ॐ वैश्र्वानरः साधारणशब्दविशेषात् ॐ
७. वैश्वानराधिकरणम्
सूत्रभाष्यम्
अदृश्यत्वादिगुणेषु सर्वगतत्वं ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्त’ (छां.उ.५-१८-१) इति वैश्वानरस्योक्तमित्यत आह—
॥ ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥ २४॥
अग्नाविष्ण्वोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्मशब्देन विशेषणा-द्वैश्वानरो विष्णुरेव॥ २४॥
सत्तर्कदीपावली
गताधिकरणेनोत्तराधिकरणस्याक्षेपिकीं सङ्गतिं दर्शयति॥ अदृश्यत्वेति॥ नित्यं विभुं सर्वगतमिति यत्सर्वगतत्वमुक्तं तन्न विष्णोरेव। श्रुत्यन्तरे वैश्वानरस्योच्यमानत्वात्। अभितो विगतमानत्वेनाभि-विमानमात्मानं वैश्वानरमिति वैश्वानराग्नाविव विष्णावपि स एष वैश्वानरो विश्वरूप इत्यादिना प्रयुक्तत्वात्साधारणो न विष्णोरेवावगमक इति प्राप्ते सूत्रं पठित्वा व्याचष्टे। वैश्वानर इत्यादिना।
तत्त्वप्रदीपिका
एवं तावत् श्रुतिलिङ्गानामन्यत्रप्रसिद्धानां ब्रह्मणि समन्वयं प्रदर्शयता पादद्वयार्थनिगमनाय सर्वनाम्नां सर्वलिङ्गानां च समन्वयदृढीकरणात्मकोऽखिलगुणोदीरणपरतया गुणविरहवादनिराकरणाकृतिः परम-कारुणिकेनामरगणगुरुणाऽयमधिकरणराज आरभ्यते। ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मम्’’ इति मुण्डकश्रुतावदृश्यत्वादिगुणेषु सर्वगतत्वमुक्तम्। तदत्र छन्दोग-श्रुतावभिविमानशब्देनोच्यते। अभितो विगतं मानमस्येति ‘अभिविमाः’। ॐ ज्वलनजनार्दनयोः साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रवृत्तिदर्शनेनोभयत्रप्रसिद्धोभयविधपदकदम्बकसमन्वयोप-न्यासावसरसूचनामाचरत्यग्नाविष्ण्वोरित्यादिना। प्रादेशमात्रत्वमधिकार्यपेक्षया। ‘‘प्रादेशमात्रं पुरुषं वसन्तम्’’ इति च भागवते॥
तत्त्वप्रकाशिका
अत्र लोकतोऽन्यत्र प्रसिद्धवैश्वानरनाम्नः पाचकत्वाद्यनेकलिङ्गसमन्वयसिद्धये ब्रह्मणि समन्वयप्रतिपाद-नादस्ति शास्त्रादिसङ्गतिः। श्रुत्यादिसङ्गतिं विषयवाक्योदाहरणपूर्वकं विषयादिकं च सूचयति॥ अदृश्यत्वादीति॥ गताधिकरणेऽदृश्यत्वादिगुणा विष्णोरुक्तास्तेषु सर्वगतत्वं चोक्तं ‘नित्यं विभुं सर्वगतम्’ इति। तददृश्यत्वादिगुणेषूक्तं सर्वगतत्वं च छन्दोगश्रुतावभिविमानपदेन वैश्वानरस्योक्तम्। अभितो विगतं मानं मर्यादा यस्येति। ‘मानं ज्ञानं लयश्चैव मर्यादा चैव (चापि) कथ्यते’ इत्यभिधानात्। तस्य च वैश्वानरस्य विष्णोरितरत्वे सर्वगतत्वमप्यन्यस्य प्रसज्येतेत्यवश्यनिर्णेयत्वम्। स वैश्वानरो विषयः। किं विष्णुरन्यो वेति संशयः। सर्वगतत्वमन्यत्र प्रसिद्धिश्च सन्देहबीजम्। नायं वैश्वानरो विष्णुः किन्त्वग्निदेवता तेजोभूतं वा स्यादिति पूर्वः पक्षः। वैश्वानरश्रुतेः। न च वाच्यं सर्वगतत्वलिङ्गाद्वैश्वानरो विष्णुरिति। लिङ्गस्य श्रुतितो दुर्बलत्वात्। न च लिङ्गस्य निरवकाशत्वेन प्राबल्यात् श्रुतिबाधकत्वमिति मन्तव्यम्। श्रुतेरपि प्रसिद्धितो निरवकाशत्वात्। श्रुतेर् विष्णुविषयत्वेऽग्न्यादिविषयतया लोकप्रसिद्धिबाधाद् वैदिकविद्याभेदव्यवहारविरोधाच्च। न हि वैश्वानरश्रुतेरग्न्यादिविषयत्वाभावे व्यवहारस्य गत्यन्तरमस्ति। अतः प्रसिद्धिलिङ्गयोरुभयोरपि निरवकाशत्वेन वैश्वानरश्रुतेरग्नाविष्ण्वोः साधारण्यमेव स्यान्न तु लिङ्गेन विष्णुपरतानिश्चयः। अतो न वैश्वानरो विष्णुरिति न सर्वगतत्वं तस्येति भावः। सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे॥ अत इति॥ अयं वैश्वानरो विष्णुरेव। आत्मानं वैश्वानरमित्यात्मशब्दात्। न चोक्तरीत्या साधारणवैश्वानरश्रुतिसद्भावादनिर्णय इति वाच्यम्। साधारणस्यापि वैश्वानरशब्दस्य ‘आत्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते’ इत्यादौ विष्णावेव प्रसिद्धत्वेनान्यत्रानवकाशात्मशब्दसामानाधिकरण्येन विष्णुपरत्वस्य सम्भवात्। प्रसिद्ध्यादेरन्यथापि सिद्ध्या सावकाशत्वस्य वक्ष्यमाणत्वादिति भावः॥ २४॥
भावबोधः
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥ लोकतोऽन्यत्र प्रसिद्धवैश्वानरनाम्न इति न च सूत्रभाष्ययोः साधारणशब्देनास्योभयत्र प्रसिद्धत्वप्रतीतेर्नान्यत्र प्रसिद्धतेति वाच्यम्; सूत्रभाष्ययोरग्नौ वैश्वानरशब्दस्य लोकप्रसिद्धेर्विषयवाक्योक्तसर्वगतत्वादिविष्णुलिङ्गानाञ्च निरवकाशत्वेन तुल्यबलतया वैश्वानरशब्द-स्याग्नाविष्ण्वोः साधारण्यस्यैवाभिप्रेतत्वान्नोभयत्र प्रसिद्धतेति भावः। अत एव वक्ष्यति। अतः प्रसिद्धिलिङ्गयोरपि निरवकाशत्वेन वैश्वानरश्रुतेरग्नाविष्ण्वोः साधारण्यमेव स्यादिति। नापि ‘विश्वजीवान्तर-त्वाद्यैर् लिङ्गैः’ इत्यणुभाष्ये वैश्वानरशब्दस्य लिङ्गात्मकत्वोक्त्या तद्विरोधः, वैश्वानरशब्दस्य सिद्धान्ते यौगिकत्वदर्शनार्थम् अवयवार्थकथने तात्पर्यात्। अन्यथा वैश्वानरत्वाद्यैरित्यवक्ष्यत्। वैश्वानरशब्दस्य समन्वयेनान्तःप्रतिष्ठानादिरूपलिङ्गानां यः समन्वयः सिद्धस् तत्प्रदर्शनपरत्वाद्वा। अन्यथा विश्वनर-सम्बन्धित्वाद्यैरित्यवक्ष्यत्। अत एवानुव्याख्याने ‘श्रुतिर्लिङ्गाधिका परा’ इत्युक्तम्। भाष्ये वैश्वानर-शब्दस्येत्यस्य संमुग्धत्वेऽपि प्राक् प्राधान्येनेत्येतन्निरवकाशमिति भावः। पाचकत्वाद्यनेकलिङ्ग-समन्वयसिद्धय इति॥ तेन पादसङ्गतिरुपपन्नेति भावः। अनन्तरसङ्गतिष् टीकायामेव स्पष्टा॥ किं विष्णुरन्यो वेति॥ अत्र वैश्वानरः किमग्निरुत विष्णुरिति चिन्ता। तदर्थमग्निश्रुतिलिङ्गसमानाधिकृतत्व-लोकप्रसिद्धिवैदिकसूक्तविद्याव्यवहारनियमविरोधबलेन वैश्वानरशब्दः किमग्निदेवताभूतपर उत आत्मशब्दसामानाधिकरण्यगीतासमाख्यादिबलाद्विष्णुपर इति। तदर्थमग्निश्रुत्यादीनां निरवकाशत्वं प्रसिद्धिव्यवहारयोर्गत्यन्तराभावः, आत्मशब्दादीनां सावकाशत्वमुत विपरीतमिति। तदर्थमात्मशब्दादीनां निरवकाशत्वेऽग्निश्रुत्यादीनां सावकाशत्वे प्रसिद्धिव्यवहारयोर्गत्यन्तरे च प्रमाणं नास्त्युतास्तीति। तेजोभूतं वा स्यादिति। अनेन अग्नाविष्ण्वोरित्यादिभाष्येऽग्निशब्देनात एव न देवताभूतं चेत्युत्तरसूत्रानुरोधेन तेजोभूतमपि विवक्षितमित्युक्तं भवति॥ साधारण्यस्यापि वैश्वानरशब्दस्येति॥ अनेन श्रुतिसाधारण्ये विशेषश्रुत्यादेर्निश्चय इति न्यायविवरणमुक्तार्थं भवति। तत्रादिपदेन स्मर्यमाणमित्यादिसूत्रोक्तसमाख्यादे-र्ग्रहणमिति बोद्धव्यम्।
भावदीपः
