०३ गुहाधिकरणम्

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ


१. गुहाधिकरणम्

सूत्रभाष्यं

सर्वात्तैकः पर उक्तः। ‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः’। (क.उ.१-३-१) इति पिबन्तौ प्रतीयेते। तौ काविति। उच्यते।

॥ ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ॥ ११॥

गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एव। ‘घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगामे’ (ऋ.सं.१०-११४-१) त्यादिना तद्दर्शनात्।

‘आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः।

निविष्टो हृदये नित्यं रसं पिबति कर्मजम्’॥ इति बृहत्संहितायाम्।

‘शुभं पिबत्यसौ नित्यं नाशुभं स हरिः पिबेत्।

पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित्’॥ इति पाद्मे॥

‘यो वेद निहितं गुहायामि’(तै.उ.२-१)त्यादिना प्रसिद्धं हिशब्देन दर्शयति॥ ११॥

सत्तर्कदीपावली

यदुक्तं विष्णोः सर्वात्तृत्वं तत्र कर्मफलसारभोक्तृत्वापरपर्यायं पातृत्वं श्रूयते। ऋतं पिबन्तौ सुकृतस्य लोक इति कठवल्याम्। तत्रात्तृत्वं विष्णोर्न युज्यते। पिबन्ताविति द्विवचनासम्भवादित्येतं पक्षं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याचष्टे॥ गुहामित्यादिना॥ एकस्मिन्द्विरूपाभिप्रायेण विष्णौ द्विवचननिर्देशो युज्यते। तथाहि निर्दिश्यते श्रुत्यन्तरे घर्मेति। घर्मा घृष्टौ दीप्तौ। एतयोः सेवां प्रति मुख्यवायुर्गतवानित्यर्थः। मुख्यवायुसेव्यत्वादेव द्विरूपो विष्णुर्निर्दिश्यते। ऋतं पिबन्तावित्यस्य शुभऋतपातृद्विरूपविष्णुपरत्वे आगमवाक्यसंवादमाह॥ आत्मेति॥ गुहां प्रविष्टौ परम इति विशेषितत्वाद् ऋतं पिबन्तौ विष्णुरूपे एव भवितुमर्हतः। सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायां परमे व्योमन्नित्यादिगुहानिहितत्वेन प्रसिद्धत्वादित्येतदुक्तं सूत्रगतहिशब्देनाह॥ यो वेदेति॥

तत्त्वप्रदीपिका

‘‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छायातपौ ब्रह्मविदो वदन्ती’’ति काठके कथ्यते। ऋतं शास्त्रविहितकर्मभिरागतं फलम्। ‘सुकृतस्य लोकः’ सुकृतनिर्मितं शरीरम्। ‘परमं’ ब्रह्मावासत्वात्। ‘परार्धं’ परस्य स्थानं, परस्यान्यस्य जीवस्य, अभिमन्यमानत्वात्। ‘‘स हाऽयस्तः पितुरर्धमेयाये’’ति हि श्रुतिः। अत्र पिबन्तौ द्वौ प्रतीयेते तौ काविति संशयं द्योतयति। न च जीवे समन्वयोऽभिधीयत इत्युत्तरवचनात्पूर्वपक्षोऽपि सूचितः। अत्रैष संग्रहः। तौ किं जीवपरावुत पररूपे एवेति संशयः। जीवपराविति पूर्वः पक्षः। पातृत्वात्। नहि परस्यापिपासोः परमार्थतः पातृत्वोपपत्तिः। जीवपरपक्षे तु च्छत्रिन्यायेनोपपत्तिः। न च परपक्षे द्विवचनं युज्यते। छायारूपत्वं च ज्योतिरात्मनस्तस्य न स्यात्। जीवस्य तु तमस्सम्पृक्तत्वाद्युक्तमेव तादृग्रूपत्वम्। एवं तौ काविति मीमांसायां सिद्धान्त-मारभते। ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ। गुहां प्रविष्टाविति हेतुगर्भं विशेषणम्। विष्णोरेव हि गुहाप्रवेशस्तत्र तत्र श्रुतिषु प्रसिद्ध इति हिशब्दव्याख्याने दर्शयति। ‘घर्मौ’ घृष्टत्वेन घर्षकत्वेन च मितौ। ‘समन्तौ’ सम्पूर्णौ। प्रकृतिपुरुषकालव्यापिनौ यौ देशतः कालतः गुणतः शक्तितश्च। तयोः सेवां मातरिश्वा जगाम। द्युदेव्या वायुपत्न््नयाः स्तन्यं ‘पयो’ ‘दिधिषाणाः’ पिपासन्तो ‘देवा’ द्विरूपं तमेक‘मवेषन्’ अवनमैच्छन्, अन्वैच्छन्निति वा। विदुश्च तम् ‘अर्कम्’ अरं कंरूपं, ‘सहसामानं’ सहवायुम्। ‘‘एष उ एव सामे’’ति हि श्रुतिः। ‘‘वागेवर्क्तच्छ्रुतौ प्रोक्ता प्राणस्सामेति कीर्तित’’ इति तार्तीये। तद्दर्शनाद् उक्तविशेषणैर्निर्णीते विष्णौ द्विवचनदर्शनात्, ‘एकस्सुपर्णः स समुद्रमाविवेशे’’त्यादिना च तच्छब्देनैकवचनेन परामर्शदर्शनात्, तस्यैव समुद्रनिवेशिनोऽखिलभुवनदर्शिनो‘‘ऽपश्यमन्तित’’ इति गुहाप्रविष्टत्वदर्शनाच्च, तमेव ‘सुपर्णं’ सुष्टु परमानन्दरूपमेकं सन्तं ‘विप्रा’ विशेषेण प्रकृष्टज्ञानिनो ‘वचोभिर्बहुधा कल्पयन्ती’त्येकस्यैव बहुनामरूपत्वदर्शनाच्च पिबन्तौ विष्णुरूपे एव।

‘‘चतुश्शिखण्डां तु रमां द्विरूपो भगवान्हरिः।

परमानन्दरूपत्वात्सुपर्ण इति नामकः॥

रमयामास तस्यां च निषण्णस्सर्वदैव सः।

एक एव च विष्णुस्स प्रविष्टः क्षीरसागरम्॥

सर्वं पश्यत्यसौ देवः पूर्णाकुण्ठेन चेतसा।

परिपक्वेन मनसाऽपश्यमित्याह तं त्वजः॥

मातेव व्यञ्जकत्त्वात्तं प्राणस्थं वाक्सरस्वती।

लिहते लिह्यत इव प्राणस्तेन तु सा सदा॥

स्वयं तु भगवान्विष्णुर्वाक्पतेर्ब्रह्मणोऽपि हि।

नित्यः पिता स्वतन्त्रश्च नास्य माता पिताऽपि वा॥’’ इति ऋग्वेदसंहितायाम्।

न च ‘‘अनश्नन्नन्य’’ इति श्रुतिविरोधः। न ह्यत्र पराधीनतया भोगः, नाप्यप्रियभोगः। न च तन्निमित्तोच्चनीचता विष्णोः। किन्तु जीवसमवेते भोगे स्वीकारमात्रमुच्यते। अतो न पातृत्वविरोधश्च।

तत्त्वप्रकाशिका

अत्र लोकतोऽन्यत्र प्रसिद्धस्य कर्मफलभोक्तृत्वलिङ्गस्य विष्णौ समन्वयसमर्थनादस्ति शास्त्रादिसङ्गतिः। श्रुत्यादिसङ्गतिं विषयवाक्योदाहरणपूर्वकं विषयं च सूचयति॥ सर्वेति॥ सन्देहप्रकारं दर्शयति॥ ताविति॥ अत्ता चराचरग्रहणादिति सर्वात्तृत्वमेकस्य हरेरुक्तम्। तन्मध्यपतितं कर्मफलात्तृत्वं पातृशब्द-वाच्यं काठके कयोश्चित्प्रतीयते। यौ सुकृतनिर्मितशरीरे हृदयगुहां प्रविष्टौ। तत्रापि सर्वजीवोत्तमेऽतिपूर्णे वायौ प्रविष्टौ सुकृतफलं भुञ्जानौ। तौ ब्रह्मविदः पञ्चमहायज्ञवन्तो द्युपर्जन्यादिपञ्चाग्निविद्यानिष्ठा वा। त्रिवारकृत नाचिकेताः। छायातपौ वदन्तीति। तद्यदा विष्णोरन्यस्यैव स्यात्तदा न तस्य सर्वात्तृत्वं यदि चान्यस्यापि भवेत्तदा लक्षणस्यातिव्याप्तिरित्यवश्यं निर्णेयमेव। तत्कर्मफलभोक्तृत्वं विषयः। किं विष्णोरन्यस्य वेति सन्देहः। सर्वात्तृत्वोक्तिरन्यत्र प्रसिद्धिश्च सन्देहबीजम्। न परमात्मन एवेदं कर्मफलभोक्तृत्वमुच्यतेऽपि तु जीवसहितस्येति पूर्वः पक्षः। पिबन्ताविति द्विवचनश्रुतेः। न च सर्वात्तृत्वेन तद्बाधः। श्रुतेर्निरवकाशत्वात्। कर्मबन्धविधुरस्य ईश्वरस्य कर्मफलभोगायोगाच्च। अनश्नन्नन्य इत्यादिश्रुतेः। न चैवं जीवेशग्रहणेऽप्यनुपपत्तिः। जीवस्य भोक्तृत्वेन तत्सहितेश्वरे छत्रिन्यायेन भोगोपचारोपपत्तेः। न च सर्वात्तृत्वोक्तिविरोधः। कर्मफलभोगं विनाऽपि संहर्तृत्वमात्रेण तदुपपत्तेः। तथापि जीवेशत्वे को हेतुः। एकस्य जीवत्वं पातृत्वान्यथानुपपत्त्या ग्राह्यम्। न च द्वितीयोऽचेतनः। सजातीयग्रहणस्यैव न्याय्यत्वात्। न च द्वावपि जीवौ युक्तौ। एकस्मिन्नेव शरीरे भोक्तृजीवद्वयायोगात्। अतः पातृत्वं जीवस्यैव द्वयोरप्युपचार इति नेश्वरस्यैव सर्वात्तृत्वम्। तथा च लक्षणमयुक्तमिति भावः। अथ सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे॥ उच्यत इति॥ यौ पिबन्तौ प्रतीतौ तौ विष्णुरूपे एव। गुहाप्रविष्टत्वलिङ्गादित्यर्थः। विष्णू इति वक्तव्ये विष्णुरूपे एवेत्युक्त्या द्विवचनं द्विरूपाभिप्रायेण सावकाशम् इत्युक्तं भवति। ननु विष्णोः सर्वशरीरेष्वेकैकरूपेण प्रवेशात्कथं रूपद्वयाभिप्रायेणापि द्विवचनोपपत्तिरित्यतः सूत्रसूचितश्रुतिमुदाहरति॥ घर्मेति॥ दीप्तौ व्याप्तौ भगवन्तौ तेजोबन्नात्मकं शरीरं विशेषेण गुहास्थाने प्राप्तौ तयोः सेवां कर्तुं मातरिश्वाऽपि त्रिवृतं जगामेति द्विरूपतया हरेः शरीरे स्थित्युक्तेर्युक्तं रूपद्वयाभिप्रायेण द्विवचनमिति भावः। अस्तु द्विरूपतया विष्णुर्देहनिष्ठस्तथापि तस्य कर्मफलभोगाभावान्नैतद्वाक्यप्रतिपाद्यत्वमित्यत आह॥ आत्मेति॥ तथा च गीतासु।

