१० ज्योतिरधिकरणम्

ॐ ज्योतिश्र्चरणाभिधानात् ॐ

१०. ज्योतिरधिकरणम्

सूत्रभाष्यम्

‘यो वेद निहितं गुहायाम्’ (तै.उ. २-१) इत्युक्तम्। तच्च गुहानिहितम्। ‘वि मे कर्णा पतयतो विचक्षुर्वी३दं ज्योतिर्हृदय आहितं यत्। वि मे मनश्चरति दूर आधीः किंस्विद्वक्ष्यामि किमु नू मनिष्य’ (ऋ.सं. ६-९-६) इति ज्योतिरुक्तम्। तच्च ज्योतिरग्निसूक्तत्वात्प्र-सिद्धेश्चाग्निरेवेति प्राप्तम्। अत आह—

॥ ॐ ज्योतिश्चरणाभिधानात् ॐ॥ २४॥

विष्णुरेव ज्योतिः। कर्णादीनां विचरणाभिधानात्। स हि ‘परो मात्रया तन्वा वृधान’ (ऋ.७-९९-१) इत्यादिना कर्णादिविदूरः॥ २४॥

सत्तर्कदीपावली

ऐतरेये श्रूयते। वि मे कर्णा पतयत इत्यादि। अत्र परमात्मधर्मेण यो वेद निहितं गुहायामिति श्रुतिसिद्धेन विशिष्टं ज्योतिरुच्यते। इयं ज्योतिर्हृदय आहितं यदिति। अतो विचार्यते। किमयं ज्योतिःशब्दोऽग्निपर उत विष्णुपर इति। ज्योतिःशब्दस्याग्निसूक्तगतत्वादग्नौ प्रसिद्धत्वात् तेनाग्निरेवोच्यत इत्येतत्पक्षं प्रतिक्षिप्तसूत्रमुपन्यस्य व्याचष्टे। ज्योतिश्चरणाभिधानादित्यादिना। अत्र तावत्कर्णा-दीन्द्रियाणां विपतनं विचरणम् अन्तर्ज्योतिर्विपरीतगमनमेव ज्योतिषश्च तद्विपरीतावस्थानं किं स्विद्वक्ष्यामि किमु नू मनिष्य इति वाक्यशेषादवगम्यते। अतो यन्मनसा न मनुत इत्यादिश्रुत्यन्तरसिद्धादिन्द्रिय-विदूरत्वाख्यविष्णुलिङ्गाद्धृदयाहितं ज्योतिर्विष्णुरेव हि मन आदिविदूरत्वं नाम मन आदिभिरपरिमेयत्वमेव। न तु सर्वथाऽग्राह्यत्वम्। श्रोतव्यो मन्तव्य इत्यादिश्रुतिविरोधापत्तेः। अप्रमेयत्वं च विष्णोरेव श्रुतम्। परो मात्रया तन्वा वृधानेत्यादिश्रुत्यन्तरेण। अत्र परशब्दस्यावध्यपेक्षत्वान्मात्राशब्दः पञ्चम्यन्तः कार्यः। ततश्च मात्राया मितेः परोऽपरिमेयप्रभावो मितिसाधनत्वेन मात्राशब्दोदितेन्द्रियगणपथातीतश्चेत्युक्तं भवति।

(१।१।१०)

तत्त्वप्रदीपिका

अत आहेति भाष्यस्यायमर्थः। इति पूर्वपक्षः प्राप्त इति यदत उत्तरं सूत्रमाह भगवान्बादरायण इति। अस्माकं तु भाष्यार्थमात्रान्वेषणपरिखिन्नात्मनामनवरतं भाष्यानुवादेऽप्यध्यासितालस्यानामत आहेत्यभिसूत्रं भाष्यानुकरणेऽपि प्रतिवाक्यमन्य एवाभिप्रायो निश्चेतव्यः। अतः पूर्वपक्षप्राप्तेः परिहारार्थं सूत्रमुदाहृत्य तस्य भाष्यमाह भगवानाचार्य इति। सूत्रग्रहणं पुनरत्र तद्भाष्यव्याचिख्यासितस्यागृहीतप्रतीकस्य सन्निधापकमिति भवति निरवद्यम्।

ज्योतिश्चरणाभिधानात्। अस्मिन्नन्तर्भेदाधिकरणे गायत्रीविचारस्य बहुलयुक्तिसन्दृब्धत्वेन महाविचारज्योतिर्विचारोऽवान्तरोऽवगन्तव्यः। एकं चेदमधिकरणमुत्तरानुबद्धत्वात्प्रथमविचारस्य। एतन्नान्त-रीयत्वात्तस्य। अत एव चानुवर्तयति प्रथमविचारमुत्तरत्राग्निगायत्र्यादिभाष्ये।

ननु किमनेनान्तर्भेदप्रतिपादनप्रयासेन। यावताऽत्र प्रथमसूत्र एव च्छन्दोगोपनिषदं ज्योतिरभिधायिनी-मुदाहृत्याप्रकीर्णमेकमधिकरणमुत्प्रेक्षितुमुचितमौपनिषदानामिति। मैवम्। अग्निसूक्तमुदाहृत्य मन्त्रगोचरं विचारमारचयता परमवैदिकेनाऽचार्येण निखिलोऽपि वेदसमन्वयो विचारितो भवतीति भूयानयं लाभः। अपरथा पुनरुक्तिदोषं चावादिष्म॥ क्लिष्टकल्पनायां षड्विधत्वस्यागतिकत्वं वा स्यात्। विष्णुरेव ज्योतिः। कर्णादीनां तद्विरुद्धचरणाभिधानात्। तथाहि श्रुत्यर्थः कर्णौ मे विरुद्धं पतयतः, चक्षुश्च मनश्च विरुद्धं चरति, तेषामत्यन्तविदूरत्वेनेदं ज्योतिः स्थितमत आ समन्ताद्दूरस्थबुद्धिरहं किं वक्ष्यामि, किं मनिष्ये वेति हृदयस्थं हीदं ज्योतिरुच्यते। तद्दर्शनविरुद्धं चरणम्। उक्तं च गीतासु मनश्चरणस्य तत्वनिष्ठा-विरोधित्वं ‘चञ्चलं हि मनः कृष्ण’ इति। स्पष्टत्वाय विचरणाभिधानादित्युक्तम्। मातृत्वादिन्द्रियं ‘मात्रा’, श्रोत्रादिवत्। तदतीतः परो मात्रयेत्युक्तः।

