ॐ अत एव प्राण ॐ
९. प्राणाधिकरणम्
सूत्रभाष्यम्
॥ ॐ अत एव प्राणः ॐ॥ २३॥
‘तद्वै त्वं प्राणो अभवः महान्भोगः प्रजापतेः। भुजः करिष्यमाणः यद्देवान्प्राणयो नव’ इति (तै.आ.३-१४) महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम्। स च प्राणः प्रसिद्धेर्वायुरित्यापतति। न चैवम्। यतो विष्णुरेव प्राणः। अत एव ‘श्रीश्च ते लक्ष्मीश्च पत्न््नयौ अहोरात्रे पार्श्वे’ (तै.आ.३-१३) इत्यादितल्लिङ्गादेव॥ २३॥
सत्तर्कदीपावली
उक्तन्यायेन श्रुत्यन्तरस्य विष्णुपरत्वं च साधयत्सूत्रपन्यस्य व्याचष्टे। अत एवेत्यादिना। इदमाम्ना-यते। तद्वै त्वं प्राणोऽभव इति प्राणशब्दस्य वायौ रूढत्वात्तेनात्र तावद्वायुरेवोच्यते। न च गताधिकरण-न्यायेन प्राणशब्दार्थो विष्णुरिति सिद्ध्यति। यद्देवान्प्राणयो नवेति वाक्यशेषविरोधात्। नवशब्दोप-लक्षितेन्द्रियदेवादिप्रणेतृत्वस्य प्राणलिङ्गत्वात्। आनन्दमयत्वं विष्णोरेवोक्तम्। तदपि न युज्यते महान् भोग इति प्राणशब्दार्थस्य वायोः परानन्दश्रवणात्। भुज्यत इति भोग इति आनन्दस्य भोगशब्देन ग्रहणा-दित्येतं पक्षं प्रतिक्षिपति॥ न चैवमित्यादिना॥ श्रीश्च ते लक्ष्मीश्च पत्न््नयाविति श्रूयमाणं द्विरूपलक्ष्मी-पतित्वं प्राणशब्दार्थो विष्णुरेवेति ज्ञापयति। न हि वायोर्लक्ष्मीपतित्वं युज्यते। यदुक्तं देवप्रणेतृत्वं प्राणलिङ्गं तत्प्रेरके हृषीकेश एव मुख्यं प्राणस्य प्राणमिति श्रुतेरित्यर्थः। (१।१।९)
तत्त्वप्रदीपिका
अत एव प्राणः। तद्वै त्वमित्यादेरयमर्थः। तस्माद्धि त्वं प्राणोऽभवः। कस्मात् ? प्रजापतेर्भोगा-न्करिष्यमाणो नव देवान् तदिन्द्रियस्थान्प्राणय इति यत्। भुज्यत इत्यानन्दो भोगः। नवत्वं पायूपस्थयोरेकीभावेन। अङ्कं श्रिता श्रीः। वक्षसि लक्षणभूता लक्ष्मीः। अहोरात्रे पुरुषकालौ पार्श्वस्थौ। ‘हरिं हरन्तमनुयन्ति देवा’ ‘विश्वस्येशानं वृषभं मतीनाम्’ इत्यादिकमादिशब्द आदापयति। सर्वाध्यात्मोप-लक्षणार्थः प्राणशब्दः॥ इति प्राणाधिकरणम्।
तत्त्वप्रकाशिका
अन्यत्राप्येवमिति ज्ञापनार्थमत्र सूत्रमादावेव पठति॥ अत एवेति॥ अत्र लोकतोऽन्यत्र-प्रसिद्धप्राणनाम्नो विष्णौ समन्वयसमर्थनादस्ति शास्त्रादिसङ्गतिः। विषयवाक्योदाहरणपूर्वकं सङ्गतिं विषयसंशयौ च सूचयति॥ तदिति॥ यदुदितमानन्दमयत्वं विष्णोस्तत्कस्यचित्प्राणस्य तद्वै त्वमिति वाक्ये महाभोगशब्देन प्रतीयते। यस्माद् ब्रह्मणो भोगान्करिष्यमाणः कुर्वाणोऽकार्षीश्च तस्मात् त्वं महाभोगोऽभवः। स्वस्य महाभोगाभावे परस्मै तद्दानानुपपत्तेः। यस्मात्पायुगुह्यैक्येन नवेन्द्रियाभिमानिनो देवानचेष्टयश्चेष्टयसि च चेष्टयिष्यसि च तस्मात्त्वं प्राणश्चाभव इति। तस्य च प्राणस्य विष्णोरन्यत्वेऽ-न्यस्यैवाऽऽनन्दमयत्वं स्यादित्ययं निर्णेयो भवति। स प्राणोऽत्र विषयः। किं विष्णुरुत वायुरिति सन्देहः। महाभोगत्वं प्राणशब्दस्यान्यत्र प्रसिद्धिश्च सन्देहबीजमिति भावः। तत्र सयुक्तिकं पूर्वपक्षयति॥ स चेति॥ स प्राणो वायुर्भवेत्। प्राणशब्दस्य तस्मिन्प्रसिद्धेः। न च महाभोगत्वं श्रुतिबाधकम्। श्रुतितो लिङ्गस्य दौर्बल्यात्। न च सावकाशत्वादिना बाध्यबाधकभावः। महाभोगवत्त्वस्यैव वायौ सावकाशत्वात्। प्राणश्रुतेर्विष्णावनवकाशात्। न हि तावत् प्राणपदस्य तत्र रूढिरस्ति। नापि योगः सम्भवति। प्राणशब्द-प्रवृत्तिनिमित्तजीवनकारणत्वस्यान्वयव्यतिरेकाभ्यां वायावेव दर्शनात्। ‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा’ इत्यादेः। तथा च निरवकाशप्राणश्रुत्या महाभोगत्वलिङ्गस्य सावकाशस्य सुतरां बाधोपपत्तेर्वायुरेवायं प्राणः प्रागुक्तानन्दमयश्च। प्राणशब्दस्य अन्यत्र वृत्तावपि ‘मुखे मुख्यः प्रकीर्तितः’ इति मुख्यवायावेव मुख्यत्वात्स एव प्राणो भवेदिति भावः। सिद्धान्तयति॥ न चेति॥ कुतो नैवमित्याशङ्कायां हेतुतया सूत्रं व्याचष्टे॥ यत इति॥ यतोऽयं प्राणो विष्णुरेवेति स एवानन्दमयोऽतो वायुरयं प्राण आनन्दमयश्चेत्येतन्न युक्तमित्यर्थः। कुतोऽयं प्राणो विष्णुरेव इत्यतः सौत्रं हेतुमुपादाय व्याचष्टे॥ अत एवेति॥ श्रीलक्ष्मीपतित्वादिविष्णुलिङ्गात् प्राणो विष्णुरेवेत्यर्थः। वक्षस्थलाश्रिता श्रीरिति सम्प्रदायविदः। कथं श्रुत्या पूर्वपक्षिते सति लिङ्गेन निर्णय इति चेद् लिङ्गस्य निरवकाशत्वात् प्राणश्रुतेर्विष्णावपि सावकाशत्वान् निरवकाशेन सावकाशस्य बाधोपपत्तेः। रूढियोगयोरभावात् कथं विष्णौ प्राणश्रुतेरवकाश इति चेन्न। ‘ईशानः प्राणदः प्राणः’ इत्यादिविद्वद्रूढेर्महायोगस्य च सत्वात्। न च जीवनस्य प्राणान्वयव्यतिरेकविरोधः। प्राणगतजीवनकारणत्वस्यापि भगवदधीनत्वात्। तथा च श्रुतिः -
‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ इति।
तस्मादाध्यात्मिकाशेषशब्दोपलक्षकप्राणशब्दवाच्यो हरिरेवेति (स्थितम्) सिद्धम्॥ २३, अ. ९॥
गुर्वर्थदीपिका
अन्यत्राप्येवमित्यत्राधिकरणार्थनिर्णायकसूत्रस्यैव सर्वत्रापि प्राधान्यात्तस्यैव सर्वाधिकरणेष्वप्यादौ पाठः कार्य इति सूचयितुमित्यर्थः। तर्हि सर्वत्रापि तथैव पाठः कुतो न कृत इति चेत्सत्यं गङ्गोदकेन रथ्योदकानां नैर्मल्यकरणवन्मध्ये मध्ये सङ्कलय्य पठनेन स्ववचसां पवित्रीकरणायेति ब्रूमः। अत एव विष्णुलिङ्गादेव प्राणो विष्णुरिति यथास्थितसूत्रार्थस्यैवं न चेति पूर्वपक्षनिषेधहेतुत्वादर्शनाद्यस्मात्प्राणो विष्णुरिति निर्णीतस्तस्मादेवं प्राणोऽन्यो न चेति हेतुहेतुमद्भावं स्फोरयितुं यत्तच्छब्दावध्याहृत्य प्राक् सौत्रप्रतिज्ञां समाकृष्य पूर्वपक्षं तावन्निषेधति यत इति। प्राणस्य विष्णुत्वनिर्णीतिरेव कुत इत्यत अत एव विष्णुलिङ्गादेव प्राणो विष्णुरिति यथास्थितसूत्रं व्याख्याति अत एवेति॥ एतदेवाभिप्रेत्योक्तं सौत्रं हेतुमुपादायेति। श्रीभूदुर्गाख्यरूपत्रयसम्भवेऽपि श्रीर्लक्ष्मीरिति च रूपद्वयाभावात्पत्न््नयाविति द्विवचनानुपपत्तिरिति शङ्का माभूदिति भावेनोक्तं वक्षःस्थलेति॥ कथमन्यथा श्रीवत्स इत्येव भगव-ल्लिङ्गस्य नाम न तु लक्ष्मीवत्स इति भावः। ‘को नाम विष्ण्वनुपजीवक आस यस्य नित्याश्रया-दभिहिताऽपि रमा सदा श्रीः’ इति तात्पर्यनिर्णये रमाऽपि यस्य वक्षसि नित्याश्रयात्सदा श्रीरित्याभि-हितासेति सम्प्रदायप्रवर्तकश्रीमदाचार्यैरेव कथितत्वात्सम्प्रदायविद इत्युक्तम्। इति प्राणाधिकरणम्॥
भावबोधः
सू०॥ ॐ अत एव प्राणः ॐ॥ सङ्गतिमिति। श्रुत्यधिकरणसङ्गतिमित्यर्थः। अव्यवहित-पूर्वाधिकरणसङ्गतिस्त्वत्राभ्यधिकाशङ्कानिवर्तकत्वेन, अत एवेति पूर्वोक्तहेत्वतिदेशात्, आतिदेशिकरूपा
अध्यात्ममन्वयव्यतिरेकतः।
प्राणादिहेतुतादृष्टेरतिदेशो हि तादृशः॥
इत्यनुव्याख्यान एवोक्ता। यद्वा, ‘आकाशाद्वायुः’ इति श्रुतिक्रमादाकाब्दविचारानन्तरमत्र वायुवाचकप्राण (प्रमाण) शब्दविचारद्वारा सङ्गतिर् द्रष्टव्या। करिष्यमाणः प्राणो य इति प्रयोगवैचित्र्येण कालत्रयेऽपि तत्कर्तृत्वं श्रुत्यभिप्रेतमित्याशयेन कुर्वाण अकार्षीरिति चेष्टयसि चेष्टयिष्टसीति चोक्तमिति ज्ञेयम्॥ किमिति॥ अत्र प्राणः किं मुख्यवायुरुत विष्णुरिति चिन्ता। तदर्थं प्राणश्रुतिः किं श्रीपतित्वादिलिङ्गबाधिका, उत तद्बाध्येति। तदर्थं सा श्रुतिर्निरवकाशा उत सावकाशेति। तदर्थं तत्कल्पकान्वयव्यतिरेकौ किं मुख्यवायोरेवानन्यथासिद्धौ, उत विष्ण्वन्वयव्यतिरेकोपजीवित्वे-नान्यथासिद्धाविति। तदर्थं तयोस्तदुपजीवित्व एतत्कल्पकत्वेनाभिमतश्रीपतित्वादिलिङ्गस्य निरवकाशत्वे च प्रमाणं नास्त्युतास्तीति। जीवनकारणत्वस्यान्वयव्यतिरेकाभ्यामिति। अनेन पूर्वाधिकरणोदाहृत-न्यायविवरणगतजीवनान्वयव्यतिरेकेत्यंशो व्याख्यातो भवति॥ अन्यत्र प्रवृत्तावपीति॥ वायुवृत्ता-विन्द्रियेष्वपीत्यर्थः। स एव प्राणो भवेदिति। अन्यथा महाभोगत्वादिकं विरुद्धं स्यादिति भावः। सम्प्रदायविद इति॥ अनेन श्रयत इति श्रीरिति श्रीशब्दनिर्वचनपूर्वकं लक्ष्मीशब्देन पौनरुक्त्यं परिहृतं भवति॥ लक्ष्म्या अङ्कगतत्वप्रसिद्धेः॥ लिङ्गस्य निरवकाशत्वादिति॥ अनेनानन्यथासिद्धलिङ्गैरिति न्यायविवरणं पूर्ववद्विवृतं भवति। निरवकाशेन सावकाशस्य बोधोपपत्तेरिति। अनेन सन्दिग्धश्रुति-लिङ्गाभ्यामिति पूर्वमुदाहृतन्यायविवरणं पूर्ववद्व्याख्यातं भवति। ‘प्रेरकोऽस्यापि यद्धरिः’ इत्यनुव्याख्यानं मनसि निधायाऽऽह– प्राणगतेति॥ ९॥
भावदीपः