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥ नाम्न इति॥ श्रुतिर्लिङ्गाधिका परेत्यनुभाष्योक्तेः। आपाततोऽन्यत्र रूढत्वात्। विश्वजीवान्तरत्वाद्यैरित्यणुभाष्योक्तिस्तु सिद्धान्तदिशा ब्रह्मणि यौगिकत्वाभिप्रायेणेति भावः। कथं तर्ह्यत्र पादे निवेश इत्यतः फलतः पादसङ्गतिरन्तर्नय इवेत्याह॥ पाचकत्वेति॥ तद्यद् भक्तं प्रथममागच्छेत् तद्धोमीयमिति वैश्वानरे तद्धुतं भवतीत्यादिना पाचकत्वहोमाधारत्वगार्हपत्याद्यङ्गकत्वादिश्रवणादिति भावः। यद्यपि पाचकत्वं कर्मेति वक्ष्यति। तथापि लिङ्गत्वमप्यस्तीति वा तदन्यलिङ्गापेक्षया वा एवमुक्तिः। अधिकं चन्द्रिकायाम्। इत्यन्तं भाष्यं सङ्गतिपरत्वेन तावद्व्याकर्तुं परिष्करोति॥ गतेति॥ भाष्यं व्याचष्टे॥ अदृश्यत्वादिगुणेषूक्तमिति॥ यस्त्वेतमित्यादेरर्थः॥ छन्दोगेति॥ पञ्चमे वैश्वानरविद्यायामित्यर्थः। प्रथमबृहद्भाष्योक्तमाह॥ मानमिति॥ भावमाह॥ तस्येति॥ वक्ष्यमाणन्यायेनेतरत्व इत्यर्थः। इति सङ्गतिसम्भवादिति हेत्वर्थोऽत्रेतिशब्दः॥ किं विष्णुरिति॥ किं विष्णुरेव वाऽन्योऽपि वा इत्यर्थः। विष्णुरेव वेति सिद्धान्तकोटेः शेषो वा तदेव भाष्यं पूर्वपक्षतद्युक्तितत्फलोक्तिपरत्वेन व्याचष्टे॥ नायमिति॥ विष्णुरित्यस्य विष्णुरेवेत्यर्थः। अत एव न देवता भूतं चेति सूत्रमनुरुध्याऽऽह॥ किं त्विति॥ विष्णुरित्यप्यनुकर्षः। वैश्वानरस्येति भाष्यसूचितं तावदाह॥ वैश्वानरेति॥ अग्नाविष्ण्वोः साधारणस्येति भाष्योक्तं साधारण्यमग्नाविष्ण्वोर् विवरिष्यन् श्रुतिलिङ्गयोस्तुल्यबलत्वं वक्तुमाह॥ न चेति॥ प्राबल्यादिति॥ अन्तरादिनयन्यायेनेति भावः। श्रुतेरपीत्युक्तमेव साक्षादपीति सूत्रव्यावर्त्यं व्यनक्ति॥ श्रुतेरिति॥ लोकप्रसिद्धीति॥ लोकव्यवहाराभावापातादित्यर्थः। नैष्फल्यं स्यादिति भावः। एतेनान्तरादिनयेष्वपि निरवकाशलिङ्गेनोक्तेः श्रुतिबाधो न संमत इति पूर्वोक्तसर्वाक्षेपो दर्शितः। अभिव्यक्तेरित्यादिसूत्राणां व्यावर्त्यचोद्यमाह॥ वैदिकेति॥ अग्न्यादिसर्वशब्दानां विष्णौ मुख्यत्वे सर्वस्य विष्णुविद्यात्वेनेयमग्निविद्या इयमात्मविद्येति भेदव्यवहारो न स्यात्। अस्ति च व्यवहारः। तेन तेषामग्न्यादिवाचित्त्वं सिद्धमिति तद्विरोधान्न वैश्वानरादिशब्दानां विष्णुविषयत्वमित्यर्थः। व्यवहारस्य निरवकाशत्वं व्यनक्ति॥ न हीति॥ एवं च सिद्धं साधारण्यमित्याह॥ अत इति॥ व्यवहार-स्याग्न्यादिविषयत्वं विना गत्यन्तराभावादित्यर्थः। अग्नाविष्ण्वोरिति देवताद्वन्द्वे चेत्यनङादेशः। अन्तर्नय इवोभयबाधेनैक्यं तु नाऽऽशङ्क्यम्। भूतसाधारणश्रुत्या प्राप्तं जडेनाभेदायोगात्। कथं तर्हि वैश्वानर-स्योक्तमिति भाष्यमित्यतो भावमाह॥ अत इति॥ श्रुतेः साधारण्यादित्यर्थः। सर्वगतत्वमित्यन्तवाक्यस्य तात्पर्यं न सर्वेति। विष्णुरितीत्यनन्तरं तस्येतीत्यनन्तरं च निश्चय इत्यनुषङ्गः॥ व्युत्क्रमेण भाष्यं व्याचष्टे॥ अयमिति॥ श्रुतिसाधारण्ये विशेषश्रुत्यादेर् निश्चय इति न्यायविवरणदिशा हेत्वंशं व्याचष्टे॥ आत्मानमिति॥ विशेषणपदकृत्यं व्यावर्त्यपूर्वमाह॥ न चेति॥ वक्ष्यमाणत्वात् साक्षादपीत्यादि सूत्रेष्विति भावः॥ २४॥
अभिनवचन्द्रिका
