ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ
अथ द्वितीयः पादः
१. सर्वगतत्वाधिकरणम्
सूत्रभाष्यम्
॥ ॐ॥ लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन्पादे प्राधान्येन। ‘ब्रह्म ततममि’ति सर्वगतत्वमुक्तं विष्णोः। तच्च ‘तस्यैतस्यासावादित्यो रसः’ (ऐ.आ. ३-२-३) इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत्।
॥ ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ १॥
‘स यश्चायमशरीरः प्रज्ञात्मा’ (ऐ.आ. ३-२-४) इत्यादिना सर्वत्रोच्यमानो नारायण एव। ‘तदेव ब्रह्म परमं कवीनाम्’ (म.ना.उ. १-६)। ‘परमं यो महद्ब्रह्म’।
‘वासुदेवात्परः को नु ब्रह्मशब्दोदितो भवेत्।
स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’॥
इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात्॥ १॥
सत्तर्कदीपावली
॥ हरिः ॐ॥ अभिहितोऽर्थान्तरप्रसिद्धानां नाम्नां पूर्वं समन्वयो विष्णौ। अधुना लिङ्गवाचिनां बाहुल्येनार्थान्तररूढानामपि केषाञ्चिद्वैश्वानरादिशब्दानां सङ्गतिविशेषात्समन्वयोऽस्मिन्पाद इत्याह॥ लिङ्गेति॥ गताधिकरणेनास्याधिकरणस्य सङ्गतिं दर्शयन् पूर्वपक्षं दर्शयति॥ ब्रह्मेति॥ इदमाम्नायते। एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगा एतमस्यामेतं दिव्येतं वायावेमाकाश इति। पृथिव्यादिसर्वगतत्वेन मीमांस्यमानस् तस्यैतस्यासावादित्यो रसः स यश्चायमशरीरः प्रज्ञात्मेत्युपक्रमवशादादित्यो भवेत्। अतश्च ब्रह्म ततममिति यत्ततमत्वं विष्णोरुक्तं तदप्येकवाक्यव-शादादित्यस्यैव युक्तमित्येतं पक्षं प्रतिक्षेप्तुं सूत्रमुपन्यस्य व्याचष्टे सर्वत्रेत्यादिना। सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत इति ब्रह्मशब्दाभिधेयत्वश्रवणादत्र सर्वगतत्वेनोच्यमानो विष्णुरेव नादित्यः॥ अशरीरः प्रज्ञात्मेत्युपक्रमाच्च। न चादित्ये ब्रह्मशब्दः शङ्कनीयः। ‘तदेव ब्रह्म परमं’ ‘यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा। परमं यो महद्ब्रह्म’ इत्यादिवाक्येषु विष्णोरेव प्रसिद्धत्वान् नादित्यस्य मुख्यतो ब्रह्मत्वं युज्यते।
तत्त्वप्रदीपिका
सर्वगतत्वादिधर्मवाचिनां शब्दानां समन्वयः सम्प्रति समभिधीयते। महारूढ्या महायोगेन च वृत्तिः ‘प्रवृत्तिरि’त्युच्यते। अन्यत्राज्ञरूढित्वादल्परूढिः। विद्वद्रूढित्वाद्विष्णौ महारूढिः। लौकिकप्रयोगाद्वैदिक-प्रयोगबाहुल्याच्च। योगश्चान्यत्र वृत्तिहेतुसामस्त्यस्वातन्त्र्याभावादल्पः। उभयसम्भवाद्विष्णौ महायोगः। वैश्वानराधिकरणे नामशब्दविचारात्प्राधान्येनेत्युक्तम्॥
ब्रह्म ततममित्यादेरयमर्थः। ब्रह्म ततममित्यादिना यत् सर्वगतत्वमुक्तं विष्णोस्तत् ‘‘तस्यैतस्या-सावादित्यो रसः’’ ‘‘तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति’’ ‘‘सूर्य आत्मा जगतस्तस्थुषश्च’’ ‘‘एतं सर्वेषु भूतेषु’’ इत्यादिना शाखाशेषेणाऽदित्यस्य प्रतीयते। अतः प्राणशब्दोऽपि कथञ्चिद-स्मिन्योज्येतेत्यत आह। सर्वत्र प्रसिद्धोपदेशात्॥ ‘‘स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्ये एकमेतदिति विद्यात्, तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति’’ इत्यादिना सर्वत्रोच्यमानो विष्णुरेव। तस्मिन्नेव प्रसिद्धस्य ब्रह्मशब्दस्य ‘‘एतमेव ब्रह्मेत्याचक्षत’’ इत्युपदेशात्॥
तत्त्वप्रकाशिका
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः॥ ॐ॥ एतत्पादप्रतिपाद्यं दर्शयति॥ लिङ्गेति॥ लिङ्गात्मकानामिति धर्मविशिष्टधर्मिवाचिनामित्यर्थः। अन्यत्र प्रसिद्धानामिति संयोज्यम्। वैश्वानराधिकरणे नामसमन्वयसिद्धेः प्राधान्येनेत्युक्तम्। अत्र लोकतोऽन्यत्र प्रसिद्धाऽऽदित्य-श्रुतिसहपठितसर्वगतत्वलिङ्गात्मकशब्दस्य परब्रह्मणि समन्वयप्रतिपादनादुस्ति शास्त्रादिसङ्गतिः। श्रुत्यादिसङ्गतिं विषयसंशयौ च सूचयति॥ ब्रह्मेति॥ ब्रह्म ततममिति विष्णोः सर्वगतत्वमुक्तम्। तदेवैतरेयके ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते। एतमग्नावध्वर्यवः। एतं महाव्रते च्छन्दोगा एतमस्यामेतं दिव्येतं वायावेतमाकाशे एतमप्स्वेतमोषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इत्याम्नायते। तद्यदि विष्णोरन्यस्य स्यात्तर्हि प्राचीनप्राणोऽप्यन्य एव स्यादेकप्रकरणत्वात्। अतोऽवश्यं विचार्यं भवति। तत्सर्वगतत्वं विषयः। विष्णोरन्यस्य वेति सन्देहः। ब्रह्म ततममित्युक्तिरादित्यश्रुतिश्च सन्देहबीजमिति भावः। तत्र सयुक्तिकं पूर्वपक्षयति॥ तच्चेति॥ तत्सर्वगतत्वमादित्यस्यैव भवेत्। ‘तस्यैतस्यासावादित्यो रसः यश्चासावादित्यस्तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवती’त्यादिबह्वादित्यश्रुतेः। ‘सूर्य आत्मा जगतः’ इति सौरमन्त्रोदाहरणाच्च। एतमस्यामिति क्षित्यादिषूक्त्वाऽऽदित्येऽऽस्यानुक्तत्व-लिङ्गाच्च। अन्यथैतमादित्य इत्युक्तिः स्यात्। सजातीयचन्द्रादावुदितत्वात्। अत एव न श्रुतेरन्तर्यामि-विषयत्वं युज्यते। सर्वजीवानां वा एतत्सर्वगतत्वमुच्यते। ‘चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मे’ति तल्लिङ्गश्रवणात्। न च तल्लिङ्गमन्तर्यामिविषयम्। तस्यापरिच्छिन्नत्वेन सर्वेषु भूतेष्वि-त्युक्ताल्पौकस्त्वायोगाच्चक्षुर्मयत्वाद्ययोगाच्च। अतो विष्ण्वन्यस्यैव सर्वगतत्वादन्यस्यैव प्राणत्वमानन्दमयत्वं चेति भावः। सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे॥ अत इति॥ स यश्चायमित्यादिना वाक्येन सर्वत्र पृथिव्यादिषूच्यमानो नारायण एव। ‘एतमेव ब्रह्मेत्याचक्षत’ इति सर्वगते ब्रह्मशब्दोपदेशात्। ब्रह्मशब्दस्य च श्रुत्यादौ नारायण एव प्रसिद्धत्वादित्यर्थः। तथा च श्रुतिः। तच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः।’ इति। अत्र स यश्चायमिति वाक्योदाहरणं पूर्वं विषयवाक्यस्यानुदाहृतत्वात् कृतमशरीरत्वयुक्तिसूचनार्थं च। न हि नारायणेतरचेतनानां स्वतोऽशरीरता सम्भवति॥ १॥
गुर्वर्थदीपिका
ॐ॥ सर्वगतत्वस्य भगवतोऽन्यत्र लोकतोऽपि प्रसिद्ध्यभावात्पादासङ्गतिरिति शङ्काऽपनोदाय लोकतोऽन्यत्र प्रसिद्धादित्यश्रुतिसहपठितेत्युक्तम्। एवमुत्तराधिकरणेऽपि लोकतोऽन्यत्र प्रसिद्धादितिनाम्ना सहपाठादत्तृत्वलिङ्गस्यान्यत्र प्रसिद्धिं वक्ष्यति॥ सर्वजीवानां वैतत्सर्वगतत्वमुच्यत इत्यत्र मिलित्वा सर्वजीवानां वा प्रत्येकं सर्वजीवानां वेत्यर्थः। चक्षुर्विकारित्वादिरूपचक्षुर्मयत्वादिकं शतायुष्ट्वादिलिङ्ग-वन्नान्तर्यामिणि योजयितुं शक्यत इति भावेनोक्तं चक्षुर्मयत्वाद्ययोगादिति। ‘‘एतं ह्येव बह्वृचा’’ इति वाक्यमध्ये यद्यपि ‘‘स यश्चायमशरीरः प्रज्ञात्मे’’ति वाक्यं नास्ति तथाऽप्यस्यैव वाक्यस्याऽऽदिभागेऽ-स्तीत्यतस्तदपि विषयवाक्यान्तर्गमेवेति भावेनाऽऽह भाष्यकारः ‘‘स यश्चायमशरीरः प्रज्ञात्मेत्यादिने’’ति। तर्हि व्यवहितवाक्योदाहरणे को हेतुरित्यत उक्तं टीकाकृता अशरीरत्वयुक्तिसूचनार्थं चेति।
भावबोधः
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ अर्थस्य शब्दात्मकत्वाभावाच्छब्दस्य कथं लिङ्गात्मकत्वम् ? प्रतिपादकत्वविवक्षायामपि सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे धर्मविशिष्टधर्मिवाचिनामिति। श्रुत्यादिसङ्गतिमिति। इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तसूत्रांशेन च सङ्गतिमित्यर्थः। तदेवैतरेयक इति॥
