ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ
अथ द्वितीयः पादः
१. सर्वगतत्वाधिकरणम्
सूत्रभाष्यम्
॥ ॐ॥ लिङ्गात्मकानां शब्दानां विष्णौ प्रवृत्तिं दर्शयत्यस्मिन्पादे प्राधान्येन। ‘ब्रह्म ततममि’ति सर्वगतत्वमुक्तं विष्णोः। तच्च ‘तस्यैतस्यासावादित्यो रसः’ (ऐ.आ. ३-२-३) इत्यादिनाऽऽदित्यस्य प्रतीयत इत्यतोऽब्रवीत्।
॥ ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ १॥
‘स यश्चायमशरीरः प्रज्ञात्मा’ (ऐ.आ. ३-२-४) इत्यादिना सर्वत्रोच्यमानो नारायण एव। ‘तदेव ब्रह्म परमं कवीनाम्’ (म.ना.उ. १-६)। ‘परमं यो महद्ब्रह्म’।
‘वासुदेवात्परः को नु ब्रह्मशब्दोदितो भवेत्।
स हि सर्वगुणैः पूर्णस्तदन्ये तूपचारतः’॥
इति तस्मिन्नेव प्रसिद्धब्रह्मशब्दोपदेशात्॥ १॥
सत्तर्कदीपावली
॥ हरिः ॐ॥ अभिहितोऽर्थान्तरप्रसिद्धानां नाम्नां पूर्वं समन्वयो विष्णौ। अधुना लिङ्गवाचिनां बाहुल्येनार्थान्तररूढानामपि केषाञ्चिद्वैश्वानरादिशब्दानां सङ्गतिविशेषात्समन्वयोऽस्मिन्पाद इत्याह॥ लिङ्गेति॥ गताधिकरणेनास्याधिकरणस्य सङ्गतिं दर्शयन् पूर्वपक्षं दर्शयति॥ ब्रह्मेति॥ इदमाम्नायते। एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगा एतमस्यामेतं दिव्येतं वायावेमाकाश इति। पृथिव्यादिसर्वगतत्वेन मीमांस्यमानस् तस्यैतस्यासावादित्यो रसः स यश्चायमशरीरः प्रज्ञात्मेत्युपक्रमवशादादित्यो भवेत्। अतश्च ब्रह्म ततममिति यत्ततमत्वं विष्णोरुक्तं तदप्येकवाक्यव-शादादित्यस्यैव युक्तमित्येतं पक्षं प्रतिक्षेप्तुं सूत्रमुपन्यस्य व्याचष्टे सर्वत्रेत्यादिना। सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षत इति ब्रह्मशब्दाभिधेयत्वश्रवणादत्र सर्वगतत्वेनोच्यमानो विष्णुरेव नादित्यः॥ अशरीरः प्रज्ञात्मेत्युपक्रमाच्च। न चादित्ये ब्रह्मशब्दः शङ्कनीयः। ‘तदेव ब्रह्म परमं’ ‘यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा। परमं यो महद्ब्रह्म’ इत्यादिवाक्येषु विष्णोरेव प्रसिद्धत्वान् नादित्यस्य मुख्यतो ब्रह्मत्वं युज्यते।
तत्त्वप्रदीपिका
सर्वगतत्वादिधर्मवाचिनां शब्दानां समन्वयः सम्प्रति समभिधीयते। महारूढ्या महायोगेन च वृत्तिः ‘प्रवृत्तिरि’त्युच्यते। अन्यत्राज्ञरूढित्वादल्परूढिः। विद्वद्रूढित्वाद्विष्णौ महारूढिः। लौकिकप्रयोगाद्वैदिक-प्रयोगबाहुल्याच्च। योगश्चान्यत्र वृत्तिहेतुसामस्त्यस्वातन्त्र्याभावादल्पः। उभयसम्भवाद्विष्णौ महायोगः। वैश्वानराधिकरणे नामशब्दविचारात्प्राधान्येनेत्युक्तम्॥
ब्रह्म ततममित्यादेरयमर्थः। ब्रह्म ततममित्यादिना यत् सर्वगतत्वमुक्तं विष्णोस्तत् ‘‘तस्यैतस्या-सावादित्यो रसः’’ ‘‘तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति’’ ‘‘सूर्य आत्मा जगतस्तस्थुषश्च’’ ‘‘एतं सर्वेषु भूतेषु’’ इत्यादिना शाखाशेषेणाऽदित्यस्य प्रतीयते। अतः प्राणशब्दोऽपि कथञ्चिद-स्मिन्योज्येतेत्यत आह। सर्वत्र प्रसिद्धोपदेशात्॥ ‘‘स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्ये एकमेतदिति विद्यात्, तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति’’ इत्यादिना सर्वत्रोच्यमानो विष्णुरेव। तस्मिन्नेव प्रसिद्धस्य ब्रह्मशब्दस्य ‘‘एतमेव ब्रह्मेत्याचक्षत’’ इत्युपदेशात्॥
तत्त्वप्रकाशिका
श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः॥ ॐ॥ एतत्पादप्रतिपाद्यं दर्शयति॥ लिङ्गेति॥ लिङ्गात्मकानामिति धर्मविशिष्टधर्मिवाचिनामित्यर्थः। अन्यत्र प्रसिद्धानामिति संयोज्यम्। वैश्वानराधिकरणे नामसमन्वयसिद्धेः प्राधान्येनेत्युक्तम्। अत्र लोकतोऽन्यत्र प्रसिद्धाऽऽदित्य-श्रुतिसहपठितसर्वगतत्वलिङ्गात्मकशब्दस्य परब्रह्मणि समन्वयप्रतिपादनादुस्ति शास्त्रादिसङ्गतिः। श्रुत्यादिसङ्गतिं विषयसंशयौ च सूचयति॥ ब्रह्मेति॥ ब्रह्म ततममिति विष्णोः सर्वगतत्वमुक्तम्। तदेवैतरेयके ‘एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्ते। एतमग्नावध्वर्यवः। एतं महाव्रते च्छन्दोगा एतमस्यामेतं दिव्येतं वायावेतमाकाशे एतमप्स्वेतमोषधीष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इत्याम्नायते। तद्यदि विष्णोरन्यस्य स्यात्तर्हि प्राचीनप्राणोऽप्यन्य एव स्यादेकप्रकरणत्वात्। अतोऽवश्यं विचार्यं भवति। तत्सर्वगतत्वं विषयः। विष्णोरन्यस्य वेति सन्देहः। ब्रह्म ततममित्युक्तिरादित्यश्रुतिश्च सन्देहबीजमिति भावः। तत्र सयुक्तिकं पूर्वपक्षयति॥ तच्चेति॥ तत्सर्वगतत्वमादित्यस्यैव भवेत्। ‘तस्यैतस्यासावादित्यो रसः यश्चासावादित्यस्तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवती’त्यादिबह्वादित्यश्रुतेः। ‘सूर्य आत्मा जगतः’ इति सौरमन्त्रोदाहरणाच्च। एतमस्यामिति क्षित्यादिषूक्त्वाऽऽदित्येऽऽस्यानुक्तत्व-लिङ्गाच्च। अन्यथैतमादित्य इत्युक्तिः स्यात्। सजातीयचन्द्रादावुदितत्वात्। अत एव न श्रुतेरन्तर्यामि-विषयत्वं युज्यते। सर्वजीवानां वा एतत्सर्वगतत्वमुच्यते। ‘चक्षुर्मयः श्रोत्रमयश्छन्दोमयो मनोमयो वाङ्मय आत्मे’ति तल्लिङ्गश्रवणात्। न च तल्लिङ्गमन्तर्यामिविषयम्। तस्यापरिच्छिन्नत्वेन सर्वेषु भूतेष्वि-त्युक्ताल्पौकस्त्वायोगाच्चक्षुर्मयत्वाद्ययोगाच्च। अतो विष्ण्वन्यस्यैव सर्वगतत्वादन्यस्यैव प्राणत्वमानन्दमयत्वं चेति भावः। सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे॥ अत इति॥ स यश्चायमित्यादिना वाक्येन सर्वत्र पृथिव्यादिषूच्यमानो नारायण एव। ‘एतमेव ब्रह्मेत्याचक्षत’ इति सर्वगते ब्रह्मशब्दोपदेशात्। ब्रह्मशब्दस्य च श्रुत्यादौ नारायण एव प्रसिद्धत्वादित्यर्थः। तथा च श्रुतिः। तच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः।’ इति। अत्र स यश्चायमिति वाक्योदाहरणं पूर्वं विषयवाक्यस्यानुदाहृतत्वात् कृतमशरीरत्वयुक्तिसूचनार्थं च। न हि नारायणेतरचेतनानां स्वतोऽशरीरता सम्भवति॥ १॥
गुर्वर्थदीपिका
ॐ॥ सर्वगतत्वस्य भगवतोऽन्यत्र लोकतोऽपि प्रसिद्ध्यभावात्पादासङ्गतिरिति शङ्काऽपनोदाय लोकतोऽन्यत्र प्रसिद्धादित्यश्रुतिसहपठितेत्युक्तम्। एवमुत्तराधिकरणेऽपि लोकतोऽन्यत्र प्रसिद्धादितिनाम्ना सहपाठादत्तृत्वलिङ्गस्यान्यत्र प्रसिद्धिं वक्ष्यति॥ सर्वजीवानां वैतत्सर्वगतत्वमुच्यत इत्यत्र मिलित्वा सर्वजीवानां वा प्रत्येकं सर्वजीवानां वेत्यर्थः। चक्षुर्विकारित्वादिरूपचक्षुर्मयत्वादिकं शतायुष्ट्वादिलिङ्ग-वन्नान्तर्यामिणि योजयितुं शक्यत इति भावेनोक्तं चक्षुर्मयत्वाद्ययोगादिति। ‘‘एतं ह्येव बह्वृचा’’ इति वाक्यमध्ये यद्यपि ‘‘स यश्चायमशरीरः प्रज्ञात्मे’’ति वाक्यं नास्ति तथाऽप्यस्यैव वाक्यस्याऽऽदिभागेऽ-स्तीत्यतस्तदपि विषयवाक्यान्तर्गमेवेति भावेनाऽऽह भाष्यकारः ‘‘स यश्चायमशरीरः प्रज्ञात्मेत्यादिने’’ति। तर्हि व्यवहितवाक्योदाहरणे को हेतुरित्यत उक्तं टीकाकृता अशरीरत्वयुक्तिसूचनार्थं चेति।
भावबोधः
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ अर्थस्य शब्दात्मकत्वाभावाच्छब्दस्य कथं लिङ्गात्मकत्वम् ? प्रतिपादकत्वविवक्षायामपि सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे धर्मविशिष्टधर्मिवाचिनामिति। श्रुत्यादिसङ्गतिमिति। इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तसूत्रांशेन च सङ्गतिमित्यर्थः। तदेवैतरेयक इति॥
ननु ब्रह्म ततममित्यनेन निरवधिकसर्वगतत्वमभिप्रेतम्। तादृशसर्वगतत्वोक्तेरेवोपासनोपयोगात्। एतमस्यामित्यत्र त्वर्भकौकस्त्वादित्युत्तरसूत्रानुसारेण भूतपदप्रयोगबलेन च भूतवृत्तित्वमात्रमुच्यते। अन्यथा सर्वेष्वित्युक्तत्वाद्भूतशब्दवैयर्थ्यं स्यात्। तथा च तयोरेकरूपत्वाभावात् कथं तदेवेत्युक्तमिति चेत्, न; तदेवेत्यस्य तदेकदेशरूपमित्यर्थात्। एवमपि पूर्वाक्षेपः सम्भवति। तथा हि– अत्रोक्तभूतगतत्वस्यैत-मेवेत्यवधारणबलेनान्यमात्रनिष्ठत्वे विष्णोर्भूतगतत्वापगमने निरवधिकसर्वगतत्वं न स्यात्। निरवधिक-सर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति ब्रह्म ततममित्युक्तसर्वगतत्वमपि एतद्वाक्यप्रतिपादितभूतस्यैव स्यादित्युपपादनसम्भवादिति भावः। विष्णोरन्यस्य वेति। अत्रैतमस्यामित्युक्तं सर्वगतत्वं किमादित्यादेरुत विष्णोरिति चिन्ता। तदर्थमादित्यादिप्रापकम् आदित्यादिश्रुतय आदित्यानुक्ति-चक्षुर्मयत्वादीनि लिङ्गानि, अर्भकौकस्त्वसम्भोगप्राप्तिरूपपरपक्षानुपपत्तिश्चेत्येतत्, ब्रह्मशब्दश्रुतत्वादिलिङ्ग-सर्वशरीरस्थत्वकर्मकर्तृव्यपदेशानुपपत्तिरूपविष्णुप्रापकबाधकमुत तद्बाध्यमिति। तदर्थमादित्यश्रुत्यादिकं निरवकाशं ब्रह्मशब्दादिकं सावकाशमुत ब्रह्मशब्दादिकं निरवकाशम्, आदित्यश्रुत्यादिकं सावकाशमिति। तदर्थं ब्रह्मशब्दादेर्निरवकाशत्वे आदित्यश्रुत्यादेः सावकाशत्वे च प्रमाणं नास्त्युत आस्तीति। बह्वादित्यश्रुतेरिति॥
ननु लोकतोऽन्यत्र प्रसिद्धस्याप्यादित्यशब्दस्यान्तराधिकरणन्यायेन विष्णुवाचित्वात् कथं तेन तदन्यस्य प्राप्तिरिति चेत्, न; संवत्सर एव प्रध्वंसयन् तस्यैतस्यासावादित्यो रस इति संवत्सराधिपतित्वरूपसंवत्सर-सारत्वलिङ्गाद्यभावश्चासावादित्य इति प्रसिद्धार्थयच्छब्दोपबन्धात् तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति सर्वपुरुषाभिमुख्यलिङ्गाच्चाऽऽदित्यशब्दस्य प्रसिद्धादित्यपरत्वात्। अत एव भाष्ये– तस्यैतस्यासावादित्यो रस इत्यादिनेति उक्तलिङ्गप्रतिपादकवाक्यमुदाहृतमित्यभिप्रेत्य तद्गतादिपदार्थत्वेन तल्लिङ्गप्रतिपादकं यश्चासावादित्यस्तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति वाक्यमेव टीकायामुदाहृत्य बह्वादित्यश्रुते-रित्युक्तम्। अनेन बहवो ह्यत्रादित्यादिशब्दा इति न्यायविवरणमप्युक्तार्थं भवति। न्यायविवरणगतादि-शब्दार्थमाह– सूर्य आत्मा जगत इतीति। अयमपि भाष्यगतस्याप्यादिशब्दस्यार्थ इति ज्ञेयम्। क्षित्यादिषूक्त्वा आदित्येऽनुक्तिरित्यादिलिङ्गेनेति। आदित्येऽनुक्तत्वलिङ्गादेवेत्यर्थः। अनेन लिङ्गेनादित्यशब्दस्यादित्यसंस्थितपरत्वादन्तर्यामिपरत्वे तद्विरुद्धमिति भावः। आदित्यादिलिङ्गं चेति न्यायविवरणगतादिपदार्थमाह। चक्षुर्मय इति॥ पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्तमित्युक्तम्। इदानीं जीवधर्मत्वात्तस्य तदपि न युक्तमित्याह। चक्षुर्मयत्वाद्ययोगाच्चेति। नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थः। स यश्चायमशरीरः प्रज्ञात्मेत्यादिनेत्ये-तदादित्यो रस इत्यादिनेतिवद्युक्तिप्रदर्शकमात्रमिति भ्रमं वारयितुमाह। स यश्चायमित्यादिना वाक्येनेति। अत एव वक्ष्यति स यश्चायमिति वाक्योदाहरणमिति सूचनार्थं चेति। तथा च श्रुतिरिति। अनेन भाष्ये नारायणशब्दप्रयोगाभिप्राय उक्तो भवति। अशरीरत्वयुक्तिसूचनार्थं चेति। विषयवाक्य-प्रदर्शनमात्रार्थत्वे तु ‘‘एवं ह्येवं बह्वृचा’’ इत्यादिना इत्यवक्ष्यत्। इयं युक्तिः ‘‘अनुपपत्तेस्तु न शारीर’’ इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽप्यभिप्रेता। अन्यथा जीव इत्येव ब्रूयादिति भावः। अशरीरत्वस्यादित्यादौ निरवकाशत्वमाह– न हि नारायणेतरेति। अनेन श्रीतत्त्वादौ व्यभिचारोऽपि परास्तः।
भावदीपः
॥ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ द्वित्रनयमात्रेण प्रवृत्तिं दर्शयतीत्यपि भाष्यार्थोपपत्त्या पादार्थत्वा-प्रतीतेराह॥ एतत्पादेति॥ शब्दादेवेत्यत्र वक्ष्यमाणदिशा असाधारणधर्मस्य लिङ्गत्वात्कथं तदात्मकत्वं शब्दानामित्यतो लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः। स्वरूपार्थो वा आत्मशब्दो निमित्तनिमित्तिनोरभेदोपचारादिति सुधोक्तदिशा समासं मत्त्वाऽर्थमाह॥ धर्मविशिष्टेति॥ यौगिकानामित्यर्थः। प्राचीनानामपि प्रागुक्तदिशा यच्छब्दा योगवृत्तय इत्यणुभाष्योक्त्या च यौगिकत्वात् तद्व्यावृत्त्यर्थम् आपाततोऽपीति योज्यम्। भाष्ये प्रवृत्तिमित्यस्य महायोगविद्वद्रूढिभ्यां प्रकृष्टवृत्तित्वमिति तत्वप्रदीपोक्तेरत्रानुक्तिः। तृतीयादिसाङ्कर्यप्रसङ्गादाह॥ अन्यत्रेति॥ नामसमन्वयेति॥ विश्व-जीवान्तरत्वाद्यैर्लिङ्गैर् इत्यणुभाष्ये सिद्धान्त्यभिमतयौगिकत्वाभिप्रायेण वैश्वानरशब्दस्य लिङ्गत्वोक्तावपि श्रुतिर्लिङ्गाधिका परेति विषययुक्तिमालायां लोकरूढ्या नामत्वोक्तेरिति भावः॥ सर्वगतत्वलिङ्गेति॥ सर्वप्राणिहृदयगुहास्थत्वरूपसर्वगतत्वलिङ्गेत्यर्थः। तस्य च स्वतः सूर्ये अप्रसिद्धेराह॥ लोकतोऽन्यत्र प्रसिद्धेत्यादि॥ अर्भकौकस्त्वादितत्प्रसिद्धोपदेशादिपूर्वोत्तरपक्षयुक्तिसाहित्याल्लिङ्गमेव समन्वीयते न त्वादित्यनामेति भावः। एवमग्रेऽपि॥ शास्त्रादीति॥ पूर्वत्रेव सङ्गतित्रयोपपादकत्वं लोकत इत्यादि-पदानां ध्येयम्। एवमग्रेऽपि। इत्यन्तभाष्यं सङ्गतिसूचनपरत्वेनाकाङ्क्षितपूर्त्या व्याचष्टे॥ ब्रह्मेति॥ तच्चेत्यस्यार्थस् तदेवेति। ततमत्वान्तःपात्येवेत्यर्थः। सर्वहृदयगुहास्थत्वरूपसर्वगतत्वस्य ततमत्वैकदेशत्वात्। यद्वा पूर्वपक्षे ततमत्वस्य सङ्कोचात्तदेवेत्युक्तिः। तदेवेत्यस्य इत्याम्नायत इत्यन्वयः। तच्चेत्यादेस्तात्पर्यम्॥ तद्यदीति॥ अन्यस्येति॥ आदित्यश्रुत्यादिना आदित्यादेः स्यादित्यर्थः। उक्तमित्यन्तवाक्यस्य तात्पर्यम्॥ तर्हि प्राचीनेति॥ नन्वत्रत्यसर्वहृदयस्थत्वरूपं सर्वगतत्वमन्यस्य चेत्ततमत्वेनोक्तप्राणोऽपि कुतोऽन्य इत्यत आह॥ एकेति॥ ननु सर्वगतत्वाख्यसर्वहृदयस्थत्वरूपार्भकौकस्त्वं प्रागुक्तततमत्वरूप-व्याप्तत्वं चैकस्य विरुद्धमिति न शङ्क्यम्। ततमत्वस्यादित्यादौ सङ्कोचसम्भवादिति॥ अतोऽवश्यमिति॥ एतेनेत्यत इति भाष्यस्य इति सङ्गतिसम्भवादित्यर्थः सूचितः। एवमग्रेऽपि। तदेव भाष्यं पूर्वपक्षपरतयापि व्याचष्टे॥ तत्र संशयादौ सतीति॥ आदित्यस्यैवेति॥ तच्चेति चकारोऽवधारणार्थः सन्नादित्य-स्येत्यत्रान्वेतीति भावः। तस्य चैतस्य संवत्सरस्य रसः सारोऽधिपतिः। अन्तर्नयन्यायेन श्रुतेः सावकाशत्वनिवृत्त्यर्थं निरवकाशसंवत्सरसारत्वरूपादित्यलिङ्गद्योतनाय रस इत्यन्तानुवादः। बहवो ह्यत्रादित्यशब्दाः क्षित्यादिषूक्त्वा आदित्येऽनुक्तिरित्यादिलिङ्गं चेति न्यायविवरणदिशा भाष्यस्थादिपदार्थमाह॥ यश्चासाविति॥ अस्येति॥ एतमिति प्रकृतस्येत्यर्थः॥ अन्यथेति॥ आदित्यादन्यस्य सर्वगतत्व इत्यर्थः॥ अत एवेति॥ विशिष्टादित्येऽनुक्तत्वरूपनिरकाशलिङ्गादेवेत्यर्थः। अत्र भाष्ये आदित्यस्येत्युक्तावप्यग्रे चक्षुर्मयत्वादेश्च जीव इत्युक्तेराह॥ सर्वजीवानां वेति॥ न चेति॥ आनन्दमयनयरीत्या मयट् प्राचुर्यार्थः। सम्पूर्णदर्शनादिशक्त्यादिमानिति तदर्थ इति भावः। तस्य सावकाशत्वमभ्युपेत्यार्भकौकस्त्वादिति सूत्रोक्तनिरवकाशलिङ्गेन जीवपक्षमुज्जीवयति॥ तस्यापरिच्छिन्नत्वेनेति॥ एष म आत्मा अन्तर्हृदये ज्यायानिति श्रुतेरिति भावः। भूतेष्वित्युक्त्या प्रतीतमेकदेशस्थत्वरूपमल्पौकस्त्वं सर्वगतसर्षपान्तस्स्थत्वं ब्रह्माण्ड इव न युक्तमित्यर्थः। नन्वेवं प्रागुक्तं ततमत्वमपि जीवानामेव वाच्यम् एकप्रकरणत्वात्। तथा च ततमेषु जीवेषु अल्पौकस्त्वायोगस्तुल्य इति चेन्मैवम्। जीवेषु ततमत्वस्य सङ्कोचसम्भवात्। न चान्तर्यामिणि तथा। ब्रह्मत्वव्याघातादिति भावः। कथं तर्हि भाष्ये तद्व्यपदेशाच्चेति सूत्रे च चक्षुर्मयत्वादिलिङ्गोक्तिरित्यतो हेत्वन्तरेण पूर्वपक्षे सति अभ्युच्चयत्वेन तदुक्तिरिति सुधोक्तदिशाऽर्भकौकस्त्वरूपानवकाशलिङ्गे सति प्रसिद्धचक्षुःकरणकत्वमेव चक्षुर्मयत्वादि स्यात्। तच्च नित्यज्ञानेऽन्तर्यामिणि न युक्तमिति भावेनाऽऽह॥ चक्षुर्मयत्वेति॥ अत एव सूत्रेऽर्भकौकस्त्वादित्युक्त्वैव तद्व्यपदेशादित्युक्तमिति भावः। भाष्यस्थेतिशब्दं हेत्वर्थं मत्त्वा ततममिति वाक्यस्य पूर्वाक्षेपरूपसङ्गतिपरत्वेन व्याख्यातस्यापि पूर्वपक्षफलपरतयापि तात्पर्यमाह॥ अत इति॥ निरवकाशश्रुतिलिङ्गसत्त्वादित्यर्थः। आदित्यजीवयोरन्यतरानिश्चयेऽपि अन्यत्वेन तन्निश्चयस्स्यादतो न पूर्वपक्षस्य सन्देहादविशेष इति भावेनोक्तम्। विष्ण्वन्यस्यैवेति॥ सर्वगत-त्वादिति॥ सर्वहृत्स्थत्वरूपसर्वगतत्वादित्यर्थः॥ प्राणत्वमिति॥ एकप्रकरणत्वादिति भावः। असङ्कुचितसर्वगतत्ववति विष्णावल्पौकस्त्वायोगेऽपि अल्पौकस्त्ववत्यादित्यादौ ततमत्वेनोक्तप्राणत्वं युक्तम्। ततमत्वस्य यथायोगं सङ्कोचसम्भवादिति भावः। महाभोगत्वेनोक्तप्राणत्वं च प्राणत्वमित्यनेन गृह्यते। ततमत्वेन महाभोगत्वेन चोक्तयोर्द्वयोरपि लाभाय प्राणत्वमित्येव सामान्योक्तिः। एवं चानन्दमयत्वं चेत्याक्षेपः शिष्टो भवति। यत्त्वस्य पूर्वाक्षेपेण सङ्गतिमत्त्वे पादविभागभङ्गप्रसङ्ग इति। तन्न। प्रमेयभेदेन तदुपपत्तेरिति। भाष्ये स यश्चायमिति प्रतीकोपादानेन एतमस्यामित्यादि-वाक्यमेवाभिप्रेतमिति भावेनाह॥ इत्यादिना वाक्येन सर्वत्र पृथिव्यादिषूच्यमान इति॥ यद्वा आदित्यो रसः यश्चासावादित्य इति पूर्वोत्तरवाक्ययोरादित्यपदेनैवादित्यस्थस्य सर्वेन्द्रियमय इति वक्ष्यमाणस्मृत्या ग्रहणादुदाहरणमेवेदम्। सर्वत्रेति भाष्यपदानुवादः। उक्थादिष्विति वाच्ये पृथिव्यादिष्वित्युक्तिः सर्वभूताशयस्थित इति वक्ष्यमाणस्मृत्याद्यनुरोधेन। अत एव आदित्यादि-ष्वित्यप्यनुक्तिः स यश्चायमिति वाक्ये स्पष्टम् आदित्ये एष इत्यप्रतीतेश्चेति भावः। विशिष्टस्य हेतुत्वे प्रसिद्धपदव्यावर्त्याभावात्केवलब्रह्मशब्दस्यैव हेतुत्वे दोषाभावाच्च विभज्य भाष्यं हेतोः पक्षधर्मतां दर्शयन् व्याचष्टे॥ एतमेवेति॥ सर्वगत इति॥ एतमित्यनेन पृथिव्यादिषु सर्वत्रोक्तस्य परामर्श इति भावः॥ प्रसिद्धत्वादिति॥ तथा चान्यस्योक्तौ प्रसिद्धिबाध इति भावः। स्मृतेश्चेति सूत्रे सर्वभूतेति स्मृतिसमाख्यानोक्त्या श्रुतौ भूतेष्वित्युक्त्या च भूतादन्यत्र नेति प्राप्तशङ्कानिरासाय भाष्ये नारायण एवेत्युक्तिः श्रुतिसमाख्यासूचनायेति मत्त्वाऽऽह॥ तथा च श्रुतिरिति॥ तैत्तिरीयोपनिष-दीत्यर्थः। तथा चेह नारायणस्यैव बहिरपि विद्यमानस्यैव च सर्वान्तःस्थत्वरूपसर्वगतत्वमिति भावः॥ कृतमिति॥ तर्हि एतं ह्येवेत्याद्येवोच्येतेत्यतो वा पूर्वमादित्यो रस इति विषयवाक्यस्योक्त-त्वादेतदुक्तिर्व्यर्थेत्यतो वाऽऽह॥ अशरीरत्वेति॥ तां निरवकाशतोक्त्या व्यनक्ति॥ न हीति॥ स्वत इति॥ मुक्तानामपि सा तत्प्रसादादागतेति भावः। नारायणेतरेत्युक्त्या यस्य प्रसादादित्यादिश्रुतिः सूचिता। अत एवोत्तरसूत्रे शारीरपदेनैव जीवादित्ययोरुक्तिरिति भावः॥ १॥