॥ ॐ अत एव प्राणः ॐ॥ अन्यत्राप्येवमिति॥ व्याख्येयसूत्रमेव सर्वत्राप्यादौ पाठ्यं पश्चाद्विषयादिकं वाच्यमिति सूचयितुमित्यर्थः। क्वचित् सङ्गत्यादिपूर्वकं तत्पाठस्तु श्रोतृबुद्धिसौकर्याद्याशयेनेति भावः। एतेन सङ्गतिपूर्वकत्वाभावान्नेदमधिकरणान्तरमिति चोद्यं प्रत्युक्तम्। एतेन छन्दःसूत्राद्यपि अधिकरणान्तरमेव न तु प्राचां रीत्या ज्योतिरधिकरणशेष। इति सूचितम्॥ सङ्गतिमिति॥ आनन्दमयाधिकरणतद्विषयवाक्याभ्याम् एतदधिकरणैतद्विषयवाक्ययोरित्यर्थः। सङ्गतिपरत्वने तावद्भाष्यं व्याकुर्वन् उक्तमित्यन्तस्यार्थोक्त्या तां व्यनक्ति॥ यदुदितमिति॥ भाष्ये यत्तदोः शेषः। परमानन्दत्वमित्यस्यार्थः॥ आनन्दमयत्वमिति॥ यत्परमानन्दत्वमुक्तं पूर्वत्र तन्महा-भोगशब्देन प्राणस्य प्रतीयत इति शेषोक्त्या योजना सूचिता। प्रतीयत इत्येतत् श्रुत्यर्थोक्त्या व्यनक्ति॥ यस्मादिति॥ श्रुतौ यत्तदोरावृत्तिरिति भावः। भुजः भोगान्। करिष्यमाण इत्यादिरुपलक्षणमिति मत्त्वाऽऽह॥ कुर्वाण इति॥ यद्देवान्प्राणयो न वेत्यस्यार्थः॥ यस्मादित्यादि॥ पूर्वभागार्थोक्त्यैव पूर्तौ शेषोक्तिरुत्तरत्रोपयोक्ष्यत इति भावः। ऐक्येन ऐक्यविवक्षया अनेन प्राणन्ति जीवन्ति अनेनेति प्राण इति नवदेवोपलक्षितसर्वजीवनहेतुत्वरूपः प्राणपदयोगः पूर्वपक्षाद्युपयोगाय दर्शितः। इतिशब्दस्य इति प्रतीयत इति पूर्वेणान्वयः। स चेत्यादिभाष्यभावमाह॥ तस्य चेति॥ अन्यत्व इति॥ प्रसिद्धिबलाद्वायुत्व इत्यर्थः॥ अन्यस्यैवेति॥ विवक्षितनिरतिशयपूर्णानन्दत्वस्य द्वयोरेकमेवाद्वितीयं ब्रह्मेत्यादिश्रुतिविरोधेन अयोगादिति भावः। इत्ययमित्यत्र इतिशब्दो हेत्वर्थः। इति पूर्वाक्षेपरूप-सङ्गतिसद्भावाद्धेतोरित्यर्थः। स इति पूर्वाक्षेपकमहाभोगत्वयुक्त इत्यर्थः। इति पूर्वाक्षेपरूपसङ्गति-सद्भावाद्धेतोरित्यर्थः। स इति पूर्वाक्षेपकमहाभोगत्वयुक्त इत्यर्थः। पूर्वपक्षतद्युक्तितत्फलपरत्वेनाप्येतद्भाष्यं व्याकुर्वन् स चेति भाष्यं तावदवतार्य व्याचष्टे॥ तत्रेति॥ वायुर्मुख्यप्राणो भवेदित्यर्थः। महाभोगत्व-मित्युपलक्षणम्। श्रीलक्ष्मीपतित्वादिब्रह्मलिङ्गं चेत्यपि ज्ञेयम्॥ दौर्बल्यादिति॥ शब्दादेवेत्यत्र वक्ष्यमाणन्यायेनेति भावः। ननु निरवकाशलिङ्गेन सावकाशश्रुतिबाधः पूर्वमुक्तः। तथेहापि स्यादिति शङ्कते॥ न चेति॥ सत्यमेवं न तु इह निरवकाशलिङ्गमस्ति येन तन्न्यायविषयत्वमत्र स्यादिति भावेन सौत्रैवकारव्यावर्त्यमाह॥ महाभोगस्यैवेति॥ प्रजापत्युपलक्षितानां सर्वजीवानां सकलभोग-कारणत्वमन्वयव्यतिरेकाभ्यां मुख्यस्य इति सुधोक्तदिशेति भावः। उपलक्षणमेतत्। श्रीपतित्वादेरद्भ्यः सम्भूत इत्यनुवाकान्तरे श्रवणेन भर्ता सन्नित्यनुवाकस्थप्राणनिष्ठत्वाभावेन वा श्रीलक्ष्म्यादिशब्दानामपि योगेन तत्प्राणभार्यापरत्वेन वा सावकाशत्वादित्यपि ध्येयम्। उक्तं च सुधायां न चात्र वाक्ये पूर्ववदनन्यथासिद्धं किमपीश्वरलिङ्गमस्ति येन श्रुतिबाधं प्रत्येष्याम इति। सुधायां गतार्थत्वमाशङ्क्याधिका-शङ्कोक्तिरपि वास्तवलिङ्गनिरवकाशत्वोपगमपक्ष एवेति ध्येयम्। एवं निर्बाधरूढप्राणश्रुत्यादिसिद्धेऽपि प्राणाश्रितपूर्वपक्षे तद्दार्ढ्यायाभ्युच्चयत्वेन श्रुतेर्निरवकाशत्वमप्याह॥ प्राणश्रुतेरिति॥ अत एव वक्ष्यति सुतरामिति॥ न तावदिति॥ लोकप्रयोगाभावादिति भावः। ‘अध्यात्ममन्वयव्यतिरेकतः। प्राणादिहेतुतादृष्टेः’ इरित्यनुभाष्योक्तमेव हेतुमाह॥ प्राणशब्देति॥ जीवनकारणत्वस्येति॥ यद्देवान् प्राणयो नव। तत्प्राण इति वाक्यशेषे तस्यैवोक्तेरिति भावः। एतदर्थमेव पूर्वं शेषस्याप्यर्थोक्तिः। ननु मुख्यवायोरतीन्द्रियत्वात् प्राणे सति जीवनं तदभावे तदभाव इति कथमन्वयव्यतिरेकाभ्यां जीवनहेतु-त्वस्य मुख्यवायौ दर्शनमित्यतः प्रत्यक्षतोऽभावेऽपि शब्दात्स्यादेवेत्याह॥ यत्प्राप्तिरिति॥ श्रेष्ठश्चेत्यत्र द्वितीये भाष्योक्ता स्मृतिः। एतेनाध्यात्मगतशब्दानामन्वयव्यतिरेके विद्यमानेऽपीति न्यायविवरणांशो विवृतः। भाष्ये प्रसिद्धेरित्यस्य जीवनहेतुत्वरूपप्राणपदप्रवृत्तिनिमित्तस्य स्मृतिबलेन वायावेव प्रसिद्धे-रित्यप्यर्थ उक्तो भवति। उक्तं च सुधायाम्। भाष्येऽप्यस्य सर्वस्य स्वीकारार्थं प्रसिद्धेरित्याहेति। तेनेयं प्रमेयाश्रिता शङ्का च भाष्यारूढैवेति ज्ञेयम्॥ महाभोगत्वेति॥ लिङ्गान्तरोपलक्षणम्। उक्तमित्यन्तं फलपरं चेत्युपेत्य तात्पर्यमाह॥ प्रागुक्तानन्दमयश्चेति॥ अन्यत्रेति॥ जडरूपप्राण-वृत्त्यादावित्यर्थः।
‘चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते।
प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तितः’॥