ननु ब्रह्म ततममित्यनेन निरवधिकसर्वगतत्वमभिप्रेतम्। तादृशसर्वगतत्वोक्तेरेवोपासनोपयोगात्। एतमस्यामित्यत्र त्वर्भकौकस्त्वादित्युत्तरसूत्रानुसारेण भूतपदप्रयोगबलेन च भूतवृत्तित्वमात्रमुच्यते। अन्यथा सर्वेष्वित्युक्तत्वाद्भूतशब्दवैयर्थ्यं स्यात्। तथा च तयोरेकरूपत्वाभावात् कथं तदेवेत्युक्तमिति चेत्, न; तदेवेत्यस्य तदेकदेशरूपमित्यर्थात्। एवमपि पूर्वाक्षेपः सम्भवति। तथा हि– अत्रोक्तभूतगतत्वस्यैत-मेवेत्यवधारणबलेनान्यमात्रनिष्ठत्वे विष्णोर्भूतगतत्वापगमने निरवधिकसर्वगतत्वं न स्यात्। निरवधिक-सर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति ब्रह्म ततममित्युक्तसर्वगतत्वमपि एतद्वाक्यप्रतिपादितभूतस्यैव स्यादित्युपपादनसम्भवादिति भावः। विष्णोरन्यस्य वेति। अत्रैतमस्यामित्युक्तं सर्वगतत्वं किमादित्यादेरुत विष्णोरिति चिन्ता। तदर्थमादित्यादिप्रापकम् आदित्यादिश्रुतय आदित्यानुक्ति-चक्षुर्मयत्वादीनि लिङ्गानि, अर्भकौकस्त्वसम्भोगप्राप्तिरूपपरपक्षानुपपत्तिश्चेत्येतत्, ब्रह्मशब्दश्रुतत्वादिलिङ्ग-सर्वशरीरस्थत्वकर्मकर्तृव्यपदेशानुपपत्तिरूपविष्णुप्रापकबाधकमुत तद्बाध्यमिति। तदर्थमादित्यश्रुत्यादिकं निरवकाशं ब्रह्मशब्दादिकं सावकाशमुत ब्रह्मशब्दादिकं निरवकाशम्, आदित्यश्रुत्यादिकं सावकाशमिति। तदर्थं ब्रह्मशब्दादेर्निरवकाशत्वे आदित्यश्रुत्यादेः सावकाशत्वे च प्रमाणं नास्त्युत आस्तीति। बह्वादित्यश्रुतेरिति॥
ननु लोकतोऽन्यत्र प्रसिद्धस्याप्यादित्यशब्दस्यान्तराधिकरणन्यायेन विष्णुवाचित्वात् कथं तेन तदन्यस्य प्राप्तिरिति चेत्, न; संवत्सर एव प्रध्वंसयन् तस्यैतस्यासावादित्यो रस इति संवत्सराधिपतित्वरूपसंवत्सर-सारत्वलिङ्गाद्यभावश्चासावादित्य इति प्रसिद्धार्थयच्छब्दोपबन्धात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति सर्वपुरुषाभिमुख्यलिङ्गाच्चाऽऽदित्यशब्दस्य प्रसिद्धादित्यपरत्वात्। अत एव भाष्ये– तस्यैतस्यासावादित्यो रस इत्यादिनेति उक्तलिङ्गप्रतिपादकवाक्यमुदाहृतमित्यभिप्रेत्य तद्गतादिपदार्थत्वेन तल्लिङ्गप्रतिपादकं यश्चासावादित्यस्तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति वाक्यमेव टीकायामुदाहृत्य बह्वादित्यश्रुते-रित्युक्तम्। अनेन बहवो ह्यत्रादित्यादिशब्दा इति न्यायविवरणमप्युक्तार्थं भवति। न्यायविवरणगतादि-शब्दार्थमाह– सूर्य आत्मा जगत इतीति। अयमपि भाष्यगतस्याप्यादिशब्दस्यार्थ इति ज्ञेयम्। क्षित्यादिषूक्त्वा आदित्येऽनुक्तिरित्यादिलिङ्गेनेति। आदित्येऽनुक्तत्वलिङ्गादेवेत्यर्थः। अनेन लिङ्गेनादित्यशब्दस्यादित्यसंस्थितपरत्वादन्तर्यामिपरत्वे तद्विरुद्धमिति भावः। आदित्यादिलिङ्गं चेति न्यायविवरणगतादिपदार्थमाह। चक्षुर्मय इति॥ पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्तमित्युक्तम्। इदानीं जीवधर्मत्वात्तस्य तदपि न युक्तमित्याह। चक्षुर्मयत्वाद्ययोगाच्चेति। नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थः। स यश्चायमशरीरः प्रज्ञात्मेत्यादिनेत्ये-तदादित्यो रस इत्यादिनेतिवद्युक्तिप्रदर्शकमात्रमिति भ्रमं वारयितुमाह। स यश्चायमित्यादिना वाक्येनेति। अत एव वक्ष्यति स यश्चायमिति वाक्योदाहरणमिति सूचनार्थं चेति। तथा च श्रुतिरिति। अनेन भाष्ये नारायणशब्दप्रयोगाभिप्राय उक्तो भवति। अशरीरत्वयुक्तिसूचनार्थं चेति। विषयवाक्य-प्रदर्शनमात्रार्थत्वे तु ‘‘एवं ह्येवं बह्वृचा’’ इत्यादिना इत्यवक्ष्यत्। इयं युक्तिः ‘‘अनुपपत्तेस्तु न शारीर’’ इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽप्यभिप्रेता। अन्यथा जीव इत्येव ब्रूयादिति भावः। अशरीरत्वस्यादित्यादौ निरवकाशत्वमाह– न हि नारायणेतरेति। अनेन श्रीतत्त्वादौ व्यभिचारोऽपि परास्तः।
भावदीपः
॥ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ द्वित्रनयमात्रेण प्रवृत्तिं दर्शयतीत्यपि भाष्यार्थोपपत्त्या पादार्थत्वा-प्रतीतेराह॥ एतत्पादेति॥ शब्दादेवेत्यत्र वक्ष्यमाणदिशा असाधारणधर्मस्य लिङ्गत्वात्कथं तदात्मकत्वं शब्दानामित्यतो लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः। स्वरूपार्थो वा आत्मशब्दो निमित्तनिमित्तिनोरभेदोपचारादिति सुधोक्तदिशा समासं मत्त्वाऽर्थमाह॥ धर्मविशिष्टेति॥ यौगिकानामित्यर्थः। प्राचीनानामपि प्रागुक्तदिशा यच्छब्दा योगवृत्तय इत्यणुभाष्योक्त्या च यौगिकत्वात् तद्व्यावृत्त्यर्थम् आपाततोऽपीति योज्यम्। भाष्ये प्रवृत्तिमित्यस्य महायोगविद्वद्रूढिभ्यां प्रकृष्टवृत्तित्वमिति तत्वप्रदीपोक्तेरत्रानुक्तिः। तृतीयादिसाङ्कर्यप्रसङ्गादाह॥ अन्यत्रेति॥ नामसमन्वयेति॥ विश्व-जीवान्तरत्वाद्यैर्लिङ्गैर् इत्यणुभाष्ये सिद्धान्त्यभिमतयौगिकत्वाभिप्रायेण वैश्वानरशब्दस्य लिङ्गत्वोक्तावपि श्रुतिर्लिङ्गाधिका परेति विषययुक्तिमालायां लोकरूढ्या नामत्वोक्तेरिति भावः॥ सर्वगतत्वलिङ्गेति॥ सर्वप्राणिहृदयगुहास्थत्वरूपसर्वगतत्वलिङ्गेत्यर्थः। तस्य च स्वतः सूर्ये अप्रसिद्धेराह॥ लोकतोऽन्यत्र प्रसिद्धेत्यादि॥ अर्भकौकस्त्वादितत्प्रसिद्धोपदेशादिपूर्वोत्तरपक्षयुक्तिसाहित्याल्लिङ्गमेव समन्वीयते न त्वादित्यनामेति भावः। एवमग्रेऽपि॥ शास्त्रादीति॥ पूर्वत्रेव सङ्गतित्रयोपपादकत्वं लोकत इत्यादि-पदानां ध्येयम्। एवमग्रेऽपि। इत्यन्तभाष्यं सङ्गतिसूचनपरत्वेनाकाङ्क्षितपूर्त्या व्याचष्टे॥ ब्रह्मेति॥ तच्चेत्यस्यार्थस् तदेवेति। ततमत्वान्तःपात्येवेत्यर्थः। सर्वहृदयगुहास्थत्वरूपसर्वगतत्वस्य ततमत्वैकदेशत्वात्। यद्वा पूर्वपक्षे ततमत्वस्य सङ्कोचात्तदेवेत्युक्तिः। तदेवेत्यस्य इत्याम्नायत इत्यन्वयः। तच्चेत्यादेस्तात्पर्यम्॥ तद्यदीति॥ अन्यस्येति॥ आदित्यश्रुत्यादिना आदित्यादेः स्यादित्यर्थः। उक्तमित्यन्तवाक्यस्य तात्पर्यम्॥ तर्हि प्राचीनेति॥ नन्वत्रत्यसर्वहृदयस्थत्वरूपं सर्वगतत्वमन्यस्य चेत्ततमत्वेनोक्तप्राणोऽपि कुतोऽन्य इत्यत आह॥ एकेति॥ ननु सर्वगतत्वाख्यसर्वहृदयस्थत्वरूपार्भकौकस्त्वं प्रागुक्तततमत्वरूप-व्याप्तत्वं चैकस्य विरुद्धमिति न शङ्क्यम्। ततमत्वस्यादित्यादौ सङ्कोचसम्भवादिति॥ अतोऽवश्यमिति॥ एतेनेत्यत इति भाष्यस्य इति सङ्गतिसम्भवादित्यर्थः सूचितः। एवमग्रेऽपि। तदेव भाष्यं पूर्वपक्षपरतयापि व्याचष्टे॥ तत्र संशयादौ सतीति॥ आदित्यस्यैवेति॥ तच्चेति चकारोऽवधारणार्थः सन्नादित्य-स्येत्यत्रान्वेतीति भावः। तस्य चैतस्य संवत्सरस्य रसः सारोऽधिपतिः। अन्तर्नयन्यायेन श्रुतेः सावकाशत्वनिवृत्त्यर्थं निरवकाशसंवत्सरसारत्वरूपादित्यलिङ्गद्योतनाय रस इत्यन्तानुवादः। बहवो ह्यत्रादित्यशब्दाः क्षित्यादिषूक्त्वा आदित्येऽनुक्तिरित्यादिलिङ्गं चेति न्यायविवरणदिशा भाष्यस्थादिपदार्थमाह॥ यश्चासाविति॥ अस्येति॥ एतमिति प्रकृतस्येत्यर्थः॥ अन्यथेति॥ आदित्यादन्यस्य सर्वगतत्व इत्यर्थः॥ अत एवेति॥ विशिष्टादित्येऽनुक्तत्वरूपनिरकाशलिङ्गादेवेत्यर्थः। अत्र भाष्ये आदित्यस्येत्युक्तावप्यग्रे चक्षुर्मयत्वादेश्च जीव इत्युक्तेराह॥ सर्वजीवानां वेति॥ न चेति॥ आनन्दमयनयरीत्या मयट् प्राचुर्यार्थः। सम्पूर्णदर्शनादिशक्त्यादिमानिति तदर्थ इति भावः। तस्य सावकाशत्वमभ्युपेत्यार्भकौकस्त्वादिति सूत्रोक्तनिरवकाशलिङ्गेन जीवपक्षमुज्जीवयति॥ तस्यापरिच्छिन्नत्वेनेति॥ एष म आत्मा अन्तर्हृदये ज्यायानिति श्रुतेरिति भावः। भूतेष्वित्युक्त्या प्रतीतमेकदेशस्थत्वरूपमल्पौकस्त्वं सर्वगतसर्षपान्तस्स्थत्वं ब्रह्माण्ड इव न युक्तमित्यर्थः। नन्वेवं प्रागुक्तं ततमत्वमपि जीवानामेव वाच्यम् एकप्रकरणत्वात्। तथा च ततमेषु जीवेषु अल्पौकस्त्वायोगस्तुल्य इति चेन्मैवम्। जीवेषु ततमत्वस्य सङ्कोचसम्भवात्। न चान्तर्यामिणि तथा। ब्रह्मत्वव्याघातादिति भावः। कथं तर्हि भाष्ये तद्व्यपदेशाच्चेति सूत्रे च चक्षुर्मयत्वादिलिङ्गोक्तिरित्यतो हेत्वन्तरेण पूर्वपक्षे सति अभ्युच्चयत्वेन तदुक्तिरिति सुधोक्तदिशाऽर्भकौकस्त्वरूपानवकाशलिङ्गे सति प्रसिद्धचक्षुःकरणकत्वमेव चक्षुर्मयत्वादि स्यात्। तच्च नित्यज्ञानेऽन्तर्यामिणि न युक्तमिति भावेनाऽऽह॥ चक्षुर्मयत्वेति॥ अत एव सूत्रेऽर्भकौकस्त्वादित्युक्त्वैव तद्व्यपदेशादित्युक्तमिति भावः। भाष्यस्थेतिशब्दं हेत्वर्थं मत्त्वा ततममिति वाक्यस्य पूर्वाक्षेपरूपसङ्गतिपरत्वेन व्याख्यातस्यापि पूर्वपक्षफलपरतयापि तात्पर्यमाह॥ अत इति॥ निरवकाशश्रुतिलिङ्गसत्त्वादित्यर्थः। आदित्यजीवयोरन्यतरानिश्चयेऽपि अन्यत्वेन तन्निश्चयस्स्यादतो न पूर्वपक्षस्य सन्देहादविशेष इति भावेनोक्तम्। विष्ण्वन्यस्यैवेति॥ सर्वगत-त्वादिति॥ सर्वहृत्स्थत्वरूपसर्वगतत्वादित्यर्थः॥ प्राणत्वमिति॥ एकप्रकरणत्वादिति भावः। असङ्कुचितसर्वगतत्ववति विष्णावल्पौकस्त्वायोगेऽपि अल्पौकस्त्ववत्यादित्यादौ ततमत्वेनोक्तप्राणत्वं युक्तम्। ततमत्वस्य यथायोगं सङ्कोचसम्भवादिति भावः। महाभोगत्वेनोक्तप्राणत्वं च प्राणत्वमित्यनेन गृह्यते। ततमत्वेन महाभोगत्वेन चोक्तयोर्द्वयोरपि लाभाय प्राणत्वमित्येव सामान्योक्तिः। एवं चानन्दमयत्वं चेत्याक्षेपः शिष्टो भवति। यत्त्वस्य पूर्वाक्षेपेण सङ्गतिमत्त्वे पादविभागभङ्गप्रसङ्ग इति। तन्न। प्रमेयभेदेन तदुपपत्तेरिति। भाष्ये स यश्चायमिति प्रतीकोपादानेन एतमस्यामित्यादि-वाक्यमेवाभिप्रेतमिति भावेनाह॥ इत्यादिना वाक्येन सर्वत्र पृथिव्यादिषूच्यमान इति॥ यद्वा आदित्यो रसः यश्चासावादित्य इति पूर्वोत्तरवाक्ययोरादित्यपदेनैवादित्यस्थस्य सर्वेन्द्रियमय इति वक्ष्यमाणस्मृत्या ग्रहणादुदाहरणमेवेदम्। सर्वत्रेति भाष्यपदानुवादः। उक्थादिष्विति वाच्ये पृथिव्यादिष्वित्युक्तिः सर्वभूताशयस्थित इति वक्ष्यमाणस्मृत्याद्यनुरोधेन। अत एव आदित्यादि-ष्वित्यप्यनुक्तिः स यश्चायमिति वाक्ये स्पष्टम् आदित्ये एष इत्यप्रतीतेश्चेति भावः। विशिष्टस्य हेतुत्वे प्रसिद्धपदव्यावर्त्याभावात्केवलब्रह्मशब्दस्यैव हेतुत्वे दोषाभावाच्च विभज्य भाष्यं हेतोः पक्षधर्मतां दर्शयन् व्याचष्टे॥ एतमेवेति॥ सर्वगत इति॥ एतमित्यनेन पृथिव्यादिषु सर्वत्रोक्तस्य परामर्श इति भावः॥ प्रसिद्धत्वादिति॥ तथा चान्यस्योक्तौ प्रसिद्धिबाध इति भावः। स्मृतेश्चेति सूत्रे सर्वभूतेति स्मृतिसमाख्यानोक्त्या श्रुतौ भूतेष्वित्युक्त्या च भूतादन्यत्र नेति प्राप्तशङ्कानिरासाय भाष्ये नारायण एवेत्युक्तिः श्रुतिसमाख्यासूचनायेति मत्त्वाऽऽह॥ तथा च श्रुतिरिति॥ तैत्तिरीयोपनिष-दीत्यर्थः। तथा चेह नारायणस्यैव बहिरपि विद्यमानस्यैव च सर्वान्तःस्थत्वरूपसर्वगतत्वमिति भावः॥ कृतमिति॥ तर्हि एतं ह्येवेत्याद्येवोच्येतेत्यतो वा पूर्वमादित्यो रस इति विषयवाक्यस्योक्त-त्वादेतदुक्तिर्व्यर्थेत्यतो वाऽऽह॥ अशरीरत्वेति॥ तां निरवकाशतोक्त्या व्यनक्ति॥ न हीति॥ स्वत इति॥ मुक्तानामपि सा तत्प्रसादादागतेति भावः। नारायणेतरेत्युक्त्या यस्य प्रसादादित्यादिश्रुतिः सूचिता। अत एवोत्तरसूत्रे शारीरपदेनैव जीवादित्ययोरुक्तिरिति भावः॥ १॥
अभिनवचन्द्रिका
एतत्पादप्रतिपाद्यमिति॥ ‘अध्यायस्यैकार्थत्वात् पादभेदः किंनिबन्धन इत्यतः समन्वयेऽप्यवान्तर-भेदेनेति भावेने’ति वर्तते। तस्यैतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः। प्राधान्येनेत्युक्तमिति॥ यावदुक्तं भवति प्रायेणेत्यनेन, तावदुक्तं भवति प्राधान्येनेति। ततश्च प्रायःशब्देनेव प्राधान्यशब्देनापि कतिपयाधिकरणव्यावृत्तिर्भवतीति भावः। लोकतोऽन्यत्र प्रसिद्धेति॥ एतदधिकरणस्य पादान्तर्भावसिद्धये सर्वगतत्वप्रतिपादकशब्दस्याऽन्यत्र प्रसिद्धत्वव्युत्पादनार्थम्, ‘आदित्यश्रुतिसहपठिते’ति विशेषणम्। सर्वगतत्वप्रतिपादकशब्दस्य स्वतोऽन्यत्रप्रसिद्धत्वाभावेऽपि आदित्यश्रुतिबलेनाऽन्यत्र प्रसिद्धत्वं सम्पाद्यत इति अस्याधिकरणस्य पादान्तर्भाव इति भावः। आदित्यश्रुतेः कथमन्यत्रप्रसिद्धिसम्पादकत्वमित्यतोऽन्यत्र प्रसिद्धेति आदित्यश्रुतिविशेषणम्। आदित्यश्रुतेरपि केनान्यत्रप्रसिद्धिसम्पत्तिरित्यत उक्तम् – लोकत इति॥ एतेन पादान्तर्भावसिद्धये समन्वेतव्यशब्दस्याऽन्यत्र प्रसिद्धत्वं वक्तव्यम्। आदित्यश्रुतेर् लोकतोऽन्यत्र प्रसिद्धिकथनं तु व्यर्थमिति परास्तम्। सर्वगतत्वलिङ्गात्मकशब्दस्येति॥ नन्वत्र विषयवाक्ये सर्वगतत्वरूपलिङ्गात्मकशब्दो न श्रूयते। न च – ‘सर्वेषु भूतेष्वेत’मिति लिङ्गात्मकशब्द इति वाच्यं तस्य वाक्यत्वेन धर्मविशिष्टधर्मिवाचकत्वरूपलिङ्गात्मकशब्दत्वायोगात्। न च तेन उन्नीतं सर्वगतमिति पदं लिङ्गात्मकमिति वाच्यम्। तस्य प्रागुक्ताऽऽदित्यश्रुतिसहपठितत्वायोगादिति चेत्, न ब्रूमो वयमत्र लिङ्गात्मकपदस्य समन्वयः प्रतिपाद्यत इति। येनोक्तदोषः स्यात्। किंनाम लिङ्गात्मकस्य शब्दस्येति। शब्दत्वं च वाक्यपदसाधारणम्। एवं च – ‘एतं ह्येव बह्वृचामहत्युक्थ’ इति लिङ्गात्मकस्य वाक्यस्य इहोच्यते। अस्य चाऽऽदित्यश्रुतिसहपाठश्चोपपद्यते। कथमस्य धर्मविशिष्ट-धर्मिवाचकत्वरूपं लिङ्गात्मकत्वं, वाचकत्वस्य पदधर्मत्वादिति चेत्, धर्मविशिष्टधर्मिवाचकत्वमित्यनेन वाक्यपदसाधारणस्य प्रतिपादकत्वस्यैव विवक्षितत्वात्। अत एव सत्तर्कदीपावल्याम्, ‘एतं ह्येव बहृचा महत्युक्थे मीमांसन्त, एतमग्नावध्वर्यव, एतं महाव्रते छन्दोगा; एतमस्यामेतं दिवि, एतं वायावेत’मित्यादिपृथिव्यादिगतत्वेन मीमांस्यमान’ (ऐ.आ०) इति वाक्यप्रतिपाद्यस्यैव विषयत्वमुक्तम्।
सुधायां च – ‘एतमस्यामेतं दिवि’ इत्यादिवाक्योक्तं सर्वगतत्वमेवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते’ इत्युक्तम्।
टीकायां च – ‘स यश्चाय’मित्यादिना वाक्येन ‘सर्वत्र पृथिव्यादिषूच्यमानो नारायण एवे’ति वक्ष्यते।
नन्वन्तस्थत्वलिङ्गसमन्वयेनाऽऽदित्यनाम्नः समन्वयः सिद्धो न वा। आद्ये – पूर्वपक्षप्रापकाभावे-नाधिकरणवैयर्थ्यम्। द्वितीये आदित्यनामसमन्वय एवोच्यतां किं लिङ्गसमन्वयेन। नामसमन्वयेनैव लिङ्गसमन्वयसिद्धेरिति चेत्, न – अन्तस्थत्वलिङ्गसमन्वयेन तत्प्रकरणपठितानामिन्द्रादिनाम्नां समन्वय-सिद्धावपि अतत्प्रकरणपठितत्वेनाऽस्याऽऽदित्यनाम्नः समन्वयसिद्ध्यभावात्। नन्वेवं तर्हि आदित्यनाम्न एव समन्वय उच्यतां किं सर्वगतत्वलिङ्गसमन्वयेनेति वाच्यम्। अत्र हेतूक्रियमाणस्य ब्रह्मशब्दस्याऽऽदित्य निष्ठतयाऽप्रतीतेर् एतद्वाक्यगतसर्वगतनिष्ठतया च स्पष्टं प्रतीतेः, सर्वगतत्वलिङ्गस्यैवाऽत्र समन्वय उक्तः। न चाऽऽनन्दमयाधिकरणेन गतार्थता, तत्रेवाऽत्रापि ब्रह्मशब्देनैव विष्णुपरत्वसाधनादिति वाच्यम्– ब्रह्माऽऽदित्यश्रुतीनां सौरमन्त्रोदाहरणस्य चाऽभ्यधिकाशङ्काप्रापकस्य भावात्।
