०४ अन्तराधिकरणम्

ॐ अन्तर उपपत्तेः ॐ

४. अन्तराधिकरणम्

सूत्रभाष्यम्

आदित्ये विष्णुरित्युक्तम्। ‘य एष आदित्ये पुरुषः सोऽहमस्मि स एवाहमस्मी’-(छां.उ.४-११)त्यादावग्नीनामेवाऽऽदित्यस्थत्वमुच्यते। अतोऽक्ष्यादित्ययोरैक्याद् ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ (छां.उ.४-१५) इत्यत्राप्यग्निरेवोच्यते। अत‘स्तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत’ (छां.उ.४-१४) इत्यग्निज्ञानादेव सर्वपापाश्लेषान्मोक्षोपपत्तिरिति। अतोऽब्रवीत्।

॥ ॐ अन्तर उपपत्तेः ॐ॥ १३॥

चक्षुरन्तःस्थो विष्णुरेव। ‘त्रिपादस्यामृतं दिवी’ (ऋ.सं.१०-९०-३) त्यादिना तस्यैवा-मृतत्वाद्युपपत्तेः। ब्रह्मशब्दाद्युपपत्तेश्च। सोऽहमस्मीत्यादि त्वन्तर्याम्यपेक्षया।

‘अन्तर्यामिणमीशेषमपेक्ष्याहं त्वमित्यपि।

सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’ इति महाकौर्मे॥ १३॥

सत्तर्कदीपावली

इदमाम्नायते। य एषोऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति। अत्रात्मेतिशब्दनिर्दिष्टोऽक्षिस्थपुरुषः कोऽयमिति विचार्यते। अत्राधस्तनवाक्यादादित्यस्थः पुरुषस् तावदग्निरेवावगम्यते। ‘अथ हैनं गार्हपत्योऽनुशशास’ ‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मीति स एवाहमस्मीति’ स यथा चन्द्रस्थ-पुरुषोऽह्निविशेषावगतोऽथ हैनमन्वाहार्यपचनोऽनुशशास य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मीति’। आदित्यस्थपुरुषस्य वाऽक्षिस्थपुरुषत्वेनाक्ष्यादित्यैक्यस्यानेकश्रुतिसिद्धत्वादग्निरेवायमक्षिस्थपुरुषः स्यात्। अतश्च यश्चासावादित्य इत्यादिना यदादित्याधिष्ठातृत्वमुक्तं विष्णोस्तदप्यग्नेरेव समायात्। यद्विष्णुज्ञानमेव मोक्षसाधनं प्रतिपादितम्। ‘तमेवं विद्वानमृत इह भवति। नान्यः पन्था’ इत्यादिना तदपि न सिद्ध्यति अक्षिस्थपुरुषाग्निविदो मोक्षश्रवणात्। ‘एवमेवंविदि पापं कर्म न श्लिष्यत’ इत्येवं पूर्वपक्षयति॥ आदित्य इति॥ अत्र सूत्रमवतार्य व्याचष्टे॥ अन्तरित्यादिना॥ अक्षिस्थपुरुषोऽयं विष्णुरेव एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्मेति श्रूयमाणत्वात्। अमृतत्वादिकं विष्णोरेव श्रूयते त्रिपादस्यामृतं दिवीत्यादिश्रुत्यन्तरे। न च विष्णुवदग्नेरप्यमृतत्वं शङ्कनीयम्। ‘तमेताः पञ्चदेवताः परिम्रियन्ते विद्युद् वृष्टिश्चन्द्रमा आदित्योऽग्निः’ भयादग्निस् तपतीत्यादिश्रुतिविरोधात्। एतद्वाक्यमग्निप्रापकमुक्तं तदन्यथोपपन्नमित्याह॥ सोऽहमिति॥

तत्त्वप्रदीपिका

‘‘यश्चासावादित्ये’’ ‘‘अन्तरादित्ये मनसा चरन्तमि’’त्यादावादित्ये विष्णुरित्युक्तम्। ‘‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि,’’ ‘‘य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि,’’ ‘‘य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मी’’त्यग्नीनां गार्हपत्यान्वाहार्य-पचनावहनीयानामुपकोसलोपदेष्टॄणामादित्यादिस्थत्वमुच्यते। अतोऽक्षीन्द्रियप्रेरकादित्ययोरैक्यात् ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’’ इत्यत्र सत्यकामवाक्येऽप्यक्ष्यभिमान्यन्तस्थोऽग्निरेवोच्यते। ‘एवमेवंविदि पापं कर्म न श्लिष्यत’ इति प्रकृताग्निज्ञानफलत्वेन सर्वपापाश्लेषवचनादग्निज्ञानादेव मोक्षोपपत्तिः। अतः फलवत्त्वादग्नौ समन्वयो युक्तोऽस्य प्रकरणस्येति पूर्वपक्षाभिप्रायः। अतो यावदत्र ब्रह्मणस्समन्वयो न निर्णीतः, ताव‘‘द्यश्चसावादित्य’’ इत्यादावप्यतिसुनिर्णयो न स्यात्। अतः सर्ववेदार्थनिर्णये प्रत्यधिकरणनिर्णयास्सुदृढा भवन्तीति ज्ञापयन्नधिकरणसङ्गतिमदीदिशत्।

ॐ अन्तर उपपत्तेः ॐ। अन्तरशब्देनान्तस्थो रतिरूपो विवक्ष्यते। तथा चोक्तमाचार्यवर्येणैवानु-व्याख्याने—

‘‘अन्तः स्थित्वा रमणकृदन्तरस्समुदाहृतः।

रमणं चाऽत्मशब्देनाऽदेयं मातीति चोच्यत’’ इति॥

चक्षुरभिमान्यन्तस्थो विष्णुरेव। ‘‘त्रिपादस्यामृतं दिवि’’ ‘‘अमृतैवैषा देवता’’ ‘‘आत्माऽजरोऽ-मृतोऽभयो ब्रह्मे’’त्यादिना तस्यैवामृतत्वाभयत्वलिङ्गोपपत्तेः। ब्रह्मात्मशब्दोपपत्तेश्च। ‘‘एष आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मे’’ति ह्यत्रोक्तम्।

‘‘दृश्यते ज्ञानदृष्ट्या यस्सूर्ये चक्षुषि चैकराडि’’ति हि मानसे। ‘‘सोऽहमस्मि स एवाह-मस्मी’’त्यन्तर्याम्यपेक्षयैवोच्यते। अत्र चोक्तं छन्दोगोपनिषद्भाष्ये भगवतैव– ‘‘स एवाहमस्मी’’-त्यन्तर्यामिणोस्सर्वविशेषाभावज्ञापनार्थम्। पूर्वं ‘‘सोऽहमस्मी’’त्यभेदे तात्पर्याधिक्यज्ञापनाय। जीवैक्यपक्ष आदित्ये पुरुषश्चन्द्रमसि विद्युतीति भेदव्यपदेशो न युक्त इति॥

‘‘यस्सूर्यसोमविद्युत्सु तत्तन्नामा हरिः परः।

ओयत्वादहंनामा गार्हपत्यादिसंस्थितः॥’’ इति च तत्वसंहितायाम्॥

तत्त्वप्रकाशिका

अत्राग्निश्रुतिसाहित्येनान्यत्र प्रसिद्धस्य चक्षुरन्तःस्थत्वलिङ्गस्य परब्रह्मणि समन्वयसमर्थनादस्ति शास्त्रादिसङ्गतिः। श्रुत्यादिसङ्गतिं विषयवाक्यं विषयसंशयौ सयुक्तिकं पूर्वपक्षं च दर्शयति॥ आदित्य इति॥ ‘यश्चासावादित्य’ इत्यानन्दमयस्याऽऽदित्यस्थत्वमुक्तम्। ततश्चार्थादक्षिस्थत्वमप्युक्तम्। तदक्षि-स्थत्वं छन्दोगश्रुतौ कस्यचित्प्रतीयते। य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृत-मभयमेतद्ब्रह्मेति। तच्च यद्यन्यस्य स्यात्तदाऽऽदित्यस्थत्वमानन्दमयत्वं चान्यस्यैव प्रसज्येतेत्यवश्यं निर्णेयमेव। तदक्षिस्थत्वं विषयः। विष्णोरग्नेर्वेति सन्देहः। यश्चासावादित्ये इत्युक्तिरग्निश्रुतिश्च सन्दहबीजम्। य एषोऽन्तरक्षिणीति वाक्येऽग्निरेवाक्षिस्थत्वेनोच्यत इति पूर्वः पक्षः। यतो य एष आदित्ये पुरुषः सोऽहमस्मि स एवाहमस्मीत्यग्नेरेवाऽऽदित्यस्थत्वमुच्यते। न च वाच्यमग्नेरादित्यस्थत्वेऽपि कुतोऽक्षिस्थत्वमिति। आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशदिति श्रुतेरक्ष्यादित्ययोरेकविधत्वादादित्यस्थितत्वेनाग्नेरक्षिस्थत्वसिद्धेः। एतस्मिन्प्रकरणेऽथ हाग्नयः समूदिरे गार्हपत्योऽनुशशासेत्यादिबह्वग्निश्रुतिसद्भावाच्च। न च वाच्यमग्ने-रादित्यस्थत्वकथनमौपचारिकं किं न स्यात्। यश्चासावादित्य इति श्रुतिविरोधादिति। सोऽहमस्मि स एवाहमस्मीत्यभ्यासात्। अभ्यासस्य च समाख्यातो बलवत्त्वात्। न च विष्णुग्रहणेऽपूर्वतयाऽभ्यासस्यापि बाधः। स य एतदेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेतीत्यर्थवादात्। अर्थवादस्य चापूर्वतायाः प्राबल्यात्। अतोऽक्ष्यादित्यस्थोऽग्निरेवेति स एवानन्दमयोऽपीति भावः। न केवलमग्ने-रक्षिस्थत्वसिद्धावानन्दमयत्वप्राप्तिः किं तु यद्विष्णुज्ञानादेव मोक्ष इति मतं तदपि बाधितं स्यादित्याह॥ अत इति॥ यतोऽग्निरक्षिस्थोऽतस्तज्ज्ञानान्मोक्षोऽपि भवेत्। तद्यथेति तज्ज्ञानात् सर्वपापाश्लेषोक्तेः। तज्ज्ञानात्सर्वपापाश्लेषे च मोक्षस्यापि तदन्यथाऽनुपपत्त्यैवोपपत्तेरित्यर्थः। अत्राऽऽदित्यस्थत्वलिङ्गस्यापि विष्णौ समन्वयसिद्ध्यर्थं वक्रसङ्गत्याऽधिकरणारम्भ इति ज्ञातव्यम्। अग्नीनामिति बहुवचनमादिपदद्वयं च बह्वग्निश्रुतिसूचनाय प्रयुक्तम्। सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे॥ अत इति॥ विष्णुरेव चक्षुरन्तरः। एतदमृतमभयमित्यमृतत्वाभयत्वोक्तेः। अमृतत्वादेश्च विष्णावेवोपपत्तेः। ‘त्रिपादस्यामृतं दिवि’ ‘अभयं तितीर्षतां पारम्’ इति श्रुतेः। न चाग्नेरमृतत्वाद्युपपद्यते। ‘परि ह्येनं म्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्योऽग्निः’ ‘भीषाऽस्मादग्निश्चेन्द्रश्च’ इत्यादिश्रुतेरिति भावः। यदेवं निरवकाशत्वानेकत्वाभ्यां बलवल्लिङ्गबलाच्चक्षुरन्तःस्थस्य विष्णुत्वनिश्चयः किमु तदोभयथापि बलवच्छ्रुतितोऽपीति भावेन सूत्रांशं प्रकारान्तरेण व्याचष्टे॥ ब्रह्मेति॥ नन्वेवं बलवच्छ्रुतिलिङ्गबलाद्विष्णुरेव चेदक्षिस्थस्तदादित्यस्थोऽपि स एव स्यात् तर्हि सोऽहमस्मि स एवाहमस्मीति श्रुतेः का गतिरित्यत आह॥ सोऽहमिति॥ अन्तर्यामिण्यहमादिशब्दवृत्तिं स्मारयति॥ अन्तर्यामिणमिति॥ एवं श्रुतेः सावकाशत्वेन तदनुयायिनो-रभ्यासार्थवादयोरपि सुतरां सावकाशत्वम्॥ १३॥

गुर्वर्थदीपिका

अक्ष्यादित्ययोरैक्यादित्यत्र प्रमाणीक्रियमाणश्रुतावादित्यपदेनाऽऽदित्यमण्डलं तद्गतं तेन तदभिमानी सूर्यश्च चक्षुःपदेन चक्षुरिन्द्रियं तदभिमानी देवो ऽक्षिणीत्यनेन चक्षुर्गोकं च गृह्यते। तामेव श्रुतिं प्रमाणीकुर्वता भाष्यकारेणाप्यक्ष्यादित्यपदाभ्यां त्रिकत्रिकं गृह्यते। एवमतिसाम्ये हि तत्र स्थितस्यात्रापि स्थितिराशङ्कितुं शक्या। नो चेत्पशुत्वेनेषद्गोसदृशे महिषेऽपि सास्नादिकं स्यात्। तत्राभिमानिमात्र-स्यैक्यसम्भवेऽपि तेजोमण्डलयोश्चैक्यायोगाद् एकविधत्वादित्युक्तम्। अत्राक्ष्यन्तस्थस्य विष्णोरन्यत्वे ‘‘तद्यथा पुष्करपलाश आपो न श्लिष्यन्त’’ इत्याद्युक्तविधया तज्ज्ञानान्मोक्षस्यापि प्राप्तेर्जन्मादिसूत्रोक्तं सृष्ट्याद्यष्टकर्तृत्वं न भगवत इति सङ्गतिसम्भवेऽपि कुतो वक्रमुद्राश्रयणमिति शङ्कां परिहरति। अत्रेति।