अभिनवचन्द्रिका
एतत्पादप्रतिपाद्यमिति॥ ‘अध्यायस्यैकार्थत्वात् पादभेदः किंनिबन्धन इत्यतः समन्वयेऽप्यवान्तर-भेदेनेति भावेने’ति वर्तते। तस्यैतत्पादप्रतिपाद्यं दर्शयतीत्यनेन सम्बन्धः। प्राधान्येनेत्युक्तमिति॥ यावदुक्तं भवति प्रायेणेत्यनेन, तावदुक्तं भवति प्राधान्येनेति। ततश्च प्रायःशब्देनेव प्राधान्यशब्देनापि कतिपयाधिकरणव्यावृत्तिर्भवतीति भावः। लोकतोऽन्यत्र प्रसिद्धेति॥ एतदधिकरणस्य पादान्तर्भावसिद्धये सर्वगतत्वप्रतिपादकशब्दस्याऽन्यत्र प्रसिद्धत्वव्युत्पादनार्थम्, ‘आदित्यश्रुतिसहपठिते’ति विशेषणम्। सर्वगतत्वप्रतिपादकशब्दस्य स्वतोऽन्यत्रप्रसिद्धत्वाभावेऽपि आदित्यश्रुतिबलेनाऽन्यत्र प्रसिद्धत्वं सम्पाद्यत इति अस्याधिकरणस्य पादान्तर्भाव इति भावः। आदित्यश्रुतेः कथमन्यत्रप्रसिद्धिसम्पादकत्वमित्यतोऽन्यत्र प्रसिद्धेति आदित्यश्रुतिविशेषणम्। आदित्यश्रुतेरपि केनान्यत्रप्रसिद्धिसम्पत्तिरित्यत उक्तम् – लोकत इति॥ एतेन पादान्तर्भावसिद्धये समन्वेतव्यशब्दस्याऽन्यत्र प्रसिद्धत्वं वक्तव्यम्। आदित्यश्रुतेर् लोकतोऽन्यत्र प्रसिद्धिकथनं तु व्यर्थमिति परास्तम्। सर्वगतत्वलिङ्गात्मकशब्दस्येति॥ नन्वत्र विषयवाक्ये सर्वगतत्वरूपलिङ्गात्मकशब्दो न श्रूयते। न च – ‘सर्वेषु भूतेष्वेत’मिति लिङ्गात्मकशब्द इति वाच्यं तस्य वाक्यत्वेन धर्मविशिष्टधर्मिवाचकत्वरूपलिङ्गात्मकशब्दत्वायोगात्। न च तेन उन्नीतं सर्वगतमिति पदं लिङ्गात्मकमिति वाच्यम्। तस्य प्रागुक्ताऽऽदित्यश्रुतिसहपठितत्वायोगादिति चेत्, न ब्रूमो वयमत्र लिङ्गात्मकपदस्य समन्वयः प्रतिपाद्यत इति। येनोक्तदोषः स्यात्। किंनाम लिङ्गात्मकस्य शब्दस्येति। शब्दत्वं च वाक्यपदसाधारणम्। एवं च – ‘एतं ह्येव बह्वृचामहत्युक्थ’ इति लिङ्गात्मकस्य वाक्यस्य इहोच्यते। अस्य चाऽऽदित्यश्रुतिसहपाठश्चोपपद्यते। कथमस्य धर्मविशिष्ट-धर्मिवाचकत्वरूपं लिङ्गात्मकत्वं, वाचकत्वस्य पदधर्मत्वादिति चेत्, धर्मविशिष्टधर्मिवाचकत्वमित्यनेन वाक्यपदसाधारणस्य प्रतिपादकत्वस्यैव विवक्षितत्वात्। अत एव सत्तर्कदीपावल्याम्, ‘एतं ह्येव बहृचा महत्युक्थे मीमांसन्त, एतमग्नावध्वर्यव, एतं महाव्रते छन्दोगा; एतमस्यामेतं दिवि, एतं वायावेत’मित्यादिपृथिव्यादिगतत्वेन मीमांस्यमान’ (ऐ.आ०) इति वाक्यप्रतिपाद्यस्यैव विषयत्वमुक्तम्।
सुधायां च – ‘एतमस्यामेतं दिवि’ इत्यादिवाक्योक्तं सर्वगतत्वमेवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते’ इत्युक्तम्।
टीकायां च – ‘स यश्चाय’मित्यादिना वाक्येन ‘सर्वत्र पृथिव्यादिषूच्यमानो नारायण एवे’ति वक्ष्यते।
नन्वन्तस्थत्वलिङ्गसमन्वयेनाऽऽदित्यनाम्नः समन्वयः सिद्धो न वा। आद्ये – पूर्वपक्षप्रापकाभावे-नाधिकरणवैयर्थ्यम्। द्वितीये आदित्यनामसमन्वय एवोच्यतां किं लिङ्गसमन्वयेन। नामसमन्वयेनैव लिङ्गसमन्वयसिद्धेरिति चेत्, न – अन्तस्थत्वलिङ्गसमन्वयेन तत्प्रकरणपठितानामिन्द्रादिनाम्नां समन्वय-सिद्धावपि अतत्प्रकरणपठितत्वेनाऽस्याऽऽदित्यनाम्नः समन्वयसिद्ध्यभावात्। नन्वेवं तर्हि आदित्यनाम्न एव समन्वय उच्यतां किं सर्वगतत्वलिङ्गसमन्वयेनेति वाच्यम्। अत्र हेतूक्रियमाणस्य ब्रह्मशब्दस्याऽऽदित्य निष्ठतयाऽप्रतीतेर् एतद्वाक्यगतसर्वगतनिष्ठतया च स्पष्टं प्रतीतेः, सर्वगतत्वलिङ्गस्यैवाऽत्र समन्वय उक्तः। न चाऽऽनन्दमयाधिकरणेन गतार्थता, तत्रेवाऽत्रापि ब्रह्मशब्देनैव विष्णुपरत्वसाधनादिति वाच्यम्– ब्रह्माऽऽदित्यश्रुतीनां सौरमन्त्रोदाहरणस्य चाऽभ्यधिकाशङ्काप्रापकस्य भावात्।
श्रुत्यादिसङ्गतिमिति॥ प्राणाधिकरणप्रतिपाद्यस्य, एतदधिकरणप्रतिपाद्यस्य च सर्वगतत्वेन प्रतीयमानत्वं सङ्गतिरिति सूचितमिति ज्ञेयम्। प्राचीनप्राणोऽप्यन्य एव स्यादिति॥ इतः परं टीकायां श्रूयमाणं ‘एकप्रकरणत्वा’दिति वाक्यं प्रक्षिप्तम्। ‘एतं ह्येव बह्वृचा’ इति वाक्यप्रतिपाद्यस्य सर्वगतस्य प्राचीनप्राणस्य च विभिन्नारण्यकप्रतिपाद्यत्वेनैतत्प्रतिपादकयोरेकप्रकरणत्वाभावात्। अधिकरणान्तरेषु अन्य एव स्यादिति प्राचीनाधिकरणाक्षेपरूपपूर्वपक्षफलप्रदर्शनाऽन्तरं हेतोरनभिधानेन इह तदभिधाने विशेषकारणाभावाच्चेति द्रष्टव्यम्। अन्यथेति॥ सर्वगतस्याऽऽदित्यरूपत्वाभाव इत्यर्थः। सजातीयेति॥ ‘चन्द्रमस्येत’मित्युक्त्वा ‘एतमादित्य’ इत्यनुक्तौ विशेषकारणाभावादिति भावः। अत एवेति॥ सौरमन्त्रोदाहरणस्य सूर्यपरत्वज्ञापकसद्भावादेवेत्यर्थः। सर्वजीवानां वेति॥ ननु – सर्वजीवानां वेति पूर्वपक्षान्तरकथनमयुक्तम्। तत्प्रापकस्य चक्षुर्मयत्वादिलिङ्गस्याऽऽदित्येऽपि सम्भवेनैक-पूर्वपक्षेणैवोपपत्तौ पूर्वपक्षान्तरकल्पनाऽयोगात्। अस्मिन् पक्षे आदित्यश्रुत्ययोगाच्च। किं चैवमाप्ततमो भाष्यकारो मन्यते – न चाऽऽदित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्य’मित्यभिधानात्। अन्यथा आदित्यशब्दस्यैकपूर्वपक्षहेतुत्वेन चक्षुर्मयत्वादेश्च पूर्वपक्षान्तरहेतुत्वेन समुच्चयार्थकचशब्दो न स्यात्। जीवग्रहणवद् आदित्यग्रहणप्रसङ्गश्च। किं चैवमाप्ततमः पद्मनाभतीर्थो मन्यते – आदित्याख्यजीवविशेषो न विष्णुरिति चेदित्यभिधानात्’ इति चेत् – सत्यम् – एकैनैव पूर्वपक्षेणोपपत्तिः। उक्तं च भाष्यकारेण एक एव पूर्वपक्ष इति। तथापि सूत्रभाष्याभ्यां सूचितोऽयमपरः पूर्वपक्षष् टीकाकृता दर्शितः। तथा हि – यद्याऽऽदित्य एवायं सर्वगत इत्येक एव पूर्वपक्षः सूत्रकृतोऽभिमतः स्यात् तर्हि ‘अनुपपत्तेस्तु नाऽऽदित्य’ इत्येव सूत्रं विदध्याद् लघु चैवं सूत्रं भवति श्रुत्यनुसारि च। तथा भाष्यकारोऽपि ‘न चाऽऽदित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्य’मिति न ब्रूयात्। सूत्रस्थ-शारीरपदव्याख्यानायाऽऽदित्य इत्येव ब्रूतात्, तत्साधनाय आदित्यशब्दादित्येव ब्रूयात्,न तु चक्षुर्मय-त्वादेरिति। तस्याऽतिप्रसक्तत्वात्’ न चैवं सूत्रकारभाष्यकारावाहतुः, किंनाम सूत्रकारः ‘शारीर’ इत्याह। भाष्यकारस्तु शारीरपदं जीव इति व्याचख्यौ। तेन मन्यामहे अनुपपत्तेरित्यनेन आदित्यः सर्वगत इति पक्षो यथा निरस्तः, तथा सर्वे जीवाः सर्वगता इति पक्षो निरस्त इति तयोरभिप्रेतमिति।
नन्वथापि जीवेष्वादित्यशब्दाभावात् कथमस्य पूर्वपक्षस्योदय इति चेत्, न। जीवसमुदाये कस्यचिद् आदित्यशब्दवाच्यत्वेन छत्रिन्यायेन सर्वत्राप्यादित्यशब्दोपपत्तेः। सत्तर्कदीपावलीकृता तु भाष्यकृता कण्ठोक्तपूर्वपक्षो दर्शित इति न तद्विरोधोऽपीति ध्येयम्।
वाक्यार्थमुक्तावली
श्रीहरये नमः। श्रीवेदव्यासाय नमः। लिङ्गात्मकानामित्यत्र लिङ्गं धर्मः प्रवृत्तिनिमित्तं स आत्मेवात्मा शरीरमिव उपकारकत्वाद् येषां ते लिङ्गात्मकाः। स्वरूपार्थो वात्मशब्दः। निमित्त-निमित्तिनोरभेदोपचारादिति सुधोक्तदिशा विग्रहं मत्वाऽर्थमाह॥ धर्मेति॥ अवयवार्थविशिष्टधर्मिवाचिनां यौगिकानामित्यर्थः। आपाततोऽपीति ग्राह्यम्। प्राचीनानामपि यौगिकत्वात्। अत्र यौगिकानामित्यनुक्त्वा धर्मविशिष्टेत्याद्युक्तिस्तु वाक्यरूपधर्मसङ्ग्रहाय। अन्यथा यस्मिन् द्यौरित्यादेर् लिङ्गात्मकशब्दत्वं न स्यादिति बोध्यम्। एतत्पादीयलिङ्गानां प्रायः साक्षादन्यत्र प्रसिद्ध्यभावात्। अन्यत्र प्रसिद्ध-श्रुत्यादिसाहित्येनैवान्यत्र प्रसिद्धिरिति भावेनाह॥ लोकत इति॥ तदेवैतरेयक इति॥ ब्रह्म ततममित्यत्र ततमपदेन व्यापकत्वं तत्र तत्र स्थिततया तत्तच्छक्तिप्रबोधकत्वं च विवक्षितम्। तथोक्तं तद्भाष्ये।
स एष भगवान् विष्णुः प्रादुर्भावात्मना पुनः।
जातो मत्स्यादिरूपेण सर्वभूतेषु चाविशत्।
तथा जीवेषु सर्वेषु प्रविष्टः प्रेरणेच्छया।
स सर्वगुणसम्पूर्णं सर्वगं नित्यमव्ययम्।
एतदेव स्वरूपं स त्वपश्यदवतारगम्
इति। ततमं परिपूर्णं ब्रह्म अपश्यदिति च। उभयस्याप्युत्तमाधिकारिभिरुपास्यत्वेन उपासात्रै-विध्यादित्यत्र सर्वगतत्वेनेति वदता भाष्यकृता व्यापकत्वपरतयाऽस्योदाहृतत्वाद् उभयविवक्षाया अवर्जनीयत्वाच्च। एतदुभयविधमेव सर्वगतत्वम् एतमस्यामित्यादावुच्यते। तत्तच्छक्तिनियामकतया सर्वान्तर्गतत्वस्य स्पष्टमप्रतिभासात्। आकाशवदन्तर्बहिर्व्यापकत्वस्य ‘एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकम्’ इति तद्भाष्यपर्यालोचनयावगमात्। अत एव टीकायामन्तर्बहिश्चेति श्रुतेरुदाहरिष्य-माणत्वात्। विवक्षितगुणोपपत्तेरित्यत्र स योऽत इत्युक्त्वा तत्त्वस्य विषयभूतसर्वगतत्वानतिरेकस्य टीकायां वक्ष्यमाणत्वाच्च। देशतः कालतश्चैव गुणतश्चातिपूर्तितः। अत इत्युच्यत इति तद्भाष्ये अतःपदेन निश्छिद्रतया व्यापकत्वस्योक्तत्वाच्च तदेवैतरेयके इति सुष्ठूक्तम्।
ननु ब्रह्म ततममित्यत्र निरवधिकानन्तपदार्थान्तर्गतत्वमुक्तम्। एतमस्यामित्यादौ पृथिव्यादि-कतिपयान्तर्गतत्वम्। अन्यत्रार्भकौकस्त्वसूत्रे कतिपयगतत्वेनाल्पस्थानगतत्वाशङ्कानुपपत्तेः। सर्वेषु भूतेष्वित्यत्र सर्वेष्वित्यनेन पूर्तौ भूतेष्विति भूतसर्ववृत्तित्वाभिप्रायेण सर्वभूतपदप्रयोगानुपपत्तेश्च। तथा च कथं तदेवेत्यधारणमिति चेन्न। एतमस्यामित्यादौ चेतनाचेतनसर्वगतत्वस्योक्तेः। सर्वेषु भूतेष्विति भूतपदस्य जीवपरत्वाद् एतमेव ब्रह्मेत्यन्तस्य एतमेवाखिलजगद्व्याप्तं पूर्णगुणात्मकमिति व्याख्यातत्वात्। स एष संवत्सरसंमान इत्युत्तरवाक्ये
‘संवसद्रतिदातृत्वाद् ब्रह्मा संवत्सराभिधः।
नियामकः स जीवानां सर्वेषां प्रभुरीश्वरः।
अनन्तमूर्तिर्ब्रह्मासावनन्तजगदास्थितः।
नियामकस्तस्य विष्णुस् तावद्रूपेषु संस्थितः’।
इति भाष्यदिशाऽनन्तपदार्थान्तर्गतत्वस्य स्पष्टप्रतिभासाच्च। स्मृतेश्चेत्युक्तगीतासमाख्यानाच्च। गीतायां गामाविश्येत्याद्युक्त्वा अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थित इत्युक्त्या चेतनाचेतनसर्वगतत्वप्रतीतेस् तदेवेत्येतदविरुद्धम्। अर्भकौकस्त्वशङ्का तु स्थूलसूक्ष्मतत्तत्पदार्थान्तर्गतत्वेन तत्तत्परिमाणत्वप्रसक्त्या विभूत्याक्षेपपरेत्यदोषः।
भावबोधे तु यद्यप्येतमस्यामित्यादौ कतिपयगतत्वमेवोक्तम्। तथापि तदेवैतरेयक इत्यत्र तदेकदेश-मेवेत्यर्थः। न च पृथिव्यादिकतिपयगतत्वस्यान्यनिष्ठत्वे ब्रह्म ततममित्युक्तसर्वगतत्वस्य अन्यनिष्ठत्वं कुत इति वाच्यम्। पृथिव्यादिभूतगतत्वस्यान्यनिष्ठत्वे विष्णोः सर्वगतत्वानुपपत्या वाक्यस्य निर्विषयत्वापातेन भूतगतस्यैव तदितरसर्वगतत्वावश्यम्भावेन सर्वगतोऽन्य एव स्यादिति वर्णितम्।
॥ तद्यदीति॥ एतमस्यामित्युक्तस्य सर्वगतस्य विष्णोरन्यत्वे ब्रह्म ततममित्युक्तस्यापि विष्णोरन्यत्वं स्यात्। ततमस्य विष्णोरन्यत्वे प्राचीनप्राणोऽप्यन्य एव स्यादित्यर्थः। ननु ततमस्य विष्णोरन्यत्वे प्राचीनप्राणस्य विष्ण्वन्यत्वं कुतः? ततमत्वस्य प्राचीनप्राणेऽश्रवणात्। प्राणस्य चतुर्थखण्डे श्रवणात्। ततमत्वस्य चतुर्थेऽध्याये त्रयोविंशतिखण्डे श्रवणादित्यत आह॥ एकप्रकरणत्वादिति॥ प्रपदखण्डे हि प्राक्सृष्टदेवानां वासार्थं प्रपदप्रवेशद्वारा विष्णुवाय्वोः सर्वदेवपरिवृत्तयोः शरीरेऽवस्थानमुक्त्वा शिरसि दक्षिणाक्षिहृदयकण्ठेषु विशेषसन्निधानस्योक्तत्वात्। तथा चोपनिषत्स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत। सैषा विदृतिर्नाम द्वाः। तदेतन्नान्दनम्। तस्य त्रय आवसथास्त्रयः स्वप्नाः। अयमावसथोऽयमावसथोऽयमावसथ इति। तथा च भाष्ये–
तस्मात्तेषां प्रवृत्यर्थं प्रवेक्ष्ये सह वायुना।
इति मत्वा विरिञ्चस्य शरीरं प्रविवेश सः।
मूर्धन्यनाड्या प्रथमं ब्रह्मवायुसमन्वितः।
अग्न्यादयस्तु तत्पश्चात् प्रविष्टास्संनियोजिताः।
प्रपदाभ्यां तथाऽन्येन रूपेण प्रविवेश ह॥
बिभर्ति देहं तेनैव मूर्धानं च विचेष्टयन्।
नारायणो वासुदेव इति द्वेधा व्यवस्थितः।
मूर्धाविष्टो वासुदेवस्तस्य चावसथास्त्रयः।
अक्षि कण्ठो हृदित्येवं त एव स्वप्ननामकाः॥
इति। तथा च खण्डद्वयस्यैकप्रकरणत्वान् मूर्धाविष्टस्य ततमस्यान्यत्वे प्रपदाविष्टः प्राचीनप्राणोऽप्यन्य इत्युपपद्यत एव।
ननु तृतीयानुवाके द्वितीयाध्याये प्रथमखण्डे प्राणो वंशः स्थविरः शाकल्य इत्युपक्रम्य तृतीये चत्वारः पुरुषा इत्यत्र एतमस्यामित्याद्याम्नायते। यद्ययं सर्वगतो विष्ण्वितरः स्यात् तदा उपक्रमस्थप्राणो विष्ण्वितरः स्यात्। तथा च जीवमुख्यप्राणलिङ्गादिति सूत्रे वंशप्राणस्य विष्णुत्वनिर्धारोऽयुक्तः स्यादिति साक्षादाक्षेपो युज्यत एव। किमर्थं ब्रह्म ततममिति वाक्यं मध्ये निधाय सङ्गतिप्रतिपादनमिति चेन्न। ब्रह्म ततममित्यस्यैकप्रकरणत्वेन ता वा एताः शीर्षन्नित्यनेन विषयवाक्येनैव साक्षात्सङ्गतिः। एतमस्या-मित्यस्य वंशप्राणपरामर्शकस्य ता वा एता इति विषयवाक्योक्तप्राणस्य विष्णुत्वे बाधकत्वेनोदाहृतेन प्राणो वंश इति वाक्येन गुणसूत्रेण च सङ्गतिरिति साक्षाद्विषयाक्षेपलाभाय ब्रह्म ततममिति वाक्यद्वारा सङ्गत्युक्तिः। किं च तत्रानुगमपदेन हेतुतयोक्तो ब्रह्मशब्दः सर्वगते ततमेऽवश्रूयते। ब्रह्मश्रुत्युक्तोऽप्ययं यद्यन्यः स्यात् तदा प्राचीनप्राणोऽप्यन्य इति हेतुमुखेनाक्षेपाय चैवं सङ्गत्युक्तिः। न च वंशप्राणे ब्रह्मशब्दः श्रूयत इत्यलं विस्तरेण॥
