याकृते भावेऽपि तदैक्षतेति श्रवणाज्जडप्रकृतिसंशयो न स्यादित्यत आह ॥ उत्तरेति ॥ सदेवेत्यत्राप्रतीतेरित्यर्थः । एतेनान्तर्यामिनयेऽपि प्रकृतेः संशयकोटित्वं समाहितं ध्येयम् । तदेवभाष्यं पूर्वपक्षादिपरत्वेनापि व्याकुर्वन् मध्यमाक्षरस्योक्ता इत्येतावदंशं प्रतिज्ञापरत्वेन व्याचष्टे ॥ एतदिति ॥ अदृष्टत्वादि-गुणकमित्यर्थः । श्रीतत्वस्येत्यनुक्त्वा मध्यमाक्षरस्येत्युक्तिलब्धां युक्तिमाह ॥ तत्रेति ॥ ये त्वक्षरमनिर्देश्यमिति गीतादौ श्रीतत्वे प्रसिद्धेरित्यर्थः । अक्षरत्रयमीरितमिति स्मृत्या विष्णावपि प्रसिद्धिरस्ति । अत एव भाष्ये मध्यमपदम् । अन्यथाऽक्षरस्येत्येव ब्रूयादित्यतो भाष्ये इत्यादि-नेत्यनेन न केवलं प्राक्टीकोक्तवाक्यशेषो ग्राह्यः । किन्तु एतस्य वा इत्यादिलिङ्गोक्तिपरवाक्यं च । गुणा इत्यनेन चन्द्राद्याधारत्वगुणोऽपि ग्राह्य इति भावेन तद्वाक्योक्तिपूर्वं लिङ्गमाह ॥ एतस्येति ॥ लिङ्गस्य श्रीतत्वधर्मतोक्तिपरत्वेनाहमित्यादिभाष्यं योजयति ॥ चन्द्रेति ॥ अम्भ्रिणीपर्यायश्रीवाक्यत्वादहमित्यादेरिति भावः । द्युभ्वादिनयन्यायेन विष्णावपि सम्भवा-द्भाष्यस्थादिपदानुरोधेन तद्धर्मत्वादित्येवोक्तम् । न तु तस्यैव धर्मत्वादिति । भाष्ये इत्यादे-रित्यादिपदेनाहं त्वष्टारमुतपूषणं भगमिति वाक्यशेष इव ये त्वक्षरमिति गीतास्मृतिरपि गृह्यत इति भावेन तद्व्यावर्त्यशङ्कामाह ॥ न च वाच्यमिति ॥ आकाङ्क्षितपूर्त्या तस्यापि सम्भवादिति वाक्यार्थमाह ॥ अदृश्यत्वादीति ॥ न केवलम् अदृश्यत्वनयरीत्या विष्णावित्यपेरर्थः । इत्यादे-रित्यादिपदोक्तां स्मृतिमाह ॥ तथा चेति ॥ अक्षरमविनाशि सूक्ष्मत्वादनिर्देश्यम् । अप्रसिद्धत्वादव्यक्तम् । सर्वगं देशतो व्याप्तम् । गुणबाहुल्यादचिन्त्यम् । कूटे आकाशे अभिमानितया स्थितं कूटस्थम् । अचलं कदापि स्वपदादभ्रष्टम् । ध्रुवं निर्विकारमित्यर्थः ।