भावबोधः

ॐ अन्तर उपपत्तेः॥ ॐ॥ अग्निश्रुतिसाहित्येनेति। ‘ब्रह्मेन्द्रमग्निम्’ इति वाक्यगताग्निशब्दस्य विष्णुपरत्वेऽपि नैतत्प्रकरणगताग्निशब्दस्य विष्णुपरत्वम्। उपकोसलं प्रति विद्योपदेष्टृत्वादिना तस्य प्रसिद्धाग्निपरत्वावगमादिति भावः। श्रुत्यादिसङ्गतिमिति। अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अत्र ‘‘अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यत’’ इत्यनुव्याख्याने ततः परमित्यस्यानुवृत्तौ तदनुसारेण क्रिया-प्रधानकभावरूपविशिष्टविचाराद् विशेषणाच्चेति सूत्रगृहीताक्षरं ब्रह्मा‘‘भयं तितीर्षतां पार’’मिति श्रुत्युक्तपानकर्तृविशेषणरूपब्रह्मत्वाभयत्वेनेवात्रापि एतदमृतमभयमेतद्ब्रह्मेति श्रुतिग्राहकोपपत्तेरित्यनेन सिद्धान्तकरणाद्वेति द्रष्टव्यम्। अर्थाद् अक्षिस्थत्वमिति। अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणन्यायेनेति भावः। विष्णोरिति। अत्राक्षिस्थत्वं किमग्नेरुत विष्णोरिति चिन्ता। तदर्थम् ‘अथ हाग्नयः समूदिरे’ इत्यादिबह्वग्निश्रुतयः, ‘‘सोऽहमस्मि स एवाहमस्मी’’ति सावधारणाभ्यासः स य एतदेवमित्यर्थवाद उपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चेति विद्याभेदोक्तिरित्येतदग्निप्रापकं ब्रह्मात्मशब्दामृतत्वाभयत्वस्वसम्बन्धनिमित्तकचक्षुरसङ्गत्वापादकत्वलिङ्गप्रकरणरूपविष्णुप्रापकबाधकमुत तद्बाध्यमिति। तदर्धमग्निश्रुत्यादेर्निरवकाशत्वेन ब्रह्मशब्दादेः सावकाशत्वम् उत ब्रह्मशब्दादे-र्निरवकाशत्वेनाग्निश्रुत्यादेः सावकाशत्वमिति। तदर्थमग्निश्रुत्यादेः सावकाशत्वकल्पकमक्षिस्थस्याग्नित्वे बाधकं ब्रह्मशब्दादेर्निरवकाशत्वे प्रमाणञ्च नास्त्युतास्तीति। अग्नेरादित्यस्थत्वम् उच्यते। अत एवेति। अग्नेरादित्यस्थत्वस्योच्यमानत्वादेवेत्यर्थः। अनेन ‘अतो अक्ष्यादित्ययोरैक्यात्’ इति भाष्यस्थः ‘अतः’शब्दः सन्निहितेनैक्यादित्यनेनान्वेति। प्रकृतस्यात इत्यनेन परामृष्टस्यादित्यस्थत्वस्यैक्ये हेतुत्वायोगात्। किन्तु व्यवहितेनात्राप्यग्निरेवोच्यत इत्यनेनान्वेतीत्युक्तं भवति।

नन्वक्ष्यादित्ययोरैक्यादिति कथम् ? आदित्यमण्डलाक्ष्णोः परस्परभिन्नत्वेन प्रमितत्वात्। न च वाच्यमादित्याक्षिपदाभ्यां चेतनग्रहणेन ऐक्योपपत्तिरिति। ‘स्थानादिव्यपदेशाच्च’ इति सूत्रानानुगुण्यात्। तत्र हि स्थानत्वेनोक्ताक्ष्णोर्जडत्वेनाभिप्रेतत्वात्। ‘य एष आदित्ये पुरुषः’ ‘स एषोऽन्तरक्षिणि पुरुष’ इति वाक्यद्वये आदित्याक्षिगतस्य पुरुषपदेन चेतनत्वोक्त्या तयोर्जडत्वेनाभिप्रेतत्वाच्चेत्यत आह– अक्ष्यादित्ययोरेकविधत्वादिति। ‘स आदित्यस्त्रिवृत् त्रिवृदिति लोहितशुक्लकृष्णं कनीनिका’ इति श्रुत्यनुसारेण जडभूतादित्यमण्डलाक्ष्णोरेव त्रिवृत्त्वधर्मयुक्तत्वेन एकविधत्वात् ‘आदित्यश्चक्षुः’ इति श्रुतौ आदित्यचक्षुःपदयोश्चेतनपरत्वेनाऽऽदित्यमण्डलस्थचेतनस्य जडाक्षिप्रवेशोक्त्या जडाक्ष्यादित्यमण्डलयोरेक-चेतनाधिष्ठितत्वरूपधर्मेणैकविधत्वाद्वेत्यर्थः॥ अनेनैतदपि परास्तम्। यदादित्याक्ष्णोरेकविधत्वे तयोर्भेदादादित्यस्थत्वेऽक्षिस्थत्वासिद्धिरित्यत आह आदित्यस्थत्वेनाक्षिस्थत्वसिद्धिरिति। ऐक्याभिप्राये आदित्यस्थितत्वमेवाक्षिस्थत्वं यत इत्यवक्ष्यत्। गार्हपत्योऽनुशशासेत्यादीति। आदित्यपदेनाथ हैनमन्वाहार्यपचन अथ हैनमाहवनीय इत्यादिग्रहणम्। एतत्प्रकरणेत्यादिना अपूर्वतायाः प्रबलत्वादित्यन्तेन ग्रन्थेन ‘सोऽहमस्मि’ ‘स एवाहमस्मि’ इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योऽपीति न्यायविवरणं व्याख्यातं भवति। न्यायविवरणे सहितशब्दस्वारस्येन श्रुतीनामेव पूर्वपक्षसाधकत्वम्, अभ्यासार्थवादयोस्तु श्रुतिबाधकसमाख्यादिबाधकत्वेन श्रुत्युपोद्बलकत्वं प्रतीयते। अन्यथा तद्वैयर्थ्यं स्यादित्यभिप्रेत्य श्रुतिसद्भावाच्चेत्युक्त्वा तदुपमर्दकत्वेन समाख्यामाशङ्क्य तद्बाधकत्वेनाभ्यासमभिधाय तद्विघटकत्वेना-पूर्वतामुत्थाप्य तन्निरासकत्वेनार्थवाद उक्त इत्यवधेयम्। न्यायविवरणगतादिपदेन ‘उपवयं तं भुञ्जाम’ इति ‘कुशलं नः पर्यचचारीद्धन्तास्मै प्रब्रवाम’ ‘उपवयं तं भुञ्जाम’ इत्याद्यभ्यासान्तरग्रहणम्। यतो अग्निरक्षिस्थोऽतस्तज्ज्ञानान्मोक्षोऽपि भवेदित्यादि। अनेन भाष्येऽतोऽग्निज्ञानादेव मोक्ष इत्यपि सम्बन्धः। ‘अतः’ इति बलात् ‘यतः’ इत्यादेरर्थतो लाभः। तयोर्हेतुहेतुमद्भावसमर्थनार्थं तद्यथेत्यादि समग्रं भाष्यमित्युक्तं भवति। मोक्षस्यापि तदन्यथानुपपत्त्यैवेति। मोक्षं विना सर्वपापाश्लेषासम्भवादिति भावः। वक्रसङ्गत्येति। ‘य एष आदित्ये पुरुषः’ ‘य एषोऽन्तरक्षिणि पुरुष’ इत्यनयोर्वाक्य-योरादित्यश्चक्षुर्भूत्वेति श्रुत्या एकार्थत्वमुपपाद्य ‘य एष आदित्यः’ इति वाक्यस्य ‘यश्चासावादित्य’ इति वाक्येन सङ्गत्या तदर्थार्थिक य एषोऽन्तरक्षिणि इति वाक्यस्यापि तेन सङ्गतिरित्येवं वक्रसङ्गत्यर्थः। आदित्यस्थत्वलिङ्गसमन्वयसिद्ध्यप्रयोजकत्वे ‘नेतरोऽनुपपत्तेः’ इत्यादौ विष्णुज्ञानान्मोक्ष इत्युक्तः। स मोक्षस्तद्यथा पुष्करपलाश इति वाक्येन य एषोऽन्तरक्षिणि इत्युक्ताक्षिस्थज्ञानात् प्रतीयत इति ऋजुसङ्गत्यैवाधिकरणमारभ्यत इति भावः॥

ननूक्तरीत्या ऋजुसङ्गत्याऽधिकरणारम्भेऽपि पूर्वपक्षेऽग्नेरेव अक्षिस्थत्वे आदित्यस्थत्वस्य हेतुत्वेनोपादाने सिद्धान्ते तस्य विष्णुनिष्ठत्वस्य समर्थनीयत्वात् तस्यापि समन्वयसिद्धिरिति चेत्, न; पूर्वपक्षहेतोः सिद्धान्तिना सावकाशत्वाद्युक्त्या विरोधस्य वक्तुं शक्यत्वेन समन्वय एव वक्तव्य सति नियमाभावात्। न हि सावकाशत्वमेव समन्वयः; तस्य लक्षणादिवृत्त्यन्तरेणापि सम्भवेन समन्वय-रूपत्वाभावादिति भावः। अत एव समन्वयसिद्ध्यर्थमित्युक्तम्॥

ननु भाष्ये ‘य एष आदित्ये पुरुषः’ इत्यग्नेरेव आदित्यस्थत्वमुच्यत इति वक्तव्यम्। अक्ष्यादित्ययोरैक्यादिति आदित्यस्थत्वस्यैवाक्षिस्थत्वसाधकत्वेनाभिमततया तदुक्तेरेव प्रकृतसङ्गतत्वात्। आदिपदद्वयं बहुवचनञ्च व्यर्थम्। न च ‘अथ हैनमन्वाहार्यपचनः‘ ‘अथ हैनमाहवनीयः’ इति वाक्यद्वयसङ्ग्रहाय प्रथमादिपदमन्वाहार्यपचनाहवनीययोः सङ्ग्रहायाग्नीनामेवेति बहुवचनम्। चन्द्रविद्युतोः सङ्ग्रहार्थं द्वितीयादिपदमिति वाच्यम्। चन्द्रविद्युतोरक्ष्णैकविधत्वाभावेनाऽन्वाहार्यपचनाऽहवनीय-योरन्तःस्थत्वाक्षिस्थत्वसाधकाभावेन प्रकृतानुपयुक्तत्वादित्यत आह अग्नीनामिति बहुवचनमादिपदद्वयं चेति। अग्नेरक्षिस्थत्वसाधकत्वेन ‘अथ हाग्नयः’ इत्येतत्प्रकरणगतगार्हपत्यान्वाहार्यपचनाहवनीयादि-रूपबह्वग्निश्रुतीनां सूचनार्थमेव बहुवचनादिपदद्वयप्रयोगः, न तूक्ताभिप्रायेणेति भावः। एतदमृतमभय-मितीति भाष्ये उपपत्तेर्निरवकाशत्वोक्त्यैव पक्षनिष्ठत्वं लभ्यत इति तन्नोक्तमिति ज्ञातव्यम्। दिवीत्यादि-पदोक्तश्रुत्युदाहरणमभयं तितीर्षतां पारमिति। तस्यैवेत्येवकारार्थविवरणं न चाग्नेरमृत्वाद्युपपद्यत इत्यादि। निरवकाशोपपत्तेरेव प्राबल्यमिति न्यायविवरणे उपपत्तेरेव किमु निरवकाशब्रह्मात्मशब्दसहिताया इति कैमुत्यप्रदर्शनार्थमेवकार इत्यभिप्रेत्य तदनुसारेण ब्रह्मात्मशब्दाद्युपपत्तेरिति भाष्यमवतारयति– यदैवमित्यादिना। किमु तदोभयथापीति। श्रुतेर्जात्या प्राबल्यमपिशब्दार्थः। एष आत्मेत्यात्मशब्दमादाय श्रुतेरुभयथापीत्यनेन सूचितमनेकत्वं द्रष्टव्यम्। अत एव भाष्ये ब्रह्मशब्दादीत्यादिपदं प्रयुक्तम्। ब्रह्मात्मशब्दयोर्निरवकाशत्वं तु प्रागेव तत्र तत्रोपपादितमिति भावः। अन्तर्यामिणमिति स्मृतौ ईशेश-मित्यन्तर्यामित्वोपपादनम्। सति भेदेऽपि वस्तुष्वित्यनेन अहमादिपदप्रयोगेणाभेदो निमित्तमित्यु-पपादितमिति ज्ञातव्यम्।