श्रुत्यादिसङ्गतिमिति॥ प्राणाधिकरणप्रतिपाद्यस्य, एतदधिकरणप्रतिपाद्यस्य च सर्वगतत्वेन प्रतीयमानत्वं सङ्गतिरिति सूचितमिति ज्ञेयम्। प्राचीनप्राणोऽप्यन्य एव स्यादिति॥ इतः परं टीकायां श्रूयमाणं ‘एकप्रकरणत्वा’दिति वाक्यं प्रक्षिप्तम्। ‘एतं ह्येव बह्वृचा’ इति वाक्यप्रतिपाद्यस्य सर्वगतस्य प्राचीनप्राणस्य च विभिन्नारण्यकप्रतिपाद्यत्वेनैतत्प्रतिपादकयोरेकप्रकरणत्वाभावात्। अधिकरणान्तरेषु अन्य एव स्यादिति प्राचीनाधिकरणाक्षेपरूपपूर्वपक्षफलप्रदर्शनाऽन्तरं हेतोरनभिधानेन इह तदभिधाने विशेषकारणाभावाच्चेति द्रष्टव्यम्। अन्यथेति॥ सर्वगतस्याऽऽदित्यरूपत्वाभाव इत्यर्थः। सजातीयेति॥ ‘चन्द्रमस्येत’मित्युक्त्वा ‘एतमादित्य’ इत्यनुक्तौ विशेषकारणाभावादिति भावः। अत एवेति॥ सौरमन्त्रोदाहरणस्य सूर्यपरत्वज्ञापकसद्भावादेवेत्यर्थः। सर्वजीवानां वेति॥ ननु – सर्वजीवानां वेति पूर्वपक्षान्तरकथनमयुक्तम्। तत्प्रापकस्य चक्षुर्मयत्वादिलिङ्गस्याऽऽदित्येऽपि सम्भवेनैक-पूर्वपक्षेणैवोपपत्तौ पूर्वपक्षान्तरकल्पनाऽयोगात्। अस्मिन् पक्षे आदित्यश्रुत्ययोगाच्च। किं चैवमाप्ततमो भाष्यकारो मन्यते – न चाऽऽदित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्य’मित्यभिधानात्। अन्यथा आदित्यशब्दस्यैकपूर्वपक्षहेतुत्वेन चक्षुर्मयत्वादेश्च पूर्वपक्षान्तरहेतुत्वेन समुच्चयार्थकचशब्दो न स्यात्। जीवग्रहणवद् आदित्यग्रहणप्रसङ्गश्च। किं चैवमाप्ततमः पद्मनाभतीर्थो मन्यते – आदित्याख्यजीवविशेषो न विष्णुरिति चेदित्यभिधानात्’ इति चेत् – सत्यम् – एकैनैव पूर्वपक्षेणोपपत्तिः। उक्तं च भाष्यकारेण एक एव पूर्वपक्ष इति। तथापि सूत्रभाष्याभ्यां सूचितोऽयमपरः पूर्वपक्षष् टीकाकृता दर्शितः। तथा हि – यद्याऽऽदित्य एवायं सर्वगत इत्येक एव पूर्वपक्षः सूत्रकृतोऽभिमतः स्यात् तर्हि ‘अनुपपत्तेस्तु नाऽऽदित्य’ इत्येव सूत्रं विदध्याद् लघु चैवं सूत्रं भवति श्रुत्यनुसारि च। तथा भाष्यकारोऽपि ‘न चाऽऽदित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्य’मिति न ब्रूयात्। सूत्रस्थ-शारीरपदव्याख्यानायाऽऽदित्य इत्येव ब्रूतात्, तत्साधनाय आदित्यशब्दादित्येव ब्रूयात्,न तु चक्षुर्मय-त्वादेरिति। तस्याऽतिप्रसक्तत्वात्’ न चैवं सूत्रकारभाष्यकारावाहतुः, किंनाम सूत्रकारः ‘शारीर’ इत्याह। भाष्यकारस्तु शारीरपदं जीव इति व्याचख्यौ। तेन मन्यामहे अनुपपत्तेरित्यनेन आदित्यः सर्वगत इति पक्षो यथा निरस्तः, तथा सर्वे जीवाः सर्वगता इति पक्षो निरस्त इति तयोरभिप्रेतमिति।
नन्वथापि जीवेष्वादित्यशब्दाभावात् कथमस्य पूर्वपक्षस्योदय इति चेत्, न। जीवसमुदाये कस्यचिद् आदित्यशब्दवाच्यत्वेन छत्रिन्यायेन सर्वत्राप्यादित्यशब्दोपपत्तेः। सत्तर्कदीपावलीकृता तु भाष्यकृता कण्ठोक्तपूर्वपक्षो दर्शित इति न तद्विरोधोऽपीति ध्येयम्।
वाक्यार्थमुक्तावली
श्रीहरये नमः। श्रीवेदव्यासाय नमः। लिङ्गात्मकानामित्यत्र लिङ्गं धर्मः प्रवृत्तिनिमित्तं स आत्मेवात्मा शरीरमिव उपकारकत्वाद् येषां ते लिङ्गात्मकाः। स्वरूपार्थो वात्मशब्दः। निमित्त-निमित्तिनोरभेदोपचारादिति सुधोक्तदिशा विग्रहं मत्वाऽर्थमाह॥ धर्मेति॥ अवयवार्थविशिष्टधर्मिवाचिनां यौगिकानामित्यर्थः। आपाततोऽपीति ग्राह्यम्। प्राचीनानामपि यौगिकत्वात्। अत्र यौगिकानामित्यनुक्त्वा धर्मविशिष्टेत्याद्युक्तिस्तु वाक्यरूपधर्मसङ्ग्रहाय। अन्यथा यस्मिन् द्यौरित्यादेर् लिङ्गात्मकशब्दत्वं न स्यादिति बोध्यम्। एतत्पादीयलिङ्गानां प्रायः साक्षादन्यत्र प्रसिद्ध्यभावात्। अन्यत्र प्रसिद्ध-श्रुत्यादिसाहित्येनैवान्यत्र प्रसिद्धिरिति भावेनाह॥ लोकत इति॥ तदेवैतरेयक इति॥ ब्रह्म ततममित्यत्र ततमपदेन व्यापकत्वं तत्र तत्र स्थिततया तत्तच्छक्तिप्रबोधकत्वं च विवक्षितम्। तथोक्तं तद्भाष्ये।
स एष भगवान् विष्णुः प्रादुर्भावात्मना पुनः।
जातो मत्स्यादिरूपेण सर्वभूतेषु चाविशत्।
तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया।
स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम्।
एतदेव स्वरूपं स त्वपश्यदवतारगम्
इति। ततमं परिपूर्णं ब्रह्म अपश्यदिति च। उभयस्याप्युत्तमाधिकारिभिरुपास्यत्वेन उपासात्रै-विध्यादित्यत्र सर्वगतत्वेनेति वदता भाष्यकृता व्यापकत्वपरतयाऽस्योदाहृतत्वाद् उभयविवक्षाया अवर्जनीयत्वाच्च। एतदुभयविधमेव सर्वगतत्वम् एतमस्यामित्यादावुच्यते। तत्तच्छक्तिनियामकतया सर्वान्तर्गतत्वस्य स्पष्टमप्रतिभासात्। आकाशवदन्तर्बहिर्व्यापकत्वस्य ‘एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकम्’ इति तद्भाष्यपर्यालोचनयावगमात्। अत एव टीकायामन्तर्बहिश्चेति श्रुतेरुदाहरिष्य-माणत्वात्। विवक्षितगुणोपपत्तेरित्यत्र स योऽत इत्युक्त्वा तत्त्वस्य विषयभूतसर्वगतत्वानतिरेकस्य टीकायां वक्ष्यमाणत्वाच्च। देशतः कालतश्चैव गुणतश्चातिपूर्तितः। अत इत्युच्यत इति तद्भाष्ये अतःपदेन निश्छिद्रतया व्यापकत्वस्योक्तत्वाच्च तदेवैतरेयके इति सुष्ठूक्तम्।
ननु ब्रह्म ततममित्यत्र निरवधिकानन्तपदार्थान्तर्गतत्वमुक्तम्। एतमस्यामित्यादौ पृथिव्यादि-कतिपयान्तर्गतत्वम्। अन्यत्रार्भकौकस्त्वसूत्रे कतिपयगतत्वेनाल्पस्थानगतत्वाशङ्कानुपपत्तेः। सर्वेषु भूतेष्वित्यत्र सर्वेष्वित्यनेन पूर्तौ भूतेष्विति भूतसर्ववृत्तित्वाभिप्रायेण सर्वभूतपदप्रयोगानुपपत्तेश्च। तथा च कथं तदेवेत्यधारणमिति चेन्न। एतमस्यामित्यादौ चेतनाचेतनसर्वगतत्वस्योक्तेः। सर्वेषु भूतेष्विति भूतपदस्य जीवपरत्वाद् एतमेव ब्रह्मेत्यन्तस्य एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकमिति व्याख्यातत्वात्। स एष संवत्सरसंमान इत्युत्तरवाक्ये
‘संवसद्रतिदातृत्वाद् ब्रह्मा संवत्सराभिधः।
नियामकः स जीवानां सर्वेषां प्रभुरीश्वरः।
अनन्तमूर्तिर्ब्रह्मासावनन्तजगदास्थितः।
नियामकस्तस्य विष्णुस् तावद्रूपेषु संस्थितः’।
इति भाष्यदिशाऽनन्तपदार्थान्तर्गतत्वस्य स्पष्टप्रतिभासाच्च। स्मृतेश्चेत्युक्तगीतासमाख्यानाच्च। गीतायां गामाविश्येत्याद्युक्त्वा अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थित इत्युक्त्या चेतनाचेतनसर्वगतत्वप्रतीतेस् तदेवेत्येतदविरुद्धम्। अर्भकौकस्त्वशङ्का तु स्थूलसूक्ष्मतत्तत्पदार्थान्तर्गतत्वेन तत्तत्परिमाणत्वप्रसक्त्या विभूत्याक्षेपपरेत्यदोषः।
भावबोधे तु यद्यप्येतमस्यामित्यादौ कतिपयगतत्वमेवोक्तम्। तथापि तदेवैतरेयक इत्यत्र तदेकदेश-मेवेत्यर्थः। न च पृथिव्यादिकतिपयगतत्वस्यान्यनिष्ठत्वे ब्रह्म ततममित्युक्तसर्वगतत्वस्य अन्यनिष्ठत्वं कुत इति वाच्यम्। पृथिव्यादिभूतगतत्वस्यान्यनिष्ठत्वे विष्णोः सर्वगतत्वानुपपत्या वाक्यस्य निर्विषयत्वापातेन भूतगतस्यैव तदितरसर्वगतत्वावश्यम्भावेन सर्वगतोऽन्य एव स्यादिति वर्णितम्।
॥ तद्यदीति॥ एतमस्यामित्युक्तस्य सर्वगतस्य विष्णोरन्यत्वे ब्रह्म ततममित्युक्तस्यापि विष्णोरन्यत्वं स्यात्। ततमस्य विष्णोरन्यत्वे प्राचीनप्राणोऽप्यन्य एव स्यादित्यर्थः। ननु ततमस्य विष्णोरन्यत्वे प्राचीनप्राणस्य विष्ण्वन्यत्वं कुतः? ततमत्वस्य प्राचीनप्राणेऽश्रवणात्। प्राणस्य चतुर्थखण्डे श्रवणात्। ततमत्वस्य चतुर्थेऽध्याये त्रयोविंशतिखण्डे श्रवणादित्यत आह॥ एकप्रकरणत्वादिति॥ प्रपदखण्डे हि प्राक्सृष्टदेवानां वासार्थं प्रपदप्रवेशद्वारा विष्णुवाय्वोः सर्वदेवपरिवृत्तयोः शरीरेऽवस्थानमुक्त्वा शिरसि दक्षिणाक्षिहृदयकण्ठेषु विशेषसन्निधानस्योक्तत्वात्। तथा चोपनिषत्स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत। सैषा विदृतिर्नाम द्वाः। तदेतन्नान्दनम्। तस्य त्रय आवसथास्त्रयः स्वप्नाः। अयमावसथोऽयमावसथोऽयमावसथ इति। तथा च भाष्ये–
