०८ आकाशाधिकरणम्

ॐ आकाशस्तल्लिङ्गात् ॐ

८. आकाशाधिकरणम्

सूत्रभाष्यम्

‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’ (तै.उ. २-७) इत्याकाश-स्याऽऽनन्दमयत्वे हेतुरुक्तः, न तु विष्णोरिति न मन्तव्यम्। यतः-

॥ ॐ आकाशस्तल्लिङ्गात् ॐ॥ २२॥

‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’ (छां.उ. १-९) इत्यत्र भूताकाशस्य प्राप्तिः। न चासौ युज्यते, किन्तु विष्णुरेव। ‘स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ (छां.उ. १-९) इत्यादितल्लिङ्गात्।

विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि। (ऋ. १-१५४-१)

परो मात्रया तन्वा वृधान (ऋ.सं. ७-९८-१) इत्यादिना तस्यैव (तस्य पा.) हि तल्लिङ्गम्।

‘अनन्तो भगवान्ब्रह्मा आनन्देत्यादिभिः पदैः।

प्रोच्यते विष्णुरवैकः परेषामुपचारत’ इति ब्राह्मे।

‘नामानि सर्वाणि यमाविशन्ति’ इति (भाल्लवेयश्रुतिः) चोक्तम्॥ २२॥

सत्तर्कदीपावली

इन्द्रादिजीवेष्वसम्भावितधर्मोपदेशात्तेभ्योऽन्यः परमात्मा विष्णुरित्युक्तम्। उपर्याकाशादिष्वसम्भावित-लिङ्गनिर्देशात्तेभ्योऽन्य इत्येतत्प्रतिपादकसूत्रव्याख्यानं कर्तुमाह॥ को ह्येवेति॥ छान्दोग्ये श्रूयते। अस्य लोकस्य का गतिरिति आकाश इति होवाच सर्वाणि ह वा इमानि भूतानि आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायान्। आकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्त इति। तत्राकाशशब्दनिर्दिष्टो भूताकाश एव लोकप्रसिद्धत्वाद्भवेत्। ततश्च को ह्येवान्यात्कः प्राण्यात्। यदेष आकाश आनन्दो न स्यादित्यानन्दमयप्रकरणपठितोऽपि स एव भवेदिति। एवं प्राप्ते अभिधीयते। अत्राकाशशब्देन विष्णुरेवोच्यते। स एषोऽनन्त इत्यादिलिङ्गात्। अपरिमितगुणत्वं ह्यनन्तत्वं मुख्यतो विष्णोरेव श्रूयते विष्णोर्नु कमित्यादिश्रुतौ। भागवते चैतदुक्तम्। विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसीति। अत एवानन्तशब्दो विष्णुरूढः। सर्वभूतोत्पादकत्वे हेतुर् इति श्रवणाद् आकाशशब्दार्थः परमात्मेति ज्ञायते। विष्णोरेव सर्वभूतोत्पादकत्वमुपनिषत्सूत्रसिद्धम्। (१।१।८)

तत्त्वप्रदीपिका

आकाशस्तल्लिङ्गात्॥ अस्य लोकस्य का गतिरिति शिलकप्रश्ने आकाश इति होवाच प्रवाहणः। गतिराश्रयः। ‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’ इत्युदाहरणवाक्यम्। तत्र संशयः, किमयमाकाशशब्दो भूताकाशविषयः किं वा विष्णुविषय इति। ‘यदेष आकाश आनन्दो न स्यात्’ इत्याकाशशब्दस्य परविषयत्वोपलब्धिर् लोकतो भूतविषयत्वोपलब्धिश्च संशयबीजम्। तदभिप्रायेण प्रावोचत् को ह्येवान्यादिति। अनेन सङ्गतिभाष्येण संशयबीजसूचनपरोऽपि गुरुतमः पूर्ववादिनमन्यत्र-प्रसिद्धिकोटिबलदर्पादानन्दमयश्रुतौ प्रकरणबलात्प्रसाधितार्थमप्याकाशशब्दमनादरादसाधितमिव मन्वानमति-शङ्कमानमनुवदति। अनिष्णातमतयोऽनवसरेऽपि भ्रमन्तीति द्योतयन्प्रतिवदति च परमदार्ढ्याय। प्राचुर्येणा-न्यत्र प्रसिद्धिः पूर्वपक्षयुक्तिरनयोः पादयोः। विशेषयुक्तयश्च भगवताऽनुभाषिता एव सर्वत्र सम्यगनु-व्याख्यानन्यायविवरणयोर्बुद्धिमार्गमारोहन्ति।

परोवरीयस्त्वादेरनन्यथासिद्धलिङ्गाद्विष्णुरेवाऽकाश इति सिद्धान्तः।

‘परस्मादुत्तमं प्रोक्तं परो इति ततः परम्।

परोवरं परं तस्मात् प्रोक्तं पारोवरीयकम्॥’ इति सामसंहितायाम्।

उच्चत्वेन गीयत इति उद्गीथः। ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्ति, आकाशो ह्येवैभ्यो ज्यायान्, आकाशः परायणम्’ इति जगदुत्पादकत्वमुदीर्यमाण-मादिशब्दादुपाददीत।

विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह

यः पार्थिवान्यपि कविर्विममे रजांसि।

चस्कम्भ यस्स्वरभसा चलितं त्रिपृष्ठं

यन्मां निशाम्य सदनादुरुकम्पमानम्।

इति भागवतवचनाद्विष्णोर्नु कमित्यस्यार्थोऽवगम्यते। अन्यत्र प्रसिद्धेः पुनरतिदौर्बल्यं साधयति विष्णोरेव तत्तन्नामत्वने नामानि सर्वाणि यमाविशन्तीत्यादिना। आकाशशब्दः सर्वाधिभूतोपलक्षणार्थः॥

तत्त्वप्रकाशिका

अत्र लोकतोऽन्यत्र प्रसिद्धाकाशनाम्नो ब्रह्मणि समन्वयप्रतिपादनादस्ति शास्त्रादिसङ्गतिः। को ह्येवान्यादित्याकाशशब्द आनन्दमये प्रयुक्तः। स एव छन्दोगश्रुतौ पठ्यते। ‘अस्य लोकस्य का गतिरित्याकाश इति होवाच। सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते। आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्तः’ इति। स चाकाशो यदि विष्णोरन्यस्तदा प्रागुक्तोऽपि स एवेत्यानन्दमयोऽप्यन्यःप्रसज्येतः स निर्णेयः। स आकाशोऽत्र विषयः। विष्णुरन्यो वेति सन्देहः। आकाशशब्दस्याऽऽनन्दमये प्रयुक्तत्वमन्यत्र प्रसिद्धिश्च सन्देहबीजम्।

भूताकाश एवायमिति पूर्वः पक्षः। आकाशशब्दस्य तत्र रूढत्वात्। न च वाच्यं योगवृत्त्याऽऽकाश-शब्दो विष्णौ सावकाश इति। बाधकं विनाऽमुख्यार्थाङ्गीकारायोगात्। न चाकाशस्य भगवदधीनत्वेन तत्रैवाऽऽकाशशब्दो मुख्य इति युक्तम्। आकाशस्याचेतनत्वेनान्याधीनत्वायोगात्। चेतनस्य हि चेष्टादावन्याधीनत्वं सम्भवतीति। आकाशशब्दस्यावकाशेऽपि रूढत्वादत्र भूताकाशग्रहणे को विशेषहेतुरिति चेत् पृथिवीगतित्वोपपादनाय सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त इत्यादिनाऽऽकाशस्य सर्वभूतकारणत्वलयाधिकरणत्वादेरुक्तत्वात्। तच्चाकाशाद्वायुरित्यादिना भूताकाशस्यैव प्रसिद्धमतो भूताकाश एवायमिति मनसि निधाय पूर्वपक्षफलमाह॥ को हीति॥ एवमाकाशे छन्दोगश्रुत्युक्ते भूताकाशे सति को हीति तैत्तिरीयश्रुत्युक्तोऽपि स एव स्यात्। तथा च लोकचेष्टकत्वहेतुराकाशस्यैवाऽऽनन्दमयत्वे कथितः स्यान्न विष्णोस्ततश्च स एवाऽऽनन्दमयो भवति। आकाशस्याचेतनत्वेनाऽऽनन्दानुपपत्तावप्यभिमानिद्वारा तदुपपत्तेरिति भावः। अनेनैवाकाशशब्दस्याऽऽनन्दमये प्रयुक्तत्वाद्विष्णुराकाशः किं न स्यादिति परास्तम्। रूढेर्बलवत्त्वेन तस्यापि बाधोपपत्तेरिति।

