ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ
६. अदृश्यत्वाधिकरणम्
सूत्रभाष्यम्
अदृश्यत्वादिगुणा विष्णोरुक्ताः। तत्र ‘यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा’ (मुं.उ. १-१-६) इत्युक्त्वा, ‘यथोर्णनाभिस्सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति। यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम्’ (मुं.उ.१-१७) इत्युक्त्वा तस्माच्च ‘अक्षरात्परतः पर’ (मुं.उ.३-१-२) इति परः प्रतीयत इत्यतोऽब्रवीत्।
॥ ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ २१॥
पृथिव्यादिदृष्टान्तमुक्त्वा ‘अक्षरात्सम्भवतीह विश्वम्’ (मुं.उ.१-१-७) इत्यतः परं तत्परतः पराभिधानात्, ‘कूटस्थोऽक्षर उच्यत’ (भ.गी.१५-१६) इति स्मृतेश्च प्रकृतेः प्राप्तिः। ब्रह्मशब्दात्तत्परतः पराभिध्यानादेव च हिरण्यगर्भस्य। ‘तमेवं विद्वानमृत इह भवति’ (तै.आ.३-१२-७)। ‘तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया’ ‘अथ द्वे वाव विद्ये वेदितव्ये परा चैवापरा च। तत्र ये वेदा यान्यङ्गानि यान्युपाङ्गानि यानि प्रत्यङ्गानि साऽपरा। अथ परा यया स हरिर्वेदितव्यो योऽसावदृश्यो निर्गुणः परः परमात्मा’ इत्यादिना तद्धर्मत्वेनावगतपरविद्याविषयत्वोक्तेर्विष्णुरेवादृश्यत्वादिगुणकः॥ २१॥
सत्तर्कदीपावली
अदृश्येऽनात्म्ये इत्यादिना अदृश्यत्वादिगुणा विष्णोरुक्तास्ते चाथर्वणे अक्षरस्योच्यन्ते। यत्तदद्रेश्यमग्राह्यमिति। न चैतदक्षरं विष्णुः। तस्य तस्मात्परत्वेन श्रूयमाणत्वात्। अक्षरात्परतः पर इति। एवं प्राप्ते सूत्रमवतारयति॥ अदृश्यत्वेति॥ अदृश्यत्वादिगुणकमक्षरं विष्णुरेव न प्रकृतिहिरण्य-गर्भाविति प्रतिपिपादयिषया प्रसक्तिं दर्शयति॥ पृथिव्यादीत्यादिना॥ अस्यार्थः। पृथिवीदृष्टान्तेन ह्यक्षर-मुच्यमानं प्रकृतिर्भवेत्। कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्य इति स्मृत्या प्रकृतेरक्षरत्वेनोच्यमान-त्वात्। ‘ब्रह्मा देवानां प्रथमः सम्बभूव’ ‘विश्वस्य कर्ता भुवनस्य गोप्ता’ ‘स ब्रह्मविद्यां सर्वविद्या-प्रतिष्ठामाथर्वाय ज्येष्ठपुत्राय प्राह’ इत्युपक्रम्य श्रूयमाणमदृश्यत्वादिगुणकमक्षरं हिरण्यगर्भो वा भवेत्। तस्मिन्नपि ब्रह्मशब्दसम्भवात् पुरुषोत्तमस्त्वेतदक्षरं न भवत्येव। तस्मात्परत्वेनोपरि श्रूयमाणत्वा-दित्येतन्निषेधति। तमेवमित्यादिना। अस्यार्थः। अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमिति परविद्याविषयत्ववचनाद्विष्णुरेवादृश्यत्वादिगुणकोऽक्षरः। परविद्याविषयत्वस्य तमेवं विद्वानमृत इह भवतीत्यादिवाक्यान्तरेषु विष्ण्वेकनिष्ठत्वेन तद्धर्मत्वेनोक्तत्वात्। वेदानामपरविद्याविषयत्वं यज्ञाद्यर्थान्तर-विषयत्वविवक्षया तेषामेव परविद्याविषयत्वं विष्णुविषयत्वविवक्षयेत्यवगन्तव्यम्। तदुक्तं परमसंहितायाम्।
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः।
ता एव परमा विद्या यदा विष्णोस्तु वाचका॥ इति।
तत्त्वप्रदीपिका
अदृश्यत्वादिगुणा इत्यादेरयमर्थः। ‘अदृश्येऽनात्म्ये’ ‘सहैव सन्तं न विजानन्ति देवाः’ ‘स योऽतोऽश्रुत’ इत्यादिनाऽदृश्यत्वादिगुणा विष्णोरुक्ताः। श्रुत्यन्तरे तु ‘अथ परा यया तदक्षरमधिगम्यते, यत्तदद्रेश्यमग्राह्यमगोत्रम्’ इत्याद्युक्त्वा उत्तरत्र अक्षरात्परतः पर इति वचनात् तस्माददृश्यत्वादिगुणकादक्ष-रात्परतः परः कश्चिदस्तीति प्रतीयत इति। अनेन भाष्येणाधिकरणसङ्गतिरगादि॥ विषयवाक्यं चोदाहारि। संशयस्थानं चोदभावि। पूर्वपक्षबीजं चासूचि।
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ तमेव पूर्वपक्षं सहेतुकमिह वर्णयति। ‘‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयस्सम्भवन्ति। यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम्’’ इत्यूर्णनाभिपृथिव्यादिदृष्टान्तेनाक्षरस्य जगदुपादानत्वमुक्त्वोपरि तस्माच्चाक्षरात्परतः परस्याभिधानाज्जडप्रकृति-रदृश्यत्वादिगुणकमक्षरमिति पूर्वपक्षः॥ ‘कूटस्थोऽक्षर उच्यत’ इति स्मृतेश्चित्प्रकृतिर्वा। ‘ब्रह्मा देवानां प्रथमस्सम्बभूव’ ‘विश्वस्य कर्ता भुवनस्य गोप्ता’ ‘स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्’ इत्यादि ब्रह्मशब्दात्, तस्मात्परस्याः प्रकृतेः परस्य हरेरभिधानादेव च हिरण्यगर्भो वेति। तमेवं विद्वानित्यादिना परिहरति। विष्णुधर्मत्वेन स्पष्टं श्रुत्यन्तरसिद्धं परविद्याविषयत्वब्रह्मत्वामृतत्वादि, तदत्राप्युच्यते, ‘अथ परा’ ‘तदेतदक्षरं ब्रह्म’ ‘पुरुष एवेदं विश्वं’ ‘कर्म तपो ब्रह्म परामृतम्’ इत्यादिना॥ अतोऽदृश्यत्वादिगुणको विष्णुरेव। आयुर्वेदो धनुर्वेदो गान्धर्वं स्थापत्यं चोपाङ्गानि। शिष्टाः कला विद्याः प्रत्यङ्गानि।
तत्त्वप्रकाशिका
अत्राऽक्षरशब्दसाहित्येन अन्यत्र प्रसिद्धादृश्यत्वादिलिङ्गानां ब्रह्मणि समन्वयप्रतिपादनादस्ति शास्त्रादि-सङ्गतिः। श्रुत्यादिसङ्गतिं विषयवाक्योदाहरणेन विषयसंशयौ सयुक्तिकं पूर्वपक्षं च सूचयति॥ अदृश्य-त्वादीति॥ ‘अदृश्येऽनात्म्य’ इत्यानन्दमयस्य अदृश्यत्वादिगुणा उक्ताः। ते चाथर्वणे कस्यचिदक्षर-स्योच्यन्ते। ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः। यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति। यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम्’ इति। तेषां च विष्ण्वन्यनिष्ठत्वे प्रागुक्तानन्दमयत्वं चान्यस्यैव स्यादित्यवश्यं निर्णेतव्यता। तददृश्यत्वादिलिङ्गजातमत्र विषयः। विष्णोरन्यस्य वेति सन्देहः। आनन्दमये श्रुतत्वमक्षरशब्दश्च सन्देहबीजम्। न विष्णोरदृश्यत्वादीति तावत्पूर्वः पक्षः। अदृश्यत्वादिगुणकेऽक्षरात्सम्भवतीह विश्वमित्यक्षरशब्दश्रवणात्। तस्य च विष्णौ निरवकाशत्वात्। यतोऽस्मादप्यक्षरादुत्तरवाक्ये परः प्रतीयते।
‘दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’
इति। न हि विष्णोरपि परोऽस्तीत्यतो न विष्णुरदृश्यत्वादिगुणक इति नानन्दमयोऽपीति भावः।
सिद्धान्तयत्सूत्रं तावदवतारयति॥ अत इति॥ अदृश्यत्वादिकं न विष्णोश्चेत्तर्हि वाक्यस्य निर्विषयतयाऽप्रामाण्यं स्यादित्यतः पूर्वपक्षं विशदयति॥ पृथिव्यादीति॥ अदृश्यत्वादिकं जडप्रकृतेर्भवेत्। अस्याः पृथिव्यादिदृष्टान्तेन उपादानतया जगत्कारणत्वोक्तेः। न चायं कारणत्वमात्रे दृष्टान्त इति वाच्यमित्यतो वाक्यादनन्तरम् अक्षरात्परतः पर इति तस्मात्परतः पराभिधानात्। चेतनप्रकृतेर्वाऽ-दृश्यत्वादिकम्। तस्यामक्षरशब्दस्य स्मृतिसिद्धत्वात्। न चासौ शब्दः परमात्मन्यपि सम्भवतीति वाच्यम्। तत्परतः पराभिधानात्। तच्च तस्यामक्षरात्परतः पर इति सामानाधिकरण्येनोपपन्नम्। विकारित्वेन जगत्कारणत्ववचनं तस्या विकाराभिमानित्वाद्युज्यते। हिरण्यगर्भस्य वाऽदृश्यत्वादिकम्। स ब्रह्मविद्यामित्यादिब्रह्मशब्दात्। न च ब्रह्मशब्दो विष्णौ मुख्य इति तद्ग्रहणम्। तत्परतः पराभिधानात्। रुद्रस्य वैतददृश्यत्वादिलिङ्गजातम्। कर्तारमीशमिति ईशशब्दश्रवणात्। न च ईशशब्दो विष्णावपि सम्भवतीति तद्ग्रहः। तत्परतः पराभिधानादेवेति भावः। एवं प्राप्तं पूर्वपक्षं प्रतिक्षेप्तुं सूत्रं व्याचष्टे॥ तमेवमिति॥ अदृश्यत्वादिगुणको विष्णुरेव। अथ परा यया तदक्षरमधिगम्यत इत्यदृश्यत्वादिगुणकस्य परविद्याविषयत्वोक्तेः। परविद्याविषयत्वस्य च श्रुतिस्मृतिभिर् विष्णुधर्मत्वेनावगतत्वादित्यर्थः। तमेवमिति श्रुतौ मोक्षसाधनविद्याविषयत्वोक्त्या विष्णोः परविद्याविषयत्वमुक्तं भवति। मोक्षसाधनविद्यायाः परविद्यात्वात्। तत्कर्मेति स्मृतौ च सैव परविद्या यया हरेर्ज्ञानं भवतीति तस्य परविद्याविषयत्वमुच्यते। द्वे विद्ये इत्यत्र च यदा वेदाद्यन्यविषयतया योज्यते तदा तस्याऽपरविद्यात्वम्। यदा पुनरेतैः स हरिर्वेद्यो भवति तदा परविद्यात्वमिति हरेः परविद्याविषयत्वमुच्यते। तदुक्तं