तस्मात्तेषां प्रवृत्यर्थं प्रवेक्ष्ये सह वायुना।
इति मत्वा विरिञ्चस्य शरीरं प्रविवेश सः।
मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः।
अग्न्यादयस्तु तत्पश्चात् प्रविष्टास्संनियोजिताः।
प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश ह॥
बिभर्ति देहं तेनैव मूर्धानं च विचेष्टयन्।
नारायणो वासुदेव इति द्वेधा व्यवस्थितः।
मूर्धाविष्टो वासुदेवस्तस्य चावसथास्त्रयः।
अक्षि कण्ठो हृदित्येवं त एव स्वप्ननामकाः॥
इति। तथा च खण्डद्वयस्यैकप्रकरणत्वान् मूर्धाविष्टस्य ततमस्यान्यत्वे प्रपदाविष्टः प्राचीनप्राणोऽप्यन्य इत्युपपद्यत एव।
ननु तृतीयानुवाके द्वितीयाध्याये प्रथमखण्डे प्राणो वंशः स्थविरः शाकल्य इत्युपक्रम्य तृतीये चत्वारः पुरुषा इत्यत्र एतमस्यामित्याद्याम्नायते। यद्ययं सर्वगतो विष्ण्वितरः स्यात् तदा उपक्रमस्थप्राणो विष्ण्वितरः स्यात्। तथा च जीवमुख्यप्राणलिङ्गादिति सूत्रे वंशप्राणस्य विष्णुत्वनिर्धारोऽयुक्तः स्यादिति साक्षादाक्षेपो युज्यत एव। किमर्थं ब्रह्म ततममिति वाक्यं मध्ये निधाय सङ्गतिप्रतिपादनमिति चेन्न। ब्रह्म ततममित्यस्यैकप्रकरणत्वेन ता वा एताः शीर्षन्नित्यनेन विषयवाक्येनैव साक्षात्सङ्गतिः। एतमस्या-मित्यस्य वंशप्राणपरामर्शकस्य ता वा एता इति विषयवाक्योक्तप्राणस्य विष्णुत्वे बाधकत्वेनोदाहृतेन प्राणो वंश इति वाक्येन गुणसूत्रेण च सङ्गतिरिति साक्षाद्विषयाक्षेपलाभाय ब्रह्म ततममिति वाक्यद्वारा सङ्गत्युक्तिः। किं च तत्रानुगमपदेन हेतुतयोक्तो ब्रह्मशब्दः सर्वगते ततमेऽवश्रूयते। ब्रह्मश्रुत्युक्तोऽप्ययं यद्यन्यः स्यात् तदा प्राचीनप्राणोऽप्यन्य इति हेतुमुखेनाक्षेपाय चैवं सङ्गत्युक्तिः। न च वंशप्राणे ब्रह्मशब्दः श्रूयत इत्यलं विस्तरेण॥
॥ विष्णोरन्यस्य वेति॥ एतमस्यामित्युक्तं सर्वगतत्वं किमादित्यादेरुत विष्णोरिति चिन्ता। तदर्थमादित्यादिप्रापकम् आदित्यादिश्रुतिर् आदित्यादिष्वनुक्तिश् चक्षुर्मयत्वादिलिङ्गानि अर्भकौकस्त्वसम्भोगप्राप्तिरूपविष्णुप्रापकबाधकमुत तद्बाध्यमिति। तदर्थमादित्यश्रुत्यादिकं निरवकाशं ब्रह्मशब्दादिकं सावकाशमुत विपरीतमिति॥ बह्वादित्यश्रुतेरिति॥ नन्वादित्यशब्दस्यान्तराधिकरणन्यायेन विष्णुवाचित्वात् कथं तेन तदन्यस्य प्राप्तिरिति चेन्न। संवत्सर एव प्रध्वंसयन्। तस्यैतस्यासावादित्यो रस इति संवत्सराधिपतित्वरूपसंवत्सरसारत्वलिङ्गात्। यश्चासावादित्य इति प्रसिद्धिद्योतकेन यच्छब्देनादश्शब्देनोपसम्बन्धात्। तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति सर्वपुरुषाभिमुख्यलिङ्गा-च्चादित्यशब्दस्य प्रसिद्धादित्यपरत्वात्। अत एव भाष्येतस्यैतस्यासावादित्यो रस इत्यादिना इति लिङ्गघटितवाक्यमुदाहृतमित्यभिप्रेत्य टीकायामादिशब्दार्थत्वेन लिङ्गघटिते वाक्ये उदाहृत्य बह्वादित्यश्रुतेरित्युक्तम्। आदिशब्दस्यार्थान्तरमाह॥ सूर्य इति॥ अर्थान्तरमाह॥ एतमस्यामिति॥ अन्यथेति॥ आदित्यः सर्वगतो न चेदित्यर्थः॥ अत एवेति॥ आदित्येऽनुक्तत्वलिङ्गादेवेत्यर्थः। यद्यत्रादित्यश्रुतिलिङ्गानां तदन्तर्यामिनिष्ठत्वविवक्षा तर्हि अन्तर्गतत्वोक्तिप्रस्तावे सजातीयचन्द्रादावुक्त्वा आदित्य इत्युक्त्ययोगादिति भावः। अग्रे चक्षुर्मयत्वादेश्च जीव इत्युक्तेस्तदनुसारेणादित्यस्येत्येतदुपलक्षणं मत्वाऽऽह॥ सर्वजीवानामिति॥ तच्चैतल्लिङ्गमिति॥ आनन्दमयाधिकरणे मनोमयप्राणमयादिशब्दानां तत्तत्कोशगततत्तन्नियामकब्रह्मचैतन्ये प्राचुर्यविवक्षया सावकशत्वस्योक्तत्वात् तन्न्यायेनेति वा। अन्तिम-प्रकरणे उपासात्रैविध्यादित्युक्तन्यायेन चक्षुरादिप्रधानत्वेन एतल्लिङ्गमन्तर्यामिविषयमभ्युपेत्य विष्णुपक्षे प्रबलबाधकमाह॥ तस्येति॥ सर्वेषु भूतेष्वित्युक्तेति॥ सर्वेषु भूतेषु इत्यन्तोक्तेत्यर्थः। एवं निरवकाशचक्षुर्मयत्वादिलिङ्गेन विष्णुत्वव्यावृत्तौ जीवत्वसिद्धौ च चक्षुर्मयत्वादिकमपि मयटो विकारार्थ-कत्वमादाय चक्षुरादिजन्यज्ञानत्वरूपमेव भवेत्। तच्च न विष्णौ युज्यत इत्यभ्युच्चययुक्तिमाह॥ चक्षुर्मयत्वादीति॥ तदुक्तं सुधायां ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकानि? उच्यते हेत्वन्तरेण पूर्वपक्षे सति अभ्युच्चयमात्रत्वेन तेषामुपन्यास इति। सूत्रे तत्तु इत्यनुवर्तते। सर्व-त्रेत्यावर्तते। आद्यस्य क्षित्यादिष्वित्यर्थः। द्वितीयस्य श्रुत्यादावित्यर्थः। तथा च सर्वत्र पृथिव्यादौ उच्यमानो नारायण एव। सर्वत्र श्रुत्यादौ तस्मिन्नेव प्रसिद्धब्रह्मशब्दस्यात्रोपदेशादिति सूत्रार्थमभिप्रेत्याह॥ सर्वत्र पृथिव्यादिष्वित्यादिना। प्रत्यधिकरणमनुवृत्तस्य तदित्यस्य जिज्ञासासूत्रस्थब्रह्मपरामर्शकत्वाद् ब्रह्मपदस्य च ‘स विष्णुराह हि’ ‘तं ब्रह्मेत्याचक्षते’ इति निरन्तरदेवमीमांसोक्तविष्ण्वर्थकत्वाद् भाष्ये च सर्वत्र विष्णुरेवेत्यर्थोक्तावपि इह नारायणपदप्रयोगसूचितं प्रमाणमाह॥ तथा च श्रुतिरिति॥ भाष्ये नारायणपदोपादानन्तु भूतेष्वित्युक्त्या बहिर्व्याप्तिरत्र नोच्यत इति भ्रमनिरासायेति ज्ञातव्यम्। विषयवाक्यं पूर्वमेवोदाहर्तव्यम्, इहोदाहरणे किं कारणम् ? तथात्वे वा एतमस्यामित्यारभ्योदाहर्तव्यम्, न तु स यश्चायमित्यारभ्य इत्यत आह॥ अशरीत्वेति॥
तत्त्वसुबोधिनी
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ अर्थस्य शब्दात्मकत्वाभावात् शब्दस्य कथं लिङ्गात्मकत्वं ? प्रतिपादकत्वविवक्षायामपि सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे। धर्मविशिष्टधर्मिवाचिनामिति। लिङ्गात्मकानामित्येवोक्ते उभयत्र प्रसिद्धानां लिङ्गात्मकानामिति प्रतीतिः स्यात्। तथा चासङ्गतिरित्यत आह। अन्यत्रेति। अत्रेति। केवललिङ्गस्यान्यत्र प्रसिद्ध्यभावादित्यतः श्रुतिसहपठितेत्युक्तम्। श्रुत्यादिसङ्गतिमिति। इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तश्रुत्या तत्सूत्रांशेन च सङ्गतिमित्यर्थः। तदैवैतरेयक इति। ननु ब्रह्म ततममित्यत्र ततममित्यनेन निरवधिकसर्वगतत्वमभि-प्रेतम्। तस्यैवापोसनोपयोगात्। एतमस्यामित्यत्र तु अर्भकौकस्त्वरूपं भूतवृत्तित्वमात्रमुच्यते। अन्यथा सर्वेष्वित्युक्तत्वेन भूतशब्दवैयर्थ्यं स्यात्। तथा च तयोरेकरूपत्वाभावात् कथं तदेवेत्युक्तम्, इति चेन् न। तदेवेत्यत्र तदेकदेशरूपमित्यर्थः। एवमपि पूर्वाक्षेपः सम्भवति। तथाहि अत्रोक्तभूतगतत्वस्य एतमेवेत्यवधारणबलेनान्यमात्रनिष्ठत्वे विष्णोर् भूतगतत्वापगमने निरवधिकसर्वगतत्वं न स्यात्। निरवधिक-सर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति ब्रह्म ततममित्याद्युक्तसर्वगतत्वम् एतद्वाक्यप्रतिपादितभूतगतस्यैव स्यादित्युपपादनसम्भवादिति भावः। एतं ह्येव एतमेव बह्वृचा ऋग्वेदिनः। महत्युक्थे महत्युक्थनामक-बृहतीसहस्रे मीमांसन्ते जानन्ति। अध्वर्यवः यजुर्वेदिनश् छन्दोगाः सामवेदिनः महाव्रताख्यकर्माङ्गभूत-स्तोत्रे। अस्यां पृथिव्याम् इति विषयवाक्यार्थः। बह्वादित्यश्रुतेरिति। न चान्तराधिकरणन्यायेन आदित्यश्रुतेर् विष्णुपरत्वात् कथं पूर्वपक्षावतार इति वाच्यम्। संवत्सराधिपतित्वरूपसंवत्सरसारत्वादि-बह्वादित्यादिलिङ्गानाम् अत्र सत्वेन पूर्वपक्षसम्भवादिति भावः। भाष्यगतादिपदार्थमाह। सूर्य आत्मेति। क्षित्यादिषूक्त्वा। सर्वगतस्थितिमिति शेषः। अस्य सर्वगतस्य। अन्यथेति। आदित्यस्य सर्वगतत्वाभावे इत्यर्थः। ननु सर्वेषु भूतेषु इत्यनेनैव आदित्ये सर्वगतस्य स्थितेर् उक्तत्वात् पुनः नादित्ये एतमित्युक्ति-रित्यत आह। सजातीयेति। अन्यथा चन्द्रमस्येतम् इत्युक्तिरपि न स्यादिति भावः। अत एवेति। आदित्ये अनुक्तत्वलिङ्गादेवेत्यर्थः। अनेन लिङ्गेन आदित्यशब्दस्य आदित्यस्थितपरत्वावगमात्। अन्तर्यामिपरत्वे तद्विरुद्धमिति भावः। पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्त-मित्युक्तम्। इदानीं जीवधर्मत्वात् तस्य तदपि न युक्तमित्याह॥ चक्षुर्मयत्वाद्ययोगाच्चेति॥ नित्यज्ञान-वदन्तर्यामिणो ज्ञानकारणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थः। स यश्चायमित्येतद्युक्तिमात्रप्रदर्शकमिति भ्रमं वारयितुमाह। स यश्चायमित्यादिनेति। अस्तु सर्वगते ब्रह्मशब्दोपदेशस् ततः किमित्यत आह। ब्रह्मेति। ननु भाष्ये नारायणशब्दः किमर्थं प्रयुक्त इत्यतस् तैत्तिरीयश्रुतौ स्पष्टं नारायणे सर्वगतत्वस्य उक्तत्वात् तत्प्रयोग इति भावेन तैत्तिरीयश्रुतिमुदाहरति। तथा च श्रुतिरिति। अशरीरत्वयुक्तिसूचनार्थं चेति। विषयवाक्यप्रदर्शनमात्रार्थत्वे एतमस्यामित्यादिनेत्यवक्ष्यत्। इयं युक्तिरनुपपत्तेस्तु न शारीर इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽप्यभिप्रेता। अन्यथा जीव इत्येव ब्रूयादिति भावः। अशरीरत्वस्य आदित्यादावेवावकाशाभावमाह। न हि नारायणेतरेति। अनेन श्रीतत्वादौ व्यभिचारोऽपि परास्तः।
वाक्यार्थमञ्जरी
॥ श्रीगुरुभ्यो नमः॥ शब्दानां लिङ्गात्मकत्वं नाम तत्स्वरूपत्वं वा तद्वाचकत्वं वा। नाद्यः। शब्दस्यार्थस्वरूपत्वापत्तेः। न द्वितीयः। लिङ्गवाचिनां सर्वगतत्वमित्यादीनां भगवति समन्वया-नभिधानादित्यत आह॥ धर्मविशिष्टेति॥ सहपठितेति॥ स्वतःप्रसिद्ध्यभावादियमुक्तिः। अत्र लिङ्गात्मकेति पादसङ्गतिः। शेषं पूर्ववत्॥ तदेवेति॥ तदेकदेशभूतमेवेत्यर्थः। एतमेवेत्यवधारणेन विष्णोरन्यस्यैव सर्वभूतगतत्वावगमाद् विष्णौ भूतान्वयसत्वेऽपि न पूर्वोक्तनिरुपचरितसर्वगतत्वमिति भावः॥ एतं ह्येवेति॥ ऋग्वेदिन एतमेव परमात्मानं महदुक्थनामकबृहतीसहस्रे यजुर्वेदिनोऽग्नौ सामवेदिनो महाव्रताख्यकर्माङ्गभूतस्तोत्रे मीमांसन्ते विचारयन्ति। अस्यां पृथिव्याम्। वनस्पतिषु वृक्षेषु। भूतेषु प्राणेषु। ब्रह्म पूर्णम्। आचक्षते वदन्ति॥ आम्नायते अभ्यस्यते अभिधीयत इति यावत्॥ एकप्रकरणत्वादिति॥ ब्रह्म ततमम् एतं ह्येवेत्यनयोरेकप्रकरणस्थत्वादित्यर्थः। ब्रह्म ततममपश्यदित्युक्तिः प्राणाख्यहरौ तेन वाक्येन सर्वगतत्वोक्तिर् आदित्यश्रुतिरुपलक्षणम्। चक्षुर्मयत्वादि-जीवलिङ्गं चेत्यपि ग्राह्यम्। तस्यैतस्यासावादित्यो रसः स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात्। तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवतीत्यस्यायमर्थः। तस्यैतस्य संवत्सरस्य सर्वस्यादित्वात्सर्वस्मिंस्ततत्वात्सर्वजीवनियामकत्वादादित्यनामाऽत्र प्रद्युम्नो रसः श्रेष्ठः। स यश्चायमशरीरः प्राकृतदेहरहितः। प्रज्ञात्मा ज्ञानात्मकोऽनिरुद्धः। यश्चासावादित्ये गतः प्रद्युम्न एतत्स्थानद्वयगतं भगवद्रूपमेकमिति जानीयात्। तस्मात्पुरुषगतानिरुद्धस्यादित्यगतप्रद्युम्नस्य चैक्यादादित्य पुरुषं पुरुषं प्रतिपुरुषमभिमुखो भवतीति॥ सूर्य इति॥ सूरिभिः प्राप्यत्वात्सूर्यो हरिर् जगतः जङ्गमस्य तस्थुषः स्थावरस्यात्मान्तर्नियामक इत्यर्थः। अत एव विशिष्यादित्येऽनुक्तत्वलिङ्गेनादित्यशब्दस्यादित्या-नन्तर्गतपरत्वावगमेन तदन्तर्गतान्तर्यामिपरत्वकथनमयुक्तमिति भावः। छन्दोमयः वेदप्रचुरः॥ अल्पौक-स्त्वेति॥ अल्पम् ओकः स्थानं यस्य तस्य भाव अल्पौकस्त्वं तच्च सर्वगतस्यान्तर्यामिणो ब्रह्माण्डस्य सर्षपस्थत्वमिवायुक्तमित्यर्थः। चक्षुर्मयत्वाद्ययोगाच्चेति॥ नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादि-प्राचुर्यायोगाच्चेत्यर्थः॥
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ सर्वत्र पृथिव्यादिषूच्यमानं ब्रह्मैव। श्रुत्यादौ ब्रह्मण्येव प्रसिद्ध-ब्रह्मशब्दस्य एतमेव ब्रह्मेत्याचक्षत इत्यादिना तत्रोपदेशादित्यर्थः। नारायणपदोपादानसूचितां श्रुतिमाह॥ तथा चेति॥ यत् किञ्चिदल्पं यच्च सर्वं महज्जगत् प्रत्यक्षेण दृश्यते शब्देन ज्ञायतेऽपि च नारायणस्त-त्सर्वमन्तर्बहिश्चाभिव्याप्य स्थित इत्यर्थः। स्वत इत्यनेन श्रीतत्त्वादौ व्यभिचारपरिहारः॥
विवृतिः
अर्थस्य शब्दात्मकत्वाभावाच्छब्दस्य कथं लिङ्गात्मकत्वं? प्रतिपादकत्वविवक्षायामपि, सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे॥ धर्मविशिष्टधर्मिवाचिनामिति॥ लिङ्गात्मकानामित्येवोक्ते उभय प्रसिद्धानां लिङ्गात्मकानामिति प्रतीतिः स्यात्। तथा च असङ्गतिरित्यत आह॥ अन्यत्रेति॥ अत्रेति॥ केवललिङ्गस्यान्यत्र प्रसिद्ध्यभावादित्यतः श्रुतिसहपठितेत्युक्तम्॥ श्रुत्यादिसङ्गतिमिति॥ इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तश्रुत्या तत्सूत्रांशेन च सङ्गतिमित्यर्थः॥ तदेवैतरेयक इति॥ ननु ब्रह्म ततममित्यत्र ततममित्यनेन निरवधिकसर्वगतत्वमभिप्रेतं तस्यैवो-पासनोपयोगात्॥ एतमस्यामित्यत्र तु अर्भकौकस्त्वरूपं भूतवृत्तित्वमात्रमुच्यते। अन्यथा सर्वेष्वित्युक्तत्वेन भूतशब्दस्य वैयर्थ्यं स्यात्॥ तथा च तयोरेकरूपत्वाभावात्कथं तदेवेत्युक्तमिति चेन्न॥ तदेवेत्यत्र तदेकदेशरूपमित्यर्थः॥ एवमपि पूर्वाक्षेपः सम्भवति। तथाहि अत्रोक्तभूतगतत्वस्यैतमेवेत्यवधारण-बलेनान्यमात्रनिष्ठत्वे विष्णोर्भूतगतत्वापगमेन निरवधिकसर्वगतत्वं न स्यात्। निरवधिकसर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति। ब्रह्म ततममित्युक्तसर्वगतत्वमपि एतद्वाक्यप्रतिपादितभूतगतस्यैव स्यादि-त्युपपादनसम्भवादिति भावः॥ एतं ह्येव, एतमेव बह्वृचा ऋग्वेदिनः महत्युक्थे महत्युक्थनामक-बृहतीसहस्रे मीमांसन्ते जानन्ति॥ अध्वर्यवः यजुर्वेदिनः, छन्दोगाः सामवेदिनो, महाव्रते महाव्रताख्य-कर्माङ्गभूतस्तोत्रे। अस्यां पृथिव्यामिति विषयवाक्यार्थः। बह्वादित्यश्रुतेरिति॥ न चान्तराधिकरण-न्यायेनादित्यश्रुतेर्विष्णुपरत्वात् कथं पूर्वपक्षावतार इति वाच्यम्॥ संवत्सराधिपतित्वरूपसंवत्सर-सारत्वादिबह्वादित्यलिङ्गानामत्र सत्वेन पूर्वपक्षसम्भवादिति भावः॥ भाष्यगतादिपदार्थमाह॥ सूर्य आत्मेति॥ क्षित्यादिषूक्त्वा सर्वगतस्थितिमिति शेषः॥ अस्य सर्वगतस्य॥ अन्यथेति॥ आदित्यस्य सर्वगतत्वाभावे इत्यर्थः॥ ननु सर्वेषु भूतेष्वित्यनेनैवादित्ये सर्वगतस्य स्थितेरुक्तत्वात्पुनर्नादित्ये एतमित्युक्तिरित्यत आह॥ सजातीयेति॥ अन्यथा चन्द्रमस्येतमित्युक्तिरपि न स्यादिति भावः॥ अत एवेति॥ आदित्ये अनुक्तत्वलिङ्गादेवेत्यर्थः॥ अनेन लिङ्गेनादित्यशब्दस्यादित्यसंस्थित-परत्वावगमादन्तर्यामिपरत्वे तद्विरुद्धमिति भावः॥ पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्तमित्युक्तम्। इदानीं जीवधर्मत्वात्तस्य तदपि न युक्तमित्याह॥ चक्षुर्मयत्वाद्ययोगाच्चेति॥ नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थः॥ स यश्चायमित्येतद्युक्तिमात्रप्रदर्शकमिति भ्रमं वारयितुमाह॥ स यश्चायमित्यादिनेति॥ अस्तु सर्वगते ब्रह्मशब्दोपदेशस् ततः किमित्यत आह। ब्रह्मेति॥ ननु भाष्ये नारायणशब्दः किमर्थं प्रयुक्त इत्यतस् तैत्तिरीयकश्रुतौ स्पष्टं नारायणे सर्वगतत्वस्योक्तत्वात्तत्प्रयोग इति भावेन तैत्तिरीयश्रुतिमुदाहरति॥ तथा च श्रुतिरिति॥ अशरीरत्वयुक्तिसूचनार्थं चेति॥ विषयवाक्यप्रदर्शनमात्रार्थत्वे एतमस्यामित्यादिनेत्यवक्षत्। इयं युक्तिरनुपपत्तेस्तु न शारीर इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽभिप्रेता॥ अन्यथा जीव इत्येव ब्रूयादिति भावः॥ अशरीरत्वस्य आदित्यादावेवावकाशाभावमाह॥ न हि नारायणेतरेति॥ अनेन श्रीतत्वादौ व्यभिचारोऽपि परास्तः।
