ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ
२. भूमाधिकरणम्
सूत्रभाष्यम्
‘प्राणो वा आशाया भूयान्’ इत्युक्त्वा ‘यो वै भूमा तत्सुखम्’ (छां.उ.७-२३) इत्युक्तेस्तस्यैव भूमत्वप्राप्तिः । ‘उत्क्रान्तप्राणान्’ (छां.उ.७-१५-३) इत्यादितल्लिङ्गा-त्प्राणशब्दश्च वायुवाचीत्यतो वक्ति–
॥ ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ ८ ॥
‘सम्प्रसादात्’ पूर्णसुखरूपत्वात् ‘अध्युपदेशात्’ सर्वेषामुपर्युपदेशाच्च विष्णुरेव भूमा ।
‘सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ॥
विश्वतः परमां नित्यम्’ (म.ना.उ.११) इति हि श्रुतिः ।
‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ (बृ.उ.६-४-२) इत्यादिना नोत्क्रमणादिलिङ्ग-विरोधोऽपि ॥
सत्तर्कदीपावली
यो वै भूमा तत्सुखम्’ इति श्रूयमाणोऽपि भूमा (पुनर्भूत्वा) विष्णुरित्येतदाक्षिप्य समाधीयते ॥ प्राणो वेत्यादिना ॥ प्राणो वा आशाया भूयानिति सन्निहितवाक्यबलात् प्राणशब्देनोक्तो वायुरेव भूमा इति चेन्मैवम् । प्राणशब्दस्य विष्णावप्युपपन्नत्वेन अत्र वायु-प्रापकशब्दाभावात् । नन्वस्य प्राणस्योत्क्रमणं श्रूयते ‘अथ यद्यप्येनमुत्क्रान्तप्राणान् शूलेन समासं व्यतिषं दहेत् । न चैनं ब्रूयुः पितृहासीति न मातृहासि’ इति । उत्क्रमणं मुख्यप्राणस्यैव लिङ्गमिति चेत् । मैवम् । विष्णोरप्युत्क्रमणसंश्रवणात् ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ इति श्रुत्यन्तरे । अतो ‘वाग्वाव नाम्नो भूयसी मनो वाव वाचो भूय’ इत्यारभ्य सर्वेषामुपर्युपदेशात् ‘तत्सुखं नाल्पे सुखमस्ति’ इति पूर्णसुखत्वोपदेशाच्च विष्णुरेव भूमा । पूर्णसुखाश्रयत्वं सर्वोत्तमत्वं चान्यत्र विष्णोरेव श्रूयते । ‘सहस्रशीर्षं देवम्’ इति । विश्वशम्भुवम् । पूर्णसुखास्पदं परमश्चासावश्चेति परमाम् इत्यर्थः । यो वै भूमा तदमृतं स एवाधस्तात्सोपरिष्टात्’ इत्यादिना सर्वगतत्वादिधर्मत्वेन व्यपदेशाच्च भूमा विष्णुर् न मुख्यप्राणः । अत्र प्राणशब्दस्य मुख्यतया मुख्यप्राणपरत्वमङ्गीक्रियते । इयदामननादित्यादौ उत्तरत्र प्रतिपादयिष्यमाणत्वादित्यर्थ इत्यनवद्यम् ॥
तत्त्वप्रदीपिका
‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति, भूमेव सुखम्’ इति श्रूयते । तत्र संशयः । किमयं भूमा प्राण उत परमात्मेति । ‘प्राणो वा आशाया भूयान्’ इत्युक्त्वा ‘यो वै भूमा तत्सुखम्’ इत्युक्तेः प्राणस्य भूमत्वप्राप्तिः । ‘अथ यद्यप्येतानुत्क्रान्तप्राणान् शूलेन समासं व्यतिषं दहेत्, नैवैनं ब्रूयुः, पितृहाऽसि मातृहासि’ इत्युत्क्रमणादिलिङ्गादत्र प्राणशब्दो वायुवाची । नहि विष्णोर्व्याप्तस्य देहोत्क्रमणं समस्ति । अत आह– ‘भूमा सम्प्रसादादध्युपदेशात्’ । ‘सम्प्रसादः’ पूर्णसुखं, सम्यक्प्रसीदत्यनेन पुरुष इति । पूर्णमेवात्र सुखं विवक्षितम् । ‘नाल्पे सुखमस्ति’ इत्युक्तत्वात् । गुणगुण्यैक्याद्भूमा विष्णुरिति च युक्तमेव । विश्वतो दर्शनादिकमस्येति विश्वाक्षम् । विश्वशम्भुवं पूर्णसुखस्थानम् । विश्वं प्रविष्टत्वेन वर्तमानम् । नारायणं मुक्तसङ्घव्यक्तं देवं प्रकाशरूपं, ‘द्युप्रकाश’ इति धातोः । विश्वतः परमं च तदञ्चेति विश्वतःपरमाम् । ‘विश्वं’ पूर्णं गुणैः ॥
तत्त्वप्रकाशिका
‘अत्र प्राणो वा आशाया भूयान्’ इत्युपक्रमेण ‘विष्णुर्वै देवेभ्यो भूयांस्तस्माद्भूयान्नाम’ इति श्रुत्या च वायुविष्णुसाधारणभूमनाम्नो विष्णौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयन् सयुक्तिकं पूर्वपक्षं दर्शयति ॥ प्राण इति ॥ आनन्दमयाधिकरणे पूर्णानन्दत्वं विष्णोरुक्तं तच्छन्दोगश्रुतौ भूम्नः प्रतीयते । ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्’ इति । तस्य च भूम्नो विष्णोरितरत्वे प्रागुक्तानन्दमयत्वं चेतरस्यैव प्रसज्येतेत्यवश्यं निर्णेयत्वम् । स भूमाऽत्र विषयः । किं विष्णुरुत वायुरिति सन्देहः । पूर्वोक्तसाधारण्यं सन्देहबीजम् । मुख्यप्राणोऽयं भूमेति पूर्वः पक्षः । अत्र नामवागादि- तारतम्यमाशावसानमुक्त्वा ‘प्राणो वा आशाया भूयान्’ इति प्राणस्याशोत्तमत्वं चाभिधाय तदुत्तममनुक्त्वा भूम्न आम्नातत्वात् । न च विष्णोरपि भूमत्वस्य श्रुत्यन्तरे प्रसिद्धत्वादत्र वाच्यत्वमिति वाच्यम् । उपक्रमात्समाख्याया दुर्बलत्वात् । अतो वायोरेव भूमत्वात्तस्यैवानन्द-मयत्वमिति भावः । ननु प्राणो वा आशाया भूयानित्युक्तप्राणशब्दस्य ‘अत एव प्राण’ इत्युक्तरीत्या विष्णुपरत्वाद् विष्णोरेव भूमत्वमित्यत आह ॥ उत्क्रान्तेति ॥ नायं प्राणशब्दो विष्णुवाची किन्तु वायुवाच्येव । तत्र ‘उत्क्रान्तप्राणान् शूलेन समासं व्यतिषन्दहेत्’ इत्यादौ प्राणस्योत्क्रमणादिश्रवणात् । तस्य वायावेव सम्भवात् । सर्वगते हरावसम्भवादित्यर्थः । सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे ॥ अत इति ॥ विष्णुरेवायं भूमा । ‘यो वै भूमा तत्सुखम्’ इति भूम्नः पूर्णसुखरूपत्वाभिधानात् । नामादीनां सर्वेषामुपरि तदुत्तमत्वेन व्यपदेशाच्चेत्यर्थः । न च वाच्यमत्र भूम्नः सुखरूपत्वमेवोच्यते न तु पूर्णसुखत्वमिति । निरुपपदसुखशब्दमात्रस्यापि पूर्णसुखार्थत्वात् । पूर्णसुखत्वादिकं च कुतो विष्णुत्वनिश्चायकमित्यत आह ॥ सहस्रेति ॥ विश्वशम्भुवं पूर्णसुखाश्रयम् । विश्वतः परमां सर्वतः परममकारवाच्यमित्यर्थः । न च सर्वोत्तमत्वं वायोरपि । विरोधादेव । नापि पूर्णानन्दत्वम् । ‘अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः’ इत्युक्तत्वात् । उपक्रमे प्राणशब्दश्रवणात् कथं भूमा विष्णुरिति चेन्न । प्राणशब्देनापि विष्ण्वङ्गीकारे प्रागुक्तोत्क्रमणादिविरोध इति तत्राह ॥ तमिति ॥ सर्वगतस्यापि विष्णो रूपान्तरविवक्षयोत्क्रमणस्य श्रुतिसिद्धत्वात् प्राणपदेन विष्ण्वङ्गीकारेऽपि न लिङ्गविरोध इति भावः । अस्तु वाऽयं प्राणो वायुरेव तथापि न तस्य भूमत्वप्राप्तिः । ‘एष तु वा अतिवदति’ इत्यादिना प्रश्नाद्यध्याहारेण प्राणाद्विष्णोर्भूयस्त्वमुक्त्वा भूम्न आम्नानात् । न चैतदर्थद्वयं विरुद्धम् । अन्तर्यामिविवक्षया प्राणपदेन विष्णोरुक्तेः ‘आत्मन आकाशः सम्भूतः’ इत्यादिवत् ॥