‘ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः।
ता एव परमा विद्या तदा विष्णोस्तु वाचकाः’ इति॥ २१॥
गुर्वर्थदीपिका
तस्य च विष्णौ निरवकाशत्वादित्यत्र निरवकाशत्वं विष्णावेवावकाशरहितत्वमित्यर्थः। रुद्रपक्षे त्वक्षराद्रुद्रात्परत उत्तमाच्चतुर्मुखात्पर उत्तम इति पुम्मात्रविवक्षयाऽर्थो द्रष्टव्यः।
भावबोधः
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ श्रुत्यादिसङ्गतिमिति॥ अदृश्यत्वादिगुणा विष्णोरुक्ता इति भाष्योक्तरीत्या प्रागुक्तपृथिव्याद्यविदितत्वाक्षेपाद् ‘‘अदृश्यत्वाद्यभावाख्यम्’’ इत्यनुव्याख्याने ततः परमित्यस्यानुवृत्तौ सत्यां तदुक्तरीत्याऽभावनिरूपणस्य भावनिरूपणानन्तरत्वेनाधिकरणपञ्चकेन भावरूपधर्मविचारं कृत्वात्राभावरूपधर्मविचाराद्वाऽनन्तरसङ्गतिर्द्रष्टव्या॥ विष्णोरन्यस्य वेति॥ अत्रादृश्यत्वादि किं प्रकृतिविरिञ्चादेरुत विष्णोरिति चिन्ता। तदर्थमदृश्यत्वादिगुणके प्रतीताः पृथिव्यादि-दृष्टान्तपूर्वकजगत्कारणत्वप्रतिपादकवाक्याक्षरब्रह्मेशशब्दाः किं जडाजडप्रकृतिविरिञ्चरुद्रविषया उत न इति। तदर्थं तत्समानाधिकरणमक्षरात्परतः परत्वं विष्णौ न सम्भवत्युत सम्भवतीति। तदर्थमक्षरात्सम्भव-तीत्युक्तमक्षरमेवाक्षरात्परत वाक्यगताक्षरशब्देनोच्यते, उतान्यदक्षरमिति। तदर्थमवधिवाचकाक्षरशब्देन प्रकृतादृश्यत्वादिगुणकविश्वयोनिपरित्यागेनाप्रकृताक्षरान्तरग्रहणे कारणमदृश्यत्वादिगुणकस्य विष्णुत्वसाधकं प्रकृतिविरिञ्चादित्वे बाधकञ्च नास्त्युतास्तीति। तदर्थं परविद्याविषयत्वादेर्विष्णुमात्रनिष्ठत्वे प्रमाणं नास्त्युतास्तीति। तस्य विष्णौ निरवकाशत्वादित्यादिना न हि विष्णोरपि परोऽस्तीत्यन्तेनाक्षरात् परतः पर इति श्रुतेरपि नाक्षरात् सम्भवतीत्यस्या निरवकाशत्वमिति न्यायविवरणम् ‘नञम्’ ‘अपि’पदञ्च विना उक्ततात्पर्यकं भवतीति द्रष्टव्यम्॥ पृथिव्यादिदृष्टान्तेनेति॥ श्रुतावूर्णनाभिदृष्टान्तस्य प्राथम्येऽपि तत्र सृजत इत्यनेन कर्तृत्वप्रतीतेर्भाष्ये पृथिव्यादीत्युक्तमिति भावः। अत एव स्वयमुपादानतयेत्युक्तम्॥ न च कारणत्वमात्रे दृष्टान्त इति॥ तथा च विष्णुग्रहणे नेयमनुपपत्तिरिति भावः। इत्यतो वाक्यादनन्तरमिति। उपलक्षणं चैतत्। कारणत्वमात्रस्य सम्भवतीह विश्वमित्यनेनैव सिद्ध्या दृष्टान्तकथनवैयर्थ्यात्। बाधकाभावेऽन्तरङ्गस्योपादानत्वस्य त्यागायोगाच्च इत्यपि द्रष्टव्यम्। सामानाधि-करण्येनेति॥ चित्प्रकृतेरुत्तमादुत्तमस्याभावेनाक्षरात् परत इति पञ्चम्योर्वैय्यधिकरण्यायोगादिति भावः॥ तत्परतः पराभिधानादिति॥ उपलक्षणं चैतत्। पूर्वत्र ‘ब्रह्मा देवानां प्रथमः सम्बभूव’ इत्युत्तरत्र ‘तस्मादेतद् ब्रह्मनामरूपमन्नञ्च जायत’ इति जायमानत्वलिङ्गेन चतुर्मुखपरेण ब्रह्मशब्देन सह दृष्टस्य स ब्रह्मविद्यामिति ब्रह्मशब्दस्यान्यपरत्वायोगादित्यपि द्रष्टव्यम्। ईशशब्दप्राप्तोऽपि न रुद्र इति वक्ष्यमाणानुरोधादाह– रुद्रस्य वा एतदिति॥ अत एवोक्तमिति भाव इति। परविद्याप्रतिपादकै-तत्प्रकरणगतवाक्यस्य भाष्येऽनुदाहृतत्वात् तदुदाहरति– अथ परा यया तदक्षरमधिगम्यत इति॥ ययेति तृतीयान्तपदं वेदादिव्यतिरिक्तपरमिति भ्रमं वारयितुं सप्रमाणकं श्रुत्यर्थमाह– यदा वेदादीत्या-दिना॥ ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृतं वेदादीत्यर्थः॥ एतैरिति॥ तद्व्युत्पादितन्यायोप-कृतैर्वेदादिभिरित्यर्थः। तथा चानुव्याख्याने परमाख्याविद्येति ब्रह्ममीमांसायाः परविद्यात्वोक्तिरुपपन्नेति ज्ञातव्यम्।
भावदीपः
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ इत्यन्तभाष्यं सङ्गतिपरत्वेन व्याचष्टे॥ अदृश्य इति॥ अदृश्यत्वादीत्यादिपदेनानात्म्यपदोक्तजीवगुणराहित्यं स्वामिराहित्यमित्यादिग्रहः। तत्रेत्यस्य तात्पर्यं ते चेति। विश्वमित्युक्त्वेत्यन्तस्य तात्पर्यम् आथर्वण इत्यादि। कुत्रोच्यन्त इत्यतो यत्तदिति भाष्यं प्राप्तमित्युपेत्य तत्पठति॥ अथेति॥ गुणानामक्षरनिष्ठताप्रदर्शनाय वा सिद्धान्तहेतुप्रदर्शनार्थं तदुपयोगितया वा पूर्वशेषोक्तिः। भाष्ये विच्छिद्य पाठात् सङ्गत्याद्युक्त्यर्थम् अक्षरद्वयैक्यसूचनाय समग्रोक्तिः। दृष्टान्तोक्तेरप्युपन्यासस्य कृत्यमग्रे व्यक्तम्। ओश्यं चक्षुरादिना अदृश्यम्। अग्राह्यं मनसा। अवर्णं ब्राह्मण्यादिवर्णहीनम्। संहर्तृत्वमधिकं वदन् भूतयोनिमित्युक्तकारणत्वं स्पष्टयति॥ यथोर्णनाभिरिति॥ कारणत्वं कर्तृत्वरूपमिति वक्तुमाद्यः। अङ्कुरजनने पृथिवीबीजमिव विश्वसृष्टौ तत्तत्कर्मापेक्षत इति वक्तुं द्वितीयः। अनायासेन तत्सृष्टिरिति वक्तुं तृतीयो दृष्टान्तः। सतो जीवतः पुरुषाद्देहात्। शिरस्थाः केशाः। अन्यानि लोमानि। सर्वस्य तात्पर्यमाह॥ तेषामिति॥ अक्षरश्रुत्या दृष्टान्त-पूर्वमुक्तोपादानत्वयुक्त्या तस्मादक्षरादिति भाष्यशेषोक्तदिशा विष्णावयोगे चान्यनिष्ठत्व इत्यर्थः। उक्ता इत्यन्तवाक्यस्य तात्पर्यं प्रागुक्तेति॥ इतीति॥ पूर्वाक्षेपरूपसङ्गतिसम्भवाद्धेतोरित्यर्थः॥ निर्णेतव्यतेति॥ तेषामित्यनुकर्षः। भाष्ये गुणा इति बहुवचनोक्तेराह॥ जातमिति॥ पादसङ्गत्यर्थं लिङ्गेति। तदेव भाष्यं पूर्वपक्षतद्युक्तितत्फलपरत्वेन व्याकर्तुं परः प्रतीयत इत्युक्तिलब्धप्रतिज्ञामाह॥ न विष्णोरिति॥ विष्णोर्न चेन्निर्विषयं वाक्यमित्यत उक्तं तावदिति। अन्यस्य तु पश्चाद्विवरिष्याम इत्यर्थः। कुत इत्यतस्तत्रेत्याद्यक्षरात्सम्भवतीह विश्वमित्युक्त्वेत्यन्तपूर्ववाक्यं प्राप्तमिति मत्वाऽऽह॥ अदृश्यत्वादिगुणक इति॥ भाष्यस्थतत्रेत्यस्यार्थोऽयम्। तथापि कुतो न विष्णुरित्यतो ऽक्षरात्परतः पर इति श्रुतेरपि नाक्षरात्सम्भवतीत्यस्या निरवकाशत्वमिति न्यायविवरणोक्तदिशाऽक्षरशब्दस्य विष्णौ निरवकाशत्वं वक्तुं प्रवृत्तं तस्माच्चेत्यादिभाष्यवाक्यशेषं मत्त्वाऽऽह॥ तस्य चेति॥ तत्र हेतुत्वेन भाष्यशेषं व्याचष्टे॥ यत इति॥ तस्मादित्यस्य व्यवहितयत्किञ्चित्परामर्शित्वभ्रमनिरासायास्मादप्यक्षरादिति व्याख्या। भाष्ये इत्यतः परमित्यग्रेतनभाष्यानुरोधादिहापीतिशब्दानन्तरं वाक्य इति शेषः। अस्मादप्यक्षराद् अक्षरात्सम्भवतीति वाक्यादुत्तरवाक्येऽस्मादप्यक्षरात्परः प्रतीयत इत्यर्थः। एतेन भाष्ये तस्मादिति पूर्ववाक्यमक्षरं च परामृश्यत इति दर्शितम्। इत्युक्त्वा प्रवृत्ते उत्तरवाक्य इति योजनात् क्त्वाश्रुत्युपपत्तिः। तत्किमुत्तरवाक्यमित्यतोऽक्षरात्परतः पर इत्येतत् प्रवृत्तमिति मत्वा परो विष्णुरित्यत्र लिङ्गानि वक्तुं शेषपूर्वकमाह॥ दिव्यो हीति॥ दिव्योऽत्यद्भुतः। अमूर्तो नियतपरिच्छिन्नपरिमाणरहितः। किन्तु बाह्य आभ्यन्तरश्च। अप्राणो ह्यमना इति षोडशकलाराहित्यमुच्यते। शुभ्रः शुद्ध इति कर्मनिर्णयटीकोक्तार्थो बोध्यः॥ न हीति॥ सैव हि सत्यादय इत्यादौ तस्यैकस्यैव परत्वोक्तेः। सा काष्ठा सा परा गतिरित्यादेरिति भावः। एतेनाक्षरात्सम्भवतीति वाक्यस्थाक्षरशब्दस्य निरवकाशत्व-मित्यर्थो दर्शितः॥ अत इति॥ निरवकाशाक्षरशब्दादित्यर्थः। उक्त्वेत्यन्तवाक्यतात्पर्यमदृश्यत्वादीति ओश्यवाक्ये अदृश्यवाक्ये च श्रुतेत्यर्थः॥ प्रकृतेः प्राप्तिरिति प्रकृतिपदस्य जडपरत्वं तावदुपेत्य भाष्यं व्याचष्टे॥ जडेति॥ अस्येति॥ अदृश्यत्वादिगुणकाक्षरस्येत्यर्थः। यथोर्णनाभिरित्यत्र स्फुटमुपादानत्वाप्रतीतेः पृथिव्यादीत्युक्तम्। भाष्यटीकयोर्यथोर्णनाभिरित्युक्तिस्तु सिद्धान्ते उपयुज्यत इति भावः। प्रागुक्तन्यायविवरणानुरोधेनाक्षरादित्युत्तरभाष्यं लिङ्गनिरवकाशतोक्त्यर्थं प्रवृत्तमिति मत्वाऽवतारयति॥ न चेति॥ तथा च विष्णावपि तद्युक्तमिति भावः। दृष्टान्तवैय्यर्थे सत्यपि इत्यतः परमिति भाष्योक्तं दोषान्तरं व्यनक्ति॥ इत्यतो वाक्यादिति॥ तच्छब्दार्थस्तस्मादिति। कारणत्वेनोक्ताक्षरादित्यर्थः। विष्णोः परत्वोक्तेस् तदवध्यक्षरत्वमयुक्तम्। जडत्वे तु ततः परतः श्रीतत्वात्परो विष्णुरिति युक्तमिति उपादानत्वं जडप्रकृतेरेव दृष्टान्तवैय्यर्थ्यं च नेति भावः। एतेनाक्षरात्सम्भवतीत्यस्या निरवकाशत्वमिति न्यायविवरणोक्तम् इत्यन्तस्योपादानस्य निरवकाशत्वमित्यर्थान्तरं दर्शितम्। कूटस्थेत्यादि व्याचष्टे॥ चेतनेति॥ न्यायविवरणमनुरुध्य पूर्वोक्तदिशा अक्षरशब्दनिरवकाशत्वोक्तिपरतया पूर्वभाष्यमेव शङ्कापूर्वं योजयति॥ न चेति॥ अक्षरन्यायनयेनेति भावः। चित्प्रकृतौ वा कथं युक्तम् अन्तराले कस्यचिदभावेन परत इत्युक्त्ययोगात्। अत आह॥ तच्चेति॥ युज्यत इति॥ विष्णावविकारित्वादतदभिमानित्वाच्च न युज्यत इति भावः। ब्रह्मेत्यादि व्याचष्टे॥ हिरण्यगर्भस्य वेति॥ तत्परत इति॥ परावधित्वेनोक्ताक्षरत्वायोगान्न विष्णुग्रहणमित्यर्थः। विरिञ्चस्याक्षरत्वे तु परतः श्रीतत्वात् परो विष्णुरिति भावः। तदुक्तं तत्वप्रदीपे। तस्मात् परस्याः प्रकृतेः परस्य हरेरभिधानादिति। ईशपदप्राप्तोऽपि न रुद्र इत्यग्रे भाषणान्निरवकाशत्वोक्तिसौकर्याय अत्रैवाह॥ रुद्रस्येति॥ विष्णावपीति॥ अन्तर्नयन्यायेनेति वा शब्दादेवेत्यत्रेशशब्दपर्यायेशानशब्दस्य समन्वेष्यमाणत्वाद्वेति भावः॥ तत्परत इति॥ रुद्रस्याक्षरत्वे तु परतश्चतुर्मुखात्परो विष्णुरिति युक्तम्। अस्मिन्पक्षे श्रीतत्वमीश्वरकोटिनिविष्टमिति भावः। भाष्यं व्युत्क्रमेण व्याचष्टे॥ अदृश्यत्वेति॥ तत्त्वित्यनुवृत्त्यस्यार्थो विष्णुरेवेति। हेतुक्तिपरं वाक्यं दर्शयंस्तद्धर्मत्वेनावगतपरविद्येति भाष्यमाकाङ्क्षानुरोधेन विच्छिद्य व्याकुर्वन् सूत्रखण्डार्थमाह॥ अथ परेति॥ तमेवेत्यादेरर्थः श्रुतीति। श्रुती च स्मृतिश्च ताभिरित्यर्थः। हरेर्ज्ञानमिति। अनेन तन्मतिरिति परामर्शप्रदर्शनाय पूर्वपादोक्तिरिति सूचितम्। परापरविद्ययोर्भेदभ्रान्तिं निरस्यन् परापरविषयत्वरूपोपाधिकृतभेदमाह॥ यदेति॥ अन्येति॥ कर्मादि-विषयतया॥ तदुक्तमिति॥ आथर्वणभाष्य इत्यर्थः। यथैकमेव कर्माभिसन्धिभेदात्प्रवृत्तं निवृत्तमिति चोच्यते तथेति भावः। एतेन ऋगाद्यपरविद्याविषये शास्त्रयोनौ हरौ न तद्विरुद्धपरविद्याविषयत्वमिति निरस्तम्। भाष्ये यान्यङ्गानीति शिक्षादीनि षडङ्गान्युच्यन्ते। आयुर्वेदो धनुर्वेदो गान्धर्वः स्थापत्यं चोपाङ्गानि शिष्टा कला विद्याः प्रत्यङ्गानीति तत्वप्रदीपोक्तार्थः॥ २१॥
अभिनवचन्द्रिका
गुणग्रहणं किमर्थम्? गुणग्रहणमदृश्यत्वादीनां गुणत्वप्रतिपत्त्यर्थम्। अक्रियमाणे गुणग्रहणेऽ-दृश्यत्वादीनामभावरूपत्वेन गुणत्वप्रतिपत्तिर्न स्यात्। नन्वादिग्रहणं व्यर्थम्। आनन्दमयाद्यधिकरणेषु आनन्दमयादिशब्दाना मुदाहरणत्वेनान्नमयादिशब्दग्रहणवदिहापि अदृश्यत्वशब्दस्याप्युदाहरण-त्वेनाऽग्राह्यत्वादीनां ग्रहणसम्भवादिति चेत्, सत्यम् – अदृश्यत्वग्रहणस्योदाहरणतया अग्राह्यत्वादीनां ग्रहणं भवतीति, तथाप्यादिशब्देन तेषां ग्रहणं युज्यते। अग्राह्यत्वादीनां गुणत्वज्ञापनाख्यप्रयोजनसद्भावात्। अन्यथा – दृश्यत्वान्योऽदृश्यस् तस्य भावो ऽदृश्यत्वमिति अदृश्यत्वशब्देन अन्योन्याभावाभिधानेन अन्योन्याभावस्य धर्मिस्वरूपत्वेन भावत्वाद्गुणत्वान्वयबुद्धिः स्यात् – न तु अगोत्रत्वादेः। न विद्यते गोत्रं यस्येति अगोत्रपदेनात्यन्ताभावरूपधर्मवत्त्वाभिधानात्। अत्यन्ताभावस्य भावरूपत्वाभावेन न गुणत्वान्वयधीः स्यात्। आदिग्रहणे पुनः क्रियमाणे न दोषो भवति। साक्षादेव तेषां गुणत्वाभिधानात्॥
नन्वेतद्व्याख्यानं सुधाविरुद्धम् – गोत्रादिसंसर्गाभावो ब्रह्मधर्म इत्यर्थस्य सुधानभिमतत्वात्। यथा हि दण्डो देवदत्तस्य विशेषणं तथा गोत्राद्यभावोऽपि ब्रह्मणो विशेषणम्। न च श्रुतिविरोधः। दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वादित्यादिना गोत्राद्यभाववत्ताया एव गुणत्वाभिधानादिति चेत्, उच्यते सुधाया गोत्राद्यभावो न ब्रह्मगुणः किन्तु गोत्राद्यभाववत्त्वमेवेति नाभिप्रायः। किं तर्हि ‘एवं धर्मान् पृथक् पश्य(का०२-४-१४)न्निति ब्रह्मधर्माणामभेदमभिधात्र्याः श्रुतेर् द्वित्वादिवद्गोत्राद्यभावो न विषयः, किं तु – गोत्राद्यभाववत्त्वमेव विषय इति अभिप्रायः। अवश्यं चैतदेवं विज्ञेयम् – यथा हि दण्डो देवदत्तस्य विशेषणं तथा गोत्राद्यभावोऽपि ब्रह्मणो विशेषणमिति स्वयमेव धर्मत्वाभिधानात्। यस्तु सुधाया गोत्राद्यभावो न ब्रह्मधर्म इत्याशय इति मन्यते स प्रष्टव्यः – गोत्राद्यभावः ब्रह्मगतो न वा। नेतिपक्षे कथं गोत्राद्यभाववत्त्वमपि ब्रह्मधर्मः स्यात्। आद्ये गोत्राद्यभावः कथं न ब्रह्मधर्मः। न हि प्रतिनिधिना विशेषेण घटमानो धर्मधर्मिभावो। न भेदेनेति साम्प्रतम्। इयांस्तु विशेषः – अभिन्ना धर्मा विष्णोः स्वलक्षणानि, भिन्ना धर्मास्तु तटस्थलक्षणानि। इममेवाभिप्रायं मनसि निधाय भागवते जगज्जन्मादिकारणत्वस्य गोत्राभावादिवत्तटस्थलक्षणत्वव्यावृत्तये ‘स्वलक्षणैर्लक्षितभावलक्षण’-(निवृत)मिति स्वलक्षणत्वमुक्तम्। सम्मतं चैतद्भाष्यकृतः। तन्त्रसारे तटस्थानामपि चक्रादीनां केशवादिलक्षणत्वाभिधानात्। कस्यचिदक्षरस्योच्यन्त इति॥ एतदधिकरणप्रतिपाद्यधर्मस्य आनन्दमयधर्मत्वेन प्रतीयमानत्वम्, आनन्दमयाधिकरणतच्छ्रुतिभ्यां सङ्गतिरिति भावः। नानन्दमयोऽपीति भाव इति॥ अदृश्यत्वादिगुणकस्याक्षरस्य विष्ण्वन्यत्वाददृश्यत्वगुणकतया अक्षराभिन्नत्वेन प्रत्यभिज्ञायमानस् तैत्तिरीयश्रुत्युक्तानन्दमयोऽपि न विष्णुरिति भावः। एतेन अदृश्यत्वस्यान्यत्वेपि सर्वोत्तमत्वेनाभिमतस्य विष्णोरानन्दपूर्णत्वापलापे कारणाभावान् न विष्णुरानन्दमयोऽपीत्ययुक्तमिति परास्तम्। विष्णोरानन्दपूर्णत्वमङ्गीकृत्य विष्णुभिन्नतया निश्चितादक्षराददृश्यत्वधर्मवशेनाभिन्नतया प्रत्यभिज्ञायमानस् तैत्तिरीयश्रुत्युक्तानन्दमयो न विष्णुरित्यभिधानात्। पृथिव्यादिदृष्टान्तेनेति॥ ननु– ऊर्णनाभिदृष्टान्तस्य प्राथमिकत्वादूर्णनाभ्यादिदृष्टान्तेनेति वक्तव्यम्। यदि ऊर्णनाभेश्चेतनत्वेनाऽनु-पादानत्वात् तद्विहाय पृथिव्यादिग्रहणम्, हन्त तर्हि पृथिव्यादिग्रहणमपि न कर्तव्यम्। किं कारणम्, अनुपादानत्वात्। कथमनुपादानत्वम् ‘पृथिव्यामोषधय’ (मु.१-७) इत्यत्र पृथिव्यामिति सप्तम्या अधिकरणत्वप्रतीतेः। तयोर्विशेषदर्शनाच्च।