इयं चित्प्रकृतिपरेति तात्पर्ये व्यक्तम् । आसीदिति द्वादशगीताभाष्योक्तस्मृतिः । इदं प्रसिद्धं तमः मायाख्यं प्रलये प्रसुप्तमिति निर्व्यापारमासीत् । अभूतमजातम् । अप्रज्ञातमित्यादिना प्रत्यक्षाद्यवेद्यत्वमुच्यते । अत्तेत्युक्त्वा न तदश्नाति किञ्चनेति विरुद्धतेति न्यायविवरणमत्र योजयितुं तद्व्यावर्त्यशङ्कामाह ॥ अथापीति ॥ आदिपदेन सूर्याद्याधारत्वलिङ्गग्रहः । न्यायविवरणवाक्यस्य खण्डशोऽर्थमाह ॥ न तदिति ॥ अयमक्षरवाक्यशेष इत्यग्रे स्पष्टम् । अत्र न तदश्नातीत्येव पूर्तौ किञ्चनेत्युक्तिः सामान्याभावसूचनाय । तेन गुहानयोक्तरीत्याऽ-शुभानशनपरं तदिति प्रत्युक्तं ध्येयम् ॥ न चेति ॥ तस्य प्रागत्तृत्वस्य क्वाप्यनुक्तेर् अत्तृत्वेऽपि वा धर्मान्तरेण वाक्यशेषादिति न्यायेन नान्यत्किञ्चन मिषदिति श्रुताविव स्वतन्त्राशनाभाव-परतोपपत्तेरिति भावः ॥ अत इति ॥ श्रुतिलिङ्गरूपप्रापकभावाद् विष्णुत्वेऽनशनोक्ति-विरोधाच्चेत्यर्थः । अक्षरमित्यनन्तरम् अत इत्यनुषङ्गः । इतीति पाठे तु नानुषङ्गः । अत्रोक्तं प्रागुक्तं चादृश्यत्वादिगुणकत्वमित्यर्थः । आङ्पूर्वस्य हन्तेः कर्मणि रूपं मत्वाऽऽह ॥ अभिषूयमाणमिति ॥ कथं चन्द्रस्याभिषूयमाणत्वमत आह ॥ लतेति ॥ सोममिति सोमं राजानमित्यादौ हूयमानभक्ष्यमाणसोमलताभिमानत्वाच्चन्द्रेऽभिषूयमाणत्वोक्तिरित्यर्थः ॥ यत्र क्व चाक्षरस्य ब्रह्मत्वमुच्यते इति भ्रमनिरासाय भाष्यस्थप्रतिज्ञार्थमाह ॥ इदमिति ॥ भाष्योक्त-वाक्यादम्बरधृतेरेव प्रतीत्या तदन्तसर्वधृतेरप्रतीतेः सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धमिति न्यायविवरणोक्तिमनुरुध्य वाक्यशेषं वदन् हेतूक्तिपरं भाष्यं व्यनक्ति ॥ यदूर्ध्वमिति ॥ आकाशाख्यप्रकृतेरिति ॥ चित्प्रकृतेरित्यर्थः । अत्र श्रुतावाकाशस्य सर्वाधारत्वमुक्त्वाऽ-स्यैकाक्षराश्रितत्वमुच्यते । तच्च अव्यक्तात् पुरुषः परः । अक्षरात्परतः परः । मम योनिरप्स्वान्तः समुद्र’ इत्यादिना श्रीतत्वलिङ्गमिति आकाशस्तल्लिङ्गादिति न्यायसाम्येन दीप्तेराकाशशब्दोक्ता श्रीर्हि सर्वाश्रया मता । तदाश्रयः परो विष्णुः सोऽस्थूलादिगुणो मत इतिबृहद्भाष्योक्तस्मृत्या चाकाशश्चित्प्रकृतिरिति भावः । अधिकं चन्द्रिकायाम् । य एव एकप्रकृतिपुरुषकालाधारः पृथिवीं द्यां सर्वभुवनानि च दधारेति जन्मादिनये य इति श्रुतेर्व्याख्यानाद् भर्तेत्यादेरर्थमाह ॥ एक इति ॥ भर्ता सन्नित्यस्यार्थो भर्तृत्वेनेति ॥ भ्रियमाणो बिभर्तीत्युक्त्या प्राप्तं जगदीश्वरयोराधाराधेयभावसाम्यं निरसितुं यदा भारं तन्द्रयते स भर्तुं (निधाय) परास्य भारं पुनरस्तमेतीति शेषार्थमाह ॥ स चेति ॥ अत्र विष्णुश्रुत्यादेरभावात् कथं विष्णौ समाख्येयं श्रुतिरित्यतस्तच्छब्दपरामृष्टमाह ॥ एतच्चेति ॥ स च प्राणोऽत एव प्राण इत्यत्र लक्ष्मीपतित्वादिलिङ्गेन विष्णुरिति निर्णीत इति भावः । एधि अस्तीत्यर्थः । ध्वसोरेद्धावभ्यासलोपश्च’ इति अस्तेर्मध्यमपुरुषप्रयोगश् छान्दस इत्येके । एधीत्यस्यावर्धतेति चन्द्रिकोक्तिः । यस्मिन्निति श्रौतयच्छब्दस्य विष्ण्वर्थत्वद्योतनाय तदेव ब्रह्म परमं कवीना-मित्युत्तरवाक्यस्थतत्पदेनान्वयमाह ॥ तदेव ब्रह्मेत्यर्थ इति ॥ विष्णुवदन्यस्यापीति ॥ य उ त्विति श्रुतेर्जन्मादिनयोक्तरीत्या भर्तेति श्रुतेश्च यदा भारमिति वाक्यशेषार्थोक्तिरीत्याऽन्वय-व्यतिरेकाभ्यां विष्ण्वेकपरत्वप्रतीतेस्तथैव श्रुतीनां व्याख्यातुं शक्यत्वेऽपि स्मृत्यवैयर्थ्याय श्रुतीः सर्वाधारप्रकृत्याधारत्वं विष्णोरिति न्यायविवरणैकदेशविवरणपरतया व्याख्यायान्यस्य विरुद्ध-मित्येतदंशविवरणपरतया स्मृतिर्व्याख्यातेति ध्येयम् ॥

अभिनवचन्द्रिका

अक्षरस्योक्ता इति ॥ अदृश्यत्वाधिकरणैतदधिकरणप्रतिपाद्ययोर् अदृश्यत्वेन प्रतीयमानत्वं सङ्गतिरिति भावः । पूर्वपक्षहेतुं वक्तुं सम्भावकं तावदाह ॥ तत्राऽक्षरशब्दस्येति ॥ एतेनाऽक्षर-शब्दस्य प्रसिद्धेर् अक्षरत्रयेऽपि सद्भावात् तस्य न मध्यमत्वसाधकत्वमिति परास्तम् । अक्षर-शब्दस्य प्रसिद्धं(द्धिं) मध्यमाक्षरत्वसम्भावानार्थमनुपन्यासात् ॥ प्रतीतेश्चेति ॥ सम्भावका-पेक्षया समुच्चयः ॥ अदृश्यत्वादिलिङ्गानामिति ॥ चन्द्राद्याधारत्वमादिशब्दार्थः ॥ अत्रेति ॥ अत्ता चराचरेति सूत्रे सर्वात्तृत्वस्योक्तत्वादित्यर्थः । ननु आ हनसमित्यस्य यज्ञेष्वभिषूयमाण-मित्यर्थकथनमयुक्तम् । चन्द्रस्याऽभिषवणायोगादित्यत आह ॥ लताभिमानित्वेनेति ॥ यदूर्ध्वमिति ॥ हे गार्गि दिवो यदूर्ध्वं पृथिव्या यदर्वाक् यच्च द्यावा पृथिव्योरन्तरा मध्ये ये चेमे द्यावापृथिवी, यच्च भूतम् अतीतम्, यच्च भवद् वर्तमानम्, यच्च भविष्यत्, तत्सर्वमाकाशे श्रीतत्वे मध्यमाक्षरे, ओतम् आश्रितं, प्रोतं विशेषेणाश्रितम्, इत्याचक्षत इत्यर्थः । ‘य उ त्रिधातु’ इति श्रुतेर् अन्यत्र व्याख्यानाद् भर्त्ता सन्निति श्रुतिं व्याचष्टे ॥ एको देव इति ॥ स चेति ॥ अनेन स परमात्मा, स्वगतं भारं, निधाय अवतार्य, परास्येति यावत् । तं भारं भर्त्तुं नेच्छति तदा असौ भारः नश्यतीति श्रुतेर्योजनोक्ता भवतीति । इतः परं टीकायां श्रूयमाणम् ‘एवञ्च तद्वै त्वं प्राण इत्युक्तप्राणस्योच्यत’ इति वाक्यं प्रक्षिप्तम् । अवश्यं चैतदेवं विज्ञेयम् । अनाकाङ्क्षितत्वात्, अन्वयाभावाच्च । ‘भर्ता सन्’ इति वाक्ये विष्णुवाचकपदाभावान् नेदं वाक्यं विष्णुपरमिति शङ्कानिरासाय प्राणस्योच्यत इति वाक्यं श्रुतिव्याख्यानावसर एव (श्री)ह्रीश्च ते लक्ष्मीश्च पत्न््नयाविति श्रीलक्ष्मीपतित्वेनोक्तः स देव इति तच्छब्दव्याख्यानेनैव तच्छङ्का-निरासस्योचितत्वात् । ‘यस्मिन्निदं सं च विचैधिसर्वम्’ इति विष्णुपरत्वशङ्कानिरासाय तदेव ब्रह्मेत्यर्थ इति श्रुतिव्याख्यानस्य कृतत्वात् । प्राणस्योच्यत इत्युक्त्या विष्णुपरत्वशङ्कानिरासा-योगाच्च । अत्रोक्तप्राणो न विष्णुः । ततश्च नेदं वाक्यं विष्णुपरमिति वदन्तं प्रति प्राणस्योच्यत इत्युक्तेरयोगाच्च । प्राणस्य विष्णुत्वसिद्ध्यर्थमुक्तलिङ्गस्य अवश्यमनुसरणीयत्वाच्च ।