भावदीपः

ॐ अन्तर उपपत्तेः ॐ॥ अग्निश्रुतीति॥ सा चानेकरूपाऽग्रे व्यक्ता। उच्यत इत्यन्तं भाष्यं सङ्गतिपरतत्वेन व्याचष्टे॥ यश्चेति॥ अक्ष्यादित्ययोरैक्यादित्युक्तिलब्धमर्थमाह॥ ततश्चेति॥ अर्थादिति॥ द्वयोरेकदेवताधिष्ठानत्वेनाऽऽदित्यस्थस्यैवाक्षिस्थत्वादेकत्रोक्तावन्यत्राप्युक्तिरार्थिकीत्यर्थः। इत्यत्राप्यग्निरेवोच्यत इत्यस्य तात्पर्योक्तिश्छन्दोगेति। चतुर्थेऽध्याय इति योज्यम्। कस्यचिद् अग्नेः। कुत्रेत्यतो य एष आदित्य इत्यादिपूर्वभाष्यमिति मत्वा तदुदाहरति॥ य एष इति॥ दृश्यते दिव्य-दृष्ट्या ज्ञानिभिरित्यर्थः। उवाच उपकोसलाय सत्यकामः। भाष्ये दृश्यत इत्यन्तोक्तावपि शेषोक्तिः सिद्धान्तोपयोगित्वायेति भावः। कथं प्रतीयत इत्याकाङ्क्षायां य एष आदित्य इत्यादिवाक्येन तत्प्रकारोक्ति-र्वक्ष्यमाणादिशा सुज्ञानेति। य एष इत्यादेरैक्यादित्यन्तस्य तात्पर्यमाह॥ तच्चेति॥ य एषोंऽतरक्षिणीति वाक्योक्तमक्षिस्थत्वं च य एष इत्यादिभाष्यवाक्यलब्धादग्नेरक्षिस्थत्वेनोच्यमानत्वाद्धेतोर्यद्यग्नेः स्यादित्यर्थः। उक्तमित्यन्तवाक्यतात्पर्यमाह॥ तदेति॥ इति सङ्गतिसम्भवादवश्यं निर्णेयमित्यर्थः। ननु पूर्वत्र यश्चासावादित्य इत्यादित्यस्थत्वं नाम विष्णोरादित्यदेवतास्थत्वम्। यदाहुस्तद्भाष्ये ‘‘स विष्णुस्सर्वजीवेषु नृषु देवेषु च स्थितः। एक एवे’’त्यादि। उक्तं च प्राग्भेदव्यपदेशाच्चेत्यत्र स यश्चायमित्यानन्दमयस्या-पकृष्टोत्कृष्टजीवेषु पुरुषादित्यपदोपलक्षितेषु स्थितिकथनादिति। तथा चार्थादापद्यमानमक्षिस्थत्व-मप्यक्षिदेवतास्थत्वमेव स्यात्। अत्र चाक्षिस्थत्वं नामाक्षिगोलकस्थत्वं य एष आदित्य इत्यादित्यस्थत्वमप्यादित्यमण्डलस्थत्वमेवेति अक्ष्यादित्ययोरेकविधत्वादित्यादिवक्ष्यमाणटीकावाक्या-देवावसीयते। तथा च कथमन्यस्याक्षिस्थत्वे प्राचीनमप्यन्यत्स्यादिति पूर्वपक्षे तदाक्षेपः सिद्धान्ते चात्राक्षिस्थत्वं विष्णोश्चेत् प्राचीनमपि विष्णोरेवेति समाधानं चेति चेदत्राहुः। वक्ष्यमाणदिशा वामनिभामनिशब्दोक्तसर्वस्त्रीपुंसप्रेरकत्वेनाग्नेस्तत्तदक्षिस्थत्वे स एव पूर्वत्राप्युक्तादित्यमण्डलस्थ आपन्न इति तेनैवोपपत्तौ तत्रस्थतया किमीश्वरेण इत्याक्षेपे वक्ष्यमाणयुक्तिभिरन्यस्य केवलस्य प्रेरकत्वानुपपत्त्या चाक्षिस्थस्य विष्णुत्वे प्रागादित्यमण्डलस्थोऽप्यक्ष्यादित्यदेवतास्थोऽपि स एवेति सिद्ध्यतीति। अन्ये तूपनिषद्भाष्यादावादित्यादेरभिमानिदेवतात्वोपगमेन तत्स्थत्वार्थोक्तावप्यत्र भाष्ये सर्वश्रुतावादित्यादिपदेन मण्डलादिजडमेव पूर्वोत्तरपक्षयोरुपेत्याऽऽक्षेपसमाधी। यथोत्तरनये य आत्मनि तिष्ठन्नित्यादावात्मादि-शब्दस्य तदभिमानिचतुर्मुखरूपार्थस्य बृहद्भाष्योक्तत्वेऽपीह भाष्ये जीवार्थत्वमेवोपेत्य जीवान्तर्यामिणो भेदोक्तिर् भेदेनैनमिति सूत्रे तथाऽत्रापि। पूर्वटीका तु पुरुषपदोक्तजीवाभिप्राया। अत एव तत्र स यश्चायं पुरुष इत्येव भाष्योक्तिरित्याहुः। चन्द्रिकायां तु तत्वप्रदीपादिप्राचीनटीकारीत्या आदित्यादि-पदानाम् आदित्यादिदेवतार्थत्वमेवोपेत्य अग्नेरक्षिदेवतास्थत्वे प्राचीनादित्यदेवतास्थोऽपि स एवेत्याक्षेपे अक्षिदेवतास्थस्य विष्णुत्वादादित्यदेवतास्थोऽपि स एवेति समाधिरिति सङ्गतिरुपपादिता। सङ्गतिपरतया व्याख्यातमेव भाष्यं पूर्वपक्षतद्युक्तितत्फलोक्तिपरतयाऽपि व्याकुर्वन् तत्राप्यग्निरेवोच्यत इति प्रतिज्ञार्थं तावदाह॥ य एषोऽन्तरक्षणीति॥ कुत इत्यत आदित्यस्थत्वादिति भावेन प्रवृत्तस्य य एष आदित्य इत्यादेरत इत्यन्तस्य भाष्यस्यात इत्युक्ता यत इत्यध्याहृतार्थमाह॥ यत इति॥ भाष्ये युक्तिसूचनायाग्नीनामित्युक्तावप्याकाङ्क्षाक्रमेण तद्व्याख्यातुं श्रौताहमादिपदस्थैकवचनानुरोधेनाग्नेरित्युक्तम्। श्रुतौ स एवेत्युक्तेरग्नेरेवेत्युक्तम्॥ अत एवेति॥ अग्नेरादित्यस्थत्वादेवेत्यर्थः। अक्ष्यादित्ययोरैक्यादिति वाक्यमक्षिस्थोऽग्निरित्यत्रादित्यस्थत्वस्यैव हेतुत्वोपपादकत्वेन व्यावर्त्यशङ्कापूर्वं व्याचष्टे॥ न च वाच्यमिति॥ आदित्य आदित्यमण्डलाभिमानी चक्षुः रूपान्तरेण चक्षुर्देवता भूत्वा अक्षिणी गोलके प्राविशदित्यैतरेयश्रुतावादित्यमण्डलस्य यद्देवताकत्वं चक्षुर्गोलकस्यापि तद्देवताकत्वरूपैकविधत्वोक्तेरित्यर्थः। भाष्यस्थैक्यपदमेकविधत्वपरम्। अक्ष्यादित्यपदे तु जडपरे इति भावः। तत्वप्रदीपे तु तयोस्तदभिमानि-चेतनत्वमुपेत्यैक्यपदं तद्देवतैक्यपरत्वेन यथाश्रुतमेव व्याख्यातम्। अस्त्वग्नेरेवादित्यस्थत्वं तथाप्याग्निशब्द एव विष्णुपरोऽस्त्वित्यतस्तस्याग्निपरत्वे सोऽहमस्ति स एवाहमस्मीत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्य इति न्यायविवरणमनुसृत्याग्नीनामिति भाष्यस्थबहुवचनसूचितयुक्तिमाह॥ एतस्मिन्निति॥ बहुश्रुतिभ्य इत्यत्र बहुवचनान्तश्रुतिभ्यो बह्वग्निश्रुतिभ्य इत्यर्थद्वयमुपेत्य भाष्यमपि तथा द्व्यर्थमिति मत्वा अग्नय इति गार्हपत्य इति चोदाहृतम्। बह्वग्नीत्यपि बहुवचनान्ताग्निश्रुतिसद्भावाद्गार्हपत्यादिबह्वग्निश्रुति-सद्भावादित्यपि द्वेधा व्याख्येयम्। आदिपदेनाग्नीन्परिचचार। कुशलं नः पर्यचचारीत्। उप वयं तं भुञ्जाम इत्यादि पूर्वत्र। अथ हैनमन्वाहार्यपचनोऽनुशशास य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीत्युत्तरत्र वाक्यं गृह्यते। अत एव भाष्ये य एष चन्द्रमसि य एष विद्युतीत्यादि वाक्य-द्वयोपादानाय चन्द्रादित्यस्थत्वोपादानाय चादिपदद्वयं तदुक्तिस्तु यथान्वाहार्यपचनाहवनीययोश्चन्द्र-विद्युत्स्थत्वं तथाऽस्यापि गार्हपत्यस्याऽऽदित्यस्थत्वमिति दृष्यान्तत्वेनेति बोध्यम्। भाष्ये द्विरुक्तिसूचितां न्यायविवरणे कण्ठोक्तामभ्यासरूपयुक्तिं व्यावर्त्यशङ्कापूर्वमाह॥ न चेति॥ अग्नेरादित्यस्थत्वकथन-मिति॥ आदित्यस्थत्ववति विष्णावग्निप्रयुक्ताहंशब्द औपचारिक इत्यर्थः। शास्त्रदृष्ट्येत्युक्तमुख्यत्वाच्छा-दनेनेयमुक्तिर् अन्तर्यामिणमित्यग्रे स्मृत्युक्तेस् तद्व्यावर्त्योक्त्यर्था। अत एव स्मारयतीति वक्ष्यति॥ यश्चेति॥ स यश्चायं पुरुषे यश्चसावादित्ये स एक इति तैत्तिरीये विष्णोरेवाऽऽदित्यस्थत्वोक्तेरिति भावः॥ बलवत्त्वादिति॥ स्थानान्तरस्थसमाख्यापेक्षया एकस्थानस्य शीघ्रोपस्थितिकत्वादिति भावः॥ न्यायविवरणोक्तमर्थवादसाहित्यं व्यावर्त्यशङ्कापूर्वमाह॥ न चेति॥ अपूर्वतयेति॥ अत्यलौकिक-विष्णुग्रहणे अग्निग्रहणादप्यपूर्वं लभ्यत इत्यपूर्वतयेत्युक्तम्। अपहते अपहति वस्तुतः फलवत्वमेव फलं न फलस्योक्तिः। सा तु अर्थवाद इति मत्वाऽर्थवाद इत्युक्तम्। एवंरूपाल्पफलेन स्तुतिर्ब्रह्मणि न युक्तेति भावः॥ प्राबल्यादिति॥ तद्बीजस्य समन्वयसूत्रेऽभिधानादिति भावः। इत्यत्राप्यग्निरेवोच्यत इति प्रतिज्ञातार्थमुपसंहरति॥ अत इति॥ अभ्यासार्थवादसहितबह्वग्निश्रुतिसत्त्वादित्यर्थः। इत्यत्रापीति भाष्यस्थापिपदार्थोक्तिरादित्येति। एतत्प्रकरणानन्दमयप्रकरणयोर्विद्यमानत्वादित्यर्थः। तेनोक्तमित्यन्तभाष्यवाक्यस्यापि फलपरत्वेन तात्पर्यमुक्तं ध्येयम्। तद्यथेति वाक्ये विष्णुलिङ्गश्रवणाद् विष्णुरेवाक्षिस्थः किं न स्यादित्यतो वा अग्नौ समन्वये फलाभावादित्यतो वा प्रवृत्तमतस्तद्यथेत्यादिभाष्यम्। इदमेवैतत्पूर्वपक्षफलमिति भ्रान्तिं निरस्यन्नवतारयति॥ न केवलमिति॥ इति मतमिति॥ ‘‘जन्माद्यस्य यतः’’ ‘‘तन्निष्ठस्य मोक्षोपदेशात्’’ ‘‘नेतरोऽनुपपत्तेः’’ इत्यादिसूत्रेष्वभिमतमित्यर्थः॥ मोक्षोऽपीति॥ न केवलमानन्दमयत्वमित्यपेरर्थः। अनुक्तस्योपपादनायोगादुपपत्तिरित्युक्त्या ज्ञानान्मोक्षो भवेदिति लभ्यते। आदित्ये विष्णुरित्युक्तमित्यनेनाग्नेरानन्दमयत्वप्राप्तिरूपफलस्य सूचनादपीति लब्धमिति भावः। इदानीं यथान्यासं भाष्यं योजयति॥ तद्यथेतीति॥ ननु विष्णुज्ञानान्मोक्ष इति प्रागुक्तमयुक्तम्। तद्यथेत्यत्राक्षिस्थाग्निज्ञानान्मोक्षश्रवणादिति ऋजुसङ्गत्या एतदारम्भसम्भवाद् आनन्दमयस्य आदित्यस्थत्व-मुक्तं ततश्चार्थादक्षिस्थत्वमप्युक्तं तदक्षिस्थत्वं च्छान्दोग्ये अग्नेः श्रूयत इति प्रागुक्तमादित्यस्थत्वम् आनन्दमयत्वं च तस्यैवेति वक्रसङ्गत्या एतदारम्भः किमर्थ इत्यत आह॥ अत्रेति॥ वक्राश्रयणे हि अत्राक्षिस्थत्वसमन्वये प्राचीनमादित्यस्थत्वमपि विष्णोरेव सिद्ध्यति नान्यथेत्यर्थः। अधिकं चन्द्रिकायाम्। आदित्यस्थत्वलिङ्गस्यापि विष्णौ समन्वयसिद्ध्यर्थमित्युपलक्षणं पूर्वपक्षोत्थानार्थं चेत्यपि ध्येयम्। आदित्यवाक्य इवाक्षिवाक्ये पूर्वपक्षप्रापकस्यापि अभानाद् भाष्ये अग्नीनामिति बहुवचनम् आदिपदद्वयं त्रायाणामग्नीनामक्षिस्थत्वप्रदर्शनार्थमुक्तमिति भ्रान्तिं निराह॥ अग्नीनामितीति॥ अथ हैनं गार्हपत्योऽनुशशास। य एष आदित्ये पुरुष इत्यादेः, अथ हैनमन्वाहार्यपचनोऽनुशशास। य एष चन्द्रमसि पुरुष इत्यादेः, अथ हैनमाहवनीयोऽनुशशास य एष विद्युति पुरुष इत्यादेः श्रवणाद् गार्हपत्यादीनां त्रयाणां क्रमेणादित्यादित्रयस्थत्वमुच्यते तथा च प्रसिद्धगार्हपत्त्यस्यैवादित्य-स्थत्वादक्षिस्थत्वमिति प्रदर्शनार्थं न तु त्रयाणामप्यादित्यस्थत्वद्वाराऽक्षिस्थत्वोक्त्यर्थमित्यर्थः॥ छ ः॥