॥ विष्णोरन्यस्य वेति॥ एतमस्यामित्युक्तं सर्वगतत्वं किमादित्यादेरुत विष्णोरिति चिन्ता। तदर्थमादित्यादिप्रापकम् आदित्यादिश्रुतिर् आदित्यादिष्वनुक्तिश् चक्षुर्मयत्वादिलिङ्गानि अर्भकौकस्त्वसम्भोगप्राप्तिरूपविष्णुप्रापकबाधकमुत तद्बाध्यमिति। तदर्थमादित्यश्रुत्यादिकं निरवकाशं ब्रह्मशब्दादिकं सावकाशमुत विपरीतमिति॥ बह्वादित्यश्रुतेरिति॥ नन्वादित्यशब्दस्यान्तराधिकरणन्यायेन विष्णुवाचित्वात् कथं तेन तदन्यस्य प्राप्तिरिति चेन्न। संवत्सर एव प्रध्वंसयन्। तस्यैतस्यासावादित्यो रस इति संवत्सराधिपतित्वरूपसंवत्सरसारत्वलिङ्गात्। यश्चासावादित्य इति प्रसिद्धिद्योतकेन यच्छब्देनादश्शब्देनोपसम्बन्धात्। तस्मात् पुरुषं पुरुषं प्रत्यादित्यो भवतीति सर्वपुरुषाभिमुख्यलिङ्गा-च्चादित्यशब्दस्य प्रसिद्धादित्यपरत्वात्। अत एव भाष्येतस्यैतस्यासावादित्यो रस इत्यादिना इति लिङ्गघटितवाक्यमुदाहृतमित्यभिप्रेत्य टीकायामादिशब्दार्थत्वेन लिङ्गघटिते वाक्ये उदाहृत्य बह्वादित्यश्रुतेरित्युक्तम्। आदिशब्दस्यार्थान्तरमाह॥ सूर्य इति॥ अर्थान्तरमाह॥ एतमस्यामिति॥ अन्यथेति॥ आदित्यः सर्वगतो न चेदित्यर्थः॥ अत एवेति॥ आदित्येऽनुक्तत्वलिङ्गादेवेत्यर्थः। यद्यत्रादित्यश्रुतिलिङ्गानां तदन्तर्यामिनिष्ठत्वविवक्षा तर्हि अन्तर्गतत्वोक्तिप्रस्तावे सजातीयचन्द्रादावुक्त्वा आदित्य इत्युक्त्ययोगादिति भावः। अग्रे चक्षुर्मयत्वादेश्च जीव इत्युक्तेस्तदनुसारेणादित्यस्येत्येतदुपलक्षणं मत्वाऽऽह॥ सर्वजीवानामिति॥ तच्चैतल्लिङ्गमिति॥ आनन्दमयाधिकरणे मनोमयप्राणमयादिशब्दानां तत्तत्कोशगततत्तन्नियामकब्रह्मचैतन्ये प्राचुर्यविवक्षया सावकशत्वस्योक्तत्वात् तन्न्यायेनेति वा। अन्तिम-प्रकरणे उपासात्रैविध्यादित्युक्तन्यायेन चक्षुरादिप्रधानत्वेन एतल्लिङ्गमन्तर्यामिविषयमभ्युपेत्य विष्णुपक्षे प्रबलबाधकमाह॥ तस्येति॥ सर्वेषु भूतेष्वित्युक्तेति॥ सर्वेषु भूतेषु इत्यन्तोक्तेत्यर्थः। एवं निरवकाशचक्षुर्मयत्वादिलिङ्गेन विष्णुत्वव्यावृत्तौ जीवत्वसिद्धौ च चक्षुर्मयत्वादिकमपि मयटो विकारार्थ-कत्वमादाय चक्षुरादिजन्यज्ञानत्वरूपमेव भवेत्। तच्च न विष्णौ युज्यत इत्यभ्युच्चययुक्तिमाह॥ चक्षुर्मयत्वादीति॥ तदुक्तं सुधायां ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकानि? उच्यते हेत्वन्तरेण पूर्वपक्षे सति अभ्युच्चयमात्रत्वेन तेषामुपन्यास इति। सूत्रे तत्तु इत्यनुवर्तते। सर्व-त्रेत्यावर्तते। आद्यस्य क्षित्यादिष्वित्यर्थः। द्वितीयस्य श्रुत्यादावित्यर्थः। तथा च सर्वत्र पृथिव्यादौ उच्यमानो नारायण एव। सर्वत्र श्रुत्यादौ तस्मिन्नेव प्रसिद्धब्रह्मशब्दस्यात्रोपदेशादिति सूत्रार्थमभिप्रेत्याह॥ सर्वत्र पृथिव्यादिष्वित्यादिना। प्रत्यधिकरणमनुवृत्तस्य तदित्यस्य जिज्ञासासूत्रस्थब्रह्मपरामर्शकत्वाद् ब्रह्मपदस्य च ‘स विष्णुराह हि’ ‘तं ब्रह्मेत्याचक्षते’ इति निरन्तरदेवमीमांसोक्तविष्ण्वर्थकत्वाद् भाष्ये च सर्वत्र विष्णुरेवेत्यर्थोक्तावपि इह नारायणपदप्रयोगसूचितं प्रमाणमाह॥ तथा च श्रुतिरिति॥ भाष्ये नारायणपदोपादानन्तु भूतेष्वित्युक्त्या बहिर्व्याप्तिरत्र नोच्यत इति भ्रमनिरासायेति ज्ञातव्यम्। विषयवाक्यं पूर्वमेवोदाहर्तव्यम्, इहोदाहरणे किं कारणम् ? तथात्वे वा एतमस्यामित्यारभ्योदाहर्तव्यम्, न तु स यश्चायमित्यारभ्य इत्यत आह॥ अशरीत्वेति॥
तत्त्वसुबोधिनी
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ अर्थस्य शब्दात्मकत्वाभावात् शब्दस्य कथं लिङ्गात्मकत्वं ? प्रतिपादकत्वविवक्षायामपि सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे। धर्मविशिष्टधर्मिवाचिनामिति। लिङ्गात्मकानामित्येवोक्ते उभयत्र प्रसिद्धानां लिङ्गात्मकानामिति प्रतीतिः स्यात्। तथा चासङ्गतिरित्यत आह। अन्यत्रेति। अत्रेति। केवललिङ्गस्यान्यत्र प्रसिद्ध्यभावादित्यतः श्रुतिसहपठितेत्युक्तम्। श्रुत्यादिसङ्गतिमिति। इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तश्रुत्या तत्सूत्रांशेन च सङ्गतिमित्यर्थः। तदैवैतरेयक इति। ननु ब्रह्म ततममित्यत्र ततममित्यनेन निरवधिकसर्वगतत्वमभि-प्रेतम्। तस्यैवापोसनोपयोगात्। एतमस्यामित्यत्र तु अर्भकौकस्त्वरूपं भूतवृत्तित्वमात्रमुच्यते। अन्यथा सर्वेष्वित्युक्तत्वेन भूतशब्दवैयर्थ्यं स्यात्। तथा च तयोरेकरूपत्वाभावात् कथं तदेवेत्युक्तम्, इति चेन् न। तदेवेत्यत्र तदेकदेशरूपमित्यर्थः। एवमपि पूर्वाक्षेपः सम्भवति। तथाहि अत्रोक्तभूतगतत्वस्य एतमेवेत्यवधारणबलेनान्यमात्रनिष्ठत्वे विष्णोर् भूतगतत्वापगमने निरवधिकसर्वगतत्वं न स्यात्। निरवधिक-सर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति ब्रह्म ततममित्याद्युक्तसर्वगतत्वम् एतद्वाक्यप्रतिपादितभूतगतस्यैव स्यादित्युपपादनसम्भवादिति भावः। एतं ह्येव एतमेव बह्वृचा ऋग्वेदिनः। महत्युक्थे महत्युक्थनामक-बृहतीसहस्रे मीमांसन्ते जानन्ति। अध्वर्यवः यजुर्वेदिनश् छन्दोगाः सामवेदिनः महाव्रताख्यकर्माङ्गभूत-स्तोत्रे। अस्यां पृथिव्याम् इति विषयवाक्यार्थः। बह्वादित्यश्रुतेरिति। न चान्तराधिकरणन्यायेन आदित्यश्रुतेर् विष्णुपरत्वात् कथं पूर्वपक्षावतार इति वाच्यम्। संवत्सराधिपतित्वरूपसंवत्सरसारत्वादि-बह्वादित्यादिलिङ्गानाम् अत्र सत्वेन पूर्वपक्षसम्भवादिति भावः। भाष्यगतादिपदार्थमाह। सूर्य आत्मेति। क्षित्यादिषूक्त्वा। सर्वगतस्थितिमिति शेषः। अस्य सर्वगतस्य। अन्यथेति। आदित्यस्य सर्वगतत्वाभावे इत्यर्थः। ननु सर्वेषु भूतेषु इत्यनेनैव आदित्ये सर्वगतस्य स्थितेर् उक्तत्वात् पुनः नादित्ये एतमित्युक्ति-रित्यत आह। सजातीयेति। अन्यथा चन्द्रमस्येतम् इत्युक्तिरपि न स्यादिति भावः। अत एवेति। आदित्ये अनुक्तत्वलिङ्गादेवेत्यर्थः। अनेन लिङ्गेन आदित्यशब्दस्य आदित्यस्थितपरत्वावगमात्। अन्तर्यामिपरत्वे तद्विरुद्धमिति भावः। पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्त-मित्युक्तम्। इदानीं जीवधर्मत्वात् तस्य तदपि न युक्तमित्याह॥ चक्षुर्मयत्वाद्ययोगाच्चेति॥ नित्यज्ञान-वदन्तर्यामिणो ज्ञानकारणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थः। स यश्चायमित्येतद्युक्तिमात्रप्रदर्शकमिति भ्रमं वारयितुमाह। स यश्चायमित्यादिनेति। अस्तु सर्वगते ब्रह्मशब्दोपदेशस् ततः किमित्यत आह। ब्रह्मेति। ननु भाष्ये नारायणशब्दः किमर्थं प्रयुक्त इत्यतस् तैत्तिरीयश्रुतौ स्पष्टं नारायणे सर्वगतत्वस्य उक्तत्वात् तत्प्रयोग इति भावेन तैत्तिरीयश्रुतिमुदाहरति। तथा च श्रुतिरिति। अशरीरत्वयुक्तिसूचनार्थं चेति। विषयवाक्यप्रदर्शनमात्रार्थत्वे एतमस्यामित्यादिनेत्यवक्ष्यत्। इयं युक्तिरनुपपत्तेस्तु न शारीर इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽप्यभिप्रेता। अन्यथा जीव इत्येव ब्रूयादिति भावः। अशरीरत्वस्य आदित्यादावेवावकाशाभावमाह। न हि नारायणेतरेति। अनेन श्रीतत्वादौ व्यभिचारोऽपि परास्तः।
वाक्यार्थमञ्जरी
॥ श्रीगुरुभ्यो नमः॥ शब्दानां लिङ्गात्मकत्वं नाम तत्स्वरूपत्वं वा तद्वाचकत्वं वा। नाद्यः। शब्दस्यार्थस्वरूपत्वापत्तेः। न द्वितीयः। लिङ्गवाचिनां सर्वगतत्वमित्यादीनां भगवति समन्वया-नभिधानादित्यत आह॥ धर्मविशिष्टेति॥ सहपठितेति॥ स्वतःप्रसिद्ध्यभावादियमुक्तिः। अत्र लिङ्गात्मकेति पादसङ्गतिः। शेषं पूर्ववत्॥ तदेवेति॥ तदेकदेशभूतमेवेत्यर्थः। एतमेवेत्यवधारणेन विष्णोरन्यस्यैव सर्वभूतगतत्वावगमाद् विष्णौ भूतान्वयसत्वेऽपि न पूर्वोक्तनिरुपचरितसर्वगतत्वमिति भावः॥ एतं ह्येवेति॥ ऋग्वेदिन एतमेव परमात्मानं महदुक्थनामकबृहतीसहस्रे यजुर्वेदिनोऽग्नौ सामवेदिनो महाव्रताख्यकर्माङ्गभूतस्तोत्रे मीमांसन्ते विचारयन्ति। अस्यां पृथिव्याम्। वनस्पतिषु वृक्षेषु। भूतेषु प्राणेषु। ब्रह्म पूर्णम्। आचक्षते वदन्ति॥ आम्नायते अभ्यस्यते अभिधीयत इति यावत्॥ एकप्रकरणत्वादिति॥ ब्रह्म ततमम् एतं ह्येवेत्यनयोरेकप्रकरणस्थत्वादित्यर्थः। ब्रह्म ततममपश्यदित्युक्तिः प्राणाख्यहरौ तेन वाक्येन सर्वगतत्वोक्तिर् आदित्यश्रुतिरुपलक्षणम्। चक्षुर्मयत्वादि-जीवलिङ्गं चेत्यपि ग्राह्यम्। तस्यैतस्यासावादित्यो रसः स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात्। तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवतीत्यस्यायमर्थः। तस्यैतस्य संवत्सरस्य सर्वस्यादित्वात्सर्वस्मिंस्ततत्वात्सर्वजीवनियामकत्वादादित्यनामाऽत्र प्रद्युम्नो रसः श्रेष्ठः। स यश्चायमशरीरः प्राकृतदेहरहितः। प्रज्ञात्मा ज्ञानात्मकोऽनिरुद्धः। यश्चासावादित्ये गतः प्रद्युम्न एतत्स्थानद्वयगतं भगवद्रूपमेकमिति जानीयात्। तस्मात्पुरुषगतानिरुद्धस्यादित्यगतप्रद्युम्नस्य चैक्यादादित्य पुरुषं पुरुषं प्रतिपुरुषमभिमुखो भवतीति॥ सूर्य इति॥ सूरिभिः प्राप्यत्वात्सूर्यो हरिर् जगतः जङ्गमस्य तस्थुषः स्थावरस्यात्मान्तर्नियामक इत्यर्थः। अत एव विशिष्यादित्येऽनुक्तत्वलिङ्गेनादित्यशब्दस्यादित्या-नन्तर्गतपरत्वावगमेन तदन्तर्गतान्तर्यामिपरत्वकथनमयुक्तमिति भावः। छन्दोमयः वेदप्रचुरः॥ अल्पौक-स्त्वेति॥ अल्पम् ओकः स्थानं यस्य तस्य भाव अल्पौकस्त्वं तच्च सर्वगतस्यान्तर्यामिणो ब्रह्माण्डस्य सर्षपस्थत्वमिवायुक्तमित्यर्थः। चक्षुर्मयत्वाद्ययोगाच्चेति॥ नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादि-प्राचुर्यायोगाच्चेत्यर्थः॥
ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ॥ सर्वत्र पृथिव्यादिषूच्यमानं ब्रह्मैव। श्रुत्यादौ ब्रह्मण्येव प्रसिद्ध-ब्रह्मशब्दस्य एतमेव ब्रह्मेत्याचक्षत इत्यादिना तत्रोपदेशादित्यर्थः। नारायणपदोपादानसूचितां श्रुतिमाह॥ तथा चेति॥ यत् किञ्चिदल्पं यच्च सर्वं महज्जगत् प्रत्यक्षेण दृश्यते शब्देन ज्ञायतेऽपि च नारायणस्त-त्सर्वमन्तर्बहिश्चाभिव्याप्य स्थित इत्यर्थः। स्वत इत्यनेन श्रीतत्त्वादौ व्यभिचारपरिहारः॥
विवृतिः
अर्थस्य शब्दात्मकत्वाभावाच्छब्दस्य कथं लिङ्गात्मकत्वं? प्रतिपादकत्वविवक्षायामपि, सर्वगतत्वमित्यादिलिङ्गवाचकशब्दानां विष्णुपरत्वायोग इत्यतो व्याचष्टे॥ धर्मविशिष्टधर्मिवाचिनामिति॥ लिङ्गात्मकानामित्येवोक्ते उभय प्रसिद्धानां लिङ्गात्मकानामिति प्रतीतिः स्यात्। तथा च असङ्गतिरित्यत आह॥ अन्यत्रेति॥ अत्रेति॥ केवललिङ्गस्यान्यत्र प्रसिद्ध्यभावादित्यतः श्रुतिसहपठितेत्युक्तम्॥ श्रुत्यादिसङ्गतिमिति॥ इहाश्रितत्वादित्यव्यवहितपूर्वसूत्रोपात्तश्रुत्या तत्सूत्रांशेन च सङ्गतिमित्यर्थः॥ तदेवैतरेयक इति॥ ननु ब्रह्म ततममित्यत्र ततममित्यनेन निरवधिकसर्वगतत्वमभिप्रेतं तस्यैवो-पासनोपयोगात्॥ एतमस्यामित्यत्र तु अर्भकौकस्त्वरूपं भूतवृत्तित्वमात्रमुच्यते। अन्यथा सर्वेष्वित्युक्तत्वेन भूतशब्दस्य वैयर्थ्यं स्यात्॥ तथा च तयोरेकरूपत्वाभावात्कथं तदेवेत्युक्तमिति चेन्न॥ तदेवेत्यत्र तदेकदेशरूपमित्यर्थः॥ एवमपि पूर्वाक्षेपः सम्भवति। तथाहि अत्रोक्तभूतगतत्वस्यैतमेवेत्यवधारण-बलेनान्यमात्रनिष्ठत्वे विष्णोर्भूतगतत्वापगमेन निरवधिकसर्वगतत्वं न स्यात्। निरवधिकसर्वगतत्वोपेतं च श्रुत्यादिसिद्धमिति। ब्रह्म ततममित्युक्तसर्वगतत्वमपि एतद्वाक्यप्रतिपादितभूतगतस्यैव स्यादि-त्युपपादनसम्भवादिति भावः॥ एतं ह्येव, एतमेव बह्वृचा ऋग्वेदिनः महत्युक्थे महत्युक्थनामक-बृहतीसहस्रे मीमांसन्ते जानन्ति॥ अध्वर्यवः यजुर्वेदिनः, छन्दोगाः सामवेदिनो, महाव्रते महाव्रताख्य-कर्माङ्गभूतस्तोत्रे। अस्यां पृथिव्यामिति विषयवाक्यार्थः। बह्वादित्यश्रुतेरिति॥ न चान्तराधिकरण-न्यायेनादित्यश्रुतेर्विष्णुपरत्वात् कथं पूर्वपक्षावतार इति वाच्यम्॥ संवत्सराधिपतित्वरूपसंवत्सर-सारत्वादिबह्वादित्यलिङ्गानामत्र सत्वेन पूर्वपक्षसम्भवादिति भावः॥ भाष्यगतादिपदार्थमाह॥ सूर्य आत्मेति॥ क्षित्यादिषूक्त्वा सर्वगतस्थितिमिति शेषः॥ अस्य सर्वगतस्य॥ अन्यथेति॥ आदित्यस्य सर्वगतत्वाभावे इत्यर्थः॥ ननु सर्वेषु भूतेष्वित्यनेनैवादित्ये सर्वगतस्य स्थितेरुक्तत्वात्पुनर्नादित्ये एतमित्युक्तिरित्यत आह॥ सजातीयेति॥ अन्यथा चन्द्रमस्येतमित्युक्तिरपि न स्यादिति भावः॥ अत एवेति॥ आदित्ये अनुक्तत्वलिङ्गादेवेत्यर्थः॥ अनेन लिङ्गेनादित्यशब्दस्यादित्यसंस्थित-परत्वावगमादन्तर्यामिपरत्वे तद्विरुद्धमिति भावः॥ पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्तमित्युक्तम्। इदानीं जीवधर्मत्वात्तस्य तदपि न युक्तमित्याह॥ चक्षुर्मयत्वाद्ययोगाच्चेति॥ नित्यज्ञानवदन्तर्यामिणो ज्ञानकरणचक्षुरादिप्राचुर्यायोगाच्चेत्यर्थः॥ स यश्चायमित्येतद्युक्तिमात्रप्रदर्शकमिति भ्रमं वारयितुमाह॥ स यश्चायमित्यादिनेति॥ अस्तु सर्वगते ब्रह्मशब्दोपदेशस् ततः किमित्यत आह। ब्रह्मेति॥ ननु भाष्ये नारायणशब्दः किमर्थं प्रयुक्त इत्यतस् तैत्तिरीयकश्रुतौ स्पष्टं नारायणे सर्वगतत्वस्योक्तत्वात्तत्प्रयोग इति भावेन तैत्तिरीयश्रुतिमुदाहरति॥ तथा च श्रुतिरिति॥ अशरीरत्वयुक्तिसूचनार्थं चेति॥ विषयवाक्यप्रदर्शनमात्रार्थत्वे एतमस्यामित्यादिनेत्यवक्षत्। इयं युक्तिरनुपपत्तेस्तु न शारीर इति सूत्रे शारीरपदं प्रयुञ्जानस्य सूत्रकृतोऽभिप्रेता॥ अन्यथा जीव इत्येव ब्रूयादिति भावः॥ अशरीरत्वस्य आदित्यादावेवावकाशाभावमाह॥ न हि नारायणेतरेति॥ अनेन श्रीतत्वादौ व्यभिचारोऽपि परास्तः।
ॐ विवक्षितगुणोपपत्तेश्र्च ॐ
सूत्रभाष्यम्
॥ ॐ विवक्षितगुणोपपत्तेश्च ॐ॥ २॥
‘स योऽतोऽश्रुत’ (ऐ.आ.३-२-४) इत्यादि। स हि ‘न ते विष्णो जायमान’ (ऋ.सं. ७-९९-२) इत्यादिनाऽश्रुतत्वदिगुणकः। ‘स सविता स वायुः स इन्द्रः सोऽश्रुतः सोऽदृष्टो यो हरिर्यः परमो यो विष्णुर्योऽनन्त’ इत्यादि चतुर्वेदशिखायाम्॥ २॥
सत्तर्कदीपावली
हेत्वन्तरेणैतमर्थं साधयत्सूत्रमुपन्यस्य व्याचष्टे॥ विवक्षितेत्यादिना॥ एतमस्यामेतं दिवीत्यादिना यः प्रस्तुतस् तस्य उपरि अश्रुतत्वादिगुणा वक्ष्यन्ते। स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता मन्ता द्रष्टाऽदेष्टा घोष्टा विज्ञाता प्रज्ञातेति। तत्र साकल्येन श्रोतुमशक्यत्वादयो युगपत्सर्वमन्तृत्वादयो गुणा न हि विष्णुमन्तरेणान्यस्य सम्भाव्यन्ते। न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप। स सर्वविदित्यादिश्रुतेः। श्रोता मन्तेत्यादिना श्रवणमननादिषु जीवश्रोत्रादिव्यवस्थाभावश्च विष्णोः प्रतिपाद्यते। सर्वतः पश्यति सर्वतः शृृणोति विश्वतश्चक्षुरित्यादिश्रुतेः।
तत्त्वप्रदीपिका
अतो व्याप्तः, अत सातत्यगमन इति धातोः। अन्यैरश्रुतः, अतः स्वयमेव स्वात्मानं स्वातन्त्र्येण शृृणोति। ‘‘न ऋते त्वत्क्रियत’’ इत्यादिश्रुतेः। ‘अगतः’ अप्राप्तः। सर्वात्मन ‘आदेष्टा’ वक्ता, ‘आघोष्टा’ नियोक्ता।
‘‘देशतः कालतश्चैव गुणतश्चातिपूर्तितः।
अत इत्युच्यते विष्णुस्सन्ततो ह्यत उच्यते॥
तृतीयवर्णोऽतिशये यतस्तेनातिरेव वा।
अत इत्युच्यते विष्णुस्सम्यक् श्रुत्याद्यशक्यतः॥
पूर्णत्वाद्भगवान्विष्णुरश्रुतत्वादिनोदितः।
समस्सर्वेषु रूपेषु सर्वजीवनियामकः।
इति विद्यात्परं विष्णुं मुच्यतेऽनेन संसृतेरि’’त्यैतरेयसंहितायाम्॥
विवक्षितगुणोपपत्तेश्चेति प्रसिद्धार्थत्वात्सूत्रभाष्ययोरेकीभावः। ये तु श्रुतीनां ब्रह्मगुणेषु तात्पर्याभावं वदन्ति तन्निरासाय विवक्षितपदमुपनिबबन्ध॥ न हि प्रतिवाक्यमुदीर्यमाणा गुणा वेदैरविवक्षिता इति शोभते। द्रव्यादिपदैरपि हि गुणविशिष्टमेवाभिधीयते नाविशिष्टम्। अन्यथा द्रव्यत्वादीनामेवाभावप्रसङ्गात्। ब्रह्मादिशब्दाश्च पूर्णत्वादिविशिष्टवाचकाः। न च वाक्यार्थः क्वचिदविशिष्ट इति युक्तं, प्रमाणाभावात्। न च प्रामाण्यानुपपत्त्या सत्यादिवाक्यानामखण्डार्थत्वम्। सत्यादिगुणविशिष्टवाचकत्व एव सत्यादिवाक्यानां प्रामाण्योपपत्तेः। निर्गुणविषयत्वेऽनुपपत्तेश्च। ‘प्रकृष्टप्रकाशश्चन्द्रमा’ इत्यादिवत्। न हि तत्र स्वरूपमात्रं लक्ष्यते, तस्य पूर्वमेव सिद्धत्वात्। नक्षत्रादिवैलक्षण्यगुणस्यैव प्रष्टुर्बुभुत्सितत्वात्। तथा च तदनुक्तावसङ्गत-मुत्तरवाक्यं स्यादिति॥
तत्त्वप्रकाशिका
युक्त्यन्तरेण विष्णोरेवात्रोक्तसर्वगतत्वं प्रतिपादयत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति॥ विवक्षितेति॥ स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता मन्ता द्रष्टाऽऽदेष्टाऽऽघोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुष इति सर्वगते अश्रुतत्वादिगुणश्रवणात्। तेषां च विष्णोरेव योग्यत्वेन तस्मिन्नेवोपपत्तेर् अन्यत्रानुपपत्तेश्च विष्णुरेवायं सर्वगत इति भावः। विवक्षिता इति वक्तुं योग्याः। नन्वेतद्गुणानां कुतो विष्णुनिष्ठत्वमित्यत आह॥ स हीति॥ ते महिम्नः परमन्तं कोऽपि श्रोत्रादिना नापेत्यर्थः। अत्र मुख्यतोऽश्रुतत्वादिकं विष्णोर्न श्रूयत इत्यतः स्पष्टश्रुतिं चाऽऽह॥ स इति॥ अत्रातत्वस्यादिमत्त्वेऽपि तस्य सर्वगतत्वानतिरिक्तत्वेन साध्यत्वादश्रुतत्वादीनामेव ग्रहणम्॥ २॥
गुर्वर्थदीपिका
उपनिषदेकगम्यपरमात्मगुणानामन्तगमनं श्रोत्रेण श्रुत्वा वा श्रोत्रानुगृहीतमनसा मत्वा वा स्यादित्यतः श्रोत्रादिनेत्युक्तम्। अतत्वस्याऽऽदिमत्वेऽपीत्यत्र ‘‘अत सातत्यगमन’’ इति धातोः पचाद्यचि कृतेऽतः सर्वगतस्तस्य भावोऽतत्वं तस्याऽऽदिमत्वे ‘‘स योऽतोऽश्रुत’’ इति वाक्यस्याऽऽदिमत्वेऽपीत्यर्थः।
भावबोधः