वाक्यार्थमुक्तावली

अविनाशित्वेति ॥ अविनाशित्वस्याक्षरशब्दप्रवृत्तिनिमित्तत्वादिति भावः । उपलक्षणं चैतत् । अक्षरशब्दस्य तत्र प्रसिद्धत्वादित्यपि द्रष्टव्यम् । तेन यौगिकस्य लिङ्गत्वात्कथं नामत्व-मित्यपास्तम् । उभयत्र रूढेरप्याश्रयणात् ॥ श्रुत्यादिसङ्गतिमिति ॥ अव्यवहितसङ्गतिस्तु धर्मोपपत्तेश्चेत्यत्र स एवाधस्तादित्यादिनोक्तं यत्सर्वगतत्वं वाजसनेये अस्थूलमनण्वित्यादि-पदेनोक्तं यच्च सर्वस्वातन्त्र्यं यत्र नान्यत्पश्यतीत्यादिनोक्तं तदेव, वाजसनेयेनान्यदतोऽस्ति द्रष्ट्रिति अन्यस्य स्वातन्त्र्येण द्रष्ट्रत्वनिषेधेनाम्नायते यदीदमक्षरमन्यत्स्यात्तदा भूमाप्यन्य इत्याक्षेपादिति बोध्यम् । अत एव भाष्येऽदृष्यत्वादिगुणा इति सामान्येनोक्तं तत्रादिपदेन नित्यं विभुं सर्वगतमित्युक्तसर्वगतत्ववदव्यवहिताधिकरणोक्तसर्वगतत्वस्यापि ग्रहणसम्भवात् । तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्तीत्यस्य प्रथमवाक्यत्वेऽपि तत्रादृष्टत्वाद्यश्रवणेन सङ्गत्य-प्रतीतेर् अत एव तत्र द्रष्ट्रत्वादिचेतनधर्माश्रयणेन जडप्रकृतेर्वर्णानां च सन्देहपूर्वपक्षविषयत्व-निराकरणासम्भवाद् अम्बरान्तधृतेरित्युक्तहेतोस्तत्राभावाच्च तद्वा एतदक्षरं गार्ग्यदृष्टमित्युत्तर-वाक्योदाहरणमिति ज्ञेयम् ॥ किं विष्णुरिति ॥ किमिदमक्षरं येत्वक्षरमनिर्देश्यमिति प्रसिध्या अम्भृणीसूक्तसमाख्यातं चन्द्राद्याधारत्वानशनलिङ्गैः श्रीतत्वम् उत अम्बरान्तधृति, प्रशासन, अन्यभावव्यावृत्तिलिङ्गैर् विष्णुरिति तदर्थं श्रीतत्वप्रापकाणां श्रीतत्वे सावकाशत्वमन्यत्र निरव-काशत्वमुत वैष्णवलिङ्गानामन्यत्र निरवकाशत्वं श्रीतत्वप्रापकाणां विष्णौ सावकाशत्वमिति ।