भाष्ये विप्रतिपन्नचक्षुरन्तःस्थत्वमात्रस्यान्तरक्षिणीति श्रुत्यनुरोधेन चक्षुरन्तःस्थ इत्युक्तावपि सूत्रे ‘‘अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः। रमणं चात्मशब्देनादेयं मातीति चोच्यत’’ इत्यनुभाष्योक्तदिशाऽऽत्मशब्दार्थसङ्ग्रहाय अन्तर इत्युक्तम्। अत एव भाष्ये अमृतत्वादीत्येव हेतूक्तिरिति मत्वा सूत्रभाष्ययोरर्थमाह॥ विष्णुरेव चक्षुरन्तर इति॥ भाष्येऽप्यन्तस्थो रमणकृदित्यपि योज्यमिति भावः। यद्वाऽनुभाष्येंऽतर इत्यस्यान्तःस्थित्वा रमणकृदित्यर्थोक्तावपीह भाष्येऽग्रे ब्रह्मशब्दादीत्यादि-पदेनात्मशब्दस्यापि हेतूकरणायान्तरत्वमन्तःस्थत्वमात्रं विवक्षितम्। चक्षुरन्तःस्थ इति भाष्यसूत्रावि-संवादाय टीकायां विष्णुरेव चक्षुरन्तर इति व्याख्येयं दर्शितं ज्ञेयम्। अत एव सङ्क्षेपभाष्ये पूर्णानन्दोंऽतर इत्यन्तरनयार्थेऽन्तर इत्युक्तिः। तत्वप्रदीपे तु अन्तरशब्देन अन्तःस्थो विवक्षित इत्याद्युक्तम्। सूत्रे भाष्ये च लिङ्गादित्यनुक्त्वा उपपत्तेरित्युक्तिर्लिङ्गनिरवकाशत्वाय। न चानुक्तस्य लिङ्गस्य तदुक्तिर्युक्तेति तल्लब्धं हेतुमाह॥ एतदमृतमिति॥ तन्निरवकाशत्वोक्तिपरतया सूत्रशेषभाष्यं व्याचष्टे॥ अमृतत्वादेश्चेति॥ इत्यादिनेत्यादिपदोक्तं दर्शयन् हेतावियं तृतीयेत्याह॥ त्रिपादिति॥ पूरुषसूक्ते। अभयमिति काठके। भाष्ये तस्यैवेत्युक्तिलब्धमन्यत्रानवकाशत्वं व्यनक्ति॥ न चेति॥ तत्र हेत्वाकाङ्क्षायाम् इत्यादिनेति भाष्यस्थादिपदेनोपात्तं वाक्यं म्रियन्ते पञ्चदेवता इति ऋग्भाष्यं हृदि कृत्वा प्रकारान्तरेणाऽऽह॥ परिम्रियन्त इति॥ ऐतरेयब्राह्मणे तमेताः परीति। लक्षणे कर्मप्रवचनीयस् तेन कार्यब्रह्मणा निमित्तेनेत्यर्थः। ऋग्भाष्यटीकायाम् एष वै ब्रह्म योऽयं पवते तमेता इति पूर्ववाक्यो-दाहरणेन वायुपरतया व्याख्यानात्। भीषेति तैत्तिरीये भीषा भयेन अस्मादस्य। भायादस्याग्निरिति श्रुत्यन्तरात्। एतेनाभ्यासार्थवादसहितश्रुतिभ्यो निरवकाशोपपत्तेरेव प्राबल्यमिति न्यायविवरणोक्तं लिङ्गनिरवकाशत्वं विवृतं ध्येयम्। नन्वेवं तद्विरोधोऽग्रेतनभाष्यस्येत्यतो निरवकाशोपपत्तेरेव प्राबल्यमित्येवकारार्थं व्यञ्जयन्नवतारयति॥ यदेति॥ उभयथापीति॥ निरवकाशत्वानेकत्वाभ्यामित्यर्थः। निरवकाशत्वं च प्रागेवोक्तमित्याशयः। आदिपदेनात्मशब्दो ग्राह्यः। किमित्येवकारार्थोक्त्या तद्विरोधोऽपास्त इति भावः। श्रुतितोऽपीत्युक्त्या जात्यापि प्राबल्यं सूचयति॥ बलवच्छ्रुतीति॥ कुशलं न इत्यादाविव वक्तरि स्वरसस्याहंशब्दस्यान्यपरत्वमन्याय्यमिति शङ्कानुत्तये हेत्वंशानुवादः। आदित्यस्थत्वलिङ्गस्यापि समन्वयार्थमित्युत्तरवाक्यसङ्गत्यर्थमनुवादेन व्यनक्ति॥ तदादित्यस्थोऽपीति॥ श्रुतेरग्निप्रयुक्ताहंशब्दस्य शास्त्रदृष्टिसूत्र एवोक्तत्वादाह॥ स्मारयतीति॥ स्मारणं च पूर्वोक्ताज्ञानेनौप-चारिकमिति शङ्कितत्वात्कृतम्। स्मारयति स्मृत्या दर्शयतीति वाऽर्थः। स्मृतावीशेशमिति स्वातन्त्र्यरूप-निमित्तोक्तिः। सर्वशब्दा भूतानि विष्णुर्भुवनानि विष्णुः प्राणः सर्वाणि भूतानि मनुरभवमित्यादि-स्थभूतमन्वादिशब्दा नाभेदनिमित्तेनेत्याह॥ सतीति॥ एतेन निरवकाशोपपत्तेरेवेत्युक्तिलब्धमभ्या-सार्थवादयोः सावकाशत्वं भाष्ये व्यक्तीकृतमनुवादेन दर्शयति॥ एवं श्रुतेरिति॥ अग्निप्रयुक्ताहं-शब्दस्येत्यर्थः। सोऽहमस्मीत्यादिभाष्यस्थादिपदार्थोऽभ्यास इत्यादि। एतत्प्रकरणश्रुताग्निगार्हपत्यादि-शब्दानां प्रसिद्धाग्निपरत्वेऽप्यग्निप्रयुक्ताहंशब्दस्याग्न्यन्तर्यामिपरत्वेनाग्निश्रुतित्वाभावात् तद्घटितोऽभ्यासोऽर्थ-वादश्च तदन्तर्यामिनिष्ठ इत्यर्थः। अहमादिपदानामन्तर्यामिणि प्रवृत्तिपक्रारं प्रागेवावोचाम॥ १३॥

अभिनवचन्द्रिका

किमुदाहरणम्। किं चक्षुरन्तस्थत्वम्, आहोस्विद् रमणकर्तृत्वमपि। किं चान्तः, यद्याऽऽद्यस् तर्हि श्रुत्यनुसारित्वाय अन्तरुपपत्तेरित्येवं सूत्रं स्यात्। लघु चैवं सति सूत्रं भवति ‘अन्तः स्थित्वा रमणकृदन्तरः समुदाहृत’ इत्यनुव्याख्यानविरोधश्च। अत्र अन्तस्थत्वमिव रमणकर्तृत्वस्याप्युदाहरण-त्वोक्तेः। अथ द्वितीयः – तर्हि अन्तर इत्यस्य ढ्रलोपे पूर्वस्य दीर्घेऽणः (पा.सू.६-३-१११) इति दीर्घः प्राप्नोति। रमणकर्तृत्वस्य श्रुतावनुपलम्भश्च दोषो भवति। ‘य एषोऽन्तरक्षिणी’ (छ.१-४-१५)ति विषयवाक्ये अन्तस्थत्वरूपभावस्यैवाऽभिधानेन रमणकर्तृत्वानभिधानादिति चेत् – अत्र द्वे दर्शने – अत्राधिकरणे अन्तस्थत्वरूपभावसमन्वयोऽभिधीयत इत्येकम्। अन्तः स्थित्वा रमणकर्तृत्वं समन्वीयत इत्यपरम्। आद्यं भाष्याभिमतम् ‘चक्षुरन्तस्थो विष्णुरेवे’त्यभिधानात्। यद्यपि ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ इति श्रुतौ अन्तःशब्द एवास्ति न त्वन्तरशब्दः, तथापि अन्तःशब्द-मात्रस्याऽसमन्वेतव्यत्वात् ‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’ इति समुदायलभ्यस्याऽन्तस्थत्वलिङ्गस्य वाचको ऽन्तरशब्दः सूत्रे निर्दिष्टः। अन्तःशब्दोपपदादस्तेः क्विपि निर्वचनत्वाद्धातुसमाकारलोपे अन्तर इति रूपम्। द्वितीयं तु – अनुव्याख्यानाभिमतम्।

‘अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः’ इत्यभिधानात्। अत्र च यद्यपि श्रुतौ रमणकर्तृत्वं स्पष्टं न प्रतिभाति, तथापि आत्मशब्देन तदुक्तमिति न श्रुतावनुपलम्भदोषः। तदुक्तम् – ‘रमणं चाऽऽत्मशब्देनाऽऽदेयं मातेति चोच्यत’ इति। आङ्पूर्वाद्ददातेर्मन्यतेश्च क्विप्। द्वयोः क्विपोः सर्वापहारिलोपः। तत्र ददातेराकारलोपः दकारस्य तकारो निर्वचनत्वात्। एवं च आद् आदेयं सुखं, सुखसाधनं च मन्यते अनुभवतीत्यात्मेति रमणकर्तृत्वमात्मशब्दार्थ इति द्रष्टव्यम्। सौत्रत्वान्निर्देशस्य ‘अन्तर उपपत्ते’रित्यत्र ढ्रलोप इति दीर्घाभावः। अर्थादिति॥ आदित्यस्याक्षिस्थत्वाद् आदित्यस्थत्वोक्तौ अक्षिस्थत्वमप्युक्तं भवति। यथा ‘मञ्जूषायां मणिमाले’त्युक्त्या गृहस्थत्वमुक्तं भवतीति भावः। अनेन आनन्दमयाधिकरणप्रतिपाद्यैतदधिकरणप्रतिपाद्ययोर् अक्षिस्थत्वेन प्रतीयमानत्वम् अस्याधिकरणस्य पूर्वाधिकाणतच्छ्रुतिभ्यां सङ्गतिरित्युक्तं भवति। तच्च यद्यन्यस्य स्यादिति॥ यदि – छान्दोग्योक्तम् अक्षिस्थत्वमन्यस्य स्यात्तदा तैत्तिरीयश्रुत्युक्तमादित्यस्थत्वम्, आनन्दमयत्वं चाऽन्यस्यैव प्रसज्यत इति बुद्धिः स्यादित्यर्थः। ननु भाष्ये ‘य एष आदित्ये पुरुष’ (छा.४-११) इति श्रुत्युक्ताऽऽदित्य-स्थस्याग्नित्वेन पूर्वपक्षाभिधानमयुक्तम्। अक्षिस्थस्य विषयत्वेन, आदित्यस्थस्य विषयत्वाभावादित्यत आह– य एषोऽन्तरक्षिणीति॥ कुतस्तर्हि भाष्ये ‘य एष आदित्ये पुरुषः’ इति अग्नीनामादित्य-स्थत्वाभिधानमित्यत आह – यत इति॥

अक्षिस्थस्य अग्नित्वसिद्धौ आदित्यस्थत्वं हेतुरिति भावेन ‘य एष’ इति वाक्ये अग्नेरादित्यस्थत्वेन प्रतिपाद्यत्वकथनमिति भावः। नन्वेवं तर्हि भाष्ये अग्नेरादित्यस्थत्वादित्युक्त्या भवितव्यम्। लिङ्गस्य पञ्चम्यन्तशब्देनैव प्रतिपादनीयत्वादित्यत उक्तम् – यतोऽत एवेति। इदमुक्तं भवति – भाष्ये – अतः शब्दः श्रूयते। तेन यत इति लभ्यते, अग्नीनामादित्यस्थत्वमित्यस्य हेतुत्वं लभ्यत इति हेतुत्वद्योतक-पञ्चमीप्रयोगाभावो न दोषाय। ‘यतो धूमस्ततो वह्नि’रित्युक्ते पञ्चम्यन्तयत्तच्छब्दसमभिव्याहारबलेन धूमादिति पञ्चमीप्रयोगफलदर्शनादिति भाव इति। अप्रयोज कत्वमाशङ्क्य निषेधति – न च वाच्य-मिति। आदित्यश्चक्षुर्भूत्वेति॥ अत्र टीकायां ‘अक्ष्यादित्ययोरेकविधत्वा’दिति न पाठः, अपि तु एकत्वादिति पाठः। अवश्यं चैतदेवं विज्ञेयम् – ‘आदित्यश्चक्षुर्भूत्वे’(ऐ.आ.२-४)ति गोलकान्तर्गताक्षि-शब्दवाच्यदेवतातादात्म्ये प्रमाणस्योदाहृतत्वात्। अन्यथा – अक्ष्यादित्ययोरेकविधत्वे किञ्चित्प्रमाण-मुदाहरेत्। ततश्चैवं योजना – ‘आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविश’दिति प्रमाणबलेन आदित्यस्य अक्ष्यन्तर्गतचक्षुषा तादात्म्यादादित्यस्थितत्वेन लिङ्गेन अग्नीनामक्षिस्थितत्वं सिध्यति। अत्रायं प्रयोगो द्रष्टव्यः – अग्नयो ऽक्ष्यन्तर्गताः, अक्ष्यन्तर्गतचक्षुःशब्दाभिधेयाऽऽदित्यान्तर्गतत्वात्। यो यदन्तर्गतान्तर्गतः स तदन्तर्गतः। यथा गृहान्तर्गतमञ्जूषाऽन्तर्गतो मणिर् गृहान्तर्गत इति। एतेन – अक्ष्यादित्ययोरैक्यादिति भाष्योक्तेः, ‘अक्षीन्द्रियप्रेरकादित्ययोर् ऐक्या’दिति तत्वप्रदीपोक्तेश्च, ‘अक्ष्यादित्ययोरैक्यस्यानेक-श्रुतिसिद्धत्वा’ दिति सत्तर्कदीपावल्युक्तेश्च, विरुद्धत्वाद् अक्ष्यादित्ययोरेकविधत्वाभिधानमयुक्तमिति परास्तम्। ‘एकविधत्वा’दिति पाठस्य लेखकप्रमादप्रयुक्तत्वेन टीकाकृता एकविधत्वानभिमानात्। अत एवाक्ष्यादित्ययोरेकविधत्वेऽपि अक्षिस्थस्याग्न्यन्यत्वसम्भवात्, अग्नेरादित्यस्थत्वमप्रयोजकमिति परास्तम्। ननु – भवेदग्नेरादित्यस्थत्वेन अक्षिस्थत्वसिद्धिः। यदि – ‘य एष आदित्ये पुरुष’ इत्यत्राग्निरादित्यस्थत्वेनोच्यत इति। स्यात्, तदेव कुत इत्यत आह – तस्मिन्प्रकरण इति॥ अत्र सद्भावाच्चे’ति चशब्दः प्रक्षिप्तः। सद्भावादित्यनन्तरम् ‘अग्निरादित्यस्थत्वेनोच्यत’ इति शेषः। ततश्च – ‘य एष आदित्ये पुरुष’ इत्येतस्मिन्प्रकरणे ‘अथाग्नयः समूदिरे गार्हपत्योऽनुशशास पृथिव्यन्नमादित्य (छा.४-१९) इति बह्वग्निश्रुतिसद्भावादग्निरादित्यस्थ इत्यर्थः। यद्यपि – अग्नीनामादित्यान्तर्गत-त्वेनाऽऽत्मोपदेशादुपदेशकपराणामप्यग्निश्रुतीनामादित्यान्तर्गतस्याग्नित्वनिर्णायकत्वमिति तदुपन्यासः कृतः। अवश्यं चैतदेवं विज्ञेयम्। अक्षिस्थप्रकरणे ‘अथाग्नयः समूदिर’ इति वाक्याभावेन अग्नेरक्षिस्थत्वसिद्धये बह्वग्निश्रुतिसद्भावस्य हेत्वन्तरत्वाभिधानायेगात्। न च वक्तव्यमिति॥ अत्र ‘औपचारिकं किं न स्या’दिति प्रक्षिप्तम्। कथनमित्यनन्तरम् अयुक्तमिति ग्राह्यम्। ततश्चैवं टीकावाक्यपाठः – ‘न च वक्तव्यम्। अग्नेरादित्यस्थत्वकथनमयुक्तं ‘यश्चासावादित्य’ इति श्रुतिविरोधादिति’ति। अस्यार्थः – ‘य एष आदित्ये पुरुष’ इति वाक्ये अग्निरेवोच्यत इत्ययुक्तं ‘यश्चासावादित्य’ इति समाख्याबलेन विष्णोरेवादित्यस्थतया ग्राह्यत्वात्। अन्यथा – समाख्याविरोधः स्यादिति। अवश्यं चैतदेवं विज्ञेयम् – समाख्याश्रुतेर् एतद्वाक्यस्य विष्णुपरत्वनिर्णायकत्वेनाऽग्निपरत्वाङ्गीकारविरोधित्वात्। न ह्यग्नेरौपचारिक-धर्मप्रतिपादकत्वपक्षे अस्य वाक्यस्याऽग्निपरत्वं विहन्यते। येन विष्णुपरत्वनिर्णायकसमाख्याविरोधो न स्यादिति। सोऽहमस्मीति॥ अग्निपराहंशब्दस्यादित्यान्तर्गतेऽभ्यासादित्पर्थः। न च विष्णुग्रहण इति॥ दूरेण दिवा धूमस्तावद् दृश्यते नाग्निः। एवं रात्रौ अग्निरेव दृश्यते न धूम इत्यविवादम्। तदन्यथानुपपत्त्या ‘आदित्यः सायमग्निं प्रविशति। अग्निस्तु उद्यन्तमादित्यं दिवा प्रविशती’ति सिद्धमिति अग्निपक्षे अपूर्वत्वाभावः। विष्णुपक्षे विष्णोरादित्यस्थत्वस्य प्रमाणान्तरेणासिद्धत्वादपूर्वत्वमिति भावः। अत इति॥ उक्तहेतुभ्य आदित्यस्थोऽग्निस् तस्मादक्षिस्थोऽग्निः। ततश्च स एवानन्दमय इत्यर्थः। अत्र टीकायां – ‘तदन्यथानुपपत्त्यैवोपपत्तेरित्यर्थ’ इत्यनन्तरम् ‘अत्रादित्यस्थत्वलिङ्गस्यापि विष्णौ समन्वयसिद्ध्यर्थं वक्रसङ्गत्याऽधिकरणारभ्भ’ इति ज्ञातव्यम्। ‘अग्नीनामिति बहुवचनम्, आदिपदद्वयं च, बह्वग्निश्रुतिसूचनाय प्रयुक्तमिति ज्ञातव्य’मिति वाक्यद्वयं प्रक्षिप्तम्। अवश्यं चैतदेवं विज्ञेयम् – आद्यं वाक्यं तावत्प्रक्षिप्तम्, आदित्ये विष्णुरित्युक्तमिति भाष्योक्तसङ्गतौ वक्रत्वाभावेन वक्रसङ्गत्याऽधि-करणारम्भाभावात्, ‘यश्चसावादित्य’ इति श्रुतौ विष्णोरादित्यस्थत्वमुक्तम्। ततश्चार्थादक्षिस्थत्वमुक्त-मित्यस्य ऋजुत्वेन वक्रत्वाभावात्। आदित्यस्थत्वलिङ्गस्य विष्णौ समन्वयसिध्द्यर्थं सूत्रकृतैव प्रयतितव्यत्वेन भाष्यकृताऽप्रयतितव्यत्वान् न हि भाष्यकारः समन्वयार्थं प्रवृत्तः किंतु समन्वयाद्यर्थसूत्रव्याख्यानायैव प्रवृत्तः। न्यायसाम्यस्यैव समन्वयसाधकत्वेन लिङ्गसमन्वयस्य वक्रसङ्गत्याऽधिकरणारम्भफलत्वाभावाच्च। यस्य तु छान्दोग्योक्तादित्यस्थत्वलिङ्गस्य विष्णौ समन्वयोऽभिलाषितस् तस्य सङ्गतावप्रवेशात्। यस्य तु आनन्दमयप्रकरणस्थस्यादित्यस्थलिङ्गस्य सङ्गतौ प्रवेशस् तत्समन्वयस्यानभिलषितत्वाच्च। द्वितीयमपि वाक्यं प्रक्षिप्तम् – ‘सोऽहमस्मि स एवाहमस्मि’ इत्यादाविति प्रथम ‘आदि’शब्दस्य ‘य एष चन्द्रमसि पुरुषो दृश्यते य एष विद्युति पुरुषो दृश्यते’ इति वाक्यग्राहकत्वेन बह्वग्निश्रुतिसूचकत्वाभावात्। एवं ‘आदित्यादिस्थत्वमुच्यत’ इति द्वितीय ‘आदि’पदस्यापि चन्द्रविद्युत्प्रकरणत्वेन बह्वग्निश्रुतिसूचकत्वा-भावात्। एवमग्नीनामिति बहुवचनस्यापि गार्हपत्यान्वाहार्यपचनाहवनीयसंज्ञकानां त्रयाणामग्नीनाम्, आदित्यचन्द्रविद्युदन्तर्गतत्वप्रतिपादनार्थत्वेन बह्वगिश्रुतिसूचकत्वाभावात्। एकैनैव सूचनसम्भवे त्रयाणामुपादानवैयर्थ्याच्च। तदादित्यस्थोऽपि स एव स्यादिति॥ तदा तर्हि ‘स एतदेवं विद्वानुपास्ते अपहते पापकृत्यां लोकीभवती’ति विष्णुलिङ्गश्रवणादिति भावः। तर्हीति॥ तथा सतीत्यर्थः।

