०२ अत्तृत्वाधिकरणम्

ॐ अत्ता चराचरग्रहणात् ॐ

२. अत्तृत्वाधिकरणम्

सूत्रभाष्यम्

‘जन्माद्यस्य यत’ (ब्र.सू.१-१-२) इत्युक्तम्। तत्रात्तृत्वं ‘स यद्यदेवासृजत तत्तदत्तु-मध्रियत। सर्वं वा अत्तीति तददितेरदितित्वमि’ (बृ.उ.३-२-५)त्यदितेः प्रतीयते। ‘स यद्यदेवासृजते’ति पुल्लिङ्गं च ‘कूटस्थोऽक्षर उच्यत’ (भ.गी.१५-१६) इतिवत्। अत्रोच्यते

॥ ॐ अत्ता चराचरग्रहणात् ॐ॥ ९॥

न हि चराचरस्य सर्वस्यात्तृत्वमदितेः।

‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु।

वासुदेवः परः पुंसामितरेऽल्पस्य वा न वे’ति स्कान्दे।

‘एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः।

यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः’

इति (घृत.सू.) श्रुतिः॥ ९॥

सत्तर्कदीपावली

बृहदारण्यके श्रूयते। स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वमिति। तत्र जन्माद्यस्य यत इति परमेश्वरधर्मत्वेनोक्तं सर्वसंहर्तृत्वापरपर्यायं सर्वात्तृत्वं प्रतीयमानं विचार्यते। तत्रेदं तावददितेः प्रतिभाति तददितेरदितित्वमिति श्रवणात्। स इति पुल्लिङ्गनिर्देशोऽदितिविषयः कथमिति वाच्यम्। कूटस्थोऽक्षर उच्यत इति प्रकृतिविषयप्रयोगवदुपपद्यते इत्येतं पक्षं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याचष्टे॥ अत्तेत्यादिना॥ स यद्यदेवेत्यादिनोक्तो विष्णुरेव। नादितिः। सर्वं वा अत्तीति सर्वात्तृत्वश्रवणात्। नहि सचराचरविश्वं दक्षपुत्र्यदितिरत्ति। विष्णुरेव सर्वात्तेत्यत्र श्रुत्यन्तरं प्रमाणमाह॥ एक इति॥ स एको भुवनगोप्ता पुरस्तादादौ बभूव यत इदं विश्वं बभूव यं च सांपराये प्रलयकाले निगीर्णोदनवत्समस्त-भुवनमप्येति प्रविशति। स देवो हरिरिह यज्ञे नोऽस्माकमायुरर्थं घृतमत्त्विति मन्त्रार्थः। तथाच श्रुत्यन्तरं यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्थावेद यत्र स इति।

तत्त्वप्रदीपिका

जन्माद्यस्य यत इति विष्णोस्सर्वकर्तृत्वात्तृत्वाद्युक्तम्। तत्रात्तृत्वमन्यस्य स्याददितिशब्दवाच्यस्येत्या-शङ्क्य परिहरति। स यद्यदेवासृजत— स संवत्सरो यद्यदेवासृजत, स संवत्सरस्रष्टाऽऽत्मा तत्तदत्तुं मनोऽध्रियत। ॐ अत्ता चराचरग्रहणात् ॐ। एकः पुरस्तादित्यस्यायमर्थः। योऽस्य जगतः पुरस्तादेक एव, यत इदं जगद्बभूव, यश्च भुवनस्य गोपा बभूव॥ साम्पराये प्रलये मुक्तौ च॥

तत्त्वप्रकाशिका

अत्र लोकतोऽन्यत्र प्रसिद्धादितिशब्देन सहोक्तात्तृत्वलिङ्गस्य हरौ समन्वयप्रतिपादनादस्ति शास्त्रादि-सङ्गतिः। श्रुत्यादिसङ्गतिं विषयवाक्यमुदाहृत्य विषयसंशयौ सयुक्तिकं पूर्वपक्षं च सूचयति॥ जन्मेति॥ ‘जन्माद्यस्य यतः’ इति सूत्रे जन्मादिकारणत्वं विष्णोरुक्तम्। तन्मध्यपतितं संहर्तृत्वापरपर्यायवाच्यमत्तृत्वं बृहदारण्यके कस्यचित् श्रूयते। सोऽदितिर्यद्यदसृजत तत्तदत्तुं मनोऽध्रियतादच्च। कुतः सर्वात्त्री सा सर्वमत्तीति यत्तदेव हि अदितेरदितित्वम् अदितिशब्दप्रवृत्तिनिमित्तम्। अन्यथा तन्न स्यादिति। तच्च यदा हरेरितरस्य स्यात्तदा प्रागुक्तलक्षणस्यातिव्याप्तिप्रसङ्गादवश्यं निर्णेयमेव। तदत्तृत्वं विषयः। किं विष्णोरन्यस्य वेति सन्देहः। लक्षणसूत्रमदितिश्रुतिश्च सन्देहबीजम्। अदितेरेव तदत्तृत्वमिति पूर्वः पक्षः। तददितेरित्यदितिश्रुतेः। न च श्रुतिर्विष्णुविषया किं न स्यादुक्तन्यायादिति वाच्यम्। अदितित्वलिङ्गात्। न ह्यदितिभिन्नस्यादितित्वं सम्भवति। अतो न प्रागुक्तं ब्रह्मलक्षणं युक्तमिति भावः। नन्वेतदत्तृत्व-मदितेश्चेत्कथं स इति पुल्लिङ्गं युक्तं स्यादतस्तेन श्रुत्यादिबाध इत्यत आह॥ स इति॥ यथा रमायां पुंशक्तिमत्त्वात् पुल्लिङ्गप्रयोगः ‘कूटस्थोऽक्षर उच्यते’ ‘सोऽहं वायुं दिशां वत्सं वेद’ इत्यादौ तथा अत्रापि सम्भवतीति भावः। यदाहुः ‘पुल्लिङ्गेनोच्यते स्त्री च पुंवच्छक्तिमती क्वचित्’ इति। ननु स इति प्रकृतसंवत्सरपरामर्शान्नैतच्चोद्यावकाशः। मैवम्। ‘स तया वाचा तेन आत्मनेदं सर्वमसृजत’ इत्युक्तस्यैव ‘स यद्यदेव’ इत्यनुवादात्। तत्र च विरिञ्चस्य तृतीयया प्रकृतत्वाददित्याख्यमृत्योरेव प्रथमया प्रकृतत्वात्। तथा च सोऽदितिः संवत्सरेण यद्यदसृजतेति योजनायामस्ति चोद्यावकाशः। सिद्धान्तयत्सूत्रमवतारयति॥ अत्रेति॥ विष्णुरेवात्ताऽत्रोच्यते। सर्वं वा अत्तीति चराचरस्याद्यतया ग्रहणादिति सूत्रार्थः। चराचरण-ग्रहणेऽपि कुतो नादितेरत्तृत्वमित्यत आह॥ न हीति॥ चराचरस्येति सूत्राक्षराण्यनूद्य श्रुत्यनुसारेण सर्वस्येति व्याख्यानम्। सूत्रस्य श्रुतिविसंवादप्रतीतिनिरासोऽस्य प्रयोजनम्। चराचरात्तृत्वं विष्णोरपि कुत इत्यत आह॥ स्रष्टेति॥ अस्वातन्त्र्येणाल्पस्य भवन्ति स्वातन्त्र्यापेक्षया न वा। य एकोऽस्य पुरस्ताद्बभूव सृष्टाविदं जगद्यतो बभूव। यश्च भुवनस्य गोप्ता यं च मुक्तिप्रलययोर्भुवनं प्रविशति स हरिर्न आयुरर्थे घृतमाहुतिरूपमत्त्वित्यर्थः। न च वाच्यं श्रुतिलिङ्गाभ्यां पूर्वपक्षे कथं लिङ्गमात्रेण निर्णय इति। लिङ्गस्योक्त-रीत्या निरवकाशत्वात्। अदितिश्रुतेर्विष्णावपि सावकाशत्वात्। लिङ्गस्य चादितिशब्दवाच्यत्वमदितित्वमिति सावकाशत्वात्। सावकाशश्रुतिलिङ्गाभ्यां निरवकाशलिङ्गमात्रस्य प्राबल्यात्॥ ९॥