‘श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।

अधिष्ठाय मनश्चायं विषयानुपसेवत’ इति।

ननु किमीश्वरो दुःखं सुखं वा कर्मफलं भुक्ते नोभयमपि पूर्णानन्दत्वादित्यत आह॥ शुभमिति॥ पूर्वार्धेनाऽऽद्यपक्षमनभ्युपगमेन परिहृत्य द्वितीयमभ्युपैति। उत्तरार्धेन तु पूर्णानन्दस्याप्यचिन्त्यैश्वर्यबलेन सुखभोगोपपत्तिरिति द्वितीयपक्षदूषणं परिहरति। विष्णोर्भोक्तृत्वाभ्युपगमेऽनश्नन्नन्य इत्यादिश्रुतिविरोध इत्यतो वाऽऽह॥ शुभमिति॥ अशुभभोगाभावविषयं तद्वाक्यमिति भावः। तथा हि वाक्यशेषः। ‘तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोऽनशद्यः पितरं न वेद’ इति। ननु कथं गुहानिविष्टत्वलिङ्गात्पिबतोर्विष्णुत्वनिश्चयो जीवेऽपि तद्युक्तेरित्यत आह॥ यो वेदेति॥ लिङ्गस्य जीवे सम्भवेऽपि श्रुत्यादिप्रसिद्धमेव ग्राह्यमिति भावः। इत्यादिना प्रसिद्धं हिशब्देन दर्शयतीति। विष्णोरेव गुहानिविष्टत्वमित्यादिना वाक्येन प्रसिद्धमितीममर्थं सूत्रकारो हिशब्देन दर्शयतीत्यर्थः॥ ११॥

गुर्वर्थदीपिका

आ समन्तादृद्धो ऽर्द्धः। परमतिशयेनार्द्धः परार्ध इति व्युत्पत्तिमाश्रित्यैवोक्तम् अतिपूर्ण इति। छायातपावित्यत्र सतां छायास्थानीयौ संसारधर्मश्रमहरावित्यर्थः। असतामातपावातपस्थानीयौ सन्तापकारिणावित्यर्थः। यद्यप्यन्यस्य कर्मफलमात्रभोक्तृत्वे सर्वात्तृत्वलक्षणस्य नातिव्याप्तिः। तथाऽपि स्वातन्त्र्येणैकैकात्तृत्वमपि भगवतो लक्षणम्। तस्यातिव्याप्तिरिति भावेनोक्तं लक्षणस्यातिव्याप्तिरिति। यद्वा सकलजीवकृतसत्कर्मफलभोक्तृत्वमपि भगवतो लक्षणं तस्यातिव्याप्तिरिति भावेनोक्तं लक्षणस्यातिव्याप्तिरिति। यद्वा सकलजीवकृतसत्कर्मफलभोक्तृत्वमपि भगवतो लक्षणमिति भावः। द्वयोरुपचार इत्यत्र द्वयोरपीति यच्छ्रूयते स उपचार इत्यर्थः। यस्माद्गुहां प्रविष्टौ तस्मादात्मानौ भगवद्रूपे एव। नाडीस्थितस्य जीवस्य गुहाप्रविष्टत्वायोगादित्यर्थमभिप्रेत्योक्तं गुहाप्रविष्टत्वलिङ्गादिति। अत एव गुहां प्रविष्टावित्यस्य हेतुगर्भविशेषणत्वात्साक्षाद्धर्मिनिदर्शनाय ‘‘ऋतं पिबन्ता’’विति भाष्यम्। विष्णुरूपे एवेति तु ‘‘सर्वं वाक्यं सावधारण’’मिति न्यायेन परपक्षव्यवच्छेदेन स्वपक्षस्थिरीकरणार्थम्। व्याप्तावित्यत्र समन्ताद्विद्यमानाविति योग्यपदाध्याहारेण श्रुतेरर्थमभिप्रैति। स्वादु यत्पिप्पलं कर्मफलं तदग्रे तस्यैतस्यैव परमात्मन एवाऽऽहुर्ज्ञानिनः। यः पितरं परमात्मानं न वेद स जीवस् तत्सुखमग्रे नोऽनशन्नाश्नादिति श्रुतेरर्थः। लिङ्गस्य जीवे सम्भवेऽपीत्यभ्युगम्योक्तम्। वस्तुगत्या जाग्रत्स्वप्नयोर् नाडीस्थस्य सुषुप्तौ च हरेः कुक्षिं प्रविष्टस्य न कदाचिद्गुहानिविष्टत्वमिति विज्ञेयम्।

भावबोधः

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ॥ श्रुत्यादिसङ्गतिमिति। अव्यवहितपूर्वाधिकरणोपात्त ‘स यद्यदेवासृजत’ इति श्रुतितदधिकरणाभ्यामित्यर्थः॥

‘आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः।

स विष्णुः परमे वायौ परेभ्योऽप्पृद्धरूपके॥

शुभान् पिबति भोगान् स छायेव विदुषां प्रभुः।

आतपः पापिनाम्’॥

इति स्मृतिं मनसि निधाय लोकपदस्य शरीरार्थत्वं षष्ठ्या जन्यजनकभावसम्बन्धार्थत्वं परमे परार्धे इत्यत्र वायावित्यध्याहारं चाभिप्रेत्य ‘ऋतं पिबन्तौ’ इति वाक्यं योजयति– यौ सुकृतेत्यादिना। तद्यदा विष्णोरन्यस्यैवेत्यादेरयमर्थः कर्मफलभोक्तृत्वस्य विष्ण्वन्यमात्रनिष्ठत्वे विष्णौ तदभावप्राप्त्या एकदेशवैकल्ये सर्ववैकल्येन सर्वात्तृत्वरूपलक्षणासम्भवः। कर्मफलभोक्तृत्वस्य विष्णोरन्यत्रापि विद्यमानत्वे गुहान्तर्निष्ठवायुनिष्ठत्वब्रह्मविद्वचनक्रियाकर्मत्वादेरपि प्राप्तौ सर्वात्तृत्वस्यापि तस्मिन् विष्ण्वन्यस्मिन् सम्भावयितुं शक्यत्वेन सर्वात्तृत्वस्यातिव्याप्तिप्राप्तिरिति। चन्द्रिकायां तु पूर्वत्र सर्वात्तृत्वं लक्षणत्वेनोक्तम्। ब्रह्मणि चाशुभभोक्तृत्वस्यासम्भवेऽपि शुभपातृत्वरूपं शुभभोक्तृत्वं सिद्धान्तरीत्या सम्भवति। तत्र च पिबतोर्जीवेश्वरत्वमुपेत्य जीवे पातृत्वं मुख्यमीश्वरे त्वमुख्यमिति स्वीकारेऽसम्भवः। उभयोरपि मुख्यमिति स्वीकारे तु जीवस्यापि शुभभोक्तृत्वेनेश्वरवत् सर्वात्तृत्वस्यापि प्रसङ्गादतिव्याप्तिरिति॥ तथा च द्वयोरपि पातृत्वं मुख्यमिति पूर्वपक्षोऽप्यत्राभिपे्रत इति द्रष्टव्यम्। यद्वा गुहाप्रविष्टत्वादिब्रह्मलिङ्गसहितस्यापि ऋतपातृत्वस्यासम्भवोऽतिव्याप्तिर्वा यदा तदा तत्सहचरितस्य पूर्वोक्तातृत्वस्यासम्भवोऽतिव्याप्तिर्वा स्यादिति। तथा च लक्षणमयुक्तमिति। यद्यपि सर्वसंहतृत्वरूपलक्षणं ब्रह्मण्येवेति पूर्वपक्षिणापि स्वीकृतम्। अत एव टीका– कर्मफलभोगं विना संहर्तृत्वमात्रेण तदुपपत्तेरिति। तथापि सिद्धान्त्यभिप्रेतं संहर्तृत्वविशेषात्मकं भक्षयितृत्वरूपं लक्षणमयुक्तमिति भाव इत्युक्तम्। किं विष्णोरिति। अत्र पिबन्तौ किं जीवेश्वरावुत विष्णुरूपविशेषाविति चिन्ता। तदर्थं द्विवचनान्तश्रुतिकर्मफलभोगच्छायातप-त्वादिकं किं गुहाप्रविष्टत्वब्रह्मशब्दादिबाधकमुत तद्बाध्यमिति। तदर्थं द्विवचनश्रुत्यादिकं भेदभोक्तृत्व-श्रुतिविरोधाज्ञानादिप्राप्त्या विष्णावनवकाशमुत विशेषाशुभभोगाभावविद्वदविद्वत्सुखहेतुत्वादिना विष्णौ सावकाशमिति। तदर्थमेतद्वाक्योक्तब्रह्मशब्दगुहाप्रविष्टत्वादिलिङ्गं च किं जीवादिसाधारणमुत विष्णुमात्र-निष्ठमिति। तदर्थं द्विवचनश्रुत्यादेः सावकाशत्वे गुहाप्रविष्टत्वलिङ्गस्य ब्रह्मशब्दादेश्च निरवकाशत्वे प्रमाणं नास्त्युतास्तीति॥