सिद्धान्तयति॥ इतीति॥ कुतो न मन्तव्यमित्याशङ्कायां हेतुतया सूत्रमुपादत्ते॥ यत इति॥ विषयादेः पूर्वं मुखतोऽनुक्तेस्तदनुवादपूर्वकं सूत्रं व्याचष्टे॥ अस्येति॥ यद्यप्यस्य लोकस्य का गतिरिति वाक्ये भूताकाशस्योक्तरीत्याऽस्ति प्रतिपाद्यत्वप्राप्तिस्तथापि नासावत्र वाच्यो युज्यतेऽपि तु विष्णुरेव युज्यते। परोवरीयस्त्वादिविष्णुलिङ्गस्याऽऽकाशनिष्ठतया श्रवणात्। एवं यतस्तल्लिङ्गाच्छन्दोगश्रुत्युक्ताऽऽकाशो विष्णुस्ततश्च को हीत्यत्रापि स एव प्रतिपाद्यत इति तस्यैवाऽऽनन्दमयत्वे हेतुरुक्तोऽत आकाशस्याऽऽ-नन्दमयत्वे हेतुरुक्त इति न मन्तव्यमित्यर्थः।

‘परस्मादुत्तमं प्रोक्तं परो इति ततः परम्।

परोवरं परं तस्मात्प्रोक्तं पारोवरीयकम्’

इति स्मृतिः। उच्चत्वेन गीत उद्गीतः स एवोद्गीथः। ननु सर्वोत्तमत्वानन्तत्वयोः कुतो विष्णुलिङ्गत्वमित्यत आह॥ विष्णोरिति॥ विष्णोर्वीयाणि को नु प्रवक्ति योऽपि पार्थिवपरमाणून् गणयतीति तस्यानन्तत्वमुच्यते। परो मात्रया इत्यनेन सर्वोत्तमत्वम्। नन्वनन्तत्वम् ‘अनन्ताकाशवत्पश्यन्’ इत्याकाशस्यापि स्मर्यतेऽतः कथं विष्णोर् लिङ्गम् इत्यत आह॥ अनन्त इति॥ ननु श्रुत्या पूर्वपक्षिते कथं लिङ्गेन निर्णयो लिङ्गस्य श्रुतितो दौर्बल्यादित्यत आह॥ नामानीति॥ श्रुत्या पूर्वपक्षितेऽपि लिङ्गमात्रेण निर्णयो घटते। आकाशश्रुतेर् नामानि सर्वाणीति श्रुतिबलेन विष्णौ सावकाशत्वाल्लिङ्गस्य चाऽऽकाशेऽनवकाशत्वम्। दुर्बलेनापि निरवकाशेन प्रबलस्यापि सावकाशस्य बाधोपपत्तेरिति भावः। अस्तु लिङ्गेन श्रुतेर्बाधस् तथाऽपि विष्णौ श्रुतिरमुख्यैवाऽन्यत्र रूढत्वाद् विष्णौ यौगिकत्वाद् इति चेन्न। आकाशस्य भगवदधीनत्वेन तत्रैव मुख्यत्वान् महायोगविद्वद्रूढ्योर्भावाच्च। न चाऽऽकाशस्याऽपराधीनत्वात्। ‘नभो ददाति श्वसतां मार्गं यन्नियमाददः’ इत्यादेः। न च भूतकारणत्वोक्तिविरोधः। तस्य विष्णावेव सम्भवात्। तस्मादाधिभौतिकसर्वशब्दोपलक्षकाकाशशब्दवाच्यो विष्णुरेवेति स एवाऽऽनन्दमय इति स्थितम्

॥ २२, अ० ८॥

गुर्वर्थदीपिका

रूढेर्योगापवादकत्ववद्योगस्य रूढ्यपवादकत्वाभावान्न तद्वन्मुख्यतेति भावेनोक्तम् अमुख्यार्थाङ्गीकारा-योगादिति न तु सर्वथाऽमुख्यत्वम्। पाचकादिशब्दानां पाकादिकर्तरि लक्षणोपचारयोरनङ्गीकारेण योगस्यैव वक्तव्यत्वात्तस्य च मैत्रेऽपि प्रयुज्यमानत्वेन चैत्रत्वाद्यनिमित्तकस्यात एव केवलयोगवत्तया शिष्टैः परिगृहीतस्य चैत्रमैत्रनिष्ठचैत्रत्वादिरूढेरपवादकत्वात्क्वचिद्योगोऽपि बलीयानिति हेतोर् मन्दस्येयमाशङ्केति ज्ञेयम्। किञ्च योगरूढिस्थलीयपङ्कजादि पदयोगस्य पद्मत्वादिरूढिमपेक्ष्य शिष्टैस्तत्रैव प्रयुज्यमानतया तदधीनत्वादस्तु तथा तस्यापहारः। आ समन्तात् प्रकाशमानत्वरूपाऽऽकाशपदयोगस्तु स्वस्याऽऽकाशे सर्वथाऽविद्यमानत्वेनाऽऽकाशत्वमपेक्ष्य शिष्टैराकाशे कदाप्यप्रयुज्यमानत्वात्कथं तदधीनः। अतस्तामुल्लङ्घ्य यत्रातिशयेन स्वसम्भन्धोऽस्ति तत्र तमेव महाकाशं कथं न कुर्यादिति सूत्रकृतो भावः। ‘अस्य लोकस्य का गतिरित्ययं लोक इति होवाच’ इति पूर्ववाक्ये स्वर्गसाधनभूलोकस्य प्रस्तुतत्वादस्य लोकस्य का गतिरित्यत्रापि पृथिवीलोकगतित्वस्यैव प्रस्तुतिरिति भावेनोक्तं– पृथिवीति। अनन्तत्वस्य सर्वोत्तमत्वहेतुतयोक्तमात्रापरत्वात्मकत्वात् प्रथममुपपादनम्। ‘सर्वाणि ह वा इमानि भूतानि’ इत्युक्तसर्वभूतकारणत्वस्य भूतचतुष्टयमात्रकारणे भूताकाशे सङ्कोचनीयत्वाद्धरौ तदभावात्तस्य विष्णावेव सम्भवादित्युक्तम्। इत्याकाशाधिकरणम्॥

भावबोधः

सू०॥ ॐ आकाशस्तल्लिङ्गात् ॐ॥ श्रुत्यधिकरणसङ्गती दर्शयति– को हीत्यादिना॥ साक्षादव्यवहितपूर्वाधिकरणसङ्गतिस्तु–

चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः।

अचेतनस्वभावस्तु विवरादिः कथं ततः॥

इत्यनुव्याख्यानोक्तरीत्या पूर्वाधिकरणसिद्धान्तन्यायोपमर्देन पूर्वपक्षोत्थानादिति ज्ञातव्यम्। विष्णुरन्यो वेति। अत्राकाशः किं भूताकाशः, उत ब्रह्मेति चिन्ता। तदर्थमाकाशश्रुतिरनन्तत्वादिलिङ्गबाधिका, उत स्वयं तद्बाध्येति। तदर्थं सा श्रुतिः किं निरवकाशा, उत सावकाशेति। तदर्थम् आकाशशब्द-प्रवृत्तिनिमित्तं विवरत्वादिकं किमिन्द्रादिशब्दप्रवृत्तिनिमित्तैश्वर्यादिसमानयोगक्षेमं न भवत्युत भवतीति। तदर्थमचेतनस्वभावः किं विष्ण्वनधीन उत तदधीन इति। तदर्थं तस्य तदधीनत्व एतत्कल्पकत्वे-नाभिमतानन्तत्वादिलिङ्गनिरवकाशत्वे च प्रमाणं नास्ति उतास्तीति। ‘भूताकाशस्य प्राप्तिः’ इति भाष्याभिप्रायमाह आकाशशब्दस्येति।

नन्विदं पूर्वाधिकरणन्यायेन गतार्थमित्याशङ्कानिषेधपूर्वकं तद्धेतुत्वेन ‘चेष्टा हि चेतनानां या सा’ इति पूर्वोदाहृतानुव्याख्यानं मनसि निधायाभ्यधिकाशङ्कामाह– न चाकाशस्येत्यादिना। आकशस्या-चेतनत्वेनेत्यनेनाधिभूताध्यात्माधिदैवगतानामपि शब्दानामचेतनत्वजीवान्वयव्यतिरेकनित्यत्वेषु विद्यमाने-ष्वपीति न्यायविवरणे अचेतनत्वेत्यादेर् अधिभूतेत्यादिना यथाक्रमं सम्बन्धं विवक्षित्वा बुद्ध्या विविच्याचेतनत्वे विद्यमान इत्येतद्व्याख्यातं भवति। भाष्ये विषयोपस्थापकतया आकाश इति होवाचेत्ये-तावत्युदाहर्तव्येऽस्य लोकस्येत्यादिपूर्ववाक्योदाहरणप्रयोजनं तन्निरसनीयाशङ्काप्रदर्शनपूर्वकमाह– आकाशशब्दस्येति॥ पृथिवीगतित्वेति। अस्य लोकस्य का गतिरित्याकाश इति होवाचेत्यनेनोक्त-पृथिवीगतित्वोपपादनायेत्यर्थः। अनुव्याख्यानोक्तविवरत्वं तु ‘प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वानुचरन्ति’ इत्यादिश्रुत्या–