साधारणग्रहणं किमर्थम् ? साधारणग्रहणं वैश्वानरशब्दस्योभयत्र प्रसिद्धत्वज्ञापनार्थम्। न चैवं सति अस्याधिकरणस्य तृतीयपादप्रवेशापत्तिः। लोकतोऽन्यत्र प्रसिद्धत्वात्। लोकतोऽन्यत्रप्रसिद्धस्योभयत्र-प्रसिद्धत्वं विरुद्धमिति चेत्, उक्तम्, किमुक्तम् – अन्यत्र प्रसिद्धत्वेन प्रतिपन्नत्वमन्यत्रप्रसिद्धत्वम्। उभयत्र प्रसिद्धत्वेन प्रतिपन्नत्वमुभयत्रसिद्धत्वम्। तदुभयमपि एकस्यैव शब्दस्याऽधिकारिभेदेनोपपन्न-मित्युक्तम्। अत एवेदमधिकरणं पादद्वयसन्धौ निवेशितम्। अत एवाऽनुव्याख्याने वैश्वानराधिकरणस्य प्रथमद्वितीयतृतीयपादशेषत्वज्ञापनाय एतदधिकरणारम्भात्प्रागेव।
‘बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः’
इत्यनेन पादद्वयार्थोपसंहारः कृतः। एवं च सति द्वितीयपादार्थोपसंहारानन्तरम् एतदधिकरण-व्याख्यानात् तृतीयपादशेषत्वं ज्ञायते, तृतीयपादनिरूपणात्प्राग्व्याख्यानाद् द्वितीयपादशेषत्वं ज्ञायते। द्वितीयपादार्थोपसंहारे कर्तव्ये प्रथमपादार्थोपसंहाराद् अस्याधिकरणस्य प्रथमपादशेषत्वमपि भाष्यकाराभिमतमिति ज्ञायते। शास्त्रादिसङ्गतिरिति॥ अस्याधिकरणस्य शास्त्राध्यायाभ्यां निरूपिता अतर्न्भावलक्षणा सङ्गतिः पादे, न तु औपोद्धातिकी सङ्गतिरिति विवेकः। एतेन – वैश्वानराधि-करणव्यावृत्त्यर्थं प्राधान्येनेत्युक्तत्वात् पुनरस्याऽधिकरणस्य पादान्तर्भावाङ्गीकारे तद्विरोध इति परास्तम्। वैश्वानरस्योक्तमिति॥ अदृश्यत्वाधिकरणप्रतिपाद्यस्य एतदधिकरणप्रतिपाद्यस्य च सर्वगतत्वेन प्रतीयमानत्वं पूर्वाधिकरणतच्छ्रुतिभ्यां सङ्गतिरिति भावः। नायं वैश्वानर इति॥ साधकशून्यत्वादिति शेषः। ननु किं वाक्यं, तर्हि निरर्थकमेवेति पृच्छति – किंत्विति॥ न निरर्थकं वाक्यं वैश्वानरशब्दस्य अग्नौ तेजोभूते च प्रसिध्दिसद्भावाद् अग्निर्वा तेजोभूतं वा स्यात्। किं तद्विचारेणेत्याह – अग्निदेवतेति॥ एतेन – पूर्वपक्षिणा अग्निदेवतैव, तेजोभूतमेवेति वा, अवधारणीयत्वेन ‘अग्निदेवता, तेजोभूतं वा स्या’दिति अनास्थयाऽभिधानमयुक्तमिति परास्तम्। पूर्वपक्षिणः विष्णुर्नेत्याग्रहेण अग्निदेवतादिपक्षपरिग्रहे आग्रहाभावात्॥ साधकशून्यत्वरूपहेतोरसिद्धिमाङ्वक्य परिहरति – न चेति॥ श्रुतेः प्रसिद्धतो निरवकाशत्वं दर्शयति – श्रुतेरिति॥ भवेच्छ्रुतेः सावकाशत्वं यद्यग्न्यादिविषयकत्वप्रसिद्धः काचन गतिः स्यात्। न चैवं, किंतु वैश्वानरश्रुतेर् विष्णुविषयत्वे अग्न्यादिविषयतया लोकप्रसिद्धेर् भ्रममूलकत्व-लक्षणो बाध एव प्राप्नोतीति निरवकाशत्वमेवाऽभ्युपेयमिति भावः। हेत्वन्तरेण श्रुतेर्निरवकाशत्वमाह – वैदिकेति॥ वैदिकविद्याव्यवहरस्य भ्रममूलत्वलक्षणविरोधप्रसङ्गाच्च श्रुतेर्निरवकाशत्वमिति भावः। गत्यन्तरमस्तीति॥ भ्रममूलकत्वकल्पनैव गतिर्नान्या गतिरस्तीति भावो ऽत इति॥ अत इत्यस्य विवरणं – प्रसिद्धिलिङ्गयोरुभयोरपि निरवकाशत्वेनेति॥ वैश्वानरश्रुतेर् अग्नाविष्ण्वोर् ज्ञापकशून्यत्वेन साधारण्यमेव स्यादित्यर्थः। त्वयोपन्यस्तं सर्वगतत्वलिङ्गं वैश्वानरशब्दस्य अग्निपरत्वनिर्णायकश्रुतेर् निर्णयप्रतिबन्धायैवोपयुज्यते न तु विष्णुपरत्वनिर्णयायालमिति भावः। अत इति॥ साधकशून्यत्वलिङ्गस्याऽसिद्धेरभावादित्यर्थः। नात्मशब्दो वैश्वानरशब्दस्य विष्णुत्वनिर्णायकः। वैश्वानरश्रुतेरुभयत्रप्रसिद्धत्वेन प्रसिद्धिबललब्धाऽग्रिपरत्व निवारकत्वाभावात्। ततश्चाऽनिर्णय इत्याशङ्क्य निषेधति – न चोक्तरीत्येति॥ साधारणवैश्वानरश्रुतिसद्भावात्। वैश्वानरश्रुतेर् अग्नाविष्ण्वोः साधारण्य-सद्भावात्, उभयत्रप्रसिद्धत्वादिति यावत्। आत्मशब्दरूपसाधकोपन्यासेऽपि उक्तरीत्या साधकाभावात् ‘नायं नैश्वानरो विष्णु’रिति पूर्वपक्ष्युक्तरीत्या अग्निपरत्वे बाधकाभावात् तदनिर्णय इति वक्तुं शक्यत्वाद-निर्णय एवेति न वाच्यमित्यर्थः। साधारणस्यापीति॥ वैश्वानरशब्दस्य अग्निपरत्वनिरासाय साधकान्तरं मृग्यम्। विष्णुपरत्वनिर्णयायोपन्यस्तस्य आत्मशब्दसामानाधिकरण्यस्यैव तत्र बाधकत्वादिति भावः। नन्वेवं वैश्वानरशब्दस्योभयत्र प्रसिध्द्यङ्गीकारेण पूर्वत्र पूर्वपक्षनिरासेऽपि न प्रथमपूर्वपक्षनिरासः। तदुक्तान्यत्रप्रसिद्ध्यादेर्निरवकाशत्वादित्यत आह– प्रसिद्धेरिति॥
वाक्यार्थमुक्तावली
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥ लोकतोऽन्यत्र प्रसिद्धवैश्वानरनाम्न इति॥ न च सूत्रे साधारणपदप्रयोगाद् उभयत्र प्रसिद्धत्वमिति वाच्यम्। प्रसिद्धलिङ्गाभ्यां साधारण्यस्य तत्र विवक्षित-त्वेनोभयत्र प्रसिद्ध्या साधारण्यस्यानभिप्रेतत्वात्। अत एव वक्ष्यति अतः प्रसिद्धिलिङ्गयोरुभयोरपि निरवकाशत्वेन वैश्वानरश्रुतेरग्नाविष्ण्वोः साधारण्यमेव स्यादिति॥ न च विश्वजीवान्तरत्वाद्यैर् लिङ्गैरिति सङ्ग्रहभाष्ये वैश्वानरशब्दस्य लिङ्गत्वोक्तिविरोधः। वैश्वानरशब्दस्य सिद्धान्ते यौगिकत्वेन प्रवृत्तिनिमित्त-धर्मविवक्षया लिङ्गत्वोक्त्यविरोधात्। अन्यथा वैश्वानरत्वाद्यैरित्यवक्ष्यत्। अत एवानुव्याख्याने श्रुतिर्लिङ्गा-धिका परा इत्युक्तम्। विस्तरन्तु आनन्दमालावाक्योदाहरणपूर्वम् अस्माभिरन्यत्र कृतोऽनुसन्धेयः॥ पाचकत्वाद्यनेकलिङ्गसमन्वयसिद्धय इति॥ तेन पादान्तर्भावाभावेऽपि औपोद्घातिक्या सङ्गत्याऽत्र निवेश इति भावः॥ किं विष्णुरन्यो वेति॥ अत्र वैश्वानरः किमग्निरुत विष्णुरिति चिन्ता। तदर्थमग्निश्रुतिलिङ्गसमानाधिकृतत्वलोकप्रसिद्धवैदिकसूत्रविद्याव्यवहारनियमविरोधबलेन वैश्वानरशब्दः किमग्निदेवताभूतपर उतात्मशब्दसामानाधिकरण्यगीतासमाख्यादिबलाद् विष्णुपर इति। तदर्थमग्नि-श्रुत्यादीनां निरवकाशत्वप्रसिद्धव्यवहारयोर्गत्यन्तराभाव आत्मशब्दादीनां सावकाशत्वमुत विपरीतमिति। अत एव न देवता भूतं चेत्युक्ततत्सूत्रानुसारेणाग्नाविष्ण्वोरित्यादिभाष्येऽग्निशब्देनाभिमन्यमानं च विवक्षितमित्यभिप्रेत्याह॥ तेजोभूतं वा स्यादिति॥ भाष्योक्तं साधारण्यमग्नाविष्ण्वोर् विवरिष्यन् श्रुतिलिङ्गयोस्तुल्यबलत्वं वक्तुमाह॥ न चेति॥ साक्षादिति सूत्रव्यावर्त्यमाह॥ श्रुतेरिति॥ लोकप्रसिद्धीति॥ लोकव्यवहाराभावापातादित्यर्थः। एतेनान्तरादिनयेष्वपि निरवकाशलिङ्गेनोक्तश्रुतिबाधो न सम्मत इति पूर्वोक्तसर्वाक्षेपो दर्शितः। अभिव्यक्तेरित्यादिसूत्राणां व्यावर्त्यचोद्यमाह॥ वैदिकेति॥ अग्न्यादिसर्वशब्दानां विष्णुविषयत्वे सर्वस्य विष्णुविद्यात्वेनेयं वैश्वानरविद्याऽऽत्मविद्या प्राणविद्या वायुसूक्तमग्निसूक्तमित्यादिव्यवहारविरोधादित्यर्थः। अतो न वैश्वानरो विष्णुरिति निश्चय इत्यनुवर्तते। सूत्रे वैश्वानरो विष्णुरेवेति साध्ये साक्षाद्धेत्वनुक्तेः शब्दविशेषादित्येतच्छब्दादिति बुद्ध्या विवेकेन सम्बध्यत इत्याह॥ आत्मानं वैश्वानरमिति॥ अनिर्णयेन कृतपूर्वपक्षव्यवच्छेदकतया साधारणस्यापि वैश्वानर-शब्दस्य शब्देनात्मशब्देन विशेषणात् समानाधिकृतत्वात्। ततश्च विष्ण्वेकवाचितया विशेषणाद् विशेषितत्वादग्नेर्व्यावर्तितत्वाद् विष्णुरेव वैश्वानर इति सूत्रार्थमभिप्रेत्याह॥ न चोक्तरीत्येति॥
