१२ पादान्त्यप्राणाधिकरणम्

ॐ प्राणस्तथाऽनुगमात् ॐ

१२. अन्तिमप्राणाधिकरणम्

सूत्रभाष्यम्

प्राणो विष्णुरित्युक्तम्। तत्र ‘ता वा एताः शीर्षन् श्रियः श्रिताश्चक्षुश्श्रोत्रं मनो वाक्प्राणः’ (ऐ.आ. २-१-४) इत्यत्र प्राणस्य विष्णुत्वं न युज्यते। इन्द्रियैः सहाभिधानादिति। अत आह—

॥ ॐ प्राणस्तथाऽनुगमात् ॐ॥ २८॥

‘तं देवाः प्राणयन्त’ (ऐ.आ. २-१-५) ‘स एषोऽसुः स एष प्राणः’ (ऐ.आ. २-१-८) ‘प्राण ऋच इत्येव विद्यात्’ (ऐ.आ. २-२-२) ‘तदयं प्राणोऽधितिष्ठति’ (ऐ.आ. २-३-८) इत्याद्यनुगमात्। अत्रापि प्राणो विष्णुरेव।

‘विष्णुमेवानयन्देवा विष्णुं भूतिमुपासते।

स एव सर्ववेदोक्तस्तद्रथो देह उच्यत’ इति स्कान्दे।

ब्रह्मशब्दानुगमाच्च॥ २८॥

सत्तर्कदीपावली

ऐतरेये श्रूयते। ता वा एताः शीर्षच्छ्रियः श्रिताश्चक्षुः श्रोत्रं मनो वाक्प्राण इति। तत्र पूर्वं विष्णुविषयत्वेनोदितः प्राणशब्दः श्रूयमाणो विचार्यते किंविषयोऽयमिति। तत्र तावदयं प्राणो मुख्यप्राणो भवितुमर्हति न विष्णुर् इन्द्रियपङ्क्तिगणितत्वात्। यथेन्द्रियपङ्क्तिगणितं चक्षुर् न विष्णुरित्येतत्पक्षं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याचष्टे। प्राणस्तथेत्यादिना। अयमर्थः। परमात्मासाधारणधर्मयुक्तत्वेन अभ्यस्यमानत्वादत्र प्राणो विष्णुरेव। तथाहि। तं देवाः प्राणयन्तेत्यनेन तस्य प्रकृतस्य प्राणस्य सर्वब्रह्मादि-देवैः सर्वलोकेष्वानीतत्वमाहात्म्यस्यानेन प्रकृतत्वमुच्यते। स एषोऽसुः स एष प्राणस् तं भूतिरिति देवा उपासांचक्रिर इत्यन्तेन तस्यैव प्राणस्यैश्वर्यवतः पद्मजादिदेवैरुपास्यत्वमुच्यते। स एषोऽसुः स एष प्राणः सर्वे वेदा सर्वे घोषा एकैव व्याहृतिः प्राण एव। प्राण ऋच इत्येव विद्यादित्यनेन सर्वे वेदाः प्राणे प्राणस्यैव व्याहृतिः परस्परविरोधशून्यतया प्रतिपादका। ऋचस् तस्य विशेषेण प्रतिपादका इत्युच्यते। अथ देवरथस्तस्य वागुद्धिः श्रोत्रे पक्षसी चक्षुषी युक्ते मनः सङ्ग्रहीता तदयं प्राणोऽधितिष्ठतीत्यनेन वागादिभीरथोपकरणत्वेन कल्पितैर्युक्तस्य देहाख्यस्य शरीरस्य मुख्याधिष्ठाता प्राण इत्युच्यते। तथाच स्कान्दवचनं विष्णुमेवानयन्निति। एतद्ब्रह्मैतत्सत्यम्। अयं पुरुषो ब्रह्मणो लोकः। तत्प्रपदाभ्यां प्रापद्यत ब्रह्मेममित्यादिब्रह्मशब्दाभ्यासादप्येतद्विद्याप्रतिपाद्यो विष्णुरिति ज्ञायते। तस्मादिक्ष्वाकुवंशराजावली-गणितदाशरथिरामवदिन्द्रियगणगणितोऽप्ययं प्राणो विष्णुरेवेति युक्तम्।

तत्त्वप्रदीपिका

अतीतप्राणाधिकरणे प्रवर्तनस्वातन्त्र्यस्य प्राणशब्दप्रवृत्तिहेतोर्विष्णौ भावाद्विष्णुरेव प्राण इत्युक्तम्। अत्र पुनः विष्णावसम्भाव्यैर्विशेषलिङ्गैः प्राणशब्दस्य मुख्यप्राणप्रसिद्धिरेव बलवती स्यादित्याशङ्क्य तेषां लिङ्गानां विष्णावेव सम्भवमुपलम्भयितुमयमारम्भः। विष्णुस्तासु श्रित इति ताः श्रियः। प्राणस्तथाऽनु-गमात्। तं देवाः प्राणयन्त ज्ञानसम्प्रदायप्रवर्तनेन।

‘तस्मात् श्रुत्वा परं ब्रह्म देवा नारायणाभिधम्।

शिष्यप्रशिष्यादिषु च तेऽनयन्वायुनोदितम्’॥

इत्यैतरेयसंहितायाम्। स एषोऽसुरसनशीलत्वात्।

‘असनाद्भगवान्सोऽसुस्सर्वस्यापि जनार्दनः।

प्रकृष्टानन्दरूपत्वात्प्राण इत्यभिधीयत’ इति च॥

प्राणऋच इत्येव विद्यात् प्राणवाचकत्वेन वर्तन्ते ऋच इत्येव विद्यात्। तदयं प्राणोऽधितिष्ठतीति॥ तद्रथरूपं शरीरं प्राणोऽधितिष्ठतीत्यर्थः। इत्यादिषु वाक्येषु यथा प्राणो विष्णुस्स्यात्तथा प्राणशब्दानुगमा-द्विष्णुरेव प्राणः। ‘एतद् ब्रह्मैतत्सत्यं’ ‘तं प्रपदाभ्यां प्रापद्यत’ ‘अ इति ब्रह्म’ इत्यादिब्रह्मशब्दानुगमाच्च विष्णुरेव प्राणः।

तत्त्वप्रकाशिका

अत्र लोकतोऽन्यत्र प्रसिद्धप्राणनाम्नो विष्णौ समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः। श्रुत्यादि-सङ्गतिविषयवाक्यविषयसंशयसयुक्तिकपूर्वपक्षान् दर्शयति॥ प्राण इति॥ ‘तद्वै त्वं प्राणः’ इत्युक्तः प्राणो विष्णुरित्युक्तम्। ऐतरेयके च ‘कश्चित्ता वा एता’ इत्यारभ्य बहुषु स्थलेषु प्राणः श्रूयते। तस्य विष्णोरन्यत्वे प्राचीनोऽप्यन्य इति शङ्का स्यादित्ययमवश्यं विचार्यः। स प्राणोऽत्र विषयः। किं विष्णु-रुतान्य इति सन्देहः। पूर्वोक्तन्यायोऽन्यत्र प्रसिद्धिश्च सन्देहबीजम्।

तत्र न प्राणो विष्णुः किन्तु वाय्वादिरेवेति पूर्वः पक्षः। एतत्प्राणस्येन्द्रियगणे गणितत्वात्। न चैतल्लिङ्गं विष्णाववकाशं लभते। उपपद्यते च मुख्यप्राणादिषु अतस्तेषामन्यतमस्यैतत्प्राणत्वात्। प्राचीनप्राण आनन्दमयोऽप्यन्य एवेति भावः। सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे॥ अत इति॥ तद्वै त्वं प्राण इति श्रुताविवात्रापि श्रुतः प्राणो विष्णुरेव। विष्णुलिङ्गानां देवतोपास्यत्वादीनामस्मिन्प्राणेऽनुगमादनु-वृत्तेरभ्यासादित्यर्थः। तथाशब्दः समुच्चयार्थोऽतोऽत्रापीत्याह॥ तं देवाः प्राणयन्तेति॥ तं प्राणं देवाः शिष्यादिषु सम्यक् नीतवन्तः। ‘स एषोऽसुः स एष प्राणः स एष भूतिश्चाभूतिश्च तं भूतिरिति देवा उपासाञ्चक्रिरे’ इति प्राणस्य भूतित्वेन देवोपास्यत्वमुच्यते। ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राणऋच इत्येव विद्यात्’ इति तस्य सर्ववेदोक्तत्वमुच्यते। ‘अथ देवरथस्तस्य वागुद्धिः श्रोत्रे पक्षसी चक्षुषी युक्ते मनः सङ्गृहीता तदयं प्राणोऽधितिष्ठति’ इति तस्य देहरथत्वमुच्यते। स चासावयं चेति तदयम्। तदिति रथतयोक्तं शरीरं वा। लिङ्गव्यत्ययो वा। लिङ्गेन पूर्वपक्षिते कथं तेनैव सिद्धान्त इत्याशङ्कानुदयाय लिङ्गबाहुल्योक्तिः। बाहुल्यस्यापि प्राबल्यहेतुत्वात्। यदाहुः ‘द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः’ इति। ननु सैद्धान्तिकलिङ्गतोऽपि पूर्वपक्षलिङ्गमेव बलवत्। निरवकाशत्वात्। बाहुल्येन बलवतोऽपि स्वभावबलिनः प्राबल्यात्। यत आहुः। ‘तयोः स्वभावो बलवान् उपजीव्यादिकश्च सः’ इति। अतः कथं तैर्विष्णुत्वनिश्चय इत्यतो लिङ्गानामनन्यथासिद्धतां च स्मृत्या साधयति॥ विष्णुमेवेति॥ एकप्रकारेण प्रबलात्प्रकारद्वयेनापि प्रबलस्याधिक्येन निर्णयोपपत्तिरिति भावः। अभ्युपेत्य चेदमुदितम्। यावता प्राणैः सह गतिणत्वस्यान्तर्यामिनिष्ठता सेत्स्यति। यदा प्रकारद्वयेनापि दुर्बललिङ्गस्योभयथा प्रबललिङ्गतो बाधसम्भवेन प्राणस्य विष्णुत्वसिद्धिस्तदा किं वाच्यमेतद्ब्रह्म ‘ब्रह्मणो लोको’ ‘ब्रह्मेमं पुरुषम्’ ‘उदरं ब्रह्म’ इत्यादिनिरवकाशब्रह्मशब्दाभ्यासादिति भावेनानुगमपदं प्रकारान्तरेण व्याचष्टे॥ ब्रह्मेति॥ २८॥

गुर्वर्थदीपिका

प्राचीनप्राणाधिकरणे विष्णावत्यन्तानुपपद्यमानलिङ्गरहितस्थलीयनानाशाखास्थप्राणाद्याध्यात्मिकशब्दानां हरौ समन्वय उक्तः। अस्मिन्प्राणाधिकरणे तु विष्णावत्यन्तानुपपद्यमानलिङ्गस्थानीयप्राणादिशब्दानामपि हरौ समन्वयस्साधनीय इति दर्शनाय पुनरारम्भ इति भावेनोक्तम् इन्द्रियगणे गणितत्वादिति। ‘भूतिश्चाभूतिश्च’ इत्यत्र भूतिर्भक्तानामैश्वर्यदायकः। अभूतिरभक्तनामनैश्वर्यदायक इत्यर्थः। तत्र देवा भूतिशब्दार्थं ज्ञात्वोपासां चक्रिरे। ते ह पराबभूवुरित्यर्थः। ‘ता वा एतास्सर्वा ऋच’ इत्यत्रैकार्थप्रतिपाद-कत्वादेकैव व्याहृतिरित्युक्त्वा तमेवार्थं दर्शयितुं प्राण एव प्राणाख्यविषय एवेत्युक्तम्। तत्रापि विशिष्य ऋचः प्राणविषया इति प्रदर्शनाय प्राणऋच इत्युक्तम्। ऋचः प्राण एव विद्यादिति योजना। ‘तस्य वागुद्धिः’ इत्यत्रोद्धिपदेनाश्वबन्धनाय रथाग्रे रचितदारुविशेषः कथ्यते। पक्षसी पार्श्वद्वयस्थे रथचक्रे। युक्ते रथाग्रे बद्धावश्वौ। इन्द्रियाभिमानिदेवानामपि देहैकदेशस्थत्वेऽपि रथमध्ये रथिकवद्देहान्तर्हृत्पुण्डरीके प्राणोऽधिकृतत्वेन तिष्ठतीत्यर्थः। ‘अथ देवरथ’ इति पुल्लिङ्गेन प्रस्तावात्तदिति परामर्शो न घटत इत्यतः स चासावयं चेत्युक्तम्। स प्रसिद्धोऽयं प्राण इत्यर्थः।