शब्दामात्रमभूत्तस्मान्नभः श्रोत्रन्तु शब्दगम्।

भूतानां छिद्रदातृत्वम्॥

इत्यादिस्मृत्या च सिद्धमिति तत्रापि भूताकाशग्रहणेन न तद्विरोध इति भावः। इति मनसि निधायेति। अन्यथा विषयसंशयाद्यनुक्त्वा पूर्वपक्षफलवचनस्यासङ्गतत्वादिति भावः। अपेक्षितं पूरयन् को हीति भाष्यं व्याचष्टेआकाशे छन्दोगश्रुत्युक्त इत्यादिना॥ अनेनैवेति॥ आनन्दमयत्वस्याप्यभि-मानिद्वारा भूताकाशे वक्तुं शक्यत्वेनैवेत्यर्थः। नन्वाकाशशब्दं योगेन विष्णुपरं कृत्वाऽऽनन्दमयत्वमेव साक्षात्तन्निष्ठं क्रियताम्। अभिमानिद्वारा तदुपपाद्याकाशशब्देन भूताकाशग्रहणे को विशेषहेतुरित्यत आह– रूढेर्बलवत्त्वेनेति॥ आकाशशब्दस्य भूताकाश इत्यर्थः॥ तस्यापीति॥ आनन्दमये प्रयुक्तस्याप्याकाशशब्दस्येत्यर्थः॥ मुखतोऽनुक्तेरिति॥ पूर्वपक्षफलकथनेन सूचितत्वादिति भावः। ‘न चासौ युज्यते’ इत्यत्र ‘असौ’ इति प्राप्तिपरामर्शे ‘किन्तु विष्णोरेव’ इति स्यात्। न तु ‘विष्णुरेव’ इति। अतः ‘असौ’ इत्याकाशपरं कृत्वा तस्य स्वरूपेण निषेधायोगाद् अपेक्षितमध्याहृत्य व्याचष्टे– नासावत्र वाच्य इति॥ इति स्मृतिरिति॥ अनेन श्रुतौ परोवरीयस्त्वं नामोक्तस्मृत्यनुसारेण परोवरीयकत्वमेव, न तु परोवरत्वमिति सूचितं भवति। अनन्तत्वमुच्यत इति। गुणतोऽनन्तत्व-स्याप्यनन्तशब्दार्थत्वादिति भावः। लिङ्गस्य चाकाशे निरवकाशत्वादिति। अनेन ‘अनन्यथासिद्धलिङ्गैः’ इति न्यायविवरणं व्याख्यातं भवति। तत्र ‘लिङ्गैः’ इति बहुवचनमनित्येष्वितिवद्विवेक्तव्यम्। एवमुत्तर-त्रापि ज्ञेयम्। तथापि कथं निर्णय इत्यतः सन्दिग्धश्रुतिलिङ्गाभ्यामुक्ताभ्यामप्यसन्दिग्धयोः केवलयोरेव बलवत्त्वमिति न्यायविवरणं मनसि निधायाऽऽह– दुर्बलेनापीति॥ अनेन ‘असन्दिग्धस्य केवलस्यैव लिङ्गस्य’ इति न्यायविवरणं बुद्ध्या विवेकेनात्र योजितं भवति। एवमुत्तरत्रापि नेयम्। समग्रतदक्षरयोजना तु गायत्र्यधिकरणे कथ्यते। तस्य विष्णावेवेति। सर्वाणि ह वेति सर्वभूतकारणत्वमाकाशस्योच्यते। तच्चाकाशपदेन विष्णुग्रहण एव सम्भवति। ‘आत्मन आकाशः सम्भूतः’ इत्यादिना विष्णोरेव सर्वभूतकारणत्वस्य प्रमितत्वात्। भूताकाशस्य तु स्वव्यतिरिक्तभूतकारणत्वेन तद्ग्रहणे सर्वशब्दसङ्कोचः कर्तव्य इति भावः॥ ४॥

भावदीपः

॥ ॐ आकाशस्तल्लिङ्गात् ॐ॥ द्वेधा ह्यन्यत्रप्रसिद्धाः शब्दा लोकतो वा लोकप्रसिद्धश्रुति-लिङ्गादिसाहित्येन वा। तत्राद्या आद्यपादे द्वितीयास्तु द्वितीयपादे समन्वीयन्त इति भावेनाह॥ लोक इति॥ लोकप्रयोगत इत्यर्थः। भाष्ये पूर्वपक्षफलोक्त्या सूचिते श्रुत्यधिकरणसङ्गती स्वयमाह॥ को हीति॥ स एवेति॥ इतः पूर्वं क्वापि लोकप्रसिद्धेरत्याजनेन लोकप्रसिद्ध्या सर्वत्रैकार्थत्वादिति भावः॥ छन्दोगेति॥ आद्ये अध्याये विष्णुलिङ्गानां दूरे श्रवणात् तदन्तवाक्योक्तिः॥ प्रागुक्तोऽपि स एवेति॥ भूते प्रसिद्धिमात्रेण ब्रह्मलिङ्गानामन्यथानयनस्य छान्दोग्य इवात्रापि सम्भवादिति भावः। वक्ष्यति च तथा च लोकचेष्टकत्वहेतुरित्यादि॥ स आकाश इति॥ शालावत्यकृतपृथिवीगतिप्रश्नं प्रत्युत्तरत्वेनोक्त इत्यर्थः। भूताकाशस्य प्राप्तिरिति भाष्यं व्याचष्टे॥ भूतेति॥ आकाशपदोक्त्या लब्धं हेतुमाह॥ रूढत्वादिति॥ विष्णौ तु न रूढिरिति भावः। पूर्वोक्तरीत्या गतार्थत्वमाशङ्कते॥ न चेति॥ तन्न्यायविषयत्वमाह॥ बाधकं विनेति॥ अनन्तत्वादिलिङ्गं तु रूढाकाशश्रुत्यनुरोधेन भूते कथञ्चिद्योज्यमिति भावः। एवं च पूर्वत्र समुद्रस्थत्वादेर्भाष्योक्तश्रुत्यादिना विष्ण्वेकनिष्ठत्वनिश्चयेन निरवकाशलिङ्गेनेन्द्रादिश्रुतेरज्ञरूढिबाधेन योगवृत्त्या विष्णुनिष्ठत्वोक्तावपीहानन्तत्वादेर्विष्णुनिष्ठत्वानिश्चयेन पूर्वन्यायाविषयत्वान्न तेनास्य गतार्थत्वमिति सूचितम्। एतेन भाष्ये पूर्वपक्षप्रापकविशेषहेत्व-नुक्तेस्तात्पर्यमुद्धाटितं ध्येयम्। एवमग्रेऽपि। सुधायां तु अनन्तत्वादिलिङ्गानां वास्तवं निरवकाशत्वमुपेत्य गतार्थतामाशङ्क्याऽभ्यधिकाऽऽशङ्कोक्ता। अत एव तत्र सुतरां निरवकाशलिङ्गादित्युक्तम्। किञ्च योगो हि प्रवृत्तिनिमित्तस्य तद्गतत्वेन वा तदधीनत्वादर्थवदिति वक्ष्यमाणन्यायेनान्यगतस्य तदधीनत्वाद्वा द्वेधा पूर्वमुक्तः। तत्राद्यस्त्वशक्यशङ्कः। आकाशपदप्रवृत्तिनिमित्तस्य विवरत्वस्याऽऽकाशस्वभावत्वात्। द्वितीयं निरसितुमाशङ्कते॥ न चाऽऽकाशस्येति॥ आकाशपदप्रवृत्तिनिमित्तविवरत्वादेराकाशस्वभावत्वाद् आकाशस्य तदधीनत्वानधीनत्वाभ्यां विवरत्वस्यापि ते स्यातामिति भावेनाकाशस्येत्येवोक्तम्॥ न त्वाकाशत्वस्येति॥

‘‘चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः।

अचेतनस्वभावस्तु विवरादिः कथं ततः’’

