ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ
५. अन्तर्याम्यधिकरणम्
सूत्रभाष्यम्
‘यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृत’ (बृ.उ.५-७-३) इत्यादिनाऽन्तर्याम्युच्यते। तत्र च ‘एतदमृतमि’(छा.उ.४-१५-१)त्युक्तममृतत्वमुच्यते। स च ‘यस्य पृथिवी शरीर-मि’त्यादिना सर्वात्मकत्वात्प्रकृतिस्तत्तज्जीवो वा युक्तः। न हि विष्णोः पृथिव्यादि-शरीरत्वमङ्गीक्रियत इत्यत आह–
॥ ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥ १८॥
‘पृथिवी न वेद’ ‘यः पृथिव्या अन्तर’ (बृ.उ.५-७-३) इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशाद्विष्णुरेवान्तर्यामी। स हि ‘न ते विष्णो जायमानो न जातः’ (ऋ.सं.७-९९-२) ‘स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः सर्वेषां भूतानामन्तरपुरुष’ (ऐ.आ.३-२-४) इत्यादिनाऽविदितोऽन्तरश्च॥ १८॥
सत्तर्कदीपावली
एतदमृतमभयमिति यदक्ष्यन्तरपुरुषस्य विष्णुत्वसाधकममृतत्वमुक्तं तदन्तर्यामिणः श्रूयते। एष त आत्माऽन्तर्याम्यमृत इति अन्तर्यामी विष्णोरन्यः प्रतीयत इत्याशङ्क्य विष्णुरेवान्तर्यामीति प्रतिपादयितु-मुत्तराधिकरणमारभ्यते। यः पृथिव्यां तिष्ठन्निति। यं पृथिवी न वेद पृथिवीदेवता न वेदेत्यर्थः। उभयेऽपीति काण्वा माध्यन्दिनायनाश्चान्तर्यामिणः सकाशाज्जीवं भेदेनाधीयत इत्यर्थः। यस्य पृथिवी शरीरमित्यादिषु शरीरशब्दो न भोगायतनादित्वाभिप्रायः किन्तु यौगिक इत्याह॥ शीर्यत इति
॥ १८,१९,२०॥ (१।२।५)
तत्त्वप्रदीपिका
‘‘यः पृथिव्यां तिष्ठन्नि’’त्यादीति प्रथमा सप्तम्यर्थे, तृतीयार्थे वा। यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृत’’ इत्यादि-वाक्येष्वन्तर्याम्युच्यते। तत्र च वाक्येषु तस्मिन्नन्तर्यामिण्येतदमृतमभयमित्यक्षिपुरुषस्योक्तममृतत्वं ‘‘एष त आत्माऽन्तर्याम्यमृत’’ इत्युच्यते। स च यस्य पृथिवी शरीरमित्यादिना सर्वात्मकत्वात्प्रकृति-रित्यादेरयमर्थः। स चान्तर्यामी जडप्रकृतिर्युज्यते। यस्य पृथिवी शरीरमिति शरीरशब्दस्य स्वरूपवाचकत्वात्। सर्वोपादानत्वेन सर्वात्मकत्वाच्च तस्याः। चित्प्रकृतिर्वा, सर्वाभिमानेन सर्वशरीरत्वात्। सर्वादानेन सर्वव्याप्त्या च सर्वात्मकत्वाच्च तस्याः। तत्तदभिमानी जीवो वा। नहि विष्णोः पृथिव्यादिरूपत्वं तदभिमानित्वं वाऽस्ति, येन तच्छरीरत्वमुच्येतेत्यत आह– अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्॥ विष्णुरेवान्तर्यामी, अधिदैवाधिभूताध्यात्मप्रकरणेष्वन्तर्यामिणोऽविदि-तत्वान्तरत्वादिविष्णुधर्मव्यपदेशात्। ‘‘यः पृथिव्यां तिष्ठन्नि’’त्याद्यधिदैवम्। ‘‘यस्सर्वेषु भूतेषु तिष्ठन्नि’’त्याद्यधिभूतम्। ‘‘यः प्राणेषु तिष्ठन्नि’’त्याद्यध्यात्मम्॥
तत्त्वप्रकाशिका
अत्र पृथिव्यादिशरीरत्वलिङ्गसाहित्येन अन्यत्र प्रसिद्धान्तर्यामित्वलिङ्गस्य विष्णौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः। विषयवाक्योदाहरणपूर्वकं विषयं दर्शयति॥ य इति॥ श्रुत्यादिसङ्गतिं दर्शयति॥ तत्रेति॥ एतदमृतमभयमित्यक्षिस्थपुरुषस्यामृतत्वमुक्तम्। तत् काण्वमाध्यन्दिनश्रुत्योरन्तर्यामिणः कस्यचित् श्रूयते ‘एष त आत्माऽन्तर्याम्यमृतः’ इति। स चान्तर्यामी यदि विष्णोरितरः स्यात्तदाऽमृतत्वं चान्यनिष्ठं नाक्षिस्थस्य विष्णुत्वसाधकं स्यादित्यवश्यं निर्णेतव्य एव। तदन्तर्यामित्वमत्र विषयः। किं विष्णोरन्यस्य वेति सन्देहः॥ अमृतत्वं पृथिव्यादिशरीरत्वं च सन्देहबीजमिति भावः। सयुक्तिकं पूर्वपक्षयति॥ स चेति॥ सोऽन्तर्यामी प्रकृतिर्भवेत्। यस्य पृथिवी शरीरं यस्यापः शरीरमित्यादि-नाऽन्तर्यामिणः पृथिव्यादिशरीरत्वस्य श्रवणात्। तस्य च प्रकृतावुपपत्तेः शरीरशब्दस्य स्वरूपेऽपि प्रयोगात्। प्रकृतेश्च पृथिव्यादिसर्वात्मकत्वात्। न च यः पृथिव्यां तिष्ठन्नित्यादेरनुपपत्तिः। ‘व्याप्तं कार्येषु कारणम्’ इत्यादिना कारणस्य कार्यस्थत्वोक्तेः। पृथिवीं यमयतीत्येतदप्युपचारेण नेतव्यम्। पृथिव्यादिजीवस्यैव तदन्तर्यामित्वम्। पृथिव्यादिशरीरत्वादेस्तस्मिन्नति सुघटत्वादिति भावः। ननु यथा प्रकृत्यादिलिङ्गेन तेषामन्तर्यामित्वं तथाऽमृतत्वलिङ्गेन विष्णोः किं न स्यादित्यत आह॥ न हीति॥ विद्यमानेऽपि विष्णुलिङ्गे न तस्यान्तर्यामित्वम्। पृथिव्यादिशरीरत्वस्य कयाऽपि विधयाऽवकाशाभावात्। तस्य पृथिव्यादिभिन्नत्वचिच्छरीरत्वोररीकारेण पृथिव्यादिशरीरत्वानङ्गीकारात्। अमृतत्वस्य च कथञ्चि-त्प्रकृत्यादावपि सावकाशत्वात्। सावकाशस्य च निरवकाशेन बाधोपपत्तेः। अतोऽन्तर्यामी न विष्णुरपि तु प्रकृत्यादय एवेति नामृतत्वमक्षिस्थस्य विष्णुत्वसाधकमिति भावः। सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे॥ अत इति॥ अन्तर्यामी विष्णुरेव। अन्तर्यामिणः पृथिव्याद्यविदितत्वतदन्तरत्वाख्यधर्मव्यपदेशात्। अविदितत्वादेश्च विष्णुधर्मत्वात्। न च वाच्यं पृथिव्यादीनां जडत्वेन तदज्ञेयत्वं सर्वस्यापि सम्भवतीति। पृथिव्यादीनामधिदैवत्वेन जडत्वाभावादिति भावः। चक्षुरादीनां जडत्वेऽप्यत्रोक्तस्यैव तत्र कथनान्न विरोधः। अविदितत्वादेः कुतो विष्णुधर्मत्वमित्यत आह॥ स हीति॥ न च पृथिव्यादिजीवाविदितत्वं प्रकृतेः पृथिव्यादिजीवस्य वोपपद्यते॥ १८॥
गुर्वर्थदीपिका
शरीरशब्दस्य स्वरूपेऽपि प्रयोगादित्यत्र व्याप्तिशरीरप्रविष्टत्वाल्लक्षणशरीरप्रविष्टत्वादित्यादौ स्वरूपेऽपि शरीरशब्दस्य प्रयोगादित्यर्थः। अत्रोक्तस्यैवेत्यत्र ‘‘आदित्यश्चक्षुर्भूत्वे’’त्यादि-श्रुतेरत्राधिदैवमण्डले प्रोक्तादित्यादिदेवानामेव तत्र चक्षुराद्यध्यात्ममण्डलेऽप्युक्तत्वादित्यर्थः।
भावबोधः
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥ श्रुत्यादिसङ्गतिमिति। अव्यवहितपूर्वाधि-करणोपात्तश्रुत्यादिनेत्यर्थः। यद्वा ‘रमणं नातियत्नस्य विक्षेपादेव युज्यते’ इत्यनुव्याख्यानोक्तरीत्या रमणकर्तृत्वेन चक्षुरादिनियामकतया चक्षुरन्तस्थत्वं रमणनियमनयोः परस्परं व्याहतत्वेन न सम्भवतीत्युक्तसमन्वयलिङ्गाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति द्रष्टव्यम्। किं विष्णोरिति। अन्तर्यामित्वं किं प्रकृतिजीवयोरुत विष्णोरिति चिन्ता। तदर्थं प्रकृतिजीवयोस् तत्साधकत्वेनाभिमत-मन्तर्यामिणो यस्य पृथिवी शरीरमित्यादिनोक्तं पृथिव्यादिशरीरत्वं विष्णुत्वसाधकं पृथिव्याद्यविदितत्वादि-लिङ्गबाधकमुत तद्बाध्यमिति। तदर्थं पृथिव्यादिशरीरत्वं निरवकाशं पृथिव्याद्यविदितत्वादिकं सावकाशमुत विपरीतमिति। यं पृथिवी न वेदेत्यादिवाक्यगतपृथिव्यादिशब्दा जडपरा उत देवतापराः। तदर्थं पृथिव्याद्यविदितत्वं किं रूढं पृथिव्यादिशरीरत्वं च यौगिकमिति। तदर्थं पृथिव्यादिशरीरत्वस्य यौगिकत्वकल्पके परपक्षबाधकसावकाशत्वे तत्साधकपृथिव्याद्यविदितत्वनिरवकाशत्वे पृथिव्यादिशब्दानां देवतापरत्वे च प्रमाणं नास्त्युतास्तीति। तस्य प्रकृतावुपपत्तेरिति। यद्यपि यस्य दिशः शरीरं यस्यात्मा शरीरमित्युक्तं दिगादिशरीरत्वं प्रकृतौ न मुख्यम्। पृथिव्यादेः प्राकृतत्वेऽपि दिगादेरप्राकृतत्वात्। तथापि गौणं तदस्तु। ब्रह्मणस्तु पृथिव्यादिशरीरत्वमपि न मुख्यम्। न च नित्ये दिगादिके ब्रह्म-प्रतिशीर्यमाणत्वादिरूपयौगिकमपि शरीरत्वमस्तीति भावः। भाष्ये यः पृथिवीमन्तरो यमयतीत्यंशोदाहरण-प्रयोजनमाह– न च य इति। कारणस्य कार्यस्थत्वोक्तेरिति। न च प्रागुक्तपृथिव्याद्यात्मकत्वासम्भव इति वाच्यम्; कार्यकारणयोर्भिन्नाभिन्नत्वेनाभेदेन तदात्मकत्वस्य भेदेन तत्स्थत्वस्य चाविरुद्धत्वादिति भावः। उपचारेण नेतव्यमिति। कार्यस्य कारणाधीनत्वादिति भावः। न चात्मानं यमयतीत्युक्तात्म-नियामकत्वानुपपत्तिः, आत्मप्रकृतेः शरीरद्वारा प्रकृत्यधीनत्वेन तदुपपत्तेः। नापि यमात्मा न वेदेत्युक्तात्माविदितत्वानुपपत्तिः, अप्रतर्क्यमविज्ञेयमित्यादिना प्रकृतेर्दुर्ज्ञानत्वेन तस्याप्युपपत्तेरिति भावः। अतिसुघटत्वादिति। जीवानां पृथिव्याद्यभिमानित्वेन तच्छरीरत्वतन्नियामकत्वादीनामुपपादन-निरपेक्षत्वादित्यर्थः। अमृतत्वस्य कथञ्चिदिति॥ प्रकृत्यादेः स्वरूपनाशरहितत्वेनेत्यर्थः। उपलक्षणञ्चैतत्। यं पृथिवी न वेदेत्युक्तं पृथिव्याद्यविदितत्वं च पृथिव्यादीनां जडत्वादभिमानिन्यपि युक्तम्। यमात्मा न वेदेति चेतनस्य पृथगुक्तेः पृथिव्यादिशब्दो नाभिमानिचेतनपरः। यः पृथिव्या अन्तर इत्युक्तमन्तरत्वं यदि भिन्नत्वं यदि वाऽन्तःस्थत्वं तदायमपि पृथिव्यादिशरीरकेऽभिमानिन्यपि युक्तम्। आत्मानं यमयतीत्येतदपि तत्त्वाभिमानिनामस्मदाद्यात्मनियामकत्वाद्युक्तम्। यमात्मा न वेदेति त्वभिमानिजीवानां दुर्ज्ञानत्वाद्युक्तमिति भावः। पृथिव्याद्यविदितत्वतदन्तरत्वाख्येति। यं पृथिवी न वेदेत्यादिश्रुत्युदाहरणादविदितोऽन्तरश्चेत्युत्तरभाष्यबलात् तद्धर्मव्यपदेशादिति भाष्यमेवं व्याख्यातमिति बोद्धव्यम्। अधिदैवत्वेन जडत्वाभावादिति। यं पृथिवी न वेदेत्यादौ पृथिव्यादेर्जडत्वे जडस्य ज्ञानमात्राभावेन विशिष्य यमित्यस्य वैयर्थ्यमप्रसक्तप्रतिषेधापत्तिः, यमात्मा न वेदेति प्रायपाठानुपपत्तिश्चेति भावः। प्रकृतेजीर्वस्य वोपपद्यत इति। तथा च तेन पृथिव्यादिजीवेन साकल्येनावेद्यत्वं हरेरेवेति भावः।