ननु जीवस्यैव मुख्यतः पातृत्वम् ईश्वरस्य तु उपचरितं तदित्यङ्गीकारे युगपद् वृत्तिद्वयविरोधप्रसङ्ग इत्यत आह– द्वयोरिति। द्वित्वावच्छेदेनोभयत्राप्युपचार इत्यर्थः। अत एव पूर्वं तादृश एव छत्रिन्याय उदाहृतः। गुहाप्रविष्टत्वलिङ्गादित्यर्थ इति। अनेन सूत्रे ‘‘गुहां प्रविष्टावि’’ति हेत्वर्थगर्भविशेषणमिति ‘हि’शब्दो यस्मादित्यर्थेऽपि वर्तत इति वा सूचितमिति बोद्धव्यम्॥

ननु सूत्रे समन्वेतव्यलिङ्गप्रदर्शनाय पिबन्तावित्येव वक्तव्यम्। श्रुत्यनुसारात्। स्पष्टत्वाच्च। आत्मानाविति किमर्थमिति चेत्, न; समन्वेतव्यलिङ्गस्यात्मान्तरात्मेति स्मृतिसमाख्यायाश्च प्रदर्शनायात्म-ग्रहणात्। भवति हि पिबच्छब्दवदात्मशब्दोऽपि आदेयं कर्मफलं मात्यनुभवतीति व्युत्पत्त्या कर्मफल-भोक्तृत्वलिङ्गप्रतिपादक इति भावः। ‘तत्तु समन्वयात्’ इत्यत अनुवर्तमानस्य ‘तत्’ इत्यस्य ‘‘किन्तु विष्णुरेव सर्वत्रोच्यमानो नारायण एवे’’त्यत्र लिङ्गव्यत्यासेन व्याख्यानवदत्रापि वचनव्यत्यासेनापि विष्णू इति व्याख्यानोपपत्तिमभिप्रेत्य रूपपदप्रयोगप्रयोजनमाह– विष्णू इति। अनेन द्विवचनश्रुतेरपि बलं निरवकाशत्वं नास्ति। विष्णोरेव द्विरूपत्वादिति न्यायविवरणमुक्ततात्पर्यं भवति। भगवन्ताविति विशेष्यपदस्य श्रुतावध्याहारः। ‘वि’ इत्यस्यार्थो विशेषेण गुहास्थान इति। अशुभभोगाभावविषय-मिति। अत एवाथर्वणभाष्ये जीवाद्यमेव नाश्नाति। न तु नाश्नात्येवेत्युक्तम्। वाक्यशेष इति। योऽग्रे श्रेष्ठस्तस्यैव स्वादु पिप्पलमाहुः। य उद् उत्कृष्टं पितरं न वेद अत एव अनशन् नाशवान्। तस्य स्वादु पिप्पलं नेति वाऽत्र शेषार्थो ज्ञेयः। श्रुत्यादिप्रसिद्धमिति। ब्रह्मशब्दात्मशब्दादेर्जीवे प्रयोगेऽपि श्रुत्यादिप्रसिद्ध्यभावाद् आनन्दमयाधिकरणादौ यथा तस्य हेतुत्वेनोपादानं तथा प्रकृतेऽपि गुहानिविष्टत्वस्य श्रुत्यादिना विष्णावेव प्रसिद्धस्य हेतुत्वेनोपादानमित्यर्थः। नन्वयमर्थो मूलान्नावगम्यत इत्यत आदौ विष्णोरेव निविष्टत्वमिति प्रसिद्धमित्यनन्तरम् ‘इति’शब्दमध्याहृत्य व्याख्येयम्। सोदाहरणपूर्वकं ‘यो वेद’ इति मूलवाक्यं व्याख्याति– य इत्यादिना प्रसिद्धमित्यादिना।