भावबोधः

॥ ॐ प्राणस्तथाऽनुगमात् ॐ॥ श्रुत्यादिसङ्गतिमिति। अव्यवहितपूर्वाधिकरणसङ्गतिस्तु निरन्तराधिकरणसिद्धान्तन्यायमुपजीव्याभ्यधिकाशङ्कया पूर्वपक्षोत्थानादिति सुधायामेवोक्ता। प्राचीनोऽप्यन्य इति शङ्का स्यादिति।

नन्वत्र मुख्यप्राणेन्द्रजीवलिङ्गशब्दरूपविशेषप्रापकसद्भावेनाभ्यधिकाशङ्कया प्राणशब्दस्यान्यपरत्वाक्षेपः क्रियते। तथा चैतैर् विशेषप्रापकैः ‘‘ता वा एताः’’ इत्यत्र वाक्ये प्राणस्याविष्णुत्वेऽपि ‘‘तद्वै त्वम्’’ इत्यत्र वाक्ये एतादृशहेत्वभावात् तत्रत्यप्राणो विष्णुर्भवत्विति वक्तुं शक्यत्वान्न तदाक्षेपः सम्भवतीति चेत्, न; अत्रेन्द्रादिशब्दात् प्राणशब्दस्येन्द्राद्यर्थत्वे निश्चिते ‘‘तद्वै त्वं प्राणः’’ इत्यत्रापि तदर्थत्वशङ्कामात्रस्य क्रियमाणत्वात्। अत एव निरवधारणान्यपदशङ्कापदप्रयोगः। अन्यथा अन्य एव स्यादित्यवक्ष्यत्॥ किं विष्णुरिति॥ अत्र प्राणः किं वाय्वादिरुत विष्णुरिति चिन्ता। तदर्थं वाय्विन्द्रजीवप्रापकश्रुतिलिङ्गवाक्यानि विष्णुप्रापकश्रुतिलिङ्गबाधकानि, उत तद्बाध्यानीति। तदर्थं तानि निरवकाशानि उत वाय्वाद्यन्तर्यामिनिष्ठत्वेन सावकाशानीति। इन्द्रियगणे गणितत्वादिति। उपलक्षण-मेतत्। प्राणसंवादादिवृत्रहन्तृत्वशतायुष्ट्वादिप्राणेन्द्रजीवलिङ्गानां प्राणेन्द्रपुरुषश्रुतीनां प्राणो वा इति वाक्यस्यापि पूर्वपक्षप्रापकत्वं द्रष्टव्यम्। अत एवानुव्याख्याने– ‘बाहुल्ये श्रुतिलिङ्गयोरन्यस्य मुख्यवाच्यत्वम्’ इत्युक्तम्। न चैतल्लिङ्गं विष्णाववकाशं लभत इति।

ननु ‘चेतोऽर्पणनिगदात्’ इत्युक्तन्यायेनान्तराधिकरणोक्तप्रकारेण चान्नेतृत्वादिवरुणादिलिङ्गा-नामिवेन्द्रियगणगणितत्वादिलिङ्गस्यापि विष्णाववकाशानुपपत्तेः। सर्वोत्तमस्य विष्णोरपकृष्टचक्षुरादिभिः सह पाठायोगात्। ‘उदासीनौ च तावास्तां केशवश्चाब्जसम्भवः’ इत्युक्तत्वेन प्राणसंवादस्याप्यवकाशा-भावात्। वृत्रहन्तृत्वमहाव्रतयजमानत्वरूपेन्द्रलिङ्गस्यापि प्रसिद्धबाधेन तत्रानुपपत्तेः। शश्वदेकप्रकारस्य विष्णोः शतवर्षायुष्ट्वरूपजीवलिङ्गानुपपत्तेश्च। निरवकाशैतल्लिङ्गसमभिव्याहृतप्राणादिश्रुतिवाक्यानामप्यव-काशाभावात्। अत एवोक्तमवकाशं न लभत इति। अवकाशार्थं विचारितमपीति भावः। अन्यथा सावकाशमित्येव ब्रूयात्। स चासावयं चेतीति। अनेन तदिदं भिन्नं पदं सन् न रथपरामर्शकमित्युक्तं भवति। तथात्वे तमिति भवेदिति भावः। अनन्यथासिद्धताञ्च स्मृत्येति। स्मृतौ विष्णुमेवेत्याद्यवधारण-बलेन लिङ्गानां विष्णुमात्रनिष्ठत्वप्रतिपादनादिति भावः।

ननु पूर्वपक्षीयलिङ्गस्यापि निरवकाशत्वात् कथं निरवकाशेनैव निरवकाशबाध इत्यत आह एकप्रकारेण प्रबलादिति। पूर्वप्रापकश्रुत्यादीनामपि बाहुल्यात्तेषामपि प्रकारद्वयेन प्राबल्यमित्यत आह। अभ्युपेत्येति। इदं निरवकाशत्वम्। यद्वा उभयोर्निरवकाशत्वं विरुद्धमित्यत आह– अभ्युपेत्येति। अन्यगतलिङ्गादीनामपि तद्गतभगवदपेक्षया युक्तेरिति न्यायविवरणं मनसि निधाय तस्य सावकाशत्वमाह॥ प्राणैः सहेति॥

भावदीपः

॥ ॐ प्राणस्तथाऽनुगमात् ॐ॥ अन्यत्र प्रसिद्धेति॥ यद्यप्याकाशोऽर्थान्तरत्वादित्यत्राकाशशब्दस्येव प्राणशब्दस्याप्यत एव प्राण इत्यत्रोक्तन्यायेन विष्णावपि प्रयोगादुभयत्र प्रसिद्धता भाति। तथापि प्राचीनप्राणस्याप्यत्र पूर्वपक्षे विष्णुत्वाक्षेपेण तत्र विष्णौ प्रयोगस्यासम्प्रतिपत्तेर् लोकतोऽन्यत्र प्रसिद्धे-त्युक्तम्। शेषं पूर्ववत्। सङ्गतीत्युक्त्यैव फलमपि लब्धमिति पूर्वपक्षतत्फलानीत्यनुक्त्वा पूर्वपक्षानित्ये-वोक्तम्। इत्यन्तभाष्यं सङ्गतिपरत्वेन तावदाकांक्षितपूर्त्या व्याचष्टे॥ तद्वै त्वमिति॥ इत्यत्रेत्यस्यार्थो बहुस्थलेष्विति। भाष्ये ता इति प्रतीकग्रहणमिति भावेनारभ्येत्युक्तम्। प्राणः श्रूयत इत्युक्त्या भाष्ये श्रुतस्य प्राणस्येति श्रुतपदशेषः सूचितः। प्राणस्येत्यादेरर्थस्तस्येति॥ अन्यत्व इति॥ वक्ष्यमाणयुक्त्या वाय्वादित्व इत्यर्थः। उक्तमित्यन्तस्य तात्पर्यं प्राचीनोऽपीति॥ शङ्केति॥ अत्र प्रबलानेकान्यप्रापकसत्त्वेन प्राणस्यान्यत्वनिश्चयेऽपि न प्राचीनस्य स युक्तः। तत्र प्रबलान्यलिङ्गानामभावात् प्रत्युत श्रीपतित्वादि-विपरीतलिङ्गमेव अस्तीति शङ्केत्येवोक्तम्। तावता प्राचीननिर्णयाक्षेपमात्रेण फलवत्वसम्भवात्॥ इत्ययमिति॥ इति सङ्गतिसम्भवादित्यर्थः॥ पूर्वोक्तन्याय इति॥ महायोगविद्वद्रूढिसत्वाद्विष्णुवाची प्राणशब्द इत्युक्तन्याय इत्यर्थः। तदेव भाष्यं पूर्वपक्षादिपरतयापि व्यनक्ति॥ तत्रेत्यादिना॥ प्राणस्य विष्णुत्वं न युज्यत इत्यस्यार्थस् तत्र न प्राणो विष्णुरिति। एवं सन्देहे सतीत्यर्थः। विष्णुर्न चेन्निरर्थकः प्राणशब्दः स्यादित्यत उक्तं किन्तु वाय्वादिरेवेति। वाय्विन्द्रजीवा इत्यर्थः। इन्द्रियैरित्यादि-भाष्यार्थमाह एतदिति। अत एव भाष्ये चक्षुः श्रोत्रं मनो वागित्यंश उदाहृतः॥ न चैतदिति॥ नीचैश् चक्षुरादिभिः सह गणितत्वस्य सर्वोत्तमेऽनुपपत्तेरिति भावः॥ उपपद्यत इति॥ मुख्यस्य सर्वेन्द्रियस्वामित्वादिन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वाज्जीवस्य च इन्द्रियजन्यफलाश्रयत्वादिति सुधोक्तदिशेति भावः। एतेन सिद्धान्ते श्रुतिलिङ्गबाहुल्येऽपि तेषामेकेनापि निरवकाशेन वाय्वादावेव सावकाशयितव्यत्वं तयोः स्वभावो बलवानित्युक्तेरिति सूचितम्। एवं सिद्धेऽपि पूर्वपक्षेऽनुभाष्यादौ श्रुतिलिङ्गबाहुल्योक्तिः पूर्वपक्षदार्ढ्यायेति भाष्याभिप्राय इति भावः॥ अत इति॥ निरवकाशलिङ्गादित्यर्थः। यद्वा अत इत्यस्य व्याख्या तेषामित्यादि। प्राणो विष्णुरित्युक्तमित्यस्य तात्पर्यं प्राचीनप्राण इति। अन्य इत्यन्वयः। सन्देहे उपसंहारे चान्य इत्युक्त्या तेषामन्यतमोऽयमेवेत्यनिर्णयेऽप्यन्यत्वेनावधारणं सम्भवतीति न सन्देहात्पूर्वपक्षस्याविशेष इति भावः। अन्य एवेत्यवधारणं तु प्रकृतप्राणबुध्या न तु प्राचीनप्राणबुध्या। तस्य विष्ण्वेकनिष्ठश्रीपतित्वादिलिङ्गेनान्य एवेति निर्णयायोगात्। प्रागुक्तशङ्कापदविरोधाच्च। यद्वा वक्ष्यमाणदिशा प्राणसंवादोत्क्रमणप्रवेशादीनां बहुत्वात् श्रुत्यनुगृहीतत्वात्साक्षात्प्राणविशेषणत्वाच्च। श्रीपतित्वादिलिङ्गानां तु वैपरीत्यात् तत्राप्यन्य एवेति निर्धारणं युक्तम्। पूर्वं शङ्केत्युक्तिर् अभ्युपगमवादेन इति भावः॥ अत इतीति॥ अतोऽन्यप्राप्तिसद्भावादाह प्राणस्य विष्णुत्वं सूत्रकार इत्यर्थो भाष्यस्य प्रागुक्तदिशा सुज्ञान इति नोक्तः। एवमग्रेऽपि। सौत्रप्रतिज्ञाहेत्वोरर्थोक्तिपरभाष्यं व्युत्क्रमेण व्याख्याति॥ तद्वै त्वमिति॥ अपिपदार्थव्यक्तिरियम्। विष्णुमेवेत्यादिवक्ष्यमाणस्मृत्यनुरोधेन लिङ्गानि निष्कर्षयति॥ तं देवा इति॥ लिङ्गस्य प्राणस्थताभिव्यक्त्यैतं प्राणमिति व्याख्या