गुर्वर्थदीपिका
उत्क्रान्तप्राणान्, इत्यादि ‘तल्लिङ्गात्’ इति भाष्ये आदिपदेन अस्मिन्नेव प्रकरणे प्राणस्योक्तं स्वसन्निधानासन्निधानाभ्यामाविपालगोपालं स्वपितृदेहादौ स्नेहजनकत्वाख्यलिङ्गं गृह्यते । विश्वतः परमश्चासावश्चेति समासे सवर्णदीर्घे कृते द्वितीयान्तपदमध्ये पठितत्वादम्प्रत्यये च कृते सोमपामितिवत्परमामिति पदनिष्पत्तिर्ज्ञेया । पुल्लिङ्गविशेष्यस्य विशेषणत्वान्न स्त्रीलिङ्गतया समाधानम् । यद्यप्यत्र ‘विश्वशम्भुवम्’ इत्यन्तश्रुत्यैव पूर्णसुखत्वं सिद्धम् । अथाप्यत्रोच्यमानं सर्वोत्तमत्वमपि नारायणस्यैवेति सूचनाय शेषोदाहरणम् । एष तु वा अतिवदतीत्यादि-नेत्यत्राऽदिपदेन यः सत्येनातिवदतीति वाक्यशेषः सङ्गृह्यते । प्रश्नादीत्यादिपदेन प्रतिवचनं सङ्गृह्यते । अयमभिसन्धिः । ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति’ इति पूर्ववाक्ये प्राणोपासकस्यातिवादित्वमात्रमुक्त्वा ‘एष तु वा अतिवदति यः सत्येनानिवदति इत्युत्तरवाक्ये सत्योपासकस्य विशेषार्थकतुशब्देन’ ततोऽप्यतिशयितातिवादित्वमुच्यते । अतोऽर्थात्प्राणादपि सत्यनामकविष्णोर्विशेषेणाधिक्यं लभ्यते । एवं चात्रापि पूर्ववत्प्रश्न-प्रतिवचनयोर्न्यायप्राप्तत्वात् । ‘अस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवन्ब्रवीत्विति वाग्वाव नाम्नो भूयसि’ इत्यादाविव ‘अस्ति भगवः प्राणाद्भूय इति प्राणाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति सत्यं वाव प्राणाद्भूयः’ इति प्रश्नप्रतिवचनयोरध्याहारे कृते स्पष्टं प्राणाद्विष्णोरेवाधिक्यं सिद्ध्यतीति । नन्वेवमपि सत्यनाम्नो विष्णोरेवाधिक्यं सिद्धम् । न तु भूम्न इति चेन्न । अस्मिन्प्रकरणे सत्यविज्ञानमतिश्रद्धानिष्ठाकृतिसुखभूमाऽहमात्मान्तानां दशानां सह पठितत्वात्तेषां च ‘सैव हि सत्यादय’ इति सूत्रे परस्परमभेदस्य वक्ष्यमाणत्वात्सत्ये उक्तविशेषातिशयस्य भूम््नयपि न्यायप्राप्तत्वात् ॥
भावबोधः
प्राणो वा आशाया भूयान्, विष्णुर्वै देवेभ्यो भूयान्, तस्माद्भूयान्नामेत्यादेर्भूमशब्दो अज्ञानां साधारण इति न्यायविवरणस्याभिप्रायम् उपक्रमश्रुतिपदप्रयोगेण दर्शयन्नेव भूमशब्द-स्योभयत्र प्रसिद्धत्वमाह अत्र प्राणो वा आशाया इति ॥ श्रुत्या चेत्यस्य समाख्याश्रुत्येत्यर्थः । अत्र यद्यपि भूमशब्दो बहुशब्दात् ‘बहोर्लोपो भू च बहोः’ इति भावे निष्पन्नः । बहुत्वसङ्ख्या च लोकतो अन्यत्र प्रसिद्धा । तथापि बह्वन्नमित्यादौ बहुशब्दस्य वैपुल्येऽपि लोकेप्रयोगात् ततो निष्पन्नस्य भूमशब्दस्यात्र श्रुतौ ‘यो वै भूमा तदमृतम्’ ‘यो वै भूमा तत्सुखम्’ ‘स एवाधस्तात्’ इत्यादौ धर्मिणि प्रयोगाद् वैपुल्यविशिष्टधर्मिवाचकत्वं तस्योपपद्यत इत्युभयत्र प्रसिद्धत्वाविरोध इत्यभिप्रेत्य वायुविष्णुसाधारणभूमनाम्न इत्युक्तमित्यवधेयम् ।
ननु प्राणो वा इत्युपक्रमाद् विष्णुर्वा इति समाख्याया दुर्बलत्वात् कथं ततः साधारण्यम्? न च विष्णौ प्राणशब्दसमन्वयस्योक्तत्वेन उपक्रमस्य सम्भावितावकाशत्वात् समाख्यास्थ-विष्णुशब्दस्य प्राणे तदनुक्तेर्न समाख्यादौर्बल्यमिति वाच्यम्; तथात्वे समाख्याया निरवकाश-त्वेन उपक्रमात्प्राबल्यात् पुनः साधारण्यानुपपत्तिरिति चेन्न । अन्तराधिकरणेऽदृश्यत्व-लिङ्गेन्द्रादिश्रुत्योः सन्देहबीजत्ववदिहापि उपक्रमसमाख्ययोः प्राबल्याविवेकेनोभयत्र प्रसिद्धि-हेतुत्वसम्भवात् ।
अत एव न्यायविवरणे अज्ञानामित्यस्य न केवलं पूर्वपक्षसिद्धान्तन्यायाननुसन्धातॄणा-मित्यर्थः, किन्तूपक्रमसमाख्ययोः प्राबल्याद्यविवेकिनामित्यप्यर्थ इति भावः ॥ श्रुत्यादि-सङ्गतिमिति ॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु ‘ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण’ आत्मक्रीड आत्मरतिर् इत्यादिना द्युभ्वाद्यायतने उक्तस्य सर्वगतत्वादेः ‘स एवाधस्तात् स उपरिष्टाद् एवं विजानन्नात्मरतिरात्मक्रीडः यो वै भूमा तदमृतम्’ इत्यादिना भूमि्न श्रवणाद् भूम्नो विष्णोरन्यत्वे द्युभ्वाद्यायतनमप्यन्यदेव स्यादित्यपि पूर्वाक्षेपेण पूर्वपक्षोत्थानसम्भवादिति ज्ञातव्यम् ॥ किं विष्णुरिति ॥ अत्र ‘यो वै भूमा तत्सुखम्’ इत्युक्तो भूमा किं मुख्यवायुरुत विष्णुरिति चिन्ता । तदर्थं मुख्यशब्दोपर्युपदेशौ किं सुखमात्रा-शोत्तमत्वमात्रपरौ किं वा पूर्णसुखसर्वोत्तमत्वपराविति । तदर्थं भूम्नो विष्णुत्वे प्राणादुपरि अन्यस्य भूयस्त्वानुक्तिः प्रश्नाद्यध्याहाराभावपक्षो किं न युज्यत उत युज्यते । तदर्थं प्राणो वा आशाया भूयानित्युक्तः प्राणः किं मुख्यवायुरुत विष्णुरिति । तदर्थम् उत्क्रान्तप्राणानित्युक्तो-त्क्रमणं किं विष्णावनवकाशं पूर्णानन्दत्वं नाम वागादिसर्वोत्तमत्वं च वायौ सावकाशमुत विपरीतमिति । तदर्थं पूर्णानन्दत्वादेर्विष्णुमात्रनिष्ठत्वे उत्क्रमणस्य विष्णौ सावकाशत्वे च प्रमाणं नास्त्युतास्तीति । तथा प्राणो वा इत्युक्तप्राणस्य मुख्यवायुत्वपक्षेऽपि किं प्राणादन्यस्य भूयस्त्वानुक्तिरुत तदुक्तिरिति । तदर्थं प्राणाद्वाव भूयोऽस्तीति प्रश्नप्रतिवचनाद्यध्याहारो न कर्तव्य उत कर्तव्य इति । तदर्थमध्याहारज्ञापकं नास्त्युतास्तीति ॥ आशावसानमुक्त्वेति ॥ अनेन प्राणो वा आशाया भूयानित्युक्त्वेति भाष्यन्यायविवरणाभ्यां साक्षादाशाशब्दवाच्य-सरस्वत्युत्तमत्वरूपा युक्तिरुक्तेत्युक्तं भवति । अन्यथा, अस्य प्राणस्य अनुक्तियुक्त्या भूमत्व-प्राप्तावपि वायुत्वापत्तेरिति भावः । अत एव प्रागुक्तं सयुक्तिकमिति ॥ तदुत्तममनुक्त्वेति ॥ अनेन प्राणाद्भूयसोऽनुक्तिरिति न्यायविवरणांशो व्याख्यातो भवति ॥ पूर्णसुखरूप-त्वाभिधानादिति ॥ सम्यक् प्रसीदतीत्यनेन व्युत्पत्त्या सम्प्रसादशब्दः पूर्णसुखरूपत्वाभिधायक इति भावः । उपरीत्यस्यैवार्थ उत्तमत्वेनैवेति । तथा च सौत्रा‘धि’शब्दव्याख्यानरूपत्वमुपपद्यत इति भावः ॥ सर्वतः परममकारवाच्यमित्यर्थ इति ॥ अनेन परमामित्यत्र परमश्चासावश्चेति विग्रहः । सवर्णदीर्घेण रूपसिद्धिरित्युक्तं भवति । विरोधादेवेति ॥ विष्णुवायोरुभयोः सर्वोत्तमत्वस्यायोगादिति भावः । अत एव पूर्वं प्रतिज्ञावाक्ये वायोरपीत्यपिशब्दः । यद्वा यथा, विष्णोः स्वेतरसर्वोत्तमत्वं तथा वायोरपि न स्वेतरसर्वोत्तमत्वमिति । न च सर्वोत्तमत्वं वायोरपि स्यादित्यर्थः । अत्र अपिशब्दः सम्भावनाज्ञापनार्थः । कुत इत्यतो विरोधादेवेत्युक्तम् । कुत्रापि श्रुत्यादौ वायोः स्वेतरविष्ण्वादिचेतनादिसर्वोत्तमत्वस्यानुक्तिलक्षणविरोधादेवेति तस्यार्थः । अनेन प्राणस्य विष्णोः सकाशाद् भूयस्त्वानुक्तिरिति न्यायविवरणमुक्ततात्पर्यकं भवतीति ज्ञातव्यम् । ‘अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः’ इत्युक्तत्वादिति । अनेन प्राणा-द्विष्णोर्भूयस्त्वोक्तिश्चेति न्यायविवरणांशो व्याख्यातो भवति । ‘लक्षणं परमान्दो विष्णोरेव विशेषणम्’ इति पूर्वार्धसहितेनानेन प्राणाद्विष्णोः परमानन्दत्वलक्षणं भूयस्त्वस्य उक्तत्वात् । अत एव स्वकृतमुपपादनं न्यायविवरणमूलकमिति ज्ञापयितुं सूत्रभाष्ययोरुक्तक्रमं विहाय पूर्णानन्दत्वसर्वोत्तमत्वयोर् न्यायविवरणानुसारेण व्युत्क्रमेणोपपादनम् । परमानन्दत्वरूपभूयस्त्वे प्रमाणोदाहरणञ्च कृतम् ।
ननूपक्रमगतप्राणशब्दस्य विष्णुपरत्वे सिद्धे भवेद्विष्णोर्भूमत्वं तदेव कुत इत्यत आह ॥ अनन्तरमन्यमनुक्त्वेति । अनेनापि प्राणस्य विष्णोः सकाशाद् भूयस्त्वानुक्तिरिति न्यायविवरणमुक्ततात्पर्यकं भवति । अस्मिन् व्याख्याने तदक्षरार्थस्तु प्राणस्य विष्णोरिति सामानाधिकरण्यम् । भूयस्त्वेत्यतः पूर्वमुपन्यस्येति शेषः । तथा च पूर्वपक्षे प्राणस्य वायुत्व-मङ्गीकृत्य तस्मादन्यस्य भूयस्त्वानुक्तिर्या वायोर्भूमत्वे युक्तिरिति । तथा च ‘ता एव बल-वत्यस्तु’ इत्यनुव्याख्यानमपि समञ्जसं भवति । ‘च’शब्देन एष तु वा अतिवदति । यः सत्येनातिवदतीति प्राणाद् विष्णोर्भूयस्त्वोक्तिश्चेति । समग्रन्यायविवरणाभिप्रेतं पक्षान्तरमाह ॥ अस्तु वेति ॥ न्यायविवरणे ‘च’ शब्देनेत्यस्यानुक्तिश्चेत्यनुव्याख्यानगत ‘च’शब्देनेत्यर्थः । न्यायविवरणे पक्षान्तरेऽपि उक्तयुक्तिः ‘व्यतिहारो विशिषन्ति हीतरवत्’ इति सूत्रानुरोधेनेति द्रष्टव्यम् । न्यायविवरणोक्तहेतुं विवृणोति ॥ एष तु वा अतिवदतीत्यादिनेति । ज्ञापकेनेति शेषः । आदिपदेनैवं विजानन्नतिवादी भवतीति प्राणवादिनोऽतिवादित्वमात्रप्रतिपादक-वाक्यग्रहणम् । प्रश्नाद्यध्याहारप्रकारस्तु ‘व्यतिहार’ इति सूत्रव्याख्यानावसरे स्पष्टं वक्ष्यमाण-त्वान्नात्र प्रपञ्चित इत्यवधेयम् ॥ भूयस्त्वमुक्त्वेति ॥ अनेन ‘अध्युपदेशात्’ इति सूत्रांशो न्यायविवरणे व्याख्यात इत्युक्तं भवति । एतदर्थद्वयं न विरुद्धमिति । प्राणशब्दस्य विष्णु-वाचकत्वं वायुवाचकत्वमित्युक्तार्थं द्वयमित्यर्थः । अन्तर्यामिविवक्षयापि ‘अहं मनुरभवं सूर्यश्च’ इत्यादिवन्नेत्याह ॥ आत्मन आकाशः सम्भूत इत्यादिवदिति ॥ तथा च ‘प्राणो वा आशाया भूयान्’ इत्यत्र विष्णुवाय्वोरुभयोरपि प्रतिपाद्यत्वेनान्तर्यामिविवक्षया प्राणशब्दवाच्यस्य भूमत्व-वचनमिति ‘च’शब्देनेत्यादिन्यायविवरणस्य प्राणस्येति न्यायविवरणेन तमुत्क्रान्तमिति भाष्येण च न विरोध इत्यर्थः । अनेन ‘इयदामननात्’ इत्यादिवक्ष्यमाणसूत्रादिना विरोधः परिहृतो भवति । भाष्ये सर्वगतत्वादीत्यादिपदविवरणार्थं ‘यत्र नान्यत्पश्यति’ इत्यादिकमुदाहृतमिति ज्ञातव्यम् ।
भावदीपः
न्यायविवरणोक्तरीत्या साधारण्यं व्यनक्ति ॥ प्राणो वा इति ॥ तस्माद् देवेभ्यो भूयस्त्वा-दित्यर्थः । समाख्यायाः प्रक्रमाद्दौर्बल्येऽपि साभ्यासत्वेन सोपपत्तिकत्वेन च प्राबल्या-त्साधारण्यमविरुद्धम् । अत एव तस्माद्भूयान्नामेत्यन्तोक्तिः । भूमभूयश्शब्दयोरैकार्थ्यादिति भावः । न्यायविवरणे भूमशब्दोऽज्ञानां साधारण इत्यज्ञपदप्रयोगेऽपि तस्य पूर्वोत्तरपक्षन्यायानु-सन्धानहीनानाम् इत्यर्थत्वात् तस्य सर्वनयसाधारण्यादिहाज्ञानामिति नोक्तम् । भूमशब्दस्य अध्यात्मसम्बन्धभूमा भूम्नः क्रतुवज्ज्यायस्त्वमित्यादौ बाहुल्यरूपधर्मवाचित्वेन प्रयोगेऽपीह धर्मधर्मिणोरभेदविवक्षया पूर्णरूपधर्मिपरत्वमिति मत्वोक्तम् ॥ भूमनाम्नो विष्णाविति ॥ अधिकं चन्द्रिकायाम् । इत्यन्तभाष्यं सङ्गतिपरत्वेन तावद्व्याकुर्वन् यो वै भूमा तत्सुखमित्युक्तेरित्येतस्य भावार्थमाह ॥ आनन्दमयेति ॥ छन्दोगेति ॥ सप्तमेऽध्याये ‘यो वै भूमा तत्सुखम्’ इति सुखपदेनोक्तं पूर्णं सुखमिति । जडे अप्रसक्त्या निषेधायोगात् । अल्पेऽपूर्णे चेतने सुखं नेति वक्तव्ये तत्र स्वरूपसुखनिषेधे बाधाद्धर्मान्तरेण वाक्यशेषादिति न्यायेनासङ्कुचितपूर्णसुखनिषेध एव वाच्य इति तदन्यथानुपपत्या तत्सुखमित्युक्तस्य पूर्णसुखत्वलाभ इत्युपेत्य टीकायां शेषोक्तिः । अवशिष्टकृत्स्नभाष्यभावमाह ॥ तस्य चेति ॥ वक्ष्यमाणदिशोत्क्रमणलिङ्गेन निरवकाशप्राणश्रुतिसामानाधिकरण्याद् विष्णोरितरत्वे प्राणत्वे सतीत्यर्थः । यो वै भूमा तत्सुखमित्युक्तेरित्यस्य तात्पर्यम् ॥ प्रागुक्तेत्यादि ॥ इति सङ्गति सम्भवादित्यर्थः ।
तदेव भाष्यं पूर्वपक्षतद्युक्तितत्फलोक्तिपरत्वेन व्याकुर्वन् तस्यैव भूमत्वप्राप्तिरिति प्रतिज्ञांशार्थमाह ॥ मुख्येति ॥ प्राणपदस्य हरावपि भावान् मुख्येत्युक्तिः । कुत इत्यतस् तत्र हेतुत्वेनाध्युपदेशादित्येतद्व्यावर्त्त्योक्तिपरमुक्त्वेत्यन्तभाष्यं व्याचष्टे ॥ नामेति ॥ नामवाङ्मन-स्संकल्पचित्तध्यानविज्ञानबलान्नाप्तेज आकाशस्मराशाशब्दितान् उषः स्वाहापर्जन्यमित्राग्नि-वरुणविधुप्रवहानिरुद्धप्राणेन्द्रोमारुद्रवाणीरूपदेवान् नारदसनत्कुमारप्रश्नोत्तराभ्याम् उत्तरोत्तराति- शयितत्वेनोक्त्वेत्यर्थः । एतच्च तदुत्तममनुक्त्वेति वक्ष्यमाणानुक्तिरूपयुक्तेर्निरवकाशत्वायोक्तम् । तथा च विवरिष्यामः । इत्युक्त्वेत्यस्य कर्मकारणं निष्कृष्याह ॥ प्राणस्येति ॥ एतच्च प्राणस्य मुख्यप्राणत्वेनानुक्तिर्बाधिकेति वक्तुम् । ननु मध्येऽन्योक्त्यापि भूम्न उक्तिसम्भवान्नेदं भूम्नः प्राणत्वसाधकमित्यतः प्राणो वा आशाया भूयानित्युक्त्वा प्राणाद्भूयसोऽनुक्तिरिति न्यायविवरणोक्तं संयोजयति ॥ तदुत्तममिति ॥ यदीह नामादिभ्यो वागादिवत् प्राणाद्भूमाऽन्यः स्यात्तदाऽस्ति भगवो नाम्नो भूय इत्यादिप्रश्नवद् वाग्वाव नाम्नो भूयसीत्यादिप्रतिवचनवच्च अस्ति भगवः प्राणाद्भूय इति प्रश्नः भूमा वाव प्राणाद्भूयानिति प्रतिवचनं च स्यात् । भूम्नः सर्वोत्तमत्वार्थमेव नामवागादितारतम्यस्य प्रक्रान्तत्वात् । न च यदर्थमन्यत्प्रक्रान्तं तदनुक्ति-र्युक्तेति भावः । निरवकाशानुक्तिबलाद् भूमा प्राण एव । भूम्नः प्राणत्वे तु नानुक्तिर्बाधिका । प्राणो वा आशाया भूयानित्युक्तत्वादिति भावः । भूमप्राणयोर्मध्ये सत्यं त्वेव विजिज्ञासितव्य-मित्यादिना सत्यविज्ञानमतिश्रद्धानिष्ठाकृतिसुखानां वस्तूनामुक्तत्वेऽपि तेषां सैव हि सत्यादय इत्यग्रे वक्ष्यमाणादिशा भूमाऽभिन्नत्वात्तदुत्तममनुक्त्वे(त्युक्तं)ति युक्तम् । श्रुत्यन्तरे विष्णुर्वै देवेभ्य इत्यत्र ॥ उपक्रमादिति ॥ न च समाख्यापि साभ्यासत्वेन सोपपत्तिकत्वेन च प्रबलेति शङ्क्यम् । निरवकाशानुक्तिसचिवस्य बलवत्त्वादिति तात्पर्यार्थः ॥ अत इति ॥ निरव-काशानुक्तिसहितोपक्रमादित्यर्थः । यो वै भूमेति वाक्यतात्पर्यम् ॥ तस्यैवेति ॥ एवं प्राणा-द्भूम्नोरेकप्रकरणत्वम् अथापि भूमा विष्णुः स्यादित्याशङ्कापूर्वम् उत्क्रान्तेत्यादिभाष्यं व्याचष्टे ॥ नन्विति ॥ इत्युक्तरीत्येति ॥ यद्यपि तत्र निरवकाशलिङ्गबलेन प्राणश्रुतेर्वैष्णवत्वं निर्णीतम् इह च तन्नास्ति । तथापि जीवनहेतुत्वादिप्राणपदप्रवृत्तिनिमित्तस्य हरौ पुष्कलत्वेन अन्यगतस्य तदधीनत्वाल्पत्वाभ्यां विष्णौ महायोगविद्वद्रूढ्युक्त्या विष्णौ मुख्यत्वस्योक्तत्वात् तत्त्याज-कस्येहाभावादत्रापि प्राणपदस्य वैष्णवत्वमिति शङ्काशयः । भाष्ये चोऽवधारणे भिन्नक्रम इति मत्त्वा तदर्थं व्यनक्ति ॥ नायमिति ॥ उत्क्रान्तेति ॥ उत्क्रान्तः प्राणो येषां तान् उत्क्रान्त-प्राणान् मातापित्रादीन् साकल्येनैकदेशेन (समासं समासेन सङ्कोचेन व्यतिषं विलुण्ठ्य सामस्त्येनेति यावत्) शूलेन दहेत् । नैनं ब्रूयुः पितृहासीति न मातृहासीत्यादौ वाक्ये इत्यर्थः ॥ सर्वगत इति ॥ अदृश्यत्वादिनये सर्वगतं सुसूक्ष्ममिति सर्वगतत्वगुणस्य समन्वितत्वादिति भावः ॥ आकाङ्क्षाक्रमेण भाष्यं व्याचष्टे ॥ विष्णुरेवेति ॥ तत्त्वित्यनुवृत्तस्यार्थोऽयम् । सम्यक्प्रसीदत्यनेन पुरुष इति तत्वप्रदीपदर्शितव्युत्पत्तिं हृदि कृत्वा भाष्ये सम्प्रसादादित्येतत् पूर्णसुखरूपत्वादिति व्याख्यातम् । तत् श्रुतौ केन लब्धमित्यत आह ॥ तत्सुखमितीति ॥ तस्य भूमनिष्ठत्वद्योतनाय यो वै भूमेत्यंशोक्तिः । अर्थोक्तिपूर्वं भाष्यपदमनुवदति ॥ नामादीनां सर्वेषामिति ॥ उपरीत्यनूद्यार्थमाह ॥ तदुत्तमत्वेनेति ॥ प्राणभूम्नोर्द्वयोरपि विष्णुत्वमिति भाष्यपक्षे प्राणान्तर्यामित्वेनैव प्राणपदेन विष्णोर्गृहीतेर्नामादिप्राणान्तात् सर्वस्मादुत्तमत्वम् । यदा तु प्राणस्य वायुत्वं भूम्न एव तु विष्णुत्वमिति न्यायविवरणादिपक्षस्तदापि प्रश्नाद्यध्याहारेण सर्वस्मादुत्तमत्वं प्राप्तमिति नासिद्धो हेतुरिति भावः । उत्तरसूत्रस्थचकारोऽत्राप्याकर्षणीय इति भावेनाह ॥ व्यपदेशाच्चेति ॥ तथा च सम्प्रसादात् प्राणादधि उपरि उपदेशादिति पररीत्या एक एवायं सौत्रो हेतुरिति न भ्रमितव्यमिति भावः ॥ पूर्णसुखार्थत्वादिति ॥ मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय इति न्यायात् । मुख्यस्य निर्विशेषेण शब्द इति स्मृतेर्नाल्पे सुखमस्तीति वाक्य-शेषबलाच्च सङ्कोचकापवादकस्याभावे पूर्णसुखलाभादिति भावः । पूर्वपक्षिणाऽऽक्षिप्तोऽप्ययं हेतुस्तत्प्रापकखण्डनेन स्थिरीभविष्यतीति भावः ।
यद्वा नामादिप्राणान्तेभ्यः सर्वेभ्योऽप्युत्तमत्वेनोपदेशादिति निरवकाशहेतुसाहित्यान्नै-तदन्यशङ्कार्हमितिभावेन सम्प्रसादादित्युक्तिः । अत एव भाष्ये चशब्दः ॥ सर्वतः परममकार-वाच्यमिति ॥ परमश्चासावश्चेति विग्रह इति भावः । अनेन सर्वोत्तमत्वमुक्तम् । परममिति द्राविडपाठेऽपि आन्ध्रपाठानुरोधात् परमामित्युक्तिः । शिष्टश्रौतवदार्थस्तु विश्वतो दर्शनादिक-मस्येति विश्वाक्षम् । विश्वं प्रविष्टत्वेन वर्तमानम् । नारायणं मुक्तसन्धाश्रयम् । देवं प्रकाश-रूपम् । विश्वं गुणैः पूर्णमिति तत्वप्रदीपे व्यक्तः । द्वितीयान्तस्य तद्विश्वमुपजीवतीति कर्तृक्रियाभ्यामग्रे श्रुताभ्यामन्वयः ।
ननु श्रुत्यन्तराद्विष्णोरिव निरवकाशलिङ्गोपेतप्राणोपक्रमात् प्राणस्याप्यस्तु सर्वोत्तमत्वं पूर्णानन्दत्वं चेत्याशङ्क्याऽऽह ॥ न चेति ॥ विरोधादिति ॥ अन्योन्यापेक्षयाऽन्योन्यस्य परावरत्वप्राप्तेरिति भावः ॥ इत्युक्तत्वादिति ॥ अन्तरनये सुखविशिष्टेति सूत्रभाष्य इत्यर्थः । अनुक्तिसहितस्यैवोपक्रमस्य भूम्नः प्राणसाधकत्वादाह ॥ अनन्तरमिति ॥ रूपान्तरेति ॥ सर्वरूपाणां सर्वगतत्वेऽप्युत्तरनये वक्ष्यमाणरीत्याऽणुत्वस्यापि सर्वरूपेषु सत्वेऽपि यस्मिन् देहस्थादिरूपे महत्त्वं शक्त्यात्मनाऽस्ति तादृशरूपे क्रियावत्त्वस्यापि सम्भवात् श्रुतिसिद्ध-त्वाच्चेत्यर्थः । स्पष्टमुपपादितमेतच्चन्द्रिकायाम् । नन्वेवमत्र भाष्ये प्राणभूम्नोरेकत्वमुपेत्य उत्क्रमणं कथञ्चित्समाधाय द्वयोर्विष्णुतोक्तौ एष तु वा अतिवदतीति तुशब्दयोग आशाशब्दोक्त-सरस्वतीतो मुख्यवायोरुत्तमत्वमनुक्त्वा विष्णोरेव तदुक्त्ययोगश्च । इयदामननादित्यादिनयैः ‘आशा सरस्वती प्रोक्ता तत्प्रकृष्टसुखत्वतः । प्राण इत्युच्यते वायुः सर्वे त्वेते दशोत्तरा’ इत्यादिच्छान्दोग्यभाष्येण च विरोध इत्यत एष तु वा अतिवदति यः सत्येनातिवदतीति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्चेति न्यायविवरणानुरोधेन प्राणभूम्नोर्भेदमुपेत्याह ॥ अस्तु वेति ॥ अन्यथा प्राणपक्ष एव प्राणस्य विष्णोः सकाशाद् भूयस्त्वोक्तिर्न्यायविवरणोक्ता बाधिका । अध्याहारस्यापि कल्पकाभावेनानवकाशाच्चेति भावः ॥ इत्यादिनेति ॥ ज्ञापकेनेति शेषः । पूर्वत्र प्राणवादिनोऽतिशयितवस्तुवादित्वमुक्त्वा एष तु वा अतिवदति यस्सत्येनातिवदतीति सत्याख्यवस्तुवादिनः प्राणवादिनोऽप्यतिशयितवस्तुवादित्वोक्त्या तु शब्देनाध्याहारो ज्ञाप्यते । सत्यभूम्नोरभेदश्च सैव हीत्यादावग्रे व्यक्त इति भावः ॥ प्रश्नादीति ॥ व्यक्तमेतत्तृतीये व्यतिहारो विशिंषन्ति हीतरवदित्यत्र । तेनास्यापौनरुक्त्यमपि चन्द्रिकायां व्यक्तम् । भाष्योक्तेरभिप्रायं वक्तुमाह ॥ न चैतदिति ॥ अन्तर्यामीति ॥ प्राणशब्दस्य वायुपरत्वेऽपि आत्मन आकाशः सम्भूत इत्यादावाकाशादिशब्दैरिवान्तर्यामिविवक्षया भाष्ये प्राणपदेन विष्णोरुक्तेरित्यर्थः । वक्ष्यते च कारणत्वेनेत्यत्राकाशादिशब्दानामन्यपरत्वेऽपि विष्णुपरत्वम् ॥