विष्णोरेव योग्यत्वेनेत्युक्तस्योत्सूत्रितत्वशङ्कानिरासायाऽऽह। विवक्षिता इति वक्तुं योग्या इति॥ अनेनादित्यग्रहणे तेषां साकल्येन श्रुतत्वाश्रुतत्वादिगुणानां वक्तुं योग्यत्वेन ‘‘स योऽतोऽश्रुत’’ इति वाक्यम् अयोग्यार्थाभिधायकत्वेन प्रमाणं न स्यात्। सर्वगतत्वेन विष्णुग्रहणे तु तस्य साकल्येन श्रुतत्वाद्यभावाद् अश्रुतत्वादिसम्भवेन नैवमिति सूत्रतात्पर्यम्। अन्यथा अश्रुतत्वादिगुणोपपत्तेरित्येव वक्तव्यं, स्पष्टार्थकञ्चैवं सति सूत्रं भवति। नाविवक्षितपदप्रयोग इत्युक्तं भवति। सूत्रे उपपत्तेरित्यनेन विशेषणीभूतत्वस्यैव स्वर्गी ध्वस्त इत्यादिवदन्वपर्यवसानमित्यपि सूचितं भवति। न ते विष्ण्वित्यस्या-श्रुतत्वादिप्रतिपादकत्वलाभाय तद्वाक्यं श्रोत्रादिनेत्यध्याहृत्य योजितम्। सर्वगतत्वानतिरिक्तत्वेनेति। ‘‘अत सातत्यगमने’’ इति धातोः सन्ततो ह्यत उच्यत इति वचनाच्चाऽतत्त्वं सर्वगतत्वानतिरिक्तमित्यर्थः। अत्र विष्णुरेवैतमस्यामिति वाक्योक्तसर्वगतस् तन्निष्ठतयोक्ताश्रुतत्वादिगुणयोग्यत्वादित्यनुमानमभिप्रेतं विष्णोरेव साध्यत्वे साध्याविशिष्टताशङ्का स्यात्। अत्र तदनुदयात्। अत एवानुपदमेव अश्रुतत्वादिलिङ्गैश्च विष्णुः सर्वगत इति सर्वगतत्वस्यैव साध्यत्वं दर्शयिष्यति। अश्रुतत्वादीनामेव ग्रहणमिति इत्यादिनाऽश्रुतत्वादिगुण इति भाष्य इत्यर्थः।
भावदीपः
ॐ विवक्षितगुणोपपत्तेश्च ॐ॥ युक्त्यन्तरेणेति॥ सौत्रचशब्दः पूर्वसमुच्चय इति भावः। एवमग्रेऽपि॥ अत्रोक्तेति॥ सर्वशरीरस्थत्वरूपेत्यर्थः। भाष्यस्य सूत्रेणान्वयं मत्त्वा योजयति॥ स योऽत इत्यादिना॥ अतः व्याप्तः
‘देशतः कालतश्चैव गुणतश्चापि पूर्तितः॥
अत इत्युच्यते विष्णुः सन्ततो ह्यत उच्यत’
इति तद्भाष्योक्तेः। अत सातत्यगमने पचाद्यच्। अश्रुतः साकल्येन। अगतोऽप्राप्तो ऽमतो मननाविषयो ऽनतः स्वतन्त्रः। अनादिष्टः साकल्येनानुपदिष्ट आदेष्टा वक्ताऽऽघोष्टा नियोक्ता अन्तरपुरुषो ऽन्तःस्थपुरुषः। शिष्टं स्पष्टम्। उपपत्तेरित्युक्तिलब्धमाह॥ अन्यत्रेति॥ अयोग्यत्वेनेति भावः। अत एव श्रुतावन्येषां साकल्येन श्रुतत्वादिकमेव विद्यत इति वक्तुं श्रोता मन्तेत्याद्युक्तिः। सर्वत्रेति तत्त्विति चानुवृत्त्याऽर्थमाह॥ विष्णुरेवेति॥ योग्यत्वेनेति प्रागुक्तं तत्कस्यार्थ इत्यत आह॥ विवक्षिता इति॥ वक्तुं योग्ये हि विवक्षा भवतीति भावः। तत्वप्रदीपे तु विवक्षितास्तात्पर्यविषया इत्यर्थ उक्तः। जन्मादिसूत्रे यथाश्रुतस्यैवार्थोक्तावपीहोपयोगितयाऽध्याहृत्यार्थमाह॥ श्रोत्रादिनेति॥ स्पष्टश्रुतिं चेति॥ अश्रुतत्वादिकं विष्णोर्न सर्वात्मना किं त्वपरिच्छिन्नत्वात् कार्त्स्न्येनैवेति दर्शयितुं श्रुतावनन्त इत्युक्तिः। भाष्ये इत्यादीत्यादिना अतत्वादिगुण इति वाच्येऽश्रुतत्वादिगुण इत्युक्तिस्तथा सोऽश्नुत इत्यादिश्रुत्युक्तिश्च कुत इत्यत आह॥ अत्रेति॥ स योऽत इति श्रुतावित्यर्थः॥ साध्यत्वादिति॥ साध्यकोटिनिविष्टत्वात् सन्दिग्धत्वादिति यावत्॥ ग्रहणमिति॥ भाष्य इत्यर्थः॥
अभिनवचन्द्रिका
(सू.२) युक्त्यन्तरेणेति॥ अत्रोक्तसर्वगतत्वं विष्णोरेवेति युक्त्यन्तरेण प्रतिपादयत्सूत्रमित्यर्थः। एतेन ‘विष्णोरत्रोक्तं सर्वगतत्व’मित्येतावता पूर्णत्वेन एवकारवैयर्थ्यमिति परास्तम्। सूत्रार्थानुवादपरेऽस्मिन् ग्रन्थे एवशब्दस्याऽपेक्षितत्वात्। स योऽतोऽश्रुत इति॥ सः यः प्रकृत परमात्मा, अतः=व्याप्तः, अत्यधिक इति वा। अश्रुतः=सर्वात्मना श्रोतुमशक्यः पूर्णत्वात्, अगतः=सर्वात्मनाऽज्ञातः। अमतः= सर्वात्मना मननाविषयः। अनतः=स्वतन्त्रः। अदृष्टः=प्रत्यक्षेण, अविज्ञातः=विशेषण सर्वात्मना। अनादिष्टः=अनुपदिष्टः सर्वात्मना। स्वयं सर्वस्य श्रोता, मन्ता, द्रष्टा, उपदेष्टा, घोष्टा शब्दं कुर्वन्, विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषो ऽन्तर्यामीति श्रुत्यर्थः। विवक्षितेति सूत्रपदार्थाप्रतीतेः प्रतीकमुपादाय व्याचष्टे। विवक्षिता इति॥ अत्र टीकायां ‘श्रोत्रादिना नापेत्यर्थः’ इत्यनन्तरं ‘अत्रातत्वस्यादिमत्वेऽपि तस्य सर्वगतत्वानतिरिक्तत्वेन साध्यत्वाद् अश्रुतत्वादीनामेव ग्रहणम्’ इति लेखकदोषात् ‘स सविते’ति श्रुतिप्रतीकग्रहणानन्तरं पतितं द्रष्टव्यम्। अवश्यं चैतदैवं विज्ञेयम्– ‘स हि न ते विष्णो जायमान इति अश्रुतत्वादिगुण’ इत्ययुक्तम्। अतत्वगुणस्याऽऽदिमत्वेन ‘अतत्वादिगुण’ इति वक्तव्यत्वादित्याशङ्कापरिहारकवाक्यस्य अत्रैवोचितत्वात्।
वाक्यार्थमुक्तावली
ॐ विवक्षितगुणोपपत्तेश्च ॐ॥ सूत्रे तत्त्वित्यनुवर्तते। सर्वत्र गत इति च। असम्भवातिव्याप्ति-परिहारायोपपत्तिपदम्। तदुपपादकं विवक्षितपदम्। तथा च विवक्षितानां श्रुतिस्मृतिभिस्तस्मिन् विष्णावेव विवक्षितानां वक्तुमुचितानाम् अन्यत्र वक्तुमयोग्यानां गुणानामश्रुतत्वादीनाम् अस्मिन्नुपपत्ते-रन्यत्रानुपपत्तेर्विष्णुरेव सर्वगत इति सूत्रार्थमभिप्रेत्याह॥ स योऽत इत्यादिना॥ विवक्षितानां तात्पर्यविषयाणामिति वा। वक्तुं योग्यानां वक्ष्यमाणानामुपसंहारस्थानामिति वाऽर्थः॥ मुखत इति॥ अध्याहारेण विनेत्यर्थः। सर्वगतत्वानतिरिक्तत्वेनेति॥ देशतः कालतश्चैव गुणतश्चातिपूर्तितः। अत इत्यच्युत इति तद्भाष्योक्तेरन्यथा साध्याविशिष्टता स्यादिति भावः।
तत्त्वसुबोधिनी
स य इत्यस्य अयमर्थः। अतः व्याप्तो ऽश्रुतः सर्वात्मना श्रोतुमशक्यः। अगतः सर्वात्मनाऽ-ज्ञातः। अमतः मननाविषयो ऽनतः स्वतन्त्रो ऽदृष्टः सर्वात्मना। अनादिष्टो ऽनुपदिष्टः सर्वात्मना। आदेष्टा उपदेष्टा। आघोष्टा शब्दं कुर्वन्। अन्तरपुरुषो ऽन्तर्यामी पूर्णश्च। विष्णोरेव योग्यत्वेन इत्युक्तस्य उत्सूत्रितत्वशङ्कानिरासायाह। विवक्षिता इति वक्तुं योग्या इति। अनेन आदित्यग्रहणे तेषां साकल्येन श्रुतत्वाश्रुतत्वादिगुणानां तेषु वक्तुं योग्यत्वेन स योऽत इति वाक्यम् अयोग्यार्थाभि-धायकत्वेनाप्रमाणं स्यात्। सर्वगतत्वेन विष्णुग्रहणे तु तस्य साकल्येन श्रुतत्वाद्यभावाद् अश्रुतत्वादिसम्भवेन नानुपपत्तिः। अन्यथा अश्रुतत्वादिगुणोपपत्तेरिति वक्तव्यमिति भावः। न ते विष्णो इत्यस्य अश्रुतत्वादि-प्रतिपादकत्वलाभाय तद्वाक्यं श्रोत्रादिनेत्याध्याहृत्य योजितम्। ननु प्रथमश्रुतमतत्वं परित्यज्य अश्रुतत्वादि कुतो गृह्यत इत्यत आह। अतत्वस्येति। सर्वगतत्वानतिरिक्तत्वेनेति। अत सातत्यगमने इति धातोः सन्ततो ह्यत उच्यत इति वचनाच्चातत्वं सर्वगतत्वानतिरिक्तमित्यर्थः। न चानन्दमयोऽभ्यासा-दित्यत्रेव सर्वगतः विष्णुर् अतत्वादिति प्रयोगे कथमतत्वस्य साध्यत्वमिति वाच्यम्। अत्र विष्णुर् एतमस्यामिति वाक्योक्तसर्वगतस् तन्निष्ठतयोक्ताश्रुतत्वादिगुणयोग्यत्वादिति प्रयोगोऽभिप्रेत इति नानुपपत्तिः। विष्णुं पक्षीकृत्य सर्वगतत्वस्य साध्यत्वे अतत्वस्य हेतुत्वे च साध्याविशेषः स्यादिति भावः। अश्रुतत्वादीनामेव ग्रहणमिति। इत्यादिनाऽश्रुतत्वादिगुण इति भाष्ये इत्यर्थः।
वाक्यार्थविवरणम्
अतत्त्वस्येति। ‘अत सातत्यगमन’ इति धातोर् व्याप्तत्वस्येत्यर्थः।
वाक्यार्ममञ्चरी
ॐ विवक्षितगुणोपपत्तेश्च ॐ॥ विवक्षितानां वक्तुं योग्यानां वक्ष्यमाणानामुपसंहारे श्रुतानां गुणानामश्रुतत्वादिधर्माणामुपपन्नत्वाच्च सर्वगतं ब्रह्मैव नादित्यादिस् तेषां तत्रानुपपत्तेरित्यर्थः॥ स योऽत इति॥ यो भगवानतो व्याप्तो ऽन्यैः साकल्येनाश्रुतो ऽगतो ऽप्राप्तः। अमतो ऽविचारितः। अनतः स्वतन्त्रः। अदृष्टः प्रत्यक्षेण। अविज्ञातः विशेषज्ञानाविषयः। अनादिष्ट उपदेष्टुमशक्यः। स्वयं च साकल्येन श्रोता मन्ता विचारयिता द्रष्टा आदेष्टोपदेष्टा आघोष्टा शब्दकर्ता। विज्ञाता विशेषेण ज्ञाता प्रज्ञाता प्रकर्षेण ज्ञाता सर्वेषां भूतानामन्तरपुरुषो ऽन्तर्यामी पूर्णश्चेत्यर्थः। ज्ञानावान्तरविशेषसद्भावान्नात्र पुनरुक्तिः शङ्क्या॥ विवक्षिता इति॥ अस्येति शेषः॥ वक्तुं योग्या इति॥ इत्यर्थ इति शेषः। मुखतः कण्ठतः श्रोत्रादिनेति पूरणीयत्वादिति भावः। अश्रुतत्वादिकं साकल्येनैव न सर्वात्मनेति सूचयितुं भाष्येऽनन्त इत्युक्तम्॥ सर्वगतत्वानतिरिक्तत्वेनेति॥ अत सातत्यगमन इति धातोः सन्ततो ह्यत उच्यत इति वचनाच्चातत्वं सर्वगतत्वानतिरिक्तमित्यर्थः। अन्यथा साध्याविशेषप्रसङ्ग इति भावः।
विवृतिः
स य इत्यस्यायमर्थः॥ अतः व्याप्तः, अश्रुतः सर्वात्मना श्रोतुमशक्यः, अगतः सर्वात्मना अज्ञातः, अमतः मननाविषयः, अनन्तः स्वतन्त्रो ऽदृष्टः सर्वात्मना, अनादिष्टो ऽनुपदिष्टः सर्वात्मना देष्टा उपदेष्टा, घोष्टा शब्दं कुर्वन् अन्तरपुरुषो ऽन्तर्यामी पूर्णश्च विष्णोरेव योग्यत्वेन इत्युक्तस्य उत्सूत्रितत्वशङ्कानिरासायाह॥ विवक्षिता इति॥ वक्तुं योग्या इति॥ अनेनादित्यग्रहणे तेषां साकल्येन श्रुतत्वादिनाऽश्रुतत्वादिगुणानां तेषु वक्तुमयोग्यत्वेन स योऽत इति वाक्ये अयोग्यार्थाभि-धायकत्वेनाप्रामाण्यं स्यात्। सर्वगतत्वेन विष्णुग्रहणे तु तस्य साकल्येन श्रुतत्वाद्यभावादश्रुतत्वादिसम्भवेन नानुपपत्तिः। अन्यथा अश्रुतत्वादिगुणोपपत्तेरिति वक्तव्यमिति भावः। न ते विष्णो इत्यस्य अश्रुतत्वादि-प्रतिपादकत्वालभाय तद्वाक्यं श्रोत्रादिनेत्यध्याहृत्य योजितम्। ननु प्रथमश्रुतमतत्वं परित्यज्य अश्रुतत्वादि कुतो गृह्यत इत्यत आह॥ अत्रातत्वस्येति॥ सर्वगतत्वानतिरिक्तत्वेनेति॥ अत सातत्यगमन इति धातोः सन्ततोद्गत उच्यत इति वचनाच्च अतत्वं सर्वगतत्वानतिरिक्तमित्यर्थः। न चानन्द-मयोऽभ्यासादित्यत्रेव सर्वगतः विष्णुर् अतत्वादिति प्रयोगे कथमतत्वस्य साध्यत्वमिति वाच्यम्॥ अत्र विष्णुर् एतमस्यामिति वाक्योक्तसर्वगतस् तन्निष्ठतयोक्ताश्रुतत्वादिगुणयोग्यत्वादिति प्रयोगोऽभिप्रेत इति नानुपपत्तिः। विष्णुं पक्षीकृत्य सर्वगतत्वस्य साध्यत्वे अतत्वस्य हेतुत्वे च साध्याविशेषः स्यादिति भावः। अश्रुतत्वादीनामेव ग्रहणमिति॥ ‘इत्यादिनाऽश्रुतत्वादिगुण’ इति भाष्य इत्यर्थः॥
ॐ अनुपपत्तेस्तु न शारीरः ॐ
सूत्रभाष्यम्
न चाऽदित्यशब्दाच्चक्षुर्मयत्वादेश्च जीव इति वाच्यम्॥
॥ ॐ अनुपपत्तेस्तु न शारीरः ॐ॥ ३॥
एकस्य सर्वशरीरस्थत्वानुपपत्तेरेव॥ ३॥
सत्तर्कदीपावली
नन्वेतमस्यामित्यादिना प्रस्तुतस्य चक्षुर्मयत्वादिजीवलिङ्गं श्रूयते। चक्षुर्मयः श्रोत्रमय इति। अतोऽत्र सर्वगतत्वेनोच्यमानो जीवः स्यात्। तस्यैतस्यासावादित्यो रस इत्युपक्रमाद् आदित्याख्यजीवविशेषो न विष्णुरिति चेन्मैवम्। सर्वेषु भूतेष्वेतमेवेति सर्वशरीराधिष्ठितत्वश्रवणाज्जीवस्य तदनुपपत्तेः। तदाह॥ न चेति॥
तत्त्वप्रदीपिका
न चेत्यादेः स्पष्टोऽर्थः। अन्योऽप्यर्थः कल्प्यते। उक्तयुक्तेरेव ब्रह्मणोऽत्र प्रतिपाद्यत्वादादित्यशब्दा-च्चक्षुर्मयत्वादेश्च जीवस्यापि परित्यागायोगाच्च, जीवश्च ब्रह्मैव स्यादिति न वाच्यम्॥ अनुपपत्तेस्तु न शारीरः॥ ब्रह्मणा एकस्य जीवस्य तत्तच्छरीराभिमानानुपपत्तेरेव। यद्यभिमन्येत तर्हि ब्रह्मणोऽपि दुःखित्वं स्यात्। स्यादेतत्। स्याच्चेत्स्यान्नाम, किं नश्छिन्नं? ब्रह्मैव संसरति ब्रह्मैव मुच्यत इति हि ब्रूमः। अत्र ब्रूमः, एकमुक्तौ सर्वमुक्तिप्रसङ्गादिति। अनेकाभावान्नायं दोष इति चेत् किं स एकस्त्वमेवासि, आहोस्वि-दाचार्यः। अहमेव स एक इति चेदितः पूर्वं मोक्षाभावाद्भविष्यतीत्याशामात्रं स्यात्। श्रुतिप्रामाण्याद्भविष्य-त्येवेति चेन्न। उपदेष्ट्रभावात्। उपदेष्टारं स्वाप्नमिवाऽप्नवानि, तदुपदिष्टज्ञानात्फलमपि तस्मादिव भवेदिति चेत्तदपि दुराशामात्रम्। भवानेव स्वाप्नवदिति वादिनि तत्ववादिनि तस्मिन्ननुपदेष्टरि का निवारणयुक्तिः। त्वदज्ञानपरिकल्पितं सर्वमिति तदुक्तिरेव युक्तिरिति चेत्त्वमपि तर्हि शिष्यायोपदिशन्निदमस्मदादिकं त्वदज्ञानपरिकल्पितमित्युपदिशसि। अतश्शिष्याज्ञानपरिकल्पितत्वाद्बत तव मोक्षं प्रति प्रयत्नो मोघ आसीत्। सर्वथा मोहमयस्य रज्जुसर्पवदपवर्गायोगात्। किञ्च तादृगाचार्यादुपदेशस्य भ्रममात्रत्वात्तदुद्भूतस्तत्त्वोप-लम्भोऽपि भ्रमान्तर्भावी। अतश्चातत्वं दृष्टं तत्वं मन्वानस्य हन्त मुक्तत्वमपि भ्रान्तिमात्रं स्यात्। सत्यमेवं वदामि, तदानीमेव मुक्तत्वमपि भ्रान्तिमात्रमिति, नित्यमुक्तत्वादिति चेत्, संवदसे तर्हि ज्ञानमन्तरेण सर्वदा मुक्तत्वं सत्यं, ज्ञानान्मुक्तत्वमसत्यमित्यहो बहुविरुद्धप्रलापिनो मातृमुखस्य निर्लज्जता। अथ यदि स एक एवाऽचार्यस्तर्हि स्यात्, मुक्तावशेषनिवृत्तिमीक्षमाणो न शिष्यबोधने धुरं धारयीतेत्यास्तामयं विस्तरः। अथान्योऽर्थः, नात्र जीवः प्रतिपाद्यः॥ एकजीववादे तावदेकस्य सर्वशरीरस्थत्वानुपपत्तिः। तत्तद्गतसुखदुःखाद्यनुसन्धानादर्शनात्। किं वक्तव्यं बहुजीववादे। न च योगिनोऽपि सर्वशरीरस्थत्वं स्वातन्त्र्येण युज्यते॥ छ॥
तत्त्वप्रकाशिका
ननु यथा ब्रह्मशब्दादश्रुतत्वादिलिङ्गैश्च विष्णुः सर्वगत इत्युच्यते तथा आदित्यशब्दात्सर्वजीवलिङ्गाच्च आदित्यः सर्वजीवा वा किं न स्युरित्यत आह॥ न चेति॥ जीवः सर्वगत इति शेषः। तत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्य प्रतिज्ञांशस्य सम्बन्धभाष्येणैव व्याख्यातत्वाद्धेत्वंशमेव व्याचष्टे॥ अनुपपत्ते-रिति॥ भवेदन्यस्य सर्वगतत्वं यद्यन्यस्मिन्नुपपद्येत। न च उपपद्यते। तथा हि। किं मिलितसर्वजीवानां सर्वगतत्वम् उत प्रत्येकमुच्यते। नाद्यः। तत्कथनवैयर्थ्यात्। स्वस्वदेहस्थितमात्रस्य सिद्धत्वात्। न द्वितीयः। सर्वशरीरगतसुखदुःखादिप्राप्त्यैकस्य सर्वशरीरस्थत्वानुपपत्तेः। अतोऽन्यप्रापकसद्भावेऽपि तस्य सर्वगतत्वानुपपत्तेरेव न जीवोऽयं सर्वगत इत्याशयः। तुशब्द एवार्थः। न च वाच्यं स्वकर्मनिर्मितमेवास्य भोगायतनमिति न भोगाव्यवस्था व्रीह्यादिगतजीवान्तरवदिति। अनादितः सर्वेषां सर्वशरीरस्थत्वे कर्मभेदस्यापि साधयितुमशक्यत्वात्। न चाऽदित्यस्यास्तु सर्वशरीरस्थत्वं भवदभ्युपगमादिति वाच्यम्। तस्यापि ब्रह्मादिसर्वशरीरस्थत्वानुपपत्तेः॥ ३॥
गुर्वर्थदीपिका
व्रीह्यादिगतजीवान्तरवदित्यत्र मातृयोनिं प्राप्तुं स्वर्गादर्वादागमनविशिष्टपान्थजीववदित्यर्थः। भवदभ्युपगमादित्यत्र तत्तच्चक्षुरभिमानितया भवद्भिरपि सूर्यस्य सर्वगतत्वाभ्युपगमादित्यर्थः। ब्रह्माण्डान्तर्गत ब्रह्मवायुसरस्वतीशिवादिदेहेषु चतुर्विंशतितत्त्वदेवानां च प्रवेशसम्भवेऽपि महदव्यक्ताहन्तत्वस्थब्रह्मादिदेहेषु ततोऽप्यर्वाग्भागस्थितचक्षुर्मात्रव्यापिसूर्यस्य प्रवेशायोगादिति भावेनोक्तं तस्यापीति।
भावबोधः
तुशब्द इति। तेनानुपपत्तेरपरिहार्यत्वमुक्तमिति भावः। व्रीह्यादिगतजीवान्तरवदिति। स्वर्गाच्च्युतः स्थूलशरीरसम्बन्धार्थं पित्रादिशरीरप्रवेशायान्यकर्मनिर्मितव्रीह्यादिगतो जीवो जीवान्तरशब्दार्थः।
भावदीपः
ॐ अनुपपत्तेस्तु न शारीरः ॐ॥ अत्रैव न चेत्यादिशङ्कोत्पत्तौ बीजं वदन् आदित्य इति शेषोक्तिपूर्वं भाष्यमवतारयति॥ ननु यथेति॥ जीव इति भाष्यस्थैकवचनं शारीर इति सूत्रानुरोधा-त्समुदायाभिप्रायम्। एवेत्यत्र हेत्वभावाद्वक्ष्यमाणदोषायोगाच्चेति भावेनोक्तम्॥ सर्वजीवा वेति॥ सम्बन्धेति॥ आदित्यो जीवो वा सर्वगतो न चेत्यवतारिकारूपभाष्येणेत्यर्थः। आदित्यशब्दाच्छारीर आदित्यस्सर्वगत इति न। जीवलिङ्गाच्छारीरो जीवः सर्वगतो नेति प्रापकभेदाच्छारीरपदमप्यावृत्त्या योज्यमिति सूत्रे शारीरावित्यनुक्त्वा शारीर इत्येकवचनोक्तिरिति भावः। एवकारतात्पर्यं व्यनक्ति॥ भवेदित्यादिना॥ सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुना। न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृत इति न्यायेन तस्य तत्र जीवादौ योग्यत्वे सति भवेत्प्रापकबलेनान्यस्य सर्वगतत्वम्। न च तदन्यस्य योग्यमित्यर्थः॥ अनुपपत्तेरेवेति॥ असम्भावितत्वादेवेत्यर्थः। किं तत्र युक्त्यन्तरा-न्वेषणेनेत्येवकारार्थः॥ भाष्यस्थैवकारव्याख्येयमाह॥ तुशब्द इति॥ सौत्र इत्यर्थः॥ व्रीह्यादीति॥ स्वर्गाच्च्युतः स्थूलशरीरसम्बन्धार्थं पित्रादिदेहप्रवेशायान्यकर्मनिर्मितव्रीह्यादिगतो यो जीवस्तादृश-जीवान्तरवदित्यर्थः। वक्ष्यति चैतद् अन्याधिष्ठिते पूर्ववदभिलापादित्यत्र॥ भवदिति॥ वयमेतद्बाण-मवष्टभ्य विधारयाम इति श्रुत्या तत्वाभिमानितया सर्वदेहेष्ववस्थितेरङ्गीकार्यत्वादित्यर्थः॥ ब्रह्मादीति॥ उत्तमेषु नियमनाभावात्तदर्थत्वेनैवेह शरीरस्थत्वस्याभिमतत्वादिति भावः। यद्वा ब्रह्मादीनां यानि सर्वशरीराणि तत्स्थत्वानुपपत्तेरेवेत्यर्थः। सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयदिति प्रतिकल्पमादित्यादे-र्भेदादिति भावः॥ ३॥