तस्माच्छ्रुत्वा परं ब्रह्म देवा नारायणाभिधम्।

शिष्यप्रशिष्यादिषु च तेऽनयन्वायुनोदितम्।

इति तद्भाष्योक्तेराह॥ शिष्येति॥ प्रेत्यस्यार्थस्सम्यगिति॥ प्राणस्य भूतित्वेनेति॥ भाष्ये तं भूतिरिति देवा इत्येव वाच्ये स एषोऽसुः स प्राण इति पूर्वांशोक्तिस् तमिति परामृश्यमानं दर्शयितुमिति सूचितम्। ता वा एता इति श्रुत्यर्थं तु ज्योतिरुपक्रमादित्यत्र वक्ष्यति। भाष्ये प्राणऋच इत्येव विद्यादित्यंशोक्तिरपि ऋचस्तु विशेषत इन्द्रादिनामवतो विष्णोर्गुणानल्पज्ञानिनामपि प्रकाशयन्तीति प्राणो नारायण एवेति विद्यादिति तद्भाष्योक्तदिशा ऋचां तन्निष्ठत्वात्तदारण्यकस्यापि तन्निष्ठत्वस्य द्योतनाये-त्याहुः। तदयमिति तच्छब्दपरामृष्टं दर्शयितुं पूर्वांशमाह॥ अथ देवरथ इति॥ देवस्य विष्णो रथः देवरथः वाग्देवतोमोद्धरणहेतुरज्जुः। श्रोत्रदेवते चन्द्ररोहिण्यौ पार्श्वस्थाश्वौ चक्षुर्देवते सूर्यतद्भार्ये युगवाहकपुरःस्थितावश्वौ। मनो रुद्रः। सङ्गृहीता प्रागुक्ताया उद्धेरित्यर्थः॥ स चासाविति॥ सुप्सुपेति समासः। तेन लिङ्गोपपत्तिरिति भावः। कर्मकारकलाभाय भिन्नं पदं मत्त्वाऽऽह॥ तदितीति॥ विष्णुर्वायुश्च तं रथं प्रकृष्टानन्दरूपत्वात्प्राणाख्यावधितिष्ठत इत्यैतरेयभाष्योक्तेस्तदित्यस्य तमित्यर्थं मत्त्वाह॥ लिङ्गव्यत्ययो वेति॥ बाहुल्ये श्रुतिलिङ्गयोः। अन्यस्य मुख्यवाच्यत्वं नेत्यनुव्याख्यानुरोधेन तात्पर्यमाह॥ लिङ्गेनेति॥ इन्द्रियैः सहाभिधानादित्युक्तलिङ्गेनेत्यर्थः॥ लिङ्गबाहुल्येति॥ एतल्लिङ्गानामेवोक्तिस्तु वक्ष्यमाणस्मृतिगृहीतत्वादिति भावः॥ यदाहुरिति॥ विष्णुतत्वनिर्णयोक्तब्रह्मतर्कवचनकर्तार इत्यर्थः॥ तयोरिति॥ पूर्वोक्तस्य उत्तरार्धमेतत्। आदिपदेन निरवकाशत्वग्रहः॥ अनन्यथासिद्धतां चेति॥ न केवलं बाहुल्यमिति चार्थः। स्मृताववधारणोक्त्यै-तल्लाभ इति भावेन विष्णुमेवेत्यन्तप्रतीकोक्तिः। कथं तावतोक्तशङ्कानिरास इत्यतस्तात्पर्यमाह॥ एकेति॥ निरवकाशत्वप्रकारेणेत्यर्थः॥ प्रकारद्वयेनेति॥ बहुत्वनिरवकाशत्वरूपप्रकारद्वयेनेत्यर्थः। ‘‘अत्रगस्य हि। विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वश’’ इत्याद्यनुभाष्ये ‘‘न च अनन्यथा-सिद्धत्वमन्यत्र श्रुतिलिङ्गादेः’’ इत्यादिन्यायविवरणे च शास्त्रदृष्टिसूत्रदिशा सावकाशत्वोक्तेस् तदनुरोधेन भाष्यभावमाह॥ अभ्युपेत्य चेति॥ इन्दियैः सह गणितत्वरूपपूर्वपक्षलिङ्गस्य निरवकाशत्वमभ्युपेत्येदं विष्णुलिङ्गानां बाहुल्यं निरवकाशत्वं चेत्यर्थः। अन्यथा एकस्य निरवकाशत्वोक्तौ वा तदनुक्तावपि सावकाशलिङ्गबाहुल्येन वा सावकाशैकलिङ्गबाधकसम्भवात् तद्बाहुल्यं तन्निरवकाशत्वं च न वाच्यमिति भावः। यावता यत इत्यर्थः। भाष्ये पूर्वमेवेत्यादिश्रुतिलिङ्गानुगमादित्यनुक्त्वा पृथग्ब्रह्मशब्दानुगमा-च्चेत्युक्तिरभ्युच्चयत्वाभिप्रायेणेति मत्त्वाऽऽह॥ यदा प्रकारद्वयेनेति॥ एकत्वसावकाशत्वरूपप्रकारद्वये-नेत्यर्थः। एतेनान्यत्रोक्तदिशा पूर्वपक्षे श्रुत्यादिबाहुल्येऽपि तेषां सावकाशत्वान् निरवकाशानेकश्रुत्यादिभिर् बाध इत्यपि सूचितं ध्येयम्। तेषां सावकाशत्वं चाग्रे व्यक्तम्॥ २८॥

अभिनवचन्द्रिका

अयं योगः शक्योऽवक्तुम्। ‘अत एव प्राण’ (ब्र.सू.१-१-२३) इत्यत्रैव प्राणशब्दसमन्वयस्योक्त-त्वात्। न च – तत्र ‘तद्वै त्वं प्राणोऽभव’ (तै.आ.४) इति तैत्तिरीयगतप्राणशब्दसमन्वय उक्तः। इह तु ‘ता वा एता’ (ऐ.आ.२-१-४) इति ऐतरयगतप्राणशब्दसमन्वयाभिधानान् नाऽस्य योगस्य वैयर्थ्यमिति वाच्यम्। विषयवाक्यभेदेनाऽधिकरणभेदे शास्त्राऽऽनन्त्यप्रसङ्गात्। न च – ‘अत एव प्राण’ इत्यस्य ‘तद्वै त्वं प्राण’ इतिवत् ‘ता वा एता’ इत्यस्यापि विषयवाक्यत्वेन तत्रैव समन्वयसिद्धावपि अस्य प्राणस्य इन्द्रियगणे गणितत्वात् ‘वाय्वादि’रिति वा इन्द्रेणात्मतयोपदेशाद् इन्द्र एवायं प्राण इति वा ‘ता अहिंसते’(ऐ.अ.२)ति मुख्यप्राणलिङ्गान् मुख्यप्राण एवाऽयं प्राण इति वा’ऽऽभ्याधिका-शङ्कासद्भावात् तन्निरासायेदमधिकरणमिति वाच्यम् – तथा सति ‘अत एव प्राण’ इत्यनन्तरमेव ‘न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्, शास्त्रदृष्ट्या तूपदेशो वामदेववत्, जीवमुख्यप्राण-लिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगा’दिति सूत्रत्रयं प्रणेतव्यं स्यात्। लाघवं चैवं सति सूत्रकारस्य भवति ‘प्राणस्तथाऽनुगमा’दिति सूत्रस्याऽप्रणेतव्यत्वात्। इन्द्रियगणे गणितत्वशङ्काया ‘अत एव प्राण’ इति सूत्रोक्तलिङ्गेनैव परिहारसम्भवादिति चेत्, सत्यम् ‘अत एव प्राण’ इत्यस्य आध्यात्मिकशब्दविचाररूपत्वादस्य तत्रैव समन्वयो भवति। अभ्यधिकाशङ्कानिरासकानि ‘न वक्तु’रित्यादिसूत्राणि लाघवात्तत्रैव कर्तव्यानीति, तथापि श्रोतॄणां पुनःस्मरणेन फलाधिक्यं भवतीत्याशयेनाऽभ्यधिकाशङ्कानिरासाय पृथगधिकरणारम्भः कृतः। तदुक्तम्–

‘‘संक्षेपविस्तराभ्यां च प्रवदन्ति मनीषिणः।

बहुवारं स्मृतेस्तस्य फलबाहुल्यकारणात्’’

इति द्रष्टव्यम्। भाष्ये ‘प्राणो विष्णुरित्युक्त’मित्युक्तेः पूर्वाधिकरणसङ्गतिरेव विवक्षिता, न श्रुतिसङ्गतिरिति भ्रमं निवारयितुमाह – तद्वैत्वमिति॥ एतेन ‘प्राणो विष्णुरित्युक्तमिती’ति भाष्यस्य सङ्गतिप्रतिपादनाक्षमत्वात् ‘तद्वै त्वं प्राण’ इत्युक्तप्राण इति प्राणविशेषणाऽभिधानमयुक्तमिति परास्तम्। ऐतरेयके चेति॥ तत्रेत्यस्य व्याख्यानम् ऐतरेयके चेति। भाष्ये ‘मनो वाक्प्राण’ इतीत्यतः-परमध्याहार्यवाक्यमाह– आरभ्य बहुषु स्थलेषु श्रूयत इति॥ ततश्चैवं भाष्यवाक्यपाठः– ‘प्राणो विष्णुरित्युक्तं ‘तत्र तावा एता शीर्षंछ्रियः श्रिताश् चक्षुः श्रोत्रं मनो वाक्प्राण इत्यारभ्य बहुषु स्थलेषु प्राणः श्रूयत’ इति। अनेन पूर्वाधिकरणैतदधिकरणप्रतिपाद्ययोः प्राणशब्दवाच्यत्वं सङ्गतिरित्युक्तं भवति। पूर्वोक्तन्याय इति॥ ‘अत एव प्राण’ इति पूर्वसूत्रम् अन्यत्र प्रसिद्धिश्च। उपलक्षणमेतद् अभ्याधिकाशङ्काप्रापकम् अन्यत्रप्रसिद्धिश्च प्राबल्याद्यविवेकदशायां सन्देहबीजमित्यर्थः। तत्र न प्राण इति॥ अत्र प्राणस्य विष्णुत्वं न विद्यत इति भाष्यस्थाऽत्रेत्यस्य व्याख्यानं तत्रेति। ‘वायुरेवायं प्राणः, इन्द्र एवायं प्राणः, जीव एवायं प्राणः, मुख्यप्राण एवायं प्राण इति पूर्वपक्षान्संकलय्याह– वादिभेदेति॥ सर्वपक्षेष्वनुगतहेतुमाह– इन्द्रियगणे गणितत्वादिति॥ अस्य लिङ्गस्य विष्णावनवकाशमाह– न चैतदिति॥ सर्वोत्तमस्य इन्द्रियगणेषु पाठो न युक्त इति भावः। यथा विष्णावनवकाशं लिङ्गं तथा वाय्वादिष्वनवकाशमित्यत आह– उपपद्यते चेति॥ तथा च विष्णुवद् वाय्वादीनां सर्वोत्तमत्वाभावाद् लिङ्गमुपपद्यत इति भावः। वाय्वादिः प्राण इति एक एव पूर्वपक्ष इति न मन्तव्यमित्याह– तेषामन्यतमस्यैवेति॥ ‘इन्द्र एवायं प्राणः, जीव एवायं प्राणः मुख्यप्राण एवायं प्राण’ इति पूर्वपक्षेषु विशेषहेतुः सूत्रकृतैवोक्त इति अत्र नोक्तः। अथ देवरथ इति॥ तस्य देवरथस्य देहस्य। वाक् तदभिमानिनी उमा। ऋद्धिर् उद्धरणरज्जु। श्रोत्रे तदभिमानिचन्द्रचन्द्रभार्ये। पक्षसी पार्श्वतो नियुक्ताश्वौ। चक्षुषी तदभिमानिसूर्यसूर्यभार्ये युक्ते अग्रतो नियुक्ताऽश्वौ। मनः=मनोभिमानी रुद्रः। सङ्ग्रहीता रथयन्तेत्यर्थः। ननु श्रुतौ ‘तदयं प्राण’ इत्यनुपपन्नं स इति पुल्लिङ्गेन भाव्यत्वादित्यतस् तदयमित्येकं पदमिति भावेनाह– स चासावयं चेति॥ तच्छब्दस्य भिन्नपदत्वमङ्गीकृत्य तदुपपत्तये तदर्थमाह– तदितीति॥ तच्छब्दस्य प्राणपरत्वेऽपि भिन्नपदत्वं घटयितुमाह– लिङ्गव्यत्ययो वेति॥