ननु योगरूढिभ्याम् उभयत्र प्रसिद्धेर्विवक्षितत्वेन जीवे अविनाशित्वयोगमात्रसद्भावेऽपि रूढ्यभावात्पूर्वपक्षसंशयविषयत्वाभावेऽपि अक्षरत्रयमीरितमिति जडप्रकृतौ यः पुनरेतन्त्रि-मात्रेणोमित्यनेनैवाक्षरेणेत्योङ्कारेऽक्षराणामकारोऽस्मीति सर्ववर्णेषु चाक्षरपदप्रयोगादविनाशित्व-प्रवृत्तिनिमित्तसद्भावाच्च कुतो न तेषां सन्देहनिविष्टत्वमित्यत आह ॥ द्रष्ट्रत्वादीति ॥ जडप्रकृतेरोङ्कारस्येति पाठः । आकाशस्येति त्वपपाठः । आकाशे अक्षरपदाप्रयोगात् प्रवृत्ति-निमित्तमात्रस्य चेतनमात्रसाधारण्याच्च केवलं योगेन साधारण्ये नामत्वाभावापाताच्च अक्षरे आकाश ओतश्चेत्युक्ताक्षरस्याकाशत्वाप्रसक्तेश्च । नन्वचेतनप्रकृतौ वर्णेषु च कुतो न शङ्का परिहृतमेतद्भाष्यकृता अदृष्टं द्रष्ट्रित्यादिवाक्यं विषयवाक्यमुदाहृतैवेत्यादिन्यायविवरणटीका-नानुगुण्याच्च । ननु तर्हि उत्तराधिकरणे सदेव सौम्येदमग्र आसीदित्युक्तम् । तत्किं ब्रह्म प्रधानं वेति न सन्देहावकाशस् तत्रापि तदैक्षतेति ईक्षणश्रवणादित्यत आह ॥ उत्तराधिकरणेत्विति ॥ अस्मिन् स्थाने सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत, तत्तेजोऽसृजतेति वाक्यान्तरे प्रतीतावपि, तद्वा एतक्षरं गार्ग्यदृष्टं द्रष्ट्रित्यत्राक्षरस्य विधेयधर्मतया प्रथमतो द्रष्ट्रत्वभाववत्सदेव सौम्येदमग्र आसीदित्यत्र सतो विधेयधर्मतया प्रथमतः प्रलयवृत्तित्वधर्मवदीक्षणस्य प्रथमा-प्रतीतेरित्यर्थः । एवमदृश्यत्वादि गुणा विष्णोरुक्ता अदृष्टं द्रष्टृ अश्रुतं श्रोत्रित्यादिना अक्षर-स्योक्ता इत्यसङ्गतिप्रदर्शनपरतया व्याख्याय मध्यमाक्षरेत्युक्तम् अक्षरशब्दस्य श्रीतत्वपरपूर्वपक्षं व्यनक्ति ॥ एतदक्षरमिति ॥ कुत इत्यतस्तस्यापि सम्भवादिति वाक्यस्य मध्यमस्याप्यक्षर-शब्दवाच्यत्वसम्भवादित्यर्थमभिप्रेत्याह ॥ अत्रेति ॥ भाष्ये अत्रेत्यादिपदेन एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसावित्यादि गृह्यते । ततश्च सूर्याचन्द्रमसौ विधृतौ तिष्टत इत्यादिना सूर्यचन्द्राधारत्वादयो ऽक्षरस्योक्तास् तेज अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्’ इत्यादेर् अम्भृणीसूक्तसमाख्यानात्तस्य श्रीतत्वस्यैव सम्भवादक्षरं मध्यमं श्रीतत्वमेवेति भाष्यार्थमभिप्रेत्य व्याचष्टे ॥ एतस्य वाक्षरस्येत्यादिना ॥ अदृष्टं द्रष्टृ अश्रुतं श्रोत्रित्यादिना ये अदृश्यत्वादिविष्णुगुणा उक्तास् तेषां तस्यापि तत्रापि मध्यमाक्षरेऽपि सम्भवान्मध्यमाक्षर-स्यैवोक्ता इति भाष्ययोजनामभिप्रेत्य तद्व्यावृत्या शङ्काप्रदर्शनपूर्वकं व्याचष्टे । न च वाच्य-मित्यादिना । कथं तेषां गुणानां मध्यमाक्षरे सम्भव इत्यतो ऽदृश्यत्वादिगुणाः स्मृतिषु मध्यमाक्षरस्योक्ता इति योजनामभिप्रेत्य व्याचष्टे ॥ तथा च स्मृतिरिति ॥ अनिर्देश्यं सूक्ष्मत्वात् । अचिन्त्यं गुणबाहुल्यात् । कूटस्थं कूटे आकाशे अभिमानित्वेन स्थितम् । अचलं स्वपदात् कदाप्यभ्रष्टम् । ध्रुवं निर्विकारम् । अभूतमजन्यम् । अप्रज्ञातं प्रत्यक्षेण । किं चातर्क्यं तदपि कुतो ऽलक्षणं प्रात्यक्षिकानुमापकलिङ्गरहितम् । किं चानिर्देश्यम् इदमित्थमित्यागम-निर्देशाविषयम्, इदं प्रसिद्धं तमो दुर्गाख्यं प्रलये सर्वतः प्रसुप्तमिव निर्व्यापारमिव सर्वतः सर्वत्र व्यापकतयासीदित्यर्थः । अन्यभावव्यावृत्तेरिति सूत्रनिर्वचनीयानशनत्वयुक्तिं शङ्कितुमाह ॥ अथापि स्यादिति ॥ अक्षरत्रयमीरितमित्यक्षरश्रुतेर् अदृश्यत्वादिगुणकः येत्वक्षरमनिर्देश्य-मित्यदृश्यत्वादिगुणानां यस्मिन् द्यौः पृथिवी चान्तरिक्षं ‘चन्द्रमा मनसो जातः’ ‘चक्षोः सूर्यो’ ‘अहं सोममाहनसम्’ इति चन्द्राद्याधारत्वस्योभयोः साम्येऽपीत्यर्थः । अत्तेत्युक्तत्वान्न तदश्नाति किञ्चनेति विरुद्धतेति न्यायविवरणं मनसि निधाय इत्यादिनेत्यादिपदेन न तदश्नाति किञ्चनेति वाक्यं च गृह्यते । तथा च न तदश्नाति, इत्यनेनाक्षरस्यानशनगुण उक्तः मध्यमाक्षरस्यैवानशन-सम्भवादक्षरं मध्यमतत्वमेवेति भाष्यार्थं मत्वा समाधत्ते ॥ मैवमिति ॥ न तदश्नातीत्येतावता पूर्तौ किञ्चनेत्युक्तिः सामान्याभावसूचनाय । तेन गुहानयोक्तरीत्या, अशुभानशनपरं तदिति प्रत्युक्तं ध्येयम् । न च मध्यमाक्षरस्येति । तस्यात्तृत्वस्य प्रागनुक्तेः । अत्तृत्वेऽपि वा धर्मान्तरेणेति न्यायेन, नान्यत्किञ्चनमिषदित्यत्र स्वतन्त्रोन्मेषाभावादनिमिषोक्तिवदत्रापि स्वतन्त्राशनाभावपरतोपपत्तेरिति भावः । आङ्पूर्वस्य हन्तेः कर्मणि रूपं मत्वोक्तम् ॥ अभिषूयमाणमिति ॥ लताभिमानित्वेनेति ॥ यथा सोमं राजानमित्यादौ, हूयमानभक्ष्यमाण-सोमलताभिमानित्वेन चन्द्रे हूयमानत्वादिव्यपदेशः, तथाऽभिषवयुक्तलताभिमानित्वेनाभि-षूयमाणव्यपदेश इत्यर्थः । एतस्मिन् खल्वक्षरे इत्यत्र अम्बरमात्रधृतिश्रवणाद्भाष्ये कथम् अम्बरान्तस्य सर्वस्येत्युक्तमित्यतः पूर्ववाक्योदाहरणपूर्वं व्याचष्टे, इदमित्यादिना ॥ आकाशाख्यप्रकृतेरिति ॥ दीप्तेराकाशशब्दोक्ता, श्रीर्हि सर्वाश्रया मता । ‘तदाश्रयः परो विष्णुर् अस्थूलादिगुणोमतः’ इति तद्भाष्योक्तेरिति भावः । एको देवो भर्ता सन् बहुधा निविष्ट इत्यन्वयमभिप्रेत्याह ॥ एव इति ॥ एको देवो बहुधा निविष्ट इत्यस्य शेषभूतं वाक्यं, यदा भारं तन्द्रयते स भर्तुं निधाय भारं पुनरस्तमेतीति, तस्यार्थमाह ॥ स च यदा तं भारमिति ॥ तं भारमधो निधाय, भर्तुं नेच्छतीत्यर्थः । नन्वेको देवो विष्णुः कुतस् तत् श्रुतिलिङ्गाभावादित्यत आह ॥ एतच्चेति ॥ स च प्राणः श्रीलक्ष्मीपतित्वलिङ्गेन विष्णुरिति समाधितमिति भावः ॥ एधीति ॥ वर्धत इत्यर्थः । मध्यमपुरुषश् छान्दसः । यद्वा अस्तीत्यर्थः । ध्वसोरेद्धाव-भ्यासलोपश्च’ इति स्मरणात् । अत्रापि असोर्मध्यमपुरुषत्वं छान्दसम् । यस्मिन्निदमिति यच्छब्दस्य तदेव ब्रह्म परमं कवीनाम् इत्यनेनान्वय इत्याह ॥ तदेवेति ॥ एतेन सूत्रे तत्वित्यन्वेति ॥ तत्प्रथमान्तं षष्ठ्यन्तं चानुसन्धेयम् । तथा च तस्य ब्रह्मण एव श्रुत्यन्तरेऽ-म्बरान्तधृत्युक्तेर्विषयवाक्येऽक्षरस्याम्बरान्तधृतेर्ब्रह्मैवाक्षरमिति ।