अभिनवचन्द्रिका
(सू.३) किं न स्युरिति॥ जीवा वा स्युरिति किं नोच्यत इत्यर्थः। एतेन–यथा–विष्णुः सर्वगत इत्युच्यते तथा–जीवा वा किं न स्युरित्यसङ्गतमिति परास्तम्।
ननु– ‘अनुपपत्तेस्तु न शारीरः’ इति सूत्रे तद्भाष्ये च साध्यावैशिष्ट्यम्। सर्वगतत्वानुपपत्त्या सर्वगतत्वाभावसाधनात्, अस्य सर्वगतत्वमनुपपन्नं, सर्वगतत्वं नास्ति’ इत्यनयोरेकार्थत्वादित्यत आह– भवेदन्यस्येत्यादिना॥ भवेदन्यस्य सर्वगतत्वं यदि तस्य सर्वगतत्वमुपपत्ति सहं स्यात्। न च तदस्तीत्यर्थः। उपपत्त्यसहत्वेन सर्वगतत्वाभावः साध्यत इति न साध्यावैशिष्ट्यमिति भावः। सर्वजीवानां सर्वगतत्वस्य परेणोक्तत्वाद् एकस्य सर्वशरीरस्थत्वासम्भवव्युत्पादनं छलोत्तरमित्याशङ्कानुत्तये विकल्पेन पृच्छति– किं मिलित इति॥ द्वितीयपक्षं परिशेषयितुमाह– नाद्य इति॥ आद्यपक्षः श्रुत्यर्थत्वेन वक्तुं न युक्त इत्यर्थः। न द्वितीय इति॥ द्वितीयः प्रत्येकं सर्वजीवानां सर्वगतत्वरूपोऽर्थः नास्ति। सर्वगतसुखदुःखादिप्राप्तिप्रसङ्गबाधकेनोपपत्त्यसहत्वादित्यर्थः। एतेन सूत्रे अनुपपत्त्या सर्वगतत्वरूपार्था-भावस्यैव साधितत्वेन ‘न द्वितीयः’ इत्यादिद्वितीयपक्षस्य अङ्गीकारानर्हत्वोपपादकतया ‘अनुपपत्ते’रिति सूत्रपदव्याख्यानमयुक्तमिति परास्तम्। अतोऽन्यत्रेति॥ बाधकाभावसहकृतस्यैव प्रापकस्य अर्थव्यवस्थापकत्वादिति भावः। न चाऽऽदित्यस्येति॥ आदित्यस्य तत्वाभिमानित्वेन सर्वशरीरस्थत्वस्य भवद्भिरङ्गीकृतत्वात् तत एव तस्य सर्वशरीरस्थत्वानुपपत्तिर्नास्तीति भवद्भिरेव वक्तव्यत्वाद् आदित्यस्य सर्वगतत्वेन ‘एतमस्यामेत’मिति श्रुतिप्रतिपाद्यत्वमङ्गीक्रियतामिति न वाच्यमित्यर्थः। तस्यापीति॥ आदित्यस्यापि मुक्तत्वप्रसङ्गेन मुक्तब्रह्मादिसर्वशरीरस्थत्वानुपपत्तेः सत्वादित्यर्थः।
वाक्यार्थमुक्तावली
ॐ अनुपपत्तेस्तु न शारीरः ॐ॥ न चादित्यशब्दादिति भाष्ये जीवपदेन जीवविशेष आदित्यो जीवसमुदायश्च विवक्षित इति भावेन आदित्यः सर्वजीवा वेत्युक्तम्। तत्र जीवपक्षप्रतिक्षेपकत्वेन भाष्यं व्याख्यातुं विकल्पेन पृच्छति। मिलितसर्वजीवानामित्यादिना॥ व्रीह्यादीति॥ स्वर्गाच् च्युतः स्थूलशरीरसम्बन्धार्थं पित्रादिदेहप्रवेशाय अन्यकर्मनिर्मितव्रीह्यादिदेहगतस् तद्देहापादककर्मणः स्वानर्जितत्वात् तदीयदुःखादिकमभुञ्जन्नेव वर्तत इति। ‘स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः। अभुञ्जंस्तु क्रमेणैव’ इति वक्ष्यति, तादृशजीवान्तरवदित्यर्थः॥ अनादीति॥ यानि सर्वेषामुत्तरोत्तर-देहापादककर्मसाधनीभूतानि पूर्वपूर्वशरीराणि तेषु सर्वेष्वनादितः सर्वेषां सत्त्वेन कर्मभेदस्यापि साधयितु-मशक्यत्वादित्यर्थः। आदित्यनिरासकत्वेन भाष्यं व्याचष्टे॥ न चेति॥ ब्रह्मादीति॥ सेवारूपेण सत्त्वेऽप्यत्र विवक्षितनियामकत्वेन तवावस्थानाभावादित्यर्थः। यद्वा ब्रह्मादीनां यानि सर्वाणि शरीराणि तत्स्थत्वानुपपत्तेः। सूत्रे सर्वत्रेत्यनुवर्तते। तुरवधारणे। शारीर इत्येकवचनसामर्थ्याद् एकस्येति लभ्यते। शारीरस् तत्तज्जीवः प्रत्येकं सर्वगतो न एकस्य सर्वत्र गतत्वानुपपत्तेरेवेत्यर्थः। शारीर आदित्योऽपि न सर्वगतः। एकस्य ब्रह्मादिसर्वशरीरगतत्वानुपपत्तेरेवति सूत्रार्थः। एवशब्देनानुपपत्तेर-सम्भावनयैव न शारीरः किं तत्र युक्त्यन्तरान्वेषणेनेत्याचष्टे। अनुपपत्तेरपरिहार्यत्वं वा सूचयति। नेतर इति वाच्ये शारीर इत्युक्तिः स यश्चायमशरीर इति श्रुताशरीरत्वानुपपत्तिमादित्ये जीवे च सूचयितुमिति ज्ञेयम्।
तत्त्वसुबोधिनी
तत्कथनवैय्यर्थ्यादिति। मिलितसर्वजीवानां सर्वगतत्वकथनस्य व्यर्थत्वादित्यर्थः। कुतो व्यर्थत्वमित्यत आह॥ स्वस्वदेहेति। तथा च सिद्धकथनं व्यर्थमिति। तुशब्द इति। तेनानुपपत्तेर-परिहार्यत्वमुक्तमिति भावः। व्रीह्यादिगतजीवान्तरवदिति। स्वर्गाच्च्युतः स्थूलसशरीरसम्बन्धार्थं पित्रादिशरीरप्रवेशायान्यकर्मनिर्मितव्रीह्यादिगतो जीवः जीवान्तरशब्दार्थः।
वाक्यार्थविवरणम्
भवदभ्युपगमादिति। तत्त्वाभिमानित्वाङ्गीकारादित्याशयः। ब्रह्मादीति। अत्र ब्रह्मशब्देन पुन्नामकब्रह्मणो ब्रह्माण्डाद्बहिष्ठस्य महत्तत्त्वाभिमानिनो ग्रहणम्। सूर्यस्य तावत्पर्यन्तं व्याप्तिर-सम्भावितेत्याशयः। अतो विराड्देहे सूर्यस्य सत्त्वात् कथमेतदिति चोद्यानवकाशः।
वाक्यार्थमञ्जरी
सम्बन्धभाष्येण सूत्रसङ्गतिप्रदर्शकप्राचीनभाष्येण॥ ॐ अनुपपत्तेस्त न शारीरः ॐ॥ शारीरः शरीरसम्बन्धिरादित्यो जीवो न सर्वगतः सर्वगतत्वानुपपत्तेरेवेत्यर्थः। प्रत्येकमेकैकस्य॥ तुशब्द इति॥ तेनानुपपत्तेरपरिहार्यत्वं किं तत्र युक्तिगवेषणयेति सूचितमिति भावः। उपपत्तिमाशङ्क्य निराकरोति॥ न चेति॥ स्वर्गादवाग्गतस्य स्थूलशरीरसम्बन्धार्थं व्रीह्यादिशरीरगतस्यापि जीवान्तरस्य छेदादिना दुःखाभावात्स्वकर्मनिर्मितशरीरमेव भोगसाधनमङ्गीकार्यं न च सर्वशरीराण्येककर्मनिर्मितानि येन तस्य सर्वशरीरजन्यदुःखादिप्रसङ्ग इत्यर्थः। कर्मभेदस्य अस्यैवेदं कर्म नैतस्येति विवेकस्य, दृष्टान्ते तु पौर्वापर्यसत्वान्नैवमिति भावः॥ भवदभ्युपगमादिति॥ तस्य तत्त्वाभिमानित्वादिति भावः॥ ब्रह्मादीति॥ ननु तद्देहस्यापि चतुर्विंशतितत्त्वात्मकत्वेनास्त्येव तत्र सूर्यप्रवेशः। अन्यथा विराङ्देहे तत्त्वाभिमानिनां प्रवेशनिर्गमाभ्यां वायुश्रेष्ठत्वनिश्चयानुपपत्तिरिति चेन्न। अत्र भूतानामन्तरपुरुषः सूर्य आत्मेत्यादिनाऽदित्यस्य प्रेरकत्वश्रवणेन ब्रह्मादिशरीरे प्रेरकत्वेन तत्प्रवेशायोगस्योक्तत्वाद् बहिस्स्थपुन्नामकब्रह्मदेहस्य महत्तत्त्वमात्रात्मकत्वेन तत्प्रवेशाभावाच्च। तदेतदाह। सर्वशरीरेति॥
विवृतिः
तत्कथनवैयर्थ्यादिति॥ मिलितसर्वजीवानां सर्वगतत्वकथनस्य व्यर्थत्वादित्यर्थः। कुतो व्यर्थत्वमत आह॥ स्वदेहेति॥ तथा च सिद्धकथनं व्यर्थमिति भावः॥ तुशब्द इति॥ तेनानुपपत्तेरपरिहार्यत्वं युक्तमिति भावः। व्रीह्यादिगतजीवान्तरवदिति॥ स्वर्गाच् च्युतः स्थूलशरीरसम्बन्धार्थं पित्रादि-शरीरप्रवेशायान्यकर्मनिर्मितव्रीह्यादिगतो जीवो जीवान्तरशब्दार्थः॥
ॐ कर्मकर्तृव्यपदेशाच्च ॐ
सूत्रभाष्यम्
॥ ॐ कर्मकर्तृव्यपदेशाच्च ॐ॥ ४॥
‘आत्मानं परस्मै शंसती’(ऐ.आ.३-२-३)त्यादि॥
सत्तर्कदीपावली
हेत्वन्तरेणात्र सर्वगतत्वेन प्रतिपाद्यमानत्वं जीवस्य निषेधयत्सूत्रमुपन्यस्य व्याचष्टे॥ कर्मेत्यादिना॥ अत्र सर्वगतत्वेन प्रतिपाद्यमानस्यात्मनः कर्मत्वं जीवस्य कर्तृत्वम् एकस्यां शंसनक्रियायां श्रूयते। आत्मानं परस्मै शंसतीति। तत्र यदि जीवः सर्वगतात्मत्वेन प्रतिपाद्येत तर्ह्येकस्यां क्रियायां कर्तृकर्मभावः स्यात्। न हि तथाविधः कर्तृकर्मभावो असति बाधके युज्यते। न चान्यदन्यथासिद्धं जीवपरमात्मभेदस्य बाधकप्रमाणमुपलभ्यत इत्यर्थः।
तत्त्वप्रदीपिका
इतश्च न जीवो ब्रह्म। ‘‘आत्मानं परस्मै शंसति’’ इत्यादिकर्मकर्तृव्यपदेशाच्च। न ह्येकस्य कर्तृकर्मता युज्यते तन्मते। न च जीवब्रह्मैक्यपक्षे तत्त्ववस्तुनः कर्मभावः कर्तृभावश्चेष्यते। इह च सर्वत्रोच्यमानमात्म-शब्देनोक्त्वा कर्मत्वेन व्यपदिशति। न चाऽत्मशब्दो जीवे मुख्यः। ‘‘द्युभ्वाद्यायतनं स्वशब्दादि’’त्यादिना निषिद्धत्वात्। चकारात्परस्मायिति सम्प्रदानव्यपदेशाच्चेत्यभिप्रायः। न हि ब्रह्मत्वे जीवानां मिथो भेदोपदेशोपपत्तिः। आदिशब्दात् ‘‘यस्तित्याज सचिविदं सखायमि’’त्यादि च। भिन्नयोर्हि कर्तृकर्मभाव औत्सर्गिकः। न चात्रापवादः। न च स्वयमेव स्वात्मानं तत्याजेति शोभते।
‘‘कर्मसञ्चयवेत्तारं त्यजेन्नारायणं हि यः।
प्रीत्यैकदेशसंस्थत्वात्सखायमिति चोदितम्॥
न विद्यायाः फलं तस्य श्रुतं च नरकावहम्।
नैव प्राप्नोति सुकृतं सन्त्यागात्परमात्मनः॥
मुख्यत्यागो हरेरेष यन्नास्तीति वदेदमुम्।
तत्समं वाऽधिकं वापि ब्रूयादैक्यमथापि वा’’॥ इत्याद्यैतरेयसंहितायाम्॥
तत्त्वप्रकाशिका
युक्त्यन्तरेण जीवस्यात्रोक्तसर्वगतत्वं पराकुर्वत्सूत्रं पठित्वा तदुपात्तश्रुतिमेवोदाहरति॥ कर्मेति॥ अत्रोक्तसर्वगतस्य आत्मानमिति कर्मत्वेन व्यपदेशाज्जीवस्य च शंसतीति कर्तृत्वेन व्यपदेशादेकस्यां क्रियायां कर्मकर्त्रोरुत्सर्गतो भिन्नत्वनियमादत्र चापवादकारणाभावाच्च नायं सर्वगतः शारीर इति भावः। न चैकः सर्वगतो जीवः सर्वगतं जीवान्तरं शंसतीति योज्यम्। सर्वगततया सर्वजीवाग्रहणापातात्। तथा प्रतीत्यभावेन क्लिष्टकल्पनत्वाच्च। आदिपदेन ‘आत्मानं वेद’ इत्यस्य ग्रहणम्॥ ४॥
गुर्वर्थदीपिका
यथा मण्यादिप्रतिबन्धेऽदाहकोऽप्यग्निः स्वभावतो दाहक एव। एवमपवादे सत्यभेदकोऽपि कर्तृकर्मभावः स्वभावतो भेदक एवेति भावेनोक्तम्। उत्सर्गतो भिन्नत्वनियमादिति। एकः सर्वगतो जीव इत्यत्र चक्षुर्मयत्वादिलिङ्गैः सर्वगततया प्राप्तसर्वजीवानां मध्ये एकः सर्वगतो जीव आत्मानं सर्वगतं जीवान्तरं परस्मै सर्वगतजीवान्तराय शंसतीति वाक्यं न योज्यमित्यर्थः। कुतो न योज्यमित्यत आह। सर्वगततयेति। आत्मानमित्येकस्यैव जीवस्य सर्वगततयोपदेशाच्छिष्यस्य सर्वगततया सर्वजीवाग्रहणापातात्। यदि चाऽऽत्मानमिति जात्यैकवचनं तथाप्युपदेष्टुः स्वस्य तत्र प्रवेशे स्वांशे कर्तृकर्मविरोधापरिहारात्। अप्रवेशे पूर्ववच्छिष्यस्य सर्वगततया सर्वजीवाग्रहणापातात्। यदि चैकः सर्वगतः सर्वगतं जीवान्तरमुपदिशति सोऽप्येनमुपदिशति एवमन्योऽप्यन्यमुपदिशतीत्यर्थः कथ्यते तथाऽप्युपदेश्यस्य शिष्यस्य सर्वगतत्वे सोऽप्युपदेशं विना सर्वगतत्वादेव सर्वं जानीयात्। न ह्यसावन्धः। अत उपदेशसार्थक्याय सोऽसर्वगतो वाच्यः। एवं चोपदेश्यस्य शिष्यस्य सर्वगतत्वेनाग्रहणात्सर्वगततया सर्वजीवाग्रहणापातादित्यर्थः।
भावबोधः
‘कर्मकर्त्रोरुत्सर्गतो भिदा’ इत्यनुव्याख्यानं मनसि निधायाऽऽह। एकस्यामिति। सर्वगततया सर्वजीवाग्रहणापातादिति। स य एवमेतं संवत्सरसंमानमित्याद्यात्मानमित्यन्तशब्दैः शंसनक्रियाकर्मत्वेन कस्यचिदेकस्य जीवस्य ग्रहणे एतमस्यामिति वाक्ये सर्वगततया तस्यैव जीवस्य ग्रहणं स्यात्। न तु सर्वजीवानाम्। एतमस्यामित्युक्तस्यैव स य एवमेतमित्यादिद्वितीयान्तशब्दैः परामर्शेन तयोर्वाक्ययोरेक-विषयत्वात्। तथा च पूर्वपक्षे सर्वजीवानां वै तत्सर्वगतत्वमिति सर्वगततया सर्वजीवग्रहणं न स्यादिति भावः। तथा प्रतीत्यभावेनेति। शंसनक्रियाकर्तृकर्मीभूतचेतनयोर्जीवविशेषरूपत्वज्ञापकाभावात् तयोरेकजीवत्वेन प्रतीत्यभावेनेत्यर्थः।
भावदीपः
॥ ॐ कर्मकर्तृव्यपदेशाच्च ॐ॥ भाष्यस्य सूत्रेणान्वयं मत्वाऽर्थमाह॥ अत्रोक्तसर्वगतस्येति॥ मामहं जानामीत्यादौ व्यभिचारादाह॥ उत्सर्गत इति॥ बली सोऽप्यनपोदित इत्यनुभाष्योक्तेराह॥ अत्र चेति॥ चक्षुर्मयत्वादिकं तु नापवादहेतुरिति वक्ष्यत इति भावः। प्रतिज्ञांशानुवृत्तिं मत्त्वाऽऽह॥ नायमिति॥ हेतोरन्यथोपपत्तिं निराह॥ न चेति॥ सर्वगततयेति॥ सर्वेऽपि जीवा एतमस्यामित्यादौ सर्वगततयोच्यन्त इति पक्षो भग्नः स्यात्। एतमस्यामित्यादावुक्तस्यैवात्मानमिति कर्मत्वेन निर्देशात्। कर्तृभूतस्य च तदभावादित्यर्थः। मास्तु सर्वे जीवा इति पक्षः कर्तृभिन्नजीवानामेवास्तु कर्मत्वं सर्वगततया पूर्ववाक्यप्रतिपाद्यत्वं च। को दोष इत्यत आह॥ तथेति॥ कर्मभूतात्मविशेषणेन चक्षुर्मयत्वादिना जीवसामान्यलिङ्गेनात्मानमिति जीवमात्रस्यैव प्रतीतेरित्यर्थः॥ ४॥
अभिनवचन्द्रिका
(सू.४) सर्वगततयेति॥ ‘एतमस्यामेत’मिति श्रुत्या सर्वगततया प्रतिपादनाय सर्वजीवानामग्रहणं स्यात् सर्वजीवानामेतद्वाक्यविषयत्वं न स्यादिति यावत्। ‘आत्मानं परस्मै शंसती’ति वाक्यस्य यावान्विषयस् तावानेवास्य वाक्यस्य विषय इत्यङ्गीकारस्यैवोचितत्वादिति भावः।
वाक्यार्थमुक्तावली
ॐ कर्मकर्तृव्यपदेशाच्च ॐ॥ सर्वगतो न शारीर इत्यनुवृत्तिं कर्मकर्त्रिति भावप्रधानत्वं चाभिप्रेत्य सूत्रार्थमाह॥ अत्रोक्तेति॥ देवदत्तो गच्छति देवदत्तं बध्नातीत्यत्र क्रियाभेदेन कर्मकर्त्रैक्यदर्शनाद् एकस्यां क्रियायामित्युक्तम्। मामहं जानामीत्यादौ व्यभिचारपरिहारायोत्सर्गत इति॥ सर्वगततयेति॥ स य एवमेतं संवत्सरसंमानमित्यारभ्यात्मानं परस्मै शंसतीत्यन्तशब्दैः शंसनक्रियाकर्मत्वेन कस्यचिदेकस्य ग्रहणे एतमस्यामिति वाक्ये तस्यैव सर्वगततया ग्रहणं स्यान् न तु सर्वजीवानाम्। एतमस्यामित्युक्तस्यैव स य एतमित्यादिद्वितीयान्तशब्दैः परामर्शेन तयोर्वाक्ययोरेकविषयत्वात्। तथा च पूर्वपक्षे सर्वजीवानां तत्सर्वगतत्वमिति सर्वगततया सर्वजीवानामेतमात्मानमिति वाक्येन ग्रहणापातस्तथा चैतमिति परामर्शविरोध इति भावः। तथा प्रतीत्यभावेनेति॥ शंसनक्रियाकर्मभूतयोश् चेतनयोर्जीवविशेषरूपत्वे ज्ञापकाभावात् तयोरेकैकजीवत्वेन प्रतीत्यभावेनेत्यर्थः।
तत्त्वसुबोधिनी
कर्मकर्तृत्वव्यपदेशमेव प्रकटयति। अत्रोक्तेति। सर्वगततया सर्वजीवाग्रहणापातादिति। सर्वगतत्वाभावे सर्वगतवाक्ये सर्वगततया ये सर्वजीवाः प्रकृतास् तेषां स य एवमेतमात्मानमिति कर्मभूतात्मविशेषणेन एतच्छब्देन ग्रहणं न स्याद् ग्रहणे सर्वजीवानां कर्मत्वापत्तेः। तथा च एतच्छब्दस्य प्रकृतसर्वपरत्वसम्भवे तदेकदेशपरत्वमयुक्तमित्यर्थः। यद्वा एतमित्यनेन सर्वजीवानामनिर्देशाद् एतच्छब्द-स्वारस्यार्थं सर्वगतवाक्येऽपि सर्वगततया सर्वेषां ग्रहणं न स्यात्। तथा च सर्वे जीवाः सर्वगता इति यत्पूर्वपक्षिणा गृहीतं तद्धीयेतेत्यर्थः। तथा प्रतीत्यभावेनेति। कर्मीभूतात्मविशेषणेन चक्षुर्मयत्वादिना जीवसामान्यलिङ्गेन जीवमात्रस्यैव प्राप्तेर् जीवविशेषयोरेकैकत्वेन प्रतीत्यभावेनेत्यर्थः।
वाक्यार्थमञ्जरी
ॐ कर्मकर्तृव्यपदेशाच्च ॐ॥ एतमस्यामित्यादिना सर्वत्रोच्यमानस्यात्मानमिति कर्मत्वेन शारीरस्य शंसतीति कर्तृत्वेनाभिधानाच्च न शारीरः सर्वगत इत्यर्थः। घटज्ञाने कर्तृरेव देवदत्तं यज्ञदत्तो जानातीत्यत्र कर्मत्वदर्शनादाह॥ एकस्यां क्रियायामिति॥ मामहं जानामीत्येकस्यां क्रियायामेकस्योभयदर्शनादाह॥ उत्सर्गत इति॥ बाधकैकापोद्यत्वमुत्सर्गः। सति बाधके नियमस्य संकोचोऽप्यस्ति तत्र तु तयोरभेदेन साक्षिसिद्धत्वमेव बाधकमिति भावः। तर्ह्यत्रापि बाधकेनैव संकोचोऽस्त्वित्यत आह॥ अत्रेति॥ व्यभिचरितनियमस्य कथं साधकत्वमिति चेद्यथा न हिंस्यात्सर्वा भूतानीत्यौत्सर्गिकभूतहिंसा-निषेधोऽग्नीषोमीयपशुहिंसाविधिनाऽपोद्यते। भवति चानपोदिते ब्रह्महिंसाद्यकरणीयत्वे प्रमाणं तथाऽत्रापीति भावः॥ सर्वगततयेति॥ एतमस्यामिति वाक्यमात्मानमिति वाक्यं चैकविषयमिति तावदविवादम्। एतमस्यामित्युक्तस्यैवैतमात्मानमिति परामर्शात्। तत्र यद्यात्मानमित्यत्रैको जीवः कर्मतया स्वीक्रियेत तर्ह्येतमस्यामित्यत्रापि स एव सर्वगततयोच्यमानः स्यान्न सर्वे जीवाः। तथा च यत्पूर्वपक्षे सर्वजीवानां वैतत्सर्वगतत्वमिति सर्वगततया सर्वजीवग्रहणं तन्न स्यादित्यर्थः॥ तथा प्रतीत्यभावेनेति॥ कर्मीभूतात्मनो जीवविशेषविषयत्वेन प्रतीत्यभावेनेत्यर्थः। आत्मविशेषणेन चक्षुर्मयत्वादिना जीवसामान्यलिङ्गेन जीवमात्रत्वप्राप्तेरिति भावः॥
विवृतिः
कर्मकर्तृव्यपदेशमेव प्रकटयति॥ अत्रोक्तेति॥ सर्वगततया सर्वजीवाग्रहणापातादिति॥ सर्वजीवानां कर्मत्वाभावे सर्वगतवाक्ये सर्वगततया ये सर्वजीवाः प्रकृतास् तेषां स य एवमेतमात्मानमिति कर्मभूतात्मविशेषणेन तच्छब्देन ग्रहणं न स्याद् ग्रहणे। सर्वजीवानां कर्मत्वापत्तेः। तथा च एतच्छब्दस्य प्रकृतसर्वपरत्व सम्भवे तदेकदेशपरत्वमयुक्तमित्यर्थः। यद्वा एतमित्यनेन सर्वजीवानामनिर्देशे एतच्छब्दस्वारस्यार्थं सर्वगतवाक्येऽपि सर्वगततया सर्वेषां ग्रहणं न स्यात्। तथा च सर्वे जीवाः सर्वगता इति यत्पूर्वपक्षिणा गृहीतं तद्धीयेतेत्यर्थः॥ तथा प्रतीत्यभावेनेति॥ कर्मीभूतात्मविशेषणेन चक्षुर्मयत्वादिना जीवसामान्यलिङ्गेन जीवमात्रस्यैव प्राप्तेर् जीवविशेषयोरैकैकत्वेन प्रतीत्यभावेनेत्यर्थः॥
ॐ शब्दविशेषात् ॐ
सूत्रभाष्यम्
॥ ॐ शब्दविशेषात् ॐ॥ ५॥
‘एतमेव ब्रह्मेत्याचक्षत’ (ऐ.आ.३-२-३) इति। न हि जीवमेव ब्रह्मेत्याचक्षते। ‘एष उ एव ब्रह्मैष उ एवात्मैष उ एव सवितैष उ एवेन्द्र एष उ एव हरिर्हरति परः परानन्द’ इति चेन्द्रद्युम्नशाखायाम्॥ ५॥
सत्तर्कदीपावली