गुर्वर्थदीपिका

घटशब्दप्रवृत्तिनिमित्तघटत्वजातेरिवादितेरदितित्वमित्यत्रोक्तादितिशब्दप्रवृत्तिनिमित्तादितित्वजातेर् देवमातर्येव स्थितत्वान्नादितिश्रुतिः सर्वनामवत्यपि विष्णौ नेतुं शक्यत इति भावेनोक्तम्। अदितित्व-लिङ्गादिति। ‘‘स तया वाचे’’ति सरस्वत्या सहोक्तस्य ‘‘तेनाऽऽत्मने’’ति प्रागुक्तब्रह्मण एव संवत्सराभिमानितया ततोऽप्यादौ संवत्सरपदेनापि प्रस्तुतत्वात् संवत्सरेणेत्युक्तम्। एवं च प्राक्प्रथमान्त-पदेनोक्तोऽपि संवत्सर उत्तरसृष्टिवाक्ये आत्मेनेति तृतीयान्तपदोक्तब्रह्मात्मकत्वात्तदनुवादरूपे ‘‘स यद्यदेवे’’ति वाक्ये न प्रथमान्तपदेन वक्तुं शक्यः। किं त्वनुवादस्य वादानुसारित्वात्संवत्सरेणेति तृतीयान्तपदेनोपग्राह्यः। प्रथमान्तपदेन त्वदितिरेवेति शङ्कितुरभिप्रायः। स यद्यदेवेत्यत्र यद्यत्तत्तदिति स्थलद्वयेऽपि वीप्साबलाच्छ्रौतः सर्वशब्दो न सङ्कोचार्ह इति सूचनाय सूत्रे चराचरग्रहणम्। चरा न भवन्तीत्यचराः स्थिरजीवा जडाश्च। सावकाशत्वादित्युपलक्षणम्। सर्वं वा अत्तीति यत्तदेवादितित्वमिति निर्वदन्त्या श्रुत्या अखण्डजातेरगृहीतत्वान्नादिताववकाश इत्यपि द्रष्टव्यम्। न च वाच्यमदिते-रित्यत्रादितित्वजातेः प्राप्तिरिति। अत्राप्यदितिशब्दवाच्यस्य हरेरित्येवार्थस्य ग्रहणान्निरुपचरित-सर्वात्तृत्वप्रस्तावाद्देवमातुरदितेः सर्वथा ग्रहणायोगात्॥ १-२-२॥

भावबोधः

ॐ अत्ता चराचरग्रहणात् ॐ॥ ९॥ श्रुत्यादिसङ्गतिमिति।

अत्र सर्वगतत्वं तु प्रथमं प्रविचार्यते।

एतद्भावाभिधं लिङ्गं क्रियालिङ्गं ततः परम्॥

इत्यनुव्याख्यानानुसारेण सत्तां विना क्रियाकर्तृत्वासम्भवात् प्रथमं सत्तामभिधाय तदनन्तरं तत्सापेक्षक्रियानिरूपणात्॥

‘‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः॥’’

इत्यनुव्याख्यानानुसारेण प्रथमं स्थितिकर्तृत्वं विचार्यानन्तरं संहर्तृत्वविचाराद्वा न्यायविवरणटीकारीत्या भवत्वादित्यादिश्रुत्यादिनां विष्णाववकाशोऽदितिस्वरूपत्वरूपादिति लिङ्गस्यादितिभिन्ने विष्णौ सर्वथाऽसम्भवेन तत्सहितादितिश्रुतेर्विष्णावनवकाश इति पूर्वाधिकरणवैषम्येण पूर्वपक्षोत्थानाद्वा अव्यवहितपूर्वाधिकरणसङ्गतिरपि द्रष्टव्या। प्रागनुक्तत्वेनासिद्धस्यादनकर्तृत्वस्य ‘‘सर्वं वा अत्ती’’ति कथमनुवाद इत्यत आह– आदच्चेति। किं विष्णोरिति। अत्रात्तृत्वं किं देवमातुरदितेरुत विष्णोरिति चिन्ता। तदर्थमदितिश्रुत्यदितित्वलिङ्गे किं विष्णुप्रापकलिङ्गप्रकरणबाधके उत तद्बाध्ये इति। तदर्थं श्रुतिलिङ्गे निरवकाशे, लिङ्गप्रकरणे तु सावकाशे उत विपरीतमिति। वाक्यगः सर्वशब्दः किं सङ्कुचितार्थ उत चराचररूपाशेषार्थक इति। वाक्यं किं प्रसिद्धार्थे शब्दान्वयाख्यायिकमुताप्रसिद्धार्थे योगोक्त्या ‘‘तत्तदत्तुमध्रियत’’ इति प्रतिज्ञाते सर्वात्तृत्वे हेतुपरमिति। तदर्थमदितिश्रुत्यदितित्वलिङ्गे लोकप्रसिद्धादिति-स्वरूपत्वरूपाभ्याम् अदितिभिन्ने विष्णावनवकाशे उत वैदिकप्रसिद्धिक्रियास्वरूपत्वरूपाभ्यां सावकाशे। तदर्थं तयोर्निरवकाशत्वे प्रकरणस्यानन्यपरत्वेन तद्विरोधो न प्राप्नोत्युत तस्य विष्णुपरत्वेन तद्विरोधः प्राप्नोतीति। तदर्थमत्र प्रकरणे ‘नैवेह किञ्चन’ इत्यादिनोक्तं प्रलयावस्थानाप्सम्भवसंवत्सरसृष्टिकर्तृत्वादिक-मन्यस्य सम्भवत्युत विष्णोरेवेति। तदर्थं तस्य विष्णुमात्रनिष्ठत्वे प्रमाणं नास्त्युतास्तीति। उक्तन्याया-दिति। न चान्तराधिकरणविषयवाक्ये सवित्रादिशब्दवददितिशब्दस्याभावात् तत्रादितिशब्दस्य समन्वयोऽ-सिद्ध इति वाच्यं; तत्र श्रुतेन्द्रादिशब्दानामधिदैवगतसकलशब्दोपलक्षकत्वाङ्गीकारेणास्यापि शब्दस्य तन्न्यायविषयत्वादिति भावः।