भावदीपः

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ॥ लोकतोऽन्यत्रेति॥ अत्रापि पूर्वोत्तरनयेष्विव द्विवचनश्रुतिरूपान्यसाहित्येनैवान्यत्र प्रसिद्धिर्वाच्या तथापि स्वत एव तस्याः सम्भवे त्यागायोगादेवमुक्तम्। प्रतीयेते इत्यन्तं भाष्यं सङ्गतिपरतया व्याचष्टे॥ अत्तेति॥ उक्त इत्यनन्तरं तत्रेति पूर्वसङ्गतिभाष्यादनुवृत्तिं वा शेषं वा मत्वा तन्मध्यपतितेत्युक्तम्। पिबन्तावित्यत्र प्रातिपदिकार्थः कर्मफलेति। द्विवचनप्रत्ययार्थः कयोश्चिदिति। तत्कथमित्यतः विष्णुः स परमे वायौ परेभ्योऽप्यृद्धरूपक इत्यादितद्भाष्यानुरोधेनार्थोक्त्या व्यनक्ति॥ याविति॥ पञ्चेति॥ पञ्च वा एते महायज्ञा इत्यादितैत्तिरीयोक्तदेवयज्ञपितृयज्ञभूतयज्ञ-मनुष्ययज्ञब्रह्मयज्ञरूपपञ्चयज्ञवन्तो वा। स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोम इत्यैतरेयोक्तपञ्चमहायज्ञवन्तो वा॥ द्युपर्जन्येति॥ असौ वाव लोको गौतमाग्निरिति छान्दोग्यपञ्चमाध्यायादौ उक्तद्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्नीत्यर्थः। नाचिकेता नाचिकेतनाम-केष्टकचितवन्त इत्यर्थः॥ यौ तावित्युक्त्या छायातपत्वं विधेयम् अन्यदनुवाद्यम् इति दर्शितम्। सदसतां छायातपाविवेत्यर्थोऽग्रे परमतापाकृतिप्रस्तावे व्यक्त इति पदद्वयं न व्याकृतम्। इति प्रतीयत इत्यन्वयः। भावमाह॥ तद्यदेति॥ न तस्येति॥ तथा च लक्षणमसम्भवीत्यर्थः। एकदेशवैकल्यात्॥ अतिव्याप्तिरिति॥ ईश्वरवज्जीवस्यापि स्वातन्त्र्येण कर्मफलभोक्तृत्वे सर्वात्तृत्वस्यापि प्रसङ्गेनाति-व्याप्तिरित्यर्थ इति सङ्गतिसम्भवादित्यर्थः। विष्णोरन्यस्य वेत्यनन्तरं विष्णोरेव वेति सिद्धान्तकोटेः शेषः। तेन सन्देहस्य न पूर्वपक्षाद्यनानुगुण्यम्। सिद्धान्ते विष्णुरूपे एव इत्युक्त्या सूचितां पूर्वपक्षकोटि-माह॥ न परमात्मन एवेति॥ उच्यते ऋतं पिबन्ताविति श्रुतावित्यर्थः। पिबन्तौ प्रतीयेते इति भाष्ये द्विवचनानुवादेन सूचितं हेतुमाह॥ पिबन्तावितीति॥ द्विवचनश्रुतेरपि बलं निरवकाशत्वमिति न्यायविवरणोक्तं सौत्रद्विवचनान्तात्मपदव्यावर्त्यं निरवकाशत्वं व्यावर्त्यशङ्कापूर्वमाह॥ न चेति॥ प्राग्विष्णौ समन्वितसर्वात्तृत्वान्तःपतितकर्मफलात्तृत्वलिङ्गेन प्रातिपदिकोक्तेन द्विवचनश्रुतेर्बाध इत्यर्थः॥ श्रुतेरिति॥ निर्भेदविष्णौ द्वित्वस्यायोगेन द्व्येकयोर्द्विवचनैकवचने इति द्वित्ववाचिद्विवचनस्य तत्र वृत्तेरयोगात्। अन्यथा द्वा सुपर्णेत्यादावपि द्वित्वेन भेदो न सिद्ध्येदिति भावः। अङ्गीकृत्येदमुक्तं वस्तुतस्तु सर्वात्तृत्वमध्यपतितं कर्मफलात्तृत्वं न विष्णुनिष्ठमपि। येन श्रुतिबाधः स्यादित्याह॥ कर्मबन्धविधुरस्येति॥ अत्र हेतुरीश्वरस्येति। उक्तं हि गीताभाष्ये। यः कर्मापि नियमयति कथं तत्तं बध्नातीति। अन्यत्र धर्मादन्यत्राधर्मादित्यादिश्रुतेश्चेति भावः। अत एव भाष्ये पिबन्ताविति प्रातिपदिकांशोऽप्युदाहृतः। अन्यथा द्वौ प्रतीयेते इत्येवावक्ष्यत्। अत एव च पिबन्ताविति प्रातिपदिकप्रत्ययोक्ताभ्यां पूर्वपक्षकोटिसाधकाभ्यां पूर्वपक्षसम्भवाद्भाष्ये द्विवचनश्रुतेर् निरवकाशत्वानुक्तिः। अन्यत्र तदुक्तिस्तु पूर्वपक्षदार्ढ्याय। गुहाप्रविष्टत्वं तु द्वयोरपि युक्तमिति भावः॥ छत्रीति॥ छत्र्यछत्रिसमुदाये छत्रिणो गच्छन्तीति यथोक्तिस्तथेत्यर्थः॥ भोक्तृजीवेति॥ व्यवस्थिततत्तज्जीव-कर्मार्जितशरीरे तस्य तस्यैव भोक्तृत्वादनेकभोक्तृत्वेऽन्योन्यनियमनायोगेन शरीरोन्मथनादिप्रसङ्गादिति भावः। चैद्यादिदेहेषु च बलवता निमित्तेन भोक्तृद्वयसमावेशः क्वाचित्को हरीच्छया युक्तः। जीवस्यैव चेत्कथं पिबन्ताविति द्वयोरप्युक्तिर् अत आह॥ द्वयोरिति॥ द्वयोरप्युक्तिरूपचारबुद्ध्येत्यर्थः॥ नेश्वरस्यैवेति॥ जीवस्यापि स्वातन्त्र्येण कर्मफलभोक्तृत्वे सर्वात्तृत्वस्यापि प्रसङ्गादिति भावः॥ अथेति॥ अथ केन प्रयुक्तोऽयमित्यादाविवार्थान्तरेऽयमथशब्दः। ताविति पदमनुवर्त्य तस्यार्थं वदन् प्रतिज्ञांशं व्याचष्टे॥ याविति॥ लिङ्गादिति॥ सूत्रे गुहां प्रविष्टाविति हेतुगर्भमिति भावः। द्विवचनश्रुतेरपि बलं निरवकाशत्वं नास्ति विष्णोरेव द्विरूपत्वादिति न्यायविवरणोक्त्यनुरोधेन रूपपदभावमाह॥ विष्णू इतीति॥ अत्रोपपत्तिस्तु ‘‘द्वित्वं चैकस्य युज्यत’’ इत्यनुव्याख्यान-सुधाचन्द्रिकासु व्यक्ता। क्रमेण पदानामर्थमाह॥ दीप्ताविति॥ भगवन्ताविति शेषः। निविष्टो हृदय इति स्मृत्यनुरोधात्। व्यापतुरित्यत्रोपसर्गार्थं व्यनक्ति॥ गुहास्थान इति॥ जुष्टिं सेवां जुषी प्रीतिसेवनयोः॥ आत्मेतीति॥ आत्मा देहस्थः। अन्तरात्मा जीवहृदयस्थः। कर्मफलादनस्येन्द्रिय-साध्यत्वात् हृदयनिविष्टस्य कथं तदित्यत आह॥ तथा च गीतास्विति॥ अर्थबाहुल्याद्बहुवचनम्। यच्चाप्युत्क्रामतीश्वर इति पूर्वत्र पश्यन्ति ज्ञानचक्षुष इत्युत्तरत्र च श्रवणादिदं वाक्यमीश्वरपरमिति भावः। विवृतमेतच्छान्दोग्यभाष्ये भुङ्क्ते गुणान्षोडश षोडशात्मकस्सोऽलङ्कृषीष्ट भगवान्वचांसि म इत्यादौ भगवत एव स्वकीयैरिन्द्रियैर्भोगोक्तेश्चत्यादिना। तथा स एतैरिन्द्रियैर्विष्णुर्भोगाननुभवत्यजः। स्वरूपेणैव शक्तोऽपि जीवदेहस्थितो हरिः। भुङ्क्ते तदिन्द्रियैर्भोगाञ्छुरितैरिन्द्रियैः स्वकैरित्यादिना चाष्टमे व्यक्तमेतत्॥ अशुभभोगेति॥ कुत एवं सङ्कोचः श्रुतेरित्यतोऽसद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषादिति वक्ष्यमाणन्यायेन वाक्यशेषोक्तभोगान्यथानुपपत्त्या ईशभोगस्याशुभविषयकत्वं नेत्येवानशनश्रुतेरर्थ इति मत्वाऽऽह॥ तथा हीति॥ आथर्वणे अस्याश्रुतावपि ऋक्शाखायामस्ति श्रवणं यो ऽग्रे अग््रयः श्रेष्ठस् तस्यैव स्वादु पिप्पलं कर्मफलमाहुः। यः पितरं विष्णुमुद् उत्कृष्टं न वेद अत एव नशन् नाशवान् तस्य स्वादुः पिप्पलं नेति वाक्यशेषार्थो ध्येयः। जीवाद्यमेव नाश्नाति न तु नाश्नात्येव तस्येदाहुः पिप्पलं स्वाद्वग्र इत्युक्तत्वादित्याथर्वणभाष्ये वाक्यशेषे जीवानद्यस्वाद्वदनोक्त्याऽन्यः पिप्पलं स्वाद्वत्तीति पूर्ववाक्येऽस्वाद्वेव स्वादुत्वेन जीवेनाद्यमानमनश्नन्निति निषिध्यत इति तद्विविक्तसारांशभोक्तृत्वं तु विद्यत एवेत्यर्थान्तरमुक्तम्। प्रविविक्ताहारभुग्यस्माच्छारीरादात्मन इति श्रुतेः। तथा स्वातन्त्र्येणैव भोक्तृत्वाद् दुःखाभोगाच्च सर्वदा। अभोक्ता चैव भोक्ता चेति परतन्त्रभोगदुःखरूपाशुभ-भोगनिषेधरूपार्थान्तरद्वयमुक्तम्। ‘‘एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयानिति’’ एकादशस्कन्धतात्पर्ये। अत्तिं विनाप्यदौर्बल्यात्तथा नात्तिर्हरेर्भुज इत्यादिना जीववदुपजीवनार्थाशनं नेत्यर्थान्तरमनशनश्रुतेरुक्तम्। वक्ष्यते चैतदेव स्थित्यदनाभ्यां चेति सूत्रे। तथा च गीताभाष्येऽपि स्थूलभोगाभावादिपरतयाऽपि सप्तमे विवृतमेतत्। ऋतं पिबन्तावित्यत्र ऋतशब्द ऋतं सत्यं तथा धर्म इति गीताभाष्योक्त्या धर्ममात्रपर इति भावः॥ प्रसिद्धमेवेति॥ शीघ्रमुपस्थितेः। न हि मैथिल इत्युक्ते यः कश्चिन्मिथिलाभवो भासते। किन्तु यस्तद्भवस् तदधिपः स एवेति भावः। भाष्ये इत्यादिना प्रसिद्धमित्यस्यान्वयाप्रतीतेरपेक्षितपूर्त्याऽन्वयमाह॥ इत्यादिनेति॥ आदिपदेन गुहाहितं गह्वरेष्ठं पुराणम्। गुहां प्रविश्य तिष्ठन्तमित्यादि ग्राह्यम्॥ ११॥