तत्त्वसुबोधिनी

अत्राद्येऽधिकरणे प्रकृतेर् जीवमात्रादेश्च निरासः । द्वितीये सर्वश्रेष्ठस्य मुख्यप्राणस्य भूमत्वम् । अत्र तु ततोऽपि श्रेष्ठस्य श्रीतत्वस्याक्षरत्वनिरास इत्यवान्तरसङ्गतिः । अविनाशित्वरूपप्रवृत्तिनिमित्तसाधारण्येनोभयत्र प्रसिद्धत्वमाह ॥ अत्राविनाशित्वेति ॥ उपलक्षणं चैतत् । अक्षरशब्दस्य तत्र प्रसिद्धत्वादित्यपि द्रष्टव्यम् । अक्षरशब्दस्य योगेन उभयत्र प्रसिद्ध्यङ्गीकारेऽपि यौगिकानन्दमयादिशब्दवद् अस्यापि नामत्वं न विरुद्धम् इत्यभिप्रेत्यैवोक्तम् ॥ अक्षरनाम्न इति ॥ न च तद्वा एतदक्षरमिति वाक्यमेव कुतो नोदाहृतं समन्वेतव्यशब्दस्य तत्र सत्त्वादिति वाच्यम् । तत्रादृष्टत्वादिगुणोक्त्यभावेनासङ्गतत्वापत्तेः । अम्बरान्तधृते-रित्युक्तहेतोस् तत्रानुक्तत्त्वाच्चेति भावः ॥ उक्तसाधारण्यमिति ॥ प्रवृत्तिनिमित्तसाधारण्य-मित्यर्थः । नन्वक्षरशब्दस्य जडप्रकृतौ प्रसिद्धेस् तस्या आकाशवत्कुतो न सन्देहनिवेश इत्यत आह ॥ द्रष्टृत्वादीति ॥ ननु तर्हि उत्तराधिकरणे ईक्षणीयस्योक्तत्वात् तस्य च जडप्रकृताव-सम्भवात् तत्र कथं तस्याः सन्देहनिवेश इत्यत आह ॥ उत्तराधिकरणेत्विति ॥ प्रथमाप्रतीतेरिति ॥ समन्वेतव्यसच्छब्दधर्मिण अग्र आसीद् इत्युक्तनियतपूर्ववृत्तित्वलक्षण-कारणत्वरूपसाधारणधर्मप्रतीतिकाल एवेत्यर्थः । लिङ्गमप्याह ॥ एतस्येति ॥ प्रशासने आज्ञायाम् आज्ञामात्रेण चन्द्रादित्याद्याधारत्वरूपलिङ्गादित्यर्थः । अस्तु चन्द्रादित्या-द्याधारत्वमक्षरस्य तथापि चित्प्रकृतेरक्षरत्वं कुत इत्यत आह ॥ चन्द्रादीति ॥ तस्य लक्ष्मीसूक्तत्वादिति भावः । तत्र प्रमाणमाह ॥ तथा च इति ॥ ततः किमित्यत आह ॥ तच्चेति ॥ कुत इत्यत आह ॥ अत्तेति ॥ न च मध्यमेति ॥ स्वतन्त्राशनाभावेन ब्रह्मवत्संहर्तृत्वाभावेन वा अत्तेत्यत्र संहाररूपतयोक्तस्याशनाभावस्य तत्र युक्तत्वादिति भावः । श्रुतिस्थाहनसपदार्थमाह ॥ यज्ञेष्विति ॥ ‘ननु अहं सोमम्’ इत्यस्य सूर्या चन्द्रमसौ विधृता-वित्यनेन समानार्थत्वलाभाय सोमशब्देन चन्द्रो यदि ग्राह्यस् तर्हि कथं तस्याहनसमिति यज्ञेषु अभिषूयमाणत्वोक्तिरित्यत आह ॥ लताभिमानित्वेनेति ॥ तत्र दृष्टान्तमाह ॥ सोमं राजानमिति ॥ यथा सोमं राजानमित्यादौ हूयमानभक्ष्यमाणसोमलताभिमानित्वाच् चन्द्रे हूयमानत्वव्यपदेशस् तथा अत्रापि सोममभिषुणोति इति वाक्यविहिताभिषवयुक्त सोमलताभि-मानित्वाच् चन्द्रेऽभिषूयमाणत्वव्यपदेश इत्यर्थः । भाष्योदाहृतश्रुतिभागे अम्बरधृतिरेव प्रतीयते न तु अम्बरान्तधृतिरित्यतो दिव आदीनां साक्षात् परमात्मधृतत्वाभावेऽपि सर्वाधाराकाशा-धारत्वेन सर्वाधारत्वमपि सिध्यतीत्यभिप्रायेणैतस्मिन्निति भाष्यं व्याचष्टे ॥ इदमक्षरमिति ॥ एको देवो बहुधा निविष्ट इत्यस्य शेषभूतं ‘यदा भारं तन्द्रयते सभर्तुं निधाय भारं पुनरस्तमेति’ इत्यस्य स परमात्मा भारं जगद्भारं निधाय कृत्वा तं भारं भर्तुं यदा तन्द्रयते तदाऽसौ पुनरस्तम् एतीत्यन्वयमभिप्रेत्य तदर्थमाह ॥ स च यदेति ॥ ननु भर्ता सन्निति श्रुतौ विष्णुवाचक-पदाभावात् कथं तस्या विष्णोः सर्वाधारत्वप्रतिपादकत्वमित्यत आह ॥ एतच्चेति ॥ तस्य ब्रह्मणः विष्णुत्वं प्रागेव समर्थितमिति भावः । यस्मिन्निदं सञ्च विचैधि सर्वम्’ इति श्रुतौ यच्छब्दस्य ‘यतः प्रसूता’ इत्यादि यच्छब्दवत् तदेव ब्रह्म परमं कवीनाम् इत्युत्तरवाक्यस्थेन तच्छब्देनान्वय इत्याह ॥ तदेव ब्रह्म’ इत्यर्थ इति ॥ श्रुतावेधीत्यस्यावर्धतेत्यर्थः । तथा चास्यापि श्रुतेर् विवक्षितार्थप्रतिपादकत्वादत्रोदाहरणं युक्तमिति भावः ॥