इत्यनुभाष्योक्तसमाधिमाह॥ आकाशस्येति॥ यद्वा द्विविधयोगमध्ये आद्यस्य निरासो बाधकं विनेत्यादि। आकाशपदप्रवृत्तिहेतोराकाशस्वभावतया विष्णावसम्भवाच्चेत्यपि ध्येयम्। द्वितीयस्य शङ्कापूर्वं निरासो न चाकाशस्येत्यादि॥ मुख्य इतीति॥ ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम्। स्वातन्त्र्यं तत्र मुख्यं स्यात्’ इत्यनुभाष्योक्तेरिति भावः। एवं च विनैवाभ्यधिकाशङ्कां पूर्वन्यायाविषयत्वेनेह टीकायां पूर्वपक्षप्रवृत्तिरभिमतेत्याहुः। आकाशस्य प्राप्तिरित्यनुक्त्वा भाष्ये भूतेत्युक्तेर्भावं विवृण्वानस् तदुपपादकत्वेनास्य लोकस्येति पूर्वांशोक्तिरिति वक्तुं तटस्थशङ्कामाह॥ आकाशेति॥ अवकाशे अव्याकृताकाश इत्यर्थः॥ सर्वभूतेति॥ स्वेतरसर्वभूतेत्यर्थः। अत्र रूढत्वादिनोक्तः पूर्वपक्षो वाचकशब्दरूपप्रमाणाश्रितः। आकाशस्याचनत्वेनेत्यादिनोक्तस्तु शब्दप्रवृत्तिहेतुरूपप्रमेयाश्रित इत्याहुः। भाष्योक्तेर्निर्बीजत्वभ्रमनिरासायाह॥ इति मनसीति॥ भूताकाश एवायमित्यादिनोक्तमित्यर्थः। स्वोक्तं सर्वं भाष्ये पूर्वत्र योज्यमिति भावेन भाष्यं योजयति॥ एवमिति॥ स एवेति॥ रुढ्या भूतप्राप्तिबलेनात्रत्यानन्तत्वादिब्रह्मलिङ्गस्य च तत्रापि विश्वचेष्टकत्वरूपब्रह्मलिङ्गस्याकाशे योजनीयत्वादिति भावः॥ अनेनैवेति॥ उक्तरीत्याऽऽनन्दमयस्याप्याक्षेपसम्भवेनैवेत्यर्थः॥ मुखत इति॥ फलोक्तिपरवाक्येन सूचितत्वान्मुखत इत्युक्तिः। व्याघातादिभ्रान्तिं निरस्यन् भाष्यं व्याचष्टे॥ यद्यपीति॥ तल्लिङ्गाद् इत्यत्र तदिति तन्त्रं षष्ठ्यन्तं सप्तम्यन्तं चेति मत्त्वाऽऽह॥ विष्णुलिङ्गस्येति॥ हेतुतया सूत्रमुपादत्त इत्युक्तं व्यनक्ति॥ एवमिति॥ स एवेति॥ निरवकाशलिङ्गेन भूते अज्ञप्रसिद्धिबाधस्य छान्दोग्यवाक्य इव तैत्तिरीयवाक्येऽपि विश्वचेष्टकत्वरूपनिरवकाशब्रह्मलिङ्गभावेन भूते अज्ञप्रसिद्धिबाधस्य तुल्यत्वादिति भावः। भाष्ये अत्रानुक्तमपि द्वितीयछान्दोग्यभाष्योक्तमर्थं व्यनक्ति॥ परस्मादिति॥ उच्चोऽसौ गीयते चेति छान्दोग्यभाष्योक्तेः। ‘उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः’ इति स्मृतेश्चाह॥ उच्चत्वेनेति॥ सर्वोत्तमत्वेन परोवरीयस्त्वोद्गीथत्वयोर्द्वयोरप्युक्तिः। क कः। प्रवोचं प्रवक्ति। विममे गणयति। तत्वप्रदीपे तु

विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह

यः पार्थिवान्यपि कविर्विममे रजांसि।

चस्कम्भ यः स्वरभसाच्चलितं त्रिपृष्ठं

यन्मां निशाम्य सदनादुरुकम्पमानम्॥

इति भागवतवचनादस्यार्थोऽवगम्यत इत्युक्तम्। परो मात्रयेति श्रुत्यर्थो जन्मादिनयेऽभिहितः॥ स्मर्यत इति॥ पुरुषार्थनयभाष्योक्तभविष्यत्पर्वस्मृतिकर्त्रेत्यर्थः। एतेनानन्यथासिद्धलिङ्गैरिति न्यायविवरणोक्तमनन्यथासिद्धत्वम् उपपादितं भवति॥ श्रुतिबलेनेति॥ श्रुत्यर्थस्त्वाद्यनयेऽभिहितः। ततश्च किमित्ययोऽनन्यथासिद्धलिङ्गैर् भगवद्विषयत्वमेव इत्यन्यत्रोक्तं हृदि कृत्वाऽऽह॥ दुर्बलेनापीति॥ ‘तथैव ह्यधिभूतगैः। अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः। शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात्’ इत्याद्यनुभाष्यार्थं व्यावर्त्यशङ्कापूर्वमाह॥ अस्त्विति॥ आकाशस्येति॥ तथा च तत्स्वभावस्यापि विवरत्वस्य भगवदधीनत्वमेवेत्यर्थः॥ मुख्यत्वादिति॥ ‘‘स्वातन्त्र्यं तत्र मुख्यं स्यात्’’ इत्युक्तेरिति भावः। आकाशस्यावकाशदातृत्वस्येश्वरायत्तत्वमीश्वरस्य पृथक् तद्वत्त्वं चावगम्यत इति सुधोक्तदिशा ‘सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसि’ इति स्मृत्युक्तदिशा चावकाशदातृत्वरूपविवरत्वस्य निरवधिकतया तद्गतत्वाच्चेति भावेनाऽऽह॥ महायोगेति॥ अत एव ‘विद्वद्रूढिरपि सिद्धा सा योगादेव लभ्यत’ इत्युक्तेः। यद्वा ‘एतद्ब्रह्म इदं वाव तद् योऽयं बहिर्धा पुरुषादाकाशः। यावान्वा अयमाकाशः। आकाशो वै नाम नामरूपयोर् निर्वहिता’ इत्यादिप्रयोगबाहुल्याच्चेति भावः। अत्र प्रतिनयं विष्णौ योगरूढिसमर्थनं तु सर्वत्रानुवृत्ततत्त्वितिशब्दे अवधारणार्थतुशब्दसूचितं ज्ञेयम्। विष्णौ परममुख्य-वृत्त्यभावेऽन्यस्मिंस्तद्भावे वाऽवधारणायोगादाकाशस्याचेतनत्वेनान्याधीनत्वायोगादिति प्रागुक्तमनूद्यानु-भाष्योक्तसमाधिमाह॥ न चाऽऽकाशस्येति॥ इत्यादेरिति॥ तृतीयस्कन्धे आदिपदेन प्राणेन सृष्टावन्तरिक्षं च वायुश्च एतस्य वाक्षरस्य प्रशासने गार्गि द्यावाभूमी विधृते तिष्ठत इत्यादिश्रुतिर्ग्राह्या। अत्र युक्तिस्तु विवरत्वादिकं कारणतः स्वरूपतोऽप्यनागन्तुकम्। तथापि धर्मिण एवाकाशादेरुत्पत्ति-विनाशवतो जन्मस्थितिलयेष्वीशाधीनत्वे धर्मस्यापि तथाभावोऽवर्जनीयः। तस्य जन्मादिस्तु ‘आत्मन आकाशः सम्भूतः’ इत्यादिना सिद्ध इति छन्दोनये सुधायामुक्ता। सा च विवृता चन्द्रिकायाम्।

अस्तु सच्छिद्रमिति या हरीच्छा तद्वशान्नभः।

छिद्रात्मकं हि सञ्जातमन्यथा निबिडं भवेद्।

इत्यादिना॥ विष्णावेवेति॥ आत्मन आकाश इत्यत्रेवासङ्कुचितसर्वभूतकारणत्वलाभादिति भावः। विश्वतोमुखत्वं व्यञ्जयन्सूत्रार्थमुपसंहरति॥ तस्मादिति॥ निरवकाशानेकलिङ्गभावादिति तल्लिङ्गा-दित्यस्यार्थः। आकाशस्तत्त्विति प्रतिज्ञांशार्थमाह॥ आधिभौतिकेति॥ अधिभूताध्यात्माधि-वेदगतानामिति न्यायविवरणोक्तेः। एतन्न्यायविषयाणामत्रैव वाच्यत्वात्सूत्रस्याल्पाक्षरत्वेन सर्वोक्तेरयोगात्। उपलक्षणत्वेन कस्यचिदुदाहर्तव्यत्वे सर्वभूतमूलकारणत्वेन प्राधान्यात्पूर्वाक्षेपकत्वेन सङ्गतत्वाच्चाकाश एवोदाहृतः सूत्र इति भावः। एवमग्रेऽपि। महायोगविद्वद्रूढिभावादाह॥ वाच्य इति॥ स एवानन्दमय इति फलोक्तिपरभाष्यार्थोपसंहारः॥ २२॥ अ. ८॥