वाक्यार्थमुक्तावली

ॐ प्राणस्तथाऽनुगमात् ॐ। नन्वत एव प्राण इत्येतद्गतार्थम्। ता वा एता इत्यादिवाक्यान्तर-विषयत्वान्नेति चेन्न। तथात्वे तदनन्तरमेवारम्भणीयत्वेन गायत्र्यधिकरणानन्तर्ये नियामकाभावादिति चेन्न। निरन्तराधिकरणसिद्धान्तन्यायोपजीव्याऽभ्यधिकाशङ्क्याऽत्र पूर्वपक्षोत्थानेन तदानन्तर्योपपत्तेः। पूर्वाधिकरणे ह्यनन्यथासिद्धश्रुतिलिङ्गबाहुल्येन गायत्री परमात्मेति निर्णीतम्। अस्ति चात्रापि परकीयानन्यथासिद्धश्रुतिलिङ्गबाहुल्यमिति पूर्वपक्षस्य सुधायां दर्शितत्वात्॥ श्रुत्यादिसङ्गतिमिति॥ अव्यवहितसङ्गतिस्तूक्तैवेति॥ प्राचीनप्राण इति॥ तद्यथा शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन्प्राणे चक्षुः श्रोत्रं मनो वागिन्द्रियाणीतीन्द्रियनियामकतयोक्तप्राणस्यान्यत्वे यद्देवान्प्राणयो न वेत्युक्तोऽप्यन्यः स्यादित्यर्थः।

नन्विदमधिकरणमभ्यधिकाशङ्कया प्रवृत्तम्। सा हि भवत् ‘तद्वै त्वम्’ इत्युक्तप्राणस्य विष्णुत्वं श्रीलक्ष्मीपतित्वादिलिङ्गात्। ‘ता वा एता’ इत्यैतरेयप्राणस्तु न विष्णुः। तादृशलिङ्गाभावात्। इन्द्रजीवमुख्यप्राणप्रापकश्रुतिलिङ्गबाहुल्याच्चेत्येवंरूपा। तथा चाभ्यधिकाशङ्कयास्य प्राणस्यान्यत्वे शङ्किते प्राचीनप्राणोऽप्यन्य एवेति तदाक्षेपो न युज्यत इति चेन्न। इन्द्रादिलिङ्गात्प्राणशब्दस्येन्द्राद्यर्थत्वे निश्चिते ‘तद्वै त्वं प्राण’ इत्यत्रापि तदर्थत्वशङ्कामात्रस्य क्रियमाणत्वात्। अत एव टीकायामन्य एव स्यादित्य-नुक्त्वा स्यादित्युक्तम्। यद्वाऽभ्यधिकाशङ्कयाऽत्र विष्णुप्रापकमप्युपमा प्रमाणशब्दस्य विष्ण्वन्यपरत्वे तन्न्यायेन पश्चात्। ‘तद्वै त्वं’ इत्यत्रापि विष्णुप्रापकश्रीपतित्वादिकं श्रीशब्दस्य वायुभार्यापरत्वेन सावकाशत्वमङ्गीकृत्य तत्रोक्तविष्णुत्वाक्षेप उपपद्यत एव। अत एवात्र टीकायां लोकतोऽन्यत्र प्रसिद्ध-प्राणनाम्न इत्युक्तमन्यथा तत्र प्राणस्य विष्णुत्वसिद्धौ उभयत्र प्रसिद्धत्वप्रसङ्गेनान्यत्र प्रसिद्धेत्युक्त्य-योगादिति॥ किं विष्णुरिति॥ अत्र प्राणः किं मुख्यवाय्वादिरुत विष्णुरिति चिन्ता। तदर्थं वाय्विन्द्रजीवप्रापकश्रुतिलिङ्गवाक्यानि विष्णुप्रापकश्रुतिलिङ्गबाधकान्युत तद्बाध्यानीति। तदर्थं तानि किं निरवकाशान्युत वाय्वाद्यन्तर्यामिनिष्ठत्वेन सावकाशानीति। तदर्थं प्राणादिश्रुत्यादीनां सावकाशत्वेन तत्तुल्यविष्णुप्रापकब्रह्मशब्दादीनां निरवकाशत्वे च प्रमाणं नास्त्युतास्तीति॥ इन्द्रियगणेति॥ इन्द्रियगणे तदभिमानिनां गणनं युक्तम्। विष्णोस्त्विन्द्रियस्वामित्वेन भृत्यगणे गणनं न युज्यत इति भावः। उपलक्षणमेतत्। प्राणसम्पदादिवृत्रहन्तुत्वादिशतायुष्ट्वादिप्राणेन्द्रियजीवलिङ्गानां प्राणेन्द्रपुरुषश्रुतीनां प्राणो वा इति वाक्यस्यापि पूर्वपक्षप्रापकत्वं बोध्यम्। अत एवानुव्याख्याने ‘बाहुल्ये श्रुतिलिङ्गयोः। अन्यस्य मुख्यवाच्यत्वम्’ इत्युक्तम्। भाष्यटीकयोर्मुखतोऽनुक्तिस्तु जीवमुख्यप्राणलिङ्गादिति सूत्रकृतैवाशङ्क्यमानत्वादिति ज्ञेयम्।

ननु चेतोऽर्पणनिगदादित्युक्तन्यायेनान्तराधिकरणोक्तदिशा वृष्ट्यादिवरुणलिङ्गानामिवेन्द्रियगण-गणितत्वादिलिङ्गस्यापि विष्णाववकाशसम्भवेन कथं पूर्वपक्षोदयो गतार्थत्वादित्याशङ्क्य परिहरति॥ न चैतल्लिङ्गमिति॥ गानत्राणकर्तृत्वानेतृत्वादीनां विष्णावुपासने बाधकाभावात्सावकाशत्वं सम्भवति। सर्वोत्कृष्टस्य विष्णोरपकृष्टैश्चक्षुरादिभिः सह परिगणनस्य तथोपासनार्थत्वेनोक्तौ तस्याप्यपकृष्ट-तयोपासनप्राप्त्या विष्णाववकाशाभावात्। अवकाशार्थं विचारितमप्यवकाशं न लभत इत्यर्थः। अन्यथा न चैतल्लिङ्गं विष्णौ सावकाशमित्येव ब्रूयात्। सूत्रे तथाशब्द उपमायां समुच्चये चेत्यभिप्रेत्य भाष्यार्थमाह। तद्वै त्वमित्यादिना। भाष्ये नापीत्यत्रत्यायमंश उत्सूत्रित इत्यत आह– तथाशब्द इति॥ समुच्चायकतथाशब्दमहिम्नाऽत्रापीति लभ्यत इत्यर्थः।

ननु रथशब्दस्य पुल्लिङ्गत्वात् कथं तदिति नपुंसकलिङ्गनिर्देश इत्यत आह स चासाविति॥ एकप्रकारेण प्रबलादिति। यद्यपि पूर्वपक्षे श्रुतिलिङ्गबाहुल्यमस्ति। तथापि जीवमुख्यप्राणलिङ्गादिति सूत्रकृतैवाशङ्क्यमानत्वात्तदुत्थापनायैवमुक्तं ज्ञेयम्॥ अभ्युपेत्यैवमिति॥ निरवकाशत्वमभ्युपेत्येत्यर्थः। यावतेति यस्मादित्यर्थः। अनुगमपदं प्रकारान्तरेणेति। यद्यपि श्रुतिलिङ्गयोर्मध्ये श्रुतेः प्रबलत्वात् श्रुत्यभ्यासपरतया प्रथमं व्याख्येयम्। तथापि लिङ्गे उपपादनबाहुल्यात्प्रथमतो व्याख्यानमिति। सूत्रार्थस्तु तत्त्वित्यनुवृत्तिः सर्वत्र सिद्धा। तथा ‘तद्वै त्वं प्राण’ इत्यत्रेवात्रापि प्राणो विष्णुरेव। अनुगमादनुवृत्तेर् लिङ्गाभ्यासाद् ब्रह्मशब्दाभ्यासाच्चेति।

तत्त्वसुबोधिनी

॥ ॐ प्राणस्तथाऽनुगमात् ॐ॥ श्रुत्यादिसङ्गतिमिति॥ निरन्तराधिकरणसिद्धान्तन्यायमुपजीव्य अभ्यधिकाशङ्कया पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः। नन्वन्तराधिकरणाद्युक्तन्यायेन इन्द्रियगणे गणितत्वादिरूपलिङ्गानां विष्णौ सावकाशत्वात् प्राणो विष्णुरेवेत्यत आह॥ न चैतदिति॥ स एषोऽसुरिति॥ स एष भगवान् दैत्यनिरसनादसुनामा स एषः प्रकृष्टानन्दरूपत्वात् प्राणः सतां ज्ञानैश्वर्यादिभूतिदातृत्वाद् भूतिः। असताम् अज्ञानाद्यभूतिप्रदातृत्वाद् अभूतिः। तं भगवन्तम्। बभूवुर् ज्ञानैश्वर्यादिमन्तो बभूवुः। तस्माद्ध तस्मादेव। एतर्हि इदानीमपि। सुप्तः सुप्तेषु स्थितः मुख्यवायुर् भूर्भूरित्येव भूतिर् भूतिरित्येव प्रश्वसिति श्वासैः स्तौतीत्यर्थः। एकैव व्याहृतिः। एकप्रकारत्वं नाम सर्वेषां नाम्नां निर्दोषगुणपूर्तिवाचित्वाद् एकप्रकारत्वं सर्वशब्दानाम्। कुत्रैकव्याहृतित्वं तदाह। प्राण एव प्राणनामि्न नारायण एव ऋच ऋङ्मात्राः प्राण एव विशेषतः प्राणवाचका इति विद्याज् जानीयादित्यर्थः। अथ देवरथः॥ देवस्य विष्णोर् वायोश्चाध्यात्ममधिदैवं च रथ उच्यते इति विशेषः। तस्मादध्यात्मदेहाख्यस्य रथस्य वाक् वागाख्या उमा उद्धिर् उद्धारणरज्जुरूपा अधिदैव-विष्णुरथस्य उमा नागाकारा उद्धिः। श्रोत्रे दक्षवामश्रोत्रगतचन्द्रतद्भार्ये पक्षसी पार्श्वागयुक्ताश्वौ अन्यत्र चन्द्रस्तद्भार्या चाश्वरूपौ पार्श्वयोर् युक्तौ चक्षुषी सूर्यस् तद्भार्या च चक्षुर्गतौ प्रेरकौ च युक्तौ अग्रतो वियुक्ताश्वौ। अन्यत्र सूर्यस् तद्भार्या च अग्रतो नियुक्ताश्वौ। मनः मनोभिमानी रुद्रः मनोगतः सङ्गृहीता सारथिः। उभयत्राप्येवम्। तद्देहाख्यं स्यन्दनम् अधिदैवस्यन्दनम्। अयं प्राणः प्राणशब्दवाच्यो विष्णुर् वायुश्चाधितिष्ठतीत्यर्थः। स चासावयं चेति। अनेन तदिति भिन्नं पदं सद् रथपरामर्शकमित्युक्तं भवति। तथात्वे तमिति भवेदिति भावः। यद्वा तदिति भिन्नं पदं तर्हि पुल्लिङ्गस्य रथशब्दस्य नपुंसकेन परामर्शः कथमित्यत आह॥ तदिति रथतयोक्तं शरीरं वेति॥ तथापि न परामर्श-स्वारस्यमित्यत आह॥ लिङ्गव्यत्ययो वेति॥ व्यत्ययो बहुलमिति सूत्रादिति भावः। अनन्यथासिद्धतां च स्मृत्येति। स्मृतौ विष्णुमेवेत्यवधारणबलेन लिङ्गानां विष्णुमात्रनिष्ठत्वप्रतिपादनादिति भावः। चशब्देन पूर्वपक्ष्युक्तलिङ्गानां सावकाशत्वस्य समुच्चयः। ननु पूर्वपक्षीयलिङ्गस्यापि निरवकाशत्वात् कथं निरवकाशेनैव निरवकाशबाध इत्यत आह॥ एकप्रकारेणेति॥ ननु पूर्वपक्षप्रापकश्रुत्यादीनामपि