अभिनवचन्द्रिका

अत्र लोकतोऽन्यत्रप्रसिद्धस्येति॥ यद्यप्ययं पादः श्रुतिलिङ्गाभ्यामन्यत्रप्रसिद्धलिङ्गात्मक-शब्दसमन्वयार्थः, तथापि – पादार्थानां प्रायिकत्वेन लोकतोऽन्यत्रप्रसिद्धलिङ्गसमन्वयोक्तिरुपपन्नेति भावः। तन्मध्यपतितेति॥ एतदधिकरणप्रतिपाद्यस्य पूर्वाधिकरणतच्छ्रुति प्रतिपाद्यैकदेशत्वमेव ताभ्यां सङ्गतिरिति भावः। त्रिवारकृतनाचिकेता इति॥ त्रिवारकृतनाचिकेताख्ययज्ञवन्त इत्यर्थः। अन्यस्यापीति॥ ननु पूर्वपक्षे जीवस्यैव पातृत्वमिति वक्ष्यमाणत्वात् तन्निरासाऽऽवश्यकत्वाय प्रागुक्ताऽ-सम्भवव्युत्पादनमेवोचितं, युक्तं च। एकात्तृत्वाभावे सर्वात्तृत्वाभावस्यावर्जनीयत्वात्, न तु ‘यदि चान्यस्यापि भवेद् लक्षणस्यातिव्याप्ति’ रिति अतिव्याप्तिवर्णनं युक्तम्। पूर्वपक्षे अन्यस्यापीत्यनभिधानात्। अलक्ष्यत्वाभिमते जीवे पातृत्वमात्रसद्भावेऽपि लक्षणत्वाभिमतस्य सर्वात्तृत्वस्याऽऽभावात्। किं च – कर्मफलभोक्तृत्वमन्यस्यैव। अन्यस्यापि वाऽस्तु तथापि न दोषः, दुष्कर्मफलभोगस्य अन्यमात्र-निष्ठत्वेऽप्यसम्भवाभाववत्, इहापि असम्भवाभावसम्भवात्। अन्यथा असम्भवपरिहाराय सत्कर्मफल-पातृत्वसमर्थनवद् असत्कर्मफलपातृत्वमपीश्वरस्य समर्थनीयं स्यात्। न च – सर्वमत्तीत्यनेन दुष्कर्मफला-त्तृत्वस्य लक्षणत्वेनाऽविवक्षितत्वात्, तस्याऽन्यमात्रवृत्तित्वं न दोषायेति वाच्यम्। एवं हि सत्कर्म-फलात्तृत्वस्याऽपि ‘सर्वमत्ती’ त्यनेनाऽविवक्षितत्वेन एतस्याप्यन्यमात्रगामित्वं न दोष इत्यस्तु। न च– ‘सर्वमत्ती’त्यनेन सत्कर्मफलभोक्तृत्वं विवक्षितम्। असकर्त्मफलभोक्तृत्वं न विवक्षितमित्यत्र किञ्चिन्नियामकमस्ति। ‘अनश्नन्नन्यो अभिचाकशीती’ त्यशननिषेधस्योभयत्रापि तुल्यत्वात्। न च– ‘रसं पिबति कर्मज’मिति बृहत्संहितोक्तेः, ‘शुभं पिबत्यसौ नित्यं नाऽशुभं स हरिः पिबे’दिति पाद्मोक्तेश्च शुभपातृत्वमेव लक्षणत्वेन विवक्षितम्। नाशुभपातृत्वमिति वाच्यम्। कर्मलेपप्रसङ्गात्। इदमेव हि कर्मलिप्तत्वं यत् तत्फलभोक्तृत्वम्। न च तदिष्टम्। तस्यासङ्गत्वाङ्गीकारादिति चेत्, उच्यते– असम्भवनिरासवद् अतिव्याप्तिनिरासस्याप्यावश्यकत्वात्। अनेनाधिकरणेन तदुभयमपि सूत्रकृता निराक्रियत इति द्योतनायाऽसम्भवनिरासायेवाऽतिव्याप्तिनिरासायैतदधिकरणमावश्यकमित्युक्तम्। एकस्यैव पूर्वपक्षस्य प्रदर्शनं तु अपरः पूर्वपक्षः शिष्यैरेवोह्यतामित्यभिप्रेत्य, न तु तदभावाभिप्रायेण। यदत्रोक्तम्– अलक्ष्यात्वाभिमते जीवे पातृत्वमात्रसद्धावेऽपि लक्षणत्वाभिमतस्य सर्वात्तृत्वस्याऽभावाद् अतिव्याप्ति-वर्णनमयुक्तमिति। अत्र वक्तव्यम्– किं पूर्वपक्षिणो ऽस्वातन्त्र्येण पातृत्वमन्यनिष्ठतयाऽभिमतम् उत स्वातन्त्र्येण। नाद्यः– अस्माकमप्रतिपक्षत्वप्रसङ्गात्। द्वितीये स्वातन्त्र्यसद्भावेन कर्मफलात्तृत्ववत् सर्वात्तृत्वस्यापि प्रसङ्गात् कथं नातिव्याप्तिः। न हि स्वतन्त्रस्य कर्मफलात्तृत्वं सम्भवति, अन्यन्न सम्भवतीति सम्भवति। अन्यथा ईश्वरस्यापि तदभावप्रसङ्गः। यदत्रोक्तम्– ‘किञ्चेत्यादिनाऽ-सत्कर्मफलभोक्तृत्वस्याऽन्यमात्रनिष्ठत्ववत् सत्कर्मफलभोक्तृत्वस्यापि अन्यमात्रनिष्ठत्वमन्यनिष्ठत्वं वा न दोषाय। अन्यथा तस्याप्यसम्भवापादकत्वं स्या’दित्यादि। तन्न– वैषम्यात्। असत्कर्मफलभोक्तृत्वस्य पूर्णत्वविरोधिनः लक्षणत्वेनाविवक्षितत्वात्। अस्य तु लक्षणत्वेन विवक्षितत्वात्। न चेश्वरस्य कर्मफलभोक्तृत्वे तल्लेपप्रसङ्गः। तत्कर्मफलभोगस्यैव तल्लेपत्वादिति वाच्यम्। नियोगतः फलभोगस्यैव लेपत्वेन फलभोगमात्रस्यैवालेपत्वात्। इदमेव हि ईश्वरस्याऽलिप्तत्वं नाम यन्नियोगतो भोगानर्हत्वम्। पूर्णस्य कुतः फलभोग इति चेत्, किं प्रमाणं पृच्छसि आहोस्वित् प्रयोजनम्। आद्ये – ‘शुभं पिबत्यसा’विति स्मृतिरित्युत्तरम्। द्वितीयेऽपि किं स्वप्रयोजनं पृच्छसि, आहोस्वित् परप्रयोजनम्। आद्ये– नास्तीत्युत्तरम्। द्वितीये अस्तीत्युत्तरम्। परं तु तत्प्रयोजनविशेषं स्थूलदृश्वानो नोत्प्रेक्षितुं प्रभवामः। तदुक्तम्– ‘चेष्टा न ज्ञायते क्वचि’ दिति। जानन्नपि भाष्यकारस् तच्छ्रुवणे मन्दानामनधि-कारात् तत्प्रयोजनविशेषं नाऽवादीदिति द्रष्टव्यम्। किं विष्णोरिति॥ ‘ऋतं पिबन्तौ’’ इति द्विवचनश्रुतेः, ‘पिबन्तौ प्रतीयेते तौ कौ’ इति भाष्योक्तेश्च पिबन्तौविषयौ तौ किं जीवपरौ, उत विष्णू एवेति संशयो वक्तव्यः, न तु भोक्तृत्वं विषयः किं विष्णोरन्यस्य वेति सन्देह इति वक्तव्यम्। अथवा – पिबतोश् छायाऽऽतपत्वस्य श्रुतावेवोक्तत्वेन संशयानुदयाच् छायातपयोरेव संशयो वक्तव्यः। किमिमौ छायातपौ जीवेश्वरौ उतेश्वरावेवेति। अथवा– द्वावपि जीवौ उत विष्णू इति संशयो वक्तव्यः, उभयोरपि सिद्धान्ते विष्णुत्वसमर्थनात्। अन्यथा– अन्यतरस्यैव विष्णुर्नेति संशयविषयत्वेनो-भयोस्तत्साधनमयुक्तं स्यादिति चेत्, उच्यते – भाष्ये प्रत्यधिकरणम् एकैकसंशयस्य प्रदर्शनात्, एक एव संशयः सूत्रनिरस्य इति न मन्तव्यम्, अपि तु – यथासम्भवं सूत्रनिरस्या बहवः संशया द्रष्टव्या इति सूचनाय टीकाकृता ‘कर्मफलभोक्तृत्वं विषयः, किं विष्णोरन्यस्य वे’ति संशयो दर्शितः। पूर्वोक्तसंशयानां टीकाकृतोऽभिमतत्वात् तेऽपि सूत्रनिरस्यत्वेन शिष्यैरूह्माः। यद्यपि– ‘पिबन्ता’विति द्विवचनं श्रुतं तथापि समन्वेतव्यलिङ्गं कर्मफलभोक्तृत्वमेकमेवेति द्योतनाय ‘कर्मफलभोक्तृत्वं विषय’ इति उक्तमिति द्रष्टव्यम्। न परमात्मन एवेति॥ यद्यपि नेदं कर्मफलभोक्तृत्वं परमात्मनः, अपि तु जीवस्यैवेति पूर्वपक्षो वक्तव्यः, तथापि संशयकोट्यवलम्ब्यैव पूर्वपक्षः सूत्रनिरस्य इति न मन्तव्यम्, अपि तु अन्योऽपि पूर्वपक्षः सूत्रनिरस्य इति द्योतनाय सर्वात्तृत्वान्तर्गतमिदं कर्मफलभोक्तृत्वम्। ‘ऋतं पिबन्ता’विति श्रुत्या न परमात्मन एवोच्यते, अपि तु जीवसहितस्योच्यत इति पूर्वपक्षः प्रदर्शितः। एतेन – उच्यत इति पदं व्यर्थमिति परास्तम्। न चेति॥ ‘ऋतं पिबन्ता’विति श्रुतौ विशेषानुक्तेः सर्वकर्मफलाऽत्तृत्वस्यैव लाभात्, तस्य च विष्णुलिङ्गात्, तेन च एतद्वाक्यप्रतिपाद्यत्वं विष्णोरेव न जीवस्येति सिद्धेः, द्विवचनश्रुतिसाध्यस्य द्वयोः प्रतिपाद्यत्वरूपसाध्यस्य बाध इत्यर्थः। एतेन श्रुतौ सर्वात्तृत्वस्याऽश्रवणात् तेन श्रुतिबाधाभिधानमयुक्तम्, असिद्धस्य बाधकत्वायोगादिति परास्तम्। सर्वात्तृत्वशब्देन ‘ऋतं पिबन्ता’विति श्रुत्युक्तसर्वकर्मात्तृत्वस्य विवक्षितत्वात्। श्रुतेर्निरवकाशत्वादिति॥ भवेद् द्विवचनश्रुतिसिद्धस्य उभयोः प्रतिपाद्यत्वरूपसाध्यस्य लिङ्गेन बाधः, यद्येकस्य प्रतिपाद्यत्वपक्षे श्रुतिः कथंचिदुपपन्ना स्यात्; न चैवमिति न श्रुतिसिद्धसाध्यापहार इत्यर्थः। अङ्गीकृत्य चेदमुक्तम्। वस्तुतस्तु न सर्वकर्मफलात्तृत्वमीश्वरलिङ्गम्। ततश्च न तेन श्रुतिसिद्धसाध्यापहार इत्याह – कर्मबन्धेति॥ न केवलं कर्मबन्धवैधुर्येण कर्मफलात्तृत्वस्येश्वरधर्मत्वाभावः सिद्ध्यति अपि तु श्रुत्या चेति भावेनाह– अनश्नन्निति॥ न चैवमिति॥ यथा ईश्वरस्यैकस्य प्रतिपाद्यत्वपक्षे द्विवचन-श्रुत्यनुपपत्तिः, एवमुभयोः प्रतिपाद्यत्वपक्षेऽप्यनुपपत्तिरस्ति, पिबत्प्रातिपदिकोक्तकर्मफलात्तृत्वस्येश्वरांशेऽ-भावेन श्रुत्यप्रामाण्यप्रसङ्गादिति न वाच्यमित्यर्थः। उपचारोपपत्तेरिति॥ पिबन्तावित्यस्योपचारत्वेन श्रुतिप्रामाण्योपपत्तेरित्यर्थः। तात्पर्याविषयीभूतार्थाभाव एवाप्रामाण्यम्। ईश्वरस्य पातृत्वं न श्रुतितात्पर्य-विषय इति तदभावो नाऽप्रामाण्यहेतुरित्यर्थः। ननु ‘अनश्न’न्निति श्रुतिबलेनेश्वरस्य कर्मफलभोक्तृत्वा-भावसाधनमयुक्तम्, ‘सर्वं वा अत्ती’ति सर्वात्तृत्वाभिधायकश्रुतिविरुद्धत्वादित्याशङ्क्य निषेधति – न चेति॥ तदुपपत्तेरिति॥ श्रुत्युक्तसर्वात्तृत्वोपपत्तेरित्यर्थः। ननु– अस्तु द्विवचनश्रुतिबलाद् द्वियोरेतच्छ्रुतिप्रतिप्रतिपाद्यत्वं तथापि एको जीवो ऽपरस्तु ईश्वर इति कुतोऽभ्युपगन्तव्यम्। द्वावप्यचेतनौ किं न स्यातां पिबन्तावित्यस्य सिंहो माणवक इत्यादिवद् उपचारेण नेतुं शक्यत्वादित्याशयेन पृच्छति– तथापीति॥ पातृत्वान्यथानुपपत्त्येति॥ एकस्य जीवत्वमङ्गीकृत्य पिबन्तावित्यस्य तत्र स्वार्थसमर्पकत्वोपपत्तौ सर्वथा अर्थसमर्पणतात्पर्यवैधुर्यस्याऽन्याय्यत्वादिति भावः। ननु – उभावपि एतच्छ्रुत्युक्तौ जीवावेव ‘पिबन्ता’ वित्यत्र छत्रिन्यायस्याऽननुसर्तव्यत्वादित्याशङ्क्य निषेधति– न च द्वावपीति॥ एकस्मिन्नेव शरीर इति॥ ‘सुकृतस्य लोक’ इत्युक्तेर्ब्रह्मशरीरे भोक्तृजीवद्वयायोगादिर्थः। द्वात्रिंशल्लक्षणोपेते देहे जीवोत्तमहिरण्यगर्भातिरिक्तस्य भोक्तृत्वमयुक्तमिति भावः। एतेन रावणादिशरीरे द्वयोः, द्रौपदीशरीरे पञ्चानां भोक्तृत्वदर्शनेन भोक्तृजीवद्वयायोग इति परास्तम्। वरशापादिनिमित्तान्तरेण तत्र तथासम्भवेऽपि ब्रह्मशरीरे जीवद्वयायोग इत्यर्थस्य युक्तत्वात्। उपसंहरति – अत इति॥ जीवेश्वरयोर्द्वयोरपि प्रतिपादनाय प्रवृत्तः पिबन्ताविति शब्दः, उपचारश् छत्रिन्यायेन प्रवृत्त इति हेतोः पातृत्वं जीवस्यैव नेश्वरस्य। ततश्च एकदेशापगमाद् लक्षणत्वेनाभिमत सर्वात्तृत्वम्ईश्वरस्यैव लक्ष्यस्यैव नास्तीति लक्षणमयुक्तम् असम्भवीत्यर्थः। एतेन – पातृत्वं जीवस्यैवेति जीवस्य पातृत्वमभिधाय द्वयोरप्युपचार इत्यभिधानमयुक्तमिति परास्तम्। तस्येदाहुरिति॥ यः परमात्मा। अग्ने = अग्य्रः, तस्येत्, इच्छब्द एवार्थे, तस्यैव। स्वादु पिप्पलं, आहुः= ज्ञानिन इति शेषः। यस्तु जीव उत् = उत्कृष्टं परमात्मानं न वेद तस्य जीवस्य, तन्न= स्वादुफलं न। अत एव – नशन् नाशवान् इति वाक्यशेषार्थः। ननु – गुहानिहितत्वलिङ्गस्य न विष्णुत्वनिश्चायकत्वं जीवनिष्ठत्वादित्याशङ्का ‘यो वेद निहितं गुहाया’मित्यादिना भाष्येण न परिहृतेत्याशङ्कापरिहाराय आदौ तद्भावमाह – लिङ्गस्येति॥ सत्यमस्ति गुहानिहितत्वं जीवेऽपि तथापि सूत्रकृता ईश्वरनिष्ठस्य गुहानिहितत्वस्य लिङ्गत्वेनोपादानात् तेन विष्णुत्वनिश्चयो युज्यते। न च – सूत्रकृता विष्णुनिष्ठमेव गुहानिहितत्वं हेतुत्वेनोपात्तं न जीवनिष्ठमिति कुतो निश्चय इति वाच्यम्। ‘अजस्य नाभौ’ इति श्रुतौ प्रसिद्धत्वा न्नाभ्यर्पि(र्हि)त-प्रसिद्धपद्मस्यैव ग्रहणमिति निर्णयवत्सूत्रकृतापि प्रसिद्धमेव लिङ्गत्वेन विवक्षितमिति ग्राह्यत्वादिति भावः। ननु – गुहाप्रविष्टत्वलिङ्गस्य कण्ठत एवोक्तत्वेन पुनः ‘हिशब्देन दर्शयती’ति हिशब्दस्य तत्प्रदर्शकत्वाभिधानमयुक्तम्। पौनरुक्त्यापातादित्यत आह – इत्यदिना प्रसिद्धमिति॥ हिशब्दः लिङ्गनिष्ठप्रसिद्धत्वरूपधर्मस्यैव प्रदर्शकः, न तु लिङ्गस्यैवेति न पौनरुक्त्यमिति भावः।