अदितित्वलिङ्गादिति॥ ननु कथमेतल्लिङ्गमिति चेत्, उच्यते— अत्रादितेरदितित्वमिति हि श्रूयते। ‘त्व’प्रत्ययश्च जातेर्वाचकः। यथा पृथिवीत्वं गोत्वमित्यादौ। तदसम्भवे स्वरूपस्यैव। यथाकाशत्वं चन्द्रत्वमित्यादौ। न चादितित्वं नाम जातिः सम्भवति। व्यक्तेरभावात्। ततोऽदितित्व-मदितेः स्वरूपमेव न चान्यदिति स्वरूपभूतमदितित्वमीश्वरस्य न भवति। अत्यन्तभिन्नत्वादित्यर्थः। तथा च निरवकाशैतल्लिङ्गसाहचर्याददितिश्रुतिरपि निरवकाशेति न विष्णुविषयेति भावः। अनेन ‘सन्दिग्धा श्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं च’ इति न्यायविवरणं व्याख्यातं भवति। इति योजनाया-मस्ति चोद्यावकाश इति। यद्यपि ‘स यद्यदेव’ इत्यत्र ‘स’ इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेव बृहदारण्यकभाष्य उक्तम्॥

‘‘यद्यद् ब्रह्मासृजत् पूर्वं तत्तदत्ति जनार्दनः॥’’

इति स्मृतेः। उत्तरत्र ‘सोऽकामयत, भूयसा यज्ञेन भूमो यजेयेति’ इत्यादौ चतुर्मुखपरत्वदर्शनाच्च। पूर्वत्रापि ‘स तया वाचा तेनात्मना’ इति प्रथमान्तोक्तमृत्युतोऽपि तृतीयान्तोक्तसंवत्सरस्य व्यवधानेन प्रकृतत्वाच्च। संवत्सरसृष्टमत्तुमेव मृत्योः संवत्सरादनान्निवृत्ततया संवत्सरस्यैव स्रष्टृत्वोचितत्वाच्च। कर्तुरपि संवत्सरस्य भगवत्स्वातन्त्र्यविवक्षया ‘तेन’ इति करणत्वेन निर्दिष्टस्यापि ‘स’ इति कर्तृत्वेन निर्देशोपपत्तेश्च। तथापि समानविभक्तिकत्वं परामर्शे तन्त्रमिति भ्रमेण स इत्यनेन आदित्याख्यमृत्योरेव परमार्श इति पूर्वपक्षे पुंल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्त्येवेति भावः। अत एव योजनायामित्युक्तम्। अल्पस्य वा न वेत्येतद्विरुद्धमित्यतो व्याचष्टे। अस्वातन्त्र्येणाल्पस्येति। अनेन निखिलस्यैक एवेत्यत्र स्वतन्त्र एवेत्यर्थ इति सूचितं भवति। य एक इत्यस्यामिदंशब्दस्य द्वितीयबभूवशब्देनान्वयं साम्पराय-शब्दस्य मुक्तिप्रलयोभयार्थत्वमभिप्रेत्यैकः पुरस्तादिति वाक्यं व्याचष्टे। एक इत्यादिना। अदितिशब्दवाच्यत्वमिति। भावे हि ‘त्व’प्रत्ययः स्मर्यते। तद्धि भावशब्दप्रवृत्तिनिमित्तं; तच्च क्वचिज्जातिः, क्वचित् क्रिया, क्वचिद् गुणः, क्वचिद् द्रव्यम्, क्वचित् स्वरूपम्। तत्र यत् सर्वात्तृत्वं तददितित्वमदितिशब्दप्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमस्योच्यते। अत एव श्रुतिः सर्वमत्तीति। क्रियाकर्तृत्वस्य प्रवृत्तिनिमित्तत्वं विधत्ते। एवञ्चादितिशब्दवाच्यत्वमदितित्वं न त्वदितिस्वरूपत्वम्। अदितिशब्दवाच्यत्वं चादितिभिन्नस्यापि विष्णोरदनक्रियाकर्तृत्वेनापि सम्भवतीत्यदितित्वलिङ्गस्य सावकाशत्वादिति भावः।

भावदीपः

ॐ अत्ता चराचरग्रहणात् ॐ॥ प्रतीयत इत्यन्तं भाष्यं सङ्गतिपरत्वेन व्याचष्टे॥ जन्माद्यस्येति॥ तत्रेत्यस्यार्थस् तन्मध्यपतितेति॥ अपरपर्यायेति॥ ‘‘अद्यतेऽत्ति च भूतानि’’। ‘‘स सर्गकाले तु करोति सर्वं संहारकाले तु तदत्ति भूय’’ इत्यादेर् विष्णोः संहर्तृत्वस्योर्णनाभ्यादिवदेवात्तृत्वरूपत्वादिति भावः। एतच्च पूर्वाक्षेपलाभायोक्तम्। अन्यथाऽतृत्वस्यान्यनिष्ठत्वे जन्मादिसूत्रोक्तसंहर्तृत्वरूपलक्षणाक्षेपो न स्यादिति भावः॥ श्रूयत इति। तृतीयाध्याये। आदच्चेति शेषोक्तिः। अभक्षयच्चेत्यर्थः। तत्र हेतुत्वेन श्रुतिशेषं योजयति॥ कुत इति॥ सेति शेषः। तदर्थः सर्वात्त्रीति। तदेव सर्वात्तृत्वमेवादितित्व-निमित्तम् अदितिपदवाच्यत्वे निमित्तमित्यर्थः। अन्यथा सर्वात्तृत्वाभावे तद् अदितिपदवाच्यत्वम् अदितिर्देवतामयीत्यादौ न स्यात्। अस्ति च तत्। अतोऽदितिर्देवतामयीत्यादौ अदितिपदवाच्यत्वमेव सर्वात्तृत्वे हेतुरित्यर्थः। इति श्रूयते इत्यन्वयः। तेन भाष्ये इतिशब्दानन्तरं श्रूयत इति तच्चेति शेष इति दर्शितम्। अदितेः प्रतीयत इत्यस्य तात्पर्यमाह॥ तच्च यदेति॥ उक्तमित्यन्तस्य तात्पर्यं प्रागुक्तेति॥ अतिव्याप्तीति॥ विष्णोरिवान्यस्यापि असङ्कुचितसर्वात्तृत्वस्य कालभेदेन वाच्यत्वादित्यर्थः। भाष्येऽत्तृत्वमदितेरिति प्रतिज्ञांशमनुवदति॥ अदितेरेव तदत्तृत्वमिति॥ प्रतीयत इत्यत्र हेत्वाकाङ्क्षायां सन्दिग्धा श्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं चेति न्यायविवरणोक्तमाह॥ तददितेरितीति॥ सन्दिग्धपदोक्तं सावकाशत्वं श्रुतेराशङ्क्य लिङ्गेनोज्जीवयति॥ न चेति॥ उक्तेति॥ आधिदैविकसर्वशब्दसमन्वयोक्तिपरान्तर्नयोक्तन्यायादित्यर्थः। तत्र सर्वदेवगतशब्दानां महायोगविद्वद्रूढिभ्यां हरौ मुख्यत्वस्योक्तत्वादिति भावः। लिङ्गस्य निरवकाशत्वमाह॥ न हीति॥ अदितित्वस्यादित्य-साधारणधर्मस्यादितिस्वभावत्वात्। तद्भिन्नस्य विष्णोरनश्नन्निति श्रुतेरत्तृत्वस्यायोगादित्यर्थः। उक्तमित्यन्तस्य तात्पर्यमाह॥ अत इति॥ विष्णुभिन्नस्यैवात्तृत्वादिति भावः। भाष्यस्थादिपदार्थमाह॥ सोऽहमिति॥ छान्दोग्ये तृतीयाध्याये दिङ्नामकचतुर्दिक्षुस्थितभगवद्बाहूनामित्यर्थः। सोऽहं वत्सं ततो जातं वायुं मुख्यप्राणं वेद जानामीति लक्ष्मीवाक्यम्। तद्भाष्योक्तमेव वचनं पठति॥ यदाहुरिति॥ यद्यद्ब्रह्माऽसृजदिति बृहद्भाष्यदिशा शङ्कते॥ नन्विति॥ इति योजनायामिति॥ परामर्शे समानविभक्त्यन्तपदेन प्रकृतत्वं तन्त्रमिति भ्रान्तस्य पूर्वपक्षिणो योजनायामित्यर्थः। मृत्युनैवेदमावृतमासीद् अशनाया हि मृत्युरिति पूर्वत्र मृत्युपदस्यापि अदित्यां प्रयोगे पुल्लिङ्गसमाधानमेवमेव ध्येयमिति भावेन प्रागदित्याख्यमृत्युरित्युक्तम्॥ भाष्येऽनुक्तेः स्वयमाह॥ विष्णुरेवेति॥ तत्त्वित्यनुवृत्त-स्यार्थोऽयम्॥ अस्येति॥ सर्वस्येति व्याख्यानस्य। अल्पस्य वा न वेति व्याहतमत आह॥ अस्वातन्त्र्येणेति॥ अस्येति॥ इदंपदस्य विपरिणामेनात्राप्यन्वयः। क्वचित्तु अथ यश्च भुवनस्येति पाठः। य इत्यनुवृत्तिः। साम्पराये मुक्तिप्रलययोः। स्पष्टार्थत्वाद्भाष्ये स्मृतेः पूर्वमुक्तिः। एतेन सर्वमत्तीति श्रुतं सर्वात्तृत्वलिङ्गं हरेरन्यत्रानवकाशमिति दर्शितम्। सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चित-लिङ्गप्रकरणयोरेव बलवत्त्वमिति न्यायविवरणवाक्यं भाष्ये सङ्गमयितुं तद्व्यावर्त्यशङ्कामाह॥ न चेति॥ विष्णावपीति॥ या प्राणेन संविशत्यदितिर्देवतायमीति काठकादौ प्रयोगादिति भावः। अदिति-शब्दवाच्यत्वमदितिशब्दप्रवृत्तिनिमित्तम् अदनकर्तृत्वरूपमदितित्वमिहाभिप्रेतं तद्विष्णावपि युक्तम्। ‘‘स्रष्टा पाता तथैवात्ता’’ इति स्मृतेः। अनशनश्रुतिगतेस्तूत्तरनये वक्ष्यमाणत्वादिति भावः॥ ९॥