बाहुल्यात् तेषामपि प्रकारद्वयेन प्राबल्यमित्यत आह॥ अभ्युपेत्येति॥ इदं निरवकाशत्वम्। यद्वा उभयोर् निरवकाशत्वं विरुद्धमित्यत आह॥ अभ्युपेत्येति॥ प्रकारद्वयेनापीति॥ बहुत्वनिरवकाशत्वरूप-प्रकारद्वयेनापीत्यर्थः।

वाक्यार्थमञ्जरी

तावा एता इति॥ ता एताः श्रियः शीर्षं शिरः श्रिता आश्रिताः। कास्ताः श्रिय इत्यत उक्तं चक्षुरित्यादि॥ प्राचीनप्राण इति॥ ननु श्रीपतित्वादिना तत्रत्यप्राणस्य विष्णुत्वात्कथमेतदिति चेत्। अत्रत्यलिङ्गानां वक्ष्यमाणरीत्या बलवत्वेन तद्विरुद्धश्रीपतित्वादीनामन्यथा योज्यत्वान्न तैर्विष्णुत्वनिश्चय इति भावः। पूर्वोक्तन्यायः महायोगविद्वद्रूढिसत्वात्प्राणशब्दो विष्णुवाचक इति न्यायः। वाय्वादिरेवेत्यादिशब्देनेन्द्रजीवयोर्ग्रहणम्॥ न चैतदिति॥ सर्वोत्तमस्य चक्षुरादिभिः सह पाठायोगादिति भावः॥ उपपद्यते चेति॥ मुख्यप्राणस्येन्द्रियस्वामित्वादिन्द्रस्य हस्तेन्द्रियाधिष्ठितत्वाज्जीवस्येन्द्रिय-फलभोक्तृत्वादिति भावः॥

ॐ प्राणस्तथाऽनुगमात् ॐ॥ यथा तद्वै त्वं प्राण इत्ययं प्राणो विष्णुस् तथैतरेये श्रुतः प्राणोऽपि विष्णुरेव। ब्रह्मशब्दादेवोपास्यत्वादितच्छ्रुतिलिङ्गानामस्मिन्प्रकरणेऽनुगमादनुवृत्तेरभ्यासादित्यर्थः। नीतवन्त उपदिदिशुरिति यावत्। स एष भगवान् दैत्यनिरसनादसुनामा स एषः प्रकृष्टानन्दत्वात्प्राणः सतां ज्ञानैश्वर्यादिभूतिदातृत्वाद्भूतिर् असतामज्ञानाद्यनैश्वर्यदातृत्वादभूतिस् तं भगवन्तं देवा भूतित्वेनोपासनां चक्रिर इत्यर्थः॥ ता वा इति॥ ऋगादयः सर्वस्मिन् प्राणे परमात्मविषये एकैव व्याहृतिर्व्याहरणम्। एकमेव नाम निर्दोषगुणपूर्तिवाचित्वादेकप्रकारत्वम्। ऋचः विशेषेण प्राणपरा इति विजानीयादित्यैतरेय-भाष्योक्तदिशार्थः। टीकाकारास्तु। प्राण एवेत्यत्र प्राणशब्दस्य प्रथमान्तत्वमङ्गीकृत्य यास्ता एताः सर्वा ऋचस्तासामेकैव व्याहृतिरेकमेव व्याहरणं तच्च प्रतिपाद्यं प्राण एव। किं च ये सर्वे वेदास्तेषामपीश्वर एव प्रतिपाद्यः किमु ऋचाम्। अपि च ये समुद्रादिघोषास्तेषामपीश्वर एव प्रतिपाद्यः किमु वेदानाम्। ऋचस्तु विशेषेण प्राणप्रतिपादका इति जानीयादिति ज्योतिरुपक्रमादित्युत्तरत्र व्याकरिष्यन्ति॥ अथ देवरथ इति॥ देवाधीनो देहाख्यरथ उच्यते। तस्य देवरथस्य वाक् तदभिमानिनी उमा उद्धिर् उद्धारणरज्जुः। श्रोत्रे तदभिमानिचन्द्रतद्भार्ये पक्षसी पार्श्वनियुक्ताश्वौ। चक्षुषी तदभिमानिसूर्यतद्भार्ये युक्ते अग्रतो नियुक्ताश्वौ। मनः मनोभिमानी रुद्रः सङ्गृहीता रथयन्ता प्राणस्तादृशं रथमधितिष्ठतीत्यर्थः। रथप्राणशब्दयोः पुंल्लिङ्गत्वात्तदिति परामर्शानुपपत्तिरित्यत आह॥ स चासाविति॥ आहुर् ब्रह्मतर्के। तयोर् बहुत्वस्वभावाभ्यां बलवतोर्मध्ये कोऽयं स्वभाव इत्यत उक्तम्॥ उपजीव्येति॥ सः स्वभाव उपजीव्यत्वनिरवकाशत्वादिरूप इत्यर्थः। अनन्यथासिद्धतां निरवकाशत्वम् अभ्युपेत्य पूर्वपक्षलिङ्गस्य निरवकाशत्वम्॥ अन्तर्यामीति॥ वाय्वादीनामिन्द्रियैः सह गणितत्वे तदन्तर्यामिणोऽपि तैः सह गणितत्वमिति भावः॥ प्रकारद्वयेन॥ एकत्वसावकाशत्वाभ्याम्॥

विवृतिः

श्रुत्यादिसङ्गतिमिति॥ निरन्तराधिकरणसिद्धान्तन्यायमुपजीव्याभ्यधिकाशङ्कया पूर्वपक्षोत्थानादनन्तर-सङ्गतिरिति भावः॥ नन्वन्तराधिकरणाद्युक्तन्यायेन इन्द्रियगणगणितत्वादिरूपलिङ्गानां विष्णौ सावकाशत्वात्प्राणो विष्णुरेवेत्यत आह॥ न चैतदिति॥ तथा च निरवकाशप्राणादिलिङ्गानां विद्यमान-त्वात् प्राणो विष्णुरिति भावः॥ स एषोसुरिति॥ स एष भगवान् दैत्यनिरसनादसुनामा स एषः प्रकृष्टानन्दरूपत्वात्प्राणः॥ ज्ञानैश्वर्यादिभूतिदातृत्वाद्भूतिः॥ अज्ञानाद्यभूतिदातृत्वादभूतिः॥ तं भगवन्तम्। बभूवुर् ज्ञानैश्वर्यादिमन्तो बभूवुः॥ तस्माद्ध तस्मादेव एतर्हि इदानीमपि सुप्तः सुप्तेषु स्थितो मुख्यवायुर्भूर्भूरित्येव प्रश्वसिति श्वासैः स्तौतीत्यर्थः॥ एकैव व्याहृतिः॥ एकप्रकारत्वं सर्वेषां नाम्नां निर्दोषगुणपूर्णत्वरूपैकार्थवाचित्वात्॥ कुत्रैकव्याहृतित्वं सर्वशब्दानां तदाह, प्राण एव, प्राणनामि्न नारायण एव ऋच ऋङ्मन्त्राः प्राण एव विशेषतः प्राणवाचका इति विद्याज्जानीयादित्यर्थः॥ अथ देवरथः देवस्य विष्णोर् वायोश्चाध्यात्ममधिदैवं च रथ उच्यत इति शेषः॥ तस्याध्यात्मदेहाख्य-रथस्य वाक् वागाख्या उमा उद्धिर् उद्धारणरज्जुरूपा॥ अधिदैवं विष्णुरथस्य उमा नागाकारा उद्धिः श्रोत्रे दक्षवामश्रोत्रगतचन्द्रतद्भार्ये, पक्षसी पार्श्वनियुक्ताश्वौ अन्यत्र चन्द्रस् तद्भार्या चाश्वरूपौ पार्श्वयोर्युक्तौ चक्षुषी सूर्यस्तद्भार्या च, चक्षुर्गतौ प्रेरकौ च युक्तौ अग्रतो नियुक्ताश्वौ, अन्यत्र सूर्यः सूर्यभार्या च अग्रतो नियुक्ताश्वौ, मनः मनोभिमानीरुद्रः मनोगतः सङ्गृहीता सारथिः॥ उभयत्राप्येवं तद्देख्यं स्यन्दनम् अधिदैवस्यन्दनम्। अयं प्राणः प्राणशब्दवाच्यो विष्णुर् वायुश्चाधितिष्टतीत्यर्थः॥ स चासावयञ्चेति॥ अनेन तदिति भिन्नं पदं सद् रथपरामर्शकमित्युक्तं भवति तथात्वे तमिति भवेदिति भावः॥ यद्वा तदिति भिन्नं पदम्॥ तर्हि नपुंसकलिङ्गे कथं पुल्लिङ्गप्रकृतरथपरामर्श इत्यत आह॥ तदिति रथतयोक्तं शरीरं चेति॥ तथापि न परामर्शस्वारस्यमित्यत आह॥ लिङ्गव्यत्ययो वेति॥ व्यत्ययो बहुलमिति सूत्रादिति भावः॥ अनन्यथासिद्धतां च स्मृत्येति॥ स्मृतौ विष्णुमेवेत्यवधारणबलेन लिङ्गानां विष्णुमात्रनिष्ठत्वप्रतिपादनादिति भावः। चशब्देन पूर्वपक्षयुक्तलिङ्गानां सावकाशत्वस्य समुच्चयः। ननु पूर्वपक्षीयलिङ्गस्यापि निरवकाशत्वात्कथं निरवकाशेनैव निरवकाशबाध इत्यत आह॥ एकप्रकारेणेति॥ ननु पूर्वपक्षप्रापकश्रुत्यादीनामपि बाहुल्यात्तेषामपि प्रकारद्वयेन प्राबल्यमित्यत आह॥ अभ्युपेत्येति॥ इदं निरवकाशत्वम्॥ यद्वा उभयोर्निरवकाशत्वं विरुद्धमित्यत आह॥ अभ्युपेत्येति॥ प्रकारद्वयेपीति॥ बहुत्वनिरवकाशत्वरूपप्रकारद्वयेनापीत्यर्थः॥


ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॐ

सूत्रभाष्यम्

॥ ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॐ॥ २९॥

‘प्राणो वा अहमस्म्यृषे’ (ऐ.आ.२-२-३) इति वक्तुरात्मोपदेशादिन्द्र एवेति चेन्न, ‘प्राणस्त्वं प्राणः सर्वाणि भूतानि’ इति (ऐ.आ.२-२-३) बह्वध्यात्मसम्बन्धो ह्यत्र विद्यते॥

सत्तर्कदीपावली

न च वाच्यं तमिन्द्र उवाच प्राणो वा अहमस्मि ऋषे इति वचनादत्रेन्द्र एव प्राणशब्दार्थो विवक्षित इति। प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपतीति सर्वान्तर्यामित्वेन प्राणव्यपदेशात्। न हीन्द्रस्य जीवविशेषस्य सर्वान्तर्यामित्वं युज्यत इत्येतत्प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे। न वक्तुरित्यादिना।