वाक्यार्थमुक्तावली

ॐ अन्तर उपपत्तेः ॐ॥ अग्निश्रुतिसाहित्येनेति॥ ब्रह्मेन्द्रमग्निमिति वाक्यगतस्याग्निशब्दस्य विष्णुपरत्वेऽपि नैतत्प्रकरणगतस्याग्निशब्दस्य विष्णुपरत्वम्। उपकोसलं प्रति विद्योपदेष्टृत्वादिना तस्य प्रसिद्धाग्निपरत्वावगमादिति भावः। श्रुत्यादिसङ्गतिमिति॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु ‘‘एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम्। अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते’’ इत्यनुव्याख्या-नोक्तरीत्या क्रियाप्रधानकभावरूपविशिष्टनिरूपणस्यैकैकविचारानन्तरं विशिष्टविचार इति। यद्वा एतदमृतमभयमेदद्ब्रह्मेत्युक्तमन्तःस्थं यदि विष्णोरन्यत् स्यात् तदा ‘‘यः सेतुरीजानानामक्षरं ब्रह्म तत्परम्। अभयं तितीर्षतां पारम्’’ इत्युक्तं गुहास्थमपि विष्णोरन्यत् स्याद् इत्याक्षेपिकी सङ्गतिरिति॥ अर्थादिति॥ अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणत्वादिति भावः॥ विष्णोरिति॥ अत्राक्षिस्थत्वम् अथ हाग्नयः समूदिर इत्यादिबह्वग्निश्रुतेः सोऽहमस्मि स एवाहमस्मि इति सावधारणाभ्यासात्। स य एतदेवमित्यर्थवादात्। अस्मद्विद्याऽऽत्मविद्येति विद्याभेदोक्तेश्च किमग्नेर् ब्रह्मात्मशब्दामृतत्वा-भयत्वादिबलात् किं विष्णोरिति चिन्ता। तदर्थमग्निप्रापकं विष्णुप्रापकबाधकमुत तद्बाध्यम् इति। तदर्थमग्निप्रापकस्य निरवकाशत्वेन विष्णुप्रापकस्य सावकाशत्वमुत विपरीतत्वमिति। भाष्ये अग्नी-नामेवादित्यस्थत्वमुच्यत इत्यस्य यतोऽग्नीनामादित्यस्थत्वमुच्यते अत एव य एषोंऽतरक्षिणि पुरुषो दृश्यत इत्यत्राग्निरेवोच्यत इत्यन्वयमभिप्रेत्य व्याचष्टे॥ य एषोंऽतरक्षिणीत्यादिना अत एवेत्यन्तेन॥ अक्ष्यादित्ययोरैक्यादित्यन्तरितं वाक्यमवतार्य व्याचष्टे। न च वाच्यमिति॥ अक्ष्यादित्यमण्डलयोरैक्या-योगादाह॥ एकविधत्वादिति॥ एकाभिमानिकत्वादित्यर्थः। आदित्यमण्डलाभिमानी चक्षुर्भूत्वा तन्नामकरूपान्तरेणाक्षिणी गोलके प्राविशदिति श्रुत्यर्थः। सोऽहमस्मीत्यादित्यस्थतयोच्यमानोऽग्निरिति कुत इत्यत आह॥ एतस्मिन् प्रकरण इति॥ चशब्दस्तु एतदाशङ्कापरिहारसमुच्चितस्यैवाक्ष्या-दित्ययोरेकविधत्वलिङ्गस्य विवक्षितसाधकत्वादिति बोध्यम्। यद्वा अग्नेरक्षिस्थत्वे लिङ्गमुक्त्वा श्रुतिमप्याह॥ एतस्मिन् प्रकरण इति। बह्वग्निश्रुतीत्यस्य बहुवचनान्ताग्निश्रुतेरित्यस्य बह्वी या अग्निश्रुतिस् तस्याः सद्भावादित्यर्थः। अत एव अथ हाग्नय इति, गार्हपत्योऽनुशशास इत्यादि चोक्तम्। आदिपदेन अथ हैनमन्वाहार्यपचनो ऽथ हैनमाहवनीय इत्यादेर्ग्रहणम्। न चाक्षिस्थप्रकरणे नाग्निश्रुतिरिति वाच्यम्। आदित्याक्षिप्रकरणयोरैक्यादित्युक्तत्वादिति भावः। नन्वादित्ये पुरुषो विष्णुरेव यश्चासावादित्य इत्यानन्दमयशब्दितस्य विष्णोरादित्यस्थत्वोक्त्या तत्समाख्यानात्। आदित्ये पुरुषः सोऽहमस्मीत्यग्ने-रादित्यस्थपुरुषत्वोक्तिस्तु आदित्यस्थपुरुषेणातिप्रीतिवशेनौपचारिकी। ममात्मा भद्रसेन इतिवदित्याशङ्क्य निषेधति॥ न च वक्तव्यमित्यादिना॥ अग्नेरादित्यस्थत्वं नाम अग्न्यन्तर्यामिण आदित्यस्थत्व-मित्यौपचारिकमित्यप्याहुः॥ विष्णुग्रहणस्यापूर्वतयेति॥ ननु अग्निग्रहणेऽप्यपूर्वतासाम्यमिति चेन्न। अग्निशब्दस्य प्रसिद्धाग्निपरत्वमभ्युपेत्य तस्यादित्यस्थत्वकथनादपि अग्निशब्दस्य तदन्तर्गतभगवत्परत्वं शास्त्रदृष्टचेति न्यायेनाङ्गीकृत्य तस्यादित्यस्थत्वे ततोऽप्यपूर्वतालाभात्। किञ्च दिवाऽग्निप्रभाया अदर्शनेनादित्यप्रवेशस्य अनुमानसिद्धत्वात्। अत्यलौकिकब्रह्मग्रहणेऽग्निग्रहणादपि अपूर्वतालाभ इत्यर्थः॥ अर्थवादादिति॥ ज्ञानिनः फलप्रतिपादनेऽपि ज्ञेयस्य फलहेतुत्वरूपस्तुत्यर्थवादोऽप्ययं भवतीति भावः। नन्वग्निशब्दस्य तन्नामकविष्णुविषयत्वेऽर्थवादोऽपि तद्विषयो भविष्यतीति चेन्न। अग्निशब्देन तदन्तर्गत-विष्णुग्रहणे अग्नेरादित्यस्थत्वे सिद्ध्यविरोधेनार्थवादस्य विष्णुविषयत्वकल्पनावैयर्थ्यात्। एतेन भाष्ये अग्नीनामित्यनेन बह्वग्निश्रुतिः सोऽहमस्मि स एवाहमस्मीत्यभ्यासो ऽग्नीनामेवेत्यनेनैवकारेण न समाख्यानुसारेण विष्णोरिति समाख्याप्रतिषेधः। इत्यादावित्यादिपदेन अथ हैनमन्वाहार्यपचनोऽथ हैनमाहवनीय इति वाक्यवत् तच्छेषभूतं स य एतदेवं विद्वानुपास्त इत्यर्थवादपरं वाक्यत्रयं च सङ्गृह्यत इति व्याख्यातं भवति॥ मोक्ष इति मतमिति॥ नेतरोऽनुपपत्तेरित्यत्रेति शेषः। ननु नेतरोऽनुपपत्तेरित्यत्र विष्णुज्ञानान्मोक्ष इत्युक्तं तदयुक्तम्। तद्यथेत्यक्षिस्थज्ञानान् मोक्षश्रवणादिति ऋजुसङ्गत्यैवाधिकरणारम्भे कर्तव्ये, आनन्दमयो विष्णुरित्युक्तम्। तस्य चादित्यस्थत्वमर्थादक्षिस्थत्वं चाक्ष्यादित्ययोरेकविधत्वात्। तच्च य एषोंऽतरक्षिणीत्यग्नेः प्रतीयते इति वक्रसङ्गत्याऽधिकरणारम्भः किमर्थमित्यत आह॥ अत्रेति॥ ननु ऋजुसङ्गत्याऽधिकरणारम्भेऽपि पूर्वपक्षे अग्नेरेवाक्षिस्थत्वे आदित्यस्थत्वस्य हेतुत्वेनोपादाने तस्य विष्णुनिष्ठत्वस्य सिद्धान्ते समर्थनीयत्वात् तस्यापि समन्वयसिद्धिरिति चेन्न। तस्य सिद्धान्तिना सावकाश-त्वाद्युक्त्या अविरोधकत्वस्य वक्तुं शक्यत्वेन समन्वय एव वक्तव्य इति नियमाभावात्। न हि सावकाशत्वमेव समन्वयः। तस्य लक्षणादिवृत्यन्तरेणापि सम्भवेन समन्वयरूपताभावादिति भावः। अत एव समन्वयसिद्ध्यर्थमित्युक्तम्। भाष्ये स एवाहमस्मीत्यादावित्यादिपदेन चन्द्रमसि विद्युतीति वाक्यग्रहणम्। आदित्यादिस्थत्वमित्यादिपदेन चन्द्रविद्युतोर्ग्रहणम्। अग्नीनामिति बहुवचन-मन्वाहार्याहवनीययोः सङ्ग्रहायेति प्रतीयते। तथात्वे चन्द्रविद्युतोरक्ष्णा एकविधत्वाभावेनान्वाहार्यादेस् तत्स्थत्वस्याक्षिस्थत्वसाधकत्वाभावेन प्रकृतानुपयुक्तत्वादित्यत आह॥ अग्नीनामिति॥ सूत्रे तत्तु इत्यनुवृत्तिः सिद्धा। उपपत्तेरित्यावर्तते। आद्यस्य लिङ्गादित्यर्थः। द्वितीयस्य उक्तलिङ्गस्य तत्रैवोपपत्तेर् अन्यत्रानुपपत्तेरिति। ततश्च विष्णुरेवान्तरश्चक्षुरन्तःस्थित्वा रममाणो नाग्निर् उपपत्तेर् एतदमृत-मभयमित्युक्तामृतत्वाभयत्वलिङ्गात्। ब्रह्मात्मपुरुषश्रुतिलक्षणतात्पर्यलिङ्गाच्च। तेषां तत्रैवोपपत्तेरिति सूत्रार्थमाह॥ विष्णुरेवेत्यादिना। य एषोऽन्तरक्षिणीत्यत्राक्षिस्थत्वमात्रोक्तावपि ‘‘अन्तःस्थित्वा रमणकृदन्तरः समुदाहृतः। रमणं चात्मशब्देनादेयं मातीति चोच्यते’’ इत्यनुव्याख्यानोक्तेरात्मशब्देन रमणं लभ्यत इति ज्ञेयम्। नन्वेवमात्मशब्दस्य हेतुतयोपादानमिति चेन्न। यौगिकतया समन्वेत-व्यलिङ्गसमर्पकत्वेऽपि रूढत्वेन सूचितया हेतुत्वोपपत्तेः। यद्वा भाष्ये आदिपदेन पुरुषशब्दमात्रस्य ग्रहणोपपत्तेरिति॥ उभयथापीति॥ निरवकाशत्वानेकवाक्यमित्यर्थः॥ स्मारयतीति॥ शास्त्र-दृष्टिसूत्रोक्तमित्यर्थः॥ एवं श्रुतेरिति॥ नन्वग्निशब्देन तदन्तर्गतविष्णुग्रहणेऽपि अग्नेरादित्यस्थत्वं प्राप्तमिति चेन्न। अग्निभिः स्वान्वयं विनैव स्वान्तर्यामिण आदित्यस्थत्वोक्तेः। अहं मनुरभवमित्यादौ वामदेवस्य मन्वाद्यन्तर्यामित्वाभावात्। तदुक्तमृग्भाष्ये ‘‘एषा विष्णोः केवलाप्येवमन्वा अयोग्यायामन्यदेवेषु सम्यक्’’ इति।