एवं पुरुषोऽपि न केशलोम्नामुपादानम्, किं तर्हि अपादानाम्। पुरुषादिति पञ्चम्या अपादानत्वश्रवणात्। अस्तु वा पृथिवीपुरुषयोरुपादानत्वम्। एवमपि सन्देहः प्राप्नोति। किमूर्णनाभि-दृष्टान्तबलेनाक्षरस्य निमित्तत्वं ग्राह्यम्, आहोस्वित् पृथिव्यादिदृष्टान्तेनोपादानत्वमिति। ततश्च साधकाभावेन न जडप्रकृतेरक्षरत्वमिति पूर्वपक्षो युक्त इति चेत्, न – पृथिवीशब्दः पृथिव्यंशौषध्युपादान-बीजपरः। एवं पुरुषशब्दोऽपि केशलोमाद्युपादानभूतदेहांशमांसपरः। उपादाने चेयं पञ्चमी, ततश्च – पृथिव्यां बीजे समवेताः सन्त ओषधयो भवन्तीति यथा पृथिव्यामिति वाक्येनोच्यते, यथा सतः पुरुषादिति वाक्येनापि उपादानभूता देहभागा एव केशलोमानि भवन्तीत्युच्यत इति पूर्वपक्षी मन्यत इत्यङ्गीकारात्। यदपि ऊर्णनाभिदृष्टान्तदर्शनेन सन्देहो भवतीति तन्न – तदाच्छादनेन पूर्वपक्षस्य प्रवृत्तत्वात्। न चायं कारणत्वमात्र इति॥ दृष्टान्त इत्यनन्तरं ‘विष्णुरेवादृश्यत्वादिगुण’ इति शेषः। अस्तु कारणत्वमात्रे दृष्टान्तः, एवमपि – नाक्षरस्येश्वरत्वं सम्भवति। उत्तरवाक्ये अक्षरात् परतः पराभिधानात्। न च तद्विष्णाववकाशमर्हति इत्याशयेन समाधत्ते इत्यतो वाक्यादिति॥ तस्मात्परत इति॥ परमात्मनः पर एव नास्ति। कुतः परतः परस्मादिति भावः। ननु परतः पराभिधानं यथा विष्णुपक्षे बाधकम्, एवं प्रकृतिपक्षेऽपि बाधकमित्यत आह – त च्चेति॥ तस्यां प्रकृतौ तत्परतः पराभिधानं ‘परतो ऽक्षरा’दिति सामानाधिकरण्येन योजनायामुपपन्नं भवतीत्यर्थः। सब्रह्मविद्या-मित्यादीति॥ अक्षरविद्यायां ब्रह्मविद्यापदप्रयोगाद् अक्षरे ब्रह्मशब्दो लब्ध इति भावः। एतेनाक्षरविषयकेण ब्रह्मशब्देन अक्षरस्य ब्रह्मत्वसाधनमयुक्तमिति परास्तम्। परविद्याविषयत्वोक्तेरिति॥ यद्यप्यत्र परविद्याविषयत्वं न श्रूयते, तथापि अक्षरप्रतिपादकविद्यायाः परत्वोक्तौ अक्षरस्य परविद्याविषयत्व-मर्थाल्लभ्यत इति भावः। ननु किं परविद्याविषयत्वस्य श्रुतिस्मृतिबलेन विष्णुधर्मत्वं प्रसाध्य तेनाऽ-दृश्यत्वादिगुणकस्य विष्णुत्वसाधनप्रयासेन। ब्रह्मशब्देनैव विष्णुत्वसाधनसम्भवात्। सूत्रं चैवं सति लघु स्यात् ‘अदृश्यत्वादिगुणकः शब्दा’दिति। यदि परतः पराभिधानान् न ब्रह्मशब्दो विष्णुत्वसाधकः हन्त तर्हि तत एव परविद्याविषयत्वमपि न तथा स्याद् इति चेत्, सत्यमेव। तथापि ब्रह्मशब्दस्यापि यौगिकत्वेन धर्मवचनत्वज्ञापनाय धर्मोक्तेरित्युक्तम्। भाष्यकृता तु ब्रह्मशब्दोक्तगुणपूर्णत्वधर्मोक्तिः सूत्रार्थतया शिष्यैरेव ज्ञातुं शक्येत्यभिप्रेत्य परविद्याविषयत्वरूपधर्म एव निगदितः। तमेवेति श्रुताविति॥ नन्वत्र विद्याशब्देन ज्ञानसाधनत्वं विवक्षितम्। ‘अथ परा यया तदक्षरमधिगम्यत’ (आ.१-५) इति वचनात्। एवं चास्यां श्रुतौ तमेवं विद्वानमृतो भवतीत्यनेन मोक्षसाधनीभूत ज्ञानविषयत्वलाभेऽपि विद्याविषयत्वस्यालाभान् नैतच्छ्रुत्युदाहरणमुचितमिति चेत्, न – ‘एवं विद्वा’नित्यत्र एवंशब्दस्य विद्योक्तप्रकारेणेत्यर्थकत्वेन विद्याविषयत्वस्य स्पष्टं प्रतिभासनात्। यदा वेदाद्यन्यविषयतयेति॥ ननु– यदा वेदाद्यन्यविषयतया योज्यते तदा अपरविद्यात्वमित्युक्तं, योजनामात्रेण परविद्याया अपर-विद्यात्वायोगादिति चेत्, न – नात्र परविद्यात्वमपरविद्यात्वमखण्डं, किं तर्हि परविषयकप्रबोधजनकत्वमेव परविद्यात्वम्, एवं तदन्यप्रबोधजनकत्वमपरविद्यात्वम्। एवं तदन्य प्रबोधजनकत्वमपरविद्यात्वम्। तदुभयं च तत्र योजनारूपसहकारिसम्पत्त्या एकस्या एव विद्याया उपपद्यते। एकस्यैव चतुरस्य देवत्तस्य सहकारिभेदेन विचित्रकार्यजनकत्वदर्शनात्। यदा विष्णोर्न वाचका इति॥ यदा विष्णुवाचकत्वेनाननुसंहिता अन्यवाचकत्वेनानुसंहितास् तदाऽन्यबोधजनकत्वाद् अपरविद्याः। यदा भगवद्वाचकत्वेनानुसंहितास् तदा परप्रबोधजनकत्वात् परविद्या इत्यर्थः। एतेन वाचकत्वस्य स्वाभाविकत्वेन सदातनत्वात् ‘यदा वाचकाः, यदा न वाचका’ इत्युक्तिरयुक्तेति परास्तम्।
वाक्यार्थमुक्तावली
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ अक्षरशब्दसाहित्येनान्यत्र प्रसिद्धेति॥ ननु अक्षर-शब्दोऽविनाशित्वसाम्याद् उभयत्र प्रसिद्ध इति वक्ष्यति। कथं तत्साहित्येनापि अदृश्यत्वादेरन्यत्र प्रसिद्धत्वमिति चेन्न। विष्णौ यौगिकत्वात्। चित्प्रकृतौ कूटस्थोऽक्षर उच्यते इति रूढत्वाद् रूढ्योभयत्र प्रसिद्ध्यभावात्। योगेन प्रसिद्धावपि तत्परतः पराभिधानेन त्यागोपपत्तेः। एतेनाक्षराधिकरणेऽक्षर-समन्वयेऽभिहितेऽदृश्यत्वमपि सिद्ध्यति किमनेनाधिकरणेनेति निरस्तम्। अक्षरात्परतः परत्वानुपपत्तेस् तत्रापरिहारादिति॥ ननु अव्यक्तात् पुरुषः पर इति वाक्यवद् अक्षरात् परतः पर इति वाक्यस्यापि भगवदुत्कर्षविरोधित्वेन न्यायैक्यादानुमानिकाधिकरणन्यायेनैतद्गतमिति चेन्न। तत्र विरोधमङ्गीकृत्य तदधीनत्वादर्थवदिति समाधानात्। अत्र पुनस्त्र्यक्षराभिधानेन विषयभेदमङ्गीकृत्य विरोधस्यापाततोऽपि अनवकाशोक्तेरिति॥ श्रुत्यादिसङ्गतिमिति॥ अव्यवहितसङ्गतिस्तु अदृश्यत्वादिगुणा विष्णोरुक्ता इति भाष्ये यं पृथिवी न वेद इत्यादावित्यपि विवक्षितत्वेनाविदितत्वरूपादृश्यत्वाक्षेपादिति बोध्यम्॥ विष्णोरन्यस्य वेति॥ अत्रादृश्यत्वादिकं पृथिव्यादिदृष्टान्तपूर्वकं जगत्कारणत्वप्रतिपादकवाक्याक्षर-ब्रह्मशब्देशशब्दबलात् किं जडाजडप्रकृतिविरिञ्चरुद्राणाम् उत परविद्याविषयत्वादिहेतुबलाद् विष्णोरिति॥ तदर्थं पूर्वपक्षप्रापकाणां विष्णौ निरवकाशत्वमुत सावकाशत्वमिति। तदर्थमक्षरादिश्रुतीनां पृथिव्यादिवत् कारणत्वस्य च विष्णुविषयत्वे अक्षरात्परतः पराभिधानं बाधकं भवत्युत न भवतीति। तदर्थमक्षरात् सम्भवतीत्युक्तमेवाक्षरात् परत इति वाक्यगताक्षरपदेनोच्यते उतान्यदिति। तदर्थं परविद्याविषयत्वादिकं सावकाशमुत निरवकाशमिति॥ अनात्म्य इति॥ अनेन भाष्ये आदिशब्दस्यानात्म्यपदोक्तजीवगुणराहित्यं स्वामिराहित्यमित्यादिकमर्थ इति दर्शितम्। ओश्यं चक्षुरादिना। अग्राह्यं मनसा हस्ताभ्यां वा। अवर्णं ब्राह्मणादिवर्णहीनम्। भूतयोनिमित्युक्तयोनित्वं प्रपञ्च्यते॥ यथेति॥ कारणत्वं कर्तृत्वमिति विवेक्तुमाद्यः। मन्दं प्रति कारणत्वं बुध्यारूढं कर्तुं कारणत्वमात्रे द्वितीयः। अनायासेन सृष्ट्युपपादनाय तृतीयो दृष्टान्तः। सतो जीवतः पुरुषाद् देहात्। गुणानामक्षरनिष्ठताप्रतिपादनाय वा सिद्धान्तोपयोगितया वा अथेति पूर्वशेषोक्तिः। भाष्ये विच्छिद्य पाठात्। अक्षराद्वा ऐक्यसूचनाय सङ्गतिप्रदर्शनाय वा समग्रोक्तिरिति ध्येयम्। दृष्टान्तोपन्यासकृत्यमग्रे व्यक्तम्। परः प्रतीयते इत्युक्तिलभ्यतात्पर्यमाह॥ न विष्णोरिति॥ विष्णोर्न चेन् निर्विषयं वाक्यं स्यादित्यत उक्तम्॥ तावदिति॥ विषयान्तरं वक्ष्यतीति भावः॥ पृथिव्यादिदृष्टान्तेनेति॥ श्रुतौ ऊर्णनाभिदृष्टान्तस्यादित्वेऽपि तत्र सृजते इत्यत्र कर्तृत्वप्रतीतेर् भाष्यटीकयोः पृथिव्यादीत्युक्तम्। प्रथमस्तु सिद्धान्ते उपयोज्यते इति भावः। अतःपरमित्यस्यार्थमाह॥ अतो वाक्यादनन्तरमिति॥ उपलक्षणमेतत्। कारणत्वमात्रस्य सम्भवतीह विश्वमित्यनेनैव सिद्ध्या दृष्टान्तकथनवैय्यर्थ्यात्। बाधकाभावेऽन्तरङ्गस्योपादानस्य त्यागायोगाच्चेत्यपि द्रष्टव्यम्। जडप्रकृतिपक्षे तु ततः परतः श्रीतत्वात् परो विष्णुरित्युक्तमिति भावः॥ न चासौ शब्द इति॥ अविनाशित्वसाम्यादिति भावः। ननु चित्प्रकृतेरक्षरत्वग्रहणेऽपि तत्परतः पराभिधानं सम्भवति। हरेरेकस्यैव परत्वेन तत्परतः परस्याभावादित्यत आह॥ तच्चेति॥ तत्परतः पराभिधानमित्यर्थः॥ तस्यामिति॥ अक्षरशब्दगृहीतायामिति शेषः॥ सामानाधिकरण्येनेति॥ परतोऽक्षरादिति विशेषणविशेष्यभावेनेत्यर्थः॥ स ब्रह्मविद्यामित्यादिब्रह्मशब्दादिति॥ आदिपदेन ब्रह्मा देवानां प्रथमः सम्बभूव। तस्मादेतद् ब्रह्मनाम रूपमन्नं च जायते इति पूर्वोत्तरवाक्यस्थब्रह्मशब्दग्रहणम्॥ तत्परतः पराभिधानादिति॥ उपलक्षणमेतत्। सम्बभूव जायत इति जायमानत्वलिङ्गविरोधाच्चेति ज्ञेयम्।
अत एव सन्दंशन्यायेन मध्यस्थब्रह्मशब्दस्य सावकाशस्य सन्दिग्धस्य भगवत्परत्वं व्यावर्तयितुं तदुपादानम्। विरिञ्चस्याक्षरत्वे तु तत्परतः पराभिधानं परतः श्रीतत्वात् परो विष्णुरिति सुघटमिति भावः। ईशशब्दप्राप्तोऽपीति वक्ष्यमाणानुसारेणाह॥ रुद्रस्य चेति॥ रुद्रस्याक्षरत्वे तु परतो हिरण्यगर्भात् पर इति पुंविवक्षया योज्यमिति भावः। सूत्रे तत्त्वित्यनुवर्तते। धर्मोक्तेरिति यथाश्रुतं धर्मत्वोक्तेरिति भावप्रधानं च विवक्षितम्। ततश्चादृश्यत्वादिगुणको विष्णुरेव अदृश्यत्वादिगुणस्य अथ परा यया तदक्षरमधिगम्यते इति परविद्याविषयत्वरूपधर्मोक्तेस्तस्य च धर्मस्य श्रुतिस्मृतिषु विष्णुधर्मत्वोक्तेरिति सूत्रार्थमाह॥ अदृश्यत्वादिगुणा इत्यादिना॥ परविद्यात्वादिति॥ याथार्थ्यस्य विद्यापदेन लाभेन फलत एव परत्वस्य विवक्षितत्वादिति भावः। यद्यपि तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया इति स्मृतौ तन्मतेः परविद्यात्वं नोक्तम्। तथापि यया तन्मतिः सा विद्या इत्यसाधारण्योक्त्या परत्वं लभ्यत इति भावेन सैव परविद्या इत्युक्तम्। ननु वेदादीनां हरिवेदकत्वात् कथमपरविद्यात्वमुच्यत इत्यत आह॥ द्वे विद्येत्यत्र च यदा वेदाद्यन्यविषयतयेति॥ ब्रह्ममीमांसाशास्त्रानुपकृतं वेदादीत्यर्थः॥ एतैरिति॥ तद्व्युत्पादितन्यायोपकृतैर्वेदादिभिरित्यर्थः। परापरविषयत्वरूपोपाधितो वेदादेरेव द्वैविध्यम्। यथैकमेव कर्माभिसन्धिभेदात् प्रवृत्तं निवृत्तं चोच्यत इति भावः। भाष्ये अङ्गानि शिक्षादीनि षडङ्गानि। उपाङ्गानि गान्धर्वो स्थापत्यं चोपाङ्गानि। शिष्टाः कला विद्या प्रत्यङ्गानीति तत्त्वप्रदीपोक्तेः।
तत्त्वसुबोधिनी
ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ अन्तर्यामिणो ब्रह्मत्वे हेतूकृतस्य ‘यं पृथिवी न वेद’ इत्युक्तस्य अदृश्यत्वस्याक्षेपेण पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिः। तावत्पूर्वपक्षे इत्यत्र तावच्छब्दो ऽग्रे पूर्वपक्षविशदीकरणाभिप्रायः। तत्र हेतुमाह॥ अदृश्यत्वादीति॥ अस्त्वक्षरशब्दश्रवणं ततः किमित्यत आह॥ तस्य चेति॥ अक्षरशब्दस्य विष्णाववकाशाभावादित्यर्थः। ‘निर्विकारोऽक्षरः शुद्ध’ इत्यादौ विष्णौ अक्षरशब्दस्य श्रवणात् कथं तस्य तत्रावकाशाभाव इत्याशङ्क्य अस्तु तत्राक्षरशब्दः विष्णोस् तथापि प्रकृते बाधकान् नास्य तत्रावकाश इत्याह। यतोऽस्मादित्यादिना॥ तावदवतारयतीति॥ सूत्रावतारिकामात्रं क्रियते व्याख्यां तु अग्रे करिष्यतीति भावः। पृथिव्यादिदृष्टान्तेनेति। श्रुतावूर्णनाभि-दृष्टान्तस्य प्राथम्येऽपि तत्र सृजत इत्यनेन कर्तृत्वप्रतीतेर् भाष्ये पृथिव्यादीत्युक्तम्। अत एव स्वयमुपादा-नतयेत्युक्तम्॥ न च कारणत्वमात्र इति॥ तथा च विष्णुग्रहणे नेयमनुपपत्तिरिति भावः। इत्यतो वाक्यादिति। उपलक्षणं चैतत्– कारणत्वमात्रस्य सम्भवतीह विश्वमित्यनेनैव सिद्ध्या दृष्टान्तकथनवैय्यर्थ्यात्। बाधकाभावेऽन्तरङ्गस्योपादानत्वस्य त्यागायोगाच्चेत्यपि द्रष्टव्यम्॥ तस्यामिति॥ नन्वेतत्प्रकृतावपि कथमुपपन्नमत आह॥ सामानाधिकरण्येनेति। चित्प्रकृतेर् उत्तमादुत्तमस्या-भावेनाक्षरात्परत इति पञ्चम्योर् वैय्यधिकरण्यायोगादिति भावः। नन्वुपादानतया जगत्कारणत्ववचनं चित्प्रकृतौ कथं घटत इत्यत्राह॥ विकारित्वेनेति॥ तत्परत इति॥ उपलक्षणं चैतत्। पूर्वं ब्रह्मा देवानां प्रथमः सम्बभूवेत्युत्तरत्र तस्मादेतद् ब्रह्मनामरूपमन्नं च जायत इति जायमानत्वलिङ्गेन चतुर्मुखपरेण ब्रह्मशब्देन च सह दृष्टस्य स ब्रह्मविद्यामिति ब्रह्मशब्दस्यान्यपरत्वायोगाच्चेत्यपि द्रष्टव्यम्। ईशशब्दप्राप्तोऽपि न रुद्र इति वक्ष्यमाणानुरोधाद् आह॥ रुद्रस्य चेति॥ परविद्याविषयत्व-प्रतिपादकवाक्यस्य भाष्ये अनुदाहृतत्वात्तदुदाहरति॥ अथ परेति॥ अस्तु परविषयत्वोक्तिस् ततः किमत आह॥ परेति॥ ययेति॥ तृतीयान्तपदं वेदादिव्यतिरिक्तपरमिति भ्रमं वारयितुं श्रुत्यर्थमाह। यदा वेदादीत्यादिना ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृतवेदादीत्यर्थः॥ एतैरिति॥ तद्व्युत्पादितन्यायोपकृतैर् वेदादिभिरित्यर्थः।
वाक्यार्थमञ्जरी
अथेति॥ अथापरविद्यानिरूपणानन्तरं परापरविद्या निरूप्यत इति शेषः। यया विद्यया तत्प्रसिद्ध-मक्षरमक्षरशब्दाभिधेयं ब्रह्म अधि अधिकत्वेन गम्यते अवगम्यते सा परविद्येत्यर्थः। प्रसिद्धाक्षरव्यावृत्तये तत्स्वरूपं निरूपयति॥ यत्तदद्रेश्यमित्यादिना॥ यत्पूर्वोक्तमक्षरमद्रेश्यमदृश्यम् अग्राह्यं केनापि गृहीतुम-शक्यम्। अगोत्रं भारद्वाजादिगोत्ररहितम्। अवर्णं प्राकृतवर्णरहितं ब्राह्मणादिवर्णरहितं वा। अचक्षुःश्रोत्रं चक्षुःश्रोत्रोपलक्षितप्राकृतज्ञानेन्द्रियरहितम्। अपाणिपादं पाणिपादोपलक्षितप्राकृतकर्मेन्द्रियरहितम्। यद्वाऽचक्षुःश्रोत्रं चक्षुःश्रोत्रोपलक्षितसमस्तेन्द्रियरहितम् अपाणिपादं पाणिपादोपलक्षितप्राकृतदेहरहितम्। नित्यस्वरूपतो देहतश्चाविनाशि। विभुं समर्थं सर्वगतं सर्वत्र व्याप्तं सुसूक्ष्मं जीवादप्यतिशयेन सूक्ष्मम् अव्ययं ह्रासरहितम्। नन्वेवमक्षरस्यादृश्यत्वेऽधिगम्यत इति दृश्यत्वोक्तिः कथमित्यत आह॥ यद्भूत-योनिमिति। भूतयोनिं जगत्कारणं यदक्षरं तद्धीराः पण्डिताः परिपश्यन्ति। स्वयोग्यतानुसारेण जानन्ति॥ अनेनाधीराणामदृश्यमित्युक्तं भवति। लोके पितुरन्यस्यैव मारकत्वदर्शनान्न तथेहान्यस्य संहर्तृत्वं मन्तव्यमिति भावेन स्रष्टृत्वं संहर्तृत्वं च सदृष्टान्तमुपपादयति॥ यथेति॥ स दृष्टान्तो यथा ऊर्णनाभिस्तन्तुवायकः स्वभुक्तमन्नादिकं तन्त्वाद्याकारेण सृजते पुनर्गृह्णते संहरति च तथाऽक्षरशब्दोक्तो भगवानपि पूर्वकल्पे भुक्तं जगत्सृजते संहरति च। किमनुसृत्य सृजत इत्यतो दृष्टान्तेनाह॥ यथेति॥ यथा पृथिवी शाल्यादिनानाबीजान्यपेक्ष्य तत्तदङ्कुरान् जनयति तथा चेतनानां विविधकर्माण्यपेक्ष्य तत्सृजतीत्युक्तं भवति। कुलालवन्नाक्षरस्य क्लेशेन स्रष्टृत्वम् इति सदृष्टान्तमाह॥ यथेति॥ सतश्चेतनाधिष्ठितात्पुरुषदेहाच्छिरसि विद्यमानाः केशा देहे विद्यमानानि लोमानि अनायासेन भवन्ति। तथाऽक्षरादिहास्वतन्त्रवर्गे विश्वं सर्वमनायासेन भवत्युत्पद्यत इत्यर्थः। प्रकृत्यादीनामप्यदृश्यत्वं वक्ष्यामीति तावच्छब्दः॥ दिव्य इति॥ दिव्योऽलौकिकः। अमूर्तो ऽपरिछिन्नपरिमाणः पुरुषः पूर्णषड्गुणः बाह्याभ्यन्तरः बहिरन्तश्च नियामकतया स्थितो ऽज उत्पत्तिरहितः॥ अप्राणो ह्यमना इति॥ षोडशकलारहितः शुभ्रः शुद्धो ऽक्षराज्जडप्रकृतेः पराच्छ्रीतत्वात्पर उत्तम इत्यर्थः॥ ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ॥ अदृश्यत्वम् आदि येषाम् अग्राह्यत्वादीनां तेऽदृश्यत्वादयो ऽदृश्यत्वादयो गुणा यस्यासौ अदृश्यत्वादिगुणः स एवादृश्यत्वादिगुणकः स च विष्णुरेव॥ अथ परेति ऋगादिपरविद्याविषयत्वरूपतद्धर्माभिधानादित्यर्थः। वाक्यस्य यत्तदद्रेश्यमित्यादेः॥ न चेति॥ तथा च विष्णुग्रहणोपपत्तेरिति भावः। इत्यत इत्यनुवादस्तस्मात्परतो ऽदृश्यत्वादिगुणकाक्षरात्परत एवमग्रेऽपि॥ सामानाधिकरण्येनेति॥ परतः ब्रह्माद्युत्तमादक्षरादित्यक्षरपरशब्दयोश्चित्प्रकृतिरूपैकार्थ-प्रतिपादकत्वेनेत्यर्थः॥ स ब्रह्मेति॥ स ब्रह्मविद्यामथर्वाय ज्येष्ठपुत्राय प्राहेत्यत्रेत्यर्थः॥ कर्तारमिति॥ कर्तारमीशं पुरुषं ब्रह्मयोनिमित्यत्रेत्यर्थः। श्रुत्यादौ परविद्याविषयत्वपरशब्दाभावात्कथं तदुदाहरण-मित्यतस्तदुपपादयति॥ तमेवेत्यादिना॥ भाष्येऽङ्गानि शिक्षादीनि षट् उपाङ्गानि आयुर्वेदादीनि पञ्च शिष्टाः कला विद्याः प्रत्यङ्गानीति तत्त्वप्रदीपानुसारेण ध्येयम्॥ अन्येति॥ कर्मादीत्यर्थः। तदुक्तमाथर्वणभाष्ये। एतदर्थश्च ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृतवेदादयो विष्णोरवाचकास्तदुप-कृतास्तद्वाचका भवन्तीति सुधानुसारेण ध्येयः॥
विवृतिः
अत्रान्तर्यामिणो ब्रह्मत्वे हेतूकृतस्य यं पृथिवी न वेदेत्युक्तस्यादृश्यत्वस्याक्षेपेण पूर्वपक्षोत्थानादनन्तर-सङ्गतिः। तावत्पूर्वपक्ष इत्यत्र तावच्छब्दो ऽग्रे पूर्वपक्षविशदीकरणाभिप्रायः। तत्रहेतुमाह॥ अदृश्य-त्वादीति॥ अस्त्वक्षरशब्दश्रवणं, ततः किमत्राह। तस्य चेति॥ अक्षरशब्दस्य विष्णाववकाशा-भावादित्यर्थः। ननु निर्विकारोऽक्षरः शुद्ध इत्यादौ विष्णावक्षरशब्दस्य श्रवणात् कथं तस्य तत्रावकाशाभाव इत्याशङ्क्य अस्तुवाऽक्षरशब्दो विष्णौ तथापि प्रकृते बाधकान्नास्य तत्रावकाशशा इत्याह॥ यतोऽस्मादित्यादिना॥ तावदवतारयतीति॥ सूत्रावतारिकामात्रं क्रियते व्याख्यां त्वग्रे करिष्यतीति भावः। पृथिव्यादिदृष्टान्तेनेति॥ श्रुतौ ऊर्णनाभिदृष्टान्तस्य प्राथम्येऽपि तत्र सृजत इति कर्तृत्वप्रतीतेर् भाष्ये पृथिव्यादीत्युक्तम्। न चायं कारणत्वमात्र इति॥ तथा च विष्णुग्रहणेनेयमुपपत्तिरिति भावः। इत्यतो वाक्यादिति॥ उपलक्षणं चैतत्। कारणत्वमात्रस्यापि सम्भवतीह विश्वमित्यनेनैव सिध्या दृष्टान्तकथनवैयर्थ्यात्। बाधकाभावेऽन्तरङ्गस्योपादानत्वस्य त्यागायोगाच्चेत्यपि द्रष्टव्यम्। तस्यामिति॥ नन्वेत्प्रकृतावपि कथमुपपन्नमत आह॥ सामानाधिकरण्येनेति॥ चित्प्रकृतेरुत्तमा-दुत्तमस्याभावेनाक्षरात्पर इति पञ्चम्योर्वैयधिकरण्यायोगादिति भावः। ननु उपादानतया जगत्कारणत्ववचनं चित्प्रकृतौ कथं घटत इत्यत्राह॥ विकारित्वेनेति॥ तत्परत इति॥ उपलक्षणं चैतत्। पूर्वत्र ब्रह्मा देवानां प्रथमः सम्बभूवेत्युत्तरत्र तस्मादेतद् ब्रह्मनामरूपमन्नं च जायत इति जायमानत्वलिङ्गेन चतुर्मुखपरेण ब्रह्मशब्देन च सह दृष्टस्य ब्रह्मविद्यामिति ब्रह्मशब्दस्यान्यपरत्वायोगाच्चेत्यपि द्रष्टव्यम्। ईशशब्दप्राप्तोऽपि न रुद्र इति वक्ष्यमाणानुरोधादाह। रुद्रस्येति॥ परविद्याविषयत्वप्रतिपादके भाष्ये करणगतवाक्यस्यानुदाहृतत्वात्तदुदाहरति॥ अथ परेति॥ अस्तु परविद्याविषयत्वोक्तिस् ततः किमित्यत आह॥ परेति॥ ययेति तृतीयान्तपदं वेदादिव्यतिरिक्तपरमिति भ्रमं वारयितुं श्रुत्यर्थमाह॥ यदा वेदादीत्यादिना॥ ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृतं वेदादीत्यर्थः॥ एतैरिति॥ तद्व्युत्पादितन्यायोपकृतैर्वेदादिभिरित्यर्थः॥
ॐ विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ ॐ
सूत्रभाष्यम्
॥ ॐ विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ ॐ॥
‘यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तप’ (मुं.उ. १-१-९) इति विशेषणान्न प्रकृतिः। ‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायत’ (मुं.उ. १-१-९) इति भेदव्यपदेशान्न विरिञ्चः।
‘अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया॥
तामक्षरं परं प्राहुः परतः परमक्षरम्।
हरिमेवाखिलगुणमक्षरत्रयमीरितम्’॥
इति स्कान्दे त्र्यक्षराभिधानादक्षरात्परतः पर इत्यपि विशेषणमेव। ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक’ (मुं.उ.३-१-२) इति भेदव्यपदेशादीश-पदप्राप्तोऽपि न रुद्रः॥ २२॥
सत्तर्कदीपावली
विष्णुरेवादृश्यत्वादिगुणकाक्षरं न प्रकृतिहिरण्यगर्भावित्येतद्धेत्वन्तरेण सूत्रमुपन्यस्य साधयति॥ विशेषणेत्यादिना॥ यः सर्वज्ञ इत्यादिवदक्षरात्परतः पर इति विशेष्यमाणत्वादप्यदृश्यत्वादिगुणकाक्षरं विष्णुः। विश्वयोन्यक्षरस्यावरत्वासम्भवात्। अक्षरात्परतः पर इत्यवधित्वेनोच्यमानं क्षरं तस्मादन्यदेव। तदेतदाह। अपरमिति॥ न च कर्तारमीशमिति विशेष्यमाणत्वाददृश्यत्वादि गुणकमक्षरं रुद्र इति वाच्यम्। यदा पश्यत्यन्यमीशमित्यज्ञप्रसिद्धेशादन्यस्य विष्णोरेव विवक्षितत्वादित्याह॥ जुष्टमिति॥
विष्णुरेवात्रोच्यत इत्येतद्युक्त्यन्तरेण साधयत्सूत्रमुपन्यस्य व्याचष्टे॥ रूपेत्यादिना॥ प्राकृताकार-रहितत्वेनावर्णमचक्षुःश्रोत्रमित्युक्तोऽप्यप्राकृतरूपवत्वेन मुख्यरूपवान्विष्णुरेवात्रोच्यत इत्यर्थः॥ २२,२३॥
(१-२-६)
तत्त्वप्रदीपिका
ॐ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॐ॥ सर्वत्र विद्यत इति सर्ववित्। विद सत्तायामिति धातोः। यस्य ज्ञानमयमालोचनं न संशयात्मकम्॥
तत्त्वप्रकाशिका