एतमेव ब्रह्मेत्यवधारणबलेनोक्तमर्थं साधयत्सूत्रमुपन्यस्य व्याचष्टे॥ स्मृतेरित्यादिना॥ अहमात्मेति भगवत्स्मृतिसंवादादप्यत्र सर्वगत्वेनोक्तो विष्णुरेव। इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति भगव-द्वचनादित्यर्थः। यज्जीवनिवारणेन विष्णोः सर्वगतत्वप्रतिपादनं तयोरपारमार्थिकभेदाभिप्रायमिति कस्य-चित्कल्पनं तत्प्रमाणशून्यत्वादुपेक्षणीयमित्याह॥ न चेति॥ ५-६॥
तत्त्वप्रदीपिका
शब्दविशेषात्। एतं सर्वभूतस्थमेव ब्रह्मेत्याचक्षते नान्यमिति ब्रह्मशब्दस्य सावधारणत्वविशेषाच्च न जीवो ब्रह्म। न हि जीवमेव ब्रह्मेत्याचक्षत इति श्रुत्यर्थो मन्तव्यः। ‘‘सर्वेषु भूतेष्वि’’ति वचनात्। न च सर्वभूतस्थस्य सर्वभूतत्वम्। न हि गृहस्थो गृहं भवति। अपि च न हि जीवमेव ब्रह्मेत्याचक्षते विद्वांसः। प्रत्युतेश्वरमेव ब्रह्मेत्याचक्षते। तस्यैव पूर्णत्वात्। न हि मायिनोऽपि जीवमेव ब्रह्मेत्याचक्षते, विपरीतबोधकत्वानभ्युपगमात्। अभ्युपगमे ब्रह्मणो दुःखित्वापातात्। ब्रह्माभावप्रसङ्गाच्च। ब्रह्मत्वे च सति सविशेषत्वापाताज्जीवव्यतिरेकेणेश्वराभ्युपगमाच्च तन्मतेऽपि॥
तत्त्वप्रकाशिका
यदुक्तं ब्रह्मशब्दाद्विष्णुरेव सर्वगत इति तदयुक्तम्। ब्रह्मशब्दस्य जीवेष्वपि सम्भवात्। न चासौ जीवेऽमुख्य इति तदग्रहः। अमुख्यार्थस्यापि चक्षुर्मयत्वादिबाधेन ग्रहणोपपत्तेः। न चाश्रुतत्वादिगुणानु-पपत्तिः। ‘श्रुत्वाऽप्येनं वेद न चैव कश्चित्’ इति जीवस्याप्यश्रुतत्वादिस्मरणात्। न चानुपपत्तेरित्युक्त-दोषः। विष्णावपि तस्य साम्यात्। न च कर्मकर्तृव्यपदेशाच्चेत्यभिहितदोषप्राप्तिः। चक्षुर्मयत्वादिबाधके-नैकस्यैव कर्मकर्तृत्वोपपत्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपात्तश्रुतिमेवोदाहरति॥ शब्देति॥ नानेन ब्रह्मशब्देन जीव उच्यते। ब्रह्मशब्दस्यैतमेवेत्यवधारणाख्यविशेषवत्वादित्यर्थः। ब्रह्मशब्दस्य सावधारणत्वेऽपि कुतो न जीवे वृत्तिरित्यत आह॥ न हीति॥ सावधारणब्रह्मशब्दवाच्यत्वे मुख्यब्रह्मत्वं स्यात्। न च तज्जीवस्योपपद्यत इति भावः। विष्णावपि सावधारणब्रह्मशब्दश्रुतिः कुत इत्यत आह॥ एष इति॥
गुर्वर्थदीपिका
यद्यप्यादिसूत्रे शब्दविशेषादिति सूत्रे च ‘‘एतमेव ब्रह्मेत्याचक्षत’’ इति श्रुतिरेव सिद्धान्तसाधिका। तथाऽपि तत्र ब्रह्मशब्दस्य विष्णौ मुख्यत्वान्मुख्ये सम्भवत्यमुख्यायोगाद्विष्णुरेव सर्वगत इति ब्रह्मशब्द-मात्रेण सिद्धान्तितम्। इह तु चक्षुर्मयत्वादिजीवलिङ्गैर् मुख्यासम्भवेनामुख्यजीवग्रहणमित्यभ्यधिकाशङ्कया पुनराक्षेपे सावधारणब्रह्मशब्दस्यान्यत्रासम्भवात्प्रबलेन शब्देन लिङ्गस्यैव बाधनमिति न पौनरुक्त्यम्। ‘‘एष उ एव ब्रह्मे’’त्यादौ ‘‘उकारेणोच्चमुच्यत’’ इति वचनाद् उ उत्कृष्टं ब्रह्मैव उ एवेत्यादियोजना।
भावबोधः
अवधारणाख्यविशेषवत्त्वादिति। अवधारणाख्यान्ययोगव्यवच्छेदस्य ब्रह्मशब्दार्थब्रह्मत्वसम्बन्धाद् ब्रह्मशब्दस्यावधारणत्वं बोद्धव्यम्। यद्वा अवधारणार्थकैवशब्दाख्यविशेषवत्त्वादित्यर्थः। अनेन बहुलिङ्गसहितश्रुतेरपि सावकाशाया निरवकाशश्रुत्यादीनामेव बलवत्त्वमिति। तथा च निरवकाशा एतमेवेत्यवधारणादय इति न्यायविवरणमपि व्याख्यातं भवति। अत्र प्रथमवाक्ये बहुलिङ्गपदेन संवत्सर-पतित्वादिलिङ्गानां श्रुतिपदेनादित्यशब्दस्य ग्रहणम्। श्रुत्यादीनामित्यस्य ब्रह्मशब्दादिपदोक्ता-श्रुतत्वादिगुणानामित्यर्थः। अवधारणादय इत्यत्रादिपदेनाशरीरत्वादीनामेव ग्रहणमिति ज्ञातव्यम्।
भावदीपः
ॐ शब्दविशेषात् ॐ॥ स्मरणादिति॥ गीतायां द्वितीये इत्यर्थः। तत्र हि अथ चैनं नित्यजातमित्यादिना प्रकृतस्य जीवस्यैनमिति परामर्शादिति भावः। श्रुत्वेत्युपलक्षणम्। ‘‘आश्चर्य-वत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः शृणोती’’ति पूर्ववाक्ये उक्तेर् द्रष्टा वक्तेत्यपि ध्येयम्। ईश्वरसरूपत्वादिनाऽऽत्मद्रष्टा दुर्लभ इति भाव इति गीताभाष्यटीकयोर्व्यक्त-मेतत्। भाष्यस्य सूत्रेणान्वयं मत्त्वा योग्यसाध्यमध्याहृत्य योजनामाह॥ नानेनेति॥ सूत्रे विशेषो विशेषणं शब्दविशेषादवधारणरूपाद्ब्रह्मशब्दविशेषादित्यस्य फलितार्थो ब्रह्मशब्दस्येति। एतमेवेत्युक्तोद्देश्या-न्वितैवकारसाहित्यादित्यर्थः॥ मुख्येति॥ उद्देश्यान्वितैवकारस्य विधेये अन्ययोगव्यवच्छेदकत्वात्। ब्रह्मशब्दस्य जीवरूपामुख्यब्रह्मार्थकत्वे मुख्यस्य ब्रह्मणो विष्णोरमुख्यस्य जात्यादेश्च सत्त्वेनान्ययोग-निवारणायोगेनैवकारायोगात्। विष्णुरूपमुख्यब्रह्मार्थत्वे चान्यस्य मुख्यब्रह्मणोऽभावेनान्ययोगनिवारण-सम्भवादिति भावः। एतेन तथापि निरवकाशा एतमेवेत्यवधारणादय इति न्यायविवरणोक्तं निरवकाशत्व-मुपपादितं भवति। तथा चाश्रुतत्वादिकमपि ब्रह्मश्रुतिवन्निरवकाशम्। प्रागुक्तश्रुतेः। श्रुत्वाऽप्येनमिति स्मृतिर् ईश्वरपरा आश्चर्यो भगवानेवेत्याह आश्चर्यवदितीति गीतातात्पर्योक्तेः। ईश्वरस्यापि अव्यक्तोऽयम् अचिन्त्योऽयमिति प्रकृतत्वात्। जीवपरत्वेऽपि प्रतिबिम्बस्यापि जीवस्य द्रष्टा दुर्लभः। किं तद्ब्रह्मसामर्थ्यं वर्णनीयमिति तट्टीकाद्युक्तरीत्या अश्रुतत्वादेर् ईश्वर एव मुख्यत्वात्। चक्षुर्मयत्वादेरर्भक-सूत्रेऽनुपपत्तिदोषसाम्यस्य सम्भोगसूत्रे निरस्यत्वात्। अत एव न कर्मकर्तृभावोऽपवादवानिति न प्रागुक्तचोद्यावकाश इति भावः॥ ५॥
अभिनवचन्द्रिका
(सू.५) अमुख्यार्थस्यापीति॥ ब्रह्मशब्दमुख्यार्थग्रहणे चक्षुर्मयत्वादिबाधकसद्भावेनामुख्यार्थस्यापि जीवस्य ग्रहणोपपत्तेरित्यर्थः। विष्णावपीति॥ विष्णोर् यथा दोषः परिहरणीयस् तथा जीवेऽपि परिहरणीय इत्यर्थः। अवधारणाख्यविशेषत्वादिति॥ ननु अवधारणेन एतच्छब्द एव विशेषितः न ब्रह्मशब्दः। ‘एतमेव ब्रह्मे’ति पाठात्। अन्यथा– ‘ब्रह्मैवेत्याचक्षत’ इति पाठः स्यात्। एवं च ब्रह्मशब्दस्य एतमेवेत्यवधारणाख्यविशेषवत्त्वादित्ययुक्तमिति चेन् न ब्रूमो वयमयमेवशब्द एतच्छब्दविशेषणमिति। किं तर्हि ‘ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगा’ इत्यादौ परादिशब्दा इव ब्रह्मशब्दविशेषणमेवेति। एवं च एतं सर्वगतमेव ब्रह्मेत्याचक्षते ज्ञानिन इत्यर्थः सम्पद्यते। तदुक्तम्– ‘न हि जीवमेव ब्रह्मेत्याचक्षत’ इति। तस्यार्थः– ‘ब्रह्माणि जीवाः सर्वेऽपी’त्यत्र जीवस्य एव ब्रह्मशब्दवाच्यत्वविधानेऽपि ब्रह्मशब्दवाच्यत्वं नाचक्षते। तस्य तत्राभियुक्तप्रयोगाभावादिति। अवश्यं चैतदेवं विज्ञेयम्। अन्यथा ‘एष उ एव ब्रह्ये’ति श्रुतौ एवशब्दार्थकम् उशब्दपञ्चकं व्यर्थं स्यादिति। सावधारणब्रह्मशब्दवाच्यत्व इति॥ ‘एव ब्रह्म’ शब्दवाच्यत्व इत्यर्थः।
वाक्यार्थमुक्तावली
ॐ शब्दविशेषात् ॐ॥ अश्रुतत्वादिश्रवणादित्यत्रादिपदेनादृष्टत्वादेर्ग्रहणम्। श्रुत्वाऽप्येनमित्ये-तद्वाक्यपूर्वशेषे आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः शृृणोति इति तच्छ्रोतृदुर्लभत्वस्योक्तत्वादिति ज्ञेयम्। सूत्रे न शारीर इत्यनुवर्तते। सर्वत्र प्रसिद्धोपदेशादिति सूत्राद् विपरिणम्योपदिश्यत इत्यन्वेति। ततश्च शारीरो जीवो न ब्रह्मशब्देनोच्यते। शब्दस्य ब्रह्मशब्दस्य एतमेव सर्वगतमेव ब्रह्मेत्याचक्षते नान्यमित्यवधारणाख्यविशेषवत्वादिति सूत्रार्थः। अवधारणस्यैतच्छब्दान्वितत्वेऽपि तेन ब्रह्मशब्दस्य सर्वगतमात्रवृत्तितया सदसाधारण्यस्य अन्यगतत्वाभावस्य चाज्ञापितत्वेनैवकाराख्यविशेषणवत्वं तस्य सम्भवत्येवेति आशयेनाह॥ नानेन ब्रह्मशब्देनेत्यादिना॥ ब्रह्मशब्दस्य सावधारणत्वेऽपीति॥ उक्तरीत्या साधारण्यज्ञापकतयाऽवधारणाख्यविशेषवत्वेऽपीत्यर्थः॥ न हीति॥ भाष्यस्य सर्वगतत्वं जीवस्याङ्गीकृत्य एतमेवेत्यत्र एतच्छब्देन तत्परामर्शमभ्युपगम्य ब्रह्मशब्दस्य तत्र वृत्यङ्गीकारे जीवमेव ब्रह्मेत्याचक्षते नान्यमिति वाक्यार्थः स्यात् तन्न ह्युपपद्यत इत्यर्थः। कुतो नोपपद्यत इत्यतो भावमाह॥ सावधारणेति॥ उक्तरीत्याऽवधारणाख्यविशेषणयुक्तब्रह्मशब्दवाच्यत्वे जीवमेव ब्रह्मेत्याचक्षते नान्यमिति लभ्यते तच्चायुक्तम्। बृह जातिजीवकमलासनशब्दराशि-ष्वित्यादि-विरोधात्। अत एतमेव ब्रह्मेत्याचक्षत इति वाच्यम्। तथा च मुख्यब्रह्मत्वं स्यात्। न च जीवस्योपपद्यत इति भावः। एष उ एव ब्रह्मेति श्रुतौ उ उच्च एष एव ब्रह्मेत्यादियोजना।
तत्त्वसुबोधिनी
तस्येति। एकस्य सर्वशरीरस्थत्वानुपपत्तिरूपदोषस्येत्यर्थः। अवधारणाख्यविशेषवत्वादिति। अवधारणाख्यान्ययोगव्यवच्छेदस्य ब्रह्मशब्दार्थब्रह्मत्वसम्बन्धाद् ब्रह्मशब्दस्यावधारणत्वं बोद्धव्यम्। यद्वा अवधारणार्थकैवशब्दाख्यविशेषवत्वादित्यर्थः। न च तदिति। भाष्योक्तश्रुत्यादिना विष्णोरेव ब्रह्मशब्दमुख्यार्थत्वादिति भावः।
वाक्यार्थमञ्जरी
गीतावाक्यमुदाहरति। श्रुत्वेति। एनम् अथ चैनं नित्यजातमित्यनेन प्रकृतं जीवं सामान्येन श्रुत्वाऽपि विशेषतः कश्चिदपि न वेदेत्यर्थः॥ साम्यादिति॥ तस्यापि सर्वशरीरस्थत्वेन तद्गतदुःखादिप्रसङ्गसाम्यादित्यर्थः। बाधकेन विष्णुरूपभिन्नग्रहणे। तथा चापवादकारणाभावोऽसिद्ध इति भावः। इत्याशङ्कामिति॥ ब्रह्मशब्दस्य जीवेऽपि सम्भवादित्याशङ्काम्। शिष्टपरिहारोऽग्रे भविष्यतीति भावः॥ ॐ शब्दविशेषात् ॐ॥ शब्दस्य ब्रह्मशब्दस्य विशेषादेतमेवेति साधारणत्वरूपविशेषोपेतत्वान्न तेनेतरग्रहणमित्यर्थः। मुख्यब्रह्मत्वं पूर्णत्वरूपम्। एतमेवेत्युक्तेऽन्येषामपि तद्वाच्यत्वात्कथमेतदिति शङ्कापरिहाराय मुख्यतोऽस्य वाच्यत्वमन्येषाममुख्यत इत्यवश्यं वक्तव्यत्वादिति भावः। श्रुतावुशब्दोऽवधारणे। ब्रह्मैवेत्याद्येवकारसम्बन्धः॥
विवृतिः
तस्येति॥ एकस्य सर्वशरीरस्थत्वानुपपत्तिरूपदोषस्येत्यर्थः॥ अवधारणाख्यविशेषवत्वादिति॥ अवधारणाख्यान्ययोगव्यवच्छेदस्य ब्रह्मशब्दार्थब्रह्मत्वसम्बन्धाद् ब्रह्मशब्दस्यावधारणवत्वं बोध्यम्॥ यद्वा अवधारणार्थकैवशब्दाख्यविशेषवत्वादित्यर्थः॥ न च तदिति॥ भाष्योक्तश्रुत्यादिना विष्णोरेव ब्रह्मशब्दमुख्यार्थत्वादिति भावः॥
ॐ स्मृतेश्र्च ॐ
सूत्रभाष्यम्
॥ ॐ स्मृतेश्च ॐ॥ ६॥
‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’ (भ.गी. १०-२०)।
‘गामाविश्य च भूतानि धारयाम्यहमोजसे’ (भ.गी. १५-१३) त्यादि। न चाप्रामाणिकं कल्प्यम्॥ ६॥
तत्त्वप्रदीपिका
स्मृतेश्च। इतश्च न सर्वेषु भूतेषूच्यमानः परमात्मनोऽन्यः। नापि जीवः स परमात्मा। यतः स्मृतौ सर्वभूतहृदयस्थत्वं सर्वाधारत्वं च परमात्मन उक्तम्। ये तु जीवपरयोर्व्यावहरिकभेदवादीनि सूत्राण्येतानि योजयन्ति तद्व्यपोहार्थमाह— न चाप्रमाणकं कल्प्यमिति। व्यावहारिकभेदस्य मिथ्यात्वे त्वसद्भेदवाचित्वादप्रमाणानि सूत्राणीत्युक्तं स्यात्। न चानिर्वाच्यं कल्प्यम्। तस्याप्रमाणकत्वेन निरस्तत्वात्। सत्यत्वेऽपसिद्धान्तः। न च भेद्रभ्रान्तिः क्वापि सत्यभेदसद्भावं विना सम्भवति। न हि कुहचिदप्यवितथकलधौतं विना वितथकलधौतप्रतीतिस्सम्भवति। न चौपाधिको भेदो ब्रह्मणः कल्प्यः। निरंशत्वादेकदेशसम्बन्धासम्भवादुपाधेः। कृत्स्नग्रासे सत्यनुपहितोपहितविभागासम्भवात्। अतोऽप्रमाणकमिदं मतं सूत्रार्थत्वेन न कल्पनीयम्। सूत्रनिषेध्यत्वात्॥
तत्त्वप्रकाशिका
स्मृतिसमाख्ययाऽपि विष्णोरत्रोक्तसर्वगतत्वं साधयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति॥ स्मृतेश्चेति॥ न च वाच्यं स्मृतेरपि स्ववचनत्वेन कथं विप्रतिपन्नं प्रति सूत्रकारस्तामुपादत्त इति। तस्याः परोक्तानुवाद-रूपत्वात्।
एवं सूत्राणि व्याख्याय परकृतापव्याख्यां प्रत्याख्याति॥ न चेति॥ ईश्वर एव मनोमयत्वादिगुणो न जीव इति प्रतिपादिते जीवेश्वरयोरैक्यात्कथमेतदित्याशंक्य केनचिदुक्तम्। नायं पारमार्थिको भेदः किं त्वत्र मिथ्याभूत एव सूत्रकृता विवक्षित इति तद्भेदस्य मिथ्यात्वं न कल्प्यम्। भेदमिथ्यात्वे मानाभावा-दित्यर्थः। जीवेशभेदो मिथ्या भेदत्वात्। चन्द्रभेदवद् इत्यनुमानं मानमिति चेन्न। मिथ्येत्यस्यासत्त्वाभिप्राये अपसिद्धान्तात्। अनिर्वाच्यत्वाभिप्राये अप्रसिद्धविशेषणत्वात्। सत्त्वाभावसाधने तत एवासत्त्वापत्तेः। बाध्यत्वसाधनेऽप्यन्यथाज्ञातस्य सम्यग्ज्ञातत्वं चेद्बाध्यत्वं तत्सिद्धसाधनम्। त्रिकाले स्वरूपनिषेधविषयत्वं चेदसत्त्वापत्तिः। प्रतीतस्य इति चेदसदपरोक्षतया प्रतीयते वाच्यत्वादित्यसतोऽपि प्रतीतिसिद्धेः। भेदाभावे भेदत्वसामान्यस्याप्यसिद्धेश्च। व्यक्त्यभावेन सामान्यायोगात्। भेदत्वहेतोरविद्यानिवृत्तिरूपमोक्षात्मभेदे व्यभिचाराच्च। न चासावपि भेदो मिथ्येति युक्तं मोक्षनिवृत्त्यापातात्। मिथ्याभूतस्याप्यनिवर्त्यत्वे प्रकृतभेदस्यापि तथात्वं नानिष्टम्। न चात्ममोक्षयोर्भेदाभावः। आत्मनोऽनादिनित्यतया तदभिन्नमोक्षस्य ज्ञानसाध्याविद्यानिवृत्तिरूपत्वानुपपत्तेः। द्वा सुपर्णेत्यादिश्रुतिविरोधाच्च। अन्यतरचन्द्रस्यैवाऽऽरोपितत्वेनाऽऽ-रोपितानारोपितभेदस्य सत्यत्वाच्च। अतो न भेदमिथ्यात्वे मानमित्यलम्॥ ६॥
गुर्वर्थदीपिका
असदपरोक्षतया प्रतीयते वाच्यत्वादित्यत्र यद्यपि शशविषाणादिशब्दा योग्यताविरहाच्छब्दाभासा एव। असन्मिथ्यादिशब्दाश्चासत्त्वात्यन्ताभावादावेव शक्ताः। शशविषाणादिकं तु मुख्ययाऽमुख्यया वा वृत्त्या न पदार्थ इति मतम्। तथाऽपि यादृशतादृशशब्दजन्यज्ञानविषयत्वमेवेह वाच्यत्वं विवक्षितम्। अतो न हेतोरसिद्धिः। धर्माधर्मादिकमपीश्वरस्य प्रत्यक्षमिति न व्यभिचारश्रेति ज्ञेयम्। मोक्षनिवृत्त्यापाता-दित्यत्र निवृत्तिरभावः। मिथ्याभूतभेदस्याभावावश्यम्भावेन ब्रह्मभिन्नमोक्षस्याप्यभावापातादित्यर्थः। मिथ्याभूतस्याप्यनिवर्त्यत्व इत्यत्र मिथ्याभूतस्याऽऽत्ममोक्षभेदस्यानिवर्त्यत्वेऽभावाप्रतियोगित्वे प्रकृतभेदस्य जीवेश्वरभेदस्यापि तथात्वं मिथ्यात्वं नानिष्टम्। अभावासम्पादकत्वेन भवत्पारिभाषिकमिथ्यात्वान्मम नानिष्टमिति भावः। तर्हि ब्रह्माभिन्न एव मोक्षोऽस्त्विति शङ्कां परिहरति। न चेति। अरोपिता-नारोपितभेदस्येत्यत्र आरोपितप्रतियोगिकानारोपितधर्मिकभेदस्येत्यर्थः॥ १-२-१॥
भावबोधः
वाच्यत्वादिति। धर्माधर्मादेरपि ईश्वरादिप्रत्यक्षत्वेन केवलान्वयित्वान्न व्यभिचार इति भावः। अत्र यद्यपि प्रतीतस्येति चेदित्युक्तत्वात् परोक्षप्रतीतिरेव साधनीया; तथापि अपरोक्षतया प्रतीतस्येति पुनः परेणोक्तेऽपरोक्षप्रतीतेरपि साधने गौरवं स्यादिति तादृशप्रतीतिरेव साधिता। अत एव प्रकृताभिप्रायेण प्रतीतिसिद्धिरित्येवोक्तम्। प्रतिज्ञां दूषयित्वा हेतुं दूषयति– भेदाभावेनेति। अन्यतरचन्द्र-स्यैवारोपितत्वेनेति। तथा च साध्यविकलो दृष्टान्त इति भावः। चन्द्रे आरोपितभेदस्य दृष्टान्तत्वे तस्यासत्त्वेन साधनवैकल्यापत्त्या आरोपितानारोपितचन्द्रभेद एव निदर्शनीय इत्यभिप्रायेणान्यतरचन्द्रस्यै-वेत्युक्तम्। एतेन चन्द्रभेदारोपमात्रेण द्वित्वप्रतीत्युपपत्तौ चन्द्रान्तरस्यारोपाङ्गीकारे गौरवम्। तर्हि शुक्तिकायां रजताभेदारोपमात्रेणेदं रजतमिति प्रतीत्युपपत्तौ रजतारोपाङ्गीकारो व्यर्थ इति, चेन् न; तत्राधिष्ठानस्य रजतत्वेन रजतोपस्थित्यर्थं रजतारोपाङ्गीकारात्। रजतानुपस्थितौ रजतारोपासम्भवात्। न चैवं प्रकृते। अधिष्ठानस्य चन्द्रत्वादिति चोद्यमपि निरस्तम्।
भावदीपः
ॐ स्मृतेश्च ॐ॥ परोक्तेति॥ कृष्णार्जुनसंवादानुवादरूपत्वादिति भावः। पररीत्याऽर्थमनुवदति॥ ईश्वर इति॥ स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूप इत्यादिच्छान्दोग्यवाक्ये मनोमयत्वादिनोपास्यो जीव इति प्राप्ते ईश्वर एवेत्युपपादिते सतीत्यर्थः। ‘‘मिथ्यैव भेदो विमतो भेदत्वाच् चन्द्रभेदवत्’’ इत्यनुभाष्योक्तं शङ्कते॥ जीवशेति॥ स्वपरपक्षरीत्या हृदि विकल्प्य दूषयति॥ मिथ्येत्यस्येति॥ ‘‘यदि सन्नपसिद्धान्तः स एवासन्नितीरित’’ इत्याद्युक्तेरिति भावः॥ सिद्धसाधनमिति॥ ‘‘विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतमि’’त्याद्यनुभाष्योक्त्या मिथ्यात्वादिनाऽऽन्यथा विज्ञातस्य सत्यत्वादिना विज्ञानाङ्गीकारादिति भावः। ‘‘नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता। यदि बाधस्तदाऽ-सत्त्वं तेनैवाङ्गीकृतं पुन’’रित्यनुभाष्योक्तमाह॥ त्रिकालेति॥ प्रतीतस्येति॥ प्रतीतत्वे सति त्रिकाले स्वरूपनिषेधधीविषयत्वं मिथ्यात्वमित्यर्थः। इदं च नासत्त्वम्। असतोऽप्रतीतेरिति भावः। अप्रतीते-रित्यत्र प्रतीतिः किं परोक्षा उत अपरोक्षा। नाद्यः। ‘‘प्रतीतिर्नासत इति वदन्नङ्गीकरोति ता’’मित्यनु-भाष्योक्तदिशा ‘‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि’’ इति त्वदीयमण्डनोक्त्या व्याघातेन तन्निषेधायोगात्। नान्त्यः। असतोऽपि सत्त्वादिति भावेन वदन्नङ्गीकरोति तामित्युक्तिलब्धमेवाह॥ असदिति॥ धर्माधर्मादेरीश्वराद्यपरोक्षत्वान्न व्यभिचार इति भावः। तथा चैवंरूपमपि मिथ्यात्वम् असत्त्वमेवेति मत्त्वा हेतुमपि निराह॥ भेदेति॥ श्रुतीति॥ स्वतःप्रमाणश्रुतिप्राप्तस्य मिथ्यात्वायोगादिति भावः। दृष्टान्तं च निराह॥ अन्यतरेति॥ सत्यत्वाच्चेति॥ तथा च साध्यवैकल्यमिति भावः॥