ॐ विवक्षितगुणोपपत्तेश्र्च ॐ
सूत्रभाष्यम्
॥ ॐ विवक्षितगुणोपपत्तेश्च ॐ॥ २॥
‘स योऽतोऽश्रुत’ (ऐ.आ.३-२-४) इत्यादि। स हि ‘न ते विष्णो जायमान’ (ऋ.सं. ७-९९-२) इत्यादिनाऽश्रुतत्वदिगुणकः। ‘स सविता स वायुः स इन्द्रः सोऽश्रुतः सोऽदृष्टो यो हरिर्यः परमो यो विष्णुर्योऽनन्त’ इत्यादि चतुर्वेदशिखायाम्॥ २॥
सत्तर्कदीपावली
हेत्वन्तरेणैतमर्थं साधयत्सूत्रमुपन्यस्य व्याचष्टे॥ विवक्षितेत्यादिना॥ एतमस्यामेतं दिवीत्यादिना यः प्रस्तुतस् तस्य उपरि अश्रुतत्वादिगुणा वक्ष्यन्ते। स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता मन्ता द्रष्टाऽदेष्टा घोष्टा विज्ञाता प्रज्ञातेति। तत्र साकल्येन श्रोतुमशक्यत्वादयो युगपत्सर्वमन्तृत्वादयो गुणा न हि विष्णुमन्तरेणान्यस्य सम्भाव्यन्ते। न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप। स सर्वविदित्यादिश्रुतेः। श्रोता मन्तेत्यादिना श्रवणमननादिषु जीवश्रोत्रादिव्यवस्थाभावश्च विष्णोः प्रतिपाद्यते। सर्वतः पश्यति सर्वतः शृृणोति विश्वतश्चक्षुरित्यादिश्रुतेः।
तत्त्वप्रदीपिका
अतो व्याप्तः, अत सातत्यगमन इति धातोः। अन्यैरश्रुतः, अतः स्वयमेव स्वात्मानं स्वातन्त्र्येण शृृणोति। ‘‘न ऋते त्वत्क्रियत’’ इत्यादिश्रुतेः। ‘अगतः’ अप्राप्तः। सर्वात्मन ‘आदेष्टा’ वक्ता, ‘आघोष्टा’ नियोक्ता।
‘‘देशतः कालतश्चैव गुणतश्चातिपूर्तितः।
अत इत्युच्यते विष्णुस्सन्ततो ह्यत उच्यते॥
तृतीयवर्णोऽतिशये यतस्तेनातिरेव वा।
अत इत्युच्यते विष्णुस्सम्यक् श्रुत्याद्यशक्यतः॥
पूर्णत्वाद्भगवान्विष्णुरश्रुतत्वादिनोदितः।
समस्सर्वेषु रूपेषु सर्वजीवनियामकः।
इति विद्यात्परं विष्णुं मुच्यतेऽनेन संसृतेरि’’त्यैतरेयसंहितायाम्॥
विवक्षितगुणोपपत्तेश्चेति प्रसिद्धार्थत्वात्सूत्रभाष्ययोरेकीभावः। ये तु श्रुतीनां ब्रह्मगुणेषु तात्पर्याभावं वदन्ति तन्निरासाय विवक्षितपदमुपनिबबन्ध॥ न हि प्रतिवाक्यमुदीर्यमाणा गुणा वेदैरविवक्षिता इति शोभते। द्रव्यादिपदैरपि हि गुणविशिष्टमेवाभिधीयते नाविशिष्टम्। अन्यथा द्रव्यत्वादीनामेवाभावप्रसङ्गात्। ब्रह्मादिशब्दाश्च पूर्णत्वादिविशिष्टवाचकाः। न च वाक्यार्थः क्वचिदविशिष्ट इति युक्तं, प्रमाणाभावात्। न च प्रामाण्यानुपपत्त्या सत्यादिवाक्यानामखण्डार्थत्वम्। सत्यादिगुणविशिष्टवाचकत्व एव सत्यादिवाक्यानां प्रामाण्योपपत्तेः। निर्गुणविषयत्वेऽनुपपत्तेश्च। ‘प्रकृष्टप्रकाशश्चन्द्रमा’ इत्यादिवत्। न हि तत्र स्वरूपमात्रं लक्ष्यते, तस्य पूर्वमेव सिद्धत्वात्। नक्षत्रादिवैलक्षण्यगुणस्यैव प्रष्टुर्बुभुत्सितत्वात्। तथा च तदनुक्तावसङ्गत-मुत्तरवाक्यं स्यादिति॥
तत्त्वप्रकाशिका
युक्त्यन्तरेण विष्णोरेवात्रोक्तसर्वगतत्वं प्रतिपादयत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति॥ विवक्षितेति॥ स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता मन्ता द्रष्टाऽऽदेष्टाऽऽघोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुष इति सर्वगते अश्रुतत्वादिगुणश्रवणात्। तेषां च विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्तेर् अन्यत्रानुपपत्तेश्च विष्णुरेवायं सर्वगत इति भावः। विवक्षिता इति वक्तुं योग्याः। नन्वेतद्गुणानां कुतो विष्णुनिष्ठत्वमित्यत आह॥ स हीति॥ ते महिम्नः परमन्तं कोऽपि श्रोत्रादिना नापेत्यर्थः। अत्र मुख्यतोऽश्रुतत्वादिकं विष्णोर्न श्रूयत इत्यतः स्पष्टश्रुतिं चाऽऽह॥ स इति॥ अत्रातत्वस्यादिमत्त्वेऽपि तस्य सर्वगतत्वानतिरिक्तत्वेन साध्यत्वादश्रुतत्वादीनामेव ग्रहणम्॥ २॥
गुर्वर्थदीपिका
उपनिषदेकगम्यपरमात्मगुणानामन्तगमनं श्रोत्रेण श्रुत्वा वा श्रोत्रानुगृहीतमनसा मत्वा वा स्यादित्यतः श्रोत्रादिनेत्युक्तम्। अतत्वस्याऽऽदिमत्वेऽपीत्यत्र ‘‘अत सातत्यगमन’’ इति धातोः पचाद्यचि कृतेऽतः सर्वगतस्तस्य भावोऽतत्वं तस्याऽऽदिमत्वे ‘‘स योऽतोऽश्रुत’’ इति वाक्यस्याऽऽदिमत्वेऽपीत्यर्थः।
भावबोधः
विष्णोरेव योग्यत्वेनेत्युक्तस्योत्सूत्रितत्वशङ्कानिरासायाऽऽह। विवक्षिता इति वक्तुं योग्या इति॥ अनेनादित्यग्रहणे तेषां साकल्येन श्रुतत्वाश्रुतत्वादिगुणानां वक्तुं योग्यत्वेन ‘‘स योऽतोऽश्रुत’’ इति वाक्यम् अयोग्यार्थाभिधायकत्वेन प्रमाणं न स्यात्। सर्वगतत्वेन विष्णुग्रहणे तु तस्य साकल्येन श्रुतत्वाद्यभावाद् अश्रुतत्वादिसम्भवेन नैवमिति सूत्रतात्पर्यम्। अन्यथा अश्रुतत्वादिगुणोपपत्तेरित्येव वक्तव्यं, स्पष्टार्थकञ्चैवं सति सूत्रं भवति। नाविवक्षितपदप्रयोग इत्युक्तं भवति। सूत्रे उपपत्तेरित्यनेन विशेषणीभूतत्वस्यैव स्वर्गी ध्वस्त इत्यादिवदन्वपर्यवसानमित्यपि सूचितं भवति। न ते विष्ण्वित्यस्या-श्रुतत्वादिप्रतिपादकत्वलाभाय तद्वाक्यं श्रोत्रादिनेत्यध्याहृत्य योजितम्। सर्वगतत्वानतिरिक्तत्वेनेति। ‘‘अत सातत्यगमने’’ इति धातोः सन्ततो ह्यत उच्यत इति वचनाच्चाऽतत्त्वं सर्वगतत्वानतिरिक्तमित्यर्थः। अत्र विष्णुरेवैतमस्यामिति वाक्योक्तसर्वगतस् तन्निष्ठतयोक्ताश्रुतत्वादिगुणयोग्यत्वादित्यनुमानमभिप्रेतं विष्णोरेव साध्यत्वे साध्याविशिष्टताशङ्का स्यात्। अत्र तदनुदयात्। अत एवानुपदमेव अश्रुतत्वादिलिङ्गैश्च विष्णुः सर्वगत इति सर्वगतत्वस्यैव साध्यत्वं दर्शयिष्यति। अश्रुतत्वादीनामेव ग्रहणमिति इत्यादिनाऽश्रुतत्वादिगुण इति भाष्य इत्यर्थः।
भावदीपः
ॐ विवक्षितगुणोपपत्तेश्च ॐ॥ युक्त्यन्तरेणेति॥ सौत्रचशब्दः पूर्वसमुच्चय इति भावः। एवमग्रेऽपि॥ अत्रोक्तेति॥ सर्वशरीरस्थत्वरूपेत्यर्थः। भाष्यस्य सूत्रेणान्वयं मत्त्वा योजयति॥ स योऽत इत्यादिना॥ अतः व्याप्तः
‘देशतः कालतश्चैव गुणतश्चापि पूर्तितः॥
अत इत्युच्यते विष्णुः सन्ततो ह्यत उच्यत’
इति तद्भाष्योक्तेः। अत सातत्यगमने पचाद्यच्। अश्रुतः साकल्येन। अगतोऽप्राप्तो ऽमतो मननाविषयो ऽनतः स्वतन्त्रः। अनादिष्टः साकल्येनानुपदिष्ट आदेष्टा वक्ताऽऽघोष्टा नियोक्ता अन्तरपुरुषो ऽन्तःस्थपुरुषः। शिष्टं स्पष्टम्। उपपत्तेरित्युक्तिलब्धमाह॥ अन्यत्रेति॥ अयोग्यत्वेनेति भावः। अत एव श्रुतावन्येषां साकल्येन श्रुतत्वादिकमेव विद्यत इति वक्तुं श्रोता मन्तेत्याद्युक्तिः। सर्वत्रेति तत्त्विति चानुवृत्त्याऽर्थमाह॥ विष्णुरेवेति॥ योग्यत्वेनेति प्रागुक्तं तत्कस्यार्थ इत्यत आह॥ विवक्षिता इति॥ वक्तुं योग्ये हि विवक्षा भवतीति भावः। तत्वप्रदीपे तु विवक्षितास्तात्पर्यविषया इत्यर्थ उक्तः। जन्मादिसूत्रे यथाश्रुतस्यैवार्थोक्तावपीहोपयोगितयाऽध्याहृत्यार्थमाह॥ श्रोत्रादिनेति॥ स्पष्टश्रुतिं चेति॥ अश्रुतत्वादिकं विष्णोर्न सर्वात्मना किं त्वपरिच्छिन्नत्वात् कार्त्स्न्येनैवेति दर्शयितुं श्रुतावनन्त इत्युक्तिः। भाष्ये इत्यादीत्यादिना अतत्वादिगुण इति वाच्येऽश्रुतत्वादिगुण इत्युक्तिस्तथा सोऽश्नुत इत्यादिश्रुत्युक्तिश्च कुत इत्यत आह॥ अत्रेति॥ स योऽत इति श्रुतावित्यर्थः॥ साध्यत्वादिति॥ साध्यकोटिनिविष्टत्वात् सन्दिग्धत्वादिति यावत्॥ ग्रहणमिति॥ भाष्य इत्यर्थः॥