अभिनवचन्द्रिका

ननु – तल्लिङ्गग्रहणं शक्यमकर्तुम्। ‘अन्तस्तद्धर्मोपदेशा’दित्यतस् तद्धर्मोपदेशादित्यनुवृत्यैव तल्लिङ्गादित्यर्थलाभसम्भवात्। सूत्रं चैवं सत्यल्पाक्षरं स्यात्। यद्यनुवर्तते ‘भेदव्यपदेशाच्चान्य’ इत्यत्राप्यनुवर्त्तेत। नैष दोषः। तत्राऽनुवृत्यभावेऽपि उत्तरसूत्रेऽनुवृत्तिसम्भवात्। तदुक्तं – महाभाष्ये– ‘मण्डूकप्लुतयोऽधिकाराः। यथा मण्डूका उत्प्लुत्योप्त्लुत्य गच्छन्ति तद्वदधिकारा’ इति। तस्मात् ‘आकाशश्चे’त्येव सूत्रमस्त्विति चेत्, मैवं – पूर्वसूत्रे हि धर्मपदं ब्रह्माण्डवीर्यत्वसमुद्रस्थत्वादिधर्मपरं, तदेव चेदिहानुवर्तेत। इहापि ब्रह्माण्डवीर्यत्वादिधर्मपरमेव स्यात्। न च त आकाश उपलभ्यन्त इति असिद्धिशङ्का स्यात्, तत्परिहाराय शिष्याणां मनःखेदो मा भूदिति तल्लिङ्गग्रहणम्। कथं तीर्ह ‘अत एव प्राण’ इत्यादौ अत एवेत्युक्तिः, असिद्धिशङ्कासाम्यादिति चेत्, न – अत्र हि ‘परोवरीयानुद्गीथः स एषोऽनन्त’ (छा.१-९-१) इति परोवरीयस्त्वमुच्यते। परोवरीयस्त्वं च महालक्ष्म्युत्तमत्वम्। ‘सर्वस्मादुत्तमं प्रोक्तं परो इति ततः परम्। परोवरं परं तस्मात् प्रोक्तं पारोवरीयक’मिति उत्तराधिकरणे वक्ष्यमाणं श्रीपतित्वं चैतदेवेति नासिद्धिशङ्केति न कश्चिद्दोषः। पूर्वाधिकरणसङ्गतिमाह। को हीति॥ आनन्दमयाधिकरणप्रतिपाद्यैतदधिकरणप्रतिपाद्ययोराकाशशब्दविषयत्वमेव सम्बन्ध इति भावः। अस्तु सङ्गतिः, तथापि आकाशस्य कुतो विष्णुत्वं समर्थनीयमित्यत आह – स चाऽऽकाश इति॥ छन्दोगश्रुत्युक्ताकाशस्य विष्ण्वन्यबुद्ध्यै तैत्तरीयश्रुत्युक्ताऽऽकाशोऽपि अन्य एवेति बुद्धिः स्यादित्ययुक्तम्। तस्य को ह्येवान्यादिति हेतुव्यपदेशपूर्वकमानन्दमयत्वस्य समर्थितत्वात्। न च आनन्दमयत्वनिश्चयेऽपि विष्ण्वन्यत्वबुद्धिर्युक्ता। ब्रह्मशब्दाभ्यासादिना आनन्दमयो विष्णुरेवेति साधितत्वादिति चेत्, स्यादयं दोषः, यदि यस्य ब्रह्मशब्दाभ्यासादिना आनन्दमयो विष्णुरिति निश्चयः स एवाऽत्राधिकरणेऽधिकारीति

ब्रूमः। न चैवं किंनाम प्रत्यधिकरणमधिकारिणो भिद्यन्ते। अधिकरणानां पृथग्विद्यात्वात्। उक्तं च सुधायाम्– ‘सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वाद् अवान्तरब्रह्मविद्या’ इति। एवं च सति एतदधिकरणाधिकारिणः ब्रह्मशब्दाभ्यासादेरानन्दमयस्य विष्णुत्वनिश्चयाभावात्, अस्याऽऽकाशस्य विष्ण्वन्यत्वबुद्धौ प्रत्यभिज्ञानात् तैत्तिरीयश्रुत्युक्ताऽऽकाशानन्दमययोरप्यन्यत्वबुद्धिः स्यादेवेति न किञ्चिदनुपपन्नम्। एवमुत्तरत्रापि द्रष्टव्यम्। तत्र रूढत्वादिति॥ नन्वन्यत्रप्रसिद्धिः सन्देहबीजमिति रूढेः सन्देहबीजत्वस्योक्तत्वात् पूर्वपक्षहेतुत्वाभिधानमयुक्तमिति चेत्, न आनन्दमये प्रयोगापेक्षया रूढेः प्राबल्यज्ञानविधुरस्य रूढिः सन्देहहेतुः, प्राबल्यज्ञस्य पूर्वपक्षहेतुरित्यङ्गीकारात्। एवमुत्तरत्रापि द्रष्टव्यम्।

चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः।

अचेतनस्वभावस्तु विवरादिः कथं ततः’॥

इत्यनुव्याख्यानदिशा अभ्यधिकाशङ्कामाह– न चेति॥ आकाशस्येत्यतः परं ‘इन्द्रादिव’दिति ग्राह्यम्। आकाशस्येति आकाशादिशब्दप्रवृत्तिनिमित्तस्य विवरत्वादेः स्वाभाविकस्य अन्याधीनत्वा-योगादित्यर्थः। चेतनस्य हीति॥ अत्र सम्भवतीत्यतःपरं दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यादिति शेषो द्रष्टव्यः। इति चेदिति॥ नेति शेषः। ननु स एवाऽऽनन्दमयो भवतीत्ययुक्तम्। अचेतनस्याऽऽनन्दाऽ-सम्भवादित्यत आह– आकाशस्येति॥ अचेतनत्वेन स्वत आनन्दासम्भवेऽपि अभिमान्यनुग्रहेण आनन्दो भवेदेव। अभिमानिदेवानां कर्त्तुमकर्त्तुमन्यथाकर्तुं सामर्थ्यसद्भावादिति भावः। एतेन अभिमानिन आनन्दमयत्वेऽपि आकाशस्य तदभावात्, आकाशस्याऽऽनन्दमयत्वे हेत्वभिधानमयुक्तम्, औपचारि-कानन्दमयत्वोपपादनायाऽऽनन्दसाधकहेतूपन्यासस्याऽकर्तव्यत्वादिति परास्तम्। व्यासानुग्रहेण कीटस्य राजत्वमिव देवतानुग्रहेणाऽचेतनस्याप्याकाशस्य आनन्दो भवतीत्यङ्गीकारात्। ननु अस्तु छन्दोगश्रुत्युक्त आकाशो भूताकाशः। तस्य तत्र रूढत्वात्, बाधकाभावे मुख्यार्थत्यागायोगात्। तथापि न तैत्तिरीय-श्रुत्युक्त आकाशो भूताकाशः। ब्रह्मशब्देन विष्ण्वभिन्नतया सिद्धे आनन्दमये आकाशशब्दप्रयोगेण तत्र रूढार्थग्रहणाऽयोगात्, रूढ्ययोगे च योगस्य ग्राह्यत्वेन विष्णोरेवाऽऽकाशत्वौचित्यात्। एवं च– तत्पूर्वाधिकरणाऽऽक्षेप इत्याशङ्क्य निषेधति – अनेनेति॥ अनेनेत्युक्तं हेतुं विवृणोति – रूढेरिति॥ इदमुक्तं भवति – स्यादयं तैत्तिरीयश्रुत्युक्तस्याऽऽकाशस्य विष्णुत्वाभ्युपगमः, यदि तद्गताकाशशब्दस्य रूढिबाधकमानन्दमस्य विष्णुत्वसाधकमनुमानं प्रबलं स्यात्, न चैवं रूढेर्बलवत्त्वेन तद्बलेनाकाशाऽऽनन्दमययोरभेदे सिद्धे तस्य विष्णुत्वसाधकानुमानस्य बाधितविषयत्वादिति। ननु सूत्रार्थनिरूपणावसरे ‘आकाश इति होवाचे’(छा.१-९)त्यत्र भूताकाशस्य प्राप्तिः। न चाऽसौ युज्यत इति न वक्तव्यम्। असूत्रार्थत्वादित्यत आह– विषयादेरिति॥ सत्यं न चासौ युज्यत इत्यन्तो न सूत्रार्थः, तथापि नैतद्गून्थवैयर्थ्यं, पूर्वपक्षफलाभिधानेन सूचितस्य विषयादेर् मन्दानां सुबोधत्वाय विषयादेरनुवादार्थत्वात्। अस्मिन् भाष्ये प्राज्ञानां मंदानां चाऽधिकार इति द्योतनाय विषयादिकं प्राक् सूचयित्वा पश्चादनुवादः कृत इति बोध्यम्। नासावत्र वाच्य इति॥ असावत्र प्रतिपाद्य इति न युज्यत इत्यर्थः। न मन्तव्यमित्यर्थ इति॥ इतः परं टीकायां ‘परोवरीयान् सर्वोत्तम’ इति वाक्यं लेखकदोषादुच्छिन्नमिति तद्वाक्यमिह द्रष्टव्यम्। अवश्यं चैतदेवं विज्ञेयम्। अन्यथा परस्मादिति श्रुत्युदाहरणमसङ्गतं स्यात्। ‘परोवरीया’निति शब्दस्य कुतः सर्वोत्तमत्वमर्थ इत्यत आह – परस्मादिति। अत्र स्मृतिरिति न प्रथमान्तपाठः। किन्तु स्मृतेरिति पञ्चम्यन्तः। एतेन स्मृतिरिति प्रथमान्तस्याऽनन्वय इति परास्तम्॥ ‘विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसी’(२-७)ति भागवतानुसारेण श्रुतिं व्याचष्टे– विष्णोर्वीर्याणीति। कमित्यस्यार्थः क इति। प्रवोचमित्यस्यार्थः प्रवक्तीति। श्रुतौ ‘प्रवोच’मिति लुङ्प्रयोगेऽपि प्रवक्तीति लट्प्रयोगः। अत्र लुङो न भूतकालार्थत्वं किंन्तु सर्वकालार्थत्वमिति द्योतनाय। एतेन वर्तमाननिषेधेऽपि स्यादतीतादौ कश्चिदिति परास्तम्। तिपो मिबादेशः। तदुक्तं महाभाष्ये – ‘तिङां च तिङो भवन्तीति वक्तव्यम्। चषालं ये अश्वयूपाय तक्षति तक्षन्तीति प्राप्त’ इति। ततश्चैवं योजना – कं कः, विष्णोर् वीर्याणि प्रवोचं नु प्रवक्तुमर्हति। ज्ञानाभावान् न कोऽपीत्यर्थः। ननु यः सर्वं ज्ञातुं प्रवक्तुं चाऽर्हति, अन्यथा सर्वज्ञत्वभङ्ग इत्यत आह– यः पार्थिवानीति॥ योऽपि सर्वज्ञः सोऽपि पार्थिवानिरजांसि विममे काक्का नेति गम्यते। अयं भावः – विद्यमानस्याऽज्ञत्वमेव सर्वज्ञत्वविरोधि नतु अविद्यमानाऽज्ञत्वम्। एवं च पार्थिवपरमाणूनामानंत्येन सङ्ख्यापरिच्छेदाभावात् तदज्ञत्वं यथा न दोषाय एवमीश्वरगुणानां ततोऽप्यनन्त्वात् तदज्ञानं नतदोषाय किंतु गुण एवेति। अस्त्विति॥ अस्तु विष्णुलिङ्गेन श्रुतेर्बाधस् ततश्चाऽऽकाशादिशब्दानां भगवत्परत्वनिर्णयश्च, तथापि – ‘नामानि सर्वाणी’ति श्रुत्यवष्टम्भेनोक्तं विष्णोराकाशादिशब्दमुख्यार्थत्वं नोपपद्यते। यतस्तवापि मते विष्णावाकाशश्रुतिरमुख्यैव, गुणपूर्तिसिद्धये विष्णावाकाशादिशब्दानां यौगिकत्वाङ्गीकारात्। अन्यत्रैव रूढत्वाङ्गीकारादिति भावः। एतेन – श्रुतिरमुख्यैवेति किं श्रुतेर्विष्णौ लाक्षणिकत्वं प्रतिज्ञायते उत यौगिकत्वम्। नाद्यः – यौगिकत्वेन लाक्षणिकत्वसाधनायोगात्। न द्वितीयः – साध्यावैशिष्ट्यादिति परास्तम्। यौगिकत्वप्रयुक्तरूढ्यवधिकामुख्यत्वविशेषसाधनस्येहाभिमतत्वात्।

पूर्वपक्षस्तु– ‘अस्य लोकस्ये’(छा.१-९)ति श्रुत्युक्ताऽऽकाशस्तावद् भूताकाशः। आकाशशब्दस्य तत्र रूढत्वात्। न चायमाकाशो विष्णुः। आकाशशब्दस्य तत्र यौगिकत्वादिति सत्प्रतिपक्षतेति वाच्यम्। योगस्य हीनबलत्वेनाऽप्रतिपक्षत्वात्। न चाकाशशब्दप्रवृत्तिनिमित्तस्याऽवकाशत्वस्य समवायेनाकाशवृत्तित्ववत् स्वातन्त्र्यलक्षणसम्बन्धेन हरावपि सत्त्वाद् उभयत्रापि रूढिरवशिष्टेति रूढ्या भूताकाशत्वानिर्णय इति वाच्यम्। आकाशस्याऽचेतनत्वाद्भगवदधीनत्वाभावेन आकाशत्वस्य स्वस्वामिभावसम्बन्धेन तद्वृत्तित्वाभावात्। एवं छन्दोगश्रुत्युक्ताकाशे भूताकाशे सति तैत्तिरीयश्रुत्युक्ता-काशोऽपि रूढिबलादेव भूताकाशः। ‘सर्वाणि हवा इमानी’(छा.१.९.१)ति तस्याऽऽकाशस्य भूतकारणतयोक्तत्वात् कार्यगतचेष्टायाः कारणाधीनतादर्शनेन ‘को ह्येवान्यादि’(तै.उ.२-१५)ति तैत्तिरीयश्रुत्युक्तजगच्चेष्टकत्वलिङ्गस्य सावकाशत्वेनाऽबाधकत्वात्। एवं च आनन्दमयोऽपि स एवेति न ब्रह्मजिज्ञासा सम्भवतीति।

सिद्धान्तस्तु– ‘अस्य लोकस्ये’ त्यत्राऽऽकाशस्तावद्विष्णुः। निरवकाशपरोवरीयस्त्वादिविष्णुलिङ्गात्। आकाशशब्दस्य हरौ महायोगविद्वद्रूढिसद्भावेन तत्रैव मुख्यत्वात्। एवं च छन्दोगश्रुत्युक्ताऽकाशस्य विष्णुत्वे तैत्तिरीयश्रुत्युक्ताकाशोऽपि जगच्चेष्टकत्वलिङ्गबलादेव विष्णुः। चेष्टकत्वस्य कर्त्तर्येव मुख्यत्वात्। मुख्ये सम्भवति अमुख्यग्रहणायोगात्। सर्वचेष्टकत्वस्य सर्वोत्तमत्वव्याप्यत्वेन भूताकाशे सर्वोत्तमत्वस्या-भावेन सर्वचेष्टकत्वाभावाच्च, आकाशस्य सर्वोपादनत्वाभावेन असङ्कुचितसर्वचेष्टकत्वासम्भवाच्च, अचेतनस्यानन्दाऽयोगाच्च। न च – अचेतनस्यापि चेतनानुग्रहेण आनन्दः सम्भवतीति वाच्यम् – अप्रामाणिकत्वात्। तस्मादाकाश आनन्दमयश्च स एवेति युक्ता ब्रह्मजिज्ञासेति सिद्धम्। (अ.८)

वाक्यार्थमुक्तावली

ॐ आकाशस्तल्लिङ्गात् ॐ। अन्यत्र प्रसिद्धिश्शब्दानां द्वेधा। लोकतो वा लोकतः प्रसिद्धश्रुतिलिङ्गादिना वा तत्राद्या आद्यपादे द्वितीयास्तु द्वितीयपाद इति भावेनाह॥ लोकत इति॥ आनन्दमयाधिकरणे लोकत इत्यनुक्तिस्तु तेषां गुणिसामान्यवाचकत्वादिति बोध्यम्। विस्तरस्त्वन्यत्र भाष्ये। पूर्वपक्षफलोक्त्या सूचितश्रुत्यधिकरणसङ्गती स्वयमाह– को हीति। प्रागुक्तोऽपीति। इतः पूर्वं प्रसिद्धेरत्याजनेन लोकप्रसद्ध्या सर्वत्रैकार्थत्वादिति भावः। अव्यवहितसङ्गतिस्तु चेतनस्य हि चेष्टादावन्याधीनत्वं सम्भवतीति पूर्वाधिकरणसिद्धान्तन्यायावकाशेनात्र पूर्वपक्षोत्थानस्य वक्ष्यमाणत्वादिति बोध्यम्। विष्णुरन्यो वेति। तत्राकाशः किं भूताकाश उत ब्रह्मेति चिन्ता। तदर्थमाकाशश्रुति-रनन्तत्वादिलिङ्गबाधिकोत तद्बाध्येति। तदर्थं श्रुतिर्निरवकाशा लिङ्गं सावकाशमुत विपरीतमिति। रूढत्वादिति। विष्णौ तु न रूढिः। न च नामानि सर्वाणीति निगमबलाद्रूढिरस्तीति वाच्यम्। गगने आकाशशब्दस्य बहुप्रयोगवद्विशिष्य रूढिज्ञापकाभावादिति भावः। पूर्वाधिकरणन्यायेन गतार्थत्व-माशङ्क्य चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः। अचेतनस्वभावस्तु विवरादिः कथं तत इत्यनुव्याख्यानं मनसि निधायाभ्यधिकाशङ्कामाह न चाकाशस्येत्यादिना॥ चेतनस्येति॥ इन्द्रादिशब्द-प्रवृत्तिनिमित्तमैश्वर्यं वर्षणशोषणपालनादिरूपा चेतनसम्बन्धिनी चेष्टा सा चागन्तुकज्ञानेच्छादिकारण-सापेक्षत्वात्स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपश्च परमेश्वरायत्तेति युज्यते। आकाशादिशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकत्वादिति भावः। भूताकशस्य प्राप्तिरति। विशिष्य भूतग्रहणे हेतुमा-शङ्क्याह आकाशशब्दस्येत्यादिना। अवकाशेऽव्याकृताकाशे अनन्तत्वादिलिङ्गन्तु कथञ्चिद्योज्यमिति भावः॥ पृथिवीगतित्वेति॥ अस्य लोकस्य का गतिरिति आकाश इति होवाचेत्यत्रेत्यर्थः। अनेनैवेति ‘अभिमानिन्यानन्दमयत्वसम्भवेनेत्यर्थः। नन्वाकाशशब्दस्यापि योगेन सावकाशत्वसम्भवा-दानन्दमयत्वमेव साक्षाद्विष्णुनिष्ठं क्रियताम्। अभिमानद्वारा तदुपपाद्याकाशशब्देन भूताकाशग्रहणे को विशेषहेतुरित्यत आह– रूढेरिति॥ अथवाऽनेनैवेत्यस्य विवरणमेतदिति ज्ञेयम्॥ मुखत इति॥ पूर्वपक्षफलोक्तिपरभाष्ये सूचितत्वादिति भावः। न चासौ युज्यत इत्यत्रासावित्यनेन प्राप्तिपरामशे किं तु विष्णोरेवेत्युत्तरवाक्यं स्यान्न तु विष्णुरित्यतोऽसावित्याकाशपरामर्शे इति भावेन तस्य स्वरूपेण निषेधायोगाद् अपेक्षितमध्याहृत्य व्याचष्टे। नासावत्र वाच्य इति। तल्लिङ्गादित्यत्र तदिति तन्त्रं षष्ठ्यन्तं सप्तम्यन्तं चेति मत्वाऽह। विष्णुलिङ्गस्याकाशनिष्ठतया श्रवणादिति हेतुतया सूत्रमुपन्यस्य व्याचष्ट इत्येतद्व्यञ्जयन् यतस्तल्लिङ्गादाकाशो विष्णुरतो न मन्तव्यमित्यन्वयमभिप्रेत्य व्याचष्टे। एवं यत इत्यादिना। परस्मादुत्तमं प्रोक्तं परो इत्यत्र पर उ स्थिते गुणे परो इति निष्पन्नमिति ज्ञेयम्। परं तस्मादिति। परोवरशब्दादतिशयेऽर्थे ईयसुन्प्रत्यये परोवरीय इति सिद्ध्यति। परोवरीय एव पारोवरीयकमिति ज्ञेयम्। अनन्तो भगवानित्यादौ शाखान्तरनिर्णयाय भगवानित्याद्युक्तिः। अत एव यदेव आकाश आनन्दो न स्यादित्याकाशस्य विष्णुत्वे आनन्दपदोपादानम्। यद्यप्यनन्त इति श्रुतिः। तथापि यौगिकत्वाल्लिङ्गत्वोक्तिरिति ज्ञेयम्। नामानि सर्वाणीति श्रुतिबलेनेति। सर्वशब्दसङ्कोचकल्पका-भावादिति भावः॥ यौगिकत्वादिति॥ नामानि सर्वाणीति श्रुतेस्सामान्यश्रुतित्वाद् योगेनाविशन्तीति श्रुत्यर्थोपपत्तेश्चेति भावः। आकाशस्य भगवदधीनत्वेनेति। तदधीनत्वादर्थवदिति वक्ष्यमाणन्यायेन तत्रैव रूढेर्मुख्यत्वादिति अर्थः। तदुक्तम्। स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम्। स्वातन्त्र्यं तत्र मुख्यं स्यादिति। सर्वभूतगुणैर्युक्तं देवं त्वं ज्ञातुमर्हसीति स्मृतेः। अन्तरः खवदिति सङ्ग्रह-भाष्योक्तेश्चावकाशदातृत्वरूपाकाशपदप्रवृत्तिनिमित्तस्य निरवधिकतया तत्र विद्यमानत्वान्महायोगोऽप्यस्तीति भावेनाह। महायोगेनेति॥ अत एव विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यत इत्युक्तदिशा विद्वद्रूढिरपि सिद्धा विष्ण्वावेति। आत्मन आकाशः सम्भूत इत्यादिना विष्णोरेव सर्वभूतकारणत्वस्य प्रमितत्वात्। भूताकाशस्य तु स्वव्यतिरिक्तभूतकारणत्वेन तद्ग्रहणे सर्वशब्दसङ्कोचप्रसक्तेरिति भावः।

तत्त्वसुबोधिनी

ॐ आकाशस्तल्लिङ्गात् ॐ॥ अस्ति शास्त्रादिसङ्गतिरिति॥ अत्र ब्रह्मणीत्यनेन शास्त्रसङ्गतिः। समन्वयेत्यनेनाध्यायसङ्गतिः। अन्यत्र प्रसिद्धनाम्न इत्यन्तेन पादसङ्गतिः सूचिता भवतीत्येवमुत्तरत्रापि द्रष्टव्यम्। यस्तु द्वितीयपादे वैश्वानराधिकरणे नामसमन्वयमुखेन लिङ्गसमन्वय उक्तः स प्रथमपादे अन्यत्रनिरूढनामसमन्वयस्योक्तत्वेन बुद्धावारोहात् पाचकत्वादिलिङ्गानामपि अन्यत्र निरूढत्वाद् बहुत्वाच्च युक्त इत्यर्थः। अत्राद्ये सूत्रे लिङ्गरूपस्वपक्षसाधकोक्तिः। द्वितीये परपक्षे भेदव्यपदेशरूपबाधकोक्तिरिति सूत्रक्रमः॥ श्रुत्यधिकरणसङ्गती दर्शयति। को हीति। अव्यवहिताधिकरणसङ्गतिस्तु अधिकां शङ्कां कृत्वा पूर्वाधिकरणसिद्धान्तन्याय एवातिदिश्यत इत्यातिदेशकी। को हीति भाष्यन्तु पूर्वपक्षे आनन्दमयाधिकरणाक्षेपात् सिद्धान्ते च तत्समाधानात् सफलोऽयं विचार इति चिन्तायाः साफल्यमात्रपरमित्यवधेयम्॥ योगवृत्त्येति॥ आसमन्तात् काशते प्रकाशते इत्याकाश इति योगवृत्त्येत्यर्थः। नन्विदं पूर्वाधिकरणन्यायेन गतार्थमित्यतोऽभ्यधिकाशङ्कामाह। न चाकाशस्येत्यादिना। अचेतनत्वेऽपि कुतोऽनन्याधीनत्वमत आह– चेतनस्य हीति॥ पृथिवीगतित्वेति॥ ‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’ इत्यनेनोक्तपृथिवीगतित्वोपपादनायेत्यर्थः॥ तच्चेति॥ सर्वभूतकारण-त्वादिकमित्यर्थः। इति मनसि निधायेति। अन्यथा विषयसंशयाद्यनुक्त्वा पूर्वपक्षफलवचनस्यासङ्गतत्वादिति भावः। नन्वाकाशस्य आनन्दमयत्वमयुक्तं तस्याचेतनत्वादित्यत आह। आकाशस्येति। अनेनैवेति। अभिमानिद्वारा आनन्दमयत्वोपपत्तिकथनेनेत्यर्थः। नन्वाकाशशब्दं योगेन विष्णुपरं कृत्वा आनन्दमयत्वमेव साक्षात्तन्निष्ठं क्रियताम्। अभिमानिद्वारा तदुपपाद्य आकाशशब्देन भूताकाशग्रहणे को विशेषहेतुरित्यत आह॥ रूढेर् बलवत्वेनेति॥ आकाशशब्दस्य भूताकाश इति अर्थः॥ तस्यापीति॥ आनन्दमये प्रयुक्तस्य आकाशशब्दस्यापीत्यर्थः॥ मुखतोऽनुक्तेरिति॥ पूर्वपक्षफलकथनेन सूचितत्वादिति भावः। न चासौ युज्यते इत्यत्रासाविति प्राप्तिपरामर्शे किन्तु विष्णोरेवेति स्यात्। न तु विष्णुरेवेति॥ अत असाविति आकाशपरं कृत्वा तस्य स्वरूपेण निषेधायोगादपेक्षितमध्याहृत्य व्याचष्टे॥ नासावत्र वाच्य इति॥ हेतुरुक्त उपदिष्टः। जगच्चेष्टकत्वस्य॥ इति स्मृतिरिति॥ अनेन श्रुतौ परोवरीयस्त्वं नाम उक्तस्मृत्यनुसारेण परोवरीयकत्वमेव न तु परोवरत्वमिति सूचितं भवति॥ अनन्तत्वमुच्यत इति॥ गुणतोऽनन्तत्वस्याप्यनन्तशब्दार्थत्वादिति भावः। नन्वाकाशश्रुतेर् विष्णौ सावकाशत्ववद् विष्णुलिङ्गस्यापि आकाशे सावकाशत्वादयुक्तमेतदित्यत आह॥ लिङ्गस्य चेति॥ तथापि लिङ्गस्य द्वितीयप्रमाणत्वेन दुर्बलत्वात्कथं निर्णय इत्यत आह॥ दुर्बलेनापीति॥ तस्य विष्णावेवेति॥ सर्वाणि ह वेति सर्वभूतकारणत्वमाकाशस्योच्यते। तच्चाकाशपदेन विष्णुग्रहण एव सम्भवति। आत्मन आकाशः सम्भूत इत्यादिना विष्णोरेव सर्वभूतकारणत्वस्य प्रमितत्वात्। भूतकाशस्य तु स्वव्यतिरिक्त-भूतकारणत्वेन तद्ग्रहणे सर्वशब्दसङ्कोचः कर्तव्य इति भावः॥

वाक्यार्थमञ्जरी

अस्य लोकस्येति॥ अस्य लोकस्य पृथिव्यभिमानिनो ब्रह्मणः का गतिरिति शालावत्येन पृष्टे आदीप्तत्वादाकाशनामको विष्णुरिति होवाच प्रवाहणः। कथमेतस्य पृथिव्यभिमानिब्रह्मणो गतित्व-मित्यतस्तस्य माहात्म्यमाह॥ सर्वाणीति॥ सर्वाणि इमानि प्रमाणप्रसिद्धानि भूतानि ब्रह्मरुद्रादीनि आकाशादेव समुत्पद्यन्ते ह वा इत्यस्यार्थस्य वैदिकप्रसिद्धिमाह। आकाशं प्रति अस्तम् अदर्शनं यान्ति यत्रैव प्रलये मुक्तौ च लीना भवन्ति। कुतः हि यस्मादाकाश एवैभ्यो ब्रह्मरुद्रादिभूतेभ्यो ज्यायान्। तदपि कुत आकाशः परायणम् उत्तमाश्रयः। नैतस्मादप्युत्तमं वस्त्वाशङ्क्यमित्याशयेनाह॥ स इति॥ स एष आकाशनामा भगवान् परोवरीयान् सर्वोत्तम उद्गीथ उच्चैर्देवैर्गीथः स एषोऽनन्तः देशतः कालतः गुणतश्च परिच्छेदशून्यत्वादनन्तनामक इत्यर्थः॥ आकाशस्येति॥ तथा च तत्स्वभावभूत-प्रवृत्तिनिमित्तस्यापि भगवदधीनत्वमिति भावः। अवकाशे अव्याकृताकाशे॥ अनेनैव॥ आकाश-स्येत्यादिभाष्येणैव। कथमित्यत आह॥ रूढेरिति॥ तस्यापि आनन्दमयप्रयुक्ताकाशशब्दस्यापि॥

ॐ आकाशस्तल्लिङ्गात् ॐ॥ आकाश इति होवाचेत्याकाशशब्दवाच्यो विष्णुरेव स एष परोवरीयान् स एषोऽनन्त इत्यादिना आकाशे श्रुतपरोवरीयस्त्वानन्तत्वादिविष्णुलिङ्गादित्यर्थः। परोवरीयव्याख्यानरूपां छान्दोग्यभाष्योदाहृतां स्मृतिमुदाहरन्ति॥ परस्मादिति॥ परशब्दितभारत्युत्तमो ब्रह्मा पर इत्युच्यते उशब्दस्योत्तमार्थकत्वात्तदुत्तमा रमा परोवरमिति तदुत्तमो हरिः पारोवरीयक इति छान्दोग्यभाष्योदाहृत-स्मृत्यर्थः। उच्चत्वेन उत्तमत्वेन॥ स एवेति॥ निर्वचनत्वात्तकारस्य थकार इति भावः। योऽपि सोऽपि न प्रवक्तीत्यर्थः॥ अनन्तत्वमुच्यत इति॥ गुणतोऽनन्तत्वस्याप्यनन्तशब्दार्थत्वादिति भावः॥ सर्वोत्तमत्वमिति॥ मात्रशब्देन परिमितसर्वजगद्ग्रहणादिति भावः। स्मर्यते भविष्यत्पर्वणि। महायोगेऽपि। सर्वभूतगुणैर्युक्तं देव त्वं ज्ञातुमर्हसीत्युक्तेः। पुरुषादाकाशः यावान्वा अयमाकाश आकाशो वै नामेति वैदिकप्रयोगबाहुल्याच्चेति भावः॥ नभ इति॥ आदो नभः यस्य हरेः प्रेरणाच्छ्वासं कुर्वतां मार्गं ददातीति तृतीयस्कन्धवाक्यार्थः॥ विष्णावेवेति॥ सर्वाणि ह वेति भूतकारणत्व-माकाशस्योच्यते। तच्चाकाशपदेन विष्णोरेव ग्रहणे सम्भवति। आत्मन आकाशः सम्भूत इत्यादिना विष्णोरेव सर्वभूतकारणत्वेन प्रमितत्वात्। भूताकाशस्य तु स्वव्यतिरिक्तभूतकारणत्वेन तद्ग्रहणे सर्वशब्दस्य सङ्कोचः कार्य इति भावः। इदमभ्युपेत्योक्तम्। उक्तरीत्या भूतशब्दस्य ब्रह्मादिपरत्वात्। उशब्द-स्योत्तमार्थत्वात्॥ आधिभौतिकेति॥ महाभूताधिकाराख्यग्रन्थप्रतिपाद्यं देहाद्बाह्यप्रकृत्यन्तञ्जडमधिभूतं तद्गतेत्यर्थः। यथोक्तं महाभूताधिकारणम्। तत्कारणं तथा कार्यमधिभूतं तदन्तिकादिति॥ ८॥

विवृतिः

श्रुत्यधिकरणसङ्गती दर्शयति॥ को हीति॥ अव्यवहिताधिकरणसङ्गतिस्तु अधिकां शङ्कां कृत्वा पूर्वाधिकरणसिद्धान्तन्याय एवातिदिश्यत इत्यातिदेशिकी। तत्र हेतुमाह॥ आकाशशब्दस्येति॥ योगवृत्येति॥ आसमन्तात्काशते, प्रकाशत इत्याकाश इति योगवृत्येत्यर्थः॥ नन्विदं पूर्वाधिकरणन्यायेन गतार्थमित्यतोऽभ्यधिकां शकामाह॥ न चाकाशस्येत्यादिना॥ अचेतनत्वेऽपि कुतो नान्याधीनत्वमत आह॥ चेतनस्य हीति॥ पृथिवीगतित्वेति॥ अस्य लोकस्य का गतिरित्याकाश इति होवाचेत्यनेनोक्तपृथिवीगतित्वप्रतिपादनायेत्यर्थः॥ तच्चेति॥ सर्वभूतकारणत्वं लयाधिकरणत्वादिक-मित्यर्थः॥ इति मनसि निधायेति॥ अन्यथा विषयसंशयाद्यनुक्त्वा पूर्वपक्षफलवचनस्यासङ्गतत्वादिति भावः॥ नन्वाकाशस्यानन्दमयत्वमयुक्तं तस्याचेतनत्वादित्यत आह॥ आकाशस्येति॥ अनेनैवेति॥ अभिमानिद्वारा आनन्दमयत्वोपपत्तिकथनेनेत्यर्थः॥ न चाकाशशब्दं योगेन विष्णुपरं कृत्वा आनन्दमयत्वमेव साक्षात्तन्निष्टं क्रियताम् अभिमानिद्वारा तदुपपाद्याकाशशब्देन भूताकाशग्रहणे को विशेष इत्यत आह॥ रूढेर्बलवत्वेनेति॥ आकाशशब्दस्य भूताकाश इत्यर्थः॥ तस्यापीति॥ आनन्दमये प्रयुक्तस्य आकाशशब्दस्यापीत्यर्थः। त्वस्याभिमान्याद्वारकत्वरूपमुख्यत्वस्यापीत्यर्थः॥ मुखतोऽनुक्तेरिति॥ पूर्वपक्षफलकथनेन सूचितत्वादिति भावः॥ न चासौ युज्यत इत्यत्रासाविति प्राप्तिपरामर्शे किन्तु विष्णुरेवेति स्यान् न तु विष्णुरेवेति॥ अत असावित्याकाशपरं कृत्वा तस्य स्वरूपेण निषेधायोगादपेक्षितमध्याहृत्य व्याचष्टे॥ न चासावत्र वाच्य इति॥ हेतुरुक्त उपदिष्टः। जगच्चेष्टकत्वस्य। स्मृतिरिति॥ अनेन श्रुतौ परोवरीयस्त्वं नामोक्तस्मृत्यनुसारेण पारोवरीयकत्वमेव न तु परोवरत्वमिति सूचितं भवति॥ अनन्तत्वमुच्यत इति॥ गुणतोऽनन्तत्वस्याप्यनन्तशब्दार्थत्वादिति भावः॥ नन्वाकाशश्रुतेर् विष्णाववकाशवद्विष्णुलिङ्गस्याप्याकाशे सावकाशत्वादयुक्तमेतदित्यत आह॥ लिङ्गस्येति॥ तथापि लिङ्गस्य द्वितीयप्रमाणत्वेन दुर्बलत्वात् कथं निर्णय इत्यत आह॥ दुर्बलेनापीति॥ तस्य विष्णावेवेति॥ सर्वाणि ह वेति सर्वभूतकारणत्वमाकाशस्योच्यते। तच्चाकाशपदेन विष्णुग्रहण एव सम्भवति॥ आत्मन आकाशः सम्भूत इत्यादिना विष्णोरेव सर्वभूतकारणत्वस्य प्रमितत्वाद् भूताकाशस्य तु स्वव्यतिरिक्तभूतकारणत्वेन तद्ग्रहणे सर्वशब्दसङ्कोचः कर्तव्य इति भावः॥

॥ इति आकाशाधिकरणम्॥