११ गायत्र्यधिकरणम्

ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ

११. गायत्र्यधिकरणम्

सूत्रभाष्यम्

॥ ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ॥ २५॥

‘अथ यदतः परो दिवो ज्योतिर्दीप्यत’ (छां.३-१३-७) इत्युक्तस्य ज्योतिषो ‘गायत्री वा इदं सर्वम्’ इति (छां.३-१२-१) गायत्र्या समारम्भः कृतः। तस्मान्न विष्णुरिति चेन्न। तथा चेतोऽर्पणार्थं हि निगद्यते। अग्निगायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यते। तथा हि दर्शनं ‘गायति त्रायति च’ (छां.उ.३-१२-१) इत्यादि।

‘सर्वच्छन्दोऽभिधो ह्येषः सर्वदेवाभिधो ह्यसौ।

सर्वलोकाभिधो ह्येषस् तेषां तदुपचारत’ इति वामने॥ २५॥

सत्तर्कदीपावली

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्टेष्वनुत्तमेषूत्तमेषु लोकेषु इदं वा व तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिर् इति श्रुत्यन्तरादपि विष्णुरेव मुख्यज्योतिः। इदमेवाक्षिप्य समर्थयत्सूत्र-मुपन्यस्य व्याचष्टे॥ छन्दोऽभिधानादित्यादिना॥ न च वाच्यं गायत्री वा इदं सर्वमिति गायत्रीच्छन्दः-प्रारम्भान् नात्र ज्योतिःशब्दार्थो विष्णुरिति। गायति च त्रायति च तस्माद्गायत्रीनामेति गायत्रीशब्दस्य विष्णुपरत्वश्रुतेः सर्वच्छन्दोऽभिधो ह्येष इति पुराणवचनाच्चेत्यर्थः।

तत्त्वप्रदीपिका

छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम्।

अथ यदतः परो दिवो ज्योतिर्दीप्यत इत्यत्र ज्योतिरुच्यते। तस्मिन्ब्राह्मणे गायत्रीशब्देनोपक्रमः कृतः। तस्य चानुपसञ्जातविरोधित्वेन बलवत्त्वाज् ज्यातिश्शब्दस्य तद्विषयत्वोपपत्तिः। ‘तेजो वै ब्रह्मवर्चसं गायत्री’ इति श्रुतेः। अतोऽत्रापि न विष्णुर्ज्योतिरिति पूर्वः पक्षः। अग्निगायत्र्यादिशब्दार्थरूपोऽसाविति चेतोऽर्पणार्थं हि निगद्यत इत्यस्य स्वपदवर्णनरूपस्य भाष्यस्यायमर्थः। अग्न्यादितेजश्शब्दानां गायत्र्यादिछन्दश्शब्दानां चार्थस्वरूपत्वेन निरूपणीयो विष्णुरेवेति बुद्ध्यवतरणार्थं हि तच्छब्दैर्निगद्यते। कथमन्यविषयतया प्रसिद्धानामन्यस्यैव मुख्यार्थत्वमित्यत आह– तथा हि दर्शनं गायति च त्रायति चेति। ‘इयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयत’ इत्यादिकमादिशब्दाद्द्रष्टव्यम्। ‘पृथुत्वात्प्रथित्वाच्च पृथिवी विष्णुरुच्यते’। अग्रणीत्वादगनेतृत्वाददनाच्चाग्निः। ऊषणकरणत्वादुष्णिक्। स्वेच्छानुरोधेन स्तोभनादनुष्टुप्। त्रिभिर्वैदैः स्तूयत इति त्रिष्टुप्। छन्द्यत्वाच्छन्द इत्येवं द्रष्टव्यम्।

तत्त्वप्रकाशिका

अत्र सूत्रमेवादौ पठति॥ छन्दोऽभिधानादिति॥ लोकतोऽन्यत्रप्रसिद्धगायत्रीनाम्नोऽत्र हरौ समन्वयसमर्थनादस्ति शास्त्रादिसङ्गतिः। श्रुत्यादिसङ्गतिविषयवाक्यविषयसंशयपूर्वपक्षतत्फलानि सूचयन् सूत्रं व्याचष्टे॥ अथेति॥ हृदयनिहितं ज्योतिर्विष्णुरित्यभिहितं तच्च ज्योतिश्छन्दोगश्रुतौ श्रूयते। अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्पुरुषे ज्योतिरिति। एतच्च गायत्रीत्वेन पठ्यते। गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वमित्युपक्रमात्। इयं च गायत्री यदा विष्णोरन्या स्यात्तदेदं ज्योतिश्च सा स्यादिति गायत्री-निर्णयोऽत्रावश्यापेक्षितः। सा गायत्री विषयः। किं विष्णुरुत छन्दोविशेष इति सन्देहः। ज्योतिःश्रुति-र्लोकप्रसिद्धिश्च सन्देहबीजम्।

तत्र गायत्री छन्दोविशेष एवेति पूर्वः पक्षः। गायत्रीशब्दस्य तत्रैव रूढत्वात्। वाग्वै गायत्रीति वाक्त्वविधानाच्च। न च ज्योतिःश्रुत्या गायत्र्यादिश्रुतिबाधः। श्रुतेः श्रुतिबाधकत्वायोगात्। न च सावकाशत्वादिना बाध्यबाधकभावः। गायत्र्यां ‘तेजो वै ब्रह्मवर्चसं गायत्री’ इति ज्योतिःशब्दानतिभिन्नार्थ-तेजःशब्दश्रवणेन ज्योतिःश्रुतेरेव सावकाशत्वात्। न च गायत्रीश्रुतिर्विष्णाववकाशवती रूढेरभावात्। योगस्य चामुख्यवृत्तित्वात्। न च गायत्र्या भगवदधीनत्वेन तस्मिन्नेव तच्छ्रुतेर्मुख्यत्वमिति वाच्यम्। गायत्र्या वेदविशेषत्वेन नित्यत्वात्। नित्यस्य च पराधीनताऽयोगात्। तस्माद् गायत्री न विष्णुरपि तु छन्दोविशेष एव। ततश्चेदं ज्योतिरानन्दमयश्च नासाविति भावः।

सिद्धान्तयत्सूत्रांशमनुकरोति॥ नेति॥ स्वपदानि वर्णयति॥ अग्नीति॥ अत्र गायत्रीशब्देन विष्णुरेव निगद्यते। तस्माज्ज्योतिःशब्देनापि स एव निगद्यते। ततश्च स एवाऽऽनन्दमयः। न च गायत्र्यादिशब्दैरुच्यते तदभेदविधानार्थं किन्तु गायत्र्यादिशब्दार्थगुणस्वरूपत्वेनोपासनार्थमेवेति भावः। आदिपदेन वाचो ग्रहणम्। अधिकरणान्तरेऽप्येतन्न्यायस्यानुसन्धेयत्वं च हिशब्देन सूचयति। भवेज्ज्योतिषोऽपि विष्णुत्वं यदि गायत्रीयं विष्णुः स्यात्तदेव कुत इत्यत आह॥ तथा हीति॥ दर्शनं श्रुतिः। एतद्गायत्र्या गानत्राणकर्तृत्वलिङ्गश्रवणात्तस्य च छन्दस्यसम्भवाद्विष्णुरेव गायत्री ततो ज्योतिरपि स एवेति भावः। आदिपदेन ‘या वै सा गायत्रीयं वाव सा येयं पृथिवी’ इत्यादेः सङ्ग्रहः। ननु गायत्री-श्रुतेरन्यत्र निरूढत्वात्कथं लिङ्गमात्रेण विष्णुत्वनिश्चय इत्यत आह॥ सर्वेति॥ गायत्रीश्रुतेः पौराणिक-रूढ्या श्रुत्युक्तयोगेन गायत्र्या भगवदधीनत्वेन च विष्णावेव मुख्यवृत्त्या सावकाशत्वाद् लिङ्गस्यामुख्य-वृत्त्याप्यन्यत्रानवकाशात् सावकाशश्रुतेर् निरवकाशलिङ्गेन बाधोपपत्तेर्युक्तो लिङ्गमात्रेणायं निर्णय इति भावः। न च नित्यस्य पराधीनत्वायोगः।

‘स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रिया।

यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’

इति नित्यानामपि भगवदधीनत्वस्य श्रौतत्वात्। अत्र देवलोकपदाभ्याम् अग्निपृथिव्यादिशब्दानां च भगवत्परत्वमुच्यते॥ २५॥

गुर्वर्थदीपिका

सौत्रपदैरेव व्याख्यानाद् अनुकरोतीत्युक्तम्। एतन्न्यायस्य तत्र तत्र समन्वीयमानपदविभाग-लभ्यस्याऽऽसमन्तात् प्रकाशनादिगुणवत्तया भगवति चेतोऽर्पणस्य। गायति स्वभक्तान्प्रति सामगानं करोति त्रायति मुक्तिं दत्वा तान् रक्षयतीति श्रुत्यर्थमभिप्रेत्योक्तं गानत्राणकर्तृत्वलिङ्गश्रवणादिति।

भावबोधः

॥ ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ॥ ‘हृदयनिहितम्’ इत्यनेनानन्तरसङ्गतिरुक्ता भवति॥ किमिति॥ अत्र गायत्री किं छन्द उत विष्णुरिति चिन्ता। तदर्थं गायत्रीश्रुतिर्गानत्राणकर्तृत्वादिविष्णुप्रापकबाधिका उत तद्बाध्येति। तदर्थं सा श्रुतिस्सदुपोद्बल-कत्वेनाभिमतममृतं दिवीति परो दिव इत्युपदेशभेदविरोधादिकं च किं निरवकाशमुत सावकाशमिति। तदर्थं गायत्र्यादिशब्दप्रवृत्तिकारणं द्युस्थितत्वद्युपरत्वादिकं च हरेर्न सम्भवत्युत सम्भवतीति। तदर्थं हरेरनादिपदार्थतत्स्वभावनियामकत्वं द्युस्थितत्वद्युपरत्वोपदेशाविरोधापादकादिकं नास्त्युतास्तीति। तदर्थं तत्र तत्कल्पकत्वेनाभिमतस्य भूतादिपादत्वलिङ्गादेर् विष्ण्वैकनिष्ठत्वरूपनिरवकाशत्वे च प्रमाणं नास्त्युतास्तीति। पूर्वाधिकरणेन गतार्थतां निरस्यति– न च गायत्र्या इति॥ कुत इत्यत आकाशादि-शब्दप्रवृत्तिनिमित्तविवरत्वादेराकाशादिस्वभावत्वेऽपि तद्धर्मिण आकाशादेर्जन्यत्वेन धर्मिणा सह भगवदधीनत्वाद् भवतु तन्निमित्तकाकाशादिशब्दानां भगवति मुख्यत्वम्। वेदविशेषरूपगायत्र्या अनादित्वेन तत्स्वभावभूतगायत्रीशब्दप्रवृत्तिनिमित्तस्य तद्रीत्यापि भगवदधीनत्वाभावात् कथं गायत्र्यादिशब्दानां भगवति मुख्यत्वमिति।

‘नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः’

इत्यनुव्याख्यानोक्ताभ्यधिकाशङ्कामाह गायत्र्या वेदविशेषत्वेन नित्यत्वादिति। अनेन आकाशाधि-करणोदाहृतन्यायविवरणे बुद्ध्या विवेकेन नित्यत्वे विद्यमान इत्ययं भागो व्याख्यातो भवति। न्याय-विवरणाक्षरयोजना तु– अधिभूताध्यात्माधिदैवगतशब्दानां भगवद्विषयत्वमेवेत्यन्वयः। भगवद्विषयत्वाभावे पूर्वपक्ष्यभिप्रेताचेतनत्वादिहेतूनामप्रयोजकत्वप्रदर्शनार्थमचेतनत्वजीवान्वयव्यतिरेकनित्यत्वेषु विद्यमानेष्व-पीत्युक्तम्। अत एवापिशब्दः। अचेतनत्वेत्यतः पूर्वमाकाशाद्यधिभूतप्राणाद्यध्यात्मगायत्र्याद्यधिदेवानामिति शेषो वाऽधिभूतेत्यादिवाक्यादर्थतो लाभो वा द्रष्टव्य इति। अत्र नित्यत्वं नामानादित्वं विवक्षितम्। ध्वंसाप्रतियोगित्वमात्रत्वे तु जन्यत्वाविरोधेनेश्वराधीनत्वाविघटकत्वात् पूर्वपक्षयुक्तित्वं न स्यात्। अत एवोक्तं सुधायाम्– ‘वेदस्य नित्यत्वादनादित्वाच्च’ इति॥

ननु कृतकक्रमविशिष्यवर्णसमुदायरूपस्य वेदस्य कथमनादित्वमिति चेत्, न; यतः स्वतन्त्रपुरुष-पूर्वकत्वभूतभवद्भविष्यद्भिरखिलैरेकप्रकारेण पठ्यमानत्वमेवानादित्वं वेदस्य विवक्षितम्। अत एवोक्तं विष्णुतत्त्वनिर्णयटीकायाम्– ‘स्वतन्त्रस्य वक्तुरभावादपौरुषेयत्वमुपपद्यते’ इति। एतदेव चानादिनित्यत्व-मिति च। एतावतैव शब्दस्वभावभूतपदार्थप्रतिपादनशक्तेः पराधीनत्वासम्भवेनेश्वराधीनत्वविघटनोपपत्तौ मुख्यानादित्वकल्पनावैयर्थ्यात्। न चैवंविधमनादित्वम् आकाशादीनामिति तदुक्तेरभ्यधिकाशङ्का-प्रदर्शकत्वमिति भावः।