इति द्वितीये। न वायुक्रिये पृथगुपदेशादित्यत्र भाष्योक्तस्मृत्या ‘हस्तचरणश्रवणत्वगादीन्प्राणान्’ इति भागवते प्रयोगेण लोकप्रसिद्ध्या चेति भावः। मुख्यत्वादित्युपलक्षणम्। सुधोक्तदिशा वायुवृत्त्यादि-जडं प्रति त्वमेवमभव इत्युक्त्ययोगाच्च। ओषधे त्रायस्वैनमित्यादेरप्यभिमानिपरत्वादित्यपि ध्येयम्। हेतुत्वं व्यञ्जयन्नेव न चैवमिति साध्येनान्वयमाह॥ यतोऽयमिति॥ प्राणस्तत्त्वित्यस्यार्थः प्राणो विष्णुरेवेति॥ श्रीलक्ष्मीपतित्वादिति॥ यद्यपि तैत्तिरीये ह्रीश्च ते लक्ष्मीश्चेत्येव पाठः। तथाप्यत्र शाखान्तरस्थवाक्यान्यप्युदाहरणतया ग्राह्याणीति सूचयितुं श्रीश्च त इति शाखान्तरस्थवाक्यशेषो दर्शित इति भावः। तथा च वक्ष्यति दहरनये धृतेश्चेति सूत्रे टीकायाम्। अत्र स सेतुरिति वक्तव्ये एष सेतुरित्युक्तिः शाखान्तराणामप्यत्रोपसङ्ग्रहार्थम्॥ एवमन्यत्रापीति॥ एवं चात्र तत्समाख्यया ह्रीरपि श्रीरेवेति भावः। एतल्लिङ्गस्य अनुवाकान्तरस्थत्वेऽप्यनुवाकान्तरस्थप्राणनिष्ठत्वं च श्रीश्च त इति युष्मच्छब्दनिर्दिष्टस्यैव तद्वै त्वमिति निर्देशेन ऐक्यप्रत्यभिज्ञानबलेनेति ज्ञेयम्। अत एवोक्तं सुधायां सन्निहितवाक्ये श्रूयमाणस्य श्रीलक्ष्मीपतित्वस्येति। आदिपदेन तमेव मृत्युममृतं तमाहुस्तं भर्तारं तमु गोप्तारमाहुरिति। यस्तद्वेद ब्रह्मणैष रमत इत्यादेर्ग्रहः। इत्यादितल्लिङ्गादिति भाष्यस्य पूर्वप्रतिज्ञाया-न्वयमाह॥ प्राण इति॥ विष्णोरेकपत्नीकत्वप्रसिद्धेः पत्न््नयाविति कथमित्यतः स्थानभेदस्थरूपविशेषाभि-प्रायेण तथोक्तिरित्युपेत्य स्थानभेदमाह॥ वक्षःस्थलेति॥ लक्ष्मीस्त्वंकस्थितेति भावः। ननु कथमेवं तत्वप्रदीपे हि अङ्काश्रिता श्रीर् वक्षसि लक्षणभूता लक्ष्मीरित्युक्तेरित्यतः स्वोक्तार्थे संमतिमाह॥ इति सम्प्रदायविद इति॥ तथा चोदाहरन्ति।
तस्याः श्रियः स जगतो जनको जनन्या वक्षोधिवासमकरोत्परमं विभूतेः।
श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान्।
इत्याद्यष्टमस्कन्धादिस्थानि वाक्यानि। ‘‘लिङ्गं बलवदेव स्यात्’’ इत्यनुभाष्ये सौत्रैवकारस्यानुवादेन बलवदिति व्याख्यानमिति सुधोक्तदिशा सौत्रेवकारेण लिङ्गस्य प्राबल्यमुक्तम्। तद्व्यक्तिपरमनन्यथासिद्ध-लिङ्गैर्भगवद्विषयत्वमेवेति न्यायविवरणांशं शङ्कापूर्वं विवृणोति॥ कथमिति॥ निरवकाशत्वादिति॥ लक्ष्म्यादिशब्दानामन्यत्राप्रयोगान्मुख्यार्थत्यागापातात्। अन्यपरत्वे नामानीतिवन् मानाभावान् नान्यत्र यौगिकतेति भावः। अत एव सुधायां श्रीलक्ष्मीपतित्वस्याप्यन्यत्राशक्यचिन्तनस्य बलवत्त्वादित्युक्तम्॥ सावकाशत्वादिति॥ वक्ष्यमाणदिशेति भावः। बाधोपपत्तेरित्यनेन प्रमाणाश्रिता शङ्काऽपास्ता। प्रमेयाश्रितामपि तामनूद्य ‘अध्यात्मगैश्च प्राणाद्यैरेको मुख्यतयोदित’ इत्याद्यनुभाष्योक्तदिशा निराह॥ रूढीति॥ ईशान इति सहस्रनामसु। आदिपदेन प्राणस्य प्राण इति तलवकारे प्राणस्य प्राणस्त्विति काण्वश्रुतौ प्राणबन्धनं हि सोम्य मन इति छान्दोग्यादौ च तत्र तत्र विष्णौ प्रयोगबाहुल्यादिति ग्राह्यम्। महायोगभावं व्यक्तीकर्तुमुक्तमनूद्य प्रेरकोऽस्यापि यद्धरिरित्यनुभाष्योक्तमाह॥ न चेति॥ अधीनत्वादिति॥ पृथग्भगवद्गतत्वाच्चेत्यपि ध्येयम्॥ श्रुतिरिति॥ काठके इतरेण तु जीवन्तीति तद्गतत्वं यस्मिन्नेतावित्यनेन तु प्राणगतस्य तदधीनत्वमुच्यत इति ज्ञेयम्। इतरेणेत्येतच्च विष्णुपरम्। पूर्वत्र मध्ये वामनमिति वामनशब्दाद् उत्तरत्र च गुह्यं ब्रह्म सनातनमिति ब्रह्मशब्दाद् येन जातानि जीवन्तीति समाख्यानाच्च। अत्र यद्यपि मुख्यप्राणरूपयोरेवेशाधीनत्वमुच्यते न तु तयोर्जग-ज्जीवनकारणत्वस्यापि। प्रत्युत न प्राणेनेति निषेधश्च। तथापि प्राणादिदमाविरासीत्प्राणो धत्त इति पञ्चवृत्त्यैतत्प्रवर्तते। प्राणो वाव पञ्चवृत्तिरिति। उत्क्रान्तप्राणान् शूलेन समासं व्यतिषन्दहेन् नैनं ब्रूयुः पितृहासीति। तथा प्राण उत्क्रमिष्यन्यथा सुहयः पट्वीशशङ्कून् सङ्खिदेदेवमितरान्प्राणान्समखिद-दित्यादि श्रुतिभिर्यप्राप्तिरित्यादिस्मृतिभिश्च मुख्यप्राणस्यापि जीवनहेतुत्वस्य प्रमितत्वेन प्राणेन स्वतन्त्रेण मर्त्यो न जीवतीत्येवंरूपेण तत्स्वान्त्र्यमात्रनिरासार्थत्वादेतच्छ्रुतेः। न केवलं प्राण एव चेतनानां विधारकः किन्तु विष्णुं समाश्रित्य प्राणो जीवान्बिभर्त्ययमिति काठकभाष्योक्तमहाकौर्मस्मृतौ तथैव व्याख्यानाच्च। अत एव सुधायां प्रेरकोऽस्यापीत्यत्रास्य जीवनादेः प्रेरको हरिरित्याद्यनेकार्थमभिधायोक्तम्। संवदतीमं सर्वमप्यर्थं श्रुतिर्न प्राणेन इत्येवं जातीयकेति। अत्रापि मुख्यत्वोपपादनं पूर्वत्रेवात्रानुवृत्तावधारण-लब्धं बोध्यम्। मुखे मुख्य इत्युक्तिस्तु प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इति श्रुतेश्चक्षुरादिकरणभूतप्राणापेक्षयैव। तदुक्तमैतरेयभाष्ये।
‘‘अन्यव्यपेक्षया वायौ मुख्यवृत्तिर्विधीयते।