अभिनवचन्द्रिका
अत्र प्राणेति ॥ ‘उपक्रमेण’ इति स्वरूपकथनार्थम् । साधारण्यव्युत्पादनस्य श्रुतिद्वयोप-न्यासमात्रसाध्यत्वात् ॥ तच्छन्दोगश्रुताविति ॥ अनेनैतदधिकरण प्रतिपाद्यस्याऽऽनन्द-मयाधिकरणप्रतिपाद्यस्य च पूर्णानन्दत्वेन प्रतीयमानत्वम्, आनन्दमयाधिकरणतच्छ्रुतिभ्याम् अस्याधिकरणस्य सङ्गातिरित्युक्तमिति बोध्यम् ॥ अत्र नामेति ॥ अत्र यद्यपि प्राणमभिधाय तदुत्तममनुक्त्वा भूम्न आम्नातत्वान् मुख्यप्राणो भूमेत्येव वक्तव्यम् । मुख्यप्राणो भूमेति पूर्वपक्षं प्रति एतन्मात्रस्यैवोपयुक्तत्वात्, तथापि यत्प्राणोक्त्यनन्तरं भूमाऽऽम्नातः स प्राणो मुख्य एव कुतः, विष्णुरेव किं न स्यादित्याशङ्कानिरासाय सरस्वतीपतित्वरूपप्राणलिङ्गप्रदर्शनाय प्राणस्य आशाया भूयानिति आशोत्तमत्वं चाऽभिधायेत्युक्तम् । आशाशब्देन सरस्वतीविवक्षितेति कुतो विज्ञेयं श्रीरेव विवक्षिता किं न स्यादित्याशङ्कापरिहाराय नामवागादितारतम्यम् आशावसान-मुक्त्वेत्युक्तम् ॥ समासं व्यतिषं दहेदिति ॥ समासमिति क्रियाविशेषणम् । वि अति समित्युपसर्गत्रयम् । ततश्च समासं यथा भवति तथा सङ्कुच्येति यावत् । पित्रादीन् दहेत्, तदा, एनं दाहकं पितृहा वै त्वमसीत्यादिकं न ब्रूयुरित्यर्थः । व्यतिषमित्यस्य व्यत्यस्येत्यर्थ इत्यप्याहुः । पूर्णसुखरूपत्वाभिधानादिति ॥ नन्विदमत्रायुक्तं वर्तते । किमत्रायुक्तं वर्तते । पूर्णसुखरूपत्वाभिधानाद् विष्णुरेवायं भूमेति अन्योन्याश्रयात् । तथाहि प्राक् भूम्नो विष्णो-रितरत्वे आनन्दमयत्वस्याऽऽक्षिप्तत्वेनानन्दमयत्वसिध्द्यर्थमेव भूमत्वस्य साध्यमानत्वाद् भूमत्व-सिद्धौ पूर्णसुखत्वसिद्धिः । पूर्णसूखत्वसिद्धौ भूमत्वसिद्धिरिति चेत् ।
संस्तुत्य चरणौ सत्यनिधेः सम्यग्जगद्गुरोः ।
दुर्घटस्यापि चोद्यस्य वक्ष्येऽभिनवमुत्तरम् ॥
तथा हि ॥ भूम्नः विष्णोरितरत्वे प्रागुक्तानन्दमयत्वस्यैवाक्षिप्तत्वेन पूर्णसुखरूपानन्द-मयत्वस्य विष्णुलिङ्गत्वानपायात्, निरवकाशेन पूर्णसुखत्वेन भूम्नो विष्णुत्वं प्रसाध्यते नानन्दमयाधिकरणोक्तानन्दमयत्वं विष्णोरेव नान्यस्येति साधने बाधकाभावात् । न चास्य निरवकाशत्वमसिद्धमिति वाच्यम् । ‘अव्यक्तादितृणांतास्तु विप्रुडानन्दभागिन’ इति अन्येषां पूर्णसुखत्वनिषेधात् ॥ नामादीनां सर्वेषामिति ॥ नन्वसिद्धो हेतुः ‘प्राणो वा आशाया भूयान्’ इति प्राणस्याशोत्तमत्वाभिधायकवाक्यवद् भूम्नो नामादिसर्वोत्तमत्वाभिधायक ‘भूमा वा नामादिभ्यः सर्वेभ्यो भूयान्’ इति वाक्यस्यादर्शनादिति चेत्, सत्यम् इह भूमा वा नामादिभ्यः सर्वेभ्यो भूयान्’ इति वाक्यं नास्ति, तथापि प्राणवादिनोऽतिवादित्वमुक्त्वा, एष तुवा अति-वदति यः सत्येनाऽतिवदति’ इति तु शब्देन प्राणवादिनः सकाशात् सत्याख्यभगवद्वादिनो विशेषाभिधानेन तस्य नामादिसर्वोत्तमस्यैवासिद्धेः । परमश्चासौ अश्चेति विग्रहमभिप्रेत्य ‘विश्वतः परमाम्’ इत्येतदनूद्य व्याचष्टे ॥ विश्वतः परमामिति ॥ अस्तु वेति ॥ ‘अस्तु वा’ इत्ययं निपातसमुदायो ऽथवेत्यर्थे वर्तते । एतेन अस्तु वा’ इत्यस्याङ्गीकारवादत्वेनाऽप-सिद्धान्तत्वात् ‘न चैतदर्थद्वयं विरूद्धम्’ इति विरोधमाशङ्क्य परिहाराभिधानमयुक्तमिति परास्तम् ॥ एष तु वेति ॥ ‘एष तु वा अतिवदति’ इत्यादिना लिङ्गेन गम्यमानेन प्रश्नाद्य-ध्याहारेणेत्यर्थः ॥ न चैतदर्थद्वयं विरूद्धमिति ॥ ‘प्राणशब्देन विष्णोरुक्तत्वात्’ इति प्राण-पदव्याख्यानं च विरुद्धमित्यर्थः । तथा हि विष्णोर्निरवधिकसर्वोत्तमत्वेन प्रश्नाद्यध्याहाराऽ-सहिष्णुत्वात् प्राणस्य तु निरवधिकसर्वोत्तमत्वाभावेन तदुत्तमत्वसद्भावात्, प्रश्नाद्यध्याहार-सहिष्णुत्वादिति । सत्यं निरवधिकोत्तमत्वात्, तदपेक्षया उत्तमो नास्तीति, तथापि प्रश्नाद्य-ध्याहारो न युज्यत’ इति गूढाभिसन्धिरुत्तरमाह ॥ अन्तर्यामिविवक्षयेति ॥ स्वाभिसन्धि-मुद्घाटयितुं दृष्टान्तमाह ॥ आत्मन आकाशः सम्भूत इत्यादिवदिति ॥ भूताकाशवद् अन्तर्नियामकस्य हरेर् उत्पत्तिविधुरत्वेऽपि प्राद्रुर्भावमात्रविवक्षया ‘आत्मन आकाशः सम्भूत’ इत्यादौ सम्भूतत्वव्यपदेशवद् इहापि प्राणवद्धरेरुत्तमाभावेऽपि प्राणान्तर्यामिरूपापेक्षया मूल-रूपस्य स्वेच्छैयैवाऽनुग्रहकर्तृत्वरूपविशेषसद्भावेन तदभिप्रायेण प्रश्नाद्यध्याहारेणोत्तमाभिधानं युज्यत इति भावः । एतेन विष्णोः प्राणपदवाच्यत्वेन विष्णुग्रहणसम्भवाद् अन्तर्यामिविवक्षयेति व्यर्थमिति परास्तम् ।
पूर्वपक्षस्तु – अयं भूमा मुख्यप्राणो भवेत् । प्राणस्योत्तमत्त्वमुक्त्वा’ तदुत्तममनुक्त्वा भूम्न आम्नातत्वात् ‘शूलेन समासं व्यतिषं दहेत्’ इति उत्क्रमणश्रवणाच्च । न चेदं लिङ्गं विष्णाव-वकाशमर्हति । सर्वगतत्वात् । ततश्च आनन्दमयोऽपि स एवेति ।