तत्त्वसुबोधिनी
ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥ यद्यपि वैश्वानरनाम्नः सूत्रभाष्ययोर् अग्नाविष्ण्वो साधारण्यस्योक्त्योभयत्र प्रसिद्धता तथापि वैश्वानरशब्दस्य श्रुत्यन्तरे अग्नौ प्रयोगाद् विषयवाक्ये अग्निशब्दसामानाधिकरण्याद्वा अन्यत्र प्रसिद्धत्वं नाभिप्रेतं येन श्रुत्यन्तरे विष्णावपि प्रयोगादुभयत्र प्रसिद्धता स्यात् किन्तु लोकतः। अत एव टीकायां लोकतोऽन्यत्र प्रसिद्धेत्युक्तम्। सूत्रादावुक्तसाधारण्यम् अन्यत्र प्रसिद्धेर् विष्णुलिङ्गानां च निरवकाशत्वेन तुल्यबलतया न तु वैश्वानरशब्दस्य उभयत्र प्रसिद्धेरिति टीकायामेवोक्तम्। ‘विश्वजीवान्तरत्वाद्यैर्लिङ्गैः’ इति भाष्यकारीयलिङ्गत्वोक्तिस्तु सिद्धान्ते वैश्वानरशब्दस्य यौगिकत्वदर्शनार्थम् अवयवार्थकथने तात्पर्यात्। अन्यथा ‘वैश्वानरत्वाद्यैः’ इत्यवक्ष्यत्। अनन्तरसङ्गतिस्तु गताधिकरणोक्तसर्वगतत्वाक्षेपेण पूर्वपक्षोत्थानाद् इति भाष्य एवोक्ता। पाचकत्वाद्यनेकलिङ्गसमन्वय इति। तेन पादसङ्गतिरुपपन्नेति भावः। ननु अभिविमानपदेन सर्वगतत्वं कथं लभ्यत इत्यत आह। अभित इति। तेजोभूतं वास्यादिति। अनेन अग्नाविष्ण्वोरिति भाष्ये अग्निशब्देन ‘अत एव न देवता भूतं च’ इत्युत्तरसूत्रानुरोधेन तेजोभूतमपि विवक्षितमित्युक्तं भवति। नन्वन्यत्र प्रसिद्धिरस्तु तथाप्यस्तु श्रुतेर् विष्णुविषयत्वमित्यत आह॥ श्रुतेरिति॥ वैदिकेति॥ अन्यविद्याया अपि विष्णुविषयत्वे वैदिकानां योऽयं विद्याभेदव्यवहार इयमग्निविद्येत्यादि तल्लोपाद्विरोधः स्यादित्यर्थः। ननु व्यवहारः प्रकारान्तरेण भविष्यतीत्यत आह। न हीति। साधारणस्यापि वैश्वानरशब्दस्य विष्णुपरत्व-सम्भवादित्यन्वयः। तत्र हेतुर् अनवकाशात्मशब्देति। आत्मशब्दस्यानवकाशत्वं कुत इत्यत उक्तम् आत्मशब्दः परे विष्णाविति। तर्हि प्रसिद्धेः का गतिर् अत आह॥ प्रसिद्धेरिति॥ अन्यथापि अभिव्यक्तेर् इत्यादि वक्ष्यमाणन्यायेनेति भावः।
वाक्यार्थमञ्जरी
अन्यत्र प्रसिद्धेति॥ न च सूत्रभाष्ययोरस्याग्नाविष्ण्वोः साधारण्योक्त्योभयत्र प्रसिद्धत्वमिति वाच्यम्। वैश्वानरशब्दीयान्यत्र प्रसिद्धिसर्वगतत्वाख्यविष्णुलिङ्गयोरुभयोरपि निरवकाशत्वेन तुल्यबलत्वाभिप्रायेणैव तत्र साधारण्योक्त्योभयत्र प्रसिद्ध्यभिप्रायेण तदनभिधानादिति भावः॥ वैश्वानरनाम्न इति॥ न च विश्वजीवान्तरत्वाद्यैर्लिङ्गैरित्यणुभाष्येऽस्य लिङ्गत्वोक्त्या कथं नामत्वमिति वाच्यम्। तस्य सिद्धान्तै वैश्वानरशब्दस्य यौगिकत्वप्रदर्शनायावयवार्थकथन एव तात्पर्येण लिङ्गत्वकथने तात्पर्याभावात्। अन्यथा वैश्वानरत्वाद्यैरिति ब्रूयादिति भावः। पादसङ्गत्यर्थमाह॥ पाचकत्वाद्यनेक-लिङ्गसमन्वयसिद्ध्यर्थम् इति॥ यद्यपि पाचकत्वं कर्मेति वक्ष्यति तथापि लिङ्गत्वमप्यस्तीतीयमुक्तिः॥ अभिविमानपदेनेति॥ न च प्रादेशत्वमात्रोक्तिविरोधः। व्योमवच्चेति वक्ष्यमाणत्वात्। तेजोभूतं भूताग्निः। प्रसिद्धितः लौकिकवैदिकप्रसिद्धितः। तदेव क्रमेणोपपादयति॥ श्रुतेरित्यादिना॥ वैदिकेति॥ वेदप्रसिद्धो योऽयं विद्याभेदव्यवहार इयं वैश्वानरविद्यानेयमित्यादिरूपस्तस्माद्विरोधादित्यर्थः। देवताद्वन्द्वे चेत्यनङादेशेऽग्नावैष्णवं चरुमित्यादिवदग्नाविष्ण्वोरित्युपपन्नम्॥ ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ॥ वैश्वानरमुपास्ते इत्याद्युक्तवैश्वानरो विष्णुरेव। अग्निविष्णुसाधारणवैश्वानरशब्दस्यात्मशब्देन विशेषणादित्यर्थः। वैश्वानरशब्दस्य विष्णुपरत्वसम्भवादित्यन्वयः। कुत इत्यत उक्तम्॥ आत्मशब्दसामानाधिकरण्येनेति॥ आत्मानं वैश्वानरमिति सामानाधिकरण्येनेत्यर्थः। तस्याप्यन्यपरत्वं किं न स्यादित्यत उक्तम्॥ अन्यत्रानवकाशेति॥ तत्कुत इत्यत उक्तम्॥ आत्मशब्द इति॥
विवृतिः
यद्यपि वैश्वानरनाम्नः सूत्रभाष्ययोर् अग्नाविष्ण्वोः साधारण्यस्योक्ततया उभयत्र प्रसिद्धता तथापि वैश्वानरशब्दस्य श्रुत्यन्तरेऽग्नौ प्रयोगाद्विषयवाक्ये अग्निशब्दसामानाधिकरण्याद्वाऽन्यत्रप्रसिद्धत्वं नाभिप्रेतम्। येन श्रुत्यन्तरे विष्णावपि प्रयोगादुभयत्र प्रसिद्धता स्यात्। किन्तु लोकतः। अत एव टीकायां लोकतोऽन्यत्र प्रसिद्धेत्युक्तम्। सूत्रादावुक्तसाधारण्यन्तु अन्यत्रप्रसिद्धेर्विष्णुलिङ्गानां च निरवकाशत्वेन तुल्यबलतया नतु वैश्वानरशब्दस्यान्यत्रप्रसिद्धेरिति टीकायामेवोक्तम्। विश्वजीवान्तरत्वाद्यैर्लिङ्गैरिति भाष्यकारीया लिङ्गत्वोक्तिस्तु सिद्धान्ते वैश्वानरशब्दस्य यौगिकत्वदर्शनार्थमवयवार्थे तात्पर्यकथनात्। अन्यथा वैश्वनरत्वाद्यैरित्यवक्ष्यत्। अनन्तरसङ्गतिस्तु गताधिकरणोक्तसर्वगतत्वाक्षेपेण पूर्वपक्षोत्थानादिति भाष्य एवोक्ता। पाचकत्वाद्यनेकलिङ्गसमन्वयेति॥ तेन पादसङ्गतिरुपपन्नेति भावः। नन्वभिमानविपदेन सर्वगतत्वं कथं लभ्यत इत्यत आह॥ अभित इति॥ तेजोभूतं वा स्यादिति॥ अतो नाग्निविष्ण्वोरिति भाष्येऽग्निशब्देन ‘अत एव न देवताभूतं च’ इत्युत्तरसूत्रानुरोधेन तेजोभूतमपि विवक्षितमित्युक्तं भवति। नन्वन्यत्र प्रसिद्धिरस्तु तथापिश्रुतेर्विष्णुविषयत्वमस्तु इत्यत आह॥ श्रुतेरिति॥ वैदिकेति॥ अन्यविद्याया अपि विष्णुविषयत्वेवै दिकानां शब्दानां योऽयं विद्याभेदव्यवहार इयमग्निविद्येत्यादितद्विरोधः स्यादित्यर्थः॥ ननु व्यवहारः प्रकारान्तरेण भविष्यतीत्यत आह॥ नहीति॥ साधारणस्यापि वैश्वानरशब्दस्य विष्णुपरत्वसम्भवादित्यन्वयः। तत्र हेतुरनवकाशात्मशब्देति॥ आत्मशब्दस्यानवकाशत्वं कुत इत्यत उक्तम्। आत्मशब्दः परे विष्णविति॥ तर्हि प्रसिद्धेः का गतिरत आह॥ प्रसिद्धेरिति॥ अन्यथाऽभिव्यक्तेरित्यादिवक्ष्यमाणन्यायेनेति भावः।
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ
सूत्रभाष्यम्
॥ ॐ स्मर्यमाणमनुमानं स्यादिति ॐ॥ २५॥
‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित’ (भ.गी.१५-१४) इति स्मर्यमाणमत्रापि स एवोच्यत इत्यस्यानुमापकम्। समाख्यानात्। इतिशब्दः समाख्याप्रदर्शकः॥ २५॥
सत्तर्कदीपावली