अन्तरत्वं च—
‘‘बाह्यापेक्षां विना यस्तु रमते सोऽन्तरः स्मृतः।
अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम्’’॥
इत्युक्तम्। स्वतो नित्यतृप्तत्वात् ‘तदेतत्प्रेयः पुत्रात्’ इत्यादिश्रुत्या परमप्रेयोरूपाच्च ब्रह्मणोऽन्यत्र न युक्तम्। किञ्च ‘दिव्यो देव एको नारायणः’ इत्युपक्रम्य ‘यस्य पृथिवी शरीरम्’ ‘यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद’ इत्याद्युक्त्वा ‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’ इत्युपसंहारान्नारायणोऽन्तर्यामीति।
भावदीपः
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥ इत्यन्तभाष्यं सङ्गतिपरत्वेन व्याकुर्वन्नेतदमृत-मित्युक्तमिति वाक्यं व्याचष्टे॥ एतदिति॥ उभयेऽपीति सूत्रोक्त्यनुरोधात्तत्र चामृतत्वमुच्यत इत्यंशार्थमाह॥ तत्काण्वेति॥ यः पृथिव्यामित्यादिवाक्यस्य काण्वमाध्यन्दिनशाखयोरेकरूपत्वादिति भावः। उच्यते पञ्चमेऽध्याये अन्तर्यामिणः कस्यचिदित्यनेन तत्रेत्यस्यान्तर्यामिणीत्यर्थो दर्शितः। कस्यचित्प्रकृत्यादेः। किं तदमृतत्वोक्तिपरं वाक्यमित्यतस् तत्रेति परामृष्टवाक्यशेषमाह॥ एष त इति॥ अत एव भाष्ये आत्माऽन्तर्यामीत्येव वाच्ये अमृत इत्यंशोऽप्युक्त इति भावः। यस्य पृथिवी शरीरमित्यंशोक्तिः पूर्वपक्षयुक्तेर् यं पृथिवी न वेद यः पृथिव्यामन्तर इत्यंशोक्तिः सिद्धान्तयुक्तेर् यः पृथिवीमन्तर इत्यंशोक्तिर्भेदाध्ययनस्य सूचनायेत्याशयः। स च यस्य पृथिवीत्यादिवाक्यतात्पर्यम्॥ स चेति॥ अन्तर्याम्यमृत इति वाक्योक्त इत्यर्थः। स च इत्यस्यार्थोऽन्तर्यामीति। प्रकृतिर्जीवो वेत्यस्यार्थ इतर इति। सर्वात्मकत्वादित्युक्तयुक्त्येत्यर्थः। तत्र चेत्यादेरुच्यत इत्यन्तस्य तात्पर्यमाह॥ तदेति॥ इत्यवश्येति॥ इति सङ्गतिसम्भवादित्यर्थः॥ अन्यस्य वेति॥ जडप्रकृत्यादेरित्यर्थः। द्रष्टा श्रोतेति द्रष्टृत्वादेः श्रवणान् न प्रकृतेरत्रावकाश इति तु अक्षरनये निरस्तप्रायं भविष्यतीति भावः। भाष्ये प्रकृतिर्जीवो वेत्युक्तावप्यन्यस्येत्युक्तिः प्रकृतिजीवान्यतरानिश्चयेऽपि विष्ण्वन्यत्वेन पूर्वपक्षेऽवधारणं युक्तमिति दर्शयितुम्। सङ्गतिपरतया व्याख्यातमेव भाष्यं पूर्वपक्षतद्युक्तितत्फलोक्तिपरत्वेन व्याकुर्वन् स चेति वाक्यं तावदवतारयति॥ सयुक्तिकमिति॥ व्यवहितत्वादन्वयोक्त्या प्रतिज्ञांशं व्याचष्टे॥ स इति॥ आदिपदार्थोक्तिपूर्वं हेत्वंशं व्याचष्टे॥ यस्येति॥ उपपत्तेरित्युक्तं व्यनक्ति॥ शरीरेति॥ पूर्वपक्षस्य शरीरमित्यादौ स्वरूपेऽपि प्रयोगा-दित्यर्थः॥ एवं परिष्कृत्य भाष्यस्थं हेतुं सङ्गमयति॥ प्रकृतेश्चेति॥ उपादानत्वात्प्रकृतेर् उपादानो-पादेययोः ‘‘खण्डितं रूपमेवात्र विकारोऽपि विकारिण’’ इत्युक्तेरभेदादिति भावः। यस्य दिशः शरीरं यस्यात्मा शरीरमित्यादि तु ब्रह्मपक्षेऽपि न स्वरसमिति भावः॥ इत्यादिनेति॥ पञ्चमे कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणमिति गीतातात्पर्योक्तस्मृत्येत्यर्थः॥ कार्यस्थत्वेति॥ खण्डितं रूपमेवेति तत्वविवेकोक्त्या भेदस्यापि सत्त्वेन पटे तन्तव इत्यादिवदुपपत्तेरिति भावः॥ उपचारेणेति॥ कार्यस्य कारणायत्तत्वात् प्रकृत्यधीनत्वेन नेयमित्यर्थः। एवं न च स्मार्तमिति सूत्रव्यावर्त्यमुक्त्वा शारीरश्चेति सूत्रव्यावर्त्यं तत्तज्जीवो वेति भाष्योक्तं पूर्वपक्षमाह॥ पृथिव्यादीति॥ भाष्ये प्रकृतिपक्षे सर्वात्मकत्वादिति हेतूक्तिवज्जीवपक्षे हेत्वनुक्तेरभिप्रायमाह॥ अतिसुघटत्वादिति भाव इति॥ पृथिव्याद्यभिमानिजीवान्प्रति पृथिव्यादेः स्थूलशरीरत्वादिति भावः। आदिपदेन यः पृथिव्यां तिष्ठन् यः पृथिव्यामन्तरो यमयतीत्यादिर्गृह्यते॥ तेषामिति॥ पूर्वं जीवो वेति सूत्राभाष्यदिशा जीव इत्येकवचनोक्तावपि तत्तदभिमानिनां बहुत्वेन तेषामित्यनुवादः। एकैकस्याभिमानिनः पृथिव्याद्यनेक-शरीरकत्वायोगादिति भावः॥ कयापीति॥ पृथिव्याद्यात्मकत्वेन तत्तद्देहत्वेन वा सिद्धान्ते वक्ष्यमाणदिशा स्मर्यमाणत्वरूपयोगेन वेत्यर्थः। तद्व्यनक्ति॥ तस्येति॥ जन्मादिसूत्रे यो नः पितेति वाक्योक्त्या भाष्ये कर्तृत्वमेव ब्रह्मणो नोपादानत्वमित्युक्तेर्भिन्नत्वमिति भावः॥ चिच्छरीरेति॥ विकरणत्वान्नेति चेत्तदुक्तमित्यत्रारूपवदेव हीति नये आह च तन्मात्रमिति सूत्रे च तथोक्तेरिति भावः। योगाद्रूढे-र्बलवत्त्वेनेत्यपि ग्राह्यम्। एतेन पृथिव्यादिशरीरत्वं निरवकाशमिति न्यायविवरणोक्तं निरवकाशत्वं विवृतं ध्येयम्। कथञ्चित् स्वरूपनित्यत्वेन एव पृथिव्याद्यविदितत्वमपि। अप्रतर्क्यमविज्ञेयमित्यादिना कथञ्चिन्नेयमिति। भाष्यस्थैकवचनेन परमत इव एक जीव इति भ्रान्तिं निरस्यन्नुपसंहरति॥ अतो निरवकाशलिङ्गादिति॥ प्रकृत्यादय इति॥ अत एव भाष्ये तत्तज्जीव इत्युक्तिरिति भावः। तत्र चेत्यादिभाष्यं फलपरमिति भावेन तत्तात्पर्यमाह॥ नामृतत्वमिति॥ इत्याद्यन्तर्याम्युच्यत इति भाष्ये इत्यादीति प्रथमा सप्त्यमर्थे तृतीयार्थे वा। सप्तसु प्रथमेति सूत्रात्। क्रियाविशेषणं वा। इत्यादिवाक्येषु इत्यर्थ इति तत्वप्रदीपे व्याख्यातम्। सूत्रक्रममनुरुध्य व्युत्क्रमेण भाष्यं व्याचष्टे॥ अन्तर्यामीति॥ तद्धर्मेत्यत्र तच्छब्धार्थोऽन्तर्यामिण इति॥ अन्तरत्वेति॥ ‘‘बाह्यापेक्षां विना यस्तु रमते सोऽन्तरस्स्मृतः। अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतमिति’’ बृहद्भाष्योक्तरूपान्तरत्वेत्यर्थः। एतच्च यः पृथिवीमन्तरो यमयतीति वाक्योक्तमन्तरत्वं ज्ञेयम्। न तु पृथिव्या अन्तरमित्युक्तान्तरत्वं तस्यान्तरो विविक्त इति वाक्यमेवाभिप्रेतम्। यद्वा पृथिव्या अन्तर इति पृथिव्या अन्तरोऽन्तस्स्थ इत्यन्तस्स्थरूपान्तरत्वस्येत्यर्थः। क्वचित्तदन्त(र)स्थत्वाख्येति पाठः। अन्तस्स्थो देवतानां च न विदुर्यं च देवता इति काण्वभाष्योक्तेः। अन्तरो विविक्त इत्युक्तिस्तु अर्थान्तरमुपेत्येति ज्ञेयम्। तद्धर्मेति तच्छब्दस्यार्थान्तरमाह॥ विष्णु-धर्मत्वादिति॥ एतेन तस्य विष्णोरविदितत्वादिधर्मस्य तत्रान्तर्यामिणि व्यपदेशादिति सूत्रार्थो दर्शितः। अधिदैवादिष्वित्युक्तेरुपयोगं व्यावर्त्यपूर्वमाह॥ न चेति॥ अधिदैवत्वेनेति॥ देवैः साकल्येनावेद्यत्वं विष्णोरेव लिङ्गमित्यर्थः। जडत्वेऽप्रसक्तनिषेधः स्यादित्यर्थः। परमं तं नाप श्रोत्रादिनेति ज्योतिर्नये व्याख्यातत्वान्नात्र श्रुतिं व्याचख्यौ। स योऽत इति श्रुत्यर्थस्तूक्तोऽस्माभिर्विवक्षितगुणेत्यत्र॥ चक्षुरादीनामिति॥ पूर्वत्र य एषोऽन्तरक्षिरीत्यादावक्ष्यादित्यचन्द्रविद्युतां जडत्वेऽपि अत्राधि-दैवाध्यात्मादिप्रकरणेषु उक्तस्य पृथिव्यादिचक्षुरादिदेवतास्थस्यैव। तत्र पूर्वत्राक्ष्यादावुक्तेरमृतत्वमुखेन पूर्वाक्षेपसमाध्यविरोध इत्यर्थः। श्रुतौ लिङ्गस्यान्ययोगव्यवच्छेदानुक्तेः स्वयमाह॥ न चेति॥ अप्रतर्क्यमविज्ञेयमित्यादि तु दुर्ज्ञानत्वादिपरम्। ‘‘सूक्ष्मत्वादप्रसिद्धत्वाद्गुणबाहुल्यतस्तथा। अनिर्देश्यौ तथाऽव्यक्तावचिन्त्यौ श्रीश्च माधव’’ इति द्वादशे गीतातात्पर्योक्तेः। श्रुत्वाऽत्मानं वेद न चैव कश्चिदिति तु व्याख्यातं सर्वत्र प्रसिद्धेत्यादिनय इति भावः। अन्तरत्वं च बाह्यापेक्षां विना रममाणत्वरूपं वा। पृथिव्यादिदेवतान्तःस्थत्वरूपं वा। द्वेधापि विष्णोरन्यत्रानवकाशमिति विवक्षितगुणोपपत्ते-रित्यत्रोक्तप्रायमिति भावः॥ १८॥
अभिनवचन्द्रिका
भाष्ये – यः पृथिव्यां तिष्ठन्निति॥ यः पृथिव्यां=गरुडे तिष्ठन्, ‘पृथुं नारायणं वाति तमादायैव पक्षिराट्। अतः स पृथिवीत्युक्त’ इति स्मृतेः। पृथिव्याः=गरुडात्, अन्तरो = विलक्षणः। यं च पृथिवी न वेद यस्य पृथिवी शरीरं शरीरवत्, यः पृथिवीम् अन्तरः सन् प्रेरयति एषः परमात्मा ते त्वया पृष्टोऽन्तर्यामी अमृतो=नाशरहित इति सिद्धान्तरीत्या श्रुत्यर्थः। पूर्वपक्षिमते तु – पृथिवीशब्दः प्रसिद्धपृथिवीपरः। अन्यत्समानम्। अन्तर्यामिणः कस्यचिदुच्यत इति॥ एतदधिकरणप्रतिपाद्य-स्यामृतत्वेनोक्तत्वं पूर्वाधिकरणतच्छ्रुतिभ्यां सङ्गतिः। तत्प्रतिपाद्यस्यापि अमृतत्वेनोक्तत्वादिति भावः। उपचारेण नेतव्यमिति॥ कार्यस्य कारणाधीनत्वादिति भावः। तस्येति॥ शरीरशब्दो हि स्वरूपे शरीरे च वर्तते। पृथिवी च नेश्वरस्वरूपम्। नापि तच्छरीरमिति॥ पृथिवीशरीरशब्दो न तस्मिन् घटत इति भावः। ननु प्रकृतिर्नान्तर्यामी अन्तर्यामिणि श्रुतस्याऽमृतत्वलिङ्गस्य तत्रानवकाशादित्यत आह। अमृतत्वस्य चेति॥ कथञ्चिदमृतत्वस्य श्रुत्युक्तगौणामृतत्वस्य प्रकृत्यादौ सावकाशत्वादित्यर्थः। इदमुक्तं भवति – भवेदमृतत्वस्य प्रकृत्यादावनवकाशः, यदि श्रुतावन्तर्यामिणो मुख्यामृतत्वमुच्यत इति स्यात्। न चैवम् – पीयूषस्यैव मुख्यामृतत्वात्। तदन्यस्य नाशराहित्यरूपस्य गौणामृतत्वात्। न च पीयूषत्वम् अन्तर्यामिणः सम्भवतीति नाशराहित्यरूपं गौणामृतत्वमेव श्रुत्योच्यत इति अभ्युपेयम्। तच्च विष्णोरिव प्रकृत्यादावस्तीति। एतेन प्रकृत्यादौ कथञ्चिदमृतत्वसद्भावेऽपि मुख्यामृतत्वाभावादन्यधर्मेण मुख्यामृतत्वेन अक्षिस्थस्य विष्णुत्वसाधनसम्भवात्, नाऽमृतत्वमक्षिस्थस्य विष्णुत्वसाधकमित्युपसंहारो न युक्त इति परास्तम्। पूर्वपक्षिणा विष्णुवदेव प्रकृत्यादीनाममृतत्वाङ्गीकारात्। अन्तर्यामी विष्णु-रेवेति॥ अनेन अधिदैवादिषु अधिदैवादिप्रतिपादकेषु ‘यः पृथिव्यां तिष्ठन्’ इत्यादिवाक्येषु उच्यमानोऽन्त-र्यामी विष्णुरेव पृथिव्याद्यविदितत्वान्तरत्वाख्यधर्मव्यपदेशादिति सूत्रयोजनोक्ता भवति। ननु सूत्रे अन्तर्यामी तद्धर्मव्यपदेशादित्येवास्तु, अधिदैवादिष्विति व्यर्थमित्याशङ्कां परिहर्तुं तदुपोद्धातमाह – न च वाच्यमित्यादिना॥ यदर्थमुपोद्धातस् तदाह – पृथिव्यादीनामिति॥ पृथिव्यादीनां चेतनत्वसूचनाय सूत्रे तत्पदमिति भावः।
वाक्यार्थमुक्तावली
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥ किं विष्णोरिति॥ अत्रान्तर्यामित्वं किं पृथिव्यादिशरीरत्वलिङ्गेन प्रकृतिजीवयोर् उतामृतत्वपृथिव्याद्यविदितत्वरूपस्वपक्षसाधकेन त्रिगुणोपादानत्वदुःखित्वादिप्रधानजीवधर्मानभिलपनलक्षणेन साधकाभावेन जीवान्तर्यामिणो भेदोक्ति-रूपबाधकेन च किं विष्णोरिति। तदर्थं पृथिव्यादिशरीरत्वादेर् विष्णावनवकाशो ऽमृतत्वाविदितत्वादेः प्रकृत्यादौ सावकाशत्वमुत अमृतत्वाविदितत्वादेर् अन्यत्र निरवकाशत्वं पृथिव्यादिशरीरत्वादेर् विष्णौ सावकाशत्वमिति॥ तस्य प्रकृतावुपपत्तेरिति॥ ननु यस्य दिशः शरीरं यस्यात्मा शरीरम् इत्यातत् कथं प्रकृतावुपपद्यत इति चेन्न। दिशो मूर्तसंयोगादावात्मनः शरीरसंयोगादौ प्रकृतिपरतन्त्रत्वेन शरीर-वच्छरीरमिति गौण्योपपत्तेः। ब्रह्मणस्तु पृथिव्यादिशरीरत्वं किमपि न मुख्यम्। न च शीर्यते नित्यमेवास्माद् इत्युक्तयोगेन तन्मुख्यमिति वाच्यम्। अस्य योगस्यात्मदिगादावनवकाशात्। पृथिव्याद्या देवतास्तु देहवद्यद्वशत्वतः। इति बृहद्भाष्योक्तगौण्योपपत्तेरेव सर्वत्र स्वीकार्यत्वात्॥ स्वरूपेऽपीति॥ व्याप्तिशरीरलक्षणमित्यादावित्यर्थः। भाष्ये यः पृथिव्यां तिष्ठन् पृथिवीमन्तरो यमयतीत्यंशोदाहरणस्य प्रयोजनमाह॥ न चेत्यादिना॥ कारणस्येति॥ अनुपचितप्रकृतिभागस्येत्यर्थः। उपचितप्रकृति-भागस्येत्यर्थ इत्यप्याहुः। अस्मिन् पक्षे प्रागुक्तपृथिव्याद्यात्मकत्वासम्भव इति न वाच्यम्। कार्यकारणयोर्भिन्नाभिन्नत्वेनाभेदेन तदात्मकत्वस्य भेदेन तत्स्थत्वस्य चाविरोधाद् आत्मनि तिष्ठन्निति जडस्य चेतनाधीनत्वाद्वा आवरकतया सम्बन्धाद्वा सावकाशम्। दिशि तिष्ठन् विभुत्वात्॥ उपचारेणेति॥ कार्यस्य कारणाधीनत्वादिति भावः। न च आत्मानं यमयतीत्युक्तात्मनियामकत्वानुपपत्तिः। आत्मप्रवृत्तेः प्रकृत्यधीनत्वेन शरीरद्वारा तदुपपत्तेः। दिशो यमयतीत्युक्तिरपि मूर्तसंयोगादेः प्रकृत्यधीनत्वेन विशिष्ट-विवक्षया। न च यमात्मा न वेद इत्युक्तात्माविदितत्वानुपपत्तिः। अप्रतर्क्यमविज्ञेयमित्यादिना प्रकृतेर्दुर्ज्ञानत्वेन तस्याप्युपपत्तेरिति भावः। जीवपक्षे हेत्वनुक्तेरभिप्रायमाह॥ सुघटत्वादिति॥ जीवानां शरीराद्यभिमानित्वेन वा तद्देहवत्त्वेनेत्यर्थः॥ कथञ्चिदिति॥ पृथिव्यादेः स्वरूपनाश-रहितत्वेनेत्यर्थः। अधिदैवादिष्वन्तर्यामीति भाष्येऽन्वयः॥ तदन्तरत्वाख्येति॥ तस्याः पृथिव्या अन्तरङ्गत्वं परमस्नेहविषयत्वमित्यर्थः। अन्तर्यामित्वमिति वा। अन्तरपुरुष इति भाष्योदाहृतश्रुतेर् उभयार्थत्वसम्भवात्।
अत्र केचित्इदं चान्तरत्वं यः पृथिवीमन्तरो यमयतीत्यत्रोक्तम्। न तु पृथिव्या अन्तर इत्युक्तम्। तस्यान्तरो विविक्त इति भेदार्थत्वस्य वक्ष्यमाणत्वादित्याहुः। वस्तुतस्तु पृथिव्या अन्तर इत्यादिना अधिदैवादिषु तद्धर्मव्यपदेशादित्युक्त्या पृथिव्या अन्तर इत्युक्तमेवात्र विवक्षितम्। न च तस्य भेदार्थकत्वोक्तिविरोधः। अतिप्रियत्वभेदलक्षणार्थद्वयपरत्वाङ्गीकारात्। भेदार्थकत्वस्य वक्ष्यमाणत्वात्। अतिप्रियार्थकत्वस्य अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम् इति बृहद्भाष्यसिद्धत्वात्। तदुक्तं व्यासतीर्थीये। पृथिव्या अन्तर अद्भ्योऽन्तर इत्यन्तरशब्दार्थमाह॥ अतिप्रियत्वाच्चेति॥ अन्तरो यमयतीत्युक्तमन्तरत्व-मपि अत्र विवक्षितम्। सोऽन्तरः स्ववशत्वतः। बाह्यापेक्षां विना यस्तु रमते सोऽन्तरः स्मृत इति व्याख्यातत्वात्। तदप्युक्तं व्यासतीर्थीये। यः पृथिवीमन्तरो यमयतीत्यन्तरशब्दार्थमाह। सोऽन्तर इति। अन्तरशब्देन स्ववशत्वं कथं लब्धमित्यत आह। बाह्येति। अधिदैवादिष्वित्युक्तेरुपयोगं व्यावर्त्यशङ्कापूर्वमाह॥ न चेति॥ अधिदैवत्वेनेति॥ प्रकरणान्ते इत्यधिदैवमित्युक्तत्वात्। जहत्वेन वेदनप्रसक्तेरभावेन वेदेत्युक्त्ययोगात्। ‘पृद्धं नारायणं वाति समादायैव पक्षिराट्। अतः स पृथिवीत्युक्त’ इत्यादिव्याख्यारूपप्रमाणाच्चेति भावः। ननु चक्षुरादीनां जडत्वे बाधकाभावाज् ज्ञानकरणतया वेदनप्रसक्ति-सद्भावाच्च करणे कर्तृत्वोपचारेण न वेदेत्युक्तिसम्भवात् तदविदितत्वं सर्वस्य सम्भवतीति तत्रोक्तान्तर्यामिणो विष्णुत्वविरोध इत्यत आह॥ चक्षुरादीनामिति॥ चक्षुरादीनां जडत्वेऽपि कथञ्चित्तदविदितत्वस्य सर्वत्रोपपत्तावपि न विष्णोरन्तर्यामित्वविरोधः। कुतः, अत्र पृथिव्यादौ उक्तस्यैव तत्र चक्षुरादौ कथनात्। अन्यथा अन्तर्यामिणं ब्रूहीति सर्वान्तर्यामिण एकस्य प्रश्ने एष आत्माऽन्तर्याम्यमृत इत्यधिदैवादिप्रकरणत्रये तदवान्तरस्थानेष्वपि भिन्नभिन्नान्तर्यामिप्रतिपादनमसङ्गतं स्यात्। एष त आत्माऽन्तर्यामीति एकात्मत्वोक्त्ययोगाच्च। अतस्तस्यैकस्य पृथिव्याद्यविदितत्वलिङ्गेन विष्णुत्वसिद्धौ चक्षुराद्यन्तर्यामित्वमपि तस्य सिद्ध्यतीति भावः। विस्तरस्तु प्रमेयमुक्तावल्यामनुसन्धेयः।
अन्ये तु– पृथिव्यादेर्देवतात्वे पूर्वाक्षेपसमाध्ययोगमाशङ्क्याह॥ चक्षुरादीनामिति॥ पूर्वं य एषोऽन्तरक्षिणीत्यादौ अक्ष्यादित्यविद्युतां जडत्वेऽपि अत्राधिदैवादिप्रकरणेषु उक्तस्य पृथिव्यादि-चक्षुरादिदेवतास्थस्यैव पूर्वत्राक्ष्यादावुक्तेरमृतत्वमुखेन पूर्वाक्षेपसमाध्यविरोध इत्यर्थमाहुः।
ततश्चायं सूत्रार्थःअधिदैवादिप्रकरणेष्वन्तर्यामितयोक्तो विष्णुरेव। तस्य विष्णोरविदितत्वान्तर-त्वाख्यधर्मव्यपदेशादिति।
तत्त्वसुबोधिनी
ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥ अत्र चक्षुरन्तस्थस्य ब्रह्मत्वे हेतूकृतामृतत्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भाष्य एव उक्तम्। अन्तर्यामिणि पृथिव्यादिशरीरत्वश्रवणेऽपि प्रकृतेर् अन्तर्यामित्वं कथमायातमिति अत आह। प्रकृतेश्चेति। पृथिव्याद्यात्मकत्वरूपं तत्प्रकृतावुपपद्यत एव। ननु शरीरत्वं कथं घटत इत्यत उक्तम्। शरीरशब्दस्येति। इदं पूर्वपक्षे शरीरमित्यादौ शरीरशब्दस्य स्वरूपेऽपि प्रयोगात् प्रकृतेरपि पृथिव्यादिशरीरत्वं सम्भवतीति भावः। यद्यपि दिगादिशरीरत्वं प्रकृतौ न मुख्यम्। दिगादेरप्राकृतत्वात्। तथापि गौणं तदस्तु। ब्रह्मणस्तु पृथिव्यादि-शरीरत्वमपि न मुख्यम्। न नित्ये दिगादिके ब्रह्मप्रतिशीर्यमाणत्वादिरूपयौगिकमपि शरीरत्वमस्तीति भावः। भाष्ये यः पृथिवीमन्तरो यमयतीत्यंशोदाहरणस्य प्रयोजनमाह। न च य इति। कारणस्येति। न च प्रागुक्तपृथिव्याद्यात्मकत्वासम्भवः। कार्यकारणयोर् भिन्नाभिन्नत्वेन अभेदेन तदात्मकत्वस्य भेदेन तत्स्थत्वस्य वाऽविरुद्धत्वादिति भावः। तथापि प्रकृतेर् जडत्वेन पृथिव्यादिनियामकत्वमनुपपन्नमत आह। पृथिवीमिति। कार्यस्य कारणाधीनत्वादिति भावः। आत्मनियामकत्वाविदितत्वादिकं तु आत्मप्रकृतेः शरीरद्वारा प्रकृत्यधीनत्वेन, अप्रतर्क्यम् अविज्ञेयमित्यादिना प्रकृतेर् दुर्ज्ञानत्वेनोपपन्नमिति भावः। अतिसुघटत्वादिति। जीवानां पृथिव्याद्यभिमानित्वेन तच्छरीरत्वतन्नियामकत्वादीना-मुपपादननिरपेक्षत्वादित्यर्थः। अमृतत्वस्य कथञ्चिदिति॥ प्रकृत्यादेः स्वरूपनाशरहितत्वेनेत्यर्थः। उपलक्षणं चैतत्। यं पृथिवी न वेद इत्युक्तं पृथिव्याद्यविदितत्वं पृथिव्यादीनां जडत्वात् पृथिव्या-द्यभिमानिन्युपपत्तेः। यमात्मा न वेदेति चेतनस्य पृथगुक्तेरिति द्रष्टव्यम्। पृथिव्याद्यविदितत्वतदन्तर-त्वाख्येति। यं पृथिवी न वेद इत्यादिश्रुत्युदाहरणादौ अविदितोऽन्तरश्च इत्युत्तरभाष्यबलात् तद्धर्म-व्यपदेशादिति भाष्यमेवं व्याख्यातमिति बोद्धव्यम्। अधिदैवत्वेन जडत्वाभावादिति। यं पृथिवी न वेद इत्यादौ पृथिव्यादेर् जडस्य ज्ञानमात्राभावेन विशिष्य यमित्यस्य वैयर्थ्यमप्रसक्तप्रतिषेधापातः यमात्मा न वेदेति प्रायपाठानुपपत्तिश्चेति भावः। प्रकृतेरिति। तथा च तेन पृथिव्यादिजीवेन साकल्येनावेद्यत्वं हरेरेवेति भावः।
वाक्यार्थविवरणं
शरीरशब्दस्य स्वरूपे प्रयोगश्च इदं पूर्वपक्षशरीरमित्यादौ दृष्टम्।
वाक्यार्थमञ्जरी