तत्त्वसुबोधिनी

ॐ अन्तर उपपत्तेः ॐ॥ अत्र य एषोऽन्तरक्षिणीत्युक्तस्य चक्षुरन्तस्थस्याभयस्याग्नित्वादभयं तितीर्षतां पारमिति पूर्वोक्ताभयोऽप्यग्निर्न तु विष्णुरिति पूर्वपक्षोत्थानादनन्तरसङ्गतिः। अग्निश्रुतिसाहित्ये-नेति। ब्रह्मेन्द्रमग्निमिति वाक्यगताग्निशब्दस्य विष्णुपरत्वेऽपि नैतत्प्रकरणगताग्निशब्दस्य विष्णुपरत्वम्। उपकोसलं प्रति विद्योपदेष्टृत्वादिना तस्य प्रसिद्धाग्निपरत्वावगमादिति भावः। अर्थादक्षिस्थत्वमिति। अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणन्यायेनेति भावः। अग्नेरादित्यस्थत्वमुच्यते अत एवेति। अग्नेरादित्यस्थत्वस्य उच्यमानत्वादेवेत्यर्थः। अनेन अतोऽक्ष्यादित्ययोरैक्यादिति भाष्यस्थोऽतःशब्दः सन्निहितेन ऐक्यादित्यनेनान्वेति। प्रकृतस्य अत इत्यनेन परामृष्टस्य आदित्यस्थत्वस्यैक्ये हेतुत्वायोगात्। किन्तु व्यवहितेनात्राप्यग्निरेवोच्यते इत्यनेनान्वेतीत्युक्तं भवति। ननु अक्ष्यादित्ययोरैक्यादिति कथम्। आदित्यमण्डलाक्ष्णोः परस्परभिन्नत्वेन प्रमितत्वात्। न च वाच्यम् आदित्याक्षिपदाभ्यां चेतनग्रहणे-नैक्योपपत्तिरिति। स्थानादिव्यपदेशाच्च इति सूत्रानानुगुण्यात्। तत्र हि स्थानत्वेनोक्ताक्ष्णोर्जडत्वेनाभि-प्रेतत्वात्। य एष आदित्ये पुरुषः य एषोऽन्तरक्षिणि पुरुष इति वाक्यद्वये आदित्याक्षिगतस्य पुरुषपदेन चेतनत्वेनोक्त्या तयोर् जडत्वेनाभिप्रेतत्वाच्चेत्यत आह। अक्ष्यादित्ययोर् एकविधत्वादिति। असावादित्यस्त्रिवृत् त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिकेति श्रुत्यनुसारेण जडभूतादित्यमण्डलाक्ष्णोरेव त्रिवृत्त्वधर्मयुक्तत्वेनैकविधत्वात्। आदित्यश् चक्षुरिति श्रुतौ आदित्यचक्षुःपदयोश् चेतनपरत्वेन आदित्यमण्डलस्थचेतनस्य जडाक्षिप्रेवशोक्त्या जडाक्ष्यादित्यमण्डलयोरेकचेतनाधिष्ठितत्वधर्मेण एकविधत्वा-द्वेत्यर्थः। गार्हपत्योऽनुशशासेत्यादि इति। आदिपदेन ‘अथ हैनमाहवनीय’ इत्यादिग्रहणम्। नन्वस्तु अभ्यासस्तथापि समाख्ययैव तद्बोधो भविष्यतीत्यत आह। अभ्यासस्य चेति। तस्याः षष्ठप्रमाणत्वेन दुर्बलत्वादिति भावः। तथापि अग्नेर् आदित्यस्थत्वस्य प्राप्तत्वाद् विष्णुपक्षे अपूर्वता लभ्यत इत्यत आह। न चेति। स य एतदेवं विद्वान् इत्यस्यायमर्थः। स यः कश्चिदेवं यथोक्तं गार्हपत्याग्निमुपास्ते अपहते विनाशयति पापकृत्यां पापकर्म लोकीभवति अस्मदीयेन लोकेन आग्नेयेन तद्वान्भवति सर्वं वयः शतायुर् मोक्षं प्राप्नोति ज्योक् उज्वलं जीवति नाप्राख्यात आस्ते इत्यर्थः। नास्य अवराश्च ते षुरुषाश्चास्य विदुषः सन्ततिर्जात इत्यर्थः। क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थः। किञ्च तमुपासकं वयमुपभुञ्जामः पालयामो ऽस्मिन्लोके जीवन्तम् अमुष्मिन्परे लोकेऽपीति। नन्वस्तु अर्थवादस् ततः किमित्यत आह। अर्थवादस्य चेति। उपसंहरति। अत इति। यतोऽग्निरक्षिस्थ इति। अनेन भाष्ये अतोऽग्निज्ञानादेव मोक्ष इत्यपि सम्बन्धः। अत इति बलाद्यत इत्यादेरर्थतो लाभः। तयोर् हेतुहेतुमद्भावसमर्थनार्थं तद्यथेति भाष्यमित्युक्तं भवति। भाष्ये पुष्करपलाश इत्यत्र कमलपत्र इत्यर्थः। मोक्षस्यापीति। मोक्षं विना सर्वपापाश्लेषासम्भवादिति भावः। वक्रसङ्गत्या अधिकरणारम्भ इति। यद्यपि विष्णुज्ञानान् मोक्ष इत्युक्तम्। तदयुक्तम्। तद्यथेत्यक्षिस्थस्याग्नेर् ज्ञानान्मोक्षश्रवणादिति ऋजुसङ्गत्यैवाधिकरणमारभ्याग्नेरेवाक्षिस्थत्वमिति पूर्वपक्षे आदित्यस्थत्वं हेतूकर्तुं शक्यं पूर्वपक्षे तस्य हेतूकरणं च वक्रसङ्गत्याऽधिकरणारम्भेऽपि समम्। तथापि यथा सिद्धान्ते आदित्यदेवताया आदित्यमण्डलस्थत्वेऽपि इदम् अक्षिस्थत्वममृतत्वादिहेतुभिर् ब्रह्मणस् तथा पूर्वपक्षे अग्नेर् आदित्यस्थत्वेऽपि अक्षिस्थत्वं ब्रह्मण एवेति आदित्यस्थत्वस्य विष्णौ समन्वयो न सिद्ध्येत्। आदित्यस्थो विष्णुस्ततश्च अर्थादक्षिस्थोऽपि स एवेत्यानन्दमयाधिकरणोक्तमादित्यदेवतास्थत्वादिकमयुक्तम् अग्नेरेव अक्ष्यादित्यदेवतास्थत्वादिति वक्रसङ्गत्या अधिकरणारम्भे तु पूर्वोक्तस्य विष्णोर् आदित्यदेवतास्थत्वस्येह पूर्वपक्षे आक्षेपात् तन्निरासस्य विष्णोरेवादित्यस्थत्वमिति सिद्धान्ताभिप्रायं विनाऽसिद्धेस्तत्समन्वयः सिद्ध्यतीति भावः। यद्वा आदित्यस्थत्वस्य पूर्वपक्षे हेतुमात्रत्वेनोक्तौ पूर्वपक्षहेतुरपि सिद्धान्तिना समन्वेतव्य इति नियमाभावान् न तत्समन्वयसिद्धिर् उत्तरादित्यस्थत्वाक्षेपमुखेन तु पूर्वपक्षे सिद्धान्ते तत्समन्वयोऽपि कर्तव्य इति। य एष आदित्ये पुरुषो दृश्यते इति वाक्यमपि ब्रह्मणि समन्वितं भवति इति भावः। ननु भाष्ये य एष आदित्ये पुरुष इत्यग्नेरेव आदित्यस्थत्वमुच्यत इति वक्तव्यम्। अक्ष्यादित्ययोरैक्यादिति आदित्यस्थत्वस्यैवाक्षिस्थत्वसाधकत्वेनाभिमततया तदुक्तेरेव प्रकृतसङ्गतत्वात्। आदिपदद्वयं बहुवचनं च व्यर्थम्। न चाथ हैनमन्वाहार्यपचनोऽथ हैनमावहनीय इति वाक्यद्वयसङ्ग्रहाय प्रथमादिपदम् अन्वाहार्यपचनाहवनीययोः सङ्ग्रहाय अग्नीनामेवेति बहुवचनम्। चन्द्रमाविद्युतोः सङ्ग्रहाय द्वितीयादिपदम् इति वाच्यम्। चन्द्रविद्युतोर् अक्ष्णैकविधत्वाभावेन अन्वाहार्यपचनाहवनीययोर् अन्तःस्थत्वस्याक्षिस्थत्वसाधकत्वाभावेन प्रकृतानुपयुक्तत्वाद् इत्यत आह। अग्नीनामिति। अथ हाग्नय इत्येत्प्रकरणगतान्वाहार्यादिरूपबह्वग्निश्रुतिसूचनार्थमेव बहुवचनादिप्रयोगो न तूक्ताभिप्रायेणेति भावः। एतदमृतम् अभयमिति भाष्ये उपपत्तेर् निरवकाशत्वोक्त्यैव पक्षनिष्ठत्वं लभ्यत इति तन्नोक्तमिति ज्ञातव्यम्। अमृतत्वादीति भाष्यगतादिपदार्थमाह। अभयमिति। उभयथापीति। श्रुतेर् जात्या आत्मशब्दमादायानेकत्वेन चेत्यर्थः। नन्वभ्यासार्थवादयोः का गतिरत आह। एवं श्रुतेः सावकाशत्वेनेति।

वाक्यार्थमञ्जरी

अर्थादिति॥ अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणरीत्येति भावः॥ य एष इति॥ य एषोऽन्तरक्षिण्यन्तःपुरुषो दिव्यदृष्ट्या दृश्यते एष आत्मा वामनाख्यः परमात्मेति होवाच एतद्भगवद्रूपममृतं स्वत एव मरणरहितम्। अभयं स्वत एव भयरहितम्। एतद् ब्रह्म गुणपूर्णमित्यर्थः॥ अग्निश्रुतिरिति॥ अथ हाग्नयः समूदिर इत्यादाविति शेषः॥ य एष आदित्ये पुरुष इति॥ आदित्ये सूर्ये य एष पुरुषः पूर्णषड्गुणो भगवान्दिव्यदृष्ट्या दृश्यते सोऽहमहेयत्वादहंनामा गार्हपत्याग्निस्थोऽस्मि। आदित्य-स्थस्य मदन्तर्यामिणश्च न विदुरधर्मादिवदभेदः किं तु न कोऽपि विशेष इत्यत आह॥ स एवेति॥ गार्हपत्याग्निनोपकोसलं प्रत्युपदिश्यते॥ आदित्य इति॥ आदित्य आदित्यमण्डलाभिमानी। चक्षुर्भूत्वा रूपान्तरेण चक्षुर्देवता भूत्वाऽक्षिणी गोलके प्राविशदित्यैतरेयभाष्यश्रुतावादित्यमण्डलस्य यद्देवताकत्वं चक्षुर्गोलकस्यापि तद्देवताकत्वरूपैकविधत्वोक्तेरित्यर्थः। तथा च भाष्ये एकपदमेकचेतनाधिष्ठितत्व-रूपैकविधत्वपरम्। अक्ष्यादित्यपदे तु जडपर इति भावः॥ समूदिरे ऊचुः। औपचारिकम् आदित्यस्थ-विष्ण्वाश्रयत्वेन॥ श्रुतीति॥ आनन्दमयस्यादित्यस्थत्वप्रतिपादकसमाख्याश्रुतीत्यर्थः॥ बलवत्वादिति॥ स्थानान्तरस्थसमाख्यापेक्षया एकस्थानस्थाभ्यासस्य शीघ्रोपस्थितिकरत्वादिति भावः॥ अपूर्वतयेति॥ लोकप्रसिद्धाग्नित्यागेनात्यलौकिकब्रह्मग्रहणेऽपूर्वतेत्यर्थः॥ बाध इति॥ एकत्रानेकवारोक्तिरूपतया ज्ञातज्ञापकाभ्यासादपि प्रमाणान्तराप्रापकत्वरूपापूर्वतायाः प्राबल्यादिति भावः॥ स य एतमिति॥ योऽधिकारी एतदग्न्यन्तर्यामिरूपमेवं विद्वान् जानन्नुपास्ते। स पापकृत्याम् अपहते विनाशयति लोकी भगवल्लोकी भवति सर्वमायुर्मोक्षमाप्नोतीत्यर्थः॥ प्राबल्यादिति॥ अपूर्वतापेक्षयोद्देश्यत्वेनाधिकफलापेक्षया करणाकरणयोरिष्टानिष्टकथनरूपार्थवादस्यापूर्वतायाः प्राबल्यस्य सुतरां सिद्धेरिति भावः। यद्यपि अपहते पापहते पापकृत्यमिति फलं तथापि स्तुतिरूपार्थवादित्वमप्यस्तीति वा। वस्तुतः फलवत्त्वं फलं फलोक्तिस्त्वर्थवाद इति वाऽभिप्रेत्यैवमुक्तिरिति ध्येयम्। भाष्ये पलाशे पत्रे॥ तदन्यथानुपपत्त्यैवेति॥ मोक्षं विना सर्वपापाश्लेषासम्भवादिति भावः। ननु नेतरोऽनुपपत्तेरित्यादौ विष्णुज्ञानान्मोक्ष इत्युक्तम्। स मोक्षस्तद्यथा पुष्करपलाश इति वाक्येन य एषोऽन्तरक्षिणीत्युक्ताक्षिस्थज्ञानात्प्रतीयत इति ऋजुसङ्गत्यैवै-तदधिकरणारम्भसम्भवे य एष आदित्ये पुरुषः य एषोऽन्तरक्षिणि पुरुष इत्यनयोर्वाक्ययोरादित्यश्चक्षुर्भूत्वेति श्रुत्यैकार्थत्वमुपपाद्य य एष आदित्य इति वाक्यस्य यश्चासावादित्य इति वाक्येन सङ्गत्या तदर्थार्थक य एषोऽन्तरक्षिणीति वाक्यस्यापि तेन सङ्गतिरिति वक्रसङ्गत्याऽधिकरणारम्भे किं निमित्तमित्यत आह॥ अत्रादित्येति॥ यद्यप्युक्तरीत्या ऋजुसङ्गत्याऽधिकरणारम्भेऽपि पूर्वपक्षेऽग्नेरेवाक्षिस्थत्वे आदित्यस्थत्वस्य हेतुत्वेनोपपादने सिद्धान्ते तस्य विष्णुनिष्ठत्वस्य समर्थनीयत्वात्तस्यापि समन्वयसिद्धिस्तथापि पूर्वपक्षहेतोः सिद्धान्तिना सावकाशत्वोक्त्याप्यविरोधकत्वस्य वक्तुं शक्यत्वेन समन्वय एव वक्तव्य इति नियामकाभावात्तदर्थमेतदिति भावः। ननु भाष्ये प्रथमादिपदम् अथ हैनमन्वाहार्यपचनोऽनुशशास य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि अथ हैनमाहवनीयोऽनुशशास य एष विद्युति पुरुषो दृश्यते सोऽहमस्मीत्यनयोर्वाक्ययोः सङ्ग्राहकम्। द्वितीयादिपदं च चन्द्रविद्युतोः सङ्ग्राहकम्। बहुवचनं चान्वाहार्यपचनाहवनीययोर्वाक्यसङ्ग्राहकमिति प्रतीयते। इदं चानुपपन्नं चन्द्रविद्युतोरक्ष्णैकविधत्वाभावे-नान्वाहार्यपचनाहवनीययोस्तदुभयस्थत्वस्याक्षिस्थत्वसाधकत्वाभावेन प्रकृतानुपयोगात्। अतो य एष आदित्ये पुरुष इत्यग्नेरादित्यस्थत्वमुच्यत इत्येव वक्तव्यं शिष्टं तु व्यर्थमित्यत आह॥ अग्नीनामिति बहुवचनमादिपदद्वयं चेति॥ अग्नेरक्षिस्थत्वसाधकत्वेनाथ हाग्नयः समूदिर इत्येतत्प्रकरणगताग्निगार्हपत्या-न्वाहार्यपचनाहवनीयादिरूपब्रह्वग्निश्रुतीनां सूचनार्थमेव बहुवचनप्रयोगो न तूक्ताभिप्रायेणेति भावः॥ ॐ अन्तर उपपत्तेः ॐ॥ अन्तरश् चक्षुरन्तःस्थित्वा रममाणो विष्णुरेव। एतदमृतमभयमेतद्ब्रह्मेत्युक्ता-मृतत्वाभयत्वब्रह्मशब्दानां तत्रैवोपपत्तेरित्यर्थः। अभयं भयरहितम्। तितीर्षतां संसारतरणेच्छावताम्। पारं सेतुरिवाधारम्॥ पर्येनमिति॥ एनं परमात्मानं परि प्रति एतेनेति यावात्। विद्युदादयो म्रीयन्त इत्यर्थः॥ भीषेति॥ अस्मादस्य हरेर् भीषा भयेनाग्न्यादयः स्वस्वव्यापारं कुर्वन्तीत्यर्थः॥ तदनुयायिनोरिति॥ श्रुतिबलेन लब्धार्थ एव तयोर्वाक्यतात्पर्यज्ञापकत्वादिति भावः॥