तत्त्वप्रदीपिका

न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्। विश्वामित्रस्य बृहतीसहस्रवक्तुरर्थे वक्तेन्द्र आत्मानं प्राणमुपदिशति ‘प्राणो वा अहमस्म्यृष’ इत्यादिना। तस्मादिन्द्र एवात्र प्राणशब्देन प्रतिपाद्यत इति चेन्न। बह्वध्यात्मसम्बन्धो ह्यत्र विद्यते। अयमर्थः। अधिकात्मनः परमात्मनो जीवेषु सम्बन्धबाहुल्यं ह्यस्मिन्वाक्ये विद्यते। नान्यस्य, तस्य स्वातन्त्र्येण सर्वजीवसम्बन्धायुक्तेः। अथवा नात्रेन्द्रः प्रतिपाद्यः। परमात्मसम्बन्धो हि बहुलो ह्यस्मिन्विद्यते॥

तत्त्वप्रकाशिका

उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद्व्याचष्टे॥ नेति॥ यदुक्तं विष्णुरयं प्राण इति तदयुक्तम्। ‘तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागा वरं ते ददामीति। स होवाच। त्वामेव जानीयामिति। तमिन्द्र उवाच। प्राणो वा अहमस्म्यृषे’ इति बृहतीसहस्रवक्तुर्विश्वामित्रस्येन्द्रेण प्राणतया आत्मोपदेशात्। न चायमिन्द्रोऽपि विष्णुः। प्रसिद्धस्यैव ‘इन्द्रो वै वृत्रं हत्वा’ इत्यादौ महाव्रतयज्ञे यजमानत्वेन प्रकृतत्वात्। न चास्योपदेशस्य सावकाशत्वं चास्ति। अत इन्द्र एवायं प्राण इत्याशयः।

नञध्याहारेण सिद्धान्तांशं व्याचष्टे॥ नेति॥ नेन्द्रोऽयं प्राणः किन्तु विष्णुरेव। प्रागुक्तप्रबलतम-लिङ्गादेः। उपदेशविरोध इति चेत्। भवेदयं विरोधो यद्यत्रेन्द्रेण प्राणतयाऽऽत्मोपदेशः क्रियेत। नैतदस्ति। यतोऽस्मिन्प्रकरणे स्वस्थितस्य प्राणो वा अहमस्मीति परमात्मत्वमुक्त्वा तस्यैव प्राणाख्यपरमात्मनः ‘प्राणस्त्वं प्राणः सर्वाणि भूतानि’ इत्यादिना बहुदेहसम्बन्धः सर्वगतत्वमेवेन्द्रेणोक्तं विद्यत इत्यर्थः। अथवेन्द्रे बहुपरमात्मसम्बन्धो विद्यते तदपेक्षयैवायमुपदेशो न स्वापेक्षया। कुतः। प्राणस्त्वमित्यादिनास्य प्राणस्याध्यात्मत्वेनान्तर्यामित्वेन सर्वगतत्वोक्तेर् विद्यमानत्वात्। न चैतदिन्द्रे जीवविशेषे युक्तमित्यर्थः। अन्यथा त्वामेव जानीयामिति ज्ञातपूर्वेन्द्रस्य मुनेः प्रश्नस्यैवासम्भवात्। सम्भवे वा प्राणस्त्वमित्यादि-परिहारवाक्यासङ्गतेश्च। अस्मत्पक्षे तु तेजोबाहुल्याद् इन्द्रेऽन्योऽपि वर्तते। कोऽसौ विष्णुश्चेत् स च कीदृश इत्यभिप्रायद्वयेन प्रश्ने सति कस्त्वयीति प्रश्नस्य प्राणो वाऽहमिति परिहारः। कीदृशोऽसावित्यस्यो-त्तरतयोत्तरवाक्ययोजनोपपत्तेरिति॥ २९॥

गुर्वर्थदीपिका

‘प्रियं वै मे धामोपागा’ इत्यत्र धामपदेन भगवत्सन्निधानमात्रं बृहतीसहस्रमुच्यते। उपागा उपपन्नतयाऽऽगा गानमकरोरित्यर्थः। त्वामेव जानीयामिति प्रार्थितत्वादस्योपदेशस्येन्द्रियैस्सह गणनस्य नान्तर्यामिविषयत्वमिति भावेनोक्तं न चास्योपदेशस्येति। सर्वथाऽज्ञातस्यापि प्रश्नायोगादिति भावेनोक्तं तेजोबाहुल्यादिति।

भावबोधः

वक्तुर्बृहतीसहस्रं शंसितुर्विश्वामित्रस्येन्द्रेण स्वात्मोपदेशः क्रियत इति पक्षो निराकृतो हि भगवता सूत्रेष्विति ऐतरेयभाष्यं मनसि निधाय भाष्यं व्याचष्टे। तमिन्द्र उवाचेत्यादिना॥ ननु विश्वामित्रं प्रत्युपदेष्टुः प्रसिद्धेन्द्रत्वेऽपि तदुपदेशगताहंशब्दस्याहेयत्वादहं नामेत्यादिना विष्णुपरत्वसम्भवात् तदुपदेशस्य विष्णुविषयत्वं स्यादित्यत आह। न चास्योपदेशस्येति। त्वामेव जानीयामित्युक्ते ‘प्राणो वाऽहमस्मि’ इत्युक्तत्वान्नास्याहंशब्दस्याहेयत्वनिमित्तकत्वं युक्तम्। किन्त्वस्मदादेशत्वमेवेति भावः। बह्वध्यात्मसम्बन्धो ह्यत्र विद्यत इत्यस्य नञा हेतुत्वेनान्वयायोगात्। नञर्थे प्रबलतमलिङ्गादेरिति हेतुवाक्याध्याहारमत्र च न चोपदेशविरोध इति मत्वा अध्याहारं च कृत्वा वाक्यं योजयति नेन्द्रोऽयमित्यादिना। ‘प्राणो वाऽहमित्यादिनामसन्दर्भमुक्तवान्’ इति स्मृतिं मूलीकृत्य बह्विति भाष्यं व्याचष्ये॥ यत इति॥ अनेन सूत्रभाष्यगत‘हि’शब्दो हेत्वर्थको बहुष्वधिकात्मनः परमात्मनः सम्बन्धो बह्वध्यात्मसम्बन्ध इति विग्रह इत्युक्तं भवति। उक्तमित्यध्याहारः। सर्वगतत्वापेक्षया नपुंसकलिङ्गत्वमिति ज्ञेयम्। अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितो भगवता। अन्येष्वन्तर्यामिरूपेण सम्बन्धोऽस्त्येव। अस्मिन्निन्द्रे तु विशेषावेशस्तात्कालिकः। अधिकात्मनः परमात्मनः सम्बन्धो ह्यध्यात्मसम्बन्ध इति ऐतरेयभाष्यं मनसि निधाय तदेव भाष्यं प्रकारान्तरेण व्याचष्टे– अथ वेति। अनेनात्रेन्द्रे बहु अध्यात्मनः परमात्मनः सम्बन्धो विद्यत इत्यनन्तरं तदपेक्षयायमुपदेशो न स्वापेक्षयेत्यध्याहृत्य तत्र हेतुप्रदर्शकत्वेन हि यस्मात् प्राणस् त्वं प्राणः सर्वाणि भूतानीति वाक्यमत्रोपदेशे विद्यत इति भाष्यं योजितं भवति। अनेन सूत्रे ‘अस्मिन्’ इतिपदं भाष्ये यथाक्रममस्मिन् प्रकरणे अस्मिन्निन्द्र इति व्याख्यातमित्युक्तं भवति। इन्द्रं तु जानात्येव हि विश्वामित्र इत्यैतरेयभाष्यं मनसि निधायाह– अन्यथेति॥

‘त्वां जानीयामिति प्रश्नं विश्वामित्रस्य कुर्वतः’।

अभिप्रायद्वयं ह्यस्ति शक्राविष्टो न चापरः।

हरेरिति तु मे तर्कस्तेजोबाहुल्यतोऽजनि॥

तस्य तर्कस्य सत्यत्वं ज्ञातव्यं प्रथमं मम।

द्वितीयं यदि विष्णुः स्याज्ज्ञातव्यो मे विशेषतः॥

इत्यभिप्रायमस्यैव ज्ञात्वा विष्णुः सनातनः।

अभ्रिपायद्वयस्यापि परिहारं हरिर्ददौ॥

प्राणो वा अहमित्यादि नामसन्दर्भमुक्तवान्।

विशेषज्ञानसिद्ध्यर्थं नाम्नामुक्तिः परात्मनः॥

इन्द्राविष्टः कोऽयमिति शङ्कानुत्यर्थमेव च।

तपन्नेवास्मीत्यवदत्तपन्तं वेद सोऽपि हि॥

इत्यैतरेयभाष्योदाहृतस्मृतिं मूलीकृत्याह– अस्मत्पक्ष इत्यादि।

भावदीपः

॥ ॐ न वक्तुरात्मोपदेशात् ॐ॥ तदयुक्तमिति॥ तेन सूत्रे प्राणो विष्णुरित्यनुवर्त्य नञाऽन्वयः कार्यः। इन्द्र एवेति भाष्यं फलितार्थमिति भावः। इन्द्रस्य प्राणत्वेनोपदेशे असाङ्गत्यनिरासाय तस्येन्द्रवाक्यत्वस्फोरणाय च पूर्ववाक्यमाह॥ तमिति॥ तं विश्वामित्रम्। प्रियं धाम स्वलोकम् उपागाः प्राप्तोऽभूः। शस्त्रशंसनेन धामप्राप्तिहेतुप्रसादं लब्धवानभूरित्यर्थः। अनन्यथासिद्धत्वमन्य-श्रुतिलिङ्गादेरिति न्यायविवरणोक्तमिन्द्रश्रुतेर्निरवकाशत्वमिन्द्र एवेति भाष्ये अवधारणसूचितमाह॥ न चायमिति॥ न चास्येति च॥ सावकाशत्वं वेति॥ सावकाशत्वं हि विरोचनं प्रति विरिञ्चेनेवेन्द्रेण विश्वामित्रं प्रति प्राणो वाऽहमिति वञ्चनार्थमुक्तत्वेन वा वास्तवत्वेऽपि अन्तर्याम्यपेक्षया वा। नाद्यः। वक्तुरित्युक्तेर्विशिष्टशस्त्रशंसितुर्विश्वामित्रस्य नेन्द्रोऽन्यथोपदेष्टुमर्हतीति सुधोक्त्या बृहतीसहस्रवक्तु-र्विश्वामित्रस्येन्द्रेण वञ्चनकरणायोगात्। नान्त्यः। मञ्चाः क्रोशन्तीत्यत्र मञ्चपदस्य मञ्चस्थपुरुषेष्विव लक्षणाप्रसङ्गात्। न च मुख्ये सम्भवति सा युक्तेति भावः। न प्राणो विष्णुः किन्त्विंन्द्र एवाऽऽत्मोप-देशादिति शङ्कायाः सूत्रशेषेण न साक्षादुत्तरं लगतीत्यतस्तदुत्तरत्वेनेति चेन्नेत्यनन्तरं पूर्वसूत्रादनुगमादिति हेतुमनुवर्त्यार्थमाह॥ नेन्द्रोऽयमिति॥ बहुत्वनिरवकाशत्वादेः सत्त्वात्प्रबलतमेत्युक्तम्। सूत्रे अध्याहृत्य वाऽनुवृत्त्य वा उक्तस्य भाष्यस्थनञः प्राणो नेन्द्रः किन्तु विष्णुरेव अनुगमादित्येकोऽर्थ उक्तः। उपदेशविरोधो न इत्यर्थान्तरं चोक्त्वा तत्र हेतुत्वेन सूत्रखण्डभाष्यस्यार्थमाह॥ नैतदस्तीत्यादिना॥ हिशब्दार्थो यत इति। अस्मिन्निति सौत्रपदानुवादोऽत्रेति भाष्यस्थपदं च विवृतं ध्येयम्। प्राणस्त्वमित्यतः पूर्वं किञ्चिदुपस्करोति॥ स्वस्थितस्येति॥ अध्यात्मसम्बन्धभूमेत्यस्य प्रतिपदं भाष्ये बह्वित्यादि। तस्यार्थो बहुदेहेति देहा इव देहा इन्द्रविश्वामित्रादिचेतनास् तत्सम्बन्धः। फलितार्थमाह॥ सर्वगतत्वमेवेति॥ एतेन सूत्रेऽधिकात्मनः परमात्मनोऽध्यात्मसम्बन्धभूमा देहसम्बन्धबाहुल्यमित्यर्थः सूचितः। अध्यात्मसम्बन्धशब्देनावेशो हि विष्णोरिन्द्रे विवक्षित इति अधिकात्मनः परमात्मनः सम्बन्धो हि अध्यात्मसम्बन्ध इति चैतरेयभाष्यदिशा बह्वित्यादिभाष्यमन्यथाऽपि व्याचष्टे॥ अथवेति॥ अस्मिन्निति सूत्रस्थस्य प्रतिपदं भाष्ये अत्रेति। तदनुवादेन अर्थोक्तिरत्रेन्द्र इति तत्र हेतुतयापि तदेव समग्रं भाष्यं योजयति॥ कुत इति॥ अध्यात्मत्वेनात्मनो जीवानधिकृत्य वर्तमानत्वेनान्तर्यामित्वेनेति यावत्। फलितार्थः सर्वगततयेति। अन्तर्यामित्वेनोक्तेर्विद्यमानत्वमेव कुतः यज्जीवविशेषे न युक्तमित्यत इन्द्रं तु जानात्येव विश्वामित्र इत्यैतरेयभाष्योक्तं विपक्षे बाधकं तावदाह॥ अन्यथेति॥ स्वापेक्षयोप-देशपक्ष इत्यर्थः। एतदर्थं च प्राक् टीकायां वाक्यशेषोद्धार इति भावः। विशेषज्ञानार्थमस्तु प्रश्न इत्यतः सम्भवे वेति पूर्वपक्षेऽपि विश्वामित्रादेः प्राणत्वाभावादिति भावः। सूत्रे भूमपदं द्वितीयव्याख्यानपरं ध्येयम्। अत्र प्राणस्यान्तर्यामित्वेनोक्तिरित्येतन्न केवलं विपक्षे बाधकाज्ज्ञायते। किन्तु वाक्य-योजनासमञ्जस्याच्च ज्ञायत इति भावेनाह॥ अस्मत्पक्षे त्विति॥ यद्वा। अयं च दोषो भवतामपि सम इत्यत आह॥ अस्मत्पक्षे त्विति॥ अहमितीति॥ तर्हि प्राणो वा मयि अस्तीति स्यादिति तु निरसिष्यत इति भावः॥ उत्तर इति॥ प्राणस्त्वमित्यादिरित्यर्थः। अत्र यद्यपि ऐतरेयभाष्ये