वाक्यार्थमुक्तावली

ॐ गुहां प्रविष्टावात्मनौ हि तद्दर्शनात् ॐ। यद्यप्यस्मिन् पादे समन्वीयमानलिङ्गानां लोकतोऽन्यत्र प्रसिद्धश्रुतिलिङ्गसाहित्येनैवान्यत्र प्रसिद्धिर् न साक्षाल्लोकतः। तथापि साक्षाल्लोकतः प्रसिद्ध्यभावेपि तदनुसारेणाप्यत्र साक्षात्प्रसिद्धिभावादेवमुक्तम्।

आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः।

विष्णुः स परमे वायौ परेभ्योऽप्यृद्धरूपके।

शुभान् पिबेद्धि भोगान् स छायेव विदुषां प्रभुः।

आतपः पापिनां नित्यम्

इति काठकभाष्यं मनसि निधाय लोकपदस्य शरीरार्थत्वं षष्ठ्या जन्यजनकभावसम्बन्धार्थत्वं चाभिप्रेत्य विषयवाक्यार्थमाह॥ यौ सुकृतेत्यादिना॥ पञ्चेति॥ पञ्च वा एते महायज्ञा इत्यादिना तैत्तिरीयोक्तदेवपितृभूतमनुष्यब्रह्मयज्ञरूपपञ्चयज्ञेत्यर्थः। स एष यज्ञः पञ्चविधः। अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोम इत्यैतरेयोक्तपञ्चमहायज्ञा इति वार्थः॥ द्युपर्जन्येति॥ असौ वाव लोको गौतमाग्निरित्यादि छान्दोग्योक्तदिशा द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्नीत्यर्थः। नाचिकेता इति। नाचिकेताग्निहोमा इत्यर्थः॥ तद्यदा विष्णोरिति॥ कर्मफलभोक्तृत्वमात्रस्य विष्ण्वन्यमात्रनिष्ठत्वे विष्णौ तदभावप्राप्त्या एकदेशवैकल्ये सर्ववैकल्येन सर्वात्तृत्वरूपलक्षणासम्भवः। कर्मफलभोक्तृत्वस्य विष्णोरन्यत्रापि विद्यमानत्वे गुहान्तर्निविष्टवायुनिष्ठत्वब्रह्मविद्वचनस्तुत्यत्वादेरपि प्राप्त्या सर्वात्तृत्वस्यापि तस्मिन् सम्भावयितुं शक्यत्वेनातिव्याप्तिरित्यर्थः। यद्वा ईश्वरवज् जीवस्यापि स्वातन्त्र्येण कर्मफलभोक्तृत्वे सर्वात्तृत्वस्यापि प्रसङ्गेनातिव्याप्तिरित्यर्थः। यद्वा एकददेशपातृत्वस्य विष्ण्वेकनिष्ठत्वाभावे सर्वसारभोक्तृत्वं तदेकनिष्ठं न स्यात्। लक्षणस्य तदेकनिष्ठत्वाभावो ह्यतिव्याप्तिर् इति भावः॥ किं विष्णोरिति॥ अत्र पिबन्तौ जीवेश्वरौ, उत विष्णुरूपौ इति चिन्ता। तदर्थं द्विवचनश्रुतिः, कर्मफलभोगछायातपत्वादिकं किं गुहाप्रविष्टत्वब्रह्मशब्दादिबाधकमुत तद्बाध्यमिति। तदर्थं द्विवचनश्रुत्यादिकं भेदभोक्तृत्वश्रुतिविरोधा-ज्ञानादिप्राप्त्या विष्णावनवकाशमुत विशेषाशुभभोगाभावविद्वदविद्वत्सुखादिहेतुत्वेन विष्णौ सावकाशमिति। बहुरूपत्वाच्चेत्यानन्दमयाधिकरणन्यायेन द्विवचनश्रुतेः सावकाशत्वाद्गतार्थमिति चेन्मैवम्। न हि तत्र द्विवचनं बहुवचनं वा शङ्कितम्। तदभावात्। किं नाम संज्ञाधिकरणन्यायेनान्नमयप्राणमयेत्यादि-संज्ञाभेदेनान्नमयादीनां भेदे शङ्किते रूपभेदेन संज्ञाभेदोक्तेः। किञ्चाभ्यधिकपूर्वपक्षाच्च न गतार्थतेति भावेन हेत्वन्तरमाह॥ कर्मबन्धविधुरस्येति॥ छत्र्यछत्रिसमुदाये छत्रिणो गच्छन्तीति यथोक्तिस् तथेत्यर्थः॥ संहर्तृत्वमात्रेणेति॥ अत्तेत्यस्य सर्वसंहर्तेत्यर्थोपपत्तेरिति भावः॥ अचेतन इति। बुद्ध्याख्य इत्यर्थः॥ जीवद्वयायोगादिति॥ तयोरन्योन्यनियमने शरीरोन्मथनादिप्रसङ्गादिति भावः। चैद्यादिशरीरे भोक्तृद्वयसमावेशः क्वाचित्को हरीच्छया युज्यते इति भावः। एककर्मनिर्मितशरीरे भोक्तृ-जीवद्वयायोग इति वा। चैद्यादिशरीरं तूभयकर्मनिर्मितमिति भावः। ननु जीवस्यैव मुख्यतः पातृत्वम् ईश्वरस्य तूपचारतस्तदङ्गीकारे युगपद्वृत्तिद्वयप्रसङ्ग इत्यत आह॥ द्वयोरिति॥ वृत्तिद्वयविरोधेन उभयत्राप्युपचार इत्यर्थः। यद्वा जीवस्यैव चेत् कथं पिबन्ताविति द्वयोरप्युक्तिरित्यत आह॥ द्वयोरपीति॥ एकत्र मुख्यो द्वयोरप्युपचारः। एकसत्वेऽपि द्वयं नास्तीति प्रतीत्या द्वित्वावच्छिन्नयोरुपचार इत्यर्थः। सूत्रे गुहां प्रविष्टाविति हेतुगर्भविशेषणम्। हिशब्दो वा यस्मादित्यर्थेऽपि भवति। तत्त्वित्येतद् लिङ्गवचनव्यत्ययेन तावित्यनुवर्तते। आत्मानावित्येतद् आदेयमुपादेयं शुभं कर्मफलं मात्यनुभवतीति व्युत्पत्या ऋतं पिबन्ताविति समन्वेतव्यशब्दसूचकम्। पिबन्तावित्येव वक्तव्ये एवमुक्तिस्तु आत्मान्तरात्मेति स्मृतिसूचनार्था। ततश्चात्मानौ ऋतं पिबन्तावेवात्मान्तरात्माख्यविष्णुरूपे एव। गुहां प्रविष्टत्वलिङ्गात्। गुहाप्रविष्टत्वस्यासिद्धिं व्यभिचारं च परिहर्तुं हीत्युक्तम्। रूपद्वयेन गुहास्थत्वस्या-सिद्धिं परिहर्तुं तद्दर्शनादिति तस्यात्मनो गुहास्थत्वस्य घर्मा समन्तादिति श्रुत्युक्तत्वादित्यर्थमभिप्रेत्य सूत्रभाष्यार्थमाह॥ यौ पिबन्तावित्यादिना॥ विष्णू इति वक्तव्ये इति॥ ऋतं पिबन्ताविति श्रुत्यनुसारेण तत्त्वित्यस्य लिङ्गवचनव्यत्ययेन विष्णू इत्यर्थे वक्तव्ये इत्यर्थः॥ दीप्ताविति॥ घृ क्षरादीप्त्योः। भगवन्ताविति शेषः। वीत्यस्यार्थो विशेषेण गुहास्थान इति। हृदयाविष्टेश्वरस्य कर्मफल-सुखभोक्तृत्वं च तत्तदिन्द्रियविषयभोगद्वारेति भावेनाह॥ तथा चेति॥ अर्थबाहुल्याद्वा अतीतानागत-विवक्षया वा बहुवचनम्॥ नोभयथेति॥ कर्मसाध्यमीश्वरः सुखं भुङ्क्त इत्युक्तम्। आगमिष्यत्सुखानु-भवस्यापि सर्वदा पूर्णत्वेनाभिनवतया तद्भोगायोगात्। किञ्च यथा लोके आकण्ठपूर्ति भुक्तवतः पुनर्भोजनमशक्यमेवं परिपूर्णानन्दस्य पुनर्भोगशक्तिरेवायुक्तेति भावः। अचिन्त्यैश्वर्येति॥ एतेन चेष्टा भोगक्रियाशक्तिर्न ज्ञायतेऽचिन्त्येत्यर्थ उक्तो भवति॥ तस्य स्वादु आहुरित्यस्यायमर्थः। य अग्रे अग््रयः श्रेष्ठस् तस्यैव स्वादु पिप्पलं कर्मफलमाहुः। यः पितरम् उद् उत्कृष्टं न वेद अत एव नशन् नाशवान् तस्य स्वादु पिप्पलं नेति॥ प्रसिद्धमेवेति॥ ब्रह्मशब्दादेर्जीवे प्रयोगेऽपि श्रुत्यादौ मुख्य-प्रसिद्ध्यभावात् तस्यैवानन्दमयस्य विष्णुत्वे हेतुत्वेनोपादानं तथा श्रुत्यादौ विष्णावेव प्रसिद्धस्य गुहानिहितत्वस्यात्रापि हेतुत्वेनोपादानमित्यर्थः। भाष्ये प्रसिद्धमित्यस्यान्वयाप्रतीतेः शेषोक्त्याऽन्वयमाह॥ इत्यादिनेति॥