वाक्यार्थमञ्जरी

वाजसनेयके बृहदाहरण्यके ॥ यद्वा एतदिति ॥ हे गार्गीति याज्ञवल्क्यस्य स्वभार्यां प्रति सम्बोधनम् । तदेतदक्षरशब्दवाच्यं ब्रह्म अदृष्टमन्यैः साकल्येन द्रष्टं न भवति स्वयं तु दृष्टृ एवमग्रेऽपि योज्यम् । अन्येषामपि द्रष्टृत्वादिसद्भावात्किमनेनेत्यत आह ॥ नान्यदिति ॥ अतोऽक्षरादन्यत्स्वातन्त्र्येण दृष्टृ नास्ति । एवमग्रेऽपि आकाशः प्रकृतिः । नन्वक्षरशब्दस्य जडप्रकृतावपि सिद्धेः कुतो न तस्याः सन्देहविषयत्वमित्यत आह ॥ द्रष्टृत्वादीति ॥ प्रथम प्रतीतेरिति ॥ सदेव सौम्येति विषयवाक्ये तदैक्षतेत्यश्रवणादिति भावः । मध्यममित्यक्षरत्रया-पेक्षयोक्तिः । प्रशासने आज्ञायां विधृतौ विशेषेण धृतौ इत्यादेरित्यादिपदोक्तां स्मृतिमाह ॥ तथाचेति ॥ अक्षरमविनाशि । सूक्ष्मत्वादनिर्देश्यमदृश्यम् अप्रसिद्धत्वादव्यक्तं, सर्वत्रगं देशतो व्याप्तं, गुणबाहुल्यादचिन्त्यं, कूटे अव्याकृताकाशे अभिमानित्वेन स्थितं कूटस्थम्, अचलं कदापि स्वपदादभ्रष्टं ध्रुवं निर्विकारमित्यर्थः । इदं च चित्प्रकृतिपरमिति तात्पर्ये व्यक्तम् । आसीदिति गीताभाष्योक्तस्मृतिस् तमोभूतं तमोरूपं तम आसीत्तमसा गू•हमग्र इति श्रुतेर् अप्रज्ञातं शब्देन अलक्षणं लौकिकचिह्नरहितम् अतर्क्यम् अनुमानागम्यम् अनिर्देश्यं प्रत्यक्षेण प्रसुप्तमिव तदानीं जगद्व्यापाराभावात् । अभिषूयमाणम् अभिषवयुक्तम् । ननु सोम-पदोक्तचन्द्रस्य कथं यज्ञेषु अभिषवणमित्यत आह ॥ लताभिमानित्वेनेति ॥ यथा सोमो वैराजेत्यादौ हूयमानभक्ष्यमाणसोमलताभिमानित्वेन चन्द्रमसि हूयमानत्वभक्ष्यमाणत्वव्यपदेश-स्तथात्रापि सोममभिषुणोतीतिवाक्यविहिताभिषवणयुक्तसोमलताभिमानित्वेन चन्द्रेऽभिषूय-माणत्वव्यपदेश इत्यर्थः । ॐ अक्षरमम्बरान्तधृतेः ॐ । अक्षरङ्गार्गीत्युक्तमक्षरं ब्रह्मैव अम्बरान्तधृतेर् अम्बरमाकाशशब्दितं श्रीतत्त्वम् अन्तं यस्य सर्वस्य जगतस्तदम्बरान्तं तस्य धृतेर्धारणादित्यर्थः । दिवः स्वर्गाद्वैकुण्ठाद्वा ऊर्ध्वम् उपरि यदस्ति महर्लोकादिकं ब्रह्माण्ड-खर्परबहिरावरणादिकं वा पृथिव्या भूलोकात् पृथिवीसम्बन्धिसप्तलोकाद्वा अर्वाक् अधो यदस्ति तलादिकमण्डोदकादिकं वा ‘अन्तरा ऊर्ध्वार्वाक्शब्दवाच्ययोः पूर्वोक्त्योर्मध्ये वर्तमानं यदिमे प्रसिद्धे द्यावापृथिवी स्वर्गादिभूरादिके ‘भर्ता सन् भ्रियमाणो बिभर्ति’ ‘एको देवो बहुधा निविष्टः’ यदा भारन्तन्द्रयते सभर्तुं परास्यभारं पुनरस्तमेतीति श्रुतिं व्याचष्टे ॥ एको देव इति ॥ भर्त्तेत्यस्यार्थो भर्तुत्वेनेति । श्रुतौ परास्य निरस्य ॥ प्राणस्येति ॥ तस्य च विष्णुत्वं प्रागेव समर्थितमिति भावः । अभिअवर्धत अधिनिषेदुः । अवस्थिता बभूवुः ।