अभिनवचन्द्रिका
(सू.२) युक्त्यन्तरेणेति॥ अत्रोक्तसर्वगतत्वं विष्णोरेवेति युक्त्यन्तरेण प्रतिपादयत्सूत्रमित्यर्थः। एतेन ‘विष्णोरत्रोक्तं सर्वगतत्व’मित्येतावता पूर्णत्वेन एवकारवैयर्थ्यमिति परास्तम्। सूत्रार्थानुवादपरेऽस्मिन् ग्रन्थे एवशब्दस्याऽपेक्षितत्वात्। स योऽतोऽश्रुत इति॥ सः यः प्रकृत परमात्मा, अतः=व्याप्तः, अत्यधिक इति वा। अश्रुतः=सर्वात्मना श्रोतुमशक्यः पूर्णत्वात्, अगतः=सर्वात्मनाऽज्ञातः। अमतः= सर्वात्मना मननाविषयः। अनतः=स्वतन्त्रः। अदृष्टः=प्रत्यक्षेण, अविज्ञातः=विशेषण सर्वात्मना। अनादिष्टः=अनुपदिष्टः सर्वात्मना। स्वयं सर्वस्य श्रोता, मन्ता, द्रष्टा, उपदेष्टा, घोष्टा शब्दं कुर्वन्, विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषो ऽन्तर्यामीति श्रुत्यर्थः। विवक्षितेति सूत्रपदार्थाप्रतीतेः प्रतीकमुपादाय व्याचष्टे। विवक्षिता इति॥ अत्र टीकायां ‘श्रोत्रादिना नापेत्यर्थः’ इत्यनन्तरं ‘अत्रातत्वस्यादिमत्वेऽपि तस्य सर्वगतत्वानतिरिक्तत्वेन साध्यत्वाद् अश्रुतत्वादीनामेव ग्रहणम्’ इति लेखकदोषात् ‘स सविते’ति श्रुतिप्रतीकग्रहणानन्तरं पतितं द्रष्टव्यम्। अवश्यं चैतदैवं विज्ञेयम्– ‘स हि न ते विष्णो जायमान इति अश्रुतत्वादिगुण’ इत्ययुक्तम्। अतत्वगुणस्याऽऽदिमत्वेन ‘अतत्वादिगुण’ इति वक्तव्यत्वादित्याशङ्कापरिहारकवाक्यस्य अत्रैवोचितत्वात्।
वाक्यार्थमुक्तावली
ॐ विवक्षितगुणोपपत्तेश्च ॐ॥ सूत्रे तत्त्वित्यनुवर्तते। सर्वत्र गत इति च। असम्भवातिव्याप्ति-परिहारायोपपत्तिपदम्। तदुपपादकं विवक्षितपदम्। तथा च विवक्षितानां श्रुतिस्मृतिभिस्तस्मिन् विष्णावेव विवक्षितानां वक्तुमुचितानाम् अन्यत्र वक्तुमयोग्यानां गुणानामश्रुतत्वादीनाम् अस्मिन्नुपपत्ते-रन्यत्रानुपपत्तेर्विष्णुरेव सर्वगत इति सूत्रार्थमभिप्रेत्याह॥ स योऽत इत्यादिना॥ विवक्षितानां तात्पर्यविषयाणामिति वा। वक्तुं योग्यानां वक्ष्यमाणानामुपसंहारस्थानामिति वाऽर्थः॥ मुखत इति॥ अध्याहारेण विनेत्यर्थः। सर्वगतत्वानतिरिक्तत्वेनेति॥ देशतः कालतश्चैव गुणतश्चातिपूर्तितः। अत इत्यच्युत इति तद्भाष्योक्तेरन्यथा साध्याविशिष्टता स्यादिति भावः।
तत्त्वसुबोधिनी
स य इत्यस्य अयमर्थः। अतः व्याप्तो ऽश्रुतः सर्वात्मना श्रोतुमशक्यः। अगतः सर्वात्मनाऽ-ज्ञातः। अमतः मननाविषयो ऽनतः स्वतन्त्रो ऽदृष्टः सर्वात्मना। अनादिष्टो ऽनुपदिष्टः सर्वात्मना। आदेष्टा उपदेष्टा। आघोष्टा शब्दं कुर्वन्। अन्तरपुरुषो ऽन्तर्यामी पूर्णश्च। विष्णोरेव योग्यत्वेन इत्युक्तस्य उत्सूत्रितत्वशङ्कानिरासायाह। विवक्षिता इति वक्तुं योग्या इति। अनेन आदित्यग्रहणे तेषां साकल्येन श्रुतत्वाश्रुतत्वादिगुणानां तेषु वक्तुं योग्यत्वेन स योऽत इति वाक्यम् अयोग्यार्थाभि-धायकत्वेनाप्रमाणं स्यात्। सर्वगतत्वेन विष्णुग्रहणे तु तस्य साकल्येन श्रुतत्वाद्यभावाद् अश्रुतत्वादिसम्भवेन नानुपपत्तिः। अन्यथा अश्रुतत्वादिगुणोपपत्तेरिति वक्तव्यमिति भावः। न ते विष्णो इत्यस्य अश्रुतत्वादि-प्रतिपादकत्वलाभाय तद्वाक्यं श्रोत्रादिनेत्याध्याहृत्य योजितम्। ननु प्रथमश्रुतमतत्वं परित्यज्य अश्रुतत्वादि कुतो गृह्यत इत्यत आह। अतत्वस्येति। सर्वगतत्वानतिरिक्तत्वेनेति। अत सातत्यगमने इति धातोः सन्ततो ह्यत उच्यत इति वचनाच्चातत्वं सर्वगतत्वानतिरिक्तमित्यर्थः। न चानन्दमयोऽभ्यासा-दित्यत्रेव सर्वगतः विष्णुर् अतत्वादिति प्रयोगे कथमतत्वस्य साध्यत्वमिति वाच्यम्। अत्र विष्णुर् एतमस्यामिति वाक्योक्तसर्वगतस् तन्निष्ठतयोक्ताश्रुतत्वादिगुणयोग्यत्वादिति प्रयोगोऽभिप्रेत इति नानुपपत्तिः। विष्णुं पक्षीकृत्य सर्वगतत्वस्य साध्यत्वे अतत्वस्य हेतुत्वे च साध्याविशेषः स्यादिति भावः। अश्रुतत्वादीनामेव ग्रहणमिति। इत्यादिनाऽश्रुतत्वादिगुण इति भाष्ये इत्यर्थः।
वाक्यार्थविवरणम्
अतत्त्वस्येति। ‘अत सातत्यगमन’ इति धातोर् व्याप्तत्वस्येत्यर्थः।
वाक्यार्ममञ्चरी
ॐ विवक्षितगुणोपपत्तेश्च ॐ॥ विवक्षितानां वक्तुं योग्यानां वक्ष्यमाणानामुपसंहारे श्रुतानां गुणानामश्रुतत्वादिधर्माणामुपपन्नत्वाच्च सर्वगतं ब्रह्मैव नादित्यादिस् तेषां तत्रानुपपत्तेरित्यर्थः॥ स योऽत इति॥ यो भगवानतो व्याप्तो ऽन्यैः साकल्येनाश्रुतो ऽगतो ऽप्राप्तः। अमतो ऽविचारितः। अनतः स्वतन्त्रः। अदृष्टः प्रत्यक्षेण। अविज्ञातः विशेषज्ञानाविषयः। अनादिष्ट उपदेष्टुमशक्यः। स्वयं च साकल्येन श्रोता मन्ता विचारयिता द्रष्टा आदेष्टोपदेष्टा आघोष्टा शब्दकर्ता। विज्ञाता विशेषेण ज्ञाता प्रज्ञाता प्रकर्षेण ज्ञाता सर्वेषां भूतानामन्तरपुरुषो ऽन्तर्यामी पूर्णश्चेत्यर्थः। ज्ञानावान्तरविशेषसद्भावान्नात्र पुनरुक्तिः शङ्क्या॥ विवक्षिता इति॥ अस्येति शेषः॥ वक्तुं योग्या इति॥ इत्यर्थ इति शेषः। मुखतः कण्ठतः श्रोत्रादिनेति पूरणीयत्वादिति भावः। अश्रुतत्वादिकं साकल्येनैव न सर्वात्मनेति सूचयितुं भाष्येऽनन्त इत्युक्तम्॥ सर्वगतत्वानतिरिक्तत्वेनेति॥ अत सातत्यगमन इति धातोः सन्ततो ह्यत उच्यत इति वचनाच्चातत्वं सर्वगतत्वानतिरिक्तमित्यर्थः। अन्यथा साध्याविशेषप्रसङ्ग इति भावः।
विवृतिः
स य इत्यस्यायमर्थः॥ अतः व्याप्तः, अश्रुतः सर्वात्मना श्रोतुमशक्यः, अगतः सर्वात्मना अज्ञातः, अमतः मननाविषयः, अनन्तः स्वतन्त्रो ऽदृष्टः सर्वात्मना, अनादिष्टो ऽनुपदिष्टः सर्वात्मना देष्टा उपदेष्टा, घोष्टा शब्दं कुर्वन् अन्तरपुरुषो ऽन्तर्यामी पूर्णश्च विष्णोरेव योग्यत्वेन इत्युक्तस्य उत्सूत्रितत्वशङ्कानिरासायाह॥ विवक्षिता इति॥ वक्तुं योग्या इति॥ अनेनादित्यग्रहणे तेषां साकल्येन श्रुतत्वादिनाऽश्रुतत्वादिगुणानां तेषु वक्तुमयोग्यत्वेन स योऽत इति वाक्ये अयोग्यार्थाभि-धायकत्वेनाप्रामाण्यं स्यात्। सर्वगतत्वेन विष्णुग्रहणे तु तस्य साकल्येन श्रुतत्वाद्यभावादश्रुतत्वादिसम्भवेन नानुपपत्तिः। अन्यथा अश्रुतत्वादिगुणोपपत्तेरिति वक्तव्यमिति भावः। न ते विष्णो इत्यस्य अश्रुतत्वादि-प्रतिपादकत्वालभाय तद्वाक्यं श्रोत्रादिनेत्यध्याहृत्य योजितम्। ननु प्रथमश्रुतमतत्वं परित्यज्य अश्रुतत्वादि कुतो गृह्यत इत्यत आह॥ अत्रातत्वस्येति॥ सर्वगतत्वानतिरिक्तत्वेनेति॥ अत सातत्यगमन इति धातोः सन्ततोद्गत उच्यत इति वचनाच्च अतत्वं सर्वगतत्वानतिरिक्तमित्यर्थः। न चानन्द-मयोऽभ्यासादित्यत्रेव सर्वगतः विष्णुर् अतत्वादिति प्रयोगे कथमतत्वस्य साध्यत्वमिति वाच्यम्॥ अत्र विष्णुर् एतमस्यामिति वाक्योक्तसर्वगतस् तन्निष्ठतयोक्ताश्रुतत्वादिगुणयोग्यत्वादिति प्रयोगोऽभिप्रेत इति नानुपपत्तिः। विष्णुं पक्षीकृत्य सर्वगतत्वस्य साध्यत्वे अतत्वस्य हेतुत्वे च साध्याविशेषः स्यादिति भावः। अश्रुतत्वादीनामेव ग्रहणमिति॥ ‘इत्यादिनाऽश्रुतत्वादिगुण’ इति भाष्य इत्यर्थः॥