तस्मात्प्राणादिशब्दाश्च विष्णावेव हि मुख्यतः’’
इति। अत एवेति सौत्रांशार्थस्तस्मान्निरवकाशलिङ्गसत्त्वादिति। प्राणस्तत्त्वित्यस्यार्थ आध्यात्मिकेति। अध्यात्मगतशब्दानामिति न्यायविवणोक्तेरिति भावः। प्रधानत्वात् पूर्वाक्षेपलिङ्ग-युक्तत्वाच्च प्राणशब्दः साक्षात्सूत्र उपात्त इति भावः। यत्तु अत एवेति सौत्रेतच्छब्देन पूर्वोक्तकारणत्व-परामर्शस्यैव स्वारस्यात्तस्य च कतमा सा देवता प्राण इति होवाच इति छन्दोग्यवाक्यस्थप्राण एव श्रवणान्न तद्वै त्वं प्राण इति वाक्यं सूत्रानुगुणमिति। तत्तुच्छम्। पूर्वत्र परोवरीयस्त्वादिरूप-निरवकाशलिङ्गस्यैव हेतूकरणादिह चात एवेति सर्वनाम्ना निरवकाशलिङ्गस्यैव परामर्शात्। तस्य च तैत्तिरीयवाक्येऽपि भावात् तदेव लिङ्गमत्रापि परामर्ष्टव्यमित्यत्र हेत्वभावात्। तद्वाक्ये पूर्वपक्षानुदयस्य चन्द्रिकायां व्यक्तत्वाच्च यत्किञ्चिदेतत्॥ २३॥ अ. ९॥
अभिनवचन्द्रिका
अत एव प्राण इत्यस्य ‘तद्वै त्वं प्राणो भव’ इति श्रुत्युपक्रमत्वभ्रमं निवारयितुमाह– अत्र सूत्रमिति॥ प्राणनाम्न इति॥ यद्यपि – ‘यद्देवान्प्राणयो नवे’(तै.आ.३-१४)ति श्रुतेरस्य लिङ्गात्म-कत्वम्, तथापि नामात्मकत्वस्यापि भावात् प्राणनाम्न इत्युक्तम्। विषय इति॥ सङ्गतिमित्यनन्तरं दर्शयन्निति शेषः। एतेन सङ्गतेर्मुखत एवाभिधानात् सङ्गतिं सूचयतीत्यनुपपन्नमिति परास्तम्। सङ्गतिं दर्शयन् विषयसंशयौ सूचयतीत्यभिधानात्। यद्यपि प्राणशब्देन विषयो दर्शितः। तथापि विषयत्वं नोक्तमिति तत्सूचकत्वाभिधानमुपपन्नम्। प्राणपदं वायौ प्रसिद्धं परमानन्दत्वं विष्णुत्वेन सहचरितमिति विष्णुत्ववायुत्वकोटिस्मारकयोः परमानन्दप्राणशब्दयोरभिधानाद् अस्य भाष्यस्य संशयसूचकत्वमुपपन्नमिति द्रष्टव्यम्। ननु परमानन्दत्वोक्तिमात्रेण कथं पूर्वाधिकरणेन सङ्गतिरुक्ता भवेत्, अतीताधिकरणप्रतिपाद्ये परमानन्दत्वाभावादित्यत आह– यदुदितमिति॥ अनेनानन्दमयाधिकरणै-तदधिकरणप्रतिपाद्ययोर् आनन्दमयत्वरूपैकधर्माक्रान्तत्वं सम्बन्ध इत्युक्तं भवति। तस्य च प्राणस्येति॥ ननु तस्य च प्राणस्य विष्णोरन्यत्वे आनन्दमयत्वमन्यस्यैव प्रसज्यत इत्ययुक्तम् ‘तद्वै त्व’मित्युक्तिबला-दन्यस्यानन्दमयत्ववत्, उक्तिबलादेव विष्णोरप्यानन्दमयत्वसम्भवत्। अन्यथा शुक्लः कम्बलः, शुक्लं वस्त्रमित्युक्ते यदि वस्त्रस्य कम्बलान्यत्वं स्यात्, तर्हि अन्यस्यैव शुक्लत्वं प्रसज्यत इति वस्त्रस्यापि कम्बलत्वं प्रसाध्यं स्यात्। यदि तत्रोक्तिबलादुभयोरपि शुक्लत्वम्, इहापि तथास्त्विति चेत्, सत्यम् इत्युक्तिबलादन्यत्रानेकेषामेकजात्यवाच्छिन्नधर्माक्रान्तत्वं सम्भवतीति बाधकाभावात्। न प्रकृते द्वयोरानन्दमयत्वं सम्भवति, आनन्दमयत्वस्य सर्वेश्वरत्वाविनाभूतत्वेन अनेकेश्वरत्वापातात्। न च तद्युक्तं जगद्विलयप्रसङ्गात्। ततश्च अवश्यमेकस्याऽऽनन्दमयत्वापलापे कर्तव्ये विष्णोरेव तदपलपनीयं विष्णोस्तत्पुच्छत्वोक्तेः। आनन्दमये ब्रह्मशब्दस्तु तदवयवस्य ब्रह्मत्वादुपचारेण नेय इति द्रष्टव्यम्। लिङ्गदौर्बल्यादिति॥ यद्यपि पूर्वपक्षिणा वायुरेवायं प्राणः प्रागुक्तानन्दमयश्चेति वदता महाभोगत्वस्य विष्णुलिङ्गत्वानङ्गीकारात्, विष्णुलिङ्गमेव नेति वक्तव्यम्। दौर्बल्यं तु सर्वथा न वक्तव्यं तथापि अङ्गीकारवादेनेति बोध्यम्। पूर्वाधिकरणेन गतार्थतापरिहाराय अभ्यधिकाशङ्कामाह – नापीति॥ आकाशशब्दस्य विष्णौ योगः सम्भवति प्राणशब्दस्य तु योगोऽपि न सम्भवतीति आकाशशब्दविषयक-शङ्कातः प्राणशब्दविषयकशङ्का बलवतीति भावः। अन्वयव्यतिरेकाभ्यामिति॥ यद्यपि जीवन-कारणत्वान्वयव्यतिरेकौ नास्मदध्यक्षसिद्धौ, तथापि – स्वस्वोत्तमत्वविषये प्राणेन सह विवदमानाना-मिन्द्रियाभिमानिदेवानां प्रत्यक्षसिद्धौ, अस्माकं तत्प्रत्यक्षत्वसिद्धिस्तु ‘त्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्मस्त्वमस्माकमसी’(ऐ.णा.२-१-४)ति देवकर्तृकप्राणस्तुत्यन्यथानुपपत्त्या भवति। यद्वा कुलालादिशरीरस्य घटाद्यन्वयव्यतिरेकदर्शनमेव घटादिकं प्रति कुलालाद्यन्वयव्यतिरेकदर्शनमिति लोकैरभ्युपगतत्वादिहापि वायुविकारस्य तद्देहस्थानीयस्य जीवनान्वयव्यतिरेकदर्शनं वायोरन्वयव्यतिरेकदर्शनत्वेनोक्तमिति द्रष्टव्यम्। अत एव सुधायां – वायुविकारशरीरत्वान्मुख्यस्येत्युक्तम्। न केवलं जीवनहेतुत्वमन्वयव्यतिरेकगम्यम्, अपि तु आगमसिद्धं चेति भावेनाह– यत्प्राप्तिरिति॥ यद्यप्यत्र तत्प्राप्तेरुत्पत्तिकारणत्वमेवोच्यते तथापि उत्पत्तिर्नाम प्राणशब्दाभिधेयेन्द्रियधारकदेहसम्बन्धः, ‘जीव प्राणधारण’ इति धातुव्याख्यानात्। जीवनकारणत्वं च प्राणधारणकारणत्वमेवेति उत्पत्तिकारणत्वेन जीवनकारणत्वलाभादेतदुदाहरणमर्थवत्। लिङ्गस्य सावकाशस्येति॥ अङ्गीकारवादोऽयम्। विष्णुलिङ्गत्वमेव नेति हृदयम्। मुख्यत्वादिति॥ उपलक्षणमेतत्। प्राणवृत्तावचेतनायां ‘तद्वै त्वं प्राणो भव’ इत्यादिनिर्देशानुपपत्तेश्चेत्यपि द्रष्टव्यम्। सम्प्रदायविद इति॥ स्वमतन्तु, न केवलमङ्कगायाः श्रियोऽहमित्युक्तेः, अङ्काश्रिता श्रीः, वक्षसि लक्षणभूतत्वाल्लक्ष्मीरिति सिद्धत्वान्नोक्तम्। अत एव तत्वप्रदीपे अङ्काश्रिता श्रीर् वक्षसि लक्षणभूता लक्ष्मीरित्युक्तम्। अङ्कवक्षस्थलाश्रितयो-र्लक्ष्मीरूपयोरभिन्नत्वेन द्वयोरपि श्रीलक्ष्मीशब्दवाच्यत्वात् संप्रदायमतमपि प्रामाणिकत्वाद् ग्राह्यम्। ननु – ‘ईशानः प्राणदः प्राण’ इति प्रमाणे परमेश्वरस्य प्राणदातृत्वाभिधानमयुक्तम्। अन्वयव्यतिरेकाभ्यां प्राणदातृत्वस्य मुख्यप्राणनिष्ठत्वावगमादित्याशङ्क्य निषेधति – न चेति॥ ननु अयं निषेधोऽनुपपन्नः। अन्वयव्यतिरेकसिद्धस्य मुख्यप्राणगतप्राणदातृत्वस्य बाधकाभावेनाऽपलापायोगादित्यत आह– प्राणगतेति। न वयमन्वयव्यतिरेकसिद्धं प्राणदातृत्वं मुख्यप्राणेऽपलपामः, येनोक्तदोषः स्यात्, किं नाम मुख्यप्राणे अन्वयव्यतिरेकसिद्धं प्राणदातृत्वमभ्युपगम्य तत्परमेश्वराधीनमिति परमेश्वरः प्राणद इत्युच्यत इत्यर्थः।
पूर्वपक्षस्तु– वायुरेवायं प्राणः। प्राणशब्दस्य तत्र रूढत्वात्। न च प्राणश्रुतेर् विष्णौ सावकाशत्वं, रूढेरभावात्। यौगिकार्थस्य जीवनकारणत्वस्य अन्वयव्यतिरेकाभ्यां वायावेव दर्शनात्। तस्माद्वायुरेवायं प्राणः, प्रागुक्तानन्दमयश्चेति न ब्रह्मजिज्ञासा सम्भवतीति।
सिद्धान्तस्तु– विष्णुरेवायं प्राणः निरवकाशश्रीलक्ष्मीपतित्वलिङ्गात्। ‘ईशानः प्राणदः प्राण’ (सहस्रनाम) इति विद्वद्रूढेर्महायोगस्य च विष्णौ सत्त्वेन श्रुतेः सावकाशत्वात्, प्राणगतजीवनान्वय-व्यतिरेकस्यापि ‘न प्राणेन नाऽपानेन मर्त्यो जीवति कश्चन’ (का.उ.५-४) इति श्रुतेर् भगवदधीनत्वात्। तस्मात्प्राणः प्रागुक्ताऽऽनन्दमयश्च विष्णुरेवेति युक्ता तज्जिज्ञासेति सिद्धम्। (९.अ.)
वाक्यार्थमुक्तावली
ॐ अत एव प्राणः ॐ॥ अन्यत्राप्येवमिति॥ यत्रादौ सूत्रं नोदाहृतं तत्र सर्वत्राप्यादौ सूत्रानुसन्धानं कार्यम्। अन्यथा विषयानुपस्थित्या सङ्गत्यादिजिज्ञासाऽयोगादिति ज्ञापनार्थं सूत्रमादौ पठतीत्यर्थः॥ सङ्गतिरिति॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अत्राप्यधिकाशङ्कानिवर्तकत्वेनात एवेति पूर्वोक्तहेत्वतिदेशादातिदेशिकरूपा द्रष्टव्या। तदुक्तमनुव्याख्याने ‘अध्यात्ममन्वयव्यतिरेकतः। प्राणादिहेतुतादृष्टेरतिदेशो हि तादृश’ इति। करिष्यमाणः प्राण राजति इति प्रयोगवैचित्र्येण कालत्रये तत्कर्तृत्वं श्रुत्यभिप्रेतमित्याशयेन कुर्वाणोऽकार्षीश् चेष्टयसि चेष्टयिष्यसीति चोक्तमिति ज्ञेयम्॥ ऐक्येनेति॥ सामीप्येनैक्यविवक्षयेत्यर्थः॥ किं विष्णुरीति॥ किमयं प्राणो मुख्यवायुरुत विष्णुरिति चिन्ता। तदर्थं प्राणश्रुतिस् तत्प्रवृत्तिनिमित्तं यद्देवान् प्राणय इत्युक्तं देवादिसर्वजीवनकारणत्वलिङ्गं च निरवकाशतया स्वभावतश्च बलवत्वात् श्रीलक्ष्मीपतित्वादिलिङ्गबाधकमुत स्वयं सावकाशं निरवकाशेन बाध्यमिति। तदर्थं श्रीलक्ष्मीपतित्वादिलिङ्गानां निरवकाशत्वे प्राणश्रुत्यादेः सावकाशत्वे च प्रमाणं नास्त्युतास्तीति। महाभोगत्वस्यैवेति॥ ‘सर्वं सपूतमश्नाति स्वधितं मातरिश्वना’ इत्यादिश्रुत्या प्राणस्य सर्वात्तृत्वेन तज्जन्यपरमानन्दत्वोपपत्तेरिति भावः। स च प्राण इत्यत्र चशब्द एवार्थो वायुरेवेत्यन्वेतीति भावेन तद्व्यावर्त्यमाह प्राणश्रुतेर्विष्णाविति॥ निरवकाशत्वमुपपादयति॥ न हि तावदिति॥ नामानि सर्वाणीति सामान्यरूढिरस्तीति चेन्न। वक्ष्यमाणबाधकेन सर्वशब्दसङ्कोचोपपत्तेः। न च तदधीनत्वादर्थ-वदिति न्यायावतारः। तस्यैवाभावस्य वक्ष्यमाणत्वादिति भावः॥ नोपयोग इति॥ तथापि किं प्रवृत्तिनिमित्तं साक्षाद्विष्णुगतमुत स्वामितासम्बन्धेन तद्गतम्। नाद्य इत्याह– प्राणशब्देति॥ अन्वयेति॥ प्राणे प्रपन्न उदतिष्ठत्। तत्प्राण उत्क्रान्तेऽपद्यतेति श्रौतान्वयव्यतिरेकाभ्यां प्राणप्रतिमाभूतश्वासोच्छ्वाससद्भावे जीवनं तदभावे तदभाव इति प्रात्यक्षिकान्वयव्यतिरेकाभ्यां वेत्यर्थः। दर्शनादित्यनेन प्रसिद्धेरित्येतत् प्राक्। प्राणश्रुतेस्तत्र प्रसिद्धेर्महायोगतल्लिङ्गस्यापि तत्रैव प्रसिद्धेरिति द्वेधा व्याख्यातमधुना प्राणपदप्रवृत्तिनिमित्तस्यापि तत्रैव प्रसिद्धेरिति द्वेधा व्याख्यातं भवति। नापि द्वितीय इत्याह यत्प्राप्ति-रिति। तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यत इत्युत्तरार्धमादिपदेन गृह्णाति। तथा च नास्यान्यः स्वामीति भावः॥ अन्यत्रेति॥ जडरूपवायुवृत्ताविन्द्रियतद्देवेष्वित्यर्थः॥ स एवेति॥ अन्यथा महाभोगत्वादेव जीवनकरत्वं जडं प्रति त्वमेवमभव इति च विरुद्धं स्यादिति भावः। सूत्रस्य न चैवं यत इति सम्बन्धभाष्येणान्वयमाह यतोऽयं प्राण इति सूत्रे तत्त्वित्यनुवर्तते। एवकारस्तु लिङ्गस्य निरवकाशतया प्राबल्यसूचक इत्यभिप्रेत्य सूत्रार्थमाह– श्रीलक्ष्मीति॥ सम्प्रदायविद इति॥ वक्षसि लक्षणभूता लक्ष्मीरिति तत्वप्रदीपोक्तत्वेऽपि स्वोपदेशकाचार्यसम्प्रदायोऽयमिति भावः। एतेनाङ्कस्थिता लक्ष्मीरिति ध्वन्यते। तेन स्थानभेदरूपविशेषापेक्षया पत्न्याविति द्विवचनमित्यपि ज्ञापितं बोध्यम्॥ निरवकाशत्वादिति॥ लिङ्गं बलवदेव स्यादित्यनुव्याख्यानोक्तदिशा शब्दादेव प्रमित इतिवल्लिङ्गप्राबल्यस्य सूत्रेऽवधारणेन सूचितत्वदिति भावः॥ प्राणगतेति॥ न केवलं साक्षादन्यगतस्यापीत्यर्थः। स्वातन्त्रेण न प्राणेन नापानेन कोऽपि जीवति। किन्तु प्राणादयः सर्वे इतरेणैव जीवन्तीति कुतः यस्मिन्नेतावुपाश्रितौ जीवनविषये तेनेतरेण तु विशिष्य जीवन्तीति भाष्यार्थः।
तत्त्वसुबोधिनी
ॐ अत एव प्राणः ॐ॥ अन्यत्राप्येवं ज्ञापनार्थमिति। न केवलम् आनन्दमयाधिकरणे प्रथमं सूत्रोदाहरणं सङ्गत्यादिजिज्ञासाजननार्थं किं त्वन्यत्रापि प्रथममुदाहरणं तत्प्रदर्शनार्थमेवेति ज्ञापयितु-मित्यर्थः॥ सङ्गतिमिति॥ श्रुत्यधिकरणसङ्गतिमित्यर्थः। अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अभ्यधिका-शङ्कानिरासपूर्वकं पूर्वाक्तहेत्वतिदेशाद् आतिदेशिकी। यद्वा आकाशाद्वायुरिति श्रौतक्रमानुसारेणाधिकरणानां क्रमः। अप्रतीतार्थत्वाद् विषयवाक्यार्थमाह॥ यस्मादिति॥ करिष्यमाणः प्राण एजति इति प्रयोगवैचित्र्येण कालत्रयेऽपि तत्कर्तृत्वं श्रुत्यभिप्रेतमित्याशयेन कुर्वाण अकार्षीरिति चेष्टयसि चेष्टयिष्यसीति चोक्तमिति ज्ञेयम्। ननु प्राणेन प्रजापतेर् भोगदानेऽपि स्वस्य महाभोगत्वसिद्धिः कुत इत्यत आह॥ स्वस्येति॥ ननु महाभोगत्वलिङ्गस्य वायाववकाशवत् प्राणश्रुतेरपि विष्णाववकाशान् न मुख्यप्राणोऽत्र प्रतिपाद्यत इत्यत आह॥ प्राणश्रुतेरिति॥ कुतो नावकाश इत्यतो रूढिराहित्यादित्यत आह।
न हि तावदिति॥ विष्णौ प्राणपदस्य लोकप्रसिद्ध्यभावादिति भावः। तथापि प्रकर्षेण अणतीति प्राण इति योगेन विष्णुपरत्वं स्यादित्यत आह॥ नापीति॥ कुतो जीवान्वयव्यतिरेकौ वायावेवेत्यतस्तत्र प्रमाणमाह॥ यत्प्राप्तिरिति॥ ननु प्राणशब्दस्य वायाविव इन्द्रियेष्वपि वृत्तेस्तेषामेव ग्रहणं किं
नेत्यत आह॥ प्राणशब्दस्येति॥ वायुवृत्तावपीति॥ वायुवृत्ताविन्द्रियेष्वपीत्यर्थः॥ स एवेति॥ अन्यथा महाभोगत्वादिकं विरुद्धं स्यादिति भावः। ननु श्रीलक्ष्मीशब्दयोः पौनरुक्त्यमित्यत आह॥ वक्षस्थलेति॥ अनेन श्रयत इति श्रीरिति श्रीशब्दनिर्वचनमित्युक्तं भवति। लक्ष्म्या अङ्कगतत्वप्रसिद्धेरिति भावः॥
वाक्यार्थविवरणम्
‘लक्ष्म्या वक्षस्स्थिताया’ इति विष्णुस्तुतौ वक्षस्स्थलाश्रितत्वं लक्ष्म्यास्तत्त्वप्रदीपिकाकारैरुक्तमस्ति। अतः स्वसम्प्रदायमाह॥ वक्षस्स्थलेति॥ समीपे स्थित्वा सेवादिकारिणी लक्ष्मीरित्युच्यते इति द्रष्टव्यम्।
वाक्यार्थमञ्जरी
अन्यत्राप्येवमिति॥ अत्रादाविति॥ व्याख्येयसूत्रमेवादौ पाठ्यम्। अन्यथा सङ्गत्याकाङ्क्षानुदयात्। पश्चाद्विषयादिकं वाच्यमिति सूचयितुमित्यर्थः। क्वचित्सङ्गत्यादिपूर्वकतत्पाठस्तु श्रोतृबुद्धिसौकर्यायेति भावः॥
ॐ अत एव प्राणः ॐ॥ तद्वै त्वं प्राण इत्युक्तप्राणो विष्णुरेव। श्रीश्च ते लक्ष्मीश्च पत्न््नयाविति निरवकाशश्रीलक्ष्मीपतित्वलिङ्गादेवेत्यर्थः। लिङ्गनिरवकाशत्वमेवकारार्थः। यत्तच्छब्दयोरावृत्तिं मत्वा श्रुत्यर्थमाह॥ यस्मादिति॥ अभव इत्यतीतार्थकलङ्घटनाय करिष्यमाण इत्येतदुप-लक्षणमित्या-शयेनाह॥ कुर्वाणोऽकार्षीश्चेति॥ हेतुहेतुमद्भावं व्यनक्ति॥ स्वस्येति॥ इन्द्रियाभिमानिदेवानां दशत्वादाह॥ पायुगुह्यैक्येनेति॥ ऐक्यविवक्षयेत्यर्थः। द्वितीयाध्यायभाष्योदाहृतस्मृतिमुदाहरति॥ यत्प्राप्तिरिति॥ यथाक्रममन्वयः॥ सुतरामिति॥ स्वभावत एव बाधे निरवकाशत्वादिना किम्विति भावः। वायुरेवेत्यवधारणानुपपत्तिमाशङ्क्याह॥ प्राणशब्दस्येति॥