विवृतिः

अत्र य एषोऽन्तरक्षिणि, इत्युक्तस्य चक्षुरन्तस्थस्याभयस्याग्नित्वादभयं तितीर्षतां पारमिति पूर्वोक्ता-भयोऽप्यग्निर् नतु विष्णुरिति पूर्वपक्षोत्थानादनन्तरसङ्गतिः।

अग्निश्रुतिसाहित्येनेति॥ ब्रह्मेन्द्रमग्निमिति वाक्यगतस्याग्निशब्दस्य विष्णुपरत्वेऽपि नैतत्प्रकरण-गताग्निशब्दस्य विष्णुपरत्वम्, उपकोसलं प्रति विद्योपदेष्टृत्वादिना तस्यप्रसिद्धाग्निपरत्वावगममादिति भावः। अर्थादक्षिस्थत्वमिति॥ अक्ष्यादित्ययोरेकविधत्वादिति वक्ष्यमाणन्यायेनेति भावः। अग्नेरादित्यस्थत्वमुच्यत एवेति॥ अग्नेरादित्यस्थत्वस्योच्यमानत्वादेवेत्यर्थः। अनेन ‘अतोऽक्ष्यादित्ययोरैक्यात्’’ इति भाष्यस्थोऽतःशब्दः सन्निहितेनैक्यादित्यनेनान्वेति। प्रकृतस्यातद्वति परामृष्टस्यादित्यस्थत्वस्यैक्ये हेतुत्वायोगात् किन्तु व्यवहितेनात्राप्यग्निरेको वोच्यत इत्यनेनान्वितं भवतीत्युक्तम्। नन्वक्ष्यादित्ययोरैक्यादिति कथम् आदित्यमण्डलाक्ष्णोः परस्परं भिन्नत्वेन प्रमितत्वात्। नच वाच्यम् आदित्याक्षिपदाभ्यां चेतनग्रहणेनैक्योपपत्तिरिति। स्थानादिव्यपदेशाच्चेति सूत्रानानुगुण्यात्। तत्रहि स्थानत्वेनोक्ताक्ष्णोर्जडत्वेनाभिप्रेतत्वात्। ‘य एष आदित्ये पुरुषः’ ‘य एषोऽन्तरक्षिणि पुरुषः’ इति वाक्यद्वये आदित्याक्षिगतस्य पुरुषपदेन चेतनत्वोक्त्या तयोर्जडत्वेनाभिप्रेतत्वाच्चेत्यत आह॥ अक्ष्यादित्ययोरेकविधत्वादिति॥ ‘असावादित्यस्त्रिवृदिव वै, चक्षुः शुक्लं कृष्णं कनीनि का’ इतिश्रुत्यनुसारेण जडभूतादित्यमण्डलाक्ष्णोरेव त्रिवृत्वधर्मयुक्तत्वेनैकविधत्वात्। आदित्यश्चक्षुरिति श्रुतावादित्यचक्षुःपदयोश्चेतनपरत्वेनादित्यमण्डलस्थचेतनस्य जडाक्षिप्रवेशोक्त्या जडाक्ष्यादित्यमण्डलयोरेक-चेतनाधिष्ठितत्वधर्मेणैकविधत्वाद्वेत्यर्थः॥

गार्हपत्योऽनुशशासेत्यादीति॥ आदिपदेन ‘अथहैनमन्वाहार्यपचन अथ हैनमाहवनीय इत्यादि ग्रहणम्। नन्वस्त्यभ्यासः समाख्ययैव तद्बोधो भविष्यतीत्यत आह॥ अभ्यासस्य चेति॥ तस्य षष्ठप्रमाणत्वेन दुर्बलत्वादिति भावः। तथाप्यग्नेरादित्यस्थत्वस्य प्राप्तत्वाद्विष्णुपक्षेऽपूर्वता लम्यत इत्यत आह॥ न चेति॥ स य एतदेवं विद्वानित्यस्यायमर्थः सयः कश्चिदेवं यथोक्तं गार्हपत्यमग्निमुपास्ते सोऽपहते विनाशयति पापकृत्यां पापकर्म लोकीभवति अस्मदीयेन लोकेनाग्नेयेन तद्वान् भवति सर्वं वर्षशतमायुरेति प्राप्नोति ज्योक् उज्वलं जीवति नाप्रख्यात आस्त इत्यर्थः। नास्य अवराश्च ते पुरुषाश्चास्य विदुषः सन्ततिर्जात इत्यर्थः। क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थः। किं च तमुपासकं वयम् उपभुञ्जामः पालयामो ऽस्मिन् लोके जीवन्तममुष्मिन् परे लोकेऽपीति। नन्वस्त्वर्थवादस् ततः किमित्यत आह॥ अर्थवादस्यचेति॥ उपसंहरति॥ अत इति॥ यतोऽग्निरक्षिस्थ इत्यनेन भाष्ये अतोऽग्निज्ञानादेव मोक्ष इत्यपि सम्बन्धः॥ अत इति॥ यतोऽग्निरक्षिस्थ इति॥ अत इति बलाद्यत इत्यादेरर्थतो लाभः॥ तयोर्हेतुहेतुमद्भावसमर्थनार्थं तद्यर्थेति भाष्यमित्युक्तं भवति॥ भाष्ये पुष्करेत्यादेः कमलपत्र इत्यर्थः। मोक्षस्यापीति॥ मोक्षं विना सर्वथा पापाश्लेषासम्भवादिति भावः। वक्रसङ्गत्याऽधिकरणारम्भ इति॥ यद्यपि विष्णुज्ञानान्मोक्ष इत्युक्तम्। तदयुक्तम्। तद्यथेत्यत्राक्षि-स्थस्याग्नेर्ज्ञानान्मोक्षश्रवणादिति ऋजुसङ्गत्यैवाधिकरणमारभ्याग्नेरेवाक्षिस्थत्वमिति पूर्वपक्षे आदित्यस्थत्वं हेतूकर्तुं शक्यम्। पूर्वपक्षे तस्य हेतूकरणं च वक्रसङ्गत्याऽधिकरणारम्भेऽपि समम्। तथापि यथा सिद्धान्ते आदित्यदेवताया आदित्यमण्डलस्थत्वेऽपि इदमक्षिस्थत्वममृतत्वादिहेतुभिर् ब्रह्मण एव तथा पूर्वपक्षे अग्नेरादित्यस्थत्वेऽपि अक्षिस्थत्वं ब्रह्मणएवेत्यादित्यस्थत्वस्य विष्णौ समन्वयो न सिध्येत्। एवञ्चादित्यस्थो विष्णुस्ततश्चार्थादक्षिस्थोऽपि स एवेति आनन्दमयाद्यधिकरणोक्तमादित्यदेवतास्थत्वमयुक्तं, आदित्यस्थोऽग्निस् तथाचाक्षिस्थोऽप्यग्निरेव, आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशदिति श्रुत्याऽक्ष्या-दित्ययोरेकविधत्वादिति वक्रसङ्गत्याधिकरणारम्भेतु पूर्वोक्तस्य विष्णोरादित्यदेवतास्थत्वस्येह पूर्वपक्षे आक्षेपात्तन्निरासस्य विष्णोरेवादित्यस्थत्वमिति सिद्धान्ताभिप्रायं विनाऽसिद्धेस् तत्समन्वयः सिद्ध्यतीतिभावः। यद्वा आदित्यस्थत्वस्य पूर्वपक्षे हेतुमात्रत्वेनोक्तौ पूर्वपक्षहेतुरपि सिद्धान्तिना समन्वेतव्य इति नियमाभावान्न तत्समन्वयसिद्धिः। उक्तादित्यस्थत्वाक्षेपमुखेनतु पूर्वपक्षे सिद्धान्ते तत्समन्वयोऽपि कर्तव्य इति य एष आदित्ये पुरुषो दृश्यत इति वाक्यमपि ब्रह्मणि समन्वितं भवतीति भावः।

ननु भाष्ये य एष आदित्ये पुरुष इत्यग्नेरेवादित्यस्थत्वमुच्यत इति वक्तव्यम्। अक्ष्यादित्ययोरैक्या-दित्यादित्यस्थत्वस्यैवाक्षिस्थत्वसाधकत्वेनाभिमततया तदुक्तेरेवप्रकृतसङ्गतत्वादादिपदद्वयं बहुवचनं च व्यर्थम्। नचाथ हैनमन्वार्यपचनाहवनीययोः सङ्ग्रहायाग्नीनांवेति बहुवचनं चन्द्रमाविद्युतोः सङ्ग्रहाय द्वितीयमादिपदमिति वाच्यम्। चन्द्रविद्युतोरक्ष्णैकविधत्वाभावेन प्रकृतानुपयुक्तत्वादित्यत आह अग्नीनामिति॥ अथाग्नय इत्येत्प्रकरणगतान्वाहार्यादिरूपबह्वग्निश्रुतिसूचनार्थमेव बहुवचनादिप्रयोगो नतूक्ताभिप्रायेणेति भावः। एतदमृतमभयमिति भाष्ये उपपत्तेर्निरवकाशत्वोक्त्यैव पक्षनिष्ठत्वं लभ्यत इति तन्नोक्तमिति ज्ञातव्यम्। अमृतत्वादिति भाष्यगतादिपदार्थमाह अभयमिति॥ उभयथापीति॥ श्रुतेर्जात्याऽत्मशब्दमादायानेकत्वेन चेत्यर्थः। श्रुतेर्निरवकाशत्वं प्रागुपपादितम्। नन्वभ्यासार्थवादयोः का गतिरत आह॥ एवं श्रुतेः सावकाशत्वेनेति॥


ॐ स्थानादिव्यपदेशाच्च ॐ

सूत्रभाष्यम्

॥ ॐ स्थानादिव्यपदेशाच्च ॐ॥ १४॥

‘तद्यदस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छती’(छां.उ. ४-१५)त्यादि-स्थानशक्तिर् वामनिर्भामनिरित्याद्यात्मशक्तिश्चोच्यते। तस्य ह्येतल्लिङ्गम्। ‘स ईशः सोऽ-सपत्नः स हरिः स परः स परोवरीयान् यदिदंचक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति स वामनः स भामनः स आनन्दः सोऽच्युत’ इति चतुर्वेदशिखायाम्।

‘यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुभिः।

स वामनः परोऽस्माकं गतिरित्येव चिन्तयेदि’ति वामने॥ १४॥

सत्तर्कदीपावली

इतोऽप्यक्षिस्थपुरुषो विष्णुरेवेत्येतत्प्रतिपादकं सूत्रमुपन्यस्य व्याचष्टे॥ स्थानादीत्यादिना॥ अयमर्थः। असङ्गो विष्णुरेव अक्षिस्थपुरुष इति ज्ञापयितुं स्थानस्य चक्षुषोऽसङ्गत्वं निर्दिश्यते। ‘चक्षुषि सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति’ इति तथा ‘एष उ एव वामनिरेष हि सर्वाणि वामानि नयति एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति’ इत्यक्षिस्थः पुरुषः परमात्मधर्मविशिष्टत्वेनोच्यते। अयमुक्तलक्षणो विष्णुरेवेत्यत्र श्रुत्यन्तरं दर्शयति॥ स ईश इति॥

तत्त्वप्रदीपिका

ॐ स्थानादिव्यपदेशाच्च ॐ। ‘वामं’ सौन्दर्यं, ‘भामं’ तेजः, सौन्दर्यतेजःप्रधानत्वात्स्त्रीपुरुषा वामभामशब्दशब्दिताः। तन्नेता वामनिर्भामनिश्च। भानाद्वा भामनिः। यदिदं चक्षुषीत्यादिश्रुतेरयमर्थः। यस्माद्धरेस्सन्निहितादस्मिंश्चक्षुषि सर्पिर्वोदकं वा किञ्चित्सिञ्चति चेत्तद्वर्त्मनी एव गच्छति स भामनः स वामन इति॥