तत्त्वप्रकाशिका

अत्र लोकतोऽन्यत्र प्रसिद्धज्योतिर्नाम्नो ब्रह्मणि समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः। श्रुत्यधि-करणसङ्गती विषयवाक्योदाहरणपूर्वकं विषयसंशयौ च सूचयति॥ यो वेदेति॥ यो वेद निहितं गुहायामित्यानन्दमयस्य हृदयगुहानिहितत्वमुक्तम्। मन्त्रवर्णोक्तस्यैवान्नमयादिशब्दैरुच्यमानत्वात्। तद्गुहानिहितत्वं ‘वि मे कर्णा पतयत’ इति कस्यचिज्ज्योतिषः प्रतीयते। मे कर्णौ ज्योतिषो विरुद्धं पततः। चक्षुश्च विरुद्धं पतति। यदिदं हृदय आहितं ज्योतिस्तदप्यत्यन्तं कर्णादिविरुद्धं वर्तते। मे मनश्चातीव विरुद्धं चरति। अतो व्याप्तबुद्धिरप्यहं किं नु वक्ष्यामि किं वेदानीं चिन्तयामीति। एतच्च यदि विष्णोरन्यत्तर्ह्यानन्दमयत्वं चान्यस्यैव प्रसज्येतेति निर्णेयं भवति। तज्ज्योतिरत्र विषयः। किं विष्णु-रुताग्निरिति सन्देहः। गुहानिहितत्वं ज्योतिःशब्दस्याग्नौ प्रसिद्धिश्च सन्देहबीजमिति भावः। तत्र सयुक्तिकं पूर्वपक्षयति॥ तच्चेति॥ तज्ज्योतिरग्निरेव भवेत्। एतत्सूक्तस्याग्निसूक्तत्वात्। न च वाच्यं प्रकरणादपि लिङ्गस्य बलीयस्त्वाद् गुहानिहितत्वलिङ्गेनास्य बाध इति। ज्योतिःश्रुतेरग्नावेव रूढत्वात्। न हि लिङ्गं श्रुतिप्रकरणापबाधने शक्तं यावता श्रुतित एव दुर्बलम्। श्रुतिः सावकाशेति चेन्न। जाठरजातवेदसि लिङ्गस्यापि सावकाशत्वात्। तथा च सावकाशलिङ्गमात्रात्सावकाशश्रुतिप्रकरणयोर्बलवत्वादग्निरेवेदं ज्योतिस्ततश्च गुहानिहितत्वमानन्दमयत्वं च तस्यैवेत्यर्थः। सिद्धान्तयत्सूत्रमवतारयति॥ अत इति॥ यस्मादिति प्राप्तमत आह सूत्रकार इत्यर्थः। सूत्रं व्याचष्टे॥ विष्णुरेवेति॥ विष्णुरेवेदं ज्योतिर्भवेत्। कर्णादीनामेतज्ज्योतिर्विरुद्धाचरणाभिधानात्। कर्णादिविदूरत्वलिङ्गादित्यर्थः। कर्णादिविदूरत्वाभिधानेऽपि कुतो विष्णुरिदं ज्योतिरित्यत आह॥ स हीति॥ मीयन्ते विषया अनेनेति मात्रा इन्द्रियगणस्ततस्त्वं परोऽसीत्यर्थः। न च प्रकरणविरोधः। लिङ्गेन प्रकरणबाधोपपत्तेः। न च श्रुतिविरोधः। श्रुतेर्विष्णावपि सावकाशत्वात्। महायोगविद्वद्रूढिसद्भावेन मुख्यत्त्वाच्च। निरवकाशलिङ्गेन सावकाशश्रुत्यादेर्बाधोपपत्तेः। अतो विष्णुरेवेदं ज्योतिरिति तस्यैव गुहानिहितत्वमानन्दमयत्वं चेति सिद्धम्॥ २४, अ० १०॥

गुर्वर्थदीपिका

किं स्विद्वक्ष्यामीत्यत्र किं स्विदित्यस्य किं न्वित्यर्थः। नु इत्यस्येदानीमित्यर्थ इति विवेकः। पतनस्याऽऽदिमत्वेऽप्यमङ्गलत्वात्सूत्रकृता चरणमेव गृहीतमिति भावष्टीकाकारस्य। वस्तुतस्तु कर्णादि-निष्ठज्योतिर्विषयकविचरणहेतूकरणे हेतुसाध्ययोर्वैय्यधिकरणप्रसङ्गात्कर्णादीनां विषयेऽपि ‘इदं ज्योतिर्हृदय आहितं यत्’ इति यज्जोतिषो विचरणं श्रुतावुक्तं तस्याभिधानादिति ज्योतिर्निष्ठमेव विचरणं भाष्य-कृतोऽभिमतम्। एवं च सतीदं ज्योतिरित्यत्र क्रियाभावादध्याहारस्य बहिरङ्गत्वाच्छ्रौतमेव पतत इति पदमावर्तनीयं वा वाच्यं चरतीत्युत्तरपदमाकर्षणीयं वा स्यात्। तत्र च पतत इति द्विवचनान्तपदस्य विभक्तिव्यत्ययेनाऽऽवर्तने गौरवात्समानविभक्तिकं चरतीत्येव पदमाकर्षणीयम्। अतः ‘चरणाभिधानात्’ इति सूत्रे भाष्ये च चरणपदस्यैव ग्रहणं चोक्तं जायते। हेतोश्च सामानाधिकरण्याख्यगुणोऽपि जायते। अत इयमपि व्याख्या शतार्थकभाष्ये आदरणीया। वीत्युपसर्गे कम्पाल्लब्धमर्थमाह अत्यन्तं कर्णादि-विरुद्धमिति। ‘वि मे मनश्चरति दूर’ इत्यत्र दूरपदलब्धमर्थमाह अतीव विरुद्धं चरतीति। श्रुत्यनुसारित्वात्सूत्रेऽपि वीत्युपसर्गस्यासहपाठ इति ज्ञेयम्। ‘त्रयोऽर्थास्सर्ववेदेषु’ इति वचनान्मात्रा परिमाणमिन्द्रियगणश्चेति भावेनोक्तं मीयन्त इति। ज्यायसी ऊतिर् व्याप्तिरैश्वर्यं वाऽस्येति ज्योतिः-पदयोगमभिप्रेत्योक्तं महायोगेति। चरणाभिधानात्पादाभिधानादिति केचित्। तदयुक्तम्। तथा सत्यल्पाक्षरत्वेन पादाभिधानादित्येव सूत्रं स्यात्। ‘भूतादिपादव्यपदेशोपपत्तेश्चैवम्’ इति सूत्रेण पौनरुक्त्यप्रसङ्गाच्च॥

भावबोधः

॥ ॐ ज्योतिश्चरणाभिधानात् ॐ॥ ननु ‘यो वेद निहितं गुहायाम्’ इति वाक्यं नानन्दमय-प्रकरणगतम्। किन्तु ‘ब्रह्मविदाप्नोति परम्’ इति प्रकरणगतम्। तथा च कथं तेनानन्दमयस्य गुहा-निहितत्ववचनमित्यत आह– मन्त्रवर्णोक्तस्यैवेति। अनेनास्याधिकरणस्य मान्त्रवर्णिकसूत्रसङ्गत्या आनन्दमयाधिकरणेन सङ्गतिरित्युक्तं भवति। अव्यवहितपूर्वाधिकरणसङ्गतिस्तु ज्योतिश्शब्दस्याधिदैवाधि-भूताध्यात्मरूपत्रितयपरत्वेनान्तराद्यधिकरणत्रयेण परमात्मपरत्वसिद्धावपि ‘पुनश्च प्रापकाद्धेतोस्तत्राधि-करणान्तरम्’ इत्यनुव्याख्यानोक्तरीत्याग्निसूक्तत्वादिरूपप्रापकहेतुना तदधिकरणत्रयानन्तरमेवैतदधिकरणो-त्थानात् ‘वायोरग्निः’ इति श्रुतिक्रमाद्वेति ज्ञातव्यम्। ‘विरुद्धं पततः’ इत्यादौ विरुद्धमित्येतद् वीत्यस्यार्थ इति बोद्धव्यम्। अत्यन्तं कर्णादिविरुद्धमित्यत्र ‘अत्यन्तम्’ इति ‘यदिदम्’ इत्यत्र ह्यकम्पनार्थ इत्यवधेयम्। मनश्चातीवेत्यत्रातीवेति दूर इत्यस्यार्थः। दूर आधीरित्यस्यैकपदत्वेऽप्यवग्रहदर्शनाद् दूर इत्यस्य पृथक्कृत्य पूर्वत्रान्वयकरणमुपपद्यत इति भावः। आधीरित्याङोऽर्थो व्याप्तेति॥ किमिति॥ अत्र ज्योतिः किमग्निरुत विष्णुरीति चिन्ता। तदर्थं ज्योतिःश्रुतिः कर्णादिविदूरत्वलिङ्गबाधिका, उत तद्बाध्येति। तदर्थं श्रुत्युपोब्दलकमग्निसूक्तरूपमग्निप्रकरणं निरवकाशमुत सावकाशमिति। तदर्थं सूक्तस्य सावकाशत्वे तत्कल्पकत्वेनाभिमतस्य कर्णादिविदूरत्वलिङ्गस्य निरवकाशत्वे च प्रमाणं नास्त्युतास्तीति। कर्णादिविदूर इत्युत्तरभाष्यसङ्गतिपरिहारार्थमाह– कर्णादिविदूरत्वेति। अनुव्याख्यानन्यायविवरणयोरे-तदधिकरणार्थानुक्तिरग्निसूक्तत्वादिति भाष्य एवाभ्यधिकाशङ्कायाः प्रदर्शितत्वादित्यवधेयम्। अत एव सुधायां न्यायविवरणटीकायां च तथैवोक्तम्। यद्यप्यत्र ज्योतिः प्रति कर्णादीनां विरुद्धाचरणरूपं कर्णादिविदूरत्वं वक्तुं ‘विचरणाभिधानात्’ इति सूत्रयितव्यम्। तथाप्युपसर्गस्य द्योतकत्वमात्रं धातोरेव तु विचरणाभिधायकत्वमिति प्रदर्शनार्थं सूत्रस्य श्रुत्यनुगमप्रदर्शनार्थं च चरणाभिधानादित्युक्तम्। ‘विचरणाभिधानात्’ इत्युक्तौ हि श्रुतौ ‘वि’इत्यनेन चरतीत्यस्य मे मन इति पदद्वयेन व्यवहितत्वात् श्रुत्यनुगमो न जायेतेति द्रष्टव्यम्॥