तत्त्वसुबोधिनी

ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ॥ पूर्वत्रादितिप्रदिपादकश्रुतिबलादन्यत्र प्रसिद्धक्रियालिङ्ग समन्वय उक्तः। अत्र पिबन्ताविति प्रत्यक्षश्रुतिबलाद् अन्यत्र प्रसिद्धक्रियालिङ्गसमन्वय उच्यते इति अवान्तरसङ्गतिः। श्रुत्यादिसङ्गतिमिति। अव्यवहितपूर्वाधिकरणोपात्त स यद्येवासृजत इति श्रुतितदधि-करणाभ्यामित्यर्थः। लोकपदस्य शरीरार्थत्वं षष्ठ्या जन्यजनकभावसम्बन्धार्थत्वं परमे परार्ध इत्यत्र वायावित्यध्याहारं चाभिप्रेत्य ऋतं पिबन्ताविति वाक्यं योजयति। यौ सुकृतेत्यादिना। तद्यदा विष्णोर् अन्यस्यैव स्यादित्यादि। पूर्वत्र सम्भवात्सर्वात्तृत्वं लक्षणत्वेनोक्तम्। ब्रह्मणि चाशुभभोक्तृ-त्वस्यासम्भवेऽपि शुभपातृत्वरूपं शुभभोक्तृत्वं सिद्धान्तरीत्या सम्भवति। तत्र च पिबतोर् जीवेश्वरत्वम् उपेत्य जीवे पातृत्वं मुख्यम् ईश्वरे त्वमुख्यमिति स्वीकारेऽसम्भवः। उभयोरपि मुख्यमिति स्वीकारे तु जीवस्यापि शुभभोक्तृत्वेनेश्वरवत् सर्वात्तृत्वस्यापि प्रसङ्गादतिव्याप्तिरित्यर्थः। यद्वा गुहाप्रविष्टत्वादि-ब्रह्मलिङ्गसहितस्यापि ऋतपातृत्वासम्भवोऽतिव्याप्तिर्वा यदा तदा तत्सहचरितस्य पूर्वोक्तात्तृत्वस्या-सम्भवोऽतिव्याप्तिर्वा स्यादित्यर्थः। तथा च द्वयोरपि पातृत्वं मुख्यमिति पूर्वपक्षोऽप्यत्राभिमत इति द्रष्टव्यम्। अथवा कर्मफलभोक्तृत्वस्य विष्ण्वन्यमात्रनिष्टत्वे विष्णौ तदभावप्राप्त्या एकदेशवैकल्येन सर्वात्तृत्वरूपलक्षणासम्भवः। कर्मफलभोक्तृत्वस्य विष्णोरन्यत्रापि विद्यमानत्वे गुहाप्रविष्टात्वादेरपि प्राप्तौ सर्वात्तृत्वस्यापि विष्ण्वन्यस्मिन्सम्भावयितुं शक्यत्वेन सर्वात्तृत्वस्यातिव्याप्तिरित्यर्थः। ननु बहुरूपत्वस्यानन्दमयाधिकरण उक्तत्वाद् द्विवचनश्रुतिः रूपद्वयाभिप्रायेण सावकाशेत्यतो हेत्वन्तरमाह। कर्मबन्धविधुरस्येति। ननु कर्मबन्धविधुरत्वेऽप्यस्तु कर्मफलभोग इत्यत आह। अनश्नन्नन्य इत्यादि-श्रुतेरिति। अन्यथा एतच्छ्रुतिविरोधः स्यादिति भावः। न चैवमित्यत्र ईश्वरपक्षे अनुपपत्त्यभिधाने इत्येवंशब्दार्थः। ननु जीवस्य मुख्यतः पातृत्वम् ईश्वरस्य तूपचारेण तदित्यङ्गीकारे युगपद् वृत्तिद्वय-विरोधप्रसङ्ग इत्यत आह। द्वरोरिति। द्वित्वावच्छेदेन उभयत्राप्युपचार इत्यर्थः। अत एव पूर्वं तादृश एव छत्रिन्याय उदाहृतः। तथा च लक्षणमयुक्तमिति। यद्यपि सर्वसंहर्तृत्वरूपं लक्षणं ब्रह्मण्येवेति पूर्वपक्षिणा स्वीकृतम्। अत एव टीका कर्मफलभोगं विनापि संहर्तृत्वमात्रेण तदुपपत्तेरिति। तथापि सिद्धान्त्यभिप्रेतं संहर्तृत्वविशेषात्मकं भक्षयितृत्वरूपं लक्षणमयुक्तमिति भावः। गुहाप्रविष्टत्वलिङ्गादित्यर्थ इति। अनेन सूत्रे गुहां प्रविष्टाविति हेतुगर्भं विशेषणं हिशब्दो यस्मादित्यर्थेऽपि वर्तत इति सूचितमिति बोद्धव्यम्। न च समन्वेतव्यलिङ्गप्रदर्शनाय पिबन्ताविति वक्तव्यं श्रुत्यनुसारादिति वाच्यम्। आत्मशब्दस्यापि आदेयं कर्मफलं माति अनुभवतीति व्युत्पत्या कर्मफलभोक्तृत्वलिङ्ग-प्रतिपादकत्वेन स्मृतिसमाख्याप्रदर्शनाय तद्ग्रहणात्। तथा च आत्मशब्दग्रहणेन उभयमपि प्रयोजनं सिद्ध्यतीति भावः। रूपपदप्रयोगप्रयोजनमाह। विष्णू इति। घर्मेत्यस्यार्थो दीप्ताविति। समन्तेत्यस्यार्थो व्याप्ताविति। भगवन्ताविति विशेष्यपदस्य श्रुतावध्याहारः। वीत्यस्यार्थो विशेषेण गुहास्थान इति। वाक्यशेष इति। य अग्रे श्रेष्टस् तस्यैव स्वादु पिप्पलमाहुः। य उद् उत्कृष्टं पितरं न वेद। अत एवानशन् नाशवान्। तस्य स्वादु पिप्पलं नेत्यर्थः। तद्युक्तेरिति। गुहानिविष्टत्वयोगादित्यर्थः। श्रुत्यादिप्रसिद्धमिति। ब्रह्मशब्दादेर् जीवे प्रयोगेऽपि श्रुत्यादिना विष्णावेव प्रसिद्धस्य हेतुत्वेन उपादान-मित्यर्थः। नन्वयमर्थः मूलान्नावगम्यत इत्यत आदौ विष्णोरेव गुहानिविष्टत्वमिति प्रसिद्धमित्यनन्तर-मितिशब्दमध्याहृत्य व्याख्येयम्। सोदाहरणपूर्वकं यो वेदेति मूलवाक्यं व्याख्याति। य इत्यादिना प्रसिद्धं हीत्यादिना।