अभिनवचन्द्रिका
(सू.६) न च वाच्यमिति॥ सूत्रस्येव स्मृतेरपि परं प्रत्यविश्वसनीयत्वात् सूत्रकारो ऽर्थनिर्णयाय कथं तामुपादत्ते। तदुपादानमनुचितमिति न वाच्यमित्यर्थः। तस्या इति॥ परस्य उक्तम् उच्चारणं तस्यानुवादो अनूच्चारणं तद्विषयत्वात्। अत्र परोक्तानुवादशब्देन वेद उच्यते। स्मृतेस्तद्रूपत्वात्, तत्सदृशत्वात्, अपौरुषेयत्वादिति यावत्। इदमुक्तं भवति – न स्मृतयः सूत्रवत् स्ववचनानि। येनोक्तदोषः स्यात्। किन्तु यथा वेदो अपौरषेयस् तथा स्मृतयोऽप्यपौरुषेयाः। ‘सर्गे सर्गेऽन्यथैव तु। क्रियन्तेऽतस्त्वनित्यानी’ति पारिभाषिकानित्यत्वोक्तेः। ‘अन्यथैव क्रियन्ते’ इत्यन्यथाशब्देन अन्यथा-भावोक्तेः। वस्त्वैक्ये प्रकारभेदमात्रे सति अन्यथाभाव इति सुप्रसिद्धत्वात्। अन्यथा ‘सर्गे सर्गेऽन्यानि क्रियन्त’ इति अवक्ष्यत्। व्यासोपज्ञताप्रसिद्धिस्तु काठकं कालापकमित्यादिप्रसिद्धिवत् सम्प्रदाय-प्रवर्तकत्वादुपपन्ना। इयांस्तु विशेषः कठादीनां सम्प्रदायप्रवर्तकत्वमात्रं, व्यासस्य तु पुराणेषु सम्प्रदाय-प्रवर्तकत्वं क्रमव्यत्यासकारित्वं चेति। एतेन परोक्तानुवादत्वस्य प्रामाण्यनिश्चायकत्वाभावात् तदुपन्यासो व्यर्थः। अन्यथा परोक्तजीवब्रह्मैक्यानुवादकग्रन्थस्यापि तदैक्ये प्रामाण्यं स्यादिति परास्तम्। ईश्वर एवेति॥ सूत्रकृता ‘सर्वत्र प्रसिद्धोपदेशात्’ इति सूत्रेण ईश्वर एव मनोमयत्वादिगुणः, ‘अनुपपत्तेस्तु न शारीरः’ इति सूत्रेण न जीवो मनोमयत्वादिगुण इति प्रतिपादिते सति केनचिन्मायावादिना सूत्रकारमते जीवेश्वरयोरैक्यात्कथमेतत्प्रमेयं घटत इत्याशङ्क्योक्तं समाधानमुक्तमित्यर्थः। किमुक्तमित्यत आह– नायमिति॥ मिथ्येत्यस्येति॥ ननु – अनिर्वचनीयत्वं प्रतिज्ञाय, तत्सिद्धयेऽनुमानस्योपन्यस्तत्वान् मिथ्येत्यस्यानिर्वचनीयत्वाभिप्रायकत्वं सिद्धमेवेति अप्रसिद्धविशेषणत्वमेव दूषणं वाच्यम्। न तु असत्त्वाभि-प्रायेण अपसिद्धान्त इत्यादि दूषणं वाच्यमिति चेत्, उच्यते परेणाऽनिर्वचनीयत्वं प्रतिज्ञायाऽनुमान-स्योपन्यस्तत्वाद् अनिर्वचनीयत्वं साध्यत इति सम्भाव्यते। चन्द्रारोपितस्य चन्द्रप्रतियोगिकस्याऽत्यन्तासतो भेदस्य दृष्टान्तीकरणात्, असत्त्वं साध्यत इति सम्भाव्यते। सत्त्वासत्त्वानधिकरणत्वरूपानिर्वचनीय-शब्दार्थैकदेशस्यासत्त्वाभावस्य विवादानास्पदत्वात् सत्त्वाभावमात्रं साध्यत इति सम्भाव्यते। तथा परसिद्धान्ते मिथ्येति व्यवहारविषये बाध्यमिति व्यवहाराद् बाध्यत्वं साध्यत इति सम्भाव्यते। न चाऽन्यतरपक्षनिर्णयो दृश्यते। युक्तमेव परो ब्रवीतीति नियमाभावाच्च विकल्पेन दूषणमुक्तम्। अपसिद्धान्तादित्युपलक्षणम्। अर्थान्तरत्वाच्चेत्यपि द्रष्टव्यम्। तत एवेति॥ सत्त्वाभावसाधका-देवासत्त्वापत्तेरित्यर्थः। सत्त्वासत्त्वयोर्भावाभावरूपत्वेन सत्त्वनिषेधस्यैवाऽसत्वरूपत्वात्, सत्त्वाभाव-साधनेऽसत्त्वापत्तिरिति भावः। बाध्यत्वशब्दस्याप्यनेकार्थत्वाद् विकल्पेन दूषणमाह– बाध्यत्वेति॥ साधनेऽपीत्यतः परं यत इति शेषः। बाध्यत्वसाधनपक्षेऽपि यतः सिद्धसाधनम्, असत्त्वापत्तिश्च प्राप्नोति अतोऽनुमानं न मानमिति पूर्वेण सम्बन्धः। कथमेतद्दूषणद्वयमित्यत उक्तम्– अन्यथेत्यादि॥ चेच्छब्दो यद्यर्थे। यदि साध्यमानं बाध्यत्वम्, ‘अन्यथाविज्ञातस्य सम्यग्विज्ञातत्वं तत्, तदा सिद्धसाधनं प्राप्नोति। क्षणिकत्वादिना विज्ञातस्य जीवेशभेदस्य अस्माभिरपि सम्यक् ज्ञातत्वाङ्गीकारात्। यदि च साध्यमानं बाध्यत्वं त्रिकाले स्वरूपनिषेधविषयत्वं तदा भेदस्याऽसत्त्वापत्तिरिति विवेकः। प्रतीतस्येति॥ प्रतीतस्योक्तरूपं बाध्यत्वं साध्यत इति नासत्त्वापत्तिरित्यर्थः। इदमुक्तं भवति – यत्र त्रैकालिक-स्वरूपनिषेधविषयत्वं तत्राऽसत्त्वमिति सामान्यव्याप्तिः, यद् अपरोक्षतया प्रतीयते तन्नासदिति विशेषव्याप्तिः। तथा च विशेषव्याप्तिमता अपरोक्षत्वलिङ्गेन बाधान्नोक्तरूपबाध्यत्वेन न सत्त्वापत्तिरिति। इति चेदित्यनन्तरं नेति शेषः। असत इति॥ असतोऽपि अपरोक्षत्वस्य प्रमाणसिद्धत्वाद् यदपरोक्षं तन्नासदिति व्याप्तिरेव नास्तीति भावः। भेदाभावेनेति॥ दृष्टान्तीकृतस्य चन्द्रारोपितस्य चन्द्रप्रतियोगिकस्य भेदस्याऽभावेन पक्षदृष्टान्तानुगतस्य हेतूकृतस्य भेदत्वसामान्यस्याप्यभावेनाऽसिद्धेश्चेति नानुमानं मानमिति पूर्वेण सम्बन्धः। व्यक्त्यभावेनेति॥ बाष्पारोपितधूमाभावेन बाष्पारोपितधूमे सद्धूमे चानुगतधूमत्वायोगवद् अनुगतभेदत्वस्याप्ययोगादित्यर्थः। भेदत्वहेतोरिति॥ मोक्षात्मभेदे मोक्षात्मके आत्मप्रतियोगिकभेदे त्वदभिमताऽनिर्वचनीयत्वरूपमिथ्यात्वस्यापि अङ्गीकर्तुमशक्यत्वेन व्यभिचारादित्यर्थः। कुतो न युक्तमित्यत आह– मोक्षेति॥ मोक्षात्मकभेदनिवृत्तेरेव मोक्षनिवृत्तित्वादिति भावः। मोक्षे आत्मप्रतियोगिकस्य भेदस्यैवासत्वे तत्र व्यभिचारचोदनमयुक्तमिति भावः। द्वा सुपर्णेत्यादीति॥ वस्तुस्वरूपमानस्य तत्सत्यत्वे मानत्वनियमात्। भेदमानस्य ‘द्वासुपर्णे’ति वाक्यस्य तत्सत्यत्वेऽपि मानत्वान् मिथ्यात्वानुमानस्य तद्विरोध इत्यर्थः। आदिशब्देन ‘सत्यं भिदे’ति श्रुतिग्रहणम्। अन्यतरेति॥ अन्यतरचन्द्रस्यैवारोपितत्वेन तद्भेदं तस्य सत्त्वं चाऽङ्गीकुर्वता मया मिथ्यात्वानङ्गीकारेण दृष्टान्ताभावाच्चाऽनुमानं न युक्तमिति भावः।
वाक्यार्थमुक्तावली
ॐ स्मृतेश्च ॐ॥ स्मृतिसमाख्यानाच्च विष्णुरेव सर्वगत इति सूत्रार्थः। ईश्वर एवेति। सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वन्त मनोमयः प्राणशरीरो भारूप इति छान्दोग्ये सर्वात्मको मनोमयत्वादिगुणतयोपास्यः किं जीव उतेश्वर इति सन्देहे मनोमयत्वादिगुणकः सर्वात्मकतयोच्यमानः प्रत्यगात्मैव न ब्रह्म सकलहेयप्रत्यनीककल्याणैकतानस्य ब्रह्मणः सर्वहेयाकारसर्वतादात्म्यायोगान् मनोमयत्वाद्ययोगाच्चेति पूर्वपक्षे प्राप्ते सर्वत्र प्रसिद्धोपदेशात् सर्वत्र सर्वात्मकत्वेनोच्यमानो मनोमयत्वादिगुण ईश्वर एव न जीवः। यतो वा इमाः सन्मूलाः सोम्येमाः सर्वाः प्रजा इत्युपदेशात् सर्वात्मकत्वं च यः पृथिव्यां तिष्ठन् इत्यादेः शरीरात्मभावेनैवेति सिद्धान्तिना प्रतिपादिते सतीत्यर्थः। पररीत्या समग्रसूत्रार्थस्तु ग्रन्थगौरवभयान्न लिख्यते॥ प्रतीतत्वे सतीति॥ प्रतीतत्वे सति त्रिकाले स्वरूपधीविषयत्वं मिथ्यात्वमित्यर्थः। इदं च नासत्त्वमसतोऽप्रतीतेरिति भावः। अप्रतीतेरित्यत्र प्रतीतिः किं परोक्षा अथापरोक्षा। नाद्यः। ‘प्रतीतिर्नासत इति वदन् अङ्गीकरोति ताम्’ इत्यनु-भाष्योक्तदिशा अत्यन्तासत्यपिज्ञानमर्थे शब्दः करोति हीति तदीयमण्डनोक्त्या व्याघातेन तन्निषेधायोगात्। नान्त्यो ऽसत्यपि सत्त्वादिति भावेनाह॥ असदिति॥ धर्माधर्मादेर्योग्यापरोक्षसिद्धत्वान्न व्यभिचार इति भावः। हेतुं दूषयति॥ भेदेति॥ पक्षीकृतभेदाभावेन भेदत्वादित्युक्तभेदत्वसामान्यस्यापि असिद्धि-रेवेत्यर्थः। यद्वा किमनिर्वचनीयभेदत्वं हेतुर् उत पारमार्थिकम्। नोभयमपि अन्यतरासिद्धेः। उभयानुगतं भेदत्वसामान्यं हेतुरिति चेत् तत्राह॥ भेदाभावेनेति॥ उक्तरीत्याऽनिर्वचनीयपारमार्थिकभेदयोरुभयरीत्या अभावेन तदुभयानुगतं भेदत्वसामान्यमप्यसिद्धमित्यर्थः॥ मोक्षनिवृत्तीति॥ भेदिनोस्सतोर् भेदनिवृत्तेर्वक्तुमशक्यत्वेनात्मनिवृत्तेश्च बाधितत्वेनैक्यस्य निराकरिष्यमाणत्वेन मोक्षनिवृत्यापातादिति भावः। चन्द्रभेदवदित्यत्र चन्द्रभेदो नाम चन्द्रे आरोपितभेदो वा आरोपितानारोपितचन्द्रयोर्भेदो वा ? नाद्यः। तस्यासत्त्वेन तत्र भेदत्वाभावेन साधनवैकल्यात्। तदुक्तमुपाधिखण्डनटीकायाम्। अङ्गुल्यवष्टम्भादिना चन्द्रभेदाध्यासदर्शनादित्यादिना। द्वितीये साध्यवैकल्यमाह॥ अन्यतरचन्द्रस्येति॥ ननु चन्द्रे भेदारोपमात्रेण द्वित्वप्रतीत्युत्पत्तौ चन्द्रान्तरारोपकल्पनं व्यर्थम्। न चैवं सति रजततादात्म्यारोपमात्रेण पूर्तौ रजतारोपवैयर्थ्यमिति वाच्यम्। वैषम्यात्। तत्राधिष्ठानस्यारजतत्वेन रजतोपस्थित्यर्थं रजतारोपाङ्गी-कारात्। रजतानुपस्थितौ इदं रजतमिति प्रत्ययायोगात्। न चैवं प्रकृतेऽधिष्ठानस्य चन्द्रत्वादिति चेन्न। इमौ चन्द्रौ भिन्नाविति भेदारोपस्य चन्द्रान्तरारोपेण विनाऽयोगादिति। अतो न ग्रन्थान्तरविरोधः।
तत्त्वसुबोधिनी
तस्या इति। तथा च विष्णोः सर्वगतत्वसाधनाय तदुदाहरणं युक्तमिति भावः। तत एवेति। सत्वाभावादेवेत्यर्थः। ननु त्रिकालप्रतीतस्य स्वरूपेण निषेधविषयत्वं विवक्षितम्। तथा च असतः प्रतीत्यभावेन तत्र एतादृशमिथ्यात्वावगमनान्न सत्वापत्तिरित्याशयेन शङ्कते। प्रतीतस्येति चेदिति। वाच्यत्वादिति। धर्मादेरपि ईश्वराद्यपरोक्षत्वान्न व्यभिचार इति भावः। अत्र यद्यपि प्रतीतस्येति चेदित्युक्तत्वादसतः प्रतीतिरेव साधनीया। तथापि अपरोक्षतया प्रतीतस्येति पुनः परेणोक्ते अपरोक्ष-प्रतीतेरपि साधने गौरवं स्यादिति प्रतीतिरेव साधिता। अत एव प्रकृताभिप्रायेण प्रतीतिसिद्धेरित्येवोक्तम्। प्रतिज्ञां दूषयित्वा हेतुं दूषयति। भेदाभावेनेति। ननु भेदाभावेऽपि भेदत्वसामान्यासिद्धिः कुत इत्यत आह। व्यक्त्यभावेनेति। समानानां व्यक्तीनां भावः धर्म इति हि सामान्यशब्दार्थः। तथा च व्यक्त्यभावे सामान्यासिद्धिरिति भावः। मोक्षनिवृत्यापातादिति। न च एतदयुक्तम्। भेदमिथ्यात्वे उक्ते मोक्षनिवृत्यापादनस्यासङ्गतत्वादिति चेन् न। भेदस्य धर्मिस्वरूपत्वेन भेदमिथ्यात्वे मोक्षस्यापि मिथ्यात्वेन तन्निवृत्यापादनस्य युक्तत्वादिति भावः। यद्वा यन्निरूपितस्य यस्य यद्भवति तन्निरूपकस्यापि तद्भवतीति परेणाङ्गीकृतत्वान् मोक्षनिरूपितस्य भेदस्य मिथ्यात्वे मोक्षस्यापि मिथ्यात्वात् तन्निवृत्तिरापाद्या। न चैवं जीवब्रह्मनिरूपितस्य भेदस्य मिथ्यात्वे जीवब्रह्मणोरऽपि मिथ्यात्वं स्यादिति वाच्यम्। चैतन्यमात्रस्य भेदाभावेन जीवत्वब्रह्मत्वविशिष्टयोर् एव भेदो मिथ्या। तथा च तत्रापि निरूपकयोर् मिथ्यात्वान् नापादनानुपपत्तिरिति भावः। यद्वा मोक्षे भेदस्य निवृत्त्यापाताद् इत्यर्थः। तथा च मुक्तत्वव्यवहारानुपपत्तिरिति भावः। अन्यतरचन्द्रस्यैवारोपितत्वेनेति। तथा च साध्यविकलोऽयं दृष्टान्त इति भावः। चन्द्रे आरोपितभेदस्य दृष्टान्तत्वे तस्यासत्त्वेन साधनवैकल्यापत्या आरोपितानारोपितचन्द्रभेद एव निदर्शनीय इत्यभिप्रायेण अन्यतरचन्द्रस्यैवेत्युक्तम्।
वाक्यार्थविवरणम्
मोक्षनिवृत्त्यापातादिति। मोक्षात्मनोर् भेदस्य मिथ्यात्वे मिथ्याभूतस्य निवृत्तिरिति नियमादात्म-प्रतियोगिकमोक्षधर्मिकभेदस्य मोक्षस्वरूपत्वेन तन्निवृतौ मोक्षस्यैव निवृत्तिः स्यादिति भावः। स्वमताभिप्रायेणेदं दूषणं द्रष्टव्यम्। आत्मन इति। परस्परविरुद्धयोरिति न्यायेन भेदाभावे आत्ममोक्षयोरभेदस्यैव प्राप्तेरित्यर्थः। जीवेशभेदमिथ्यात्वे श्रुतिविरोधमाह॥ द्वा सुपर्णेति। निवृत्ति-रूपत्वेति। अविद्यानिवृत्तिरूपमोक्षस्य ज्ञानसाध्यत्वानुपपत्तेरिति यावत्। आरेपितानारोपितेति। साध्यहीनो दृष्टान्त इत्याशयः। अत्रानारोपिते आरोपितप्रतियोगिकभेद एव विवक्षितः, न त्वारोपिते अनारोपितप्रतियोगिकः। तेनास्मन्मते भेदस्य धर्मिस्वरूपत्वात् कथमेतदिति शङ्कानवकाशः। न च आरोपितचन्द्रभेद एव दृष्टान्त इति वाच्यम्। तत्र भेदत्वरूपहेतोरभावेन साधनवैकल्यापातात्। न हि व्यक्त्यभावे सामान्यं सम्भवतीति ध्येयम्॥
वाक्यार्थमञ्जरी
ॐ स्मृतेश्च ॐ॥ विष्णोः सर्वगतत्वप्रतिपादकस्मृतिसत्वाच्च स एव सर्वगत इत्यर्थः। स्मृतौ गुडाकेशो ऽर्जुनः॥ भूताशयेति॥ भूताख्याश्रयेत्यर्थः॥ परोक्तेति॥ तस्याः कृष्णार्जुनसंवादरूपत्वादिति भावः॥ इति प्रतिपादित इति॥ स क्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प इति वाक्ये मनोमयत्वादिनोपास्यो जीवो वा ब्रह्म वेति सन्देहे जीवस्यैव मनःप्राणसम्बन्धात्तस्यैव वाङ्मनो-मयत्वादिनोपास्यत्वमिति प्राप्ते ब्रह्मैवात्र मनोमयत्वादिनोपास्यं न जीवः सत्यसंकल्पादितल्लिंगादिति प्रतिपादित इत्यर्थः। अप्रामाणिकत्वमुपपादयितुं भेदेऽनुमानमाशङ्क्य निराकरोति। जीवेशभेद इत्यादिनाऽलमित्यन्तेन। अत्र मिथ्यात्वम् असत्त्वं वा अनिर्वचनीत्वं वा सत्त्वाभावो वा बाध्यत्वं वेति विकल्पान् क्रमेण दूषयति॥ मिथ्येत्यस्येत्यादिना॥ अपसिद्धान्तादिति॥ सदसद्विलक्षण-त्वाङ्गीकारादिति भावः॥ अप्रसिद्धविशेषणत्वेति॥ तस्य मां प्रति कुत्राप्यप्रसिद्धत्वादिति भावः। तत एव सत्वाभावादेव। चतुर्थमपि विकल्पपूर्वकं दूषयति॥ बाध्यत्वसाधन इत्यादिना॥ अन्यथा-ज्ञातस्य अन्यधर्मावच्छिन्नतया ज्ञातस्य स्वधर्मावच्छिन्नतया ज्ञातत्वमित्यर्थः॥ सिद्धसाधनमिति॥ मिथ्यात्वेन ज्ञातस्य भेदस्य सत्यत्वेन ज्ञातत्वाङ्गीकारादिति भावः॥ त्रिकालेति॥ नास्ति नासीन्न भविष्यतीति बोध्यमानाभावप्रतियोगित्वमित्यर्थः। प्रतीतस्येत्यनन्तरं त्रिकालेत्याद्यनुवर्तते। तथा चासतः प्रतीत्यभावान्नोक्तदोष इति भावः॥ वाच्यत्वादिति॥ धर्माधर्मादेरपीश्वरादिप्रत्यक्षगोचरत्वेन न तत्र व्यभिचार इति भावः। अत्र यद्यपि प्रतीतस्येति चेदित्युक्तत्वादसतः प्रतीतिरेव साधनीया तथाप्यपरोक्षतया प्रतीतस्येति पुनः परेणोक्तेऽपरोक्षप्रतीतेरपि साधने गौरवं स्यादित्यपरोक्षप्रतीतिरेव साधिता। अत एव प्रकृताभिप्रायेण प्रतीतिसिद्धेरित्येवोक्तम्। उक्तबाध्यत्वसाधनेऽपसिद्धान्तं सूचयित्वा दोषान्तरमाह॥ भेदाभावेनेति॥ भेदप्रयोजकविरुद्धधर्मस्फुरणायाविद्यानिवृत्तिरूपेति मोक्षस्वरूपनिरूपणम्॥ अविद्या-स्तमयो मोक्ष इत्युक्तेरिति भावः। मिथ्याभूतो भेदः किं निवर्तते उत न। नाद्य इत्याह॥ मोक्ष-निवृत्तीति॥ भेदनिवृत्तिर्हि भोदिनिवृत्तिनियता॥ भेदिनोऽसत्वे भेदस्याप्यनुपपत्तेः। तत्र नात्मा निवर्तते सत्यत्वात्। अतो मोक्षस्यैव निवृत्तिर्वक्तव्येत्याशयः। द्वितीये त्वाह॥ मिथ्याभूतेति॥ तथात्वम् अनिवृत्त्यविरोधिमिथ्यात्वम्॥ न चेति॥ तथा च कुत्र व्यभिचार इति भावः। बाधकमप्याह॥ द्वा सुपर्णेति॥ न चात्र भेदमात्रं श्रूयते न तत्सत्यमिति वाच्यम्। स्वतः प्रमाणश्रुत्या सत्यस्यैव प्रतिपादनात्। अन्यथा तत्प्रतिपादितब्रह्मणोऽपि मिथ्यात्वं स्यादिति भावः। यद्यपि प्रमाणविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोध इति बाधस्य प्रतिज्ञादोषत्वावगमात् प्रतिज्ञादूषणसमय एवेदं वाच्यम्। तथापि हेतुदोषत्व-मङ्गीकुर्वतां नैयायिकानां रीतिमाश्रित्योक्तिरविरुद्धा। साध्यवैकल्येन दृष्टान्तमपि दूषयति॥ अन्यतर-चन्द्रस्यैवेति॥ नन्वनारोपिते चन्द्रे भेदमात्रारोपेणेमौ चन्द्राविति द्वित्वमात्रप्रतीत्युपपत्तौ चन्द्रान्तरारोपो व्यर्थः। न चैवं शुक्तिकायां रजताभेदमात्रारोपेणेदं रजतमिति प्रतीत्युपपत्तौ रजतारोपांगीकारोऽपि व्यर्थः स्यादिति वाच्यम्। तत्राधिष्ठानस्यारजतत्वेन रजतोपस्थित्यर्थं रजतारोपाङ्गीकारात्। रजतानुपस्थितौ रजताभेदारोपायोगात्। न चैवं प्रकृते अधिष्ठानस्य चन्द्रत्वादिति चेन्न। अनारोपितचन्द्रे आरोपितभेदस्यैव दृष्टान्तत्वे तस्यारोपितत्वेनात्यन्तासत्वात्तत्र हेतुवृत्त्यसम्भवेन साधनवैकल्यापातात्। तदेतदाह॥ अन्यतर-चन्द्रस्यैवारोपितत्वेनेति॥ सत्यत्वादिति। अत्रारोपितप्रतियोगिकानारोपितधर्मिक एक एव भेदो विवक्षितो न त्वनारोपितप्रतियोगिकारोपितधार्मिकः। भेदस्य धर्मिस्वरूपत्वेनारोपितधर्मिस्वरूपभेदस्य सत्यत्वायोगात्। यद्वाऽसद्घटो नेत्यबाधितप्रतीतिबलादसद्धर्मिकोऽपि भेदोऽस्त्येव। न चोक्तदोषः। असत्वात्मकत्वसम्भवात्। न च वैषम्यम्। यथा न्यायमते अत्यन्ताभावादेः प्रतियोगिविरोधित्वेऽप्य-न्योन्याभावस्य प्रतियोगितावच्छेदकविरोधित्वं तथा सद्धर्मिकान्योन्याभावस्य धर्मिस्वरूपत्वेऽप्य-सद्धर्मिकान्योन्याभावस्य धर्मितावच्छेदकस्वरूपत्वे विरोधाभावादिति। किं च प्रातिभासिकत्वमुपाधिः। स च न पक्षे साधयितुं शक्यः व्यावहारिकत्वाङ्गीकारविरोधात्। अभेदो मिथ्याऽभेदत्वाद्देहात्माभेदवदित्या-भाससमानयोगक्षेमत्वम्। न च दृष्टान्तस्य साध्यवैकल्यं तथात्वेऽन्योन्यस्मिन्नन्योन्यात्मकता-मन्योन्यधर्मांश्चाध्यस्येति भाष्यस्योन्मत्तप्रलापितत्वप्रसंगादित्येतद्धृदि निधायाह॥ अलमिति॥