‘त्वां जानीयामिति प्रश्नं विश्वामित्रस्य कुर्वतः।

अभिप्रायद्वयं ह्यस्ति शक्राविष्टो न चापरः।

हरेरिति तु मे तर्कस्तेजोबाहुल्यतोऽजनि।

तस्य तर्कस्य सत्यत्वं ज्ञातव्यं प्रथमं मम।

द्वितीयं यदि विष्णुःड स्याज्ज्ञातव्यो मे विशेषतः।

इत्यभिप्रायमस्यैव ज्ञात्वा विष्णुः सनातनः।

अभिप्रायद्वयस्यापि परिहारं हरिर्ददौ।

प्राणो वाऽहमित्यादिनामसन्दर्भमुक्तवान्।

विशेषज्ञानसिद्ध्यर्थं नाम्नामुक्तिः परात्मनः।

इन्द्राविष्टः कोऽयमिति शङ्कानुत्यर्थमेव च।

तपन्नेवास्मीत्यवदत्तपन्तं वेद सोऽपि हि’।

इति। तथा ‘ओयत्वादहंनामाऽस्म्यसनान्मनुतेरपि’ इत्यादिस्मृतौ न च प्राणो वाऽहमस्म्यृष इत्यादावस्म्यादिशब्दोऽस्मच्छब्दार्थ इत्यादिवाक्येषु चार्थपर्यालोचनया प्राणोऽहमस्म्यादिशब्दानां विष्णुनामत्वमुपेत्य कीदृश इति प्रश्नस्यायं परिहारः। कोऽयमिति प्रश्नस्य तपन्नेवास्मीत्ययं परिहार इत्युक्तं भाति। न त्वस्मीत्यस्य तिङन्तत्वमुपेत्य। न वा कोऽसावित्यस्य प्राणो वा अहमस्मीत्ये-तत्समाधानमुपेत्य व्याख्यातम्। तथा प्राणस्तथानुगमादिति च विष्णोरेव प्राणशब्दाभिधेयत्व-मुक्तमित्यादिनैतत्सूत्राण्यपि तथैव तत्र व्याख्यातानि इति च भाति। तथाप्यस्मीत्यस्योत्तमपुरुषत्वाऽ-विघातेन प्राणस्येन्द्राद्यन्तर्याम्यैक्यरूपार्थान्तरपरतया श्रुतिसूत्रभाष्याण्यत्र योजितानि। अत एवान्तरनये सोऽहमस्मीत्यादि त्वन्तर्याम्यपेक्षयेत्यादि भाष्यम्। स्मृत्युक्तार्थस्त्वानन्दमयनयभाष्योक्तरीत्या तत्वप्रदीपोक्तरीत्या च सुज्ञान इति तमनुक्त्वोत्तरोपयोगित्वेनान्यार्थ उक्त इति॥ २९॥

अभिनवचन्द्रिका

(सू.२१) उक्तमाक्षिप्येति॥ ‘अत एव प्राण’ इत्यनेन सूत्रेण ‘तावा एता’ इति वाक्यं विषयावाक्यं कृत्वा देवतोपदेश्यत्वलिङ्गमात्रेण प्रागुक्तं प्राणस्य विष्णुत्वमाक्षिप्य इत्येवार्थः, नतु ‘प्राणस्तथाऽनुगमा’दित्यनेन ‘तं देवाः प्राणयन्ते’ति सर्वदेवोपदेश्यत्व, भूतित्वेन देवोपास्यत्व, सर्ववेदोक्तत्व, देहरथित्वेभ्यो लिङ्गेभ्यः। ब्रह्मशब्दाभ्यासाच्चोक्तं प्राणस्य विष्णुत्वमाक्षिप्येत्यर्थः। इन्द्रेणात्मतयोपदेशस्य निरवकाशबहुबाधकत्वाऽयोगात्। एवमुत्तरत्रापि द्रष्टव्यम्।

अत्रायं विवेकः – ‘अत एव प्राण’ इत्यनेनोक्ते प्राणस्य विष्णुत्वे चत्वार आक्षेपकाः प्राप्नुवन्ति, इन्द्रियगणे गणितत्वम्, इन्द्रेणात्मतयोपदेशः, शतसंवत्सरत्वं, प्राणैः सह कलहश्चेति। तत्राद्यस्य ‘प्राणस्तथानुऽगमा’दिति परिहारः – यद्यपि ‘अत एव प्राण’ इति पूर्वसूत्रादेव एतल्लिङ्गग्रहणसम्भावा-त्परिहारः सम्भवति, तथापि बहुवारं स्मृतेः फलबाहुल्यहेतुत्वेन ‘अत एवे’त्यत्रैकमेव लिङ्गं गृहीतम्। इह तु बहुलिङ्गानि इति सूत्रं सार्थकम्। द्वितीयस्य ‘न वक्तु’रित्यादि द्वे सूत्रे। तृतीयचतुर्थयो‘-र्जीवमुख्यप्राणलिङ्गा’दिति परिहार इति।

अत्र द्वे गुणसूत्रे – ‘न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्, शास्त्रदृष्ट्या तूपदेशो वामदेवव’दिति। अथ किमर्थो योगविभागः। ‘न वक्तुरात्मोपदेशादिति चेत् शास्त्रदृष्ट्या तूपदेशो वामदेवव’दित्येव सूत्रं किं न क्रियते। एतावतैवोक्तशङ्कापरिहारादिति चेत्, न प्राणशब्दस्येन्द्र-परत्वशङ्कानिरासाय नात्र प्राणशब्देनेन्द्र उच्यते। अस्मिन्प्रकरणे सर्वगतत्वरूपाऽध्यात्मसम्बन्धस्याभि-धानात्। तस्य चेन्द्रेऽसम्भवात्। यद्यपि इन्द्रस्य तत्वाभिमनित्वाद् बहुस्थलसम्बन्धः सम्भवति, तथापि ‘सर्वाणि भूतानी’त्युक्तपूर्वापरकल्पीयसर्वप्राणिषु मुक्तेषु लक्ष्म्यादिषु स्थित्यसम्भव एव। किन्तु इन्द्रान्तर्यामी विष्णुरेव प्राणशब्देनोच्यत इति वक्तुम् आद्यस्य समग्रयोगस्याऽपेक्षितत्वात्। अन्यथा ‘शास्त्रदृष्ट्या तूपदेश’ इत्युक्ते न शास्त्रदृष्ट्या किन्तु इन्द्रदृष्ट्यैवेत्युक्त्वा परोऽपि कृती स्यात्। ननु प्राणशब्दस्येन्द्रपरत्वे ‘त्वं प्राणः सर्वाणि भूतानी’ति वक्ष्यमाणसर्वगतत्वायोगाद् यथा प्राणशब्दो नेन्द्रपरस् तथेन्द्रादिवाचकाऽहमादिशब्दसामानाधिकरण्यायोगान् न विष्णुपरोऽपीत्याशङ्कापरिहाराय अहमादि-शब्दानामपि भगवत्परत्वमिति सदृष्टान्तं प्रतिपादनाय द्वितीययोगस्याप्यावश्यकत्वात्। तथा च आद्यसूत्रं प्राणस्यान्तर्यामिपरत्वप्रतिपादनाय, द्वितीयन्तु अहमादिशब्दानामिति विवेकः। यतोऽस्मिन्प्रकरण इति॥ बह्वध्यात्मसम्बन्ध इत्यस्य तात्पर्यार्थः बहुस्थलसम्बन्ध इति॥ आत्मानमधिकृत्य वर्तमानो देहो ऽध्यात्मशब्देनोच्यते। बहुदेहसबन्धश्च बहुस्थलसम्बन्धः। तदेव सर्वगतत्वं तच्च विष्णुलिङ्गं तदत्रोक्तं वर्तत इति। एतद्वाक्यप्रतिपाद्यो विष्णुरेवेति नोपदेशविरोध इति भावः। नञा ‘नेन्द्रोऽयं प्राण’ इति प्रतिज्ञातार्थे हेतुसमर्पकत्वेन भाष्यं व्याचष्टे – अथवेति॥ पूर्वम् ‘उपदेशविरोध इति चेन्न’ इति साध्य मध्याहृत्य तदुत्तरत्वेन भाष्यं व्याख्यातम्, इदानीं सूत्रोक्तनञर्थसम्बन्धितया भाष्यं व्याख्यायत इति भेदः। अनेन पूर्वपक्षहेतोर् आत्मोपदेशस्याऽसिद्धेः ‘इन्द्र एवायं प्राण’ इति न मन्तव्यमिति भाष्याशयो वर्णित इति बोध्यम्। प्राणस्य परमात्मत्वमेव कुतः येनेन्द्रबहुपरमात्मसम्बन्धं प्रतीम इति पृच्छति कुत इति॥ तदुत्तरत्वेन ‘प्राणस्त्वं, प्राणः सर्वाणि भूतानी’ति भाष्यांशं व्याचष्टे– प्राणस्त्वमित्यादिनेति॥ ‘प्राणस्त्वं प्राणः सर्वाणि भूतानी’ त्यतःपरमध्याहर्तव्यं वाक्यं व्याकुर्वन्नेवाह– अस्य प्राणस्येत्यादिना॥ ‘अस्याध्यात्मत्वेन सर्वगतत्वोक्तेर् विद्यमानत्वात्’ इति शेषोक्तिः। ‘अस्ये’त्यस्य प्राणस्येति व्याख्यानम्। ‘अध्यात्मत्वेने’त्यस्याऽन्तर्यामित्वेनेति व्याख्यानमिति विवेकः। ‘विद्यमानत्वा’दित्यस्याऽध्याहृतेन ‘प्राणः परमात्मे’ति साध्येन सम्बन्धः। श्रुतेर् उक्तार्थकत्वं बाधकोपन्यासेन द्रढयति – अन्यथेति॥ अन्यथा प्राणशब्दस्याऽस्मदुक्तपरमात्मपरत्वमनङ्गीकृत्येन्द्र-परत्वङ्गीकारे प्रश्नस्यैवाऽसम्भवात्, परिहारवाक्याऽसङ्गतेश्च, प्राणशब्दस्य ‘परमात्मपरत्वमेवे’त्यध्याहृत-साध्येनाऽन्वयाङ्गीकारात्। परमात्मपरत्वेऽपि प्रश्नासम्भवपरिहारासङ्गती दोषौ भवत इत्यत आह– अस्मत्पक्ष इति॥ उत्तर इति॥ परिहार इति शेषः।