सिद्धान्तस्तु – विष्णुरेवायं भूमा । पूर्णसुखत्वात् । तस्य चान्यत्र निरवकाशत्वात् । किं च अस्य भूम्नः सर्वेषामुपर्युपदेशः श्रूयते । न चासावन्यत्रावकाशं लभते । न चोपक्रमे प्राण-शब्दश्रवणात्कथमसौ विष्णुरिति वाच्यम् । प्राणशब्देनापि विष्णोरुक्तत्वात् । न चोपक्रमण-लिङ्गविरोधः । ‘तमुत्क्रान्तं प्राणोऽनुक्रामति’ इति श्रुतिसिद्धत्वेन तस्य विष्णावेव मुख्यत्वात् । अथवा अयं प्राणो वायुरेव, तथापि न तस्य भूमप्राप्तिः, एष तु वा अतिवदति’ इत्यादिना सूचितेन प्रश्नाद्यध्याहारेण प्राणाद्विष्णोर्भूयस्त्वमुक्त्वा भूम्न आम्नानात् । ननु प्राणशब्दस्य विष्णुरूपार्थद्वयं विरुद्धस्वभावम् । वायोः ‘असि भगवः प्राणाद्भूय’ इति, भूमा वाव प्राणो भूयानिति, प्रश्नप्रतिवचनसहिष्णुत्वाद् विष्णोः सर्वोत्तमत्वं न तदसहिष्णुत्वादिति चेत्, न प्राणपदेन वाय्वन्तर्गतस्य विष्णोरभिधानात् । एवं च ‘आत्मन आकाशः सम्भूत’ इत्यत्र सम्भूतपदेन भूतस्य तदभिमानिदेहस्य च स्वरूपोत्पत्यभिधानेऽपि, तदभिमानिनो हरेश्च, देहसम्बन्धप्रादुर्भावयोश्चाऽभिधानवत् ‘भूमा वाव प्राणो भूयान्’ इत्यनेन स्वरूपोत्तमत्वस्य भूम्नो ऽभिधानेऽपि वाय्वन्तर्गतप्रसादोन्मुखत्वरूपोत्तमत्वविशिष्टभूमाभिधानसम्भवेन प्रश्नप्रतिवचन-सहिष्णुत्वात् । किं च ‘स एवाऽधस्तात्स उपरिष्ठात्’ इत्यादिना भूमि्न सर्वगतत्वादयो धर्माः श्रूयन्ते । नैतेऽन्यत्रावकाशं लभन्ते । एवं च निरवकाशेभ्यः सर्वगतत्वादिभ्यो भूमा विष्णुरेवेति तस्यैवाऽऽनन्दमयत्वमिति सिद्धम् ।
वाक्यार्थमुक्तावली
श्रुत्या चेति समाख्याश्रुत्या चेत्यर्थः । ननु भूमशब्दो भाववाची तत्कथं धर्मिणोः शक्यता कथं च भूयानित्यनेन समानार्थस् तस्य धर्मिवाचित्वात् । कथं च नामात्मकः । मैवम् । यो वै भूमा तत्सुखमित्याद्युत्तरवाक्यपर्यालोचनया भावभवित्रोरभेदाभिप्रायेण भवितृविषयतावगमादिति न्यायविवरणटीकायामाशङ्क्य समाहितम् । ननु उपक्रमात्समाख्याया दौर्बल्यात् कथं ततः साधारण्यम् । न च विष्णौ प्राणशब्दसमन्वयस्योक्तत्वादुपक्रमस्य सावकाशत्वात् समाख्यास्थ-विष्णुशब्दस्यान्यत्र निरवकाशत्वान्न समाख्याया दौर्बल्यमिति वाच्यम् । तथात्वे पुनः साधारण्यानुपपत्तिः । निरवकाशसमाख्यायाः सावकाशोपक्रमात्प्राबल्यायोगादिति चेन्न । अन्तराधिकरण इवोपक्रमसमाख्ययोः प्राबल्याद्यविवेकेनोभयत्र प्रसिद्धहेतुत्वोपपत्तेः । अत एव न्यायविवरणे अज्ञानां साधारणमित्युक्तम् । उपक्रमात्समाख्याया दौर्बल्येऽपि साभ्यासत्वेन, सोपपत्तिकत्वेन च प्राबल्यात्साधारण्यमविरुद्धम् । अत एव तस्माद्भूयान्नामेत्यंशोक्तिरित्येके ॥ श्रुत्यादिसङ्गतिमिति ॥ यो वै भूमा तत्सुखमित्युक्तेरिति भूम्नः पूर्णसुखाभिधानेन आनन्द-मयाधिकरणतदुपात्तश्रुतिसङ्गतेर् भूमत्वप्राप्तिरित्यनेन भूमाविषय इत्यस्य, प्राणो वा आशाया इत्युक्त्या संशयकोटेः सबीजस्य सूचनात् । विष्णुकोटेस्तु सिद्धत्वादिति भावः । अव्यवहित-सङ्गतिस्तु, यस्मिन् द्यौरित्युक्तद्युभ्वाद्यायतनत्वोपपादनाय ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चात्, दक्षिणतश्चोत्तरेणेत्यादिना यत्सर्वगतत्वम् ब्रह्मैवेदं विश्वमिति सर्वस्य तदायतनत्वं चोक्तम् । तदेव स एवाधस्तादित्यादिना स एवेदं सर्वं, यत्र नान्यत्पश्यतीत्यादि च भूम्न आम्नायते । यद्ययं भूमान्यः स्यात्तर्हि द्युभ्वाद्याश्रयोऽप्यन्यः स्यादिति बोध्यम् । पूर्णानन्दत्वं भूम्नः कथं प्रतीयत इत्यतः समग्रवाक्यमुदाहरति ॥ यो वै इति ॥ तत्सुखमित्युक्तं सुखं पूर्णमेव विवक्षितम् । निरपवादसुखशब्दस्य पूर्णसुखार्थत्वात् । नाल्पे सुखमस्तीत्युपपाद्य भूमैव सुखमिति निगमनेन अपूर्णसुखवत्यपि रमादौ सुखनिषेधान्यथानुपपत्या पूर्णसुखनिषेधलाभेन भूम्नस् तत्सुखमित्युक्त-सुखस्य पूर्णत्वलाभाच्चेति भावः ॥ किं विष्णुरिति ॥ अत्र यो वै भूमा तत्सुखमित्युक्तो भूमा प्राणादुत्तमानुक्त्युत्क्रमणलिङ्गाभ्यां किं वायुर् उत पूर्णसुखरूपत्व, सर्वोपर्युपदेश, सर्वगत्वादि-लिङ्गैर् विष्णुरिति चिन्ता । तदर्थं विष्णुप्रापकानां वायौ सावकाशत्वं, वायुप्रापकानामन्यत्र निरवकाशत्वं वा, उत वायुप्रापकानां विष्णौ सावकाशत्वं, विष्णुप्रापकानामन्यत्र निरव-काशत्वमिति । तस्यैव भूमत्वप्राप्तिरित्यंशं व्याचष्टे ॥ मुख्यप्राण इति ॥ कुत इत्यतो ऽध्युपदेशादित्येतद्व्यावृत्तिपरं मुक्तेत्यन्तभाष्यं व्याचष्टे ॥ नामेत्यादिना ॥ एतेन उक्तेति भाष्ये आवर्तते । तच्च कर्मसापेक्षमध्याहृतेन नामवागादितारतम्यमाशावसानमित्यनेनान्वेति । आशाया भूयानिति प्राणस्याशोत्तमत्वं चोक्त्वा, यो वै भूमा तत्सुखमिति भूम्न एवोक्तेरित्युक्त्या अन्यमनुक्त्वेति लभ्यते इति भावेन प्राणाद्भूयसोऽनुक्तिरिति स्पष्टं न्यायविवरणानुसारेण तदुत्तममनुक्त्वेत्युक्तम् ।
इदमुक्तं भवति । प्राण एवायं भूमा न तु विष्णुस् तथात्वे प्रश्नप्रतिवचनाभ्यां प्राणा-दुत्तममुक्त्वा तस्य भूमत्वस्य वक्तव्यत्वात् । भूम्नः सर्वोत्तमत्वार्थमेव, नाम, वाङ्, मनः, सङ्कल्प, ध्यानविज्ञानबलान्नाप्तेज आकाशस्मराशाशब्दितानामुषआदिसरस्वत्यन्तानां तारतम्यस्य प्रक्रान्तत्वात् । न च प्राणादुत्तम उक्तस् तद्विषयप्रश्नाद्यभावात् । भूम्नः प्राणत्वे तु नानुक्तिर्बाधिका तस्याशातोत्तमत्वेन प्रक्रान्तसर्वोत्तमत्वाविरोधात् । न च भूमप्राणयोर्मध्ये सत्यं त्वेव विजिज्ञासितव्यमित्यादिना सत्यादीनामुक्तत्वात् कथमनुक्तिरिति वाच्यम् । सिद्धान्तिनोऽपि सैव हि सत्यादय इति सत्यादीनां भूमाभेदप्रतिपादनादिति । उपक्रमा-त्समाख्याया इति । एतेन प्राणो वेत्यादिभाष्यं प्राणो वा आशाया भूयानिति प्राण-मुपक्रम्यान्तरं, यौ वै भूमेति भूमपाठात्तस्यैव भूमत्वप्राप्तिर्न समाख्यावशाद्विष्णोरिति व्याख्यातं भवति । न च समाख्यापि साभ्यासत्वेन सोपपत्तिकत्वेन प्रबलेति शङ्क्यं निरवकाशानुक्ति-सचिवोपक्रमस्य ततोऽपि बलवत्वादिति भावः ॥ विष्णुपरत्वादिति ॥