अभिनवचन्द्रिका

कस्यचित् श्रूयत इति॥ जन्माधिकरणे (१-१-२) विषयवाक्योक्तजगज्जन्मादिकारणत्वान्तर्गत-संहर्तृत्वापरपर्यायवाच्यात्तृत्वस्य, एतदधिकरणप्रतिपाद्याऽदितिनिष्ठतया प्रतीतिरेव पूर्वाधिकरणतच्छ्रुतिभ्यां सङ्गतिरिति भावः। ननु– ‘अत्तृत्वं कस्यचित् श्रूयत’ इत्ययुक्तम्। अत्तृत्वाश्रवणादित्यतः श्रुतिं व्याचष्टे– सोऽदितिरिति॥ यद्यपि स मृत्युरिति वक्तव्यम्, तस्यैव प्रकृतत्वात्, तथापि ‘मृत्युरेवाऽदिति’रिति मनसि कृत्वा सोऽदितिरित्युक्तम्। यद्यपि– ‘यद्यद्ब्रह्माऽसृजत्पूर्वं तत्तदत्ति जनार्दन’ इति प्रमाणपर्यालोचनया स इति पदं संवत्सरपरम्, तथापि– ‘स तया वाचा तेनाऽऽत्मनेदं सर्वमसृजते’(बृ.३-२-५)ति तच्छब्देन मृत्योः प्रकृतत्वात्, अत्रापि तस्य परामर्श इति पूर्वपक्षी मन्यत इति द्रष्टव्यम्। ‘आदच्चे’ति शेषोक्तिः। अदनं कुतोऽभ्युपगम्यत इति पृच्छति– कुतः सर्वात्त्री सेति॥ उत्तरमाह– सर्वमत्तीति यदिति॥ सर्वमत्तीति यत् तदेवाऽदितेर् अदितित्वे अदितिशब्दवाच्यत्वे निमित्तम्। अत्तृत्वाऽनङ्गीकारे बाधकमाह – अन्यथेति॥ अत्तृत्वानङ्गीकारे अदितिशब्दवाच्यत्वं न स्यादिति भावः। अतिव्याप्तिप्रसङ्गादिति॥ अतिव्याप्तिबुद्धिप्रसङ्गादित्यर्थः। एतेनाऽत्तृत्वस्य हरेरितरगामित्वस्यैवाऽतिव्याप्तित्वात् ‘हरेरितरस्य स्यात् तदाऽतिव्याप्ति-प्रसङ्गा’दित्ययुक्तमिति परास्तम्। अतिव्याप्ति बुद्ध्यापादनस्यैव इहाभिमतत्वात्। किं विष्णोरिति॥ यद्यपि प्राक् लक्षणस्याऽतिव्याप्तिप्रसङ्गादित्यभिधानात् किं विष्णोरेव उताऽन्यस्यापि वेति सन्देहो वक्तव्यः, तथापि सूत्रस्याऽनेकसंशयनिरासकत्वद्योतनाय ‘विष्णोरन्यस्य वे’ति संशयो दर्शितः। तददितेरिति॥ बृहदारण्यकोक्तमत्तृत्वम्, अदितेरेवेति भावः। उक्तन्यायादिति॥ योगेन सावकाशत्व-रूपादुक्तन्यायादित्यर्थः। अदितित्वलिङ्गादिति॥ ‘तददिते;’ इति अदितिशब्दोक्तादितित्व-रूपधर्मश्रवणादित्यर्थः। न तु ‘अदितेरदितित्व’मिति वाक्यान्तर्गताऽदितित्वशब्दोक्ताऽदितित्व-लिङ्गादित्यर्थः। एतेन श्रुत्यैव ‘‘सर्वं वा अत्तीति यत् तदेवाऽदितेर् अदितित्वम्’’ इति सर्वाऽत्तृत्वाऽदितित्वयोरैक्याभिधानाद् विष्णोरेव सर्वात्तृत्वमिति वदन्तं प्रति सर्वात्तृत्वरूपाऽदितित्वलिङ्गेन अदितिश्रुतेर् विष्णुविषयत्वाऽभावसाधनमयुक्तमिति परास्तम्। सर्वात्तृत्वात्मकाऽदितित्वभिन्नेन अदिति-शब्दोक्तेन रूढिप्रवृत्तिनिमित्तेनाऽदितित्वरूपधर्मेण श्रुतेर् विष्णुविषयत्वाभावसाधनात्। न हीति॥ यथा दुःखिबद्धादिभिन्नस्य हरेः स्वातन्त्र्यादिना प्रवृत्तिनिमित्तेन तच्छब्दवाच्यत्वेऽपि यथा दुःखादिकं न सम्भवति तथा रूढिविषयादितिभिन्नस्य रूढिप्रवृत्तिनिमित्तमदितित्वं न सम्भवतीत्यर्थः। स्त्रियः पुल्लिङ्गशब्दवाच्यत्वमेव नेति मन्वानः शङ्कते – नन्वेतदत्तृत्वमिति॥ तथाऽत्रापीति॥ यद्यपि – ‘यद्यद्ब्रह्माऽसृजत्पूर्व’मिति उदाहृतप्रमाणानुसारेण स इति तच्छब्दः संवत्सरपरः। स्त्रीषु च पुल्लिङ्गाः शब्दा बहवो दृश्यन्त इति पुल्लिङ्गानुपपत्तेरभावात् समाधानं कर्तव्यं तथापि अङ्गीकारवादेन समाहितमिति द्रष्टव्यम्। अत्र टीकायां पुंवच्छक्तिमती क्वचि’दिति प्रमाणोदाहरणानन्तरं ‘नन्वि’त्यारभ्य ‘अस्ति चोद्यावकाश’ इत्यन्तानि न टीकावाक्यानि। अपि तु व्याख्यातृवाक्यानि। अवश्यं चैतदेवं विज्ञेयम्। मृत्योः प्रथमतया प्रकृतत्वदिति मृत्योः प्रकृतत्वाभिधानवैय्यर्थ्यात्। ‘स’ इत्यनेन संवत्सरपरामर्शे पुल्लिङ्गचोद्यानवकाशवत्, मृत्युपरामर्शपक्षेऽपि चोद्यानवकाशसाम्यात्। स मृत्युर् यद्यदेवाऽसृज-त्तत्तदत्तुमध्रियते’(बृ.३-२-५)ति योजनासम्भवात्। तथा ‘सोऽदितिः संवत्सरेणे’त्युत्तरवाक्यस्य अनुपपन्नार्थत्वात्। न हि ‘सः संवत्सरेण यद्यदसृजते’ति योजनाप्रयुक्तश् चोद्यावकाशः। येनेदं वाक्यम् उपपन्नार्थं प्रतीमः किं तु – स इति पुल्लिङ्गस्याऽदितिपरत्वाभ्युपगमप्रयुक्तः। किं च– यदीदं टीका-वाक्यं स्यात् ‘अस्ति चोद्यावकाश’ इत्यनन्तरं ‘ततश्च तन्निवृत्तये भाष्यवाक्यं चेदमर्थव’दिति दृश्येत। न च दृश्यते येनेदं सर्वं वाक्यं टीकावाक्यमिति प्रतीमः। नन्वत्र सूत्रे चराऽचरग्रहणस्योक्तं हेतुत्वं न युज्यते। ‘देवदत्तोऽन्नमश्नाति पश्यत्येव चराचर’ मित्यादौ चराचरग्रहणेऽपि अत्तुर्विष्णुत्वाभावेन व्यभिचारात्। किं च विष्णुश् चराचराऽत्तृत्वादित्यनुमानपर्यवसाने साध्यावैशिष्ट्यमित्यतः सूत्रं योजयति– विष्णुरेवात्ताऽत्रोच्यत इति॥ चराचरस्येतीति॥ ‘श्रुत्यनुसारेणे’ त्यतः परं ‘व्याख्यानाय प्रवृत्तानी’ति शेषः। ततश्चैवं योजना– ‘स यद्यदेवासृजते’ति श्रुत्यनुसारेण सर्वपदव्याख्यानाय प्रवृत्तानि सूत्राक्षराणि चराचरेत्यनूद्य, सर्वस्येति व्याख्यानं व्याख्येयप्रदर्शनं कृतमिति। एतेन चराचरेत्यस्य सर्वस्येति व्याख्यानं निष्फलं, सूत्रस्य श्रुतिविसंवादशङ्कानिरासकत्वाभावात्। श्रुतौ चराचरपदस्य सर्वस्येत्यव्याख्यातत्वात् श्रुत्यनुसारेणेत्यप्यनुपपन्नमिति परास्तम्। श्रौतसर्वपदस्य व्याख्यानं सौत्रचराचरपदमित्यङ्गीकारात्। अत्र ‘सूत्रपदमनूद्ये’ति वक्तव्ये ‘सूत्राक्षराणी’ति वचनं, सूत्रे चराचरस्येति षष्ट्यन्तस्याऽश्रवणाद् अन्यथाऽनुवादः कृत इति शङ्कानिरासाय। नेदं सूत्रपदानुवादरूपं येन विसंवादशङ्का स्यात्, किं तु– प्रातिपदिकैकदेशानुवाद इति भावः। अदितिश्रुतेरिति॥ अदितिशब्दरूढेरपि ‘यो देवानां नामधे’ति श्रुतिबलेन विष्णावपि सावकाशत्वादित्यर्थः। लिङ्गस्य चेति॥ चशब्दोऽप्यर्थे। लिङ्गस्यापि रूढिप्रवृत्ति-निमित्तस्याऽदितित्वलिङ्गस्यापि सावकाशत्वादित्यन्वयः। कथं सावकाशत्वमित्यत उक्तम्– अदिति-शब्दवाच्यत्वमदितित्वमितीति॥ इतिशब्दो हेतौ। यस्माद् अदितिशब्दवाच्यत्वम् अदितिशब्दरूढि-विषयत्वम्, अदितित्वप्रयुक्तम्, अतः सावकाशत्वमिति भावः। इदमुक्तं भवति – अस्ति तावत्परमेश्वर-स्याऽदितिशब्दरूढिविषयता। महायोगसद्भावात्। महायोगस्य रूढ्यविनाभावात्। न चाऽदितिशब्द-रूढिविषयत्वम् अदितित्वमन्तरा सम्भवतीति अदितिशब्दरूढप्रवृत्तिनिमित्तमदितित्वमपि विष्णावस्तीति।