वाक्यार्थमुक्तावली

ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॐ॥ विश्वामित्रस्येति॥ अवक्तारं विश्वामित्रं प्रतीत्यर्थः॥ न चायमिन्द्र इति॥ अन्तस्थाधिकरणन्यायेन ब्रह्मेन्द्रमग्निमित्यादिवदिति भावः। ननु प्रकरणादुपदेष्टुः प्रसिद्धेन्द्रत्वेऽपि प्राणो वाऽहमस्मीत्युपदेशः ‘ओयत्वादहं नामा’ इत्युक्तरीत्या इन्द्रान्तर्यामिणि सावकाश इत्याशङ्क्य परिहरति– न चेति॥ त्वामेव जानीयामित्युक्ते प्राणो वाऽहमित्युक्तत्वाद् ओयत्वादहमित्याद्यर्थस्यानुपपत्तेरिति भावः। नञध्याहरेणेति॥ नञनुवृत्ये-त्यर्थः॥ बह्वध्यात्मसम्बन्धो ह्यत्र विद्यत इत्यस्य नञ् हेतुत्वेनान्वयायोगात्। नञर्थेऽपि प्रबलतमलिङ्गा-देरिति हेतुवाक्याध्याहारम् अत्र च न चोपदेशविरोध इति प्रतिज्ञाध्याहारं च कृत्वा वाक्यं योजयति नेन्द्रोऽयमित्यादिना। सूत्रे तदित्यनुवर्तते। प्राण इति च। इति चेदित्यतः परं न चेति। न त्विति प्राणोऽनुगमादिति पदपञ्चकमनुवर्तते। आत्मोपदेशादित्येतत् प्रथमान्ततया विपरिणम्यात्मोपदेश इति चानुवर्तते। न च नञः सम्बन्धः, हिशब्दो हेतौ ततश्च न प्राणो विष्णुः। वक्तुर्बृहतीसहस्रं वक्तुर्विशिष्टशस्त्रशंसकतया परमाप्तं विश्वामित्रं प्रतीन्द्रेण प्राणतयात्मोपदेशादिति चेन्नेन्द्रोऽयं प्राणः किन्तु विष्णुरेव अनुगमादिति प्रागुक्तप्रबलतमलिङ्गादेर्जागरूकत्वात्। न चोपदेशविरोधः। यतोऽस्मिन्प्रकरणेऽध्यात्मनः स्वान्तर्यामितयोक्तस्य प्राणाख्यस्याध्यात्मनोऽधिकात्मनः परमात्मनो ऽध्यात्मम् आत्मसु देहेषु सम्बन्धबाहुल्यं बहुदेहगतत्वं विश्वामित्रादिसर्वगतत्वमेवेन्द्रेणोक्तं वर्ततेऽतो नायमिन्द्रेण प्राणतयात्मोपदेशो येन विरोधः स्यादिति सूत्रार्थमभिप्रेत्य पूर्वपक्षांशस्य प्रागेव विवृतत्वाद् बह्वध्यात्मसम्बन्धसिद्धान्तभाष्यं विवृणोति नेन्द्रोऽयं प्राण इत्यादिना अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षित ऐतरेयभाष्यं मनसि निधाय भाष्यं प्रकारान्तरेण व्याचष्टे॥ अथवेति॥ कुतो न स्वापेक्षयाऽयमुपदेश इत्याक्षिपति। तत्परिहारत्वेन प्रकारान्तरेण व्याचष्टे। प्राणस्त्वमित्यादिनेति॥ तेन हि यस्मादस्मिन्निन्द्रेऽध्यात्मनोऽधिकात्मनः परमात्मनः सम्बन्धभूमा आवेशबाहुल्यमस्ति आविष्ट-भगवदपेक्षयैवायमुपदेशः न स्वात्मना उपदेशः। कुतो न स्वात्मोपदेशः हि यस्मादस्मिन्प्रकरणे प्राणस्याध्यात्मत्वेनान्तर्यामित्वेनाध्यात्मसम्बन्धभूमा विश्वामित्रादिसर्वदेहसम्बन्ध उक्तोऽस्ति तस्मान्न स्वापेक्षयायमुपदेशः। स्वस्य जीवविशेषस्य सर्वदेहगत्वायोगाद् इति सूत्रभाष्यार्थ उक्तो भवति। इन्द्रे भगवदावेशबाहुल्यानङ्गीकारे बाधकमाह अन्यथेति। प्रश्नपरिहारप्रकरणस्येन्द्राविष्टपुरुषविशेषविषयत्व-मनङ्गीकृत्येन्द्रविषयत्वाङ्गीकार इत्यर्थः। उत्तर इति। प्राणस्त्वमित्युत्तरग्रन्थ इत्यर्थः।

तत्त्वसुबोधिनी

ननु विश्वामित्रं प्रति उपदेष्टुः प्रसिद्धेन्द्रत्वेऽपि तदुपदेशगताहंशब्दस्याहेयत्वादहं नामा इत्यादिना विष्णुपरत्वसम्भवात् तदुपदेशस्य विष्णुविषयत्वं स्यादित्यत आह॥ न चास्योपदेशस्येति॥ त्वामेव जानीयामित्युक्ते प्राणो वा अहमस्मीत्युक्तत्वान् नास्याहंशब्दस्याहेयत्वनिमित्तकत्वं युक्तं किन्तु अस्मदादेशत्वमेवेति भावः। बह्वध्यात्मसम्बन्धो ह्यत्र विद्यते इत्यस्य नञा हेतुत्वेनान्वयायोगान् नञर्थे प्रबलतमलिङ्गादेरिति हेतुवाक्याध्याहारमत्र च न चोपदेशविरोध इति मत्वा प्रतिज्ञाध्याहारं च कृत्वा वाक्यं योजयति॥ नेन्द्रोऽयमिति॥ अथवेति॥ अनेनात्र इन्द्रे बह्वध्यात्मनः परमात्मनः सम्बन्धो विद्यते इत्यनन्तरं तदपेक्षयायमुपदेशो न स्वापेक्षया इत्यध्याहृत्य तत्र हेतुप्रदर्शकत्वेन हि यस्मात्प्राणस् त्वं प्राणः सर्वाणि भूतानीति वाक्यमत्रोपदेशे विद्यते इति भाष्यं योजितं भवति। अनेन सूत्रे अस्मिन्निति पदं भाष्ये यथाक्रममस्मिन्प्रकरणे अस्मिन् इन्द्र इति व्याख्यातमित्युक्तं भवति। अन्यथेति स्वापेक्षयायमुपदेशश्चेदित्यर्थः। ननु कथं भवत्पक्षे प्रश्नसम्भवः परिहारवाक्यसङ्गतिश्चेत्यत आह॥ अस्मत्पक्षे त्विति॥

वाक्यार्थमञ्जरी

ॐ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॐ॥ बृहतीसहस्रं वक्तुर्विश्वामित्रस्य तं प्रतीति यावत्। प्राणो वा अहमस्मि ऋष इतीन्द्रेण स्वात्मन एव प्राणतया अभिधानान्न प्राणो ब्रह्मेति चेन्न अस्मिन्निन्द्रे अधिकात्मनः परमात्मनः सम्बन्धभूमा सम्बन्धबाहुल्यं हि यस्मादस्ति अतसत्दपेक्षया प्राणो वा अहमस्मि ऋष इत्युक्तिर्न स्वात्मापेक्षयेत्यर्थः॥ तमिन्द्र इति॥ विश्वामित्रोक्त-बृहतीसहस्रं श्रुत्वा तुष्ट इन्द्रो विश्वामित्रं प्रत्युवाच हे ऋषे मे धाम गृहं प्रत्यागा आगच्छ ते प्रियं वरं ददामि। त्वां त्वदन्तर्यामिणम्। मयि स्थितः प्राणः प्रकृष्टचेष्टकत्वात्प्राण इति। ओयत्वादहमिति। असनान्निरसनान्मनुतेर्ज्ञानाच्चास्मीति च नामवानित्यर्थः। बृहतीसहस्रं बृहतीछन्दोपेतम् ऋक्सहस्रम्। महाव्रताख्यो यज्ञः॥ न चेति॥ त्वामेव जानीयामिति पूर्ववाक्यविरोधादिति भावः॥ प्राणस्त्वमिति॥ प्राणस्त्वयि सर्वभूतेष्वपि वर्तत इत्यर्थः। आत्मशब्दस्य देहपरत्वमुपेत्य व्याख्याय जीवपरत्वमुपेत्य प्रकारान्तरमाह॥ अथवेति॥ ज्ञातपूर्वेन्द्रेति॥ अन्यथा त्वामित्यनुवादानुपपत्तिरिति भावः। सामान्यज्ञानेऽपि विशेषजिज्ञासया प्रश्नः सम्भवतीत्यत आह॥ सम्भवे वेति॥ असङ्गतेरिति॥ तेन स्वस्वरूपादेरपृष्टत्वादिति भावः॥

विवृतिः

ननु विश्वामित्रं प्रत्युपदेष्टुः प्रसिद्धत्वेऽपि तदुपदेशगताहंशशब्दस्याहेयत्वादहं नामेत्यादिना विष्णु-परत्वसम्भवात्तदुपदेशस्य विष्णुविषयत्वं स्यादित्यत आह॥ न चास्योपदेशस्येति॥ त्वामेव जानीया-मित्युक्ते प्राणो वा अहमस्मीत्युक्तत्वान्नास्याहंशब्दस्याहेयत्वनिमित्तकत्वं युक्तं किं त्वस्मदादेशत्वमेवेति भावः॥ बह्वध्यात्मसम्बन्धो ह्यत्र विद्यत इत्यस्य नञा हेतुत्वेनान्वयायोगान्नयर्थे प्रबलतमलिङ्गादेरिति हेतुवाक्याध्याहारमत्र च न चोपदेशविरोध इति प्रतिज्ञाध्याहारं च कृत्वा वाक्यं योजयति॥ नेन्द्रोऽय-मिति॥ अथवेति॥ अनेनात्रेन्द्रे बहुर् अध्यात्मनः परमात्मनः सम्बन्धो विद्यत इत्यनन्तरं तदपेक्षयाऽय-मुपदेशो न स्वापेक्षयेत्यध्याहृत्य तत्र हेतुप्रदर्शकत्वेन हि यस्मात्प्राणस्त्वं प्राणः सर्वाणि भूतानीति वाक्यमत्रोपदेशे विद्यते इति भाष्यं योजितं भवति॥ अनेन सूत्रे अस्मिन्निति पदं भाष्ये यथाक्रम-मस्मिन्प्रकरणेऽस्मिन्निन्द्र इति व्याख्यातमित्युक्तं भवति॥ अन्यथेति॥ स्वापेक्षयाऽयमुपदेशश्चेदित्यर्थः॥ ननु कथं भवत्पक्षे प्रश्नसम्भवः परिहारवाक्यसङ्गतिश्चेत्यत आह॥ अस्मत्पक्षे त्विति॥ कीदृशोऽसावित्यस्योत्तर इति॥ उत्तरः। उत्तरग्रन्थः॥ प्राणस्त्वं प्राणः सर्वाणीत्यर्थः॥