विवृतिः
तस्या इति॥ तथा च विष्णोः सर्वगतत्वसाधनाय तदुदाहरणं युक्तमिति भावः॥ तत एवेति॥ सत्वाभावादेवेत्यर्थः॥ ननु त्रिकाले प्रतीतस्य स्वरूपेण निषेधविषयत्वं विवक्षितम्। तथा चासतः प्रतीत्यभावेन तत्रैतादृशमिथ्यात्वागमनान्न सत्वापत्तिरित्याशयेन शङ्कते॥ प्रतीतस्येति चेदिति॥ वाच्यत्वादिति॥ धर्मादेरपीश्वराद्यपेक्षत्वान्न व्यभिचार इति भावः॥ अत्र यद्यपि प्रतीतस्य चेदित्युक्तत्वादसतः प्रतीतिरेव साधनीया॥ तथाप्यपरोक्षतया प्रतीतस्येति पुनः परेणोक्तेऽपरोक्षप्रतीतेरपि साधने गौरवं स्यादिति तादृशप्रतीतिरेव साधिता। अत एव प्रकृताभिप्रायेण प्रतीतिसिद्धेरित्येवोक्तम्॥ प्रतिज्ञां दूषयित्वा हेतुं दूषयति॥ भेदाभावेनेति॥ ननु भेदाभावेऽपि भेदत्वसामान्यसिद्धिः कुत इत्यत आह॥ व्यक्त्यभावेनेति॥ समानानां व्यक्तीनां भावः धर्म इति हि सामान्यशब्दार्थः॥ तथा च व्यक्त्यभावे सामान्यासिद्धिरिति भावः॥ मोक्षनिवृत्यापातादिति। न चैतदयुक्तम्॥ भेदमिथ्यात्वे उक्ते मोक्षनिवृत्यापादनस्यासङ्गतत्वादिति चेन्न॥ भेदस्य धर्मिस्वरूपत्वेन भेदमिथ्यात्वे मोक्षस्यापि मिथ्यात्वेन तन्निवृत्यापादनं युक्तमिति भावः॥ यद्वा यन्निरूपितस्य यद्भवति तन्निरूपकस्यापि तद्भवतीति परेणाङ्गीकृतत्वान् मोक्षादिनिरूपितस्य भेदस्य मिथ्यात्वे मोक्षस्यापि मिथ्यात्वात् तन्निवृत्तिरापादद्या। न चैवं जीवब्रह्मनिरूपितस्य भेदस्य मिथ्यात्वे जीवब्रह्मणोरपि मिथ्यात्वं स्यादिति वाच्यम्। चैतन्यमात्रस्य भेदाभावेन जीवत्वब्रह्मत्वविशिष्टयोरेव भेदो मिथ्या। तथा च तत्रापि निरूपकयोर्मिथ्यात्वान्ना-पादनानुपपत्तिरिति भावः॥ अन्यतरचन्द्रस्यैवारोपितत्वेनेति॥ तथा च साध्यविकलो दृष्टान्त इति भावः॥ चन्द्रे आरोपितभेदस्य दृष्टान्तत्वे, तस्यासत्वेन साधनवैकल्यापत्या आरोपितानारोपितचन्द्रभेद एव निदर्शनीय इत्यभिप्रायेणान्यतरचन्द्रस्यैवेत्युक्तम्॥
ॐ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ
सूत्रभाष्यम्
॥ ॐ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ॥ ७॥
सर्वेषु भूतेष्वित्यल्पौकस्त्वाच्चक्षुर्मयत्वादिना जीवव्यपदेशाच्च नेति चेन्न। अर्भकौकस्त्वेन चक्षुर्मयत्वादिरूपेण च तस्यैव विष्णोर्निचाय्यत्वात्। सर्वगतत्वेऽप्यल्पौकस्त्वं च युज्यते व्योमवत्।
‘सर्वेन्द्रियमयो विष्णुः सर्वप्राणिषु च स्थितः।
सर्वनामाभिधेयश्च सर्ववेदोदितश्च स’ इति स्कान्दे॥ ७॥
सत्तर्कदीपावली
यच्चक्षुर्मयत्वादिजीवलिङ्गवचनं तस्य विष्णौ गतिं दर्शयत्सूत्रमुपन्यस्य व्याचष्टे॥ अर्भकेत्यादिना॥
तत्त्वप्रदीपिका
अर्भकौकस्त्वादित्यादि। सर्वेषु भूतेष्वित्यल्पौकस्त्वमुच्यते। सर्वजीवहृदयसुषिराणामल्पत्वात्। चक्षुर्मयत्वादिनाऽऽदित्यशब्देन च जीवव्यपदेशश्चास्ति। तदत्रेश्वराभ्युपगमे का गतिरिति चेदल्पस्थानस्थत्वेन चक्षुर्मयत्वादिरूपेण चाऽदित्यादिशब्दवाच्यत्वेन च तस्यैव विष्णोर्निचाय्यत्वमित्यभिप्रायः।
‘‘ब्रह्मणस्सारभूतस्तु प्रद्युम्नो भगवान्हरिः।
स एवादित्यसंस्थश्च स ह्यादिर्जगतो विभुः॥
ततश्च सर्वभूतेषु जीवानां विनियामकः।
स एवाऽदित्यगो विष्णुर्यः प्रद्युम्नाभिधो हरिः॥
स एव सर्वदेहेषु चानिरुद्धतनुः स्थितः।
सङ्कर्षणो वासुदेव इत्येकः स चतुर्विधः॥
प्रतिपूरुषमेतस्मात्स्थितो विष्णुर्नियामकः।
आदित्यादिषु च स्थित्वा द्योतकोऽसौ प्रति प्रति।
स चेतनतमत्वाद्धि चित्रमित्यभिधीयते॥
आपूरयन्सर्वलोकान्प्रकाशेन जनार्दनः।
आदानात्सर्वजीवानामत्तृत्वात्प्रलयेऽपि च।
आत्मेत्युक्तस्स भगवाञ्जगतः स्थावरस्य च॥’’
इत्यैतरेयसंहितायाम्।
‘पूर्णदर्शनशक्तित्वाच्चक्षुर्मय इतीरितः।
तादृक्श्रवणशक्तित्वात्तथा श्रोत्रमयः स्मृतः।
छन्दोमयस्सत्यकामो मन्तृवक्तृबलात्मक’ इति च॥
तत्त्वप्रकाशिका
उक्तार्थमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद्व्याचष्टे॥ अर्भकेति॥ यदुक्तं सर्वत्रोच्यमानो नारायण एवेति। तदयुक्तम्। यथा खलु जीवप्रापकसद्भावेऽप्यनुपपत्त्या तस्य सर्वगतत्वाभावस्तथेश्वर-प्रापकसद्भावेऽपि बाधकसद्भावात्। सर्वेषु भूतेष्वित्यस्याल्पस्थानस्थितिकथनात्। चक्षुर्मयत्वादिरूपेण जीवलिङ्गकथनाच्च आदित्यश्रुतेश्च। न ह्यपरिच्छिन्नस्य सर्वजीवधर्मरहितस्य भगवतोऽर्भकौकस्त्वादिकथनं युज्यते। अतः पक्षद्वयेऽपि समसाधकबाधके न विष्णुरेवायं सर्वगत इति पक्षपातो युक्त इति भावः। परिहारांशं व्याचष्टे॥ नेति॥ न पक्षद्वयस्यापि साम्येन विष्णोस्सर्वगतत्वाभाव इति युक्तम्। बाधका-भावात्। तथा हि। किमपरिच्छिन्नादिरूपस्यार्भकौकस्त्वादिकथनमप्रयोजनमयुक्तं वा। आद्यं दूषयति॥ अर्भकेति॥ अपरिच्छिन्नस्य जीवविलक्षणस्यापि हरेरर्भकौकस्त्वेन चक्षुर्मयत्वादिरूपेण चोपास्यत्वान्न तदुक्तिर्व्यर्थेति भावः। द्वितीयेऽपि सर्वगतस्याल्पौकस्त्वं तावन्नायुक्तमित्याह॥ सर्वगतत्वेऽपीति॥ नापि जीवविलक्षणस्य चक्षुर्मयत्वाद्ययुक्तम्। ‘सर्वेन्द्रियमयः’ इति स्मृत्या सर्वप्राणिगतेन्द्रियस्वामित्वेन चक्षुर्मयत्वादेरुक्तत्वादित्याशयेनाऽऽह॥ सर्वेति॥ सर्वनामाभिधेयश्च इत्यनेनैवादित्यशब्दस्येश्वरवाचित्वं चोक्तं भवति। न चाऽदित्येऽनुक्तिविरोधः। सर्वप्राणिषु च स्थितः सर्वनामाभिधेय इति स्मृत्याऽऽदित्यादिगतस्यैवाऽऽदित्यादिनामवत्त्वोक्तेः॥ ७॥
भावबोधः
चक्षुर्मयत्वादिनेति भाष्यगतादिपदार्थमाह। आदित्यश्रुतेश्चेति। इन्द्रियस्वामित्वेनेति। प्राणा इन्द्रियाण्येषां सन्तीति व्युत्पत्तिबलात् प्राणिषु च नियामकत्वेन स्थित इत्यनेन चायमर्थो लब्ध इति द्रष्टव्यम्। आदित्यादिगतस्यैवादित्यादिनामवत्त्वोक्तेरिति। तथा च यश्चासावादित्य इत्यनेनैवादित्येऽ-प्युक्तिर्लब्धेति भावः।
भावदीपः
ॐ अर्भकौक. ॐ॥ नेति चेदित्यत्र नेति प्रतिज्ञार्थ इति यदुक्तं न तद्युक्तमिति हेत्वंशं तात्पर्योक्त्या व्यनक्ति॥ यथेति॥ अत्रैवैतच्छङ्कोत्पत्तौ बीजं वदन् बाधकसद्भावरूपहेतूपपादकत्वेन सूत्रभाष्ये योजयति॥ सर्वेष्विति॥ जीवेत्युपलक्षणं भाष्य इति मत्त्वा आदिपदेन लिङ्गान्तरवत् श्रुतिमप्याह॥ आदित्येति॥ उक्तहेतोरप्रयोजकत्वं निराह॥ न हीति॥ अदृश्यत्वादिनये नित्यं विभुं सर्वगतमित्यादिनोक्तापरिच्छिन्न(त्व)स्यानन्दनयेऽदृश्येऽनात्म्य इत्यत्र जीवगुणरहित इत्युक्तदिशा जीवधर्मरहितस्येत्यर्थः। यद्वा वक्ष्यमाणस्मृत्याऽनित्याल्पज्ञानादिरहितस्येत्यर्थः। बाधके सतीति शेषः॥ न विष्णुरेवेति॥ तथा च यथा जीवादिर्न सर्वगत इत्युच्यते तथा विष्णुरपि बाधकवशादत्रोक्तसर्वगतो न स्यादिति तात्पर्यार्थः। वाक्यस्य निर्विषयत्वं तु गत्यभावात्स्यादेवेति भावः। न विष्णुः सर्वगत इति पूर्वपक्षसाध्यस्य सिद्धान्तनकारेणान्वयमुपेत्यात्र पूर्वपक्ष इवात्रापि हेत्वन्तरमध्याहृत्य तदुपपादकत्वेन सूत्रशेषभाष्यं व्याचष्टे॥ न पक्षद्वयस्येत्यादिना॥ नायुक्तमित्याहेति॥ एतच्च
‘महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदराट्।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत्।
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद्ध्रुवम्।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता’’
इति वैशेषिकनयानुभाष्ये सुधायां च विवृतमिति भावः। व्योमवैषम्यशङ्का तु दहरनयेऽल्पश्रुतेरित्यत्र निरसिष्यते। स्मृतौ सर्वप्राणिषु च स्थित इत्यस्य तात्पर्योक्तिः सर्वप्राणिगतेन्द्रियस्वामित्वेनेति। ‘‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधक’’ इत्यनुभाष्योक्त्या प्राणिषु स्थितेः प्राणादिप्रेरणार्थत्वात्। प्राणिषु स्थित इत्यनेन स्मृताविन्द्रियमयत्वे तत्स्वामित्वं हेतुरुक्त इति भावः। तथा च सर्वप्राणिषु प्राणादिप्रेरकत्वेन स्थितत्वात् सर्वेन्द्रियमयो विष्णुरिति योजना दर्शिता। मयटो विकारादिरिव स्मार्तत्वात् स्वामित्वमप्यर्थ इति दर्शितम्। वक्ष्यते चैतज्ज्योतिराद्यधिष्ठानं तु तदामननादित्यत्र विष्णोरिन्द्रियस्वामित्वं द्वितीयान्त्यपादे॥ उपलक्षणमेतत्।
‘पूर्णदर्शनशक्तित्वाच् चक्षुर्मय इतीरितः।
तादृक्श्रवणशक्तित्वात्तथा श्रोत्रमयः स्मृत’
इत्यैतरेयभाष्योक्तं च ध्येयम्। सर्वप्राणिषु च स्थित इत्यस्य काकाक्षिन्यायेनोत्तरत्राप्यन्वयं मत्त्वाऽर्थमाह॥ सर्वप्राणिष्विति॥ उक्तं चैतरेयभाष्ये॥ ‘‘ब्रह्मणः सारभूतस्तु प्रद्युम्नो भगवान्हरिः। स एवादित्यसंस्थश्च स ह्यादिर्जगतो विभु’’रित्यादि। एतेन संवत्सरसारत्वं च समाहितं बोध्यम्। संवत्सरपदस्य विरिंचार्थत्वात्तत्र संवत्सरं नाम ब्रह्माणमित्यादेः॥ ७॥
अभिनवचन्द्रिका
(सू.७) बाधकसद्भावादिति॥ यतस्तस्यापि सर्वगतत्वाभाव इति शेषः। यतः परमेश्वरसाधक-सद्भावेऽपि बाधकवशाज् जीववत् सर्वगतत्वाभावः, अतो न तद्युक्तमित्यर्थः। एतेन यथा जीवस्य सर्वगतत्वाभाव इत्युक्तत्वात् तथा सर्वगतत्वाभाव इति वक्तव्यम्। तदभावान् न्यूनतेति परास्तम्। बाधकसद्भावो नासिद्ध इत्याह– सर्वेष्विति॥ श्रुतेश्चेत्यनन्तरं बाधकसद्भावो नाऽसिद्ध इति शेषः। भाष्ये– सर्वगतत्वेऽपीति॥ ननु सर्वगतस्याल्पौकस्त्वं किं सामस्त्येन युज्यते उत एकदेशेन। द्वितीये अल्पौकस्त्वं विना सर्वगतत्वायोगेनाल्पौकस्त्वस्य अवश्यं वाच्यत्वेनायोगशङ्काभावाद् व्योमवदिति दृष्टान्तकथनं व्यर्थम्। आद्ये तु व्योमदृष्टान्त एवाऽयुक्तः। तस्य सामस्त्येनाल्पौकस्त्वाभावादिति चेत्, न। अव्याकृताऽऽकाशस्य सामस्त्येनाल्पौकस्त्वाभावेऽपि तदंशस्य सामस्त्येनाल्पौकस्त्वसद्भावात्, तस्य चाऽऽकाशात्यन्ताभिन्नत्वेन तस्यापि अल्पौकस्त्वं प्राप्तमेवेति दृष्टान्तत्वसम्भवात्। तदिदमुक्तं नाऽयुक्तमित्याहेति॥ इन्द्रियस्वामित्वेनेति॥ जयस्वामित्वेन राज्ञो जयित्वदर्शनादिन्द्रियस्वामित्वेन चक्षुर्मयत्वादिकं नायुक्तमिति भावः। न चाऽऽदित्य इति॥ ‘यश्चासावादित्य’ (ऐ.आ.३-२) इति पूर्ववाक्ये तस्याऽऽदित्यगतत्वस्योक्तत्वादनुक्तेरसिद्धत्वेन तद्विरोधो नेति भावः। इतः परं टीकायां श्रूयमाणं ‘सर्वनामाभिधेय इति स्मृत्या आदित्यादिगतस्यादित्यादिनामवत्वोक्ते’रिति वाक्यं प्रक्षिप्तम्। अवश्यं चैतदेवं विज्ञेयम्‘एतमस्यामेत’मिति श्रुतिप्रतिपाद्यस्य सर्वगतस्यादित्येऽनुक्तत्वलिङ्गं, विष्णुपक्षे बाधकमिति शङ्किते तत्परिहाराय अस्यामेव श्रुतौ पूर्वं ‘यश्चासावादित्य’ इति आदित्यस्थत्वस्योक्त-त्वेनाऽऽदित्येऽनुक्तत्वलिङ्गमसिद्धमित्येव वक्तव्यत्वात्। न हि श्रुतावादित्यगतत्वं नोक्तमित्युक्ते स्मृतावुक्तमिति वचनं युक्तिमत्। नापि एतद्वाक्यप्रतिपाद्यस्य सर्वगतस्य चन्द्रादिस्थत्ववद् आदित्यस्थत्वं विशिष्य नोक्तमिति शङ्किते, स्मृतौ ‘सर्वप्राणिषु च स्थित’ इति सामान्यमुखेन विष्णोरादित्यस्थत्वकथनं युक्तिमत्। नापि ‘आदित्यादिगतस्याऽऽदित्यादिनामवत्वोक्तेरिति वचनं युक्तिमत्। येनेदं टीका-वाक्यमिति प्रतीमः।
वाक्यार्थमुक्तावली
॥ ॐ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ॥ सूत्रे सर्वत्र तदिति पदद्वयानुवृत्तिमभिप्रेत्य व्याचष्टे॥ यदुक्तमिति॥ एवमिति सिद्धान्तांशगतं पूर्वपक्षेऽप्यन्वेतीति भावेन तदर्थमाह॥ यथा खल्वित्यादिना॥ व्यपदेशपदसन्निधानाद् अर्भकौकस्त्वादित्यस्य अर्भकौकस्त्वव्यपदेशादित्यर्थ इत्यभिप्रायेणाह॥ सर्वेष्विति॥ तद्व्यपदेशादित्यस्य तत् श्रुतेरित्यर्थान्तरमभिप्रेत्य भाष्ये चक्षुर्मयत्वादिनेत्यादिपदं प्रयुक्तमित्याशयेन व्याचष्टे॥ आदित्यश्रुतेश्चेति॥ विपक्षे हेतूच्छित्तिं बाधकमाह॥ न हीति॥ अपरिच्छिन्नस्याल्पस्थानगतत्वं जीवधर्मरहितस्य चक्षुर्मयत्वादिकं भगवत आदित्यत्वं न हि युज्यत इत्यर्थः। इति चेन्नेत्यत्र चेच्छब्दो यदित्यर्थे इत्यभिप्रेत्य इति यदुक्तं तन्नेति सूत्रार्थमाह॥ न पक्षद्वयस्यापीति॥ एवमित्यस्य एवंरूपेण निचाय्यत्वादित्यर्थमभिप्रेत्याह॥ अपरिच्छिन्नस्येति॥ अर् इत्यनेन हरेरप्यादित्यशब्दप्रवृत्तिनिमित्त-मुख्यगुणमात्रत्वेनादित्यशब्दवाच्यत्वेनोपास्यत्वादित्युच्यत इति ज्ञेयम्। व्योमवच्चेति सूत्रे एवमिति देहलीदीपन्यायेनान्वेति। चोऽप्यर्थः। अर्भकौकस्त्वादित्येतत् प्रथमान्ततया विपरिणम्यार्भकौकस्त्व-मित्यन्वेति इति भावेन सर्वगतत्वेऽप्यल्पौकस्त्वमिति भाष्यं प्रवृत्तमित्याशयेन व्याचष्टे। द्वितीय इत्यादिना। सौत्रश्चशब्दश्चक्षुर्मयत्वादिलिङ्गस्यादित्यश्रुतेश्च हरावयुक्तनिरासकः स्मृतिसमुच्चायकश्चेति भावेनावतारयति॥ नापीति॥ इन्द्रियस्वामित्वेनेति॥ प्राणा इन्द्रियाण्येषां सन्तीति व्युत्पत्तिबलात् प्राणिषु नियामकत्वेन स्थित इत्यनेनायमर्थो लब्ध इति द्रष्टव्यम्। सर्वप्राणिषु च स्थित इत्यस्योत्तरत्राप्यन्वयाभिप्रायेणाह॥ सर्वप्राणिष्विति॥ उक्तं ह्यैतरेयभाष्ये–
‘ब्रह्मणः सारभूतस्तु प्रद्युम्नो भगवान् हरिः।
स एवादित्यसंस्थश्च स ह्यादिर्जगतो विभुः॥’
इत्यादि। ततश्च यश्चासावदित्ये इत्यनेनैवादित्येऽप्युक्तिर्लब्धा इति भावः। एतेन संवत्सरसंमानत्वं समाहितं ज्ञेयम्। संवत्सरशब्दस्य चतुर्मुखपरत्वात्। तथा चायं सूत्रार्थः। सर्वत्र तत्त्विति पदद्वयमनुवर्तते। एवमित्यनुकृष्यते। अर्भकमल्पमोकः स्थानं यस्य तस्य भावस् तत्त्वं तस्मात्। यथा बाधकवशात् सर्वत्रोच्यमानो न शारीर एवं सर्वेषु भूतेष्विति सर्वप्राणिहृदयगुहास्थत्वरूपार्भकौकस्त्वव्यपदेशात्तस्य शारीरस्य चक्षुर्मयत्वादिधर्मस्यादित्यस्थत्वव्यपदेशाच्च बाधकान्न सर्वत्र ब्रह्मैवोच्यत इति चेन्न। कुत इति चेत् किं ब्रह्मणोऽल्पौकस्त्वाद्युक्तिर्व्यर्थाऽयुक्ता वा। नाद्य इत्याह निचाय्यत्वादेवमिति। अर्भकौकस्त्व चक्षुर्मयत्वादिरूपेणोपास्यत्वयोर्वैयर्थ्याभावोऽत्रेत्यर्थः। द्वितीयं निराह॥ एवं व्योमवच्चेति॥ एवञ्चैवमपि सर्वगतत्वेऽपि अल्पौकस्त्वं व्योमवद्युज्यते। यथा व्याप्तस्यापि व्योम्न एकदेशेनाल्पस्थानावस्थितिस् तथा ब्रह्मणोऽपि भूताशयादौ स्थितिर्युक्तेति।
तत्त्वसुबोधिनी
बाधकसद्भावादिति। ईश्वरस्य सर्वगतत्वे इति शेषः। किं तद्बाधकम् आह। सर्वेष्विति। अस्य सर्वगतस्य। चक्षुर्मयत्वादिनेति भाष्यगतादिपदार्थमाह। आदित्यश्रुतेश्चेति। नन्वेतत्कथं ब्रह्मपक्षे बाधकमत आह। न ह्यपरिच्छिन्नस्येति। इन्द्रियस्वामित्वेनेति। प्राणा इन्द्रियाण्येषां सन्तीति व्युत्पत्तिबलात् प्राणिषु च नियामकत्वेन स्थित इत्यनेनायमर्थो लब्ध इति द्रष्टव्यम्। आदित्यादि-गतस्यैवेति। तथा च यश्चासावादित्य इत्यनेनैवादित्येऽप्युक्तिर्लभ्यत इति भावः।
वाक्यार्थमञ्जरी
ॐ अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ॥ सर्वेषु भूतेष्विति॥ सर्वप्राणिहृदयगुहाख्याल्पस्थानस्थत्वव्यपदेशात्तद्व्यपदेशात्तस्य शारीरस्यादित्यश्रुतिचक्षुर्मयत्वादिना व्यपदेशाच्च न सर्वगतं ब्रह्मेति चेन्न। किं ब्रह्मणोऽल्पौकस्त्वाद्युक्तिर्व्यर्था अयुक्ता वा। नाद्य इत्याह॥ निचाय्यत्वादिति॥ अर्भकौकस्त्वेन चक्षुर्मयत्वादिनोपास्यत्वान्न व्यर्थेत्यर्थः। अन्त्य आह॥ व्योमवदिति॥ यथा व्याप्तस्याप्याकाशस्यैकदेशस्थत्वं तथा ब्रह्मणोऽपि युक्तेत्यर्थः। उपास्यत्वाद् अधिकारिविशेषैः॥ इन्द्रियस्वामित्वेनेति॥ तथा च सर्वप्राणिषु पे्रेरकत्वेन स्थितत्वात्सर्वेन्द्रियमयः। मयटो विकारादेरिव स्मार्तत्वात्स्वामित्वमप्यर्थ इत्युक्तं भवति। सर्वप्राणिषु संस्थित इत्यस्य हेतुगर्भत्व-माह॥ आदित्यादिगतस्यैवेति॥ तथा च यश्चासावादित्य इत्यनेनैवादित्येऽप्युक्तिर्लब्धेति भावः॥
विवृतिः
बाधकसद्भावादिति॥ ईश्वरस्य सर्वगतत्वे इति शेषः॥ किं तद्बाधकमत आह॥ सर्वेष्विति। अस्य सर्वगतस्य॥ चक्षुर्मयत्वादिनेति॥ भाष्यगतादिपदार्थमाह॥ आदित्यश्रुतेश्चेति॥ नन्वेतत्कथं ब्रह्मपक्षे बाधकमत आह॥ न ह्यपरिच्छिन्नस्येति॥ इन्द्रियस्वामित्वेनेति॥ प्राणा इन्द्रियाणि एषां सन्तीति व्युत्पत्तिबलात्प्राणिषु च नियामकत्वेन स्थित इत्यनेन अयमर्थो लब्ध इति द्रष्टव्यम्॥ आदित्यादिगतस्यैवेति॥ तथा च यश्चासावादित्य इत्यनेनैवादित्येऽप्युक्तिर्लभ्यत इति भावः॥