वैश्वानरशब्दप्रतिपाद्यो विष्णुरेवेत्येतद्भगवद्वाक्यसंवादेन दर्शयत्सूत्रं पठित्वा व्याचष्टे॥ स्मर्यमाणमित्यादिना॥ समाख्यानं व्याख्यानम्।
तत्त्वप्रदीपिका
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ॥ अहं वैश्वानरो भूत्वेत्यत्र वैश्वानर इति विष्णुविषयतयैव निर्णीतं स्मर्यमाणमनेन सन्दिह्यमानेन वैश्वानरशब्देन समाख्यानमत्रापि स एवोच्यत इत्यस्यार्थस्यानुमापकम्॥
तत्त्वप्रकाशिका
नन्वात्मशब्दस्यामुख्यवृत्तिमभ्युपेत्याग्न्यादीनामेव वैश्वानरत्वं किं न स्यादित्याशङ्कां परिहर्तुं हेत्वन्तरेण वैश्वानरस्य विष्णुत्वं निश्चाययत्सूत्रमुपन्यस्य व्याचष्टे॥ स्मर्यमाणमिति॥ ‘अहं वैश्वानरो भूत्वा’ इति स्मृत्युक्तं विष्णोर् वैश्वानरत्वमत्र वैश्वानरविद्यायामपि सः गीतोक्तो भगवानेव वैश्वानरपदेनोच्यत इत्यस्यार्थस्यानुमापकं भवति। स्मृतौ विष्णोर्वैश्वानरत्वोक्तेर्वैश्वानरविद्यायामप्यसावुच्यत इति भावः। स्मृत्युक्तवैश्वानरस्य विष्णुत्वेऽप्यत्रोक्तस्य कुतो विष्णुत्वम् इत्यत आह॥ समाख्यानादिति॥ समाख्यानयुक्तिर्न सूत्रितेत्यत आह॥ इतीति॥ अनेनेति स्मर्यमाणमित्यन्वयः सूचितो भवति॥२५॥
भावदीपः
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ॥ सूत्रे चशब्दाभावाच्छङ्कानिवर्तकत्वेन सूत्रमवतारयति॥ नन्विति॥ अग्न्यादीनामेवेति॥ अग्निदेवतातेजोभूतविष्णूनां त्रयाणामेवेत्यर्थः। यद्वोपलक्षित-विद्यान्तराभिप्रायेण बहुवचनोक्तिः। वैश्वानरत्वमित्युपलक्षणम्। इन्द्राकाशप्राणगायत्रीत्यादिकमित्यर्थः। स्मृतिसमाख्याप्युपलक्षणं ‘यो देवानां नामधा एक एव’ ‘नामानि सर्वाणि’ इत्यादेरिति भावः। क्रमेण भाष्यपदानामर्थमाह॥ अहमिति॥ इत्यन्वय इति। सूत्र इति योज्यम्। भाष्ये ‘‘अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित’’ इति स्मर्यमाणमित्युक्तेरिति भावः। तथा च वैश्वानरो विष्णुरेव। अहं वैश्वानर इति गीतायां स्मर्यमाणत्वादिति भावः। एतेन न्यायविवरणोक्तस्य विशेषश्रुत्यादे-रित्यादिपदस्य समाख्यानमित्यर्थः। तत्कृत्यं च दर्शितं भवति॥ २५॥
वाक्यार्थमुक्तावली
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ॥ सूत्रे चशब्दाभावात् शङ्काव्यावर्तकत्वेन सूत्रमवतारयति॥ नन्वित्यादिना॥ अग्न्यादीनामिति॥ देवताभूतविष्णूनामित्यर्थः॥ इति स्मर्यमाणमिति॥ इति श्रुत्युक्तप्रकारेण स्मर्यमाणम्। इति शब्दस्य पूर्वसूत्रानुषक्तेन विष्णुर्वैश्वानर इत्यनेनान्वय इति बोध्यम्। सूत्रे वैश्वानरो ब्रह्मेत्यस्ति। तेनेतिशब्दान्वयः। अनुमीयतेऽनेनेत्यनुमानं ब्रह्म वैश्वानर इति स्मर्यमाणं विष्णोर्वैश्वानरत्वमत्रापि स एव वैश्वानर इत्यस्यानुमापकं स्यादित्यर्थः।
वाक्यार्थमञ्जरी
ॐ स्मर्यमाणमनुमानं स्यादिति ॐ॥ इत्यहं वैश्वानरो भूत्वेत्येवं स्मर्यमाणं गीतास्मृत्युक्तं विष्णोरेव वैश्वानरत्वमेतत्स्मृत्युक्तवैश्वानरस्य विष्णुत्वस्यानुमानमनुमापकम्। समाख्यारूपेण साधकं स्यादित्यर्थः॥ समाख्यानादितीति॥ निर्णीतस्थले समानोक्तिरूपसमाख्याया इदं वाक्यमेतत्परमेतत्समाख्यावत्वादित्यनुमानरूपेण वाक्यतात्पर्यनिर्णायकत्वादिति भावः॥ इति स्मर्यमाणेति॥ स्मृतेर्बुद्धिस्थत्वादिति भावः।