तत्त्वप्रकाशिका

युक्त्यन्तरेण विष्णोश्चक्षुरन्तःस्थत्वं साधयत्सूत्रमुपन्यस्य व्याचष्टे॥ स्थानादीति। अत्राक्षिस्थपुरुष-सम्बन्धादक्ष्णोरसङ्गत्वाख्यशक्तिर्व्यपदिश्यते ‘तद्यदस्मिन्सर्पिर्वोदकं वे’ति। ‘एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि वामान्यभिसंयन्ति। एष उ एव वामनिरेष हि सर्वाणि वामानि नयति एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति’ इति चक्षुरन्तस्स्थस्य संयद्वामत्वादिस्वरूपशक्तिश्चोच्यते। एतदुभयबलाच् चक्षुरन्तःस्थो विष्णुरेवेत्यर्थः। यस्मादयं पुरुषोऽक्षणि विद्यते तत् तस्माद् अस्मिन् चक्षुषि यदि सर्पिर्वोदकं वा कश्चित् सिञ्चति तर्हि वर्त्मनी प्रत्येव गच्छति न चक्षुः स्पृशतीत्यर्थः। एतल्लिङ्गद्वयसद्भावेऽपि कुतोऽक्षिस्थस्य विष्णुत्वनिश्चय इत्यत आह॥ तस्येति॥ एतदिति स्वसम्बन्धेनाक्ष्णोरसङ्गत्वापादकत्वम्। कुत एतत्तस्य लिङ्गमिति तत्राह॥ स इति॥ यद्यस्माद्यस्य प्रभावात्। इदंचक्षुषीति समस्तम्॥ १४॥

गुर्वर्थदीपिका

भगवत्सम्बद्धेऽपि लगुडादौ काले पङ्कादर्शनादसम्भावनापरिहाराय आद्य एव लिङ्गे भरो भाष्यकार-स्येति भावेनाऽऽह। कुत एतदिति। अत्र सम्बन्धपदेन सान्निध्यविशेषो विवक्षित इति भावः।

भावबोधः

तद्यदस्मिन्निति श्रुतौ तच्छब्दयच्छब्दयोर्व्यत्यासेनान्वयमभिप्रेत्यापेक्षितांशं पूरयन् व्याचष्टे– यस्मादयं पुरुषोऽक्षणीत्यादिना। वर्त्मनीत्यस्य कर्मद्वितीयात्वसम्भवादाह– वर्त्मनी प्रत्येवेति। श्रुतावेव-कारेणाक्ष्णोरसङ्गत्वं लभ्यत इत्यभिप्रेत्याह– न चक्षुरिति।

नन्वात्मशक्तेर्विष्णुनिष्ठत्वेन तल्लिङ्गत्वेऽपि स्थानशक्तेश् चक्षुर्निष्ठत्वेन कथं विष्णुलिङ्गत्वोक्तिरित्यत आह। एतदिति स्वसम्बन्धेनेति। स ईश इत्यादितच्छब्दस्य यच्छब्दसापेक्षत्वाद्यदिदंचक्षुषीत्यत्र यच्छब्दं तदर्थत्वेन व्याचष्टे– यद् यस्माद् यस्य प्रभावादिति। इदंशब्दस्य सर्पिर्वेत्यत्र सम्बन्धे वैयर्थ्याद् विषयवाक्यगततद्यदस्मिन्निति वाक्यसमानार्थत्वलाभायाह– इदंचक्षुषीति समस्तं पदमिति॥

भावदीपः

ॐ स्थानादिव्यपदेशाच्च ॐ॥ अपूर्वहेतुसमुच्चायकसौत्रचशब्दानुरोधादाह॥ युक्त्यन्तरेणेति॥ भाष्ये सौत्रस्थानादिपदाभ्यां स्थानात्मकशक्त्युक्तेः कथं विष्णोश्चक्षुरन्तःस्थोपपादकत्वमित्यतोऽसङ्गभगव-त्स्थानत्वाच्चक्षुषोऽसङ्गत्वमुच्यत इति छान्दोग्यभाष्यानुरोधेन यत्स्थानत्वादिति स्मृत्यनुरोधेन च भाष्यं व्याचष्टे॥ अत्रेति॥ एतच्छ्रुतावित्यर्थः। उक्तं हेतुं श्रुतौ दर्शयितुं शेषमुपादत्ते॥ तद्यदस्मिन्निति॥ इत्याद्यात्मशक्तिरित्यत्रादिपदार्थं वक्तुं सर्ववाक्यं पठति॥ एतमिति॥ वामानि सुन्दराणि। वामनिः सौन्दर्यप्रधानस्त्रीनेता। भामनिस् तेजःप्रधानपुरुषनेता। सर्वलोकेषु भातीति भामनिः। संयद्वामत्वा-दीत्यादिपदेन वामनिभामनिशब्दितस्त्रीपुंसनेतृत्वग्रहः। भाष्ये शेषोक्तिरेतदुभयेति। श्रुतौ तदित्यस्य परामर्शविषयं दर्शयन्नर्थमाह॥ यस्मादिति॥ तदित्यनुवादेन तस्मादिति व्याख्या। असङ्गपुरुषाश्रय-त्वादित्यर्थः। अस्मिन्नित्यनुवादः। यदित्यस्यार्थो यदीति। एवकारार्थो न चक्षुरिति। असङ्गत्वोक्तेः श्रुतावस्फुटत्वात्तां व्याचख्यौ। संयद्वामवाक्यं तु स्फुटत्वान्न व्याख्यातम्। दुर्गमत्वात्स्थानशक्तेर् विष्णुलिङ्गत्वं व्यनक्ति॥ एतदितीति॥ फलितोक्तिर्यस्य प्रभावादिति। स वामन इत्यन्वयः। वामभामशब्दौ सौन्दर्यतेजोवाचिनौ तत्प्रधानत्वात् स्त्रीपुंसौ वामभामशब्दोक्तौ तन्नियामको वामनो भामन इति तत्वप्रदीपोक्तार्थः। एकदेशविकृतम् अनन्यवद्भवतीति न्यायेन वामनवामन्यादि-शब्दानामेकार्थत्वात्। उक्तार्थे श्रुतिरियं ध्येया। लिङ्गस्य विष्णुस्थत्वोक्त्यर्थं स हरिरित्यादिपूर्वशेषोक्तिः। भाष्यादावक्ष्यन्तःस्थ इति वाच्ये चक्षुरन्तःस्थ इत्यसकृदुक्तिर् भाष्योक्तस्मृत्यनुरोधेन॥ १४॥

अभिनवचन्द्रिका

ननु – ‘चक्षुषी’ति सप्तम्यन्तत्वादस्मिन्निति वक्तव्यम्, इदमिति प्रथमानिर्देशः कथमित्यत आह – (सू.१४) इदंचक्षुषीति समस्तपदमिति॥

वाक्यार्थमुक्तावली

ॐ स्थानादिव्यपदेशाच्च ॐ॥ स्थानमक्ष्यादिपदात् तत्तदधिष्ठाता उच्यते। ताभ्यां च तच्छक्तिरुप-लक्ष्यते। तत्सङ्गेनासङ्गत्वाख्यस्थानशक्तेः संयद्वामत्ववामनिपदोक्तसौन्दर्यनियामकत्वभामनिपदोक्त-सर्वलोकभानरूपात्मशक्तेश्च व्यपदेशाच्च चक्षुरन्तःस्थो विष्णुरेवेति सूत्रार्थमाह॥ अत्राक्षिस्थेत्यादिना॥ ननु तद्यदस्मिन्नित्यत्र अस्मिन् चक्षुषि सर्पिर्वोदकं वा सिञ्चति तद्वर्त्मनी एव गच्छतीत्येवोच्यते न त्वक्षिस्थपुरुषसम्बन्धादितीत्यतो व्याचष्टे॥ यस्मादयं पुरुष इति॥ एतेन यदित्यस्य यस्मादित्यर्थः। अयं पुरुष इति प्रकृतपरामर्शः। अस्मिन्नित्यधिकरणसप्तमीबलाच् चक्षुषि विद्यत इति लभ्यते। तदिति। यस्मात् तस्मादित्यर्थः। अस्मिन्नित्यस्य व्यावृत्तिर् यत्तदिति। यदि तर्हीत्यर्थतया वर्तत इत्यर्थः। वर्त्मनीत्यस्य कर्मद्वितीयात्वासम्भवादाह॥ वर्त्मनी प्रत्येवेति॥ नन्वात्मशक्तेः संयद्वामत्वादेर् विष्णुलिङ्गत्वेन तेन विष्णोरक्षिस्थत्वसिद्धावपि स्थानगतेनासङ्गत्वलिङ्गेन विष्णोः कथमक्षिस्थत्वमात्मशक्तिरेव। तथापि स्थाननिरूपितत्वात् स्थानशक्तिरित्युक्तम्। यदित्यस्यार्थो यस्मादिति। तद्विवरणं यस्य प्रभावादिति। तच्चक्षुषि सर्पिर्वोदकं वा सिञ्चति इदं वर्त्मनी एवेति व्याख्याते स वामन इत्यादेरनन्वयप्रसङ्गाद् एवं व्याख्यानमिति भावः। तर्हीदमिति सर्पिरादिविशेषणं व्यर्थमित्यत आह॥ इदं चक्षुषीति॥ अस्मिन् भगवत्सन्निधिमति चक्षुषि इत्यर्थः।

तत्त्वसुबोधिनी

तद्यदस्मिन्निति श्रुतौ तच्छब्दयच्छब्दयोर् व्यत्यासेनान्वयमभिप्रेत्यापेक्षितांशं पूरयन्व्याचष्टे। यस्मादयं पुरुषोऽक्षणीत्यादिना। वर्त्मनीत्यस्य कर्मद्वितीयात्वासम्भवादाह। वर्त्मनी प्रत्येवेति। श्रुतावेव-कारेणाक्ष्णोरसङ्गत्वं लभ्यत इत्यभिप्रेत्याह। न चक्षुरिति। नन्वात्मशक्तेर् विष्णुनिष्ठत्वेन तल्लिङ्गत्वेऽपि स्थानशक्तेश्चक्षुर्निष्ठत्वेन विष्णुलिङ्गत्वासम्भवात् कथं भाष्ये एतच्छब्देनोभयं परामृश्य तस्य विष्णुलिङ्गत्वोक्तिरित्यत आह। एतदिति स्वसम्बन्धेनेति। स ईश इत्यादितच्छब्दस्य यच्छब्दसापेक्षत्वाद् यदिदंचक्षुषीत्यत्र यच्छब्दं तदर्थत्वेन व्याचष्टे। यस्मादिति। इदंशब्दस्य सर्पिर्वेत्यत्र सम्बन्धे वैयर्थ्याद् विषयवाक्यगततद्यदस्मिन्निति वाक्यसमानार्थत्वलाभायाह। इदंचक्षुषीति समस्तं पदमिति।

वाक्यार्थमञ्जरी

ॐ स्थानादिव्यपदेशाच्च ॐ॥ स्थानमक्ष्यादिपदात्तदधिष्ठाता उच्यते। तच्छक्त्युपलक्षकमेतत्। तथा चासङ्गत्वाख्यस्थानशक्तेः संयद्वामत्वाद्यधिष्ठातृशक्तेर् व्यपदेशाच्चक्षुरन्तस्स्थो विष्णुरेवेत्यर्थः। सर्पिर्घृतम्॥ एतं संयद्वाम इति॥ एतं चक्षुरन्तस्स्थं भगवन्तं संयद्वामः प्रकृष्टसौन्दर्य इत्याचक्षते विद्वांसः। कुतः हि यस्मादेतं सर्वाणि वामानि सौन्दर्याणि अभिसंयन्ति प्रविशन्तीत्यर्थः॥ एष इति॥ एष एव चक्षुरन्तस्स्थो भगवान्वामनिः सौन्दर्यनेतेत्युच्यते सूरिभिः। कुतः हि यस्मादेष एव सर्वाणि वामानि रमादिगतसौन्दर्याणि प्रापयतीत्यर्थः॥ एष इति॥ एष चक्षुरन्तस्स्थो भगवान्भामनिः प्रकाशमान इत्युच्यते। कुतः हि यस्मादेष एव सर्वेषु लोकेषु भाति दीप्यत इत्यर्थः॥ ननु आत्मशक्तेर्विष्णुनिष्ठत्वेन तल्लिङ्गत्वेऽपि स्थानशक्तेश्चक्षुर्निष्ठत्वेन विष्णुलिङ्गत्वासम्भवात्कथं भाष्य एतच्छब्देनोभयं परामृश्य तस्य विष्णुलिङ्गत्वोक्तिरित्यत आह॥ एतदिति स्वसम्बन्धेनेति॥ अस्य तात्पर्यमाह॥ यस्य प्रभावादिति॥ श्रुतावसपत्नो विरोधरहितः॥ समस्तमिति॥ इदं च तच्चश्रुश्चेदंचक्षुस्तस्मिन्नित्येकं पदम्। तेनास्मिन्नित्युपपन्नमिति भावः॥

विवृतिः

तद्यदस्मिन्नितिश्रुतौ तच्छब्दयच्छब्दयोर् व्यत्यासेनन्वयमभिप्रेत्यापेक्षितांशं पूरयन् व्याचष्टे॥ यस्मादयं पुरुषोऽक्षिणीत्यादिना॥ वर्त्मनी इत्यस्य कर्मद्वितीयात्वासम्भवादाह॥ वर्त्मनी प्रत्येवेति।

श्रुतावेवकारेणाक्ष्णोरसङ्गत्वं लभ्यत इत्यभिप्रेत्याह॥ न चक्षुरिति॥ नन्वात्मशक्तेर्विष्णुनिष्ठत्वेन तल्लिङ्गत्वेऽपि, स्थानशक्तेश्चक्षुर्निष्ठत्वेन विष्णुलिङ्गत्वासम्भवात्कथं भाष्ये एतच्छब्देनोभयं परामृश्य, तस्य विष्णुलिङ्गत्वोक्तिरित्यत आह॥ एतदिति॥ स्वसम्बन्धेनेति॥ स ईश इत्यादितच्छब्दस्य यच्छब्दसापेक्षत्वाद्यदिदंचक्षुषीत्यत्र यच्छब्दं तदर्थत्वेन व्याचष्टे॥ यद्यस्मादिति॥ इदंशब्दस्य सर्पिर्वेत्यत्र सम्बन्धेवैयर्थ्याद्विषयवाक्यगततद्यदस्मिन्निति वाक्यसमानार्थत्वलाभायाह॥ इदं चक्षुषीति॥