ॐ सा च प्रशासनात् ॐ

सूत्रभाष्यम्

॥ ॐ सा च प्रशासनात् ॐ ॥ ११ ॥

सा च धृतिः प्रशासनादुच्यत ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत’ (बृ.वि.५-८-९) इत्यादिना । तच्च प्रशासनं विष्णोरेव ।

‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ (ऋ.सं.१-१६४-३६)

‘चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतींरवीविपत्’ (ऋ.सं.१-१५५-६) इत्यादिश्रुतेः ।

१‘एकः शास्ता न द्वितीयोऽस्ति शास्ता’ (भारते) ।

‘यो हृच्छयस्तमहमिह ब्रवीमि’

‘न केवलं मे भवतश्च राजन्स वै बलं बलिनां चापरेषाम्’ (भागवते) इत्यादेश्च ।

तत्त्वप्रदीपिका

सप्तमहदादिदेवता ब्रह्मादयः ‘आर्द्धा’ आ समन्तादृद्धा गर्भा गरणेन भ्रियन्त इति । भूमा वननीयश्चेति भुवनः, भुवनस्य विष्णोः, रेतोरूपाश्च ते तस्यैव प्रदिशा प्रदेशेनाऽदेशेनाऽज्ञया, विविधधर्मणि तिष्ठन्ति ।

‘एकश्शास्ता न द्वितीयोऽस्ति शास्ता

गर्भे शयानं पुरुषं शास्ति शास्ता’ इति भारते ॥

तत्त्वप्रकाशिका

युक्त्यन्तरेण विष्णोरेवाक्षरत्वं प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे ॥ सा चेति ॥ यदा सर्वधारत्वमेवाक्षरस्य विष्णुत्वं निश्चाययति तदा सुतरामाज्ञामात्रेण सर्वाधारत्वं विष्णुत्व-निश्चायकमित्याशयः । कुतोऽनेन विष्णुत्वनिश्चय इत्यत आह ॥ तच्चेति ॥ सर्वधृतिकारणं प्रशासनं विष्णोरेव तत्कुत इति तत्राह ॥ सप्तेति ॥ महदहङ्कारपञ्चमहाभूताख्यसप्तदेवता ब्रह्माण्डाख्यातिसमृद्धगर्भास्तदावरणभूता भुवनस्य रतिप्रदाः सारभूता वा भुवनरतिप्रदस्य विष्णोराज्ञया विविधविश्वधारणे तिष्ठन्तीत्यर्थः । सर्वधृतिहेतुप्रशासनं विष्णोरिवान्यस्यापि किं न स्यादित्यत आह ॥ एक इति ॥ बलं बलप्रदो धृतिहेतुः ॥

गुर्वर्थदीपिका

रेत इति पदस्य सप्तपदोक्तबहूनां विशेषणत्वघटनाय ‘व्यत्ययो बहुलम्’ इति वचनाद्रेतस इति तावद्योजनीयम् । तच्च षष्ठ्यैकवचनेऽपि सममित्यतो भुवनरतिप्रदस्येति टीका । पर्यावर्तन-मात्रे चक्रदृष्टान्तः । विष्णोः सकाशाज्जगत्पर्यावर्तनं तु ‘प्रदिशा विधर्मणि’ इति समाख्या-श्रुतिबलादाज्ञयैवेति सिद्ध्यतीत्याशयवान्भाष्यकारः ‘चतुर्भिः साकम्’ इत्यृचमपि प्रमाणया-मास । यद्वा अन्तरङ्गत्वाद्विष्णोः स्वचक्रमेव निदर्शनम् ‘सर्वस्यान्तर्बहिः सोऽथ कृत्यां माहेश्वरीं विभुः । विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रमादिशत्’ इति भागवतवचनादक्षक्रीडां कुर्वतो भगवत आज्ञामात्रेण परिवर्तमानं पार्श्वस्थमिति हि स्मृतिः । अन्यथा करस्थमित्य-वक्ष्यत् । एवं च दार्ष्टान्तिकं जगदपि भगवदाज्ञामात्रेण परिवर्तमानमिति सिद्ध्यतीत्येतत् श्रुतिमपि सञ्जग्राहेति ज्ञेयम् । नृसिंहावतारात्प्राक् दैत्यकृतशस्त्रघाताद्युपद्रवस्य स्वाङ्गास्पर्शनं भगवदाज्ञामात्रेणेत्यतो ‘न केवलं मे भवतश्च राजन्’ इति प्रह्लादवाक्योद्धरणम् ।