यदुक्तं प्रकृतिविरिञ्चयोरदृश्यत्वादिगुणकत्वमिति तदर्थान्निराकृतमपि विशेषयुक्त्या पराकुर्वत्सूत्रं पठित्वा व्याचष्टे॥ विशेषणेति॥ ‘तपसा चीयते ब्रह्म’ इत्यत्राज्ञानप्रतीतौ तन्निरासाय ‘यस्य ज्ञानमयं तपः’ इत्युक्तार्थे हेतुतयाऽदृश्यत्वादिगुणकस्य सार्वज्ञविशेषणोक्तेर्नाचेतनप्रकृतेरदृश्यत्वादिगुणकत्वम्। तस्मादक्षरादे-तद्ब्रह्म चतुर्मुखाख्यं जायत इति विरिञ्चस्य तज्जन्यतया तस्माद्भेदव्यपदेशान्नासावप्यदृश्यत्वादिगुणक इत्यर्थः। ज्ञानवेदनयोः सामान्यविशेषतयाऽर्थान्तरत्वम्। विद्लृलाभे विदोत्पत्तावित्यतो वा। न विष्णोरदृश्यत्वादि-गुणकत्वम्। परतःपराभिधानेन अक्षरशब्दस्य विष्णौ निरवकाशत्वादित्यतः सूत्रखण्डस्यार्थान्तरमाह॥ अपरमिति॥ भवेदक्षरश्रुतेर्विष्णाववकाशाभावो यद्यक्षरात्परतः पर इत्यत्र प्रकृताक्षरमवधीकृत्य कस्य-चित्परत्वमुच्यते। नैतदस्ति। किन्तु प्रकृताक्षरस्यैवाक्षरात्परतःपरत्वविशेषणमुच्यते। न चाक्षरस्याक्षरा-त्परतःपरत्वं विरुद्धमिति वाच्यम्। त्र्यक्षराभिधानादक्षरान्तरादस्याक्षरस्य परत्वोपपत्तेरिति भावः। ईशशब्दाद-दृश्यत्वादिगुणको रुद्र इत्यस्योत्तरतयापि सूत्रशेषं व्याचष्टे॥ जुष्टमिति॥ अस्याक्षरस्यान्यमीशमिति प्रसिद्धेशाद्रुद्राद्भेदव्यपदेशान्न रुद्रोऽदृश्यत्वादिगुणक इत्यर्थः। यदपि पृथिव्यादिदृष्टान्तेन जगत्कारणत्ववचनं तत्कारणत्वमात्रतात्पर्यम्। ब्रह्माक्षरेशशब्दास्तु विष्णावेव मुख्याः। बाधकाभावस्योक्तत्वात्॥ २२॥
गुर्वर्थदीपिका
तपसा चीयते ब्रह्मेत्यत्र तपोरूपकर्मणा चीयते ‘चिञ् चयन’ इति धातोर् ज्ञानादिगुणैरभिवृद्धिं प्राप्नोतीत्यर्थग्रहणे प्रागस्मदादिवदज्ञानप्राप्तिरिति भावः। विदोत्पत्तावित्यत्रान्तर्णीतणिच्त्वात् सर्वं वेदयत्युत्पादयतीति सर्ववित् सर्वं विद्यते अस्मादिति वा सर्वविदित्यर्थः। अक्षरान्तरादित्यत्र अक्षरादित्यत्रोक्ताक्षराद्भिन्नादित्यर्थः। अनेन भेदव्यपदेशादित्यंशस्याप्यधममध्यमोत्तमतयाऽक्षराणामन्योन्यं भेदव्यपदेशादित्यर्थस्सूचितः। यथाऽन्यः सन्न्यासीत्युक्ते सन्न्यासिन एवान्यः सन्यासीति सिद्ध्यति तथा अन्यमीशमित्युक्ते प्रसिद्धेशादेवायमीशोऽन्य इति सिद्ध्यतीति भावेनाह। अस्याक्षरस्येति।
भावबोधः
अर्थान्निराकृतमपीति॥ परविद्याविषयत्वस्य विष्णोरन्यत्र निरवकाशत्वान्यथानुपपत्त्येत्यर्थः॥ अज्ञानप्रतीताविति॥ तप आलोचन इति धातुः। आलोचनं चाज्ञस्यैवेति भावः। उक्तार्थे हेतुतयेति। यस्य ज्ञानमयं तप इत्युक्ततपसो ज्ञानस्वरूपत्वरूपेऽर्थे तपस आलोचनात्मकत्वं सन्तापात्मकत्वं वाऽस्तु ज्ञानस्वरूपत्वं कुत इत्याशङ्कापरिहारार्थं हेतुतयेत्यर्थः॥ सार्वज्ञविशेषणोक्तेरिति॥ उपलक्षणं चैतत्। तपसः सन्तापात्मकत्वाभावे हेतुतया सर्ववित्त्वमपि ग्राह्यम्। सर्वं चैतत् कर्मनिर्णयटीकायां स्पष्टमुक्तम्। यस्माद्यस्य तपो ज्ञानस्वरूपं न त्वालोचनात्मकं सन्तापात्मकत्वं वा तस्मात्। अज्ञो ह्यालोचयते॥ अनाप्तकामस्तपस्यतीति॥ तपस आलोचनात्मकत्वाद् अत्रस्यैवालोचने तपसेत्यनेन ज्ञानप्रतीतौ यस्य ज्ञानमयं तप इति तपसो ज्ञानस्वरूपत्वमुक्तम्। तपस आलोचनात्मकत्वमेवास्तु। किं ज्ञानस्वरूपत्वग्रहणेनेत्याशङ्कापरिहारार्थमुक्तार्थे हेतुतया सार्वज्ञविशेषणोक्तेरित्यर्थः॥ नाचेतनप्रकृतेरिति॥ उपलक्षणं चैतत्। निरुपचरितसार्वज्ञस्य विशेषणाच्चेतनप्रकृतेरपि नादृश्यत्वादिगुणकत्वमित्यपि द्रष्टव्यम्। विद्लृ लाभे विदोत्पत्तावित्यतो वेति। तथा च सर्वविदित्यस्याप्तकामः सर्वोत्पादक इत्यर्थद्वयमभिहितं भवति॥ सूत्रखण्डस्येति॥ ‘विशेषणभेदव्यपदेशाभ्याम्’ इत्यस्येत्यर्थः। तथा च न केवलं सूत्रेऽ-दृश्यत्वादिगुणकस्य सर्वज्ञत्वविशेषणविरिञ्चिरुद्रभेदव्यपदेशाभ्यामित्यर्थः। किन्तु श्रुतावप्यक्षरात् परतः पर’ इत्यनेनादृश्यत्वादिगुणकाक्षरस्याक्षरात् परतः परत्वरूपविशेषणव्यपदेशात् तदपि विष्णावेवावकाशवत्। न च तद्व्याहतम्; स्कान्देऽक्षरत्रयमस्त्वित्यक्षराणां भेदव्यपदेशादिति न्यायविवरणमपि उक्ततात्पर्यकं भवति॥ सूत्रशेषमिति॥ भेदव्यपदेशान्नेतर इति हेतुप्रतिज्ञाभागमित्यर्थः।
भावदीपः
ॐ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॐ॥ ननु पूर्वं कयापि युक्त्या प्रकृत्यादेरनिरासाद्विशेषण-भेदव्यपदेशाभ्यां चेति कथं चशब्द इत्यत आह॥ तदर्थादिति॥ धर्मोक्तेरिति हेतोः स्वपक्षसाधन इव विष्णुरेवेत्यवधारणव्यावर्त्यपूर्वपक्षकोटिनिरासेऽपि व्यापारादिति भावः॥ तपसेति॥ चीयते सम्बध्यते ब्रह्म परं ब्रह्मेत्यर्थः। ज्ञानमयं ज्ञानात्मकं न त्वालोचनात्मकमित्युक्तार्थ इत्यर्थः। विवृतमेतत् कर्मनिर्णयटीकायाम्। सर्वज्ञत्वात् सर्वविच्छब्दिताप्तकामत्वाद्यस्य तपो ज्ञानस्वरूपं न त्वालोचनात्मकं सन्तापात्मकं वा। अज्ञो ह्यालोचयति। अनाप्तकामस्तपस्यति। स तपस्तत्प्वा इदं सर्वमसृजत इत्यस्य व्याख्यानमेतदिति वा॥ नाचेतनेति॥ चित्प्रकृतिनिषेधस्तु नानेन सम्भवति। तस्या अत्रोक्ताक्षरत्वे विश्वकर्तृत्वप्राप्त्या सार्वज्ञस्यापि शक्यशङ्कत्वात्। श्रुतेः सङ्कुचितसार्वज्ञपरत्वसम्भवाच्च जडप्रकृतिमात्रनिषेधे हेतुरयमिति भावः। एतद्ब्रह्म चतुर्मुख इति तद्भाष्यदिशाऽर्थमाह॥ तस्मादिति॥ चतुर्मुखाख्यमिति नामरूपान्नाभिमानीति योज्यम्। पूर्ववाक्ये तपसा चीयते ब्रह्मेति ब्रह्मपदेन परब्रह्मोक्तावप्यत्र जायत इत्युक्तिबाधकादन्योक्तिर्युक्तेति भावः। तथा च न ह्येकशब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यत इति तार्तीयगीताभाष्यस्थवाक्याविरोध इति ध्येयम्॥ विद्लृ लाभ इति॥ सर्वं विदत इति वा सर्वं वेदयति उत्पादयतीति वा सर्ववित्। आप्तकामः सर्वोत्पादको वेत्यर्थः॥ सूत्रखण्डस्यार्थान्तरमिति॥ परतः परत्वरूपविशेषणादक्षरव्यक्तीनां भेदव्यपदेशा-दित्यर्थान्तरमित्यर्थः। आकाङ्क्षामनुरुध्य भाष्यमेवकारव्यावृत्तिं वदन् व्याचष्टे॥ भवेदिति॥ त्र्यक्षरोक्तावपि कथं विशेषणमित्यतोऽक्षरात्परतः परस्याक्षरान्तरत्ववचनादिति न्यायविवरणोक्तं संयोजयति॥ अक्षरान्तरादिति॥ अक्षरद्वयोक्तावपि पूर्तौ त्र्यक्षरोक्तिरक्षराज्जडप्रकृतेः परतः श्रीतत्वात्परो विष्णुरिति वैय्यधिकरण्येन परतोऽक्षरात् श्रीतत्वादिति सामानाधिकरण्येन चान्वयायेत्याहुः॥ अन्यमीशमितीति॥ अन्यो मार्गम् इत्युक्ते प्रसिद्धमार्गादन्यत्ववद् अन्यमीशमित्युक्ते प्रसिद्धेश्वराद्रुद्रादन्यत्वप्रतीतेरिति भावः। एतदर्थान्तरमुपेत्योक्तमिति कृत्वा आनन्दमयनयोक्त्या द्युभ्वादिनये वक्ष्यमाणेन जीवादन्यः स्वतन्त्रोऽय-मित्याथर्वणभाष्येण च न विरोधः। न चानेकार्थत्वं दोषः वचनेनैव प्रतीयमानत्वादर्थस्य कल्पना-भावादित्यदिना कर्मनिर्णये निरासात्॥ कारणत्वमात्रेति॥ विवृतमेतत्प्रकृतिनयानुव्याख्याने। न चोर्णनाभिजनितॄणां च विकारितेत्यादिना॥ २२॥
अभिनवचन्द्रिका
(सू.२२) उक्तार्थेहेतुतयेति॥ ‘यस्य ज्ञानमयं तप’ इत्यनेनोक्ते तपसो ज्ञानरूपत्वरूपेऽर्थे हेतुतया अदृश्यत्वादिगुणकस्य ‘यः सर्वज्ञः सर्ववि’दिति पूर्वभागेन सार्वज्ञरूपविशेषणोक्तिर् नाऽचेतन-प्रकृतेरदृश्यत्वादिकमित्यर्थः। ‘यः सर्वज्ञः सर्ववि’(आ.१-९)दित्यनयोरर्थभेदमाह – ज्ञानवेदनयोरिति॥ विद्लृलाभ इति॥ ‘यः सर्वज्ञ’ इत्यनेन सार्वज्ञमुक्तं, ‘सर्ववि’दित्यनेन सर्वलाभत्वं वा, सर्वोत्पादकत्वं वा, उच्यत इति नानयोरेकार्थत्वमिति भावः।
वाक्यार्थमुक्तावली