ननु ‘विकारशब्दान्नेति चेत्’ इत्यनेन पूर्वमानन्दमयस्य ‘जीवमुख्यप्राणलिङ्गान्नेति चेत्’ इत्यादि-नोत्तरत्र प्राणादीनां विष्णुत्वाक्षेपपरिहारवदत्राप्यग्निसूक्तोक्तं ज्योतिर्विष्णुर्न। अथ ‘यदतः परो दिवो ज्योतिः’ इत्युक्तस्यैव ज्योतिषस्तदुपक्रमे ‘गायत्री वा इदं सर्वम्’ इति गायत्रीरूपच्छन्दोविशेष-त्वेनाभिधानादित्याक्षिप्य गायत्रीशब्दस्यापि विष्णुपरत्वान्नेयमनुपपत्तिरिति परिहारसम्भवेनेदमपि सूत्रं तथैव ज्योतिरधिकरणशेषत्वेनैव व्याख्यायताम्। एवं सत्यग्निगायत्र्यादीति भाष्येऽग्निशब्दोपादानं सूत्रे समन्वेतव्यशब्दानुक्तिराक्षेपसमाधानरूपत्वं च सङ्गच्छते। किमिति टीकायामधिकरणान्तरत्वेन व्याख्यानमस्येति चेत्, न; तथात्वे उदाहृतन्यायविवरणविरोधात्॥

‘नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः’॥

इत्यनुव्याख्यानविरोधाच्च॥ तथा हि– न्यायविवरणे अधिवेदस्य नित्यत्वेऽपि तद्गतस्य शब्दस्य विष्णुविषयत्वमित्युक्त्या वेदवाचकशब्दस्य समन्वेतव्यत्वं वेदगतनित्यत्वस्य पूर्वपक्षयुक्तित्वं चोच्यते। न च चतुःसूत्र्या एकाधिकरणत्वे तत्सम्भवति। तथात्व आकाशप्राणगताचेतनत्वजीवनान्वयव्यतिरेकयो-रिवाग्निगतस्यैव कस्यचिद्धर्मस्य पूर्वपक्षयुक्तित्वेनाग्निवाचकस्यैव शब्दस्य समन्वेतव्यत्वेन च कथनं स्यात्। अनुव्याख्यानेऽपि ‘नित्यत्वादेव शब्दस्य’ इति वेदरूपशब्दस्याकाशप्राणादिवत् समन्वेतव्यशब्दवाच्य-त्वोक्त्या तद्गतार्थप्रतिपादनशक्तेर्नित्यत्वस्याकाशगतविवरत्वस्वभावत्वस्येव पूर्वपक्षयुक्तित्वोक्त्याऽय-मेवार्थोऽभिहितः। न च ‘अथवाऽत्राप्यथ यतः परो दिवः’ इति वाक्योक्तज्योतिषि सन्देह इत्यादि सुधाग्रन्थपर्यालोचनया ज्योतिश्शब्दस्यैव समन्वेतव्यत्वप्रतीतिरिति वाच्यम्। तथात्वेऽपि तदुक्तरीत्यैव ‘अथ यदतः’ इति वाक्यगतज्योतिश्शब्दस्य समन्वेतव्यत्वप्राप्तावप्यधिकरणैक्यालाभात्। एवञ्चाग्नि-गायत्र्यादिशब्दार्थरूपोऽसाविति भाष्ये ज्योतिश्शब्दपर्यायाग्निशब्दस्य प्रथमं तत्र पूर्वपक्षयुक्तित्वेन क्रमेणाशङ्कितयोर्गायत्रीवाक्शब्दयोरनन्तरमुपादानम् ‘प्रणेता ज्योतिर् इत्याद्यैः’ इति सङ्क्षेपे आदिपदस्य तत्तदधिकरणन्यायसञ्चारविषयशब्दान्तरसङ्ग्राहकतया सावकाशत्वेन ज्योतिरितिवद् गायत्रीशब्दानुपादानं चात्राधिकरणैक्यज्ञापकम्। अधिकरणभेदेऽपि ‘अथ यदतः’ इति वाक्यगतज्योतिश्शब्दस्य समन्वेतव्यत्वपक्षमादाय भाष्ये प्राधान्याप्राधान्याभ्यामग्निगायत्र्यादिशब्दोपादानस्य सङ्क्षेपे प्रणेतेत्यनेन प्राणाधिकरणद्वयसङ्ग्रहवज्ज्योतिरित्यनेनैवेतदधिकरणद्वयसङ्ग्रहसम्भवेन गायत्रीशब्दानुपादानस्य चोपपत्तेः। ‘‘ज्योतिश्चरणाभिधानात्’ इति सूत्रोक्ताक्षेपसमाधानरूपत्वमस्याधिकरणान्तरत्वेऽप्यङ्गीकृतमेवेति नानुपपत्तिः। ‘आनुमानिकमप्येकेषाम् इति चेत्’ इत्यादिवत् समन्वेतव्यशब्दानुक्तिराक्षेपसमाधानरूपतया सूत्रविन्यासोऽप्युपपद्यते। भाष्येऽग्निशब्दग्रहणं तु गायत्रीशब्दसमन्वयकथनेन ज्योतिःशब्दस्य विष्णुपरत्वं समाहितमिति ज्ञापनार्थम्। अत एव टीकायां गायत्रीपदेन विष्णुरेव निगद्यते। तस्माज् ज्योतिश्शब्देनापि ‘स एव निगद्यते’ इति तयोर्हेतुहेतुमद्भावः प्रदर्शितः। तथा गायत्रीशब्दवाच्यत्वे विष्णोर्बाधकत्वेनोक्ते वाक्शब्दस्यापि विष्णुपरत्वं तत्समाधानार्थं वक्तव्यमित्यादिपदं प्रयुक्तम्। अत एव टीकायामादिपदेन वाचो ग्रहणमित्युक्तम्।

ननु तर्हि गायत्र्यग्न्यादिशब्दार्थरूप इति निर्देशः स्यादिति चेत्, सत्यम्; तथाप्यन्यत्र प्रसिद्धस्य गायत्रीशब्दस्य विष्णौ प्रयोगे प्रयोजनं सूचितमित्यपि ज्ञापनार्थमग्निगायत्र्यादीत्येवक्रमेण निर्देशः। अस्मिन् पक्षे, ‘‘ज्ञानार्थमध्ययनार्थं गुणानां समुदीरणा’ इति प्रमाणप्रसिद्धिद्योतको ‘हि’शब्द इति ध्येयम्। वाचो ग्रहणमिति। ‘वाग्वै गायत्री’ इति श्रुतौ वाक्शब्दार्थगुणवत्तयोपासनार्थम् ‘विष्णुर्वाक्’ इत्युक्तम्। तथा च वाक्यमपि न विष्णुत्वबाधकमिति दर्शयितुं भाष्य आदिपदमित्यर्थः। अनुसन्धेयत्वं हिशब्देन सूचयतीति। एतदध्यायगतानन्दमयाद्यधिकरणेषु तत्तच्छब्दसमन्वयकथनं तत्तच्छब्दार्थयुक्तत्वेन हरेर्ध्यानार्थमुक्तमिति न्यायस्यानुसन्धेयत्वं चेतोऽर्पणार्थं हि निगद्यत इति भाष्यगत‘हि’शब्देनाचार्यः सूचयतीत्यर्थः। प्रसिद्ध्यर्थको ‘हि’शब्दोऽस्यार्थस्य सार्वत्रिकत्वं गमयतीति भावः। पृथिवी इत्यादेः सङ्ग्रह इति। ‘या वै सा’ इत्यादिना गायत्र्याः पृथिव्यभेदमुक्त्वा ‘अस्यां हीदं सर्वं प्रतिष्ठितम्’ इति पृथिव्याः सर्वाधारत्वमुक्तम्। तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वे युक्तं नान्यथेत्यर्थः॥ लिङ्गस्येति॥ अनेनानन्यथासिद्धलिङ्गैरिति न्यायविवरणं पूर्ववद्व्याख्यातं भवति॥ सावकाशश्रुते-र्निरवकाशलिङ्गेनेति॥ अनेन ‘सन्दिग्धा’ इत्यादिन्यायविवरणं पूर्ववद्व्याख्यातं भवति। उपलक्षणं चैतत्। सैद्धान्तिकश्रुतिलिङ्गानां बाहुल्यमपि प्राबल्यनिमित्तं द्रष्टव्यम्। अत एवोक्तमनुव्याख्याने ‘बाहुल्यात् श्रुतिलिङ्गयोः’ इति। न्यायविवरणे च पुरुष इत्यादीत्यादिपदेन श्रुतिबाहुल्यं ‘लिङ्गैः’ इति बहुवचनेन लिङ्गबाहुल्यं चोक्तम्। भाष्ये च ‘गायति च त्रायति चेत्यादि’ इत्यत्रादिपदेन लिङ्गबाहुल्यमुक्तम्।

भावदीपः

॥ ॐ छन्दोऽभिधानात् ॐ॥ अन्यत्रेति॥ वर्णसमावेशरूपमन्त्र इत्यर्थः। अध्याहारेण भाष्यस्योक्तार्थसूचकत्वम्॥ हृदयेति॥ छन्दोगेति॥ तृतीयेऽध्याये ज्योतिरितीति श्रूयत इत्यन्वयः। सौत्रपदानाम् अर्थोऽगे्र व्यक्त इति गायत्र्या समारम्भः कृतस् तस्मादित्यन्तभाष्यस्यार्थ इत्युपक्रमादिति। विष्णुरित्यस्य तात्पर्यमाह॥ इयं चेति॥ इदमिति॥ पुरुषे ज्योतिरित्युक्तं पूर्वोक्तज्योतिश्चेत्यर्थः। एतेन भाष्येऽस्मिन्नर्थे ज्योतिश्चेति शेष इति भावः। इति पूर्वाक्षेपसङ्गतिसद्भावाद् गायत्रीनिर्णयोऽवश्यापेक्षित इत्यर्थः। एतेन सङ्गतिफलं सूचयन्निति विवृतम्। वागित्याद्यंशोक्तिरुत्तरार्था। छन्दोऽभिधानान्नेति चेदिति सौत्रशङ्काभागविवरणपरतयाऽपि भाष्यं व्यनक्ति॥ तत्र गायत्रीति॥ न विष्णुरिति॥ भाष्ये गायत्रीति पदस्येति शेषमुपेत्यान्वयमुखेनार्थकल्पनं कृत्वा तस्मादिति हेत्वंशं व्याचष्टे॥ रूढत्वादिति॥ पूर्वपक्षदार्ढ्याय कथं प्रसिद्धबहुलशब्दानामन्यथार्थतेत्यनुभाष्योक्तिलब्धमपि हेतुं तस्मादित्यस्यार्थत्वेनोपेत्याह॥ वाग्वा इति॥ ज्योतिःश्रुतेर्विष्णुपरत्वस्य पूर्वमुक्तत्वेन तद्विरोधान्नात्र पूर्वपक्षोदय इत्याशङ्कां निराह॥ न च ज्योतिःश्रुत्येति॥ तस्मादित्यत्यार्थान्तरमप्याह॥ ज्योतिःश्रुतेरेव सावकाशत्वादिति॥ गायत्रीश्रुतेर्निरवकाशत्वादित्यप्यर्थमुपेत्य निरवकाशत्वमुपपादयति॥ न च गायत्रीश्रुतिरिति॥ योगस्येति॥ गानत्राणकर्तृत्वरूपस्येत्यर्थः। प्रमाणाश्रितचोद्यमुक्त्वा प्रमेयाश्रितमपि तत् ‘नित्यत्वादेव शब्दानां तत्स्वभावः कथं तत’ इत्यनुभाष्योक्तं शङ्कापूर्वमाह॥ न च गायत्र्या इति॥ स्वातन्त्र्यं तत्र मुख्यं स्यादित्युक्तेराह॥ मुख्यत्वमिति॥ गायत्रीपदप्रवृत्तिनिमित्तस्य गायत्री-स्वभावत्वात्तस्या ईशाधीनत्वेन प्रवृत्तिनिमित्तस्यापि तथात्वमिति प्रवृत्तिनिमित्तस्येशाधीनत्वादौ युक्तिसूचनाय गायत्र्या इत्येवोक्तम्। तस्मादित्यस्यार्थान्तरं गायत्र्या नित्यत्वादिति॥ नित्यस्य चेति॥ अनादेरित्यपि ध्येयम्। जन्यभूताकाशस्वभावस्य विवरत्वादेः पदप्रवृत्तिनिमित्तस्य धर्मिणा सह जन्यत्वेनेशाधीनत्वेऽपि अनादिनित्ये तदभावादिति भावः। एतेनाऽधिवेदगतानामपि शब्दानां नित्यत्वे विद्यमानेऽपीति न्यायविवरणांशो व्याख्यातः। इदं चोपलक्षणम्। गायति त्रायति चेति वाक्यशेषोक्तं यदर्थाभिधान-रूपगानकर्तृत्वं यच्चाध्येतॄणां पापाद्रचेत्यपि ध्येयम्। एवं च गायत्रीवागादिनिरूढनिरवकाश-श्रुतिबलादन्यदपि विष्णुलिङ्गं गायत्र्यामेव योज्यमिति भावेनोक्तार्थं सर्वं भाष्यारूढं कुर्वन् तस्मान्न विष्णुरिति भाष्यमनूद्य फलितार्थं चाह॥ तस्मादिति॥ रूढत्वाद्वाक्त्वविधानाज्ज्योतिःश्रुतेर् गायत्र्यां सावकाशत्वाद् गायत्रीश्रुतेर् विष्णावनवकाशाद् गायत्रीप्रवृत्तिनिमित्तस्येशानधीनत्वादीशगतत्वा-भावाच्चेत्युक्तसर्वहेतुपरामर्शः। बुद्धिस्थाशेषार्थपरामर्शित्वात्तच्छब्दस्य प्रागुक्ताशेषार्थस्य भाष्यकर्तृबुद्धि-स्थत्वादिति भावः। विष्णुर्न चेन्नैरर्थक्यं गायत्रीशब्दस्य स्यादित्यतश् छन्दोविशेष एवेति फलितोक्तिः॥ इदं ज्योतिरिति॥ हृदयाहितत्वयुक्तम्। एतच्छान्दोग्यस्थं पूर्वोक्तमग्निसूक्तस्थं चेत्यर्थः। एतेन तस्मादुक्तहेतुसमुदायान्न विष्णुर्गायत्री तस्माद्गायत्र्यैक्याज्ज्योतिरादिशब्दवाच्यश्च न विष्णुरिति गायत्रीज्योतिःपदाध्याहारेण चावृत्त्या च भाष्यार्थो दर्शितः॥ नासाविति॥ अपि तु छन्दोविशेष एवेत्यनुषङ्गः। तस्यानन्दमयत्वं चाभिमानिद्वारेति भावः। एतेन पूर्वपक्षफलानि सूचयन्नित्यंशो विवृतः॥ अग्रे व्याख्यानकरणादिदं किमित्यत आह॥ अनुकरोतीति॥ किञ्चिद्विवरणेनेति योज्यम्। यथान्यासस्य हि पुनरुच्चारणमनुकरणम्॥ स्वपदानीति॥

‘सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुकारिभिः।

स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः’

इत्युक्तेः। भाष्यत्वादिति भावः। नेचि नञो न विष्णुरित्यनुवृत्तेनान्वये सति फलितार्थमाह॥ विष्णुरेवेति॥ भाष्ये हि यस्मादित्यर्थ इत्युपेत्याह॥ तस्मादिति॥ ज्योतिःशब्देनेति॥ अत्रत्येन पूर्वतनेन चेत्यर्थः। अयं च न विष्णुर्ज्योतिरिति चेन्नेति पूर्वभाष्येण ज्योतिःशब्दाध्याहारयुतेनान्वये सति सिद्धोऽर्थः। चेतोऽर्पणार्थमित्येद्व्यावर्त्यमाह॥ न चेति॥ सौत्रतथाशब्दार्थो गायत्र्यादीति॥ वाचोग्रहणमिति॥ वाग्वाव गायत्रीति गायत्र्या वाक्त्वोक्तिर्वाक्शब्दार्थगुणस्वरूपत्वेनोपासनार्थमेव नाभेदविधानार्थेति गायत्र्या विष्णुत्वे सापि न बाधिकेति भावेन भाष्ये आदिपदमिति भावः॥ सूचयतीति॥ आदिपदमिति विपरिणम्यानुषज्यत इति चन्द्रिकोक्तिः। हिशब्देन सूचयतीति तु पाठो न बहुकोशेषु दृश्यत इत्याहुः। पूर्वोत्तराधिकरणविषयवाक्येषु विष्णौ प्रसिद्धविष्णुनारायणादि-पदप्रयोगमकृत्वा इन्द्राकाशाग्निज्योतिःप्राणादित्याक्षरादिशब्दप्रयोगस्तु तत्तच्छब्दार्थगुणस्वरूपत्वेन विष्णोरुपासनार्थमैश्वर्यादिगुणान् विष्णौ वक्तुमित्यनुसन्धेयत्वं सूचयति भाष्यस्थमादिपदमित्यर्थः। अत एव भाष्ये पूर्वनये त्वामग्ने तमसीति श्रुताग्निपदोपादानेन तत्किञ्चिद्विवृतम्। सूत्रे भाष्ये च हिर्हेतावित्युपेत्योक्तम्॥ श्रवणादिति॥ तस्य चेति॥

तन्निःसृतत्वाद्वेदानां गायकस्त्राति चाखिलम्।

अतो गायत्रिनामासौ वासुदेवः परः पुमान्।

इति स्मृत्या अखिलवेदोच्चारयितृत्वाखिलपालायितृत्वरूपस्य छन्दस्यसम्भवादित्यर्थः। इति चेन्नेति पूर्वेण भाष्येणान्वयमुपेत्यार्थमाह॥ विष्णुरेवेति॥ या वै सेति॥ या वै सा गायत्री इयं वाव सा येयं पृथिवी अस्यां हीदं सर्वं प्रतिष्ठितम् एतामेव नातिशीयन्त इति वाक्ये गायत्र्याः पृथिवीशब्दितवस्त्वभेद-मुक्त्वा तस्य वस्तुनः सर्वाधारत्वं सर्वोत्तमत्वं चोच्यते। तच्च गायत्र्या विष्णुत्वम् एव युक्तं नान्यथेत्यर्थः। एतेन पृथिव्यादिशब्दार्थोऽपि लिङ्गबलाद्विष्णुरूपमेवेति सूचितम्। एवं च पूर्वपक्ष एव पृथिव्यादितादात्म्यं बाधकम्। न सिद्धान्त इति भावः। अत एव स्मृतौ सर्वलोकाभिधो ह्यसावित्यंशोक्तिः। स्मृत्युक्तिमात्रेण कथमुक्तशङ्कानिरास इत्यतस्तद्धरेरेवेत्यनुव्याख्यानस्य तद्गायत्रीपदं हरेरेव वाचकं तद् गायत्रीपदप्रवृत्ति-निमित्तं हरेरेव तद् अन्यगतं च प्रवृत्तिनिमित्तं हरेरेवाधीनमिति सुधोक्तदिशाऽर्थत्रयमुपेत्य तत्रोक्तं व्यञ्जयन् स्मृत्युदाहर्तुर्भावमाह॥ गायत्रीश्रुतेरिति॥ श्रुत्युक्तेति॥ गायति त्रायति चेति श्रुत्युक्तेत्यर्थः। गायत्रीपदप्रवृत्तिनिमित्तस्य गायत्रीस्वभावत्वात् तस्या ईशाधीनत्वे तस्यापि तत्सिद्ध्यतीति गायत्र्या इत्येवोक्तम्। अधिवेदगतानामपि शब्दानां भगवद्विषयत्वमेवानन्यथासिद्धलिङ्गैरिति न्यायविवरणांशाभि-प्रायमाह॥ लिङ्गस्येति॥ बाधेति॥ सन्दिग्धश्रुतिलिङ्गाभ्यां युक्ताभ्यामप्यसन्दिग्धयोः केवलयोरेव बलवत्वादित्यन्यत्रोक्तेरिति भावः। अत्र यद्यपि बाहुल्यात् श्रुतिलिङ्गयोरित्यनुभाष्यसुधयोरुक्तदिशा अतो ज्यायांश्च पुरुषः यद्वै तद्ब्रह्म एतामेव ब्रह्मोपनिषदं वेदेति पुरुषब्रह्मश्रुतयः प्रागुक्तलिङ्गानि चेति लिङ्गबाहुल्यमस्ति निर्णायकं तथाप्यनन्यथासिद्धलिङ्गैर्भगवद्विषयत्वमेवेत्युक्तिस्वारस्यानुरोधेन लिङ्गस्य निरवकाशतयैव निर्णयः कृतः। न तु श्रुतिलिङ्गबाहुल्येन असन्दिग्धयोः केवलयोरेव बलवत्वादित्युक्तेः। ‘‘तावानस्य महिमा ततो ज्यायांश्च पूरुष’’ इत्यादिशब्दसहितलिङ्गैश्चेति न्यायविवरणोक्तिरभ्युच्चयत्वेनेति भावः। अत्रानुभाष्ये तादृशत्वाच्च तच्छक्तेरिति युक्तेरेवोक्तत्वात्समयपादीयानुभाष्योक्तां श्रुतिं स्वयमाह॥ स्वभावेति॥ उक्तं च गीताभाष्ये अनादौ च तत्सिद्धं द्रव्यं कर्म चेत्यादाविति द्वितीये। कर्माणि धर्माधर्मव्यक्तयः, क्रिया परिस्पन्दः, श्रुतिर्वेदो ऽस्मिन्नर्थे तादृशत्वाच्च तच्छक्तेरित्यनुभाष्यसुधयोरुक्ता युक्तिरपि। चन्द्रिकायाम्

अनादीनां गुणादीनां यथा गुण्यादितन्त्रता।

तथाऽनादिश्रुतेरस्तु क्षेमायेश्वरतन्त्रता॥

इत्यादिना विवृता। अत्र वेदस्यानादिनित्यत्वं नाम पुराणादेरिवानियतानुपूर्वीकत्वाभावादिरूपं ध्येयम्। आम्नायोऽनन्यथापाठादिति स्मृतेः। सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वादिति तत्वनिर्णयोक्तरीत्या विष्णुबुद्धिगतत्वमपेक्ष्य नित्या वेदा इत्यादि तत्वसङ्ख्यानटीकायां नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वमित्युक्तावपि ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगा’ इत्येतत्तत्व-निर्णयटीकायां ‘‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूम’’ इति क्रमस्य कृतकत्वेऽपीति चोक्त्या नित्यविभूनां वर्णानाम् उच्चारणाधीनक्रमविशेषविशिष्टानामेव वेदत्वेन वर्णादिवन्मुखतोऽनादिनित्यत्वाभावात्। भाष्ये स्मृतिशेषोक्तेः फलमाह॥ अत्र देवलोकेति॥ पूर्वनयवाक्यस्थाग्नीत्यर्थः। पृथिव्यादीत्यादिपदेन ज्योतिःशब्दो वाऽन्तर्नयोक्तेन्द्रादिशब्दो वा ग्राह्यः॥ २५॥

अभिनवचन्द्रिका

अत्र द्वे दर्शने – ‘अथ यदतः परो दिवो ज्योतिर्दीप्यत’ (छा.३-१३-७) इति छान्दोग्यस्थं जोतिर्वाक्यं विषयः। अत्रोक्ते ज्योतिषि सन्देहः, किं ब्रह्म उताऽन्यदिति। उपक्रमे गायत्रीशब्दश्रवणाद् अन्यदिति प्राप्ते विष्णुरिति सिद्धान्तः। पूर्वाधिकरणेऽग्निसूक्तोक्तज्योतिर्निर्णयः। इह तु – छान्दोग्योक्त-ज्योतिषः विस्पष्टविष्णुलिङ्गदर्शनेन गायत्रीश्रुत्या च अभ्यधिकाशङ्काप्राप्तौ निर्णय इति एकं दर्शनम्। छन्दोगाः पठन्ति ‘गायत्री वा इदं सर्वं भूत’(छा.उ.३-१२-१)मिति। तत्र संशयः किं गायत्री ब्रह्म, उत वर्णमालारूपो मन्त्र इति। गायत्रीशब्दस्य छन्दोविशेषे प्रसिद्धेश् छन्द इति प्राप्ते, विष्णुरिति सिद्धान्त इत्यपरं दर्शनम्। तत्राद्यं सुधाभिमतम्। तत्र सूत्रयोजना तु – ‘उपक्रमे गायत्रीरूप-च्छन्दोऽभिधानात्, ज्योतिर्न विष्णुः, किन्तु छन्द एवेति चेत्, न – गायत्रीशब्दार्थत्वेन चेतोर्पणार्थो हि तथा निगद्यते। तथा हि दर्शनं, ‘गायति त्रायति चे’त्यादीति। द्वितीयन्तु – सुधाटीकयोरभिप्रेतम्। द्वितीये भाष्ये – ज्योतिर्वाक्योपादानं पूर्वाधिकरणार्थाऽऽक्षेपप्रदर्शनार्थम्। सूत्रयोजना तु – ‘गायत्रीशब्दस्य छन्दसि रूढत्वेन तेन छन्दसोऽभिधानात् प्रागुक्तं ज्योतिर् आनन्दमयश्च छन्द एव न विष्णुरिति चेत्, न – ‘गायत्रीशब्दार्थरूपोऽसा’विति विष्णोश् चेतोर्पणं कार्यम्, इत्याशयेन गायत्रीशब्देन विष्णो-र्निगदाद् विष्णुरेव प्रागुक्तं ज्योतिरानन्दमयश्च। भवेदेतद् यदीयं गायत्री विष्णुः स्यात् तदेव कुत इत्यत उक्तं – तथा हि दर्शनमिति। दर्शनं श्रुतिः। एतद्गायत्र्या गानत्राणकर्तृत्वलिङ्गश्रवणात्, तस्य च लिङ्गस्य छन्दस्यसम्भवाद् विष्णौ सम्भवाद् विष्णुरेव गायत्रीति। नन्विदं सूत्रं नाधिकरणान्तरं सङ्गत्यादिष्वन्यतमस्य भाष्यकृताऽनिरूपणादित्यत आह– श्रुत्यादीति॥ यद्यपि – श्रुत्यादिसङ्गत्यादिकं कण्ठतो भाष्यकृता नोक्तं, तथापि श्रुत्यादिसङ्गत्यादेः सूचनाद् अधिकरणान्तरमिति भावः। एतेन अस्य गायत्रीशब्दसमन्वयपरत्वमुक्तम्। तथा सति ‘छन्द इति चेन्न – तथा चेतोर्पणनिगदा’दित्येव सूत्रं स्यान् न तु ‘छन्दोऽभिधानान्नेति चेन्ने’ति गायत्र्या विष्णुत्वस्याऽप्रतिज्ञातत्वेनाऽप्रसक्तनिषेधप्रसङ्गादिति परास्तम्। पूर्वपक्षफलस्य पूर्वाधिकरणाऽऽक्षेपस्य दर्शनाय ‘छन्दोभिधानान्नेति चे’दिति सूत्रकृतोक्त-मित्यङ्गीकारात्। अत्र भाष्ये ‘ज्योतिषो गायत्र्याः समारम्भः कृत’ इत्यनेन पूर्वाधिकरणश्रुत्यर्थस्य एतदधिकरणार्थस्य च ज्योतिःशब्दविषयत्वं सङ्गतिरिति सूचितम्। ‘गायत्री वा इदं सर्व’मित्यनेन ज्योतिर्वाक्यस्योपक्रमस्थगायत्रीवाक््यं विषयवाक्यमिति सूचितम्। ‘गायत्र्याः समारम्भः कृत’ इत्यनेन गायत्री विषयः। तद्रूढिविषयछन्दोविशेष एव गायत्रीति पूर्वपक्षश्च सूचितः। अस्मिन्विषयवाक्ये छन्दसि निरूढगायत्रीशब्दं विष्णुपरत्वेनोक्तज्योतिःशब्दं च दर्शयता गायत्री छन्दोविशेषः, उत विष्णुरिति संशयः सूचितः। तस्मान्न विष्णुरिति पूर्वाधिकरणाक्षेपः पूर्वपक्षफलमिति सूचितमिति बोध्यम्। भाष्यकारसूचितं श्रुत्यादिसङ्गत्यादिकं स्वयमाह – हृदयनिहितमित्यादिना॥ अथ यद्यपि – ‘हृदयनिहितं ज्योतिर्विष्णुरित्यभिहित’मित्यनन्तरम् ‘एतच्च गायत्रीत्वेन पठ्यते’ इत्येव वक्तव्यम्, तथापि ‘तज्ज्योतिर्न गायत्रीत्वेन पठ्यते, अपि तु तस्माद्भिन्नं ज्योतिर् गायत्रीत्वेन पठ्यत’ इति शङ्कापरिहाराय ‘तज्ज्योतिश् छन्दोगश्रुतौ श्रूयत’ इत्यारभ्य ‘पुरुषं ज्योति’रित्यन्तं वाक्यं प्रवृत्तम्। पूर्वसूत्रे अग्निसूक्तवाक्यस्योदाहरण-मात्रत्वात्, चरणाभिधानादिति हेतोरप्युदाहरणमात्रत्वात्, यावज्ज्योतिर्वाक्यसमन्वयस् तदैव निगदित इति अग्निसूक्तगतमेव ज्योतिश् छन्दोगश्रुतौ श्रूयते। तदेव गायत्रीत्वेन पठ्यत इति बोध्यम्। गायत्री-निर्णयस्याऽऽवश्यकत्वमाह– इदं चेति॥ अवश्यापेक्षित इति॥ वशं गतो वश्यः ‘वशं गत’ (पा.सू.४-४-७६) इति सूत्रेण यत्प्रत्ययः। न वश्यो ऽवश्यः, अवश्य इति हेतोरपेक्षित इत्यर्थः। यदि पूर्वाधिकरणन्यायेन गायत्रीनिर्णयो वशंगतः स्यात् तर्हि गायत्रीनिर्णयः सूत्रकृता न वक्तव्यः स्यात्। न चैवम् इति अभ्यधिकाशङ्कासद्भावात्। अतः सूत्रकृता गायत्रीनिर्णयोऽवश्यं कर्तव्य इति भावः। एतेन कृत्यप्रत्ययान्ते परतः विहितस्य मलोपस्य निष्ठाप्रत्ययान्ते परतोऽयोगाद् अवश्यापेक्षित इति प्रयोगोऽनुपपन्न इति कस्यचिद्भ्रमो निरस्तः। गानत्राणकर्तृत्वलिङ्गश्रवणादिति॥ अनेन ‘गै शब्द’ इत्यस्मात् ‘श्याद्व्यधे’(पा.सू.३-१-१४१)ति सूत्रेण आकारान्तत्वात् णः ‘आतो युक्चिण्कृतो’(पा.सू.७-३-३३)रित्यनेन युक्ति अजाद्यतष्टा(पा.४-१-४)बिति टापि गायेति रूपम्। ‘त्रैङ् पालन’ इत्यस्माद्धातोर् औणादिककिप्रत्यये ‘कृदिकारादक्तिन’ (गणसूत्रम्) इति ङीषि त्रीति रूपम्। एवं च गाया च सा त्री चेति विग्रहे पुंवद्भावे च गायत्रीति रूपं सूचितम्। ननु ‘गै शब्द’ इत्यस्माद्धातोः ‘गस्थकन्, ण्युट्चे’(पा.सू.३-१-१४६,१४७)ति विशेषविहिताभ्यां थकन् ण्युड्भ्यां भवितव्यं, न तु णप्रत्ययेन, मैवं ‘वासरूपोऽस्त्रिया’(पा.सू.३-१-९२)मिति अपवादस्य विकल्पेन उत्सर्गबाधकत्वाभिधानात्। स्मृतौ सर्वदेवाभिधो ह्यसावित्यत्रत्येन वासुदेवशब्देनेव ‘सर्वदेव’ इत्यनेन शब्देन तथा सर्वलोक इत्यनेन शब्देन परमात्मा प्रतिपाद्यत इत्युच्यत इत्यन्यथाप्रतीतिनिरासाय स्मृतिं व्याचष्टे। अत्र देवलोकेति॥

वाक्यार्थमुक्तावली

ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॐ॥ हृदयनिहितमिति। अनेनानन्तरसङ्गतिरुक्ता भवति। ततश्चायं भाष्यार्थः हृदय आहितं यदितिसूक्ते हृदयगुहानिहितत्वेनोक्तस्य तस्यैव ‘अथ यदतः परो दिवो ज्योतिर्दीप्यत’ इत्युक्तस्य ज्योतिषो गायत्रीत्वेन पाठ इति। विषय-वाक्यार्थस्तूत्तरत्र भविष्यति। किं विष्णुरिति। अत्र गायत्री छन्द उत विष्णुरिति चिन्ता। तदर्थं गायत्रीवाक्श्रुती तदुपोद्बलकोपदेशभेदश्च पूर्वपक्षे हेतुर् गानत्राणकर्तृत्वभूतादिपादव्यपदेशलक्षणसिद्धान्त-प्रापकबाधक उत तद्बाध्य इति। तदर्थं पूर्वपक्षश्रुतिरुपदेशभेदश्च स्वतन्त्र्यतद्गतत्वाख्यप्रवृत्तिनिमित्तविरहेण विरोधेन च निरवकाश उत तत्सत्वेनाविरोधेन च सावकाश इति। तदर्थं तत्कल्पकत्वेनाभिमतगानत्राण-कर्तृत्वादेर्विष्ण्वैकनिष्ठत्वे प्रमाणं नास्त्युतास्तीति। न विष्णुरित्यतः पूर्वं शेषमाह। गायत्री छन्दोविशेष एवेति। ‘एव’कारव्यवच्छेद्यप्रदर्शनपरं भाष्यमिति भावः। तस्मादिति हेत्वंशस्य प्रसिद्धगायत्र्या समारम्भस्य कृतत्वादित्यर्थं मत्वा व्याचष्टे। गायत्रीशब्दस्येति। वाक्ये तेजस्त्वविधानार्थं समारम्भः कृत इति सूचितम्। आग्निगायत्र्यादिशब्दार्थरूप इति सिद्धान्तभाष्ये आदिपदेन वाक्शब्दोपादानञ्च सूचितं युक्त्यन्तरमाह। वागिति। अव्यवहितपूर्वाधिकरणे ज्योतिःश्रुत्या गायत्रीश्रुतेर्बाधमाशङ्क्य परिहरति॥ न चेति॥ ज्योतिःश्रुतेरेवेति॥ इदमप्यग्निगायत्र्यादीति भाष्यमहिम्ना लब्धमिति बोध्यम्। एवं तस्मादित्येतदध्याहृतगायत्री छन्द एवेत्येतदुपपादकतया व्याख्याय न विष्णुरित्येतत्सम्बन्धितया योजयति॥ न च गायत्रीश्रुतिरिति॥ छन्दोऽभिधानादिति॥ प्रबलरूढ्युक्त्या ज्ञापितं योगायोगं दर्शयति योगस्येति। पूर्वाधिकरणेन गतार्थतां निरस्यन् छन्दश्शब्दसूचितं नित्यत्वादेव शब्दस्य तत्स्वभावः कथं तत इत्यनुव्याख्यानोक्तं पूर्वपक्षमाह। न च गायत्र्या इत्यादिना॥ नित्यस्येति॥ अनादि-नित्यस्येत्यर्थः। इदमुक्तं भवति। आकाशादिशब्दप्रवृत्तिनिमित्तविवरत्वादेस्तत्स्वभावस्य तद्धर्मिण आकाशादेर्जन्यत्वेन धर्मिणा सह भगवदधीनत्वात्। भवतु तन्निमित्तकाकाशादिशब्दानां भगवति मुख्यत्वं गायत्र्यादिशब्दानां तु वेदविशेषरूपगायत्र्या अनादित्वेन तत्स्वभावरूपगायत्रीशब्दप्रवृत्तिनिमित्तस्य तद्रीत्यापि भगवदधीनत्वायोगेन कथमपि न भवति वृत्तिरिति। स्वपदानीति। स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुरिति स्वपदवर्णनस्य भाष्यलक्षणतयोक्तिरिति भावः। सूत्रे निगदान्नेति पञ्चम्यन्वयेऽपि समन्वयसाध्यपर्यवसानाय प्रवृत्तं निगद्यत इति भाष्यं साध्यप्रदर्शनपरतया फलित-प्रदर्शनपरतया च व्याचष्टे अत्र गायत्रीपदेनेत्यादिना। भाष्येऽग्निग्रहणं तत्समानार्थकज्योतिःपदोपलक्षण-मित्याशयेन ज्योतिःपदेनेत्युक्तम्। चेतोऽर्पणार्थमित्येतध्याहृत्यमाह॥ न चेति॥ किन्तु गायत्र्यादीति टीकायामादिपदेन ज्योतिरादिग्रहणम्। ननु ज्योतिश्शब्देनापि स एव निगद्यत इति टीकायां गायत्री-शब्दवाच्यत्वज्योतिश्शब्दवाच्यत्वयोर्हेतुसद्भावप्रदर्शनेन तदनुसारेण भाष्येऽपि गायत्र्यग्न्यादीति निर्देशः स्यादिति चेन्न। ज्योतिषा सह सङ्गतिसद्भावेन फलतया प्राधान्यादग्न्यादित्वेन ग्रहणोपपत्तेः। अत एवाग्निसूक्तसङ्गतिसद्भावेन तस्याप्याक्षेपसमाधानलाभायैतद्विषयवाक्यस्य ज्योतिःपदं परित्यज्य तत्समानार्थ-काग्निपदग्रहणं कृतम्॥ एतन्न्यायस्येति॥ आनन्दमयादिशब्दार्थगुणस्वरूपत्वेन चेतोऽर्पणार्थं निगद्यत इत्येतत् ‘हि’ सर्वाधिकरणेष्वपि प्रसिद्धं हीति तदर्थ इति भावः। सूत्रे भाष्ये च हिर्हेतावित्युपेत्योक्तं श्रवणादिति॥ असम्भवादिति॥ तन्निस्सृतत्वाद्वेदानां गायति त्राति चाखिलमिति। छान्दोग्यभाष्यदिशा गानत्राणकर्तृत्वस्याचेतनेऽयोगादिति भावः॥ पृथिवीत्यादेरिति॥ अत्रादिपदेन या वै सा पृथिवी इयं वाव सा यदिदमस्मिन्पुरुषे शरीरमित्यादेः सङ्ग्रहः। छन्दसः पृथिवीत्वाद्यनुपपत्तेः। एतामेव नातिशीयन्त इति वाक्योक्तसर्वोत्तमत्वायोगाच्च। विष्णोस्त्वाकाशाधिकरणन्यायेनाधिभौतिकशब्दवाच्यत्वस्यो-पपत्तेरिति भावः। ननु वामनपुराणे तेषां तदुपचारत इत्युक्तम्। विष्णाविव च्छन्दस्यपि रूढिसत्वादित्यत आह गायत्रीश्रुतेरित्यादिना। छन्दस्यज्ञरूढिरत्र पौराणिकरूढिस् तत्र रूढिमात्रमत्र श्रुतौ तु महायोगः। अन्यगतस्याल्पप्रवृत्तिनिमित्तस्यापि भगवदायत्तत्वमिति। अत्र परममुख्यवृत्तिस्तत्र तदपेक्षयाऽल्पमुख्य-वृत्तिरिति भावः। युक्तो लिङ्गमात्रेणेति। निरवकाशलिङ्गमात्रेणैव यदा निर्णयस्तदा किमु श्रुतियुक्ति-बहुलिङ्गैरिति भावः। अतो एवोक्तमनुव्याख्याने ‘बाहुल्यात् श्रुतिलिङ्गयोः’ इति। न्यायविवरणे च पुरुष इत्यादीत्यादिपदेन श्रुतिलिङ्गबाहुल्यं चोक्तम्। भाष्ये च गायति त्रायति चेत्यादीत्यादिपदेन श्रुतिलिङ्गबाहुल्यं युक्तम्॥ न च नित्यस्येति॥ यद्यपि क्रमस्य बुद्ध्युपाधिकत्वेन कृतकत्वात् क्रमविशिष्टवर्णानां सादित्वमेव। तथापि चन्द्रिकारीत्या ईश्वरबुद्धिघटितक्रमविवक्षयेयमुक्तिरिति ज्ञेयम्। यद्वा भूतभविष्यद्वर्तमानैरखिलैरेकप्रकारेण पठ्यमानत्वं कूटस्थनित्यत्वमिति भावबोधरीत्या वैवक्षिकेय-मुक्तिः। अथ वा स्वाभाविक एव वेदे क्रम इति मतेनेयमुक्तिः। न सन्ति यदुपेक्षयेति। न चैवं सञ्जिहीर्षावैय्यर्थ्यमिति वाच्यम्। सञ्जिहीर्षायां ध्वंसः। उपेक्षायां शशविषाणवन्न सन्तीति विवक्षितत्वात्। न च शशशृृङ्गादिवदसद्भूयादितीश्वरेच्छया सदसदिति वाच्यम्। उपेक्षामात्रेण तदसत्वोपपत्तेः। यद्वा उपेक्षामात्रेण न सन्ति नश्यन्ति किं जिहीर्षायामिति विवक्षितत्वात्। सर्वदेवाभिध इत्यादेः प्रकृतोपयोग-माह। अत्रेति। सूत्रे छन्द इति व्यस्तम्। छन्दोऽभिधानादिति समस्तं च पदम्। तत्वित्यनुवर्तते। छन्द इत्यनेन तुरन्वेति। गायत्रीति योग्यतया लभ्यते। गायत्री छन्द एव न विष्णुर् गायत्रीपदेन छन्दस एव तत्राभिधानात्। यद्वा छन्दसि गायत्रीपदस्याभिधानात्। तस्य तत्र रूढत्वादिति यावत्। वाग्वै गायत्रीति गायत्र्या वाक्त्वाभिधानाच्च। न च ज्योतिःश्रुतिविरोधः। ज्योतिःपदेनापि छन्दस एवाभिधानात्। कुतस् तेजो वै ब्रह्मवर्चसं गायत्रीति श्रुत्यन्तरे ज्योतिश्शब्दपर्यायतेजश्शब्दस्य छन्दस्यभि-धानादिति चेन्न। कुतस् तथाहि दर्शनम्। हि यस्मात्तथा तादृक् विष्णुत्वज्ञापकगानत्राणकर्तृत्वरूप-लिङ्गप्रतिपादकं दर्शनं श्रुतिरस्ति। तस्माद्विष्णोरेवात्र गायत्रीवाग्ज्योतिःपदैर्निगदाच्च महायोगप्रवृत्त्या प्रतिपादनात्। पौराणिकरूढ्या च निगदान्न छन्दो गायत्री किन्तु विष्णुरेवेति योजना। नारायणादिपदं परित्यज्यान्यप्रसिद्धगायत्र्यादिपदेन ब्रह्मणो निर्देशे किमन्याभेदे बोधनप्रयोजनमित्यत उक्तं तथा चेतोर्पणेति। तथा तेन प्रकारेण गानत्राणकर्तृत्वादिगुणवैगुण्येन चेतोर्पणार्थमुपासनार्थमित्यर्थः। उपासना-स्वरूपं वक्तुं चेतोर्पण इति उक्तम्। गुणानामेकबुध्यारोह एव ध्यानं स्यात् क्रियामानसवदिति वक्ष्यति।

तत्त्वसुबोधिनी

ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथाहि दर्शनम् ॐ॥ हृदयनिहितमित्य-नेनानन्तरसङ्गतिरुक्ता भवति। श्रुतेरिति। समबलत्वादिति भावः। ननु रुढ्यभावेऽपि योगस्य सत्वान् मुख्यत्वमित्यत आह। योगस्य चेति॥ पूर्वाधिकरणेन गतार्थतां निरस्यति॥ न चेति॥ कुत इत्यत आकाशादिशब्दप्रवृत्तिनिमित्तस्य विवरत्वादेर् आकाशादिस्वभावत्वेऽपि तद्धर्मिण आकाशादेर् धर्मिणा सह भगवदधीनत्वाद्भवतु तेषां शब्दानां भगवति मुख्यत्वं वेदविशेषरूपगायत्र्यास्तु अनादि-नित्यत्वेन न भगवदधीनत्वमित्याह॥ गायत्र्या इति॥ अत्र च नित्यत्वं नाम अनादिनित्यत्वमेवाभिमतं न तु ध्वंसाप्रतियोगित्वं तथा सति जन्यत्वाविरोधेन ईश्वराधीनत्वाविघटकत्वात् पूर्वापक्षयुक्तित्वं न स्यात्। अत एवोक्तं सुधायाम्। वेदस्य नित्यत्वादनादित्वाच्चेति। ननु कृतकक्रमविशिष्टवर्णसमुदाय-रूपवेदस्य न अनादित्वम्। उक्तं हि तत्वनिर्णयटीकायाम्। न हि वयं वेदस्य कूटस्थलिनत्यत्वं ब्रूम इति। क्रमस्य कृतकत्वेऽपि इति चेन् न। तत्वसङ्ख्यानटीकायां नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वं तच्च वेदानां नित्या वेदा समस्ताश्चेत्यादिप्रमाणसिद्धमित्युक्तत्वात्। युक्तं चैतत् क्रमस्य ईश्वरबुद्धिस्थत्वात्। अत एवोक्तं तत्वनिर्णये सर्वज्ञत्वाद् ईश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वाद् इति। तट्टीकायां कौटस्थ-निषेधश्च अस्मदादिबुद्धिघटितक्रमाभिप्रायेणेति सर्वमनवद्यम्। केचित्तु स्वतन्त्रपुरुषपूर्वकत्वभूत-भवद्भविष्यद्भिरखिलैर् एकप्रकारेण पठ्यमानत्वादिकमेवानादित्वं वेदस्य विवक्षितम्। अत एवोक्तं तत्वनिर्णयटीकायां स्वतन्त्रस्य वक्तुरभावाद् अपौरुषेयत्वमुपपद्यत इति। एतदेव च अनादिनित्यत्वमिति च। एतावतैव शब्दस्वभावभूतपदार्थप्रतिपादनशक्तेः पराधीनत्वसम्भवेन ईश्वराधीनत्वविघटनोपपत्तौ मुख्यानादित्वकल्पनावैय्यर्थ्यात्। न चैवंविधमनादित्वम् आकाशादीनामिति तदुक्तेर् अभ्यधिका-शङ्काप्रदर्शकत्वमित्याहुः। ननु विकारशब्दाद् इत्यादौ आनन्दमयादेर् विष्णुत्वाक्षेपपरिहारवदत्रापि अग्निसूक्तोक्तं ज्योतिर् न विष्णुः। अथ यदत इत्युक्तस्य अस्यैव ज्योतिषस् तदुपक्रमे ‘गायत्री वा इदं सर्वं’ इति गायत्रीरूपछन्दोविशेषत्वेनाभिधानाद् इत्याक्षिप्य गायत्रीशब्दस्यापि विष्णुपरत्वान्नेय-मनुपपत्तिरिति परिहारसम्भवेनेदमपि सूत्रं तथैव ज्योतिरधिकरणशेषत्वेनैव व्याख्यायताम्। एवं सति अग्निगायत्र्यादीति भाष्ये अग्निपदं सूत्रे समन्वेतव्यशब्दानुक्तिश्च सङ्गच्छते तत्किमिति टीकायामधि-करणान्तरतया व्याख्यातमिति चेन्मैवम्। न्यायविवरणविरोधात्। न्यायविवरणे वेदस्य नित्यत्वेऽपि तद्गतशब्दस्य विष्णुविषयत्वोक्त्या वेदवाचकशब्दस्य समन्वेतव्यत्वेन वेदगतनित्यतायाः पूर्वपक्षयुक्तित्वेन प्रतिभासाद् एकाधिकरणत्वे च अग्निगतस्यैव कस्यचिद्धर्मस्य तत्वेन अग्निशब्दस्यैव समन्वेतव्यत्वेन कथनं स्यात्। नित्यत्वादेव शब्दस्य इत्यनुव्याख्याने तट्टीकायां च अस्यैवार्थस्योक्तेः। भाष्ये अग्निशब्दो-पादानसमन्वेतव्यानुक्तेश्चान्यथासिद्ध्या न अधिकरणैकत्वमुक्तमिति दिक्। ननु न विष्णोर् गायत्र्यादि-शब्दवाच्यत्वम्। वाग्वै गायत्रीति गायत्र्या वाक्त्वस्य विहितत्वादित्यत आह। आदिपदेन वाचो ग्रहणमिति। वाग्वै गायत्रीति श्रुतौ वाक्शब्दार्थगुणवत्तया उपासनार्थं विष्णुर्वागित्युक्तम्। तथा च वाक्त्वमपि न विष्णुत्वबाधकमिति दर्शयितुं भाष्ये आदिपदमित्यर्थः। अनुसन्धेयत्वं सूचयतीति। आदिपदमित्यनुषङ्गः। एतदध्यायगतानन्दमयाद्यधिकरणेषु तत्तच्छब्दसमन्वयकथनं तत्तच्छब्दार्थयुक्तत्वेन हरेर् ध्यानार्थमुक्तमिति न्यायस्य अनुसन्धेयत्वं च गायत्र्यादीत्यादिपदेन सूचयत्याचार्य इत्यर्थः। अनुसन्धेयत्वं सूचयति हिशब्देनेति पाठे हिशब्देनाचार्य एतत्सूचयतीत्यर्थः। प्रसिद्ध्यर्थको हिशब्दोऽ-स्यार्थस्य सार्वत्रिकत्वं गमयतीति भावः। आदिपदेन पृथिवीत्यादेः सङ्ग्रह इति। या वै सेत्यादिना गायत्र्याः पृथिव्यभेदमुक्त्वा अस्यां हीदं सर्वं प्रतिष्ठितमिति पृथिव्याः सर्वाधारत्वमुक्तम्। तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वं युक्तं नान्यथेत्यर्थः। भाष्ये अग्निशब्दग्रहणन्तु गायत्रीशब्दसमन्वयकथनेन ज्योतिःशब्दस्य विष्णुपरत्वं समाहितमिति ज्ञापनार्थम्। न चैवं गायत्रीअग्न्यादिशब्दार्थरूप इति निर्देशः स्याद् इति वाच्यम्। अन्यत्र प्रसिद्धस्य गायत्रीशब्दस्य विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वसूत्रे उत्तरत्र च अग्न्यादिशब्दानां विष्णौ प्रयोजनं सूचितमिति ज्ञापनार्थमिति भावः। समुदायार्थमाह॥ गायत्रीश्रुतेरिति॥

वाक्यार्थमञ्जरी

ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनं ॐ॥ गायत्री वेत्युक्तगायत्री छन्दोविशेष एव स्यात्। गायत्रीपदेन छन्दसोऽभिधानात् तस्मान्न तद्ब्रह्मेति चेन्न। किन्तु ब्रह्मैव गायत्री कुतः, हि यस्मात्तथा दर्शनं गानत्राणकर्तृत्वलिङ्गबोधिका ‘गायति त्रायति च’ इति श्रुतिरस्ति तस्मादित्यर्थः। विष्ण्वादिप्रसिद्धपदानि विहायाप्रसिद्धगायत्रीपदेन तन्निर्देशे किं निमित्तमित्यत उक्तम्॥ तथेति॥ तथा गानादिकर्तृत्वगुणविशिष्टतया चेतसि अन्तःकरणे अर्पणार्थं ध्यानार्थम् उपासनार्थमिति यावत्। निगदाद् गायत्री वा इदं सर्वमिति कथनादित्यर्थः॥ अथेति॥ अथ द्वारपोपास्तिकथनानन्तरं पुनर्भगवन्माहात्म्यमुच्यते। यच्छ्वेतद्वीपानन्तासनवैकुण्ठगतमूर्तित्रयं तत्। अतः बुद्धिस्थतया विवक्षिताया दिवः परः। ज्योतिस् तेजोमयं विश्वतः मेरुवैजयन्तसत्यलोकाख्यब्रह्मसदनेभ्यः पृष्ठेषु क्रमेणोच्चेषु सर्वतः भूर्भुवःस्वरात्मकसर्वलोकेभ्यः पृष्ठेषु अनुत्तमेषु न विद्यत उत्तमो लोको येभ्यस्तेषु स्वयमेवोत्तमेषु अनन्तासनश्वेतद्वीपवैकुण्ठेषु दीप्यते प्रकाशते तत्सर्वलोकेषु दीप्यमानं तेज इदं वा व इदं खलु इदं किं यदिदमस्मिन्नन्तः पुरुषे पुरुषहृदये ज्योतिरस्ति तदित्यर्थः॥ गायत्री वेति॥ अत्र भगवतः षड्विधरूपेषु गायत्रीनामकं स्त्रीरूपं हयशीर्षकं प्रथमरूपापेक्षया द्वितीयं रूपमुच्यते। यदिदं किञ्च भूबहौ बहुपूर्णतायामित्युक्तेर् भूतं पूर्णं मत्स्यादि सर्वं सर्वान्तस्थितं च तदिदं सर्वं गायत्रीनामा भगवानेव। एवं च भूतशब्दाभिधेयं मत्स्यादि सर्वान्तःस्थितं द्वितीयं रूपमित्युक्तं भवति। अस्यैव तृतीयं रूपमाह॥ वागिति॥ गायत्रीनामा भगवान्वाग्वै वाक्संस्थो वचनाद्वाङ्नामा स्त्रीरूपो हयशीर्षाख्य एव। न तु तद्भिन्न इत्यर्थः। वाङ्नामकस्य भगवद्रूपत्वं कुत इत्यतस्तल्लक्षणयोगादित्यत आह॥ वाग्वेति॥ इदं सर्वं प्राणिजातं वाग्वै वाङ्नामकभगवदधीनमेव। वाचा हि प्रवर्तते निवर्तते च लोकः। सर्वलोकप्रवर्तकत्वं च भगवल्लक्षं च प्रसिद्धमेवेति॥ छन्दोविशेष एवेति॥ गायत्री छन्दोपेतमन्त्रविशेष इत्यर्थः॥ वाग्विधानाच्चेति॥ न शब्दात्मकस्य तत्सम्भवतीति भावः। तेजः कान्तिः। ब्रह्मवर्चसम् अध्ययनलब्धकान्तिविशेषः। तदुभयसाधनं गायत्रीत्यर्थः॥ योगस्येति॥ गायति वेदान् त्रायति चाध्यापकान् पापेभ्य इति निर्वचनादिति भावः॥ नित्यस्येति॥ अनादि-नित्यस्येत्यर्थः। अन्यथोत्पत्तावीश्वराधीनत्वापरिहारात्। अत एव न्यायविवरणटीकायां वेदस्य नित्यत्वेनानादित्वादित्युक्तम्। वेदस्य नित्यत्वादनादित्वाच्चेति सुधाग्रन्थाच्च। यद्यपि कृतकक्रमविशिष्टस्य वर्णात्मकस्य वेदस्य नानादित्वम्। तथापीश्वरबुद्धिघटितस्य तथात्वेन वा कृत्वा चिन्तया वा तदुक्तिरित्यदोषः। स्वपदानि स्वोक्तपदानि। ‘‘सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुकारिभिः। स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः’’ इत्युक्तेरिति भावः। गायत्र्यादीति॥ गायत्र्यादिशब्दार्थो गानत्राणकर्तृत्वादिः स एव गुणस्तत्स्वरूपत्वेनेत्यर्थः। आदिपदेन वाचो ग्रहणमिति। वाग्वै गायत्रीति श्रुतौ वाक्शब्दार्थगुणवत्तया उपासनार्थं विष्णुर्वागित्युक्तम्। तथा च वाक्त्वविधानं न विष्णुत्वपक्षे बाधकमिति भावः॥ एतन्न्यायस्येति॥ तत्तच्छब्दसमन्वयकथनं तदर्थगुणस्वरूपत्वेनोपासनार्थमिति न्यायस्येत्यर्थः॥ या वै सेति॥ चतुर्थरूपमनेनोच्यते। या वै गायत्री तत्संस्थं तन्नामा भगवान् सा इयं वाव इयं खलु। इयं केत्यपेक्षायामाह॥ येयमिति॥ पृथुत्वात्पृथिवीनामा पृथिवीसंस्थो भगवा-नित्यर्थः। तथा चात्र या वै सेत्यादिना गायत्र्याः पृथिव्यभेदमुक्त्वा अस्यां हीदं सर्वं प्रतिष्ठितमिति पृथिव्याः सर्वाधारत्वमुक्तम्। तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वं युक्तं नान्यथेति भावः॥ श्रुत्युक्तेति॥ गायतीति श्रुत्युक्तेत्यर्थः। कर्माणि पुण्यपापानि। क्रिया चेष्टा। स्मृतिविशेषोदाहरण-प्रयोजनमाह॥ अत्रेति॥

विवृतिः

हृदयनिहितमित्यनेनानन्तरसङ्गतिरुक्ता भवति॥ श्रुतेरिति॥ समबलत्वादिति भावः। ननु रूढ्यभावेऽपि योगस्य सत्वान्मुख्यत्वमित्यत आह॥ योगस्य चेति॥ पूर्वाधिकरणेन गतार्थतां निरस्यति॥ न चेति॥ कुत इत्यत आकाशादिशब्दप्रवृत्तिनिमित्तविवरत्वादेर्भगवदधीनत्वेऽपि धर्मिण आकाशादेर् जन्यत्वेन धर्मिणा सह भगवदधीनत्वे तद्भवतु तेषां शब्दानां मुख्यत्वं भगवति, वेदविशेष-रूपगायत्र्यास्त्वनादिनित्यत्वेन न भगवदधीनत्वमित्याह॥ गायत्र्यादेरिति॥ ननु गायत्र्यादिशब्दैर्विष्णु-वचने प्रयोजनान्तराभावेनाभेदविधानार्थमेवेदं वचनमिति स्यात्॥ तच्चायुक्तम्॥ श्रुत्यादिविरोधादित्यत आह॥ न चेति॥ ननु न विष्णोर्गायत्र्यादिशब्दवाच्यत्वं वाग्वै गायत्रीति गायत्र्या वाक्त्वविधानादित्यत आह॥ आदिपदेन वाचोग्रहणमिति॥ वाग्वै गायत्रीति श्रुतौ वाक्शब्दार्थगुणवत्तयोपासार्थं विष्णु-र्वागित्युक्तं तथा च वाक्त्वमपि न विष्णुत्वबाधकमिति दर्शयितुं भाष्ये आदिपदमित्यर्थः॥ अनुसन्धेयत्वं सूचयतीति॥ आदिपदमित्यनुषङ्गः॥ एतदध्यायगतानन्दमयाद्यधिकरणेषु तत्तच्छब्धसमन्वयकथनं तत्तच्छब्दार्थयुक्तत्वेन हरेर्ध्यानार्थमुक्तमिति न्यायस्यानुसन्धेयत्वं चेतोर्पणार्थे गायत्र्यादीत्यादिपदेनाचार्यः सूचयतीत्यर्थः॥ यद्वाऽनुसन्धेयत्वं सूचयति॥ हिशब्देनाचार्य एतत्सूचयतीत्यर्थः॥ प्रसिद्ध्यर्थको हिशब्दोऽस्यार्थस्य सार्वत्रिकत्वं गमयतीति भावः॥ ननु भाष्ये त्रायते चेत्यादीत्यत्रादिशब्दः किमर्थ इत्यत आह॥ आदिपदेन पृथिवी इत्यादेः सङ्ग्रह इति॥ या वै सेत्यादिना गायत्र्याः पृथिव्यभेदमुक्त्वा अस्यां हीदं सर्वं प्रतिष्ठितमिति पृथिव्याः सर्वाधारत्वमुक्तम्॥ तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वं युक्तं नान्यथेत्यर्थः॥ भाष्ये अग्निशब्दग्रहणं तु गायत्रीशब्दसमन्वयकथनेन ज्योतिःशब्दस्य विष्णुपरत्वं समाहितमिति ज्ञापनार्थम्॥ न चैवं गायत्र्यादिशब्दार्थरूप इति निर्देशः स्यादिति वाच्यम्॥ अन्यत्र प्रसिद्धस्य गायत्रीशब्दस्य, विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वसूत्रे उत्तरत्र च अग्न्यादिशब्दानां विष्णौ प्रयोजनं सूचितमिति ज्ञापनार्थमिति भावः॥ समुदायार्थमाह॥ गायत्रीश्रुतेरिति॥ कथं सर्वच्छन्द इति स्मृत्याऽग्निपृथिव्यादिशब्दानां भगवत्परत्वमित्यत आह॥ अत्रेति॥


ॐ भूतादिपादव्यपदेशोपपत्तेश्र्चैवम् ॐ

सूत्रभाष्यम्

॥ ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ॥ २६॥

‘तावानस्य महिमा ततो ज्यायांश्च पुरुषः। पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इति (छां.उ.३-१२-६)। ‘सुवर्णं कोशं रजसा परीवृतम्। देवानां वसुधानीं विराजम्। अमृतस्य पूर्णां तामु कलां विचक्षते। पादं षड्ढोतुर्न किला विवित्से’ (तै.आ.३-११) इति श्रुतेः। पाद इति एकदेशपरिमितं चतुर्भागबल इतिवद्भिन्नं च। स हि पुरुषसूक्ताभिधेयः। यज्ञेन यज्ञमयजन्त (तै.आ.३-१२) इति यज्ञशब्दात्। ‘यज्ञो (वै) विष्णुर्देवता’ इति हि श्रुतिः।

‘तस्मिन्काले महाराज राम एवाभिधीयते।

यता हि पौरुषे सूक्ते विष्णुरेवाभिधीयते।’ इति च स्कान्दे॥ २६॥

सत्तर्कदीपावली

सैषा चतुष्पदेत्युक्त्वा तदेतदृचाभ्युक्तम्। पादोऽस्य सर्वा भूतानिति श्रुतेश्च गायत्रीशब्दो विष्णुपर इत्येतत्प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे॥ भूतादीत्यादिना॥ न हि चतुर्विंशत्यक्षरा गायत्री एवंविधपादवती। न च विष्णोरपि सर्वभूतानि न पाद इति वाच्यम्। यज्ञदत्तचतुर्थांशोऽयं बलपरिमाणे देवदत्त इतिवद् विष्णोरत्यन्तभिन्नेष्वेव सर्वभूतेषु चतुर्थांशपरिमिताभिप्रायेण पादशब्दोपपत्तेः। अत्यल्पत्वोपलक्षणं पादशब्दः। तथाहि श्रुत्यन्तरम्। अमृतस्य पूर्णां तासु कलां विचक्षते। पादं षढ्ढोतुर्न किला विवित्स इति षढ्ढोतुरिन्द्रियैः सारादनकर्तुर् विष्णोरिदं सुवर्णाकाशरूपं मुक्तामुक्तजीवसहितं सुवर्णं ब्रह्माण्डं कलां विचक्षते कवयः यतोऽसौ सुवर्णकोशः पादं न विवित्स इति पादसाम्यं न लभत इत्यर्थः। न च पादोऽस्येति मन्त्रोऽन्यपरः शङ्कनीयः पुरुषसूक्तगतत्वात्। यज्ञेन यज्ञमयजन्तेति वाक्यशेषात्पुरुषसूक्ते विष्णुरेवाभिधीयत इति ज्ञायते। देवा यज्ञं विष्णुमयजन्तेत्यर्थः। यज्ञो वै विष्णुरिति श्रुतेः। यज्ञो यज्ञपतिर्यज्वेति स्मृतेश्च। न च वाच्यम् अथ यदतः पर इत्युक्तत्वात् स्वर्गादिलोकात्परतो वैकुण्ठे दीप्य-मानाज् ज्योतिः शब्दार्थाद्विष्णोरन्यदेव पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीत्यत्र स्वर्गस्थत्वेनोच्यत इति। दिवीति शब्दस्य द्योतमानत्वयोगेन वैकुण्ठपरत्वात्। अत एव क्वचित्सप्तलोकापेक्षया दिवः पर इति त्रिलोकापेक्षया दिवीत्युपदेशो युज्यते।

तत्त्वप्रदीपिका

भूतादिपादव्यपदेशोपपत्तेश्चैवमिति सूत्रं योजयति– तावानस्येत्यादिना। प्रसिद्धार्थानां सूत्राणाम-पृथग्भाष्यकरणं यत्तल्लाघवाय। एषा हि श्रुतिः ‘सैषा चतुष्पदा षड्विधा गायत्री’ इति पूर्वप्रस्तुताया गायत्र्याष्षड्विधत्वमुक्तमनूद्य चतुष्पादत्वं विधाय तत्र प्रमाणमेताम् ऋचमाह। ‘तदेतदृचाऽभ्यनूक्तं तावानस्य’ इति। अनया ह्यृचा गायत्र्या भूतादयश्चत्वारः पादा व्यपदिश्यन्ते। न च तस्याश्छन्दस्त्वे तदुपपद्यते। उपपद्यते च विष्णुत्वे। पुरुष एवेदमित्यृचा यद्विष्णोस्सर्वेशानत्वमुक्तं तद्धि तावत्तावानिति परामृश्यते। न च तावानेव केवलमस्य महिमा, किन्तु ततोऽपि ज्यायानयं पुरुषः। अस्य ह्येकः पादः सर्वाणि भूतानि, त्रयोऽनन्तासनवैकुण्ठक्षीराब्धिषु दिवि स्थितेषु द्योतमानेषु। त्रयाणां समुद्रायस्त्रिपात्। स्वरूपांशत्वात्तदमृतमित्युक्तं, भिन्नांशविवक्षया भूतपादोक्तिः।

त्रिभिस्स्वरूपपादैश्च भिन्नेनैकेन चैव हि।

गायत्रीनामको विष्णुश्चतुष्पात्सम्प्रकीर्तितः॥

भिन्नपादः सर्वजीवस्तस्यास्सादृश्यमात्रतः।

स्वरूपपादा विष्णोस्तु त्रयो हि दिवि संस्थिताः॥ इति सत्तत्वे।

पादशब्दस्यार्थं विवृणोति सुवर्णं कोशमित्यादिना। सुवर्णमयमण्डकोशं सत्वरजस्तमोभिः परिवृतं देवानां द्रव्यनिधानस्थानं विशेषेण राजन्तं षड्होतुर्विष्णोः कलां विचक्षते। अमृतस्येति षष्ठी तृतीयार्थे, अमृतेन पूर्णामित्यर्थः। एकवचनं समुदायापेक्षया, ‘अमृतस्यैष सेतुः’ इतिवत्। न किल षड्होतुः पादत्वं स विवित्से अविन्दत। एतदुक्तं भवति। उदकादिनवावरणावृतं महतां देवानां वसुनिधानं हेमाण्डकोशं मुक्तजनेन व्याप्तं विष्णोः कलामात्रं वदन्ति पुरुषसूक्तागमाः पादवाचनेन। न किलात्र पादशब्देनाङ्घ्रिं वदन्ति। नापि चतुर्थांशं, किं तर्हि? एकदेशमात्रम्। एकदेशमात्रमित्येकदेशपरिमाणपरिमितमुच्यते, न तत्स्वरूपैकदेश इति। यथा मैत्रचतुर्भागबलश्चैत्र इत्युक्ते न मैत्रबलादेव चैत्रस्य चतुर्थांशो विवक्षितः। अपि तु तच्चतुर्थांशपरिमितं भिन्नं च ततश्चैत्रबलमिति। एवमिहापि शक्तिविवक्षया विष्णुशक्त्येकदेश-परिमितशक्तिर्मुक्तामुक्तविश्वसमुदाय इत्यभिप्रायः।

स्यादेतदेवं, यद्यस्यामृचि विष्णुरभिधीयते, न तु तत्र प्रमाणमित्यत आह– स हि पुरुषसूक्ताभिधेय इति॥

तत्त्वप्रकाशिका

हेत्वन्तरेणापि गायत्र्या विष्णुत्वं समर्थयत्सूत्रमुपन्यस्य तद्गृहीतश्रुतिमेवोदाहरति॥ भूतादीति॥ ‘सैषा चतुष्पदा षड्विधा गायत्री’ इति गायत्र्याः प्रागुक्तषड्विधत्वमनूद्य चतुष्पदत्वं व्यपदिश्य तत्रैव पुरुषसूक्तमन्त्रः संवादायोदाह्रियते ‘तदेतद्ऋचाभ्यनूक्तं तावानस्य’ इति। अस्य पुरुषस्य तावन्पूर्वोक्तो महिमा न केवलमेतावान् किन्तु पुरुषस् ततः पूर्वोक्तादपि महिम्नो ज्यायान्। कथं सर्वाणि भूतान्यस्यैकः पादः। अस्यामृतं स्वरूपभूतं पादत्रयं दिवि तिष्ठतीत्येवं गायत्र्या भूतादिपादव्यपदेशाच्च सा विष्णुर्भवेत्। भूतादिपादव्यपदेशस्य विष्णावेवोपपत्तेरन्यत्रानुपपत्तेश्चेति भावः। ननु भूतादिपादव्यपदेशो गायत्र्यामिव विष्णावपि नोपपद्यते तस्यापि भूतभिन्नत्वादित्यत आह॥ सुवर्णमित्यादि॥ नायं पादशब्दोऽमृतपादत्रय-वद्भूतानामपि स्वरूपांशत्वाभिप्रायः किन्तु यज्ञदत्तस्य चतुर्भागबलो देवदत्त इतिवद्भिन्नमेव विश्वं तत्पादपरिमितसामर्थ्यं पादतयोच्यते। अतो भूतपादत्वं विष्णोरुपपद्यते। तर्हि विश्वचतुष्टयसमो हरिरित्या-गतमिति न मन्तव्यम्। यतोऽत्र पादपदेन विश्वं विष्णुसामर्थ्यैकदेशपरिमितमुच्यते न चतुर्थांशपरिमितम्। कुत एतत्। ‘सुवर्णं कोशम्’ इति श्रुतेरेवेत्यर्थः। सौवर्णब्रह्माण्डकोशं रजोगुणोपलक्षिताबादिपरिवृतं ब्रह्मणः शरीरं देवानां वसुनिधानमञ्जूषां मुक्तैः पूर्णां तां षडिन्द्रियेषु विषयहोतुर्विष्णोरेकदेशपरिमितामाचक्षते पादपदेन पुरुषसूक्ताद्यागमाः। यतः सा चतुर्थभागसाम्यं न लेभे किलेत्यर्थः। न केवलं भूतादिपादत्वस्य विष्णावेवोपपत्तेस्तल्लिङ्गत्वं किन्तु पुरुषसूक्तोक्तत्वाच्च। भूतादिपादत्वस्य पुरुषसूक्तोक्तत्वेऽपि कुतो विष्णोर्लिङ्गत्वमित्यत आह– स हीति॥ यज्ञशब्दः कथं तन्निश्चायक इत्यत आह॥ यज्ञ इति॥ अन्यप्रकरणेऽप्यन्यश्रुतिः प्रसङ्गिकीयं भवतु। भूतादिपादे तदभावादित्यतोऽत्र स्मृतिं चाह॥ तस्मिन्निति॥ किञ्च पुरुषसूक्तोक्तत्वं गायत्र्या विष्णुत्व एव वा पृथग्युक्तिः समर्थ्यते॥ स हीति॥ २६॥

गुर्वर्थदीपिका

यतो नवावरणोपेतब्रह्माण्डकोशाख्या सा देवानां वसुधानी सत्यकैलासस्वर्गादिलोकस्थितदेववसुनिधान-योग्या मञ्जूषा षढ्ढोतुरनन्तजीवानां षडिन्द्रियेषु तत्तद्विषयसमर्पकस्य वैराग्यसम्पत्तौ सत्यां षडिन्द्रियेषु विषयहेतुर्वा विष्णोः पादं पादत्वं चतुर्थभागसाम्यम् आ ईषदपि न विवित्से किल न लेभे किल। एकैकजीवषडिन्द्रियेषु विषयहोमेऽप्यसमर्थब्रह्मादीनामनन्तांशसाम्यस्याप्यसम्भवेन चतुर्थभागसाम्यं तु सुतरां न सम्भवतीति सूचनाय षढ्ढोतुरिति विशेषणम्। अतस्तां देवानां वासुधानीं षढ्ढोतुर्विष्णोः कलामनन्तांशेषु चैकांशस्याप्येकदेशपरिमितामाचक्षते ज्ञानिन इति श्रुत्यर्थमभिप्रेत्याह सौवर्णमित्यादिना।

भावबोधः

सूत्रे एवशब्दः प्रतिज्ञाप्रदर्शकः। भूतादिपादव्यपदेशस्यैव हेतुत्वं तस्य निरवकाशत्वं वक्तुम् उपपत्तेरित्युक्तम्। ‘च’शब्दस्य बुद्ध्या विवेकेन व्यपदेशपदेनान्वये पूर्वोक्तहेतुसमुच्चायकत्वम्। यथाश्रुत-सम्बन्धे त्वनुपपत्तिसमुच्चायकत्वमित्यभिप्रेत्य सूत्रं योजयति– एवं गायत्र्या इत्यादिना॥ सुवर्ण-मित्यादीति॥ चतुर्भागबलवद्भिन्नं चेत्येतत्पर्यन्तग्रहणायादिपदप्रयोगः। भाष्य उपोद्घातसङ्गत्या श्रुतेरादावुदाहरणेऽपि स्वयमाकाङ्क्षाक्रमेणान्ते तस्या व्याख्यानं क्रियत इत्यदोषः। चतुर्भागबलवद्भिन्न-मित्यनुक्तौ पाद इत्येकदेशपरिमितमित्यनेन निवर्तनीयाशङ्कानुदयात् तयोर्वाक्ययोर्व्यत्यासेन व्याख्यानमिति द्रष्टव्यम्। ‘कलाम्’ इत्यस्यार्थ एकदेशपरिमितामिति॥ पादपदेनेति॥ अनेनाध्याहारेण पादपदमेकेन प्रकारेण व्याख्यातम्। आचक्षत इत्युक्तक्रियाकर्तृवाचकाध्याहारः। पुरुषसूक्ताद्यागमा इति॥ प्रकारान्तरेण पदमित्येतद्व्याख्याति– यतः सा चतुर्थभागसाम्यमिति। अनेन पादमिति भावप्रधानमित्युक्तं भवति। अनेन पुरुषसूक्ताद्याः कला एव पादपदेनाचक्षत इत्यत्र हेतुरुच्यत इति भावः। किन्तु पुरुषसूक्तोक्त-त्वाच्चेति। अनेन सौत्रश्चशब्दः प्रकारान्तरेण व्याख्यातो भवति। विष्णुत्व एव वा पृथग्युक्तिरिति। गायत्रीशब्दवाच्ये ‘एतावानस्य महिमा’ इत्यादिना पुरुषसूक्तमन्त्रोदाहरणात् पुरुषसूक्तप्रतिपाद्यश्च यतो विष्णुरेवेति भाष्याभिप्राय इत्यर्थः। अनेन ‘एतावानस्य महिमा। अतो ज्यायाश्च पूरुषः’ इत्यादिशब्द-सहितलिङ्गैश्चेति न्यायविवरणमुक्तार्थं भवति। अक्षरयोजना तु तावानस्य महिमा इत्यत्र पुरुषशब्द आदिपदेन यद्वै ततामेव ब्रह्मोपनिषदं वेदेति ब्रह्मशब्दएतत्सहितलिङ्गैर्लिङ्गानि च भूतादिपादत्वं पुरुषसूक्तोक्तत्वमेव नातिशीयन्ते इति सर्वोत्तमत्वम् इत्यादीनि। अत एव ‘बाहुल्यात् श्रुतिलिङ्गयोः’ इत्यनुव्याख्यानं तथैव सुधायां व्याख्यातम्। अत्राप्यनन्यथासिद्धत्वं ग्राह्यम्। अनन्यथासिद्ध-लिङ्गैरित्युक्तगानत्राणकर्तृत्वलिङ्गेन शब्दसहितलिङ्गैश्च भगवद्विषयत्वमेवाधिवेदगतगायत्रीशब्दस्येति। अनेन न्यायविवरणवाक्येन सूत्रगतः ‘च’शब्दो न केवलं प्रायुक्तगानत्राणकर्तृत्वसमुच्चयार्थः। किन्तु सर्वोत्तमत्वलिङ्गपुरुषब्रह्मशब्दसमुच्चयार्थश्चेत्युक्तं भवतीति भावः।

ननु सैद्धान्तिकश्रुतिलिङ्गानामनन्यथासिद्धत्वेऽपि पूर्वपक्षश्रुतिलिङ्गयोराकाशप्राणच्छन्दोविशेषेषु प्रसिद्धत्वात् कथं बाध्यबाधकभाव इत्यत उक्तं न्यायविवरणे–‘सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामप्य-सन्दिग्धयोः केवलयोरेव बलवत्त्वम्’ इति सन्दिग्धपदं सावकाशपरम्। तच्चोक्ताभ्यामित्यनेनोक्तलोक-प्रसिद्धेरसाधकत्वे हेतुप्रदर्शनार्थमुक्तम्। श्रुतिलिङ्गाभ्यामिति जात्यपेक्षया द्विवचनम्। आकाशप्राणगायत्री-श्रुतयस्तावत्परमेश्वरेऽपि वाचकत्वशक्तियुक्तत्वेनात्र किम्परा इति सन्दिह्यते। अचेतनत्वजीवनान्वय-व्यतिरेकनित्यत्वानि च लिङ्गान्यनुव्याख्यानोक्तरीत्या नु मुख्या न्यायविद्या। तयालमिति सन्दिग्धा-न्युच्यन्ते। केवलश्रुतिलिङ्गयोः। इदमपि जात्यपेक्षया। आकाशप्राणाधिकरणयोः सिद्धान्तसाधकश्रुत्यभावेन केवलस्य लिङ्गस्येत्यस्यैव तत्रोपयोगः। समग्रस्य तु गायत्र्यधिकरण इति विवेकः। परोवरीयस्त्व-श्रीलक्ष्मीपतित्वगानत्राणकर्तृत्वपुरुषसूक्तोक्तत्वादिलिङ्गजातं पुरुषब्रह्मादिश्रुतिजातञ्च भगवदेकनिष्ठताद-सन्दिग्धमित्युच्यते। असन्दिग्धपदं निरवकाशपरम्। तच्च केवलयोरित्युक्तलोकप्रसिद्धिशून्ययोरेव बलवत्त्वे हेतुत्वेनोक्तम्। तथा च लोकतः प्रसिद्धाभ्यामपि श्रुतिलिङ्गाभ्यां तथा प्रसिद्धिशून्ययोरेव बलवत्त्वे हेतुत्वेनोक्तम्। तथा च लोकतः प्रसिद्धाभ्यामपि श्रुतिलिङ्गाभ्यां तथा प्रसिद्धिरहितयोरेव बलवत्त्वम्। यतोऽनयोर्विष्णुमात्रपरत्वेन प्रमितत्वादसन्दिग्धत्वलक्षणं निरवकाशत्वम्। पूर्वपक्षसम्बन्धिनोऽस्तु भूताकाशप्राणच्छन्दोविशेषाणां विशेषमात्रनिष्ठत्वे प्रमाणाभावाद् विष्णुनिष्ठत्वस्य निराकर्तुमशक्यत्वाच्च सन्दिग्धत्वलक्षणं सावकाशत्वमित्यर्थः। अत्र केवलयोरित्यङ्गीकारवादः। भाष्यपौराणिक-रूढेरप्युक्तत्वादिति ज्ञेयम्।

भावदीपः

॥ ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॐ॥ समर्थयदिति॥ अर्थ याञायामिति चौरादिकस्यात्मने-पदित्वेन समर्थयमानं सूत्रमिति वक्तव्येऽपि चक्षिङ्व्यक्तायां वाचीत्यस्यानुदात्तत्वेन आत्मनेपदसिद्धौ ङित्वोक्तेरनुदात्ते त्त्वनिबन्धनं कार्यमनित्यमिति ज्ञापनार्थं प्रार्थयन्ति शयनोत्थितं प्रिया इति रघुवंशादौ प्रयोगश्चेत्यादेर् धातुवृत्तावेवोक्त्या समर्थयदिति साधु। एवमग्रेऽपि। साधयदिति क्वचित्पाठः। तदा तु न क्लेशः। भाष्योक्तमन्त्रस्य गायत्रीविषयत्वसूचनाय सङ्गतिमाह॥ सैषेति॥ षड्विधत्वमिति॥ ‘गायत्री वा’ इति ‘इदं सर्वं भूतम्’ इति ‘वाग्वै गायत्री’ इति ‘येयं पृथिवी’ति ‘यदिदमस्मिन्शरीरम्’ इति ‘यदिदमस्मिन्हृदयमि’ति गायत्रीभूतवाक्पृथिवीशरीरहृदयभेदेन गायत्रीशब्दितस्य वस्तुतः स्वात्मना सहोक्तषाड्विध्यमनूद्येत्यर्थः। अनेन श्रुतौ सैषा षड्विधा गायत्री वक्ष्यमाणदिशा चतुष्पदेति योजना न तु परमत इव भूतपृथिवीशरीरहृदयरूपचतुष्पदेत्यनुवाद इति सूचितम्। इति शब्दान्तभाष्यस्यार्थोक्तिपूर्वं सौत्रैवंशब्दार्थविवरणपरत्वं तस्य स्फोरयन् सूत्रेणान्वयमाह॥ अस्येत्यादिना॥ इत्यन्तभाष्यस्यानुवादपूर्वं तद्व्याख्येयं सौत्रैवं पदमनुवदति॥ इत्येवमिति॥ एतेन सौत्रैवंशब्दो यथान्यासतया गायत्री विष्णुर्भवेदिति प्रतिज्ञार्पकः सन्नपि व्यपदेशे प्रकारार्पकतयाप्येवम्भूतादीति हेतुनाप्यन्वेतीति दर्शितम्। तथा चायमर्थः। एवं तावानस्य महिमेति मन्त्रोक्तप्रकारेण भूतादिपादव्यपदेशादेवं गायत्री विष्णुर्भवेदिति। यथा ‘‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’’ इत्यत्रैवंशब्दस्त्रयाणां मध्ये प्रधानस्योपन्यासेन इति वक्तुम् उपन्यासप्रकारोक्त्यर्थस् तथाऽत्रापि पराभिप्रेतभूतपृथिव्यादिपदोपदेशव्यावृत्त्यर्थ इति॥ व्यपदेशाच्चेति॥ न केवलं गानत्राणकर्तृत्वश्रवणादिति चार्थः। उपपत्तेरित्येतद्भूतादिपादत्वरूपलिङ्गस्य निरवकाश-त्वोपपादकमिति व्याकरिष्यन् व्यपदेशाच्चेति विच्छिद्य व्याचख्यौ। उपपत्तेरित्युक्तिलब्धमाह॥ अन्यत्रानुपपत्तेश्चेति॥ भिन्नं चेत्यन्तभाष्यग्रहणाय सुवर्णमितीति प्रतीकमनुपादाय सुवर्णमित्यादीत्युक्तम्। शङ्काबीजं विघटयन्नुक्तशङ्कानिरासकं पाद इत्यादिवाक्यं तावद् व्याचष्टे॥ नायमिति॥ भिन्नमेवेति॥ भाष्ये भिन्नं चेति चोऽवधारण इति भावः। विश्ममिति शेषः। एकदेशपरिमितमित्यस्यार्थस्तत्पादेति। विष्णुपादेत्यर्थः। पाद इतीत्यस्यार्थः पादतयेति। उच्यत इति शेषः। अत इति फलोक्तिः। तर्हि भाष्ये पादपरिमित इत्युनुक्त्वा एकदेशेति कस्मादुक्तम् इत्यतस् तद्व्यावर्त्यमाह॥ तर्हीति॥ तत्र हेतुतया पाद इत्येकदेशपरिमितमित्येतदेव वाक्यं व्याचष्टे॥ यतोऽत्रेति॥ पादोऽस्येति श्रुतावित्यर्थः। विराजमित्यस्यार्थो ब्रह्मणः शरीरमिति। अमृतस्य मुक्तैः। कलाम् एकदेशपरिमिताम्। पादपदस्याऽऽवृत्त्या तां कलां पादमाचक्षत इत्यस्य पर्यवसितार्थं वदन् कर्त्राकाङ्क्षां पूरयति॥ पादेति॥ सेति शेषः। कलेत्यर्थः। पादमित्यस्यार्थश् चतुर्भागसाम्यमिति। वक्ष्यति च सूत्रकार एव बुद्ध्यर्थः पादवदिति तृतीयेऽध्याये पाद इत्युक्तिर्बुद्ध्यारोहार्थेति। सौत्रचशब्दस्यार्थान्तरमुपेत्य स हीत्यादिभाष्यं प्रवृत्तमिति भावेनाऽऽह॥ न केवलमिति॥ अन्येति॥ पुरुषपशुप्रकरण इत्यर्थः। यथा षट्प्रश्ने प्राणप्रकरणे हृदि ह्येष आत्मेति जीवश्रुतिः। यथा वा काण्वश्रुतौ नैवेह किञ्चनेति मृत्युप्रकरणे स एव प्राणस्त्रेधा विहित इति प्राणश्रुतिस्तथेति भावः॥ पृथग्युक्तिरिति॥ न केवलं भूतादिपादव्यपदेशात् किन्तु गायत्र्या प्रतिज्ञातचतुष्पादत्वस्य पुरुषसूक्तमन्त्रेणोपादानेन पुरुषसूक्तोक्तत्वाच्च एवं गायत्री विष्णुरिति भावेन तस्य विष्णुपरत्वसमर्थनपरं स हीति भाष्यमित्यर्थः॥ २६॥

अभिनवचन्द्रिका

(सू.२७) विष्णुत्वं समर्थयदिति॥ यद्यपि अर्थधातोरनुदात्तेत्त्वाद् आत्मनेपदेन भाव्यम्, तथापि – चक्षिङो ऽनुदात्तेत्त्वादेवाऽऽत्मनेपदे सिद्धे आत्मनेपदत्वाय ङित्करणेनाऽनुदात्तेत्त्वप्रयुक्तस्यात्मनेपदस्य अनित्यताया ज्ञापितत्वात् समर्थयदिति शत्रन्तप्रयोग उपपन्नः। अत्र गुणसूत्रम्, ‘भूतादिपाद-व्यपदेशोपपत्तेश्चैव’मिति। अत्र भूतादिपादेति हेतुद्वयकथनं भूतपादत्वममृतपादत्वं चेति॥ तेन भूतपादत्वमात्रस्य व्यभिचाराभावादादिपदं व्यर्थमिति परास्तम्। व्यपदेशादित्यसिद्धिवारणाय। अप्रयोजकत्वशङ्कानिरासाय उपपत्तिपदम्।

पूर्वसूत्रे साध्यनिर्देशाभावात् तन्निर्देशाय एवमिति। ततश्चैवं सूत्रयोजना – यथा चरणाभिधानाज् ज्योतिर्विष्णुः, एवं भूतपादत्वादमृतपादत्वाच्च गायत्री विष्णुरिति।

वाक्यार्थमुक्तावली

ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवं ॐ॥ प्रागुक्तषड्विधत्वमिति॥ गायत्रीभूतवाक्पृथिवी-शरीरहृदयसंज्ञकषड्विधत्वमित्यर्थः। तावानस्य महिमा ततो ज्यायांश्च पुरुषः। पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इत्येवं गायत्र्या भूतामृतपादत्वव्यपदेशाच्चैवं गायत्री विष्णुरेव भूतादिपाद-व्यपदेशस्य विष्णावुपपत्तेरन्यत्रानुपपत्तेरिति सूत्रार्थमाह। पादत्रयं तिष्ठतीत्येवं गायत्र्या इत्यादिना। अनेनैवमिति द्विरावृत्तिः। एकस्य श्रौतव्यपदेशपरामर्शकत्वम्। अन्यस्य साध्यसमुच्चायकत्वम्। चशब्दो बुध्या विवेकेन व्यपदेशादित्यन्वेति। व्यपदेशस्य निरवकाशत्वप्रदर्शनायोपपत्तिपदमित्युक्तं भवति। तस्यापि भूतभिन्नत्वादिति पादशब्दस्य तदंशत्वप्रतिपादकत्वात्। भूतभिन्नस्य भगवतो भूतान्यंशा इति वक्तुमयुक्तत्वादिति भावः। पाद इत्येकदेशपरिमितमिति भाष्यार्थमाह– किन्तु यज्ञदत्तस्येत्यादिना।

भिन्नमेवेत्युक्त्या चशब्दो अवधारणार्थ इत्युक्तं भवति। तत्पादपरिमितेत्यनेन एकदेशेति पदं पादार्थकमित्युक्तं भवति। ततश्चायमर्थः। पाद इत्यनेन यज्ञदत्तचतुर्भागबलो देवदत्त इत्यनेनेव भिन्नमेव विश्वं तत्पादपरिमितसामर्थ्यं पादतयोच्यते न तु स्वरूपांशत्वाभिप्रायेणेति। एकदेशपदस्वारस्याय व्यावर्त्यशङ्कापूर्वं पाद इत्येकदेशपरिमितमेवेत्येतत् प्रकारान्तरेण व्याचष्टे तर्हीत्यादिना। यद्यपि भिन्नपादः सर्वजीवास्तस्य सादृश्यमात्रत इति छान्दोग्यभाष्योक्तेर्भूतशब्दो जीवपरस् तथापि सुवर्णं कोशमिति श्रुतौ मुक्तामुक्तजीवगर्भे सावरणब्रह्माण्डस्य जीवकलात्वोक्तेस्तदनुसारेण टीकायां विश्वमित्युक्तम्। श्रुतौ टीकायामपि सावरणब्रह्माण्डाभिमानिनस्तदन्तर्गता जीवा एव कलात्वेन विवक्षिता इत्यविरोधः। विराजमित्यस्यार्थो ब्रह्मणः शरीरमिति। अमृतस्य मुक्तेरिति। कलामित्यस्यैकदेशपरिमितमिति। पादपदेनेत्यध्याहारः। पादमित्यस्यार्थश्चतुर्भागसाम्यमिति। पादमिति भावप्रधानो निर्देश इति भावः। पुरुषसूक्तोक्तत्वाच्चेति। अनेन श्रौतश्चशब्दः प्रकारान्तरेण व्याख्यातो भवति॥ अन्यप्रकरण इति॥ पुरुषपशुपरे पुरुषसूक्ते विष्णुपरपक्षश्रुतिः प्रासङ्गिकी भवत्वित्यर्थः। प्रासङ्गिकतयाऽप्यन्यश्रुतिसद्भावात्कथं तत्परत्वाभाव इत्यत उक्तम्॥ भूतादिपाद इति॥ यज्ञश्रुतेर्भूतादिपादे अभावेनान्यस्यैव भूतादि-पादत्वोपपत्तिरिति भावः। गायत्र्या उक्तचतुष्पदत्वस्य पुरुषसूक्ते समाख्यानाच्च गायत्रीशब्दवाचो विष्णुरित्युच्यते स हीत्यादिनेत्यभिप्रेत्याह किं चेति॥ तदेतदृचाभ्युक्तम्। तावानस्येति गायत्र्याः पुरुषसूक्तोक्तत्वमुक्तम्। पुरुषसूक्तोक्तश्च विष्णुरेवातो गायत्र्याः पुरुषसूक्तोक्तश्च विष्णुरेवातो गायत्र्याः पुरुषसूक्तोक्तत्वाद्गायत्री विष्णुरेवेति मूलार्थमभिप्रेत्य वा वक्ति किं चेति॥

तत्त्वसुबोधिनी

प्रागुक्तषड्विधत्वमिति॥ गायत्रीभूतवाक्पृथिवीशरीरहृदयलक्षणं षड्विधत्वमित्यर्थः।

सूत्रे वशब्दः प्रतिज्ञाप्रदर्शकः। भूतादिपादव्यपदेशस्यैव हेतुत्वं तस्य निरवकाशत्वं वक्तुम् उपपत्ते-रित्युक्तम्। चशब्दस्य तु बुद्ध्या विवेकेन व्यपदेशपदेन अन्वये पूर्वोक्तहेतुसमुच्चायकत्वम्। यथा श्रुतसम्बन्धे तु अनुपपत्तिसमुच्चायकत्वम् इत्यभिप्रेत्य सूत्रं योजयति। एवं गायत्र्या इत्यादिना। सुवर्णमित्यादीति॥ चतुर्भागबलवद्भिन्नं चेत्येतत्पर्यन्तग्रहणायादिपदप्रयोगः। भाष्ये उपोद्घातसङ्गत्या श्रुतेरादावुदाहरणेऽपि स्वयमाकाङ्क्षाक्रमेणान्ते तस्या व्याख्यानं क्रियते इत्यदोषः। चतुर्भागबलवद्भिन्न-मित्यनुक्तौ पाद इत्येकदेशपरिमितमित्यनेन निवर्तनीयाशङ्कानुदयात् तयोर् व्यत्यासेन व्याख्यानमिति द्रष्टव्यम्॥ पादपदेनेति॥ अनेन इति शब्दाध्याहारेण पादपदमेकेन प्रकारेण व्याख्यातम्। आचक्षत इत्युक्तक्रियाकर्तृवाचकाध्याहारः॥ पुरुषसूक्ताद्यागमा इति॥ प्रकारान्तरेण पादमित्येतद् व्याख्याति॥ यतः सा चतुर्थभागसाम्यमिति॥ अनेन पादमिति भावप्रधानमित्युक्तं भवति। अनेन पुरुषसूक्ताद्याः कला एव पादपदेन आचक्षते इत्यत्र हेतुरुच्यते इति भावः॥ किन्तु पुरुषेति॥ अनेन सौत्रश्चशब्दः प्रकारान्तरेण व्याख्यातः॥ विष्णुत्वे एवेति॥ गायत्रीशब्दवाच्ये तावानस्य महिमा इत्यादिना पुरुषसूक्तमन्त्रोदाहरणात् पुरुषसूक्तप्रतिपाद्यश्च यतो विष्णुरेवेति भाष्याभिप्राय इत्यर्थः।

वाक्यार्थमञ्जरी

ॐ भूतादिपादव्यपदेशोपपत्तेश्चैवं ॐ॥ एवं गायत्री ब्रह्मैव। ‘पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिदि’ इति गायत्रीधर्मतया व्यपदिष्टजीवामृताख्यरूपस्यांशकत्वस्य तस्मिन्नेवोपपत्तेरित्यर्थः॥ सैषेति॥ सैषा षड्विधा गायत्री भूतवाक्पृथिवीशरीरहृदयभेदेन षड्रूपा गायत्री चतुष्पदा भूतमूर्तित्रयाख्यांश-वतीत्यर्थः। व्यपदिश्य विहित्वा। तत्रैव चतुष्पादत्व एव॥ तदेतदिति॥ तदेतद्भगवतश्चतुष्पादत्वम् ऋचां मन्त्रान्तरेण अभि कथमेतदिति शङ्कामभि तदुत्तरत्वेनेति यावत्। अनु आनुकूल्येनोक्तमित्यर्थः। ज्यायान् अधिकमहिमा भूतानि जीवाः। पादत्रयं नारायणवासुदेववैकुण्ठाख्यम्। दिवि अनन्तासन-श्वेतद्वीपवैकुण्ठेषु। पादत्रयस्येव भूतानामपि स्वरूपांशत्वमुच्यत इति भ्रान्तः शङ्कते॥ नन्विति॥ भिन्नं चेत्यन्तग्रहणाय सुवर्णमित्यादीत्यादिशब्दः। भाष्यमाकाङ्क्षाक्रमेण योजयति॥ नायमिति॥ विश्वचतुष्टयसम इति॥ विश्वबलचतुष्टयसामर्थ्यवानित्यर्थः। सा कला। उत्तरभाष्यं सङ्गमयितुमाह॥ न केवलमिति॥ तदभावाद् यज्ञश्रुत्यभावात्। अध्याहारे गौरवात्प्रकारान्तरमाह॥ पुरुषसूक्तेति॥ पृथक् भूतादिपादत्वापेक्षया॥

विवृतिः

प्रागुक्तषड्विधत्वमिति॥ गायत्री, भूत, वाक्, पृथिवी, शरीर, हृदय, लक्षण षड्विधत्व-मित्यर्थः॥ सूत्रे एवंशब्दः प्रतिज्ञाप्रदर्शकभूतादिपादव्यपदेशस्यैव हेतुत्वं तस्य निरवकाशत्वं वक्तुमुपपत्तेरित्युक्तम्। चशब्दस्य तु बुध्या विवेकेन व्यपदेशपदेनान्वये पूर्वोक्तहेतुसमुच्चायकत्वं, यथाश्रुतसम्बन्धे तु अनुपपत्तिसमुच्चायकत्वमित्यभिप्रेत्य सूत्रं योजयति॥ एवं गायत्र्या इत्यादिना॥ सुवर्णमित्यादीति॥ चतुर्भागबलवद्भिन्नं चेत्येतत्पर्यन्तग्रहणायादिपदप्रयोगः॥ भाष्ये उपोद्घातसङ्गत्या श्रुतेरादावुदाहरणेऽपि स्वयमाकांक्षाक्रमेणान्ते तस्य व्याख्यानं क्रियत इत्यदोषः॥ चतुर्भागबलवद्भिन्नमित्युक्तौ पादमित्येकदेशपरिमितमित्यनेन निवर्तनीयशङ्कानुदयात्तयोर्व्यत्यासेन व्याख्यातमिति द्रष्टव्यम्॥ पादपदेनेति॥ अनेनेति शब्दाध्याहारेण पादपदमेकेन प्रकारेण व्याख्यातम्॥ आचक्षत इत्युक्तक्रियाकर्तृवाचकाध्याहारः। पुरुषसूक्ताद्यागमा इति प्रकारान्तरेण पादमित्येतद्व्याख्याति॥ यतः सा चतुर्भागसाम्यमिति॥ अनेन पादमित्येतद्भावप्रधानमित्युक्तं भवति॥ अनेन पुरुषसूक्ताद्याः कलामेव पादपदेनाचक्षत इत्यत्र हेतुरुच्यत इति भावः॥ किं तु पुरुषेति॥ अनेन सौत्रश्चशब्दः प्रकारान्तरेण व्याख्यातः॥ विष्णुत्व एव वेति॥ गायत्रीशब्दवाच्ये तावानस्य महिमेत्यादिना पुरुषसूक्तोक्तमन्त्रोदाहरणात्॥ पुरुषसूक्तप्रतिपाद्यश्च यतोऽतो विष्णुरेवेति भाष्याभिप्राय इत्यर्थः॥