वाक्यार्थमुक्तावली

ॐ अत्ता चराचरग्रहणात् ॐ॥ श्रुत्यादिसङ्गतिमिति॥ अव्यवहितसङ्गतिस्तु पूर्वाधिकरणे सत्तामभिधायात्र तत्सापेक्षक्रियानिरूपणात्। तदुक्तं ‘‘सर्वगत्वं तु प्रथमं प्रविचार्यते। एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम्’’ इत्यनुव्याख्याने। यद्वा तत्र तत्र स्थितो विष्णुस् तत्तच्छक्तिप्रबोधक इत्यनुव्याख्यानानुसारेण प्रथमं स्थितिकर्तृत्वं विचार्यानन्तरं संहर्तृत्वविचारात्। यद्वा न्यायविवरणटीकारीत्या भवत्वादित्यादिश्रुतीनां विष्णाववकाश इति पूर्वाधिकरणवैषम्येन पूर्वपक्षोत्थानादिति द्रष्टव्यम्। प्रागनुक्तत्वेनासिद्धस्यादनकर्तृत्वस्य सर्वं वा अत्तीति कथमनुवाद इत्यत आह॥ आदच्चेति॥ अभक्ष-यच्चेत्यर्थः। तदेव सर्वात्तृत्वमेव। अदितिशब्दप्रवृत्तिनिमित्तम् अदितिपदवाच्यत्वे निमित्तमित्यर्थः। अन्यथा सर्वात्तृत्वाभावे तद् अदितिपदवाच्यत्वम् अदितिर्देवतामयी इत्यादौ न स्यादित्यर्थः। अस्ति च तदतस्तद्वाक्येऽदितिपदवाच्यत्वमेव सर्वात्तृत्वे हेतुरित्यर्थः। विष्णोरिति॥ अत्रात्तृत्वं किमदितिश्रुतेः, तन्निरवकाशत्वोपपादकादितित्वलिङ्गाच्च किं देवमातुरुत चराचरात्तृत्वलिङ्गप्रकरणाभ्यां विष्णोरिति चिन्ता। तदर्थं श्रुतिलिङ्गयोर्निरवकाशत्वं लिङ्गप्रकरणयोः सावकाशत्वम् उत वैपरीत्यं चेति॥ नन्वन्तःस्थत्वाधि-करणेऽधिदैवसकलशब्दसमन्वयस्योक्तत्वात् तन्न्यायेनादितिश्रुतेरपि सावकाशत्वमिति गतार्थतामाशङ्क्याह॥ न चेति॥ आदितित्वलिङ्गादिति॥ अयं भावः। अदितित्वमिति श्रूयते। किं तददितित्वं सर्वं वा अत्तीति निर्वचनबलाद् अत्तृत्वमेव वा उत जातिर् अथाकाशत्वचन्द्रत्वादिवद् उपाधिरूपः स्वरूपधर्मः? आद्यं दूषयति॥ न हीति॥ अदितेश्चेज्जीवत्वात् पिप्पलं स्वाद्वत्तीत्युक्तात्तृत्वं युज्यते। अदितिभिन्नस्य त्वनश्नन्नित्यादिश्रुतिविरोधान् नात्तृत्वरूपमदितित्वं सम्भवतीत्यर्थः। न द्वितीयः। आदितेरेकत्वेन व्यक्त्यभेदरूपजातिबाधकवशाज् जातित्वानुपपत्तेः। अङ्गीकृत्याह॥ न हीति॥ घटभिन्ने घटत्वाभाववद् अदितिभिन्ने नादितित्वजातिः सम्भवतीत्यर्थः। तृतीयं दूषयति॥ न हीति॥ अदितिस्वरूपधर्म-स्यादितिभिन्ने नावकाश इत्यर्थः। न चादितिशब्दो भगवत्पर इति अनुपपत्यभावः। अदितित्वेनादिति-शब्दस्य तत्र विधित्सितत्वेनानुवादानुपपत्तेः। अन्यथाऽन्योन्याश्रयप्रसङ्गादिति भावः॥ प्रकृति-संवत्सरेति॥ यद्यद् ब्रह्माऽसृजत्पूर्वं तत्तदत्ति जनार्दन इति बृहद्भाष्यरीत्या इत्यर्थः। इति योजनाया-मिति॥ स यद्यदेवासृजतेत्यत्र स तया वाचा तेनात्मनेत्यनुसारेण सोऽदितिस् तेन संवत्सरेणेत्यनुवृत्या योजनायामित्यर्थः। बृहद्भाष्यवाक्यं तु स्वतन्त्रकर्तृभगवदपेक्षया करणत्वेन निर्दिष्टस्यापि तदधीनकर्तृत्वं चास्तीति भावेनानुवृत्तस्य तेनात्मनेत्यस्य यद्यद् ब्रह्मेति प्रथमान्तेनानुवादपरं न तु स इत्यर्थपरम्।

भावबोधे तु पूर्वपक्षरीत्या टीकायामियमर्थोक्तिरिति उक्तम्। तत्त्वित्यनुवृत्तिमभिप्रेत्य सूत्राक्षरार्थमाह॥ विष्णुरेवेति। अनुवृत्यनुसारेणात्तृत्व इति वक्तव्ये पुल्लिङ्गनिर्देशः स तया वाचा तेनात्मनेत्यादौ स इति पुल्लिङ्गेन प्रकृतमृत्युरेव निर्णेयश्रुतावुच्यत इति ज्ञापनाय सर्वग्रहणादिति वक्तव्ये सूत्रे चराचरेत्युक्तिः सर्वशब्दस्यार्थसङ्कोचाभावसूचनार्था। व्याहतिनिरासाय इतरेऽल्पस्य वा न वा इत्येतद्व्याचष्टे॥ स्वातन्त्र्येणेति॥ अदितिशब्दवाच्यत्वमिति॥ अदितिशब्दवाच्यतावच्छेदकतत्प्रवृत्तिनिमित्ता-दनक्रियाकर्तृत्वमित्यर्थः। भावे हि त्वप्रत्ययः स्मर्यते। तद्धितभावश्च शब्दप्रवृत्तिनिमित्तम्। तच्च क्वचिज्जातिः क्वचित् क्रिया क्वचिद्गुणः क्वचिद्द्रव्यं क्वचित् स्वरूपम्। अयं च क्रियाशब्दः। श्रुत्यैव तथोक्तत्वात्। एवं चादितिशब्दवाच्यत्वम् अदितिभिन्नस्यापि विष्णोर् अदनक्रियाकर्तृत्वेन सम्भवतीति अदितित्वलिङ्गस्य सावकाशत्वमनश्नन्निति श्रुतेर्गतिरत्र भविष्यतीति भावः।