यद्यपि श्रीलक्ष्मीपतित्वादिकमिवात्र न निरवकाशलिङ्गमस्ति । तथापि महायोग-विद्वद्रूढिभ्यां, तदधीनत्वन्यायेन विष्णुपरत्वादिति भावः । असम्भवादिति आकाशादिवदिति भावः ॥ पूर्णसुखेति ॥ सम्यक् प्रसीदत्युच्चतामनुभवति अनेनेति व्युत्पत्या सम्प्रसादशब्दः पूर्णसुखाभिधायकस् तेन तदभिधानं लक्ष्यते इति भावः । सौत्राधिशब्दस्योपरीतिभाष्यं तस्यार्थ उत्तमत्वेनेति ॥ निरुपपदेति ॥ उपलक्षणं चैतत् । अल्पे रमादौ सुखवत्यपि सुखनिषेधानु-पपत्तेः, मुख्ये निषेधासम्प्रत्यय इति न्यायान्मुख्यस्य निर्विशेषेणेति स्मृतेश्चेति ग्राह्यम् । सूत्रार्थस्तु स्पष्टः ॥ कुतो विष्णुत्वनिश्चायकमित्यत आहेति ॥ सूत्रस्यार्थान्तरमाहेत्यर्थः । परमामित्यत्र परमश्चासावश्चेति विग्रहः । सवर्णदीर्घश्चेति भावः । एतेन सूत्रे तत्वित्यनुवर्तते । तस्यैवेत्यर्थः । ततश्च सहस्रशीर्षमिति समाख्याश्रुतौ विष्णोरेव पूर्णसुखाभिधानात्सर्वाधिक्यो-पदेशाच्च तस्यैव पूर्णसुखत्वादिकमिति प्रकारान्तरेण व्याख्यातं भवति । विष्णोरेवेत्यवधारण-व्यवच्छेद्यं व्यक्तीकर्तुमाशङ्क्य परिहरति ॥ न चेति ॥ विश्वतः परमां नित्यं, मुक्तेषु श्रीस्तथा वायोरित्यादिना विष्णोरेव सर्वोत्तमत्वोक्तिविरोधाद् उभयोरपि स्वेतरसर्वोत्तमत्वविरोधात् । वायोः सर्वोत्तमत्वानुक्तिलक्षणविरोधाच्चेत्यर्थः । तदुक्तं न्यायविवरणे । प्राणाद्विर्ष्णोभूयस्त्वोक्तिः प्राणस्य विष्णोर्भूयस्त्वानुक्तिरिति । प्राणोपक्रमात्तत उत्तमानुक्तेश्च भूमा प्राण इति यत्पूर्वपक्षितं तद्विघटनायाशङ्क्य निराकुर्वन् तत्सङ्गतत्वेन तमुत्क्रामन्तमिति भाष्यमवतारयति ॥ उपक्रम इत्यादिना ॥ उपक्रमे प्राणशब्दश्रवणात्तत उत्तममनुक्त्वा भूम्न आम्नानात्सर्वोत्तमतया प्रतिपाद-यिषितो भूमाप्राण एव भवेत् कथं भूमा विष्णुरिति चेदित्यर्थः ॥ प्राणशब्देनेति ॥ यदा यमुपक्रमस्थः प्राणशब्दो विष्णुपरो भवेत्तदा त्वदीयानुक्तियुक्तिर् विष्णोरेव भूमत्वसाधिका भवेद् इति भावः । इदमप्युक्तं न्यायविवरणे प्राणस्य विष्णोर्भूयस्त्वानुक्तिरिति । प्राणनाम्नो विष्णोः सकाशादन्यस्य भूयस्त्वानुक्तिर्विष्णोर्भूमत्वे लिङ्गमिति तदर्थः । एवं प्राणाद्भूयसोऽनुक्ति-मङ्गीकृत्य प्राणशब्दस्य विष्णुपरत्वं स्वीकृत्यानुक्तेः सिद्धान्तानुगुण्यं सम्पाद्य अत एवा-ध्युपदेशान्नामादीनां सर्वेषामुपर्युपदेशात्तत उत्तमानुक्तेर्भूमा विष्णुरिति सभाष्यं सूत्रं व्याख्यातम् । अधुना प्राणाद्भूयसोऽनुक्तिहेतोरसिद्धिपरतया सूत्रभाष्ययोस्तात्पर्यमाह ॥ अस्तु वेति ॥ इत्यादिनेति ज्ञापकेनेति शेषः ।
अयं भावः । स वा एष एवं पश्यन्नेवं मन्वान एवं वदन्नतिवादी भवतीति पूर्ववाक्ये प्राणोपासकस्यातिवादित्वमुक्त्वा एष तु वा अतिवदति यः सत्येनातिवदतीत्युत्तरवाक्ये सत्यो-पासकस्य तुशब्देन विशेषेणातिवादित्वमुच्यते । तच्च सत्याख्यस्य प्राणाद्भेदातिशययोरभावेन सम्भवति । एवं च अस्ति भगवो नाम्नो भूय इत्यादिवदत्रापि अस्ति भगवः प्राणाद्भूय इति प्राणाद्वाव भूयोऽस्तीति प्रश्नप्रतिवचनयोरध्याहारस्यावश्यकत्वेन भूम्नः प्राणाधिक्यसिद्धिः । सत्यभूमादीनामभेदश्च सैव हीत्यत्र वक्ष्यत इति ।
ततश्चायं सूत्रार्थः । सम्प्रसादात्पूर्णसुखरूपत्वादध्युपदेशात्प्राणादप्यधिकत्वेन, ‘व्यतिहारो विशिंषन्ति हि’ इति वक्ष्यमाणन्यायेनोपदेशादनुक्तिलक्षणहेत्वसिद्धेश्च भूमा विष्णुरिति अर्थद्वयमिति । विष्णुपरत्वं, वायुपरत्वं चेत्यर्थद्वयम् ॥ अन्तर्यामीति ॥ प्राणान्तर्यामिण आशोत्तमत्वमुक्त्वा सत्यादेरधिष्ठानात्प्राणादुत्तमत्वकथनं युज्यत इति भावः । अन्तर्यामि-विवक्षाप्यहं मनुरभवमित्यादिवन्नेति भावेनाह ॥ आत्मन इति ॥ अत्रान्तर्यामिणोऽभिव्यक्ति-रधिष्ठानस्योत्पत्तिश्चोच्यत इति भावः । ननु प्राणशब्दस्य वायुपरत्वेऽस्ति ज्ञापकं तथा च न्यायविवरणे चशब्देन ‘एष तु वा अतिवदति यः सत्येनानुवदति’ इति प्राणाद्विष्णो-र्भूयस्त्वोक्तिश्चेति व्यतिहारसूत्रं च । विष्णुपरत्वे किं ज्ञापकमिति चेद् उत्क्रान्तप्राणानिति-वाक्यस्य भाष्ये विष्णौ सावकाशत्वोक्तेरेव ज्ञापकत्वादिति । सूत्रे पूर्णसुखत्वादिति वाच्ये यौगिकसम्प्रसादपक्षोपादानं कुत इति चेन्न । पूर्णसुखत्वादित्युक्ते विशेषणासिद्धिः स्यात् तत्सुखमित्येव श्रवणात् । अतश्च तत्सुखं पूर्णमेव विवक्षितं तस्यैव सम्प्रसादशब्दि-तात्युच्चताहेतुत्वात् । भूम्न उच्चता निरूपणार्थमेव नामवागादितारतम्यस्योपक्रान्तत्वात् । न हि तत्सुखमात्रोक्तौ सिध्यतीति युक्तिसूचनाय यौगिकग्रहणमिति । केचित्तु, सुखित्वे दुःखित्वं स्यादिति शङ्कानिरासाय पूर्णसुखोत्कर्षजन्यप्रसादेन दुःखाभावं सूचयितुमेवमुक्तमित्याहुः । ‘अध्युपदेशात्’ इत्यत्र, धर्मोपपत्तेश्च’ इत्यागामिसूत्राच्चशब्दस्याकर्ष इति बोध्यम् ।
तत्त्वसुबोधिनी
श्रुत्यादिसाधारण्येन उभयत्र प्रसिद्धत्वमाह ॥ अत्र प्राणो वेति ॥ श्रुत्या चेति ॥ समाख्यारूपश्रुतेत्यर्थः । अत्र यद्यपि भूमशब्दः बहोर्लोपो भू च बहोर् इति भावे निष्पन्नो बहुत्ववाची । बहुत्वसङ्ख्या च लोकतोऽन्यत्र प्रसिद्धा । तथापि बह्वन्नमित्यादौ बहुशब्दस्य वैपुल्येऽपि प्रयोगाद् भूमशब्दस्य यो वै भूमेत्यादौ धर्मिणि प्रयोगाद् वैपुल्यविशिष्टधर्मिवाचकत्वं तस्य उपपद्यते इति उभयत्र प्रसिद्धत्वाविरोध इति भावेन वायुविष्णुसाधारण इत्युक्तम् । न च प्राणो वा इत्युपक्रमाद् विष्णुर्वा इति समाख्याया दुर्बलत्वात् कथं ततः साधारण्यमिति वाच्यम् । अन्तराधिकरणे अदृश्यत्वलिङ्गेनेन्द्रादित्यश्रुत्योः सन्देहबीजत्ववद् इहापि उपक्रम-समाख्ययोः प्राबल्याद्यविवेकेन उभयत्र प्रसिद्धिहेतुत्वसम्भवादिति भावः । स एवाधस्ताद् यो वै भूमेत्यादिना भूमि्न सर्वगतत्वादेर् ब्रह्मैवेदम् अमृतमित्यादिना द्युभ्वाद्याश्रयत्वेन श्रवणात् । भूम्नः विष्ण्वन्यत्वे द्युभ्वाद्यायतनत्वमन्यस्य स्यादिति पूर्वाक्षेपेण पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिः । यो वै भूमा पूर्णस् तत्सुखम् । अल्पसुखे सुखशब्दो नास्तीति भूमैव पूर्ण एव सुखं पूर्णसुखमेव मुख्यं सुखमित्यर्थः । आशावसानमुक्त्वेति । अनेन साक्षाद् आशाशब्दवाच्या सरस्वती उत्तमत्वरूपा युक्तिरुक्तेति भावः । उपक्रमादिति । तस्याः षष्ठप्रमाणत्वादिति भावः । पूर्णसुखरूपत्वाभिधानादिति । सम्यक् प्रसीदत्यनेनेति व्युत्पत्त्या सम्प्रसादशब्दः पूर्ण-सुखत्वाभिधायक इति भावः । उपरीत्यस्यैवार्थ उत्तमत्वेनैवेति । तथा च सौत्राधि-शब्दव्याख्यानरूपत्वस्यैवार्थः । विश्वशम्भुवमिति । विश्वं च तत् शं च विश्वशं तद्भव-त्यस्मिन्निति वा विश्वशम्भुवं पूर्णसुखाश्रयम् । सर्वतः परमकारवाच्यमिति । अनेन परमामित्यत्र परमश्चावश्चेति विग्रहः सवर्णदीर्घेण रूपसिद्धिरिति भावः । विरोधादेवेति । विष्णुवाय्वोर् उभयोः सर्वोत्तमत्वायोगादिति भावः । अत एव पूर्वं वायोरपीत्यपिशब्दः । यद्वा यथा विष्णोः स्वेतरसर्वोत्तमत्वं तथा न वायोः स्वेतरसर्वोत्तमत्वमिति । न च सर्वोत्तमत्वं वायोरपिस्यादित्यार्थः । अत्रापिशब्दः सम्भावनाज्ञापनार्थः । कुत इत्युक्ते विरोधादेवेत्युक्तम् ।