॥ काण्वमाध्यन्दिनेति॥ यः पृथिव्यां तिष्ठन्नित्यादिवाक्यस्योभयत्रापि पाठादेवमुक्तम्। यो भगवान्पृथिव्यां पृथिव्यभिमानिदेवतायां तिष्ठन्पृथिव्या अन्तरोऽविविक्तः यमन्तर्यामिणं पृथिवी न वेद यस्य पृथिवी शरीरम्। तद्वशत्वादेः। न केवलं तत्र स्थितिमात्रं किन्तु यो अन्तरो बाह्यापेक्षां विना रमत इति वा रमयति वाऽन्तरः। पृथिवीं यमयति य एष भगवांस्ते तव आत्मा नियामकः। अमृतो नित्योऽन्तर्यामीति गौतमं प्रति याज्ञवल्क्यवचनं तदेवोपपादयति॥ शरीरशब्दस्येति॥ इदं पूर्वपक्षशरीरमित्यादाविति शेषः॥ न चेति॥ पृथिव्यभिन्नायाः पृथिवीस्थत्वायोगादिति भावः॥ इत्यादिनेति॥ कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणमिति गीतातात्पर्यस्मृत्येत्यर्थः। तयोर्भिन्ना-भिन्नत्वेन भेदस्यापि सत्वादिति भावः। नन्वथापि पृथिवीं यमयेदित्युक्तपृथिवीनियामकत्वं कथमित्यत आह॥ पृथिवीमिति॥ कार्यस्य कारणाधीनत्वादिति भावः॥ अतिसुघत्वादिति। पृथिव्याद्यभिमानित्वेन तच्छरीरत्व तन्नियामकत्वादीनामुपपादकनिरपेक्षत्वादित्यर्थः। कयापि विधयेत्येतदेवाह॥ तस्येति॥ उररीकारेण अङ्गीकारेण॥ कथञ्चिदिति॥ प्रकृत्यादेः स्वरूपनाशरहितत्वेनेत्यर्थः॥ ॐ अन्तर्या-म्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ॥ अधिदैवादिपदेन तत्प्रकरणं लक्ष्यते। अन्तर्यामी विष्णुरेव। अधिदैवाधिभूतादिप्रकरणेषु तस्यान्तर्यामिणः सम्बन्धितया तस्य ब्रह्मणो धर्मस्य पृथिव्याद्यविदितत्वादे-र्व्यपदेशादित्यर्थः। अधिदैवत्वेन अभिमानिदेवत्वेन। अन्यथा जडे ज्ञानाप्रसक्त्या यं पृथिवी न वेदेत्यादेर् अप्रसक्तप्रतिषेधकत्वापत्तिरिति भावः॥ न चेति॥ धरायाः प्रकृतिस्वस्वरूपज्ञत्वादिति भावः॥
विवृतिः
अत्र चक्षुरन्तस्थस्य ब्रह्मत्वे हेतूकृतामृतत्वाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भाष्य एवोक्तम्। अन्तर्यामिणि पृथिव्यादिशरीरत्वश्रवणेऽपि प्रकृतेरन्तर्यामित्वं कथमागतमित्यत आह॥ तस्य चेति॥ ननु पृथिव्यादिशरीरत्वं कथं प्रकृतावित्यत आह॥ प्रकृतेश्चेति॥ पृथिव्याद्यात्मकत्वरूपं तत्प्रकृतेरप्युपद्यत एव। ननु शरीरत्वं कथं घटत इत्यत उक्तं शरीरशब्दस्येति॥ इदं पूर्वपक्षे शरीरमित्यादौ शरीरशब्दस्य स्वरूपेऽपि प्रयोगात्प्रकृतेरपि तत्सम्भवतीति भावः। यद्यपि दिगादिशरीरत्वं प्रकृतौ न मुख्यं दिगादेर-प्राकृतत्वात्। तथापि गौणं तदस्तु ब्रह्मणस्तु पृथिव्यादिशरीरत्वमपि न मुख्यमिति भावः। भाष्ये यः पृथिवीमन्तरो यमयमयतीत्यंशोदाहरणस्य प्रयोजनमाह॥ न च य इति॥ कारणस्येति॥ न च प्रागुक्तपृथिव्याद्यात्मकत्वासम्भवः। कार्यकारणयोर्भिन्नाभिन्नत्वेनाभेदेन तदात्मकत्वस्य भेदेन तत्स्थत्वस्य चाविरुद्धत्वादिति भावः॥ तथापि प्रकृतेर्जडत्वेन पृथिव्यादिनियामकत्वमनुपपन्नमत आह॥ पृथिवीमिति॥ कार्यस्य कारणाधीनत्वादिति भावः। आत्मनियामकत्वाविदितत्वादिकन्तु आत्मप्रवृत्तेः शरीरद्वारा प्रकृत्यधीनत्वेन अप्रतर्क्यमविज्ञेयमित्यादिना प्रकृतेर्दुर्विज्ञेयत्वेनोपपन्नमिति भावः। अतिसुघटत्वादिति॥ जीवानां पृथिव्याद्यभिमानित्वेन तच्छरीरत्व, तन्नियामकत्वादीनामुपपादन-निरपेक्षत्वादिति भावः। नन्वमृतत्वं प्रकृतौ कथमित्यत आह॥ अमृतत्वस्येति॥ प्रकृत्यादेः स्वरूपनाशराहित्येनेत्यर्थः। उपलक्षणमेतत्। पृथिव्याद्यभिमानित्वादिकमप्युपपन्नमिति बोध्यम्। पृथिव्याद्यविदितत्वतदन्तरत्वाख्येति॥ यं पृथिवी न वेदेत्यादिश्रुत्युदाहरणादाव-विदितोऽन्तरश्चेत्युत्तरभाष्यबलात् तद्धर्मव्यपदेशादिति भाष्यमेवं व्याख्यातमिति बोध्यम्। अधिदैवत्वेन जडत्वाभावादिति॥ यं पृथिवी न वेदेत्यादौ पृथिव्यादेर्जडत्वे जडस्य ज्ञानमात्राभावेन विशिष्य यमित्यस्य वैयर्थ्यम् अप्रसक्तप्रतिषेधापत्तिः। यमात्मानं वेदेति प्रायपाठानुपपत्तिश्चेति भावः॥ प्रकृतेरिति॥ तथाच तेन पृथिव्यादिजीवेन साकल्येनावेद्यत्वं हरेरेवेति भावः।
ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ
सूत्रभाष्यम्
॥ ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ॥ १९॥
त्रिगुणत्वादिप्रधानधर्मानुक्तेर्न स्मृत्युक्तं प्रधानमन्तर्यामि॥ १९॥
तत्त्वप्रदीपिका
ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ। त्रिगुणत्वजडत्वाद्यभिलापाभावान्न प्रधानमत्रोक्तम्। कपिल-स्मरणमात्रपरिकल्पितं न श्रुतियुक्त्युपेतमिति स्मृत्युक्तमित्युक्तम्। आत्मत्वामृतत्वादृष्टत्वद्रष्टृत्वाद्यतद्धर्माभि-लापाच्च॥
तत्त्वप्रकाशिका
एवं निरवकाशलिङ्गेन विष्णोरन्तर्यामित्वं समर्थ्य यदुक्तं प्रकृतेरन्तर्यामित्वमिति तदपाकुर्वत्सूत्रमुपन्यस्य व्याचष्टे॥ न चेति॥ स्मार्तं कापिलस्मृतौ पृथिव्याद्यात्मकतयोक्तं प्रधानं नान्तर्यामि अविदि-तत्वाद्यनन्यथासिद्धविष्णुधर्मवत् त्रिगुणत्वोपादानत्वादिप्रधानधर्मोक्त्यभावादित्यर्थः। चशब्दो विष्णु-रेवान्तर्यामी न तु प्रधानमिति तुशब्दार्थः॥ १९॥
भावदीपः
ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ॥ स्मार्तमित्युक्तिः पूर्वपक्षयुक्तिसूचनायेति भावेन व्याचष्टे॥ स्मार्तमिति॥ सौत्रपदानुवादोऽयम्। कापिलेत्यादि भाष्यपदव्याख्या। सूत्रे तदिति स्मार्तं परामृश्यते ततोऽन्यदेतद् ब्रह्म तद्धर्माभिलापादित्युक्तौ पूर्वेण पौनरुक्त्यं मत्वा भाष्ये अतदिति नञः प्रसज्य-प्रतिषेधार्थतयाऽभिलापपदेनान्वयमुपेत्य अनुक्तेरित्युक्तमिति भावेन व्याचष्टे॥ अविदितत्वेति॥ अकर्तरि च कारके संज्ञायाम् इत्यादाविव नञः समास इति भावः। शरीरत्वं च सावकाशयिष्याम इति भावः। जीवसमुच्चायक इति भ्रान्तिं निराह॥ चशब्द चेति॥ तत्वप्रदीपे तु आत्मत्वामृतत्वा-दृष्टत्वद्रष्टृत्वाद्यतद्धर्माभिलापाच्चेति सूत्रोक्तांशस्य वृत्त्यन्तरमुक्तं न च पौनरुक्त्यम्। आद्यसूत्रोपात्त-लिङ्गाल्लिङ्गान्तराणामेवात्र गृहीतेरिति भावः॥ १९॥
अभिनवचन्द्रिका
अत्र गुणसूत्रम् – ‘न च स्मार्तमतद्धर्माभिलापा’दिति। कथमिदं विज्ञायते। तद्धर्माभि-लापाभावादिति आहोस्वित् तद्विरुद्धधर्माभिलापादिति। किं चातः। यदि विज्ञायते तद्धर्माभिलापा-भावादिति तर्ह्यसिद्धिः प्राप्नोति। पृथिवी शरीरमित्यादिना पृथिव्याद्यात्मकत्वरूपतद्धर्माभिलापात्। यदि विज्ञायते तद्विरूद्धधर्माभिलापादिति तर्हि पूर्वसूत्रेण गतार्थता प्राप्नोति। तत्रैव विरुद्धधर्माभिलाप-स्योक्तत्वादिति चेत्, उच्यते – एतदेवं विज्ञायते तद्धर्माभिलापाभावादिति। ननु चोक्तमसिद्धिः प्राप्नोतीति। नैष दोषः – पृथिव्यादिशरीरत्वादीनां सावकाशत्वेनाऽतद्धर्मत्वात्। तदुपदेशेऽपि असाधारण-धर्माभिलापाभावेनासिद्धेरभावात्। तदुक्तं – भाष्यकृता – ‘त्रिगुणत्वादिप्रधानधर्मानुक्ते’रिति। चशब्दो विष्णुरेवेति॥ ‘न च स्मार्तमतद्धर्माभिलापा’दिति सूत्रगतश्चशब्दः ‘विष्णुरेवान्तर्यामी न तु प्रधान’मिति अभियुक्तप्रयोगान्तर्गततुशब्दार्थाभिधायक इत्यर्थः। यथा तत्र तुशब्दः सम्भावितत्वरूपविशेषवाचकस् तथाऽत्रापीति भावः। एवं च स्मार्तं तु सम्भावितं प्रधानं नान्तर्यामि तद्धर्माभिलापाभावादिति योजनोक्ता भवतीति द्रष्टव्यम्। एतेन तुशब्दस्य विष्णुरेवान्तर्यामी न तु प्रधानमित्ये तावदर्था-नभिधायकत्वाद् विष्णुरेवान्तर्यार्मीत्यस्य पूर्वसूत्रार्थत्वान् न प्रधानमित्यस्य न स्मार्तमिति पदलभ्यत्वात् सर्वस्यैतस्य तुशब्दार्थत्वमभिधाय तदर्थाभिधायित्यकथनमयुक्तमिति परास्तम्।
पूर्वपक्षस्तु– प्रकृतिरेवान्तर्यामी। ‘यस्य पृथिवीशरीर’(बृ.५-७-३)मित्यादिना पृथिव्यादिशरीरत्व-व्यपदेशात्। शरीरशब्दस्य स्वरूपेऽपि प्रयोगदर्शनेन तस्य तत्रोपपत्तेः। न च ‘यः पृथिव्यां तिष्ठ’(बृ.५-७-३)न्नित्यादिपृथिव्यादिस्थत्वोक्तिविरोधः। व्याप्तं कार्येषु कारण’मिति तस्य तत्रोपपत्तेः। न च प्रकृतेरचेतनत्वेन पृथिव्यादिनियामकत्वायोगः। कार्यस्य कारणाधीनत्वेन अचेतनप्रकृतेरपि नियाम-कत्वोपचारोपपत्तेः। न चामृतत्वाविरोधः। तस्य विष्णाविव अत्रापि योगेनोपपत्तेः। तत्तज्जीवानां वा एतदन्तर्यामित्वं, पृथिव्यादिशरीरत्वादेस् तेष्वतिसुघटत्वात्। ततश्च प्रकृत्यादेरेवान्तर्यामित्वेन तत्र श्रुतममृतत्वं नाक्षिस्थस्य विष्णुत्वसाधकमिति।
सिद्धान्तस्तु– विष्णुरेवान्तर्यामी। तस्य पृथिव्यादिदेवताऽविदितत्वान्तरत्वाख्यधर्मव्यपदेशात्, न प्रकृतिजीवौ। विष्ण्वसाधरणपृथिव्या अविदितत्वादिधर्मोपदेशवत् प्रकृतिजीवासाधारणात्रिगुणत्व-सांसारिकत्वादिधर्मानभिलापात्। काण्वमाध्यन्दिनाभ्यां ‘आत्मनोऽन्तर इति’ विज्ञानादन्तर, (बृ.५-७) इति च जीवस्य भेदेन व्यपदेशाच्च। अतोऽन्तर्यामी विष्णुरेवेति स एवामृतोऽक्षिस्थश्चेति सिद्धम्॥
वाक्यार्थमुक्तावली
ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ॥ प्रधानमिति वक्तव्ये पूर्वपक्षे युक्तिं सूचयितुं स्मार्तमित्युक्त-मित्यभिप्रेत्याह॥ कापिलस्मृताविति॥ शरीरत्वोक्तिः स्वरूपत्वाभिप्रायेणेत्येतत् प्रमापयितुं पृथिव्याद्यात्मकतयोक्तमित्युक्तम्। सूत्रे चस्त्वर्थे। अन्तर्यामीत्यनुवर्तते। स्मार्तं कापिलस्मृतौ पृथिव्यादि-शरीरतयोक्तं प्रधानं तु नान्तर्यामि। कुतः। अतद्धर्माभिलापात्। तस्य स्मार्तस्य धर्माणां त्रिगुणत्वादीनाम् अभिलापाभावादिति सूत्रार्थः।
तत्त्वसुबोधिनी
चशब्दस् तुशब्दार्थ इत्यन्वयः। तदेवाह॥ विष्णुरेवेति॥
वाक्यार्थमञ्जरी
ॐ न च स्मार्तमतद्धर्माभिलापात् ॐ॥ स्मार्तं प्रधानं नान्तर्यामि। त्रिगुणत्वादितद्धर्मानभि-धानादित्यर्थः। पृथिवीशरीरत्वादितद्धर्माभिलापात्कथमतद्धर्माभिलाप इत्यत उक्तम्॥ अनन्यथासिद्धेति॥ तस्य त्वन्यथासिद्धिं वक्ष्यतीति भावः॥
विवृतिः
चशब्दस्तुशब्दार्थ इत्यन्वयः। तदेवाह॥ विष्णुरेवेति॥