तत्त्वसुबोधिनी

ॐ अत्ता चराचरग्रहणात् ॐ॥ अत्र पूर्ववैषम्यप्रदर्शनेन पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिः। विषयवाक्यार्थमाह। सोऽदितिरिति। प्रागनुक्तत्वेनासिद्धस्यादनकर्तृत्वस्य सर्वं वा अत्तीति कथमनुवाद इत्यत आह। आदच्चेति। उक्तन्यायादिति। अन्तराधिकरणोक्तन्यायादित्यर्थः। न चान्तराधि-करणविषयवाक्ये सवित्रादिशब्दवददितिशब्दस्याभावात् तत्रादितिशब्दस्य समन्वयोऽसिद्ध इति वाच्यम्। तत्र इन्द्रादिशब्दानाम् अधिदैवगतसकलशब्दोपलक्षितत्वाङ्गीकारेणास्यापि शब्दस्य तन्न्यायविषयत्वादिति भावः। ननु लिङ्गमपि सावकाशमत आह। न ह्यदितिभिन्नस्येति। अत्रादितेरदितित्वमिति श्रूयते। त्वप्रत्ययश्च जातेर्वाचकः। यथा पृथिवीत्वमिति। तदसम्भवे स्वरूपस्यैव। यथा आकाशत्वमिति। न चादितित्वं नाम जातिः सम्भवति। व्यक्तेरभेदात्। ततोऽदितित्वम् अदितेः स्वरूपमेव। न चादितिस्वरूपभूतम् अदितित्वम् ईश्वरस्य सम्भवति। अत्यन्तभिन्नत्वादित्यर्थः। तथा च निरवकाशै-तल्लिङ्गसाहचर्याददितिश्रुतिरपि निरवकाशेति न विष्णुविषयेति भावः। ननु स तयेत्यत्रापि प्रथमया संवत्सरपरामर्शात् प्रकृतेऽपि तस्यैव परामर्श इत्यत आह। तत्र विरिञ्चस्येति। इति योजनायामस्ति चोद्यावकाश इति। यद्यपि स यद्यदेव इत्यत्र स इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेव बृहदारण्यकभाष्ये उक्तम्। यद्यद् ब्रह्मासृजत् पूर्वं तत्तदित्ति जनार्दन इति स्मृतेः। उत्तरत्र सोऽकामयत भूयसा यज्ञेन यजेयेत्यादौ चतुर्मुखपरत्वदर्शनाच्च। पूर्वत्रापि स तया वाचा तेनात्मनेति प्रथमान्तोक्तमृत्युतोऽपि तृतीयान्तोक्तसंवत्सरस्याव्यवधानेन प्रकृतत्वाच्च। संवत्सरसृष्टमत्तुमेव मृत्योः संवत्सरादनान्निवृत्ततया संवत्सरस्यैव स्रष्टृत्वस्यैवोचितत्वाच्च। कर्तुरपि संवत्सरस्य भगवत्स्वातन्त्र्यविवक्षया तेनेति करणत्वेन निर्दिष्टस्यापि स इति कर्तृत्वेन निर्देशोपपत्तेश्च। तथापि समानविभक्तिकत्वं परामर्शे तन्त्रमिति भ्रमेण स इत्यनेनादित्याख्यमृत्योरेव परामर्श इति पूर्वपक्षे पुल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्त्येव। न च तथापि स ऐक्षत इत्यादौ पुल्लिङ्गेनैव तच्छब्देन मृत्युनेति मृत्युशब्देन च प्रस्तुततया गुरोर् दाराः पूज्या इतिवत् पुल्लिङ्गोपपत्तिरिति वाच्यम्। दारादिशब्देषु पुल्लिङ्गस्त्रीलिङ्गादेः शब्दसाधुतैव। न त्वर्थसाधुता। न चार्थसाधुत्वे सम्भवति शब्दसाधुत्वमात्रं युक्तम्। एवं चादितेः पुल्लिङ्गो मृत्यु-शब्दोऽप्ययुक्तः। परमपुरुषे तु स्त्रीलिङ्गोऽप्यदितिशब्दः प्रकृत्यधिकरणन्यायेन युक्तः। तथा चास्ति चोद्यावकाशः। नन्वेवं व्याख्यानस्य किं प्रयोजनमत आह। सूत्रस्येति। अल्पस्य वा न वा इत्येतद्विरुद्धमित्यतो व्याचष्टे। अस्वातन्त्र्येणाल्पस्येति। अनेन निखिलस्यैक एवेत्यत्र स्वतन्त्र एवेत्यर्थ इति सूचितम्। यत इत्यस्यावृत्तिम् इदंशब्दस्य द्वितीयबभूवशब्देनान्वयं साम्परायशब्दस्य मुक्तिप्रलयो-भयार्थत्वमभिप्रेत्य एकः पुरस्तादिति वाक्यं व्याचष्टे। एक इत्यादिना। उक्तरीत्येति। स्रष्टा पाता इत्यादिभाष्योक्तरीत्येत्यर्थः। तर्हि अदितिश्रुतेः का गतिरत आह॥ अदितिश्रुतेरिति। लिङ्गस्यापि सावकाशत्वमाह॥ लिङ्गस्य चेति। अदितिशब्दवाच्यत्वमिति। भावे हि त्वप्रत्ययः स्मर्यते। तद्धि तद्धितभावश्च शब्दप्रवृत्तिनिमित्तम्। तच्च क्वचिज्जातिः क्वचित् क्रिया क्वचिद्गुणः क्वचिद्द्रव्यं क्वचित्स्वरूपम्। तत्र यत्सर्वात्तृत्वं तददिति त्वम् अदितिशब्दप्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमस्योच्यते। अत एव श्रुतिः सर्वं वा अत्तीति। क्रियाकर्तृत्वस्य प्रवृत्तिनिमित्तत्वं विधत्ते। एवं चादितिशब्दवाच्यत्वमदितित्वं न तु अदितिस्वरूपत्वम्। अदितिशब्दवाच्यत्वं च अदितिभिन्नस्यापि विष्णोर् अदनक्रियाकर्तृत्वेनापि सम्भवतीति अदितित्वलिङ्गस्य सावकाशत्वादिति भावः। ननु सैद्धान्तिकलिङ्गस्य निरवकाशत्वप्रयुक्त-प्राबल्यवत्पूर्वपक्षीयलिङ्गस्यापि बहुत्वप्रयुक्तप्राबल्यमस्तीति प्रविरोधः स्यादत आह। सावकाशेति।

वाक्यार्थविवरणम्

अदितित्वलिङ्गादिति॥ अदितिस्वरूपलिङ्गादित्यर्थः। एतदुपपादनं न्यायविवरणटीकातोऽव-गन्तव्यम्॥

वाक्यार्थमञ्जरी

अत्तुं भक्षणार्थम्। अध्रियत दधार। आदच्चेति शेषोक्तिः। अभक्षयदित्यर्थः। कुत इति प्रश्नोत्तरमाह॥ सर्वमिति॥ अदितित्वम् अदितिशब्दवाच्यत्वं हि यस्मादतः सा सर्वात्त्रीत्यर्थः। अन्यथा सर्वात्तृत्वाभावे तद् अदितित्वम् अदितेर् देवमातुः। उक्तन्यायाद् अन्तर्यामिपरत्वादिरूपात्। अदितित्वम् अदितिस्वरूपत्वं त्वप्रत्ययस्य व्यक्त्यभेदेन जातिपरत्वायोगे आकाशत्वमित्यादाविव स्वरूप-परत्वस्यैव वक्तव्यत्वादिति भावः॥ बाध इति॥ वक्ष्यमाणरीत्या लिङ्गस्यापि सावकाशत्वादिति भावः। पुंशक्तिः पुरुषशक्तिः॥ सोऽहमिति॥ सोऽहं दिशा दिङ्नामकचतुर्दिगवस्थितभगवद्रूपाणां वत्सं पुत्रं वायुमेवमुक्तरीत्या वेदेति रमावाक्यम्। आहुश् छान्दोग्यभाष्ये॥ प्रकृतेति॥ स संवत्सरोऽ-भवदिति संवत्सरशब्देन प्रकृतचतुर्मुखपरामर्शादित्यर्थः॥ तृतीयान्ततया तृतीयान्ततेनेतिशब्देन प्रथमान्तस इत्यनेन इति योजनायाम्॥ अस्ति चोद्यावकाश इति॥ यद्यपि बृहद्भाष्ये स यद्यदेवेत्यत्र स इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेवोक्तम्। तथापि समानविभक्तिकत्वं परामर्शे तन्त्रमिति भ्रमेण स इत्यनेनादित्याख्यमृत्योरेव परामर्श इति पूर्वपक्षे पुल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्तीति भावः। अत एवेति योजनायामित्युक्तम्॥ ॐ अत्ता चराचरग्रहणात् ॐ॥ सर्वं वाऽत्तीत्यत्रोक्तोऽत्ता संहर्ता विष्णुरेव। नादितिः सर्वमिति चेतनाचेतनजातस्य भक्ष्यतया ग्रहणादभिधानादिति यावत्॥ विसंवादेति॥ श्रुतौ चराचरेत्यश्रवणादिति भावः। अस्य व्याख्यानस्य व्याहतिं परिहरति॥ अस्वातन्त्र्येणेति॥ आयुरर्थे आयुष्यार्थम्। उक्तरीत्येति। स्रष्टा पातेति भाष्योक्तरीत्या। सावकाशत्वादिति। या प्राणेन संविशत्यदितिर्देवतामयीति तत्रापि प्रयोगादिति भावः॥ अदितिशब्दवाच्यत्वमिति॥ पाचकत्वमित्यादाविवादनक्रियाकर्तृत्वमेवादितित्वं तद्धितभावश्च शब्दप्रवृत्तिनिमित्तमिति भावः॥

