ॐ अन्तस्तद्धर्मोपदेशात् ॐ
७. अन्तस्थत्वाधिकरणम्
सूत्रभाष्यम्
‘अदृश्येऽनात्म्ये’ इत्युक्तम्। तच्चादृश्यत्वम् ‘अन्तःप्रविष्टं कर्तारमेतम्। अन्तश्चन्द्रमसि मनसा चरन्तम्। सहैव सन्तं न विजानन्ति देवा’ (तै.आ.३-११) इत्यन्तःस्थस्य कस्य-चिदुच्यते। स च ‘इन्द्रो राजा’ (तै.आ.३-११-६) ‘सप्त युञ्जन्ति’ (तै.आ.३-११-८) इत्यादिभिरन्यः प्रतीयते। तस्मात्स एवानन्दमय इति न मन्तव्यम्।
ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥ २०॥
अन्तः श्रूयमाणो विष्णुरेव। ‘अन्तस्समुद्रे मनसा चरन्तम्। ब्रह्मान्वविन्दद्दश-होतारमर्णे’ (तै.आ.३-११-१)। ‘समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’ (तै.आ.३-११-११)। ‘यस्याण्डकोशं शुष्ममाहुः’ (तै.आ. ३-११-४) इत्यादितद्धर्मोपदेशात्। स हि क्षीरसमुद्रशायी। तस्य च वीर्यमण्डकोशः।
‘सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यमवासृजत्॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्।
यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृत’॥ इति व्यासस्मृतौ।
‘अहं तत्तेजो रश्मीन्नारायणं पुरुषं जातमग्रतः। पुरुषात्प्रकृतिर्जगदण्डमि’ति चतुर्वेद-शिखायाम्॥ २०॥
सत्तर्कदीपावली
गताधिकरणेनोत्तराधिकरणस्य सङ्गतिं तावदारभते। अदृश्य इत्यादिना। इदमाम्नायते॥ अन्तः-प्रविष्टं कर्तारमेतमिति। अत्रान्तःस्थितस्य पुरुषस्यानन्दमयधर्मत्वेन तत्प्रकरणपठितमदृश्यत्वं श्रूयते सहैव सन्तं न विजानन्ति देवा इति। तेनैतद्विचारो गताधिकरणेन सङ्गतः। अत्र देवैरविज्ञायमानोऽन्तःप्रविष्टः कर्ता इन्द्रो वा सूर्यो वा अग्न्यादिर्वा भवेत्। अन्तःप्रविष्टस्य कर्तुः प्रकरणे इन्द्रो राजा जगतो य ईशे इतीन्द्रशब्दश्रवणात्। सप्त युञ्जन्ति रथमेकचक्रमिति सूर्यलिङ्गश्रवणात्। ब्रह्मेन्द्राग्न्यादिशब्दश्रवणात्। अतोऽर्थादानन्दमयोऽपि इन्द्राद्यन्यतम इति प्रतिक्षिपत्सूत्रमुपन्यस्यति अन्तरिति। व्याचष्टे। अन्तः श्रूयमाण इत्यादिना। अयमर्थः। अन