‘चेष्यायां बाह्यवायौ च मुख्यवायौ च गीयते।
प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तित’॥
इति द्वितीयाध्यायभाष्योदाहृता स्मृतिः॥ श्रीलक्ष्मीरिति॥ यद्यपि ह्रीश्च त इति तैत्तिरेयाः पठन्ति तथापि शाखान्तरमप्यत्रोदाहर्तमित्याशयेन शाखान्तरस्थवाक्यमत्रोदाहृतमिति ध्येयम्। रमारूपविशेषयोः स्थानविशेषाकाङ्क्षायामाह॥ वक्षस्थलाश्रिता श्रीरिति॥ लक्ष्म्यास्त्वङ्कगतत्वं प्रसिद्धमिति भावः। ननु कथमयं निर्णयः। न च वाच्यं–
तस्याः श्रियः स जगतो जनको जनन्या
वक्षोधिवासमकरोत्परमं विभूतेः।
श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन
यत्र स्थितैधयत साधिपतींस्त्रिलोकान्॥
इति भागवतवचनेन निर्णय इति। न केवलमङ्कगायाः श्रियोऽहमिति भगवत्पादैः श्रियोऽङ्कगत-त्वोक्तेः। नापि श्रयते वक्षस्स्थलमिति श्रीरिति तन्निर्वचनेन तन्निर्णयः। श्रयतेऽङ्कमित्यपि सम्भवाद् वक्षसि लक्षणभूता लक्ष्मीरिति तत्त्वप्रदीपोक्तनिर्वचनानुसारेण वैपरीत्यसम्भवाच्च। तस्मात्कथं श्रियो वक्षस्स्थलाश्रितत्वनिर्णय इत्यत आह॥ इति सम्प्रदायविद इति॥ तथा च सम्प्रदाय एवात्र निर्णायकप्रमाणमित्युक्तं भवति। अत एव श्रीवत्स इत्येव भगवल्लिङ्गस्य नाम न लक्ष्मीवत्स इति। व्यामिश्रोक्तिस्तु ‘लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया’ इति श्रीलक्ष्मीशब्दयोः पर्यायत्वाद्युक्ता। स्मरणीयमुरोविष्णोरिन्दिरावासमित्यादिवत्। या त्वङ्कश्रिता श्रीर् वक्षसि लक्षणभूता लक्ष्मीरिति निरुक्तिः। सा रूपविशेषयोरभेदाभिप्रायेण वस्तुस्थितिकथनाय न स्थाननियमाभिप्रायेणेत्यर्थः। एतेनैव स्वोक्तार्थे भगवद्वाक्यरूपागममनभिधाय सम्प्रदायोक्तौ किं बीजम्। न च तयोरभेद एवेति वाच्यम्। आगमो ग्रन्थनिबन्धनं वाक्यम्। सम्प्रदायस्तूपदेशपरम्परामात्रमिति भेद इति प्रमेयदीपिकोक्तेरिति निरस्तम्। उक्तरीत्या भगवद्वाक्यस्य स्वोक्तार्थानिर्णायकत्वशङ्कानिरासाय सम्प्रदायग्रहणादिति॥ महायोगस्य चेति॥ प्राणशब्दप्रवृत्तिनिमित्तजीवनप्रदत्वस्य तत्रैव निरवधिकत्वादिति भावः॥ न प्राणेनेति॥ कश्चन मर्त्यो जीवः प्राणादिना न जीवति किन्तु यस्मिन्हरावेतौ प्राणापानावुपाश्रितौ तेनेतरेण हरिणा सर्वे जीवन्तीत्यर्थः॥ आध्यात्मिकेति॥ आत्माधिकाराख्यग्रन्थप्रतिपाद्यमत्यन्तात्माभि-मानविषयान्तःकरणादिदेहपर्यन्तमध्यात्मं तद्गतमित्यर्थः। यथोक्तम्। ‘आत्माभिमानाधिकारस्थितमध्यात्म-मुच्यते। देहाद्बाह्यं विनातीवबाह्यत्वात्’ इति॥ ९॥
विवृतिः
अन्यत्राप्येवमिति ज्ञापनार्थमिति॥ न केवलमानन्दमयाधिकरणे प्रथमं सूत्रोदाहरणं सङ्गत्यादि-जिज्ञासाजननार्थं किं त्वन्यत्रापि प्रथममुदाहरणं तत्प्रदर्शनार्थमेवेति ज्ञापयितुमित्यर्थः॥ सङ्गतिमिति॥ श्रुत्यधिकरणसङ्गतिमित्यर्थः॥ अव्यवहितपूर्वाधिकरणसङ्गतिस्तु अभ्यधिकाशङ्कानिरासपूर्वकं पूर्वोक्त-हेत्वतिदेशादातिदेशिकी॥ यद्वा आकाशाद्वायुरिति श्रौतक्रमानुसारेणाधिकरणानां क्रमः॥ अप्रतीतार्थत्वा-द्विषयवाक्यार्थमाह॥ यस्मादिति॥ करिष्यमाणः प्राण इति प्रयोगवैचित्र्येण कालत्रयेऽपि कर्तृत्वं श्रुत्यभिप्रेतमित्याशयेन कुर्वाण अकार्षीरिति चेष्टयसि चेष्टयिष्यसीति चोक्तमिति ज्ञेयम्॥ ननु प्राणेन प्रजापतेर्भोगदानेऽपि स्वस्य महाभोगत्वसिद्धिः कुत इत्यत आह॥ स्वस्येति॥ ननु महाभोगत्वलिङ्गस्य वायाववकाशवत् प्राणश्रुतेरपि विष्णाववकाशान्न मुख्यप्राणोऽत्र प्रतिपाद्य इत्यत आह॥ प्राणश्रुतेरिति॥ कुतो नावकाश इत्यतो रूढिराहित्यादित्याह॥ न हि तावदिति॥ विष्णौ प्राणपदस्य लोकप्रसिद्ध्य-भावादिति भावः॥ तथापि प्रकर्षेण अणतीति प्राण इति योगेन विष्णुपरत्वं स्यादित्यत आह॥ नापीति॥ कुतो जीवान्वयव्यतिरेकौ वायावेवेत्यतस्तत्प्रमाणमाह॥ यत्प्राप्तिरिति॥ तर्हि श्रुत्यादौ विष्णौप्राणशब्दप्रसिद्धिविरोध इत्यत आह॥ प्राणशब्दस्येति॥ वायुवृत्तावपीति॥ वायुवृत्ताविन्द्रियेष्व-पीत्यर्थः॥ स एवेति॥ अन्यथा महाभोगत्वादिकं विरुद्धं स्यादिति भावः॥ ननु श्रीलक्ष्मीशब्दयोः पौनरुक्त्यमित्यत आह॥ वक्षस्थलेति॥ अनेन श्रयत इति श्रीरिति श्रीशब्दनिर्वचनमुक्तं भवति॥ लक्ष्म्या अङ्कगतत्वप्रसिद्धेरिति भावः॥
॥ इति प्राणाधिकरणम्॥