विवृतिः

अत्र पूर्ववैषम्यप्रदर्शनेन पूर्वपक्षोद्धारादनन्तरसङ्गतिः॥ विषयवाक्यार्थमाह॥ सोऽदितिरिति॥ प्रागनुक्तत्वेनासिद्धस्यादनकर्तृत्वस्य सर्वं वा अत्तीति कथमनुवाद इत्यत आह॥ आदच्चेति॥ उक्त-न्यायादिति॥ अन्तराधिकरणोक्तन्यायादित्यर्थः॥ न चान्तराधिकरणविषयवाक्ये सवित्रादिशब्दवददिति-शब्दस्याभावात्तत्रादितिशब्दस्य समन्वयोऽसिद्ध इति वाच्यम्॥ तत्रेन्द्रादिशब्दानामधिदैवगतसकलशब्दोप-लक्षणत्वाङ्गीकारेण अस्यापि शब्दस्य तन्न्यायविषयत्वादिति भावः॥ ननु लिङ्गमपि सावकाशमत आह॥ न ह्यदितिभिन्नस्येति॥ अत्रादितेरदितित्वमिति श्रूयते त्वप्रत्ययश्च जातेर्वाचकः। यथा पृथिवीत्वम्। तदसम्भवे स्वरूपस्यैव। यथाऽकाशत्वम्॥ न चादितित्वं नाम जातिः सम्भवति॥ व्यक्तेरभेदात्॥ ततोऽदितित्वमदितेः स्वरूपमेव॥ न चादितिस्वरूपमदितित्वमीश्वरस्य सम्भवति॥ अत्यन्तभिन्नत्वादित्यर्थः॥ ननु स तयेत्यत्रापि प्रथमया संवत्सरपरामर्शात् प्रकृतेऽपि तस्यैव परामर्श इत्यत आह॥ तत्र विरिञ्चस्येति॥ इति योजनायामस्ति चोद्यावकाश इति॥ यद्यपि स तयेत्यत्र स इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेव बृहदारण्यकभाष्य उक्तम्॥ यद्यद् ब्रह्मासृजत्पूर्वं तत्तदत्ति जनार्दन इति स्मृतेः॥ उत्तरत्र सोऽकामयत भूयसा यज्ञेन यजेयेत्यादौ चतुर्मुखपरत्वदर्शनाच्च॥ पूर्वत्रापि स तया वाचा तेनात्मनेति प्रथमान्तोक्तमृत्युतोऽपि तृतीयान्तोक्तसंवत्सरस्याव्यवधानेन प्रकृतत्वाच्च। संवत्सरसृष्टमत्तुमेव मृत्योः संवत्सरादनान्निवृत्ततया संवत्सरस्यैव स्रष्टृत्वस्यैवोचितत्वाच्च। कर्तुरपि संवत्सरस्य भगवत्स्वातन्त्र्यविवक्षया तेनेति करणत्वेन निर्दिष्टस्यापि स इति कर्तृत्वेन निर्देशोपपत्तेश्च॥ तथापि समानविभक्तिकत्वं परामर्शे तन्त्रमिति भ्रमेण स इत्यनेनादित्याख्यमृत्योरेव परामर्श इति पूर्वपक्षे पुल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्त्येव। न च तथापि स ऐक्षत इत्यादौ पुल्लिङ्गेनैव तच्छब्देन मृत्युनेति मृत्युशब्देन च प्रस्तुततया गुरोर्दाराः पूज्या इतिवत्पुल्लिङ्गनिर्देशोपपत्तिरिति वाच्यम्॥ दारादिशब्देषु पुल्लिङ्गस्त्रीलिङ्गादेः शब्दासाधुतैव न त्वर्थसाधुता॥ न चार्थसाधुत्वे सम्भवति शब्दसाधुत्वमात्रं युक्तम्॥ एवं चादितौ पुल्लिङ्गो मृत्युशब्दोऽप्ययुक्तः॥ परमपुरुषे तु स्त्रीलिङ्गोऽप्यदितिशब्दः प्रकृत्यधि-करणन्यायेन युक्तः॥ तथा चास्ति चोद्यावकाशः॥ नन्वेवं व्याख्यानस्य किं प्रयोजनमत आह॥ सूत्रस्येति॥ अल्पस्य वा न वेत्येतद्विरुद्धमित्यतो व्याचष्टे॥ अस्वातन्त्र्येणाल्पस्येति॥ अनेन निखिलस्यैक एवेत्यर्थ स्वतन्त्र एवेत्यत्र इति सूचितम्॥ यत इत्यस्यावृत्तिम् इदंशब्दस्य द्वितीयबभूवशब्देनान्वयं साम्परायशब्दस्य मुक्तिप्रलयोभयार्थत्वमभिप्रेत्यैकः पुरस्तादिति वाक्यं व्याचष्टे॥ य एक इत्यादिना॥ उक्तरीत्येति॥ स्रष्टा पातेत्यादिभाष्योक्तरीत्येत्यर्थः॥ तर्हि अदितिश्रुतेः का गतिरत आह॥ अदितिश्रुतेरिति॥ लिङ्गस्यापि सावकाशत्वमत आह॥ लिङ्गस्य चेति॥ अदिति-शब्दवाच्यत्वमिति। भावे हि त्वप्रत्ययः स्मर्यते॥ तद्धितभावश्च शब्दप्रवृत्तिनिमित्तम्॥ तच्च क्वचिज्जातिः, क्वचित्क्रिया, क्वचिद्गुणः, क्वचिद्द्रव्यं, क्वचित्स्वरूपं, तत्र यत्सर्वातृत्त्वं तददितित्वमदिति-शब्दप्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमस्योच्यते। अत एव श्रुतिः सर्वं वा अत्तीति। क्रियाकर्तृत्वस्य प्रवृत्तिनिमित्तत्वं विधत्ते॥ एवं चादितिशब्दवाच्यत्वमदितित्वं न त्वदितिस्वरूपत्वम्, अदितिशब्दवाच्यत्वं चादितिभिन्नस्यापि विष्णोरदनक्रियाकर्तृत्वेनापि सम्भवतीति अदितित्वलिङ्गस्य सावकाशत्वादिति भावः॥ ननु भवदीयलिङ्गस्य निरवकाशत्वप्रयुक्तं प्राबल्यं, मदीयस्य तु बहुत्वप्रयुक्तं प्राबल्यमिति प्रतिरोधः स्यादत आह॥ सावकाशेति॥