कुत्रापि श्रुत्यादौ वायोः स्वेतरविष्ण्वादिचेतनादिसर्वोत्तमत्वस्यानुक्तिलक्षणविरोधादेवेति तस्यार्थः ।
ननूपक्रमगतप्राणशब्दस्य विष्णुपरत्वे सिद्धे भवेद् विष्णोर् भूमत्वं तदेव कुत इत्यत आह । अनन्तरमन्यमनुक्त्वेति ॥ प्राणानन्तरमन्यमुत्तममनुक्त्वा इत्यर्थः । एतावत्पर्यन्तं प्राणो वेत्यत्र प्राणशब्दस्य विष्णुपरत्वमङ्गीकृत्यानुक्तिरुपपादिता । अधुना तु अयं प्राणशब्दो वायुपरस् तथापि न तस्य भूमत्वम् । एवं विजानन्नतिवादी भवतीत्यादिना प्राणज्ञानेनातिवादित्वमुक्त्वा एष तु वेत्यादिना सत्याख्यभूमज्ञानिनस्तुशब्देन विशेषस्योक्तत्वेन ज्ञापकादस्ति भगवः प्राणाद्भूय इति प्राणाद्वाव भूयोऽस्तीति प्रश्नाद्यध्याहारेण विष्णोरेव भूमत्वे सिध्यतीत्यनुक्तिरन्यथोपपन्नेत्याह ॥ अस्तु वेति ॥ नचैतदर्थद्वयं विरुद्धमिति ॥ प्राणशब्दस्य विष्णुवाचकत्वं वायुवाचकत्व-मित्यर्थद्वयं विरुद्धमित्यर्थः । अन्तर्यामिविवक्षाऽपि अहं मनुरभवम् इत्यादौ यथा अन्तर्यामि-मात्रविवक्षा न तथा प्रकृते किन्तु आत्मन आकाशः सम्भूत इत्यादौ अन्तर्यामिणो हरेर् भूताकाशादेश्च यथा विवक्षा तथेत्याह ॥ आत्मान आकाशः सम्भूत इत्यादिवदिति ॥ तथा च ‘प्राणो वा आशाया भूयान्’ इत्यत्र विष्णु वाय्वोरुभयोरपि प्रतिपाद्यत्वेनान्तर्यामिविवक्षया प्राणशब्दवाच्यस्य भूमत्ववचनं वायुविवक्षया प्राणशब्दवाच्याद् उत्तमत्वेनोक्तस्य विष्णोर् भूमत्ववचनमिति न विरोध इत्यर्थः ।
वाक्यार्थविवरणम्
एकस्यार्थद्वयवाचित्वे दृष्टान्तमाह ॥ आत्मन इति ॥ ‘भूतं भूताभिमानी च तद्देहोऽन्त-र्नियामकः । हरिश्चाकाशशब्दोक्तः’ इत्युक्तत्वेनाकाशशब्दस्य भूततदन्तर्यामिभगवद्वाचित्वस्य दृष्टत्वादित्याशयः ॥
वाक्यार्थमञ्जरी
श्रुत्येति ॥ समाख्यारूपश्रुत्येत्यर्थः । भूमन्भूयःशब्दयोः पर्यायत्वादिति भावः । स्थानान्तरश्रुतसमाख्याया अत्रैव श्रुतोपक्रमतो दुर्बलत्वेऽपि प्राबल्याद्यविवेकेन साधारण-प्रयोजकत्वमुपपन्नम् ॥ यो वै भूमेति ॥ अनेन भूमाख्यनारायणस्य लक्षणमुच्यते यो वै भूमा पूर्णो नारायणाख्यस्तत्सुखम् अनन्याधीनसुखरूपम् । अस्यातिव्याप्तिं परिहरति ॥ नाल्प इति ॥ भूमप्रसादं विना नाल्पे मुक्तजाते सुखमस्ति । ततः किमित्यत आह ॥ भूमैवेति ॥ तस्माद्भूमैवानन्याधीनसुखरूपमित्यर्थः ॥ नामवागादीति ॥ ‘वाग्वाव नाम्नो भूयसी मनो वाव वाचो भूयः सङ्कल्पो वा मनसो भूयान् चित्तं वाव सङ्कल्पाद्भूयः ध्यानं वाव चित्ताद्भूयः विज्ञानं वाव ध्यानाद्भूयः बलं वाव विज्ञानाद्भूयो ऽन्नं वाव बलाद्भूय आपो वावान्नाद्भूयस्यः, तेजो वावाद्भ्यो भूयः, आकाशो वाव तेजसो भूयान्, स्मरो वावाकाशाद्भूयान् आशा वाव स्मराद्भूयसि’ इत्येवं नामादिशब्दितोषास्वाहापर्जन्यमित्राग्निवरुणसोमप्रवाहानिरुद्धतैजस-प्राणेन्द्रोमारुद्रसरस्वतीनां तारतम्यमुक्त्वेत्यर्थः ।
अत्राशावसानमुक्त्वा प्राणस्योत्तमत्वं चाभिधायेत्यनेन प्राणस्य भूमत्वे आशाशब्दित-सरस्वत्युत्तमत्वरूपा मुक्तिरुक्तेति द्रष्टव्यम् ॥ तदुत्तममनुक्त्वेति ॥ अस्ति भगव आशाया भूय इत्याशा वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति प्रश्नवत्प्राणो वाव आशाया भूयानिति प्रत्युक्तिवच्चात्र प्राणादूर्ध्वमस्ति प्राणाद्भूय इति तन्मे भगवान् ब्रवीत्विति प्रश्नस्य भूमा वाव प्राणाद्भूयानिति प्रत्युत्तरस्याप्यभावेन भूम्नः प्राणादनन्यत्वनिश्चय इति भावः । आम्नातत्वात् पठितत्वात् ॥ उत्क्रान्तप्राणानिति ॥ प्राणवत्पित्रादीन्प्रति यदि कश्चित्त्वंकारादिना भृशं वदेत्तस्य पितृहंतृत्वादिना निन्द्यवचनयोग्यत्वमुक्त्वा प्राणोत्क्रमणानन्तरं तन्नेत्यनेनोच्यते । उत्क्रान्तः प्राणो येभ्यस्ते उत्क्रान्तप्राणाः पित्रादयस् तान् प्रति यदि समासं सङ्कोचेन व्यतिषं विस्तरेण वा शूलने दहेत् हत्वा भस्मीकुर्यात्तदा एनं पितृहासीत्यादिनैव ब्रूयुरित्यर्थः । ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ । यो वै भूमेत्युक्तभूमा विष्णुरेव सम्प्रसादात् सम्यक् प्रसीदत्यनेनेति सम्प्रसादः पूर्णसुखं तदभिधानात् । अध्युपदेशाद् अधि नामादिसर्वोत्तमत्वेन व्यपदेशाच्चेत्यर्थः ॥ विश्वशम्भुवमित्यादि ॥
ततश्चायं श्रुत्यर्थः । अनन्तमूर्धानं देवं प्रकाशरूपं विश्वाक्षमनन्ताक्षम् । विश्वशम्भुवम् । विश्वं च तत् शंच विश्वशं तद्भवत्यस्मिन्निति विश्वशम्भुवं पूर्णसुखाश्रयम् । विश्वं ज्ञानादि-पूर्णम् । नारायणं मुक्तसङ्घाश्रयं देवं स्वेच्छया विहरन्तम् अक्षरं चतुर्विधनाशरहितम् । परमं पदम् अत्यन्तप्राप्यम् । विश्वतः सर्वतः परमां परमश्चासौ अश्च परमास् तम् उत्तमम् अकार-शब्दवाच्यं नित्यं तद्विश्वमुपजीवतीत्यन्वय इति । यद्यपि परममित्येव द्राविडपाठः । तथापि परमामित्यांध्रपाठो भाष्ये उदाहृतः ॥ विरोधादेवेति ॥ उभयोरपि स्वेतरसर्वोत्तमत्वे अन्योन्या-पेक्षयोत्तमत्वप्राप्त्या व्याघातादित्यर्थः । तर्हि भूमा किं विष्णोरन्य इति तत्राह ॥ अनन्तर-मिति ॥ प्राणानन्तरमित्यर्थः । न्यायविवरणानुसारेण पक्षान्तरमाह ॥ अस्तु वेति ॥ न च तदुत्तममनुक्त्वा भूम्न आम्नानात्तस्यैव भूमत्वमिति वाच्यम् । अनुक्तेरेवाभावादित्यत आह ॥ एष तु वा अतिवदतीति ॥ यः सत्येनातिवदतीत्यादि पदोक्तम् । योऽधिकारी स निर्दोषश्चासौ नियामकश्चेति सत्यो विष्णुस्तेन अतिवदति तमतिशयेनातिवदतीति यावत् । स एषस् तु प्राणादिवाद्यपेक्षया विशेषेणातिवदति अत्युत्तमवस्तुवादीत्यर्थः । इत्यादिना ज्ञापकेन प्रश्ना-दीत्यादिपदेन सत्यं वाव प्राणाद्भूय इति प्रतिवचनग्रहः । प्रश्नाद्यध्याहाराभावे एवं विजानन्नाति-वादी भवतीत्याद्युक्तप्राणज्ञानिनः सकाशादेष तु वा अतिवदतीत्यादिना सत्याख्यभूमज्ञा-निनस्तुशब्देन विशेषोक्त्ययोगादिति भावः ॥ इत्यादिवदिति ॥ तत्रैकस्याकाशशब्दस्य भूततदन्तर्यामिपरत्ववदत्राप्युभयपरत्वमविरुद्धमित्यर्थः ।