भावबोधः

‘पतिं विश्वस्यात्मेश्वरं,’ ‘विश्वात्मानं परायणम्’ इति न्यायविवरणे उदाहृतप्रमाणाभ्यां विष्णोः सर्वाश्रयत्वसमर्थनम् । आदिपदोपात्तेन भाष्योदाहृतश्रुत्यादिना विष्णोरन्यस्य सर्वा-धारत्वं विरुद्धमित्यस्य समर्थनमिति बोद्धव्यम् । विश्वस्य पतिं सकललोकपालकत्वेन तदाधारम् आत्मेश्वरं लक्ष्म्यादिसकलचेतननियामकत्वेन तदाधारं ‘विश्वात्मानं परायणम्’ इति पदयोरपि क्रमेण पूर्वोक्त एवार्थः । सूत्रभाष्यगत ‘त’च्छब्द‘च’शब्दयोर्विधृतौ तिष्ठत इत्यादिनेति ‘आदि’पदस्य च तात्पर्यमाह ॥ यदा सर्वाधारत्वमेवेत्यादिना ॥ अतिसमृद्धेति ॥ सप्तार्धगर्भा इति संहितागतस्याकारस्यार्थोऽतीति । फलितमाह ॥ तदावरणभूता इति ॥ बलप्रदो धृतिहेतुरिति ॥ तथा च प्रकृते तदुदाहरणं युक्तमिति भावः ।

भावदीपः

सूत्रे चशब्दादाह ॥ युक्त्यन्तरेणेत्यादि ॥ धृतेरक्षराज्ञाधीनत्वोक्ता- वप्यक्षरस्य कथं विष्णुत्वसिद्धिरित्यतोऽभिप्रायमाह ॥ यदेति ॥ आज्ञामात्रेण सर्वाधारत्वाच्चेत्यर्थ उक्तो भवति । तच्छब्दार्थं व्यनक्ति ॥ सर्वधृतीति ॥ अर्धपदार्थोऽन्तिसमृद्धेति ॥ तदावरणेति फलितोक्तिः । रेतो रेतस इति व्यत्ययेन बहुवचनस्यैकवचनं मत्त्वाऽर्थद्वयमाह ॥ रतीति ॥ षाष्ठ्यर्थं मत्त्वाऽर्थमाह ॥ भुवनेति ॥ चतुर्भिरिति श्रुतिर्जन्मादिनय एव व्याख्याता । स वै बलमित्यस्य प्रकृतोपयोगायाऽर्थमाह ॥ बलमिति ॥

वाक्यार्थमुक्तावली

अत्रत्वक्षरमित्यनुवर्तते । यत उच्यते अत इति शेषः । चशब्दः युक्त्यन्तरसमुच्चायकः कैमुत्य-द्योतकश्च । ततश्च न केवलमम्बरान्तधृतिस् तत्रोच्यते । किं तु सा धृतिः प्रशासनादाज्ञामात्रेणा-प्युच्यते । यतोतो ब्रह्मैवाक्षरमित्यभिप्रेत्य भावमाह ॥ यदेति ॥ भाष्ये इत्यादीत्यादिपदप्रयोगा-त्सर्वाधारत्वमित्युक्तम् । तच्च प्रशासनमिति भाष्ये न केवलं धृतिरिति चार्थः । सप्तार्धगर्भा इत्यत्र सप्त अर्धगर्भा इति पदच्छेदस् तत्र आ समन्तादृद्ध अर्ध इति विग्रहमभिप्रेत्योक्तम् ॥ अतीति ॥ भावबोधे तु सप्तार्धगर्भा इति संहितागुणाकारस्यार्थ अतीत्युक्तम् । केचित्तु अर्धेत्यत्रार्थो अतीत्याहुः । फलितमाह ॥ तदावरणेति ॥ व्यत्ययेन रेतो रेतस इति मत्वा द्वेधा व्याचष्टे रतिप्रदाः सारभूतावेति । प्रकारान्तरेणार्थमाह ॥ रतिप्रदस्येति ॥ तथा च रेतस इत्यत्र षष्ठ्या अलुगिति भावः । बलप्रदो धृतिहेतुरिति । तथा च प्रकृते तदुदाहरणं युक्तमिति भावः ॥

अभिनवचन्द्रिका

ननु सर्वाधारत्वस्य विष्णुलिङ्गत्वात् तेनैव विष्णुत्वसाधनसम्भवाद् आज्ञामात्रेण सर्वाधारत्वरूपगुरुतरलिङ्गाश्रयणं व्यर्थमित्यत आह ॥ यदेति ॥ कैमुत्यर्थं तदाश्रयणमिति भावः ।

तत्त्वसुबोधिनी

सूत्रभाष्यगततच्छब्दयच्छब्दयोर् विधृतौ तिष्ठत इत्यादिना इत्यादिपदस्य च तात्पर्यमाह ॥ यदा सर्वाधारत्वमेवेत्यादिना ॥ अतिसमृद्धेति ॥ सप्तार्धगर्भ इति । संहितागतस्याकारार्थः ॥ अतीति ॥ फलितमाह ॥ तदावरणभूता इति ॥ बलप्रदो धृतिहेतुरिति ॥ तथा च प्रकृते तदुदाहरणं युक्तमिति भावः ।

वाक्यार्थमञ्जरी

सा च धृतिः प्रशासनादक्षरस्याज्ञामात्रादुच्यते । अतश्चाक्षरं ब्रह्मैवेत्यर्थः । आशब्दार्थो अतिसमृद्धेति ॥ तदावरणेति फलितोक्तिः । भुवनस्य रेत इत्येतदावृत्त्याह ॥ भुवनस्य रतिप्रदस्येति ॥ चतुर्भिरिति श्रुतिर्जन्मनये व्याख्याता । भाष्ये हृदयं श्रयत इति हृच्छ्रयः । प्रकृतोपयोगायाह ॥ धृतिहेतुरिति ॥