वाक्यार्थविवरणम्

फलभोक्तृत्वं नाम कर्मानुसारेण प्राप्तशुभविषयभोक्तृत्वमेव विवक्षितम्। अत एव ‘विषयानुपसेवत’ इति गीतावाक्यमुदाहृतम्। कर्मफलभूतसुखभोक्तृत्वविवक्षायाम् एतद्वाक्योदाहरणमसङ्गतं स्यादिति ध्येयम्॥

वाक्यार्थमञ्जरी

एकस्येत्येदद्द्विवचनानुपपत्तिस्फुरणायोक्तं कर्मफलात्तृत्वं न प्रतीयत इत्यत आह॥ पातृत्वशब्द-वाच्यमिति॥ षष्ठ्यर्थो जन्यजनकभावसम्बन्ध इत्याह॥ सुकृतनिर्मित इति॥ आ ऋद्धो ऽर्द्धः परेभ्योऽप्यर्द्धः परार्ध इत्याशयेन परार्धशब्दार्थमाह॥ अतिपूर्णेति॥ पञ्चमहायज्ञेति॥ देवपितृभूतमनुष्य-ब्रह्मयज्ञरूपपञ्चमहायज्ञा इत्यर्थः। यद्वा दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोम इति पञ्चमहायज्ञा इत्यर्थः॥ द्युपर्जन्येति॥ द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपपञ्चाग्निविद्येत्यर्थः। नाचिकेता नाचिकेत-नामकेष्टिवन्तः। छायातपौ विद्वदविद्वत्सुखदुःखकरौ। अन्यस्यैव द्वयोर्बुद्धिजीवत्वपक्षे न तस्य सर्वात्तृत्वं तथा चासम्भव इति भावः। अन्यस्यापि द्वयोर्जीवेश्वरत्वपक्षे गुहां प्रविष्टत्वादिविष्णुलिङ्गसहचरितकर्मफल-भोगवतः सर्वात्तृत्वस्यापि सम्भावयितुं शक्यत्वादिति भावः॥ विष्णोरन्यस्य वेति॥ किं विष्णोरेवातोऽ-न्यस्यापीत्यर्थः॥ निरवकाशत्वादिति॥ तद्वाच्यद्वित्वस्य निर्भेदे हरौ कथमपि घटयितुमशक्यत्वादिति भावः। बहुरूपत्वाच्चेत्यानन्दमयनयोक्तरीत्या द्विवचनश्रुतिः सावकाशेत्यतो निमित्तान्तरमाह॥ कर्मेति॥ हरिः कर्मफलाभोक्ता तद्बन्धविधुरत्वाद् घटवदिति युक्तिविरोधमभिधाय श्रुतिविरोधं चाह॥ अनश्नन्निति॥ जीवादन्यो हरिः पिप्पलं कर्मफलम् अनश्नन्नेवाभिचाकशीतीत्यर्थः। छत्रिन्यायेनेति॥ छत्र्यछत्रिसमुदाये यथा छत्रिणो गच्छन्तीत्यौपचारिकप्रयोग एवं भोक्त्रभोक्तृसमुदायेऽप्यौपचारिक-पिबन्ताविति प्रयोग इत्यर्थः। विरोध ईश्वरस्य भोगानङ्गीकारे को हेतुरिति प्रश्नस्योत्तरमाह॥ एकस्येति॥ न्याय्यत्वात्। अस्य गौरिति वक्ष्यमाणरीत्या॥ भोक्तृजीवद्वयेति॥ तच्छरीरजन्यकर्मफलभोक्तृजीव-द्वयेत्यर्थः। तेन पिशाचावेशवत्किं न स्यादिति निरस्तम्। ननु जीवस्यैव मुख्यतः पातृत्वमीश्वरस्य तूपचारतस्तदङ्गीकारे युगपद्वृत्तिद्वयप्रसङ्ग इत्यत आह॥ द्वयोरपीति॥ द्वित्वावच्छेदेनोभयत्राप्युपचार इत्यर्थः। अत एव पूर्वं तादृश एव छत्रिन्याय उदाहृतः॥ ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ॥ कर्मफलभोक्तारावात्मानावेव। आत्मान्तरात्माख्यभगवद्रूपविशेषावेव न जीवेश्वरौ। कुतः हि यस्माद्गुहां प्रविष्टौ गुहाप्रविष्टत्वं च यो वेद निहितं गुहायामित्यादिना तत्रैव प्रसिद्धमित्यपि हिशब्दार्थः। रूपद्वयस्य गुहास्थत्वं कुत इत्यत उक्तं तद्दर्शनात् तस्यात्मनो गुहास्थत्वस्य घर्मा समन्तेत्यादि-श्रुत्युक्तेरित्यर्थः। वीत्युपसर्गार्थो विशेषेण गुहास्थान इति आवृत्तिं मत्वाह॥ त्रिवृतमिति॥ आत्मा देहस्थः। अन्तरात्मा जीवस्थः। कर्मफलभोगस्येन्द्रियसाध्यत्वाद्धृदयप्रविष्टस्य कथं तदित्यत आह॥ तथा चेति॥ अर्थबाहुल्याद्बहुवचनम्। अधिष्ठाय तत्र स्थित्वा। उपसेवते भुङ्क्ते॥ पूर्णानन्दत्वादिति॥ पूर्णानन्दत्वेन दुःखावकाशाभावात्। प्राप्तव्यसुखापेक्षाभावाच्चेति भावः। शुभाशुभशब्दौ सुखदुःखपरौ। अन्तरङ्गज्ञापकं चाह॥ तथा हीति॥ यो भगवानग्रे अग््रयः सर्वतः श्रेष्ठस् तस्येत् तस्यैव पिप्पलं कर्मफलं स्वादु शुभमाहुः। यस्तु जीवः पितरं जगज्जनकं भगन्तम् उद् उत्कृष्टत्वेन न वेद। अत एव नशन् नरकाद्यनर्थरूपं नाशं प्राप्नुवानो पुरुषार्थनाशवान्वा तस्य पिप्पलं न स्वाद्वाहुरित्यर्थः। इत्यादिनेत्याद्यनुवादः। विष्णोरेवेत्यादि व्याख्या॥

विवृतिः

पूर्वत्रादितिप्रतिपादकश्रुतिबलादन्यत्रप्रसिद्धक्रियालिङ्गसमन्वय। उक्तो ऽत्र तु पिबन्ताविति प्रत्यक्षश्रुतिबलादन्यत्र प्रसिद्धक्रियालिङ्गसमन्वय उच्यते इत्यवान्तरसङ्गतिः॥ श्रुत्यादिसङ्गतिमिति॥ अव्यवहितपूर्वाधिकरणोपात्त ‘स यद्यदेवासृजत’ इतिश्रुतितदधिकरणाभ्यामित्यर्थः। लोकपदस्य शरीरार्थत्वं षष्ठ्या जन्यजनकभावसम्बन्धार्थत्वं, परमेपरार्ध इत्यत्र वायावित्यध्याहारं चाभिप्रेत्य ऋतं पिबन्ताविति वाक्यं योजयति॥ यौ सुकृतेत्यादिना॥ तद्यदा विष्णोरन्यस्यैव स्यादित्यादि पूर्वत्र सम्भवात्सर्वात्तृत्वं लक्षणत्वेनोक्तम्। ब्रह्मणि चाशुभभोक्तृत्वस्यासम्भवेऽपि शुभपात्तृत्वरूपं शुभभोक्तृत्वं सिद्धान्तरीत्या सम्भवति। तत्र च पिबतोर्जीवेश्वरत्वमुपेत्य जीवे पातृत्वं मुख्यम् ईश्वरे त्वमुख्यमिति स्वीकारेऽसम्भवः। उभयोरपि मुख्यमिति स्वीकारे तु जीवस्यापि शुभभोक्तृत्वेनेश्वरवत्सर्वात्तृत्वस्यापि प्रसङ्गाद् इति॥ आत्मशब्दस्यापि आदेयं कर्मफलमनुभवतीति व्युत्पत्या कर्मफलभोक्तृत्वलिङ्गप्रतिपादकत्वेन स्मृतिसमाख्याप्रदर्शनाय तद् ग्रहणात्। तथा चात्मशब्दग्रहणेनोभयमपि प्रयोजनं सिध्यतीति भावः। रूपपदप्रयोगप्रयोजनमाह॥ विष्णू इति॥ घर्मेत्यस्यार्थो दीप्तौ व्याप्ताविति॥ भगवन्ताविति विशेष्यपदस्य श्रुतावध्याहारः॥ वीत्यस्यार्थो विशेषेण गृहस्थ इति॥ वाक्यशेष इति॥ य अग्रे श्रेष्ठस्तस्यैव स्वादु पिप्पलमाहुः॥ यः पितरं न वेद अत एव नशन् नाशवान् स्वादुपिप्पलं नेत्यर्थः॥ तद्युक्तेरिति॥ गृहानिविष्टत्वयोगादित्यर्थः॥ श्रुत्यादिप्रसिद्धमिति॥ ब्रह्मशब्दादेर्जीवेप्रयोगेऽपि श्रुत्यादिप्रसिध्यभावादानन्दमयाधिकरणादौ यथा तस्य हेतुत्वोपपादनं तथा प्रकृतेऽपि गुहानिविष्टत्वस्य श्रुत्यादिना विष्णावेव प्रसिद्धस्य हेतुत्वेनोपादानमित्यर्थः॥ नन्वयमर्थो मूलान्नावगम्यत इत्यत आदौ विष्णोरेव गुहानिविष्टत्वं प्रसिद्धमित्यनन्तरमितीतिशब्दमध्याह्रत्य व्याख्येयं सोदाहरणपूर्वकं यो वेदेति मूलवाक्यं व्याख्याति॥ इत्यादिना प्रसिद्धं हीत्यादिना॥