ॐ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॐ॥ अर्थादिति॥ स्वपक्षसाधनाय परविद्याविषयत्वरूप-लिङ्गोक्तावपि परपक्षे तद्बाधकं च भवतीति तन्निराकरणमार्थिकं जातमित्यर्थः॥ अज्ञानप्रतीताविति॥ तपसा आलोचनेन चीयते सम्बध्यते इत्युक्त्या ब्रह्माज्ञमिति प्रतीयते। अज्ञस्यैव आलोचनसम्भवादिति भावः॥ उक्तार्थहेतुतयेति॥ ज्ञानरूपमेवेह तपःशब्देन विवक्षितम्। न त्वालोचनारूपं तस्य सर्वज्ञत्वादित्युक्ततपश्शब्दार्थघटकतयेत्यर्थः। अचेतनप्रकृतिरित्युपलक्षणम्। निरुपचरितसार्वज्ञस्य विशेषणत्वेन चेतनप्रकृतिरित्यपि बोध्यम्॥ विद्लृ लाभ इति॥ अनेन सर्वविद् आप्तकामः सर्वोत्पादको वा इत्यर्थ उक्तो भवति। पूर्वव्याख्यानं तपश्शब्दस्यालोचनपरत्वं नेति उक्तार्थे हेतुतायां घटनीयम्। इदं तु तपसा सन्तापेन चीयते इति तपश्शब्दस्यासन्तापार्थकत्वं नेति उक्तार्थे हेतुतयेति बोध्यम्॥ सूत्रखण्डस्येति॥ विशेषणभेदव्यपदेशाभ्यामिति सूत्रांशस्येत्यर्थः॥ अर्थान्तरमिति॥ परतः परत्वरूपविशेषणात्। अक्षरव्यक्तीनां भेदव्यपदेशाद् इत्यर्थान्तरमित्यर्थः॥ सूत्रशेषमिति॥ भेदव्यपदेशा-न्नेतर इति हेतुप्रतिज्ञाभागमित्यर्थः। महिदासस्त्वैतरेयः कृष्णोऽन्यो देवकीसुत इत्यत्र प्रसिद्धमहिदासः कृष्णापेक्षया अन्यो गम्यते तथाऽत्रापीति भावेनोक्तम्॥ प्रसिद्धेशादिति॥ ततश्चायं सूत्रार्थः। अदृश्यत्वादिगुणकावित्यस्ति। रुद्रविरिञ्चयोश्चेतनत्वेनैकीकारेण जडप्रकृतेरचेतनत्वविवक्षया चेतनाविति द्विवचनेन त्रयाणां ग्रहणम्। इतरौ जडचेतनौ न अदृश्यत्वादिगुणकौ यः सर्वज्ञ इति सार्वज्ञविशेषण-व्यपदेशात्। तस्य चाचेतने ज्ञानमात्रशून्येऽयोगात्। चेतनयोश्च विरिञ्चरुद्रयोर् अदृश्यत्वादिगुणकात्तस्माद् एतद्ब्रह्मान्य ईश इति भेदव्यपदेशात् स्वस्य स्वभेदायोगादिति। यद्वा न विष्णोरदृश्यत्वादिगुणकाक्षरत्वम्। अक्षरात् परतः पर इति तदुत्तरवाक्ये तस्मादप्यक्षरात् परोऽन्यः प्रतीयते। न हि विष्णोरपि परोऽस्तीति विष्णुपक्षेऽपि प्राप्तबाधकोद्धाराय विशेषणभेदव्यपदेशाभ्यां चेत्ययमंशः प्रवृत्तः। विष्णुरेवादृश्यत्वादिगुणक इति वर्तते। स्कान्दे त्र्यक्षराणां भेदव्यपदेशाद् अक्षरात् परतः पर इत्यत्र प्रकृताक्षरस्यैव अक्षरात्परतः परत्वरूपविशेषणव्यपदेशाद् बाधकाभावाद् भवत्येव विष्णुरदृश्यत्वादिगुणक इति।
तत्त्वसुबोधिनी
अर्थान्निराकृतमपीति॥ परविद्याविषयत्वस्य विष्णोरन्यत्र निरवकाशत्वान्यथानुपपत्त्येत्यर्थः॥ उक्तार्थे हेतुतयेति। तपसा चीयत इत्यत्रालोचनार्थेन तपःशब्देन ज्ञानप्रतीतौ तन्निरासाय यस्य ज्ञानमयं तप इत्यनेनोक्ते पूर्णज्ञानत्वे तपस आलोचनात्मकत्वं वा सन्तापात्मत्वं वाऽस्तु पूर्णज्ञानत्वं कुत इत्याशङ्कानिरासार्थं हेतुतया सार्वज्ञविशेषणोक्तेरित्यर्थः। उपलक्षणं चैतत्। तपसः सन्तापात्मकत्वा-भावे हेतुतया सर्ववित्वमपि ग्राह्यम्॥ नाचेतनप्रकृतेरिति॥ उपलक्षणं चैतत्। निरुपचरितसार्वज्ञस्य विशेषणत्वाच् चेतनप्रकृतेरपि नादृश्यत्वादिगुणकत्वमित्यपि द्रष्टव्यम्। विरिञ्चस्यापि नादृश्यत्वादिगुणकत्व-मित्याह॥ तस्मादिति॥ यः सर्वज्ञ इति श्रुतौ सर्वज्ञ इत्यनेनैव ज्ञानस्योक्तत्वात् सर्वविदित्येतद् व्यर्थमित्यत आह॥ ज्ञानेति॥ विद्लृ लाभे विदोत्पत्तावित्यतो वेति। तथा च सर्वविदित्यस्याप्तकामः सर्वोत्पादक इत्यर्थद्वयमभिहितमिति नैकस्यापि वैय्यर्थमिति भावः। निरवकाशत्वाद् अवकाशाभावात्॥ सूत्रखण्डस्येति॥ विशेषणभेदव्यपदेशाभ्यामित्यस्येत्यर्थः। सूत्रे विशेषणशब्दस्य न केवलं सर्वज्ञत्व-विशेषणादित्येवार्थः। किन्तु परतःपरत्वविशेषणादित्यप्यर्थः। एवं भेदव्यपदेशादित्यस्य हिरण्यगर्भाद् रुद्राद्वा भेदमात्रं नार्थः। किं त्वक्षरव्यक्तीनां भेदोऽपि। तथा चाक्षराणां भेदव्यपदेशाद् अक्षरात्परतः परत्वमक्षरस्यैव विशेषणमित्यपि सूत्रयोजनेति भाष्यार्थ इत्यर्थः॥ प्रकृताक्षरमिति॥ अदृश्यत्वादि-गुणकत्वे प्रकृतमित्यर्थः॥ सूत्रशेषमिति॥ भेदव्यपदेशान्नेतर इति हेतुं प्रतिज्ञाभागं चेत्यर्थः। उपादानतया जगत्कारणत्ववचनस्य का गतिरत आह॥ यदपीति॥ निरवकाशपरविद्याविषयत्वादि-बाधकसद्भावादित्यर्थः। हिरण्यगर्भादिवाचिशब्दानां का गतिरत आह॥ ब्रह्मेति॥ बाधकाभावस्येति॥ परतःपरत्वरूपबाधकाभावस्येत्यर्थः।
वाक्यार्थमञ्जरी
अर्थादिति॥ परविद्याविषयत्वस्य विष्णोरन्यत्र निरवकाशत्वान्यथानुपपत्येत्यर्थः॥ ॐ विशेषणभेद-व्यपदेशाभ्यां च नेतरौ ॐ॥ इतरौ चेतनप्रकृतिचतुर्मुखौ नादृश्यत्वादिगुणकौ यः सर्वज्ञ इति सर्वज्ञत्व-रूपविशेषणव्यपदेशात्। अदृश्यत्वादिगुणकभेदव्यपदेशाच्चेत्यर्थः। चीयते सम्बध्यते तपो कुरुतेति यावत्॥ अज्ञानप्रतीताविति॥ तप आलोचन इति धातुः। आलोचनं चाक्षस्यैवेति भावः॥ ज्ञानमयमिति॥ यस्य ब्रह्मणस्तपो ज्ञानमयं ज्ञानस्वरूपमेव। न त्वालोचनात्मकं कुतो ऽज्ञो ह्यालोचयति न चायं तथा यत; सर्वज्ञ इति हेतुतयेत्यर्थः। सामान्यविशेषवस्तुगतसामान्यविशेषाकार-विषयतया सर्वैर्ज्ञेया धर्माः सामान्यधर्माः। सर्वाज्ञेया विशेषधर्माः क्रमेण तदुभयविषयकत्वेन सामान्य-विशेषज्ञानत्वयोरवान्तरविशेष इति न पुनरुक्तिरिति भावः। स्फुटमेतन्मनोविज्ञानशब्दयोरपुनरुक्ति-प्रतिपादकानन्दमयसुधायाम्॥ विद्लृ लाभ इति॥ तथा च सर्वं विन्दते लभत इति वा सर्वं वेदयते उत्पादयतीति वा सर्ववित्सत्यकामः सर्वोत्पादको वेत्यर्थ उक्तो भवति। सूत्रखण्डस्य। विशेषणव्यपदेशादित्यस्य। प्रकृताक्षरम् अदृश्यत्वादिगुणकम्॥ सूत्रशेषमिति॥ भेदव्यपदेशान्नेतर इत्यंशम्॥ अन्यमीशमिति॥ अन्यो मार्ग इत्युक्ते प्रसिद्धमार्गादन्यत्वप्रतीतिवदिति भावः॥
विवृतिः
अर्थान्निराकृतमपीति॥ परविद्याविषयत्वस्य विष्णोरन्यत्र निरावकाशत्वान्यथानुपपत्येर्थः। उक्तार्थेहेतुतयेति॥ तपसा चीयत इत्यत्रालोचनार्थेन तपःशब्देन ज्ञानप्रतीतौ तन्निरासाय यस्य ज्ञानमयं तप इत्यनेनोक्ते पूर्णज्ञानत्वे तपस आलोचनात्मकत्वं वा, सन्तापात्मकत्वं वाऽस्तु पूर्णज्ञानत्वं कुत इत्याशङ्कानिरासार्थं हेतुतया सार्वज्ञविशेषणोक्तेरित्यर्थः। उपलक्षणं चैतत्॥ निरुपचरितसार्वज्ञस्य, विशेषणत्वाच्चेतनप्रकृतेरपि नादृश्यत्वादिगुणकत्वमित्यपि द्रष्टव्यम्। विरिञ्चस्यापि नादृश्यत्वादि-गुणकत्वमित्याह॥ तस्मादिति॥ यः सर्वज्ञ इति श्रुतौ सर्वज्ञ इत्यनेनैव ज्ञानस्योक्तत्वा-त्सर्वविदित्येतद्व्यर्थमित्यत आह॥ ज्ञानेति॥ विदलृ लाभे विद् उत्पत्तावित्यतो वेति॥ तथा च सर्वविदित्यस्य आप्तकामः सर्वोत्त्पादक इत्यर्थद्वयमुक्तं भवतीति नैकस्यापि वैयर्थ्यमिति भावः। निरवकाश-त्वाद् अवकाशाभावात्॥ सूत्रखण्डस्येति॥ विशेषणभेदव्यपदेशाभ्यामित्यस्येत्यर्थः। सूत्रे विशेषणशब्दस्य न केवलं सर्वज्ञत्वविशेषणादित्येवार्थः किन्तु परतः परत्वविशेषणादित्यप्यर्थः॥ एवं भेदव्यपदेशादित्यस्य हिरण्यगर्भाद्रुद्राद्वा भेदमात्रं नार्थः किन्त्वक्षरव्यक्तीनां भेदोऽपि॥ तथाचाक्षराणां भेदव्यपदेशादक्षरात्परतः परत्वमक्षस्यैव विशेषणमित्यपि सूत्रयोजनेति भाष्यार्थ इत्यर्थः॥ प्रकृताक्षरमिति॥ अदृश्यत्वादिगुणकत्वेन प्रकृतमित्यर्थः॥ उपादानतया जगत्कारणत्ववचनस्य कागतिरित्यत आह॥ यदपीति॥ निरवकाशपरविद्याविषयत्वादिबाधकसद्भावादित्यर्थः॥ हिरण्यगर्भादिवाचकानां पदानां का गतिरत आह॥ ब्रह्मेति॥ बाधकाभावस्येति॥ परतः परत्वरूपबाधकाभावस्येत्यर्थः॥