भावदीपः

॥ ॐ ज्योतिश्चरणाभिधानात् ॐ॥ लोकत इत्यादि तु पूर्वपद् व्याख्येयम्। शेषोक्त्या सङ्गतिपरत्वेन तावद्भाष्यं व्यनक्ति॥ यो वेदेति॥ मन्त्रवर्णस्थलिङ्गस्य कथमानन्दमयस्थत्वमित्यतः प्रागुक्तं स्मारयति॥ मन्त्रवर्णेति॥ तच्च गुहानिहितमित्यादेर्ज्योतिरुक्तमित्यन्तस्य व्याख्यानं तदित्यादि प्रतीयत इत्युक्तं श्रुत्यर्थोक्त्या व्यनक्ति॥ म इति॥ वीत्युपसर्गस्य व्यवहिताश्चेति पाणिन्युक्तेर्धातु-नान्वयमुपेत्यार्थमाह॥ विरुद्धमिति॥ पतयत इति स्वार्थे णिजिति मत्वोक्तं पतत इति॥ कम्पार्थोऽ-त्यन्तमिति॥ दूर आधीरित्यस्यैकपदत्वेऽपि दुःखण्डत्वाद्दूर इत्यस्य पूर्वेणान्वयमाह॥ अतीवेति॥ पूर्वोक्तं हेतुत्वेनोपादायाधीरित्यादि व्याचष्टे॥ अत इति॥ तत्वप्रदीपे तु अत आ समन्ताद् दूरस्थबुद्धिरहमिति दूर आधीरित्येतदेकान्वयेनैव व्याख्यातमिति भाति। किंस्विदित्यस्यार्थः किं न्विति। नु इत्यस्यार्थ इदानीमिति। इति प्रतीयत इतीतिशब्दस्य पूर्वेणान्वयः। भाष्ये तच्च गुहानिहितं ज्योतिर्हृदय आहितं यदिति ज्योतिरुक्तमित्येव वाच्ये शेषोक्तिरर्थसङ्गत्यर्थं वा सिद्धान्तोपयोगार्थं वेति भावेन समग्रवाक्यार्थोक्तिः। तच्च ज्योतिरित्यादेर्भावमाह॥ एतच्चेति॥ गुहास्थं ज्योतिरग्निसूक्त-स्थत्वादिनां यद्यग्निरित्यर्थः। यो वेदेति वाक्यभावमाह तर्हीति। अत्रापीतिशब्दो हेतौ इति यतो ऽतः पूर्वाक्षेपरूपसङ्गतिसम्भवादित्यर्थः। ज्योतिरुक्तमित्याद्युक्तिसूचितविषयाद्याह॥ तज्ज्योतिरिति॥ एवमवश्यनिर्णेयं ज्योतिरित्यर्थः॥ अग्निरिति॥ ज्योतिश्शब्दस्य तमोविरोधिमात्रवृत्तावपि इह हृदयाहि-तत्वलिङ्गात्त्वामग्ने तमसीत्यग्निश्रुतेश्च नान्यस्य संशयविषयत्वमिति भावेन भाष्योक्त्यनुरोधादग्निरित्युक्तिः॥ प्रसिद्धिश्चेति॥ प्राबल्याद्यविवेकेनेति ध्येयम्। एकस्य निरवकाशत्वेनान्यस्य श्रुतित्वेन च प्राबल्याभि-धानात्। पूर्वपक्षादिपरत्वेनापि भाष्यं व्याचष्टे॥ तत्रेति॥ प्रमाणाश्रयपूर्वपक्षमाह॥ अग्निसूक्तत्वादिति॥ प्रसिद्धेश्चेत्येतद्धेतुं व्यावर्त्यशङ्कापूर्वमाह॥ न च वाच्यमिति॥ प्रकरणात्सूक्तरूपात्॥ बाध इति॥ यथा द्युभ्वादिनयपूर्वपक्षे जायमानत्वलिङ्गेन द्वे विद्ये वेदितव्ये इति ब्रह्मप्रकरणस्य बाधस्तद्वदिति भावः॥ अग्नावेवेति॥ न तु विष्णावित्यर्थः। तमोविरोधिमात्रे रूढेः सत्त्वेऽपि प्रकृताशयेनैवमुक्तिः। यावतेति निपातो यस्मादित्यर्थे। तथा च श्रुत्यैव पूर्वपक्षे प्रकरणोक्तिरभ्युच्चयत्वेन। अत एव भाष्ये अग्निसूक्तत्वाच्चेति चशब्दो भिन्नक्रम इति सूचितम्। ननु ज्योतिःश्रुतिरग्निदेवतापरा चेदन्तर्नयन्यायेन विष्णुपरा जडपरा चेदाकाशनयन्यायेन विष्णुपरा सेत्स्यतीति भावेन शङ्कते॥ श्रुतिरिति॥ तथा च श्रुतेः सावकाशत्वे तद्युक्तस्यापि प्रकरणस्य सावकाशतया निरवकाशलिङ्गेन तयोर्बाधः स्यादिति भावः॥ सावकाशेति॥ सावकाशयोः श्रुतिप्रकरणयोरित्यर्थः। यद्वा उक्तदिशा श्रुतेः सावकाशत्वेऽपि इदमग्नि-सूक्तं न विष्णुसूक्तमित्यध्यापकप्रसिद्ध्यन्यथानुपपत्त्या सूक्तं निरवकाशम्। तथा च सावकाशत्वं श्रुतेरेव विशेषणम्। अत एव कर्णादिविदूरत्वमप्यनेकवैभवातिशयेनाग्नावेव कथञ्चिद्योज्यम्। श्रुतिप्रकरणयोर्बलवत्त्वादिति भावेन भाष्यमुपसंहरति॥ अग्निरेवेति॥ यो वेदेति भाष्यं फलपरमिति भावेन तत्तात्पर्योक्तिरानन्दमयत्वं चेति। ज्योतिस्तत्त्विति सौत्रप्रतिज्ञाभागमभिप्रेत्य भाष्यं व्याचष्टे॥ विष्णुरेवेति॥ स हीत्यग्रेतनभाष्यानुरोधाद्धेतुसाध्ययोः सामानाधिकरण्याय हेतोः पक्षनिष्ठतामाह॥ कर्णेति॥ सूत्रे वीत्युपसर्गस्यानुक्तिकृत्यं चन्द्रिकायां व्यक्तम्। श्रुतौ पतनस्यादित्वेऽपि तस्य स्पृहिगृहिपतिदयीति निर्दिष्टस्य पतगतावित्यस्य चुराद्यदन्ततया स्वार्थिकण्यन्तत्वेन पतनाभिधानादित्युक्तौ कर्णादिविदूरत्वस्य स्पष्टमप्रतीतेश्चरणस्य च ज्योतिःसान्निध्यात्प्रधानमनोन्वितक्रियात्वात्पतनार्थस्यात्राप्राप्तेश्च सूत्रादौ चरणेत्युक्तिः। जन्मादिसूत्रे मात्राया मितेरित्यर्थोक्तावपि इहोपयोगितया अर्थान्तरमाह॥ मीयन्त इति॥ श्रुतिप्रकरणाभ्यां कृतपूर्वपक्षस्य कथं लिङ्गमात्रेणापवाद इत्यतः सन्दिग्धश्रुतिलिङ्गाभ्यामपि युक्ताभ्यामसन्दिग्धयोः केवलयोरेव बलवत्त्वादिति न्यायविवरणमत्राप्याकृष्य विवृण्वल्लिङ्गमुपलक्षणमुपेत्य शङ्कापूर्वं निर्णयमाह॥ न चेति॥ सन्दिग्धाभ्यां सावकाशाभ्यामित्यर्थात्॥ प्रकरणबाधेति॥ अभिव्यक्तेरित्याश्मरथ्य इत्यादिवक्ष्यमाणन्यायेनाग्निसूक्तमित्यादिव्यवहारस् तत्तत्सूक्तप्रतिपाद्यविष्ण्वधिष्ठान-निमित्तक औपचारिकः। इदं न विष्णुसूक्तमिति प्रसिद्धिस्तु विष्ण्वादिशब्दाभावादज्ञानमूलेति। न तस्य निरवकाशत्वमिति भावः॥ श्रुतेरिति॥ अन्तर्नयाद्युक्तन्यायादिति भावः। श्रुतेरग्नौ रूढत्वाद् विष्णावमुख्यतेत्यत आह॥ महायोगेति॥ ज्योतिःपदप्रवृत्तिनिमित्तस्य प्रकाशत्वादिरूपज्योतिष्ट्वस्य विष्णुगतत्वादन्यगतस्यापि ‘तमेव भान्तमनुभाति सर्वम्’ इत्यादिना तदधीनत्वाच्च महायोगस्य ‘तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ इति वाजसनेये। ‘नारायणपरो ज्योतिः’ इति तैत्तिरीये ‘विष्णुरेव ज्योतिः’ इत्यादिचतुर्वेदशिखादिश्रुतिषु ‘ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते’ इत्यादिस्मृतिषु च प्रयोगबाहुल्येन रूढेरपि सद्भावेनेत्यर्थः॥ अत इति॥ निरवकाशलिङ्गसद्भावादिति चरणाभिधाना-दित्यस्यार्थः। ज्योतिस्तत्त्वित्यस्योपसंहारो विष्णुरेवेत्यादि। अत्रापि पूर्वत्रोत्तरत्रेव च सर्वसूक्तगततत्त-च्छब्दोपलक्षितेति बोध्यम्। चरणाभिधानादित्यस्य तत्तत्सूक्तस्थनिरवकाशलिङ्गोपलक्षणत्वात्। आनन्दमयत्वं चेति फलपरभाष्यतात्पर्योपसंहारः यत्त्वत्र कश्चिदाह। चरणं हि प्रतिसम्बन्धिसापेक्षम्। न चेन्द्रियरूपप्रतिसम्बन्धि सूत्रे निर्दिष्टम्। चरणशब्दस्य पादपरत्वे तु ज्योतिष एव प्रतिसम्बन्धित्वे-नान्वयान् न दोष इति छान्दोग्यवाक्यमेव सूत्रानुगुणं न त्वग्निसूक्तगतमिति। तन्न। तद्वाक्ये चन्दिकाया-मनेकदोषोद्भावनात्। प्रतिसम्बन्धिनो विषयवाक्ये सन्निहितस्यार्थादन्वयसम्भवे कम्पनादित्यादाविव निर्देशस्यानपेक्षितत्वात्। चरणपदस्य पादपरत्वे पादेत्येव वाच्यत्वाच्चेति यत्किञ्चिदेतत्॥ २४॥

अभिनवचन्द्रिका

अत्र त्रीणि दर्शनानि – ज्योतिश्चरणाभिधानादित्यारभ्य चतुःसूत्री एकमधिकरणम्। तत्र आद्ये सूत्रे अग्निसूक्तगतज्योतिःशब्दसमन्वयः। छन्दःसूत्रे छान्दोग्यस्थज्योतिःशब्दसमन्वयः, ‘भूतादिपाद’ सूत्रे गायत्रीशब्दसमन्वयः। ‘उपदेशभेदा’दिति सूत्रे गायत्रीज्योतिःशब्दयोरेकार्थत्वसमर्थनमित्येकं दर्शनम्। इदं च सत्तर्कदीपावलीकृतो दर्शनम्।

तत्र ‘ज्योतिश्चरणाभिधाना’दिति सूत्रमुदाहृत्य ऐतरेये श्रूयते ‘वि मे कर्णा पतयत’ (ऋ.६-९-६) इत्यादीति अग्निसूक्तस्थज्योतिर्वाक्यस्योदाहरणात्। तथा ‘अथ यदतःपरो दिवो ज्योतिर्दीप्यते विश्वतः पृष्टेषु सर्वतः पृष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्पुरुषे ज्योति’(छां.३-१३-७)रिति श्रुत्यन्तरादपि विष्णुरेव मुख्यज्योतिरिति प्रथमसूत्राभिप्रायं वर्णयित्वा, इदमेवाक्षिप्य समर्थयत्सूत्र-मुपन्यस्य व्याचष्टे – छन्दोऽभिधानादित्यादिनेति। द्वितीयसूत्रस्य छान्दोग्यज्योतिषा विष्णुत्वमाक्षिप्य समाधानपरत्वाभिधानाद् गायत्रीशब्दो विष्णुपर इत्येतत्प्रतिपादयत्सूत्रमुपन्यस्य व्याचष्टे – ‘भूतादी’त्यादि-नेति। तृतीयसूत्रस्य गायत्रीशब्दसमन्वयपरत्वाभिधानात्। चतुर्थसूत्रस्य गायत्रीज्योतिःशब्दयोरेकार्थपरत्व-मित्यर्थस्य ‘न च वाच्यम् अथ यदतःपर’ इत्युक्तत्वात्, स्वर्गादिलोकात्परतो वैकुण्ठे दीप्यमानात्, ज्योतिःशब्दाद्विष्णोरन्यदेव ‘पादोऽस्य सर्वा भूतानि त्रिपादस्याऽमृतं दिवी’त्यत्र स्वर्गस्थत्वेनोच्यत इति दिवीति शब्दस्य द्योतमानत्वयोगेन वैकुण्ठपरत्वा’दित्यादिना समर्थितत्वात्। चतुस्सूत्र्या एकाधि-करणत्व आद्यसूत्रमारभ्य चतुर्थसूत्रपर्यन्तं ज्योतिःशब्दविचारानुवृत्तिर्लिङ्गम्। आद्यसूत्रस्याग्निसूक्त-स्थज्योतिःशब्दसमन्वयपरत्वाङ्गीकारे अग्निसूक्तस्थचरणाभिधानं सौत्रं ज्ञापकम्। भाष्यकारीयन्तु अग्निसूक्तस्थविषयवाक्योदाहरणं ज्ञापकम्। द्वितीयसूत्रस्य छान्दोग्यज्योतिःशब्दसमन्वयपरत्वाङ्गीकारे तु ‘छन्दोऽभिधाना’दिति छान्दोग्यवाक्यस्थपूर्वपक्षहेत्वभिधानं लिङ्गम्। तृतीयसूत्रस्य तु गायत्री-शब्दसमन्वयपरत्वे गायत्रीनिष्ठभूतादिपादत्वरूपविष्णुलिङ्गाभिधानं लिङ्गम्।

इदं चापरं दर्शनम् – तथा हि चतुःसूत्री एकमधिकरणं तत्र आद्ये सूत्रे अग्निसूक्तस्थज्येतिःशब्दस्य समन्वयः। द्वितीयसूत्रे छान्दोग्यस्थज्योतिःशब्दगायत्रीशब्दयोः समन्वयः। तृतीयसूत्रे गायत्रीशब्दस्य विष्णुपरत्वे हेत्वन्तराऽभिधानम्। चतुर्थसूत्रे तु गायत्रीज्योतिःशब्दयोरेकार्थत्वसमर्थनम्। अत्राधिकरणे ज्योतिर्गायत्रीशब्दयोः समन्वयाभिधानेऽपि गायत्रीविचारो महाविचारः। द्वितीयसूत्रोक्तगानत्राण-कर्तृत्वलिङ्गाभ्यां तृतीयसूत्रोक्तभूतादिपादत्वरूपलिङ्गेन च सम्बन्धत्वेन बहुयुक्तिसम्बन्धाज् ज्योतिर्विचारस्तु अवान्तरः। कर्णादिविदूरत्वरूपैकलिङ्गसम्बन्धत्वादिति। इदं च तत्वप्रदीपकारोक्तदर्शनम्। तत्र एकं चेदमधिकरणमित्युक्तत्वात्। आद्यसूत्रस्य ज्योतिःशब्दसमन्वयपरत्वेन व्याख्यानात्। ‘अग्निगायत्र्यादि-शब्दार्थरूपोऽसाविति भाष्यस्यायमर्थः – अग्न्यादितेजःशब्दानां गायत्र्यादिछन्दःशब्दानां चार्थः स्वरूपत्वेन निरूपणीयो विष्णुरेवेति बुध्द्यवधारणार्थं हि तच्छब्दैर्निगद्यते इति द्वितीयसूत्रे ज्योतिःशब्दवद् गायत्रीशब्दस्यापि समन्वेतव्यत्वसूचनात्। गायत्रीनिष्ठविष्णुलिङ्गप्रतिपादकस्य ‘इयं वाव सा येयं पृथिवी’(छा.३-१२-२)त्यादिवाक्यस्य ‘गायति त्रायति चे’त्यादिभाष्यस्थादिशब्दार्थत्वेनोपादानाच्च। यद्यपि द्वितीयसूत्रस्य ‘ज्योतिःशब्दो न विष्णु’रित्येव पूर्वपक्षो दर्शितः, तथापि द्वितीयसूत्रे ज्योतिःशब्दस्यैव समन्वय इत्याशय इति न मन्तव्यम्। ‘अग्निगायत्र्यादिशब्दार्थरूपोऽसा’विति भाष्यव्याख्यानावसरेऽपि उभयोः शब्दयोः समन्वेतव्यत्वसूचनात्, गायत्रीनिष्ठविष्णुलिङ्गप्रतिपादकेयं वाव सेत्यादिवाक्योदाहरणाच्च। गायत्रीशब्दविषयकपूर्वपक्षस्तु शिष्यैरेवोह्यतामिति भावेन स न दर्शितः। तृतीयसूत्रे गायत्रीशब्दस्य विष्णुपरत्वे हेत्वन्तराभिधानमिति तु स्पष्टमेव। चतुर्थसूत्रस्यापि उक्तार्थत्वं स्पष्टम्। अस्मिन्नंतर्भेदाधिकरणे गायत्रीविचारस्य बहुयुक्तिसम्बन्धत्वेन महाविचारत्वाज् ज्योति-र्विचारोऽवान्तरोऽवगन्तव्य इत्युक्तत्वाद् गायत्रीविचारस्य महाविचारत्वं, ज्योतिर्विचारस्य अवान्तरविचारत्वं तदभिप्रेतमिति द्रष्टव्यम्। चतुःसूत्र्या एकाधिकरणत्वे ज्ञापकं तु प्रागेवोक्तम्। द्वितीयसूत्रस्य शब्दद्वयसमन्वयपरत्वे तु ‘छन्दोऽभिधानान्नेति चे’दिति पूर्वोक्तमाक्षिप्य सूत्रकारीयं समाधानम्। ‘तथा हि दर्शन’मिति सूत्रखण्डस्य ‘गायति त्रायति चे’ त्यादिभाष्यकारीयं गायत्रीनिष्ठलिङ्गपरतया व्याख्यानं च ज्ञापकम्।

इदमन्यच्च दर्शनम् – ‘ज्योतिश्चरणाभिदाना’ दित्येकमधिकरणम्। त्रिसूत्री अधिकरणान्तरमिति। अत्र आद्याधिकरणे ज्योतिःशब्दसमन्वयः। द्वितीये गायत्रीशब्दसमन्वयः। इदं च टीकाकाराभिप्रेतम्। अत्र ‘नित्यत्वादेव शब्दानाम्’ इत्यनुव्याख्याने छन्दःसूत्रस्याऽभ्यधिकाशङ्काप्रदर्शनमधिकरणभेदे लिङ्गम्। द्वितीयाधिकरणे गायत्रीशब्दसमन्वय इत्यत्र ‘तथा हि दर्शन’मिति सूत्रखण्डस्य, ‘गायति त्रायति चेत्यादि’ इति गायत्रीनिष्ठविष्णुलिङ्गप्रदर्शनपरतया व्याख्यानं लिङ्गम्। एवं च मतत्रयमपि विवक्षाभेदेन भाष्यकाराभिप्रेतम्। एवं च तत्रैकैकं गृहीत्वा टीकाकाराणां प्रवृत्तिरिति न विरोध इति।

चन्द्रिकायां तु – ‘‘ज्योतिश्चरणाभिधानात्’’ अत्र त्रीणि दर्शनानि– ज्योतिरित्यादिचतुःसूत्री एकमधिकरणम्। विषयवाक्यं तु अग्निसूक्तस्थं ‘ज्योतिर्हृदय आहितं य’दिति वाक्यमेवेत्येकं मतम्। इदं ‘ज्योति’रित्यस्य सूत्रस्य अग्निसूक्तस्थवाक्यमेवोदाहृत्य ‘इदं चैकमधिकरण’मिति वदतस्तत्वप्रदीप-कृतोऽभिप्रेतम्।

मतान्तरं तु चतुःसूत्र्या एकाधिकरणत्वेऽपि ‘‘विषयवाक्यं ज्योतिरित्यस्यापि ‘अथ यदतःपरो दिवो ज्योति’रिति छान्दोग्यवाक्यमेवेति। इदं च ‘छन्दोऽभिधाना’दिति सूत्रव्याख्यानरूपम्। ‘नित्यत्वादेव शब्दाना’मित्यनुव्याख्यानम् ‘ज्योतिश्चरणाभिधाना’दित्यधिकरणं तात्पर्यतो विवृणोति’’ इत्यवतार्य ज्योतिःसूत्रस्य छान्दोग्यवाक्यमेव उदाहरतः सन्न्यायरत्नावलीकारस्याभिप्रेतम्।

मतान्तरं तु ज्योतिःसूत्रमेकमधिकरणं, ‘छन्द’ इत्यादि त्रिसूत्री अधिकरणान्तरमिति। इदं च टीकाकारस्याभिप्रेतमित्युक्तम्। अयं च केनचिद् विदुषविज्ञातार्थस्य अनुवाद एव न तु वस्तुतो दर्शनत्रयस्वरूपनिरूपणम्। अवश्यं चैतदेवं विज्ञेयम्। तत्वप्रदीपकृता छन्दःसूत्रे छान्दोग्यस्थज्योतिः-शब्दगायत्रीशब्दयोः समन्वयस्य, तृतीयसूत्रे गायत्रीशब्दसमन्वयदृढीकरणस्याऽभिप्रेतत्वेन छान्दोग्यस्थ-ज्योतिर्गायत्रीवाक्ययोर् विषयवाक्यत्वप्राप्त्या इदमेव विषयवाक्यमित्यवधारणायोगात् कथमन्यथा ‘भूतादिपाद’ सूत्रव्याख्यानावसरे ‘तावानस्ये’त्यनया ऋचा गायत्र्या भूतादयश् चत्वारः पादा व्यपदिश्यन्ते। न च तस्य छन्दस्त्वे तदुपपद्यते। उपपद्यते च विष्णुत्व इत्यभिदध्यात्। तथा सन्न्यायरत्नावलीकृता सत्तर्कदीपावल्यां ज्योतिश्चरणाभिधानादिति सूत्रस्य ऐतरेये श्रूयते ‘वि मे कर्णा पतयत’ इत्यादीति अग्निसूक्तस्थज्योतिर्वाक्यस्य विषयवाक्यत्वेनोदाहरणाज् ज्योतिःसूत्रस्य छान्दोग्यवाक्यमेव विषयवाक्य-मित्यभिधानायोगात्। सन्न्यायरत्नावल्यां तु ‘छन्दोऽभिधाना’दिति सूत्रव्याख्यानरूपं ‘नित्यत्वादेव शब्दाना’मित्यनुव्याख्यानमवतार्य छान्दोग्यवाक्यस्य उदाहृतत्वाच् छन्दःसूत्रस्यैव तद्विषयवाक्यत्वमूह्यम्। ततश्च ज्योतिःसूत्रस्य छान्दोग्यवाक्यमेव विषयवाक्यमिति कल्पनं निर्मूलमिति। अत एव ज्योतिःसूत्रस्य छान्दोग्यमेव विषयवाक्यमित्युपपादनाय प्रवृत्तश् चन्द्रिकाग्रन्थोऽप्यनुवाद एव न तु वास्तवार्थनिरूपणाय प्रवृत्त इति बोध्यम्। एवमेवंजातीयके सर्वत्र द्रष्टव्यम्। ततश्च न दोषित्वमिति।

ननु – परं प्रति सिद्धार्थानुवादिनोऽपि दोषित्वमेव अयुक्तार्थवर्णनकृत्त्वात्। ‘एवमसौ ब्राह्मणं हन्ति, एवमसौ सुरां पिबती’ति ब्राह्मणहन्तुः सुरां पिबतः प्रत्यवायदर्शानादिति चेत्, न वैषम्यात्, एवमसौ ब्राह्मणं हन्तीति ब्राह्मणहन्तुर् ब्राह्मणहन्तृत्वादेव पातित्यं न तु अनुकरणात्। एवमसौ सुरां पिबतीति सुरां पिबतः सुरापानादेव पातित्यं न त्वनुकरणात्। अन्यथा एवमसौ ब्राह्मणं हन्तीति कदलीस्तम्भं छिन्दन्, प्रत्यवेयात्। एवमसौ सुरां पिबतीति पयःपिबन्नपि प्रत्यवेयादिति सुरापानाद्यनुकर्तुर् दोषित्वमाशङ्क्य समाहितं महाभाष्ये ‘यस्तु खल्वेवमसौ ब्राह्मणं हन्ति, एवमसौ सुरां पिबतीति तस्याऽनुकुर्वन् ब्राह्मणं हन्यात्, सुरां पिबेदिति तस्य अनुकुर्वन् ब्राह्मणं हन्यात्, सुरां पिबेदिति सोऽपि मन्ये पतितः स्यात्। विषमोऽयमुपन्यासः, यश्चैवं हन्ति, यश्चाऽनुहन्ति, उभौ तौ हतः। यश्च पिबति यश्चाऽनुपिबति उभौ तौ पिबतः, यस्तु खल्वेवमसौ ब्राह्मणं हन्ति, एवमसौ सुरां पिबति इति तस्य अनुकुर्वन् स्नाताऽनुलिप्तो माल्यगुणकण्ठः कदलीस्तम्भं छिन्द्यात् पयो वा पिबेन् न स मन्ये पतितः स्यादिति।

श्रुत्यधिकरणसङ्गती इति॥ दर्शयन्निति शेषः। ननु ‘यो वेदे’ति वाक्येन आनन्दमयस्य गुहानिहतत्वमुक्तमित्ययुक्तम्। अस्य वाक्यस्य ‘ब्रह्मविदाप्नोति पर’(तै.उ.२-१)मिति प्रकरणस्थत्वे-नानन्दमयप्रकरणगतत्वाभावादित्यत आह– मान्त्रवर्णिकस्यैवेति॥ ज्योतिषः प्रतीयत इति॥ अनेनाऽऽनन्दमयाधिकरणप्रतिपाद्यैतदधिकरणप्रतिपाद्ययोर्गुहानिहतत्वेन प्रतीयमानत्वं सङ्गतिरित्युक्तमिति बोध्यम्। एतच्चेति॥ यदीदं ज्योतिर् विष्णोरन्यत्स्यात् तर्हि प्रागुक्तमानन्दमयत्वं तस्यैवेति बुद्धिः प्रसज्यत इति एतद्ज्योतिर्निर्णेयं भवतीत्यर्थः। ननु – ज्योतिषोऽन्यत्वे प्रागुक्तमानन्दमयत्वमन्यस्यैव प्रसज्यत इत्ययुक्तं हेत्वभावात्। न हि यथा ज्योतिषोऽग्नित्वे प्रकरणं रूढिश्च साधकमस्ति, तथा आनन्दमयस्याग्नित्वे साधकमस्ति। येन ज्योतिषोऽग्नित्वे आनन्दमयस्यान्यत्वबुद्धिः स्यात्। प्रत्युत आनन्दमयस्यैव विष्णुत्व एव साधकमुपलभ्यते। ततश्च आनन्दमयस्य विष्णोरन्यत्वबुद्धिः प्रसज््यत इत्युक्तमयुक्तमिति चेत्, उक्तम् – किमुक्तम्, य एवानन्दमयाधिकरणे अधिकारी स एव नात्राधिकारी। अधिकरणानामनेकवेदवाक्यविचाररूपत्वादवान्तरविद्यात्वेन पृथगाधिकारिकत्वादिति। तथा च योऽधिकारी आनन्दमयाधिकरणप्रमेयं निश्चित्य ज्योतिर्वाक्यविचारे प्रवर्तते, मा भूत् तस्य ज्योतिषो विष्ण्वन्यत्वबुद्धौ आनन्दमयस्यापि अन्यत्वबुद्धिः। यस्तु प्रथमत एव ज्योतिर्वाक्यविचारे प्रवर्तते तस्य ज्योतिषो विष्ण्वन्यत्वबुद्धौ आनन्दमयवाक्यदर्शने आनन्दमयोऽप्यन्य एवेति बुद्धिर् भवेदेव। उभयत्रापि गुहानिहितत्वदर्शनात्। बाधकाभावेन तादात्म्यबुद्धेरनिवारणादिति। तदिदमुक्तं प्रसज्यत इति। एवमुत्तरत्रापि द्रष्टव्यम्। ज्योतिःश्रुतेरिति॥ यद्यपि पूर्वपक्षिणा गुहानिहितत्वस्य विष्णुधर्मत्वानङ्गीकारान् नेदं विष्णुलिङ्गत्वमेवेति वक्तुं शक्यम्, तथाप्यङ्गीकारपक्षे नेदं समाधानमुक्तमिति बोध्यम्। अनभिमत-व्यावर्तक एवशब्दः। ततश्च अग्नावेव रूढत्वादित्यर्थः। एतेन ज्योतिःशब्दस्य अग्निसूर्यादितेजोमात्र-रूढत्वाद् अग्नावेव रूढत्वादित्ययुक्तमिति परास्तम्। ननु ज्योतिःशब्दस्य सामान्यधर्मावच्छिन्नवाचकस्य अग्नौ शक्तिसद्भावेऽपि नाग्नित्वेन रूपेण तदुपस्थापकत्वं, किं तु ज्योतिष्ट्वेन रूपेणाग्न्युपस्थापकत्वं वाच्यम्। अग्नित्वेन तदुपस्थापकत्वे लक्षणाप्रसङ्गेन अग्नौ रूढत्वादिति उक्तयोगापातादिति चेत्, न – ज्योतिःश्रुत्याऽग्नित्वेनोपस्थित्यनङ्गीकारात्। किन्तु प्रकरणबलेन अग्नित्वेनोपस्थितिरङ्गीक्रियते। अयमत्र क्रमः – ज्योतिष्ट्वेनैव ज्योतिःशब्देनाप्युपस्थितौ, अयं ज्योतिशब्दार्थो ऽग्निर्भवेत्, अग्निसूक्तान्तर्गत-ज्योतिःशब्दार्थत्वादित्यनुमानेन अग्नित्वेन उपस्थितेः। अत एव अस्य सूक्तस्याऽग्निसूक्तत्वादित्युक्तम्। अन्यथा प्रसिद्धेरग्निर्भवेदित्येवाऽवक्ष्यत्। ननु प्रकरणेनैव पूर्वपक्षसम्भवात् श्रुत्युपन्यासो व्यर्थ इति चेन् न – प्रकरणस्य दुर्बलत्वात्। गुहानिहितत्वलिङ्गबाधेन तावन्मात्रस्य पूर्वपक्षहेतुत्वायोगात्। श्रुतिलक्षणसहकारिसंपत्तौ च तद्योग इति युक्तः श्रुत्युपन्यास इति। जाठर इति॥ लिङ्गस्या-पीत्यङ्गीकारवादः। तथा चेत्युत्तरग्रन्थोऽङ्गीकारवादेन प्रवृत्त इति बोध्यम्। एतेन तस्य गुहानिहितत्वमानन्दमयत्वं चेति वदतः लिङ्गस्य सावकाशत्वेन दौर्बल्यकथनमयुक्तमिति परास्तम्।

पूर्वपक्षस्तु– अग्निरेवेदं ज्योतिः। तस्य सूक्तस्य अग्निसूक्तत्वात्। न च लिङ्गात् प्रकरणस्य दुर्बलत्वेन गुहानिहित त्वलिङ्गात्प्रकरणबाधः। ज्योतिःश्रुतेरग्नौ निरूढत्वात्, विष्णोस्तदभावात्। न च लिङ्गस्य निरवकाशत्वेन श्रुतिप्रकरणबाधकत्वमिति वाच्यम्। लिङ्गस्यापि जाठरजातवेदसि सावकाश-त्वात्। अस्तु वा लिङ्गस्य निरवकाशत्वं, तथापि लिङ्गस्य निरवकाशत्वरूपमेकविधमेव प्राबल्यम्। श्रुतिप्रकरणयोस्त्वनेकत्वप्रयुक्तम्। श्रुतेश्च स्वभावत्वप्रयुक्तमपीति श्रुतिप्रकरणाभ्यामेव लिङ्गबाधो युक्तः। एवं च – अस्य ज्योतिषो ऽग्नित्वात् प्रागुक्तगुहानिहितत्वमानन्दमयत्वं च तस्यैवेति॥

सिद्धान्तस्तु– विष्णुरेव ज्योतिः। कर्णादिविदूरत्वस्य विष्णुलिङ्गत्वात्। बहुत्वस्वभाव-बलवत्त्वरूपोभयविधप्राबल्यादपि निरवाकशत्वप्राबल्यस्य बलवत्त्वेन लिङ्गेन श्रुतिप्रकरणबाधोपपत्तेः। महायोगविद्वद्रूढिसद्भावेन श्रुतेर्विष्ण्वावेव मुख्यत्वाच्च। तस्माद्विष्णुरेवेदं ज्योतिः। तस्यैव गुहानिहितत्वमानन्दमयत्वं चेति सिद्धम्। (अ.१०)

वाक्यार्थमुक्तावली

ॐ ज्यातिश्चरणाभिधानात् ॐ। मान्त्रवर्णिकलिङ्गस्य कथमानन्दमयस्थत्वमित्यतः प्रागुक्तं स्मारयति मन्त्रवर्णेति। एतेन मान्त्रवर्णिकसूत्रसङ्गत्याऽनन्दमयाधिकरणेन सङ्गतिरित्युक्तं भवति। अव्यवहित-सङ्गतिस्तु ज्योतिश्शब्दस्याग्निसूक्तगतत्वात्सूक्तानां चाधिदैवाध्यात्मादिभूतगताग्निप्रशंसकत्वेन त्रितय-परत्वादधिदैवाधिभूताध्यात्मविचारपराधिकरणत्रयानन्तरमभ्यधिकाशङ्कानिवर्तनायास्याधिकरणस्य प्रवृत्तिः। विशिष्याध्यात्मं हृदयगुहानिहितत्वाक्षेपात् प्राणविचारानन्तर्यमिति वीत्युपसर्गस्य व्यवहिताश्चेति पाणिन्युक्तेः कृपापदेनान्वय इत्याह विरुद्धमिति॥ पतयत इति स्वार्थे णिजिति भावेनाह पतत इति॥ वीदमित्यत्र कम्पार्थोऽत्यन्तमिति। किं शेषग्रहे क्वापि लज्जायां वा पुरातने। पृथक्त्वे धृष्यतायां च हरिणां संहितेरित इति ऋग्भाष्ये शेषग्रहार्थकत्वोक्तेरिहात्यन्तमशेषेन्द्रियदूरत्वमर्थ इति भावः। दूर इत्यस्यार्थोऽतीवेति। यद्यपि दूर आधीरित्येकं पदम्। तथाप्यवग्रहदर्शनात्तस्य पृथक्पदतुल्यत्वाद् बुध्या विवेकेन मनश्च दूरे विचरतीति व्याख्यातम्। आधीरित्याङोऽर्थः व्याप्तेति। किं विष्णुरिति। अत्र ज्योतिः किमग्निरुत विष्णुरिति चिन्ता। तदर्थं ज्योतिर् उपोद्बलकमग्निसूक्ताख्यं प्रकरणं च कर्णादिविदूरत्वलिङ्गबाधकमुत तद्बाध्यमिति। तदर्थं कर्णादिविदूरत्वं सावकाशमुत निरवकाशमिति। तच्च ज्योतिरिति भाष्यस्य गुहानिहितत्वाख्यविष्णुलिङ्गघटितमपि ज्योतिरित्यर्थः। अत एव वक्ष्यति जाठरजातवेदसलिङ्गस्यापि सावकाशत्वादिति।

ज्योतिःश्रुतेरग्नावेवेति॥ ननु कथमग्नावेवेत्यवधारणं ज्योतिश्शब्दस्य तमोविरोधिमात्रे रूढत्वादिति चेन्न। एतत्सूक्तस्याग्निसूक्तत्वेन सामान्यशब्दस्य विशेषपर्यवसानात्। अग्निर्ज्योतिरिति द्वेधैवार्चिषः सम्प्रतिष्ठितिः। अग्निं गत्वा ज्योतिरेतीत्यादौ अग्नौ रूढत्वाच्चेति ज्ञेयम्। यावता यस्मात्। ननु यदि ज्योतिश्रुतिरग्निदेवतापरा तर्ह्यन्तर्नयन्यायेन विष्णुपरा सेत्स्यतीति भावेन शङ्कते श्रुतिरिति। सूत्रार्थमाह विष्णुरेवेति। सूत्रे तत्त्वित्यनुवर्तते। उपसर्गस्य धात्वर्थव्यञ्जकत्वाद्धातोरेव विचरणाभिधायकत्वमित्यभिप्रेत्य चरणाभिधानादित्युक्तं, ज्योतिरिति व्यस्तं ज्योतिश्चरणेति समस्तं च पदं ततश्च ज्योतिर्विष्णुरेव कर्णादीनां ज्योतिषो विरुद्धचरणाभिधानादिति सूत्रार्थः। अत्र स्पस्टं विचरणेति वाच्ये चरणेत्युक्तिस्तु श्रुत्यनुगमप्रदर्शनाय। विचरणेत्युक्तौ वीत्यस्य मे मन इति पदद्वयेन व्यवहितत्वात् श्रुत्यनुगमो न ज्ञायते। विपतनाभिधानादिति वाच्ये चरणेति चरमचरणग्रहणं तु प्रधानेन्द्रियक्रियात्वादिति बोध्यम्॥ न च प्रकरणेति॥ सूक्तस्थप्रकरणस्याग्नित्वव्यवस्थापनादन्यभेदमग्निसूक्तमिदं विष्णुसूक्तमिति सूक्तादिव्यवस्था न स्यादिति भावः॥ प्रकरणबाधेति॥ अभिव्यक्तिरिति वक्ष्यमाणत्वादिति भावः॥ श्रुतेरिति॥ अन्तरधिकरणन्यायेन सावकाशत्वादिति भावः॥ महायोगेति॥ ज्योतिःपदप्रवृत्तिनिमित्तस्य प्रकाशत्वादिरूपज्योतिष्ट्वस्य विष्णुगतत्वादन्यगतस्याप्यनुकृत्यधिकरणन्यायेन तदधीनत्वान्महायोगस्य तद्देवा ज्योतिषां ज्योतिः। नारायणपरो ज्योतिः। विष्णुरेव ज्योतिः। ज्योतिषामपि तज्ज्योतिरित्यादिरुढेरपि सद्भावेनेत्यर्थः।

तत्त्वसुबोधिनी

ॐ ज्योतिश्चरणाभिधानात् ॐ॥ ननु यो वेद निहितं गुहायामिति वाक्यं न आनन्दमयप्रकरणगतं किन्तु ब्रह्मविदाप्नोति परमिति प्रकरणगतं तथा च कथं तेनानन्दमयस्य गुहानिहितत्ववचनमित्यत आह॥ मन्त्रवर्णोक्तस्यैवेति॥ तथा चास्याधिकरणस्य मान्त्रवर्णिकसूत्रसङ्गत्या आनन्दमयाधिकरणेन सङ्गतिरिति भावः। इन्द्रादिशब्दानां विष्णुपरत्वेऽपि न ज्योतिःशब्दस्य तत्परत्वम् अग्निसूक्तस्थत्वरूप-विशेषहेतुना ज्योतिःशब्दस्य अग्निपरत्वादिति पूर्वाधिकरणवैषम्येण पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिरिति भावः। विरुद्धं पतत इत्यादौ विरुद्धमित्येतद्वि इत्यस्यार्थ इति बोद्धव्यम्। मनश्चातीवेत्यत्रातीवेति दूर इत्यस्यार्थः। दूर आधीरित्यस्यैकपदत्वेऽपि अवग्रहदर्शनाद्दूर इत्यस्य पृथक्कृत्य पूर्वत्रान्वयकरणमुपपद्यत इति भावः। आधीरित्याङोऽर्थो व्याप्तेति। ननु लिङ्गेन ज्योतिःश्रुतेर् बाधः किं न स्यादित्य आह॥ न हीति॥ यावता कारणेन श्रुतितो दुर्बलमतः कारणान्न तद्बाधने शक्तमिति भावः। विचरणाभि-धानादिति॥ यद्यप्यत्र ज्योतिः प्रति कर्णादीनां विरुद्धाचरणरूपकर्णादिविदूरत्वं वक्तुं विचरणाभि-धानादिति सूत्रयितव्यम्। तथाप्युपसर्गस्य द्योतकत्वमात्रं धातोरेव विचरणाभिधायकत्वमिति प्रदर्शनार्थं सूत्रस्य श्रुत्यनुगमप्रदर्शनार्थं च चरणाभिधानादिति उक्तम्। विचरणाभिधानादित्युक्तौ हि श्रुतौ वीत्यनेन चरतीत्यस्य मे मन इति पदद्वयेन व्यवहितत्वात् श्रुत्यनुगमो न ज्ञायेतेति द्रष्टव्यम्। मात्रया पर इत्यनेन अपरिच्छिन्नत्वमुच्यते न तु कर्णादिविदूरत्वम्। अतः कथं तत्र प्रमाणम् इत्यत आह। मीयन्त इति॥ १०॥

वाक्यार्थविवरणं

ननु कर्णादेर्विरुद्धपतनेऽपि यत्र कर्णादिकमस्ति तत्र ज्योतिः स्वयमेवागत्य विषयो भवत्विति चेत्तत्राह। यदिदमिति॥ वैय्यधिकरण्यपरिहाराय स हि कर्णादिविदूर इति भाष्यानुरोधाय च व्याख्याति। कर्णादिविदूरत्वलिङ्गादित्यर्थ इति॥

वाक्यार्थमञ्जरी

ननु गुहानिहितत्वं मन्त्रवर्णे श्रूयते न त्वानन्दमयप्रकरणे। अतः कथं तदानन्दमयनिष्ठतयोच्यत इत्यतः प्रागुक्तं स्मारयति॥ मन्त्रवर्णेति॥ पततश् चरतः। वीदमित्यत्र कम्पार्थोऽत्यन्तमिति। दूर इत्यस्यार्थो अतीवेति। आङोऽर्थो व्याप्तेति। दूर आधीरित्यस्यैकपदत्वेऽपि दुःखण्डदर्शनाद्दूर इत्येतत्पृथक-कृत्यास्य पूर्वत्रान्वयकरणमुपपन्नम्। नुशब्दार्थ इदानीमिति प्रकरणमात्रस्य लिङ्गतो दौर्बल्येऽपि श्रुति-सहितस्य प्राबल्यं सम्भवतीत्याशयेनाह॥ ज्योतिःश्रुतेरिति॥ यावता येन प्रकारेण॥ ॐ ज्योतिश्चरणाभिधानात् ॐ॥ ज्योतिर्हृदय इत्युक्तं ज्योतिर्ब्रह्मैव। वि मे कर्णेत्यादिना विरुद्धचरणोक्तेः। कर्णादिसर्वेन्द्रियदूरत्वलिङ्गादित्यर्थः। वैय्यधिकरण्यनिरासाय कर्णादिविदूर इत्युत्तरभाष्यानुसारेणाह॥ कर्णादिविदूरत्वेति॥ अत्र कर्णादिविदूरत्वं नाम इयदितिपरिच्छेदरहितवैभवत्वं बोध्यम्। यापयति ज्ञापयति॥ महायोगेति॥ निरवधिकप्रकाशवत्वाद् अग्न्यादिनिष्ठप्रकाशनियामकत्वात्। ज्योतिषां ज्योतिः। नारायणपरो ज्योतिः। विष्णुरेव ज्योतिरित्यादिवैदिकप्रयोगबाहुल्याच्चेति भावः॥ निरवकाश-लिङ्गेनेति॥ अग्निर्वै देवानामवम इत्यवमतया भीषाऽस्मादग्निस्तपतीति सभयतया परिह्येनं म्रियन्ते विद्युद् वृष्टिश्चन्द्रमा आदित्योऽग्निरिति मरणादिमत्तया च श्रुतस्याग्नेरपरिच्छिन्नवैभवासम्भवादिति भावः

॥ १०॥

विवृतिः

ननु यो वेद निहितं गुहायामिति वाक्यं नानन्दमयप्रकरणगतं किन्तु ब्रह्मविदाप्नोति परमिति प्रकरणगतम्॥ तथा च कथं तेनानन्दमयस्य गुहानिहितत्ववचनमित्यत आह॥ मन्त्रवर्णोक्तस्यैवेति॥ तथा चानन्दमयाधिकरणेन सङ्गतिरिति भावः॥ इन्द्रादिशब्दानां विष्णुपरत्वेऽपि न ज्योतिःशब्दस्य विष्णुपरत्वम् अग्निसूक्तस्थत्वरूपहेतुना ज्योतिःशब्दस्याग्निपरत्वादिति पूर्वाधिकरणवैषम्येण पूर्वपक्षोत्थाना-दनन्तरसङ्गतिरिति भावः॥ विरुद्धं यत इत्यादौ विरुद्धमेतद्वि इत्यस्यार्थ इति बोद्धव्यम्॥ मनश्चाती-वेत्यत्रातीवेति दूरे इत्यस्यार्थः॥ दूर आधीरित्यस्यैकपदत्वेऽपि अवग्रहणदर्शनाद्दूर इत्यस्य पृथक्कृत्य पूर्वत्रान्वयकरणमुपपद्यत इति भावः॥ आधीरित्याङोऽर्थो व्याप्तेरिति॥ ननु लिङ्गेन ज्योतिःश्रुतेर्बाधः किं न स्यादित्यत आह॥ न हीति॥

यावता कारणेन श्रुतितो लिङ्गं दुर्बलम् अतो न तद्बाधने शक्तमिति भावः। मात्रया पर इत्यनेनापरिच्छिन्नत्वमुच्यते न तु कर्णादिविदूरत्वमतः कथं तत्र प्रमाणमित्यत आह॥ मीयन्त इति॥

॥ इति ज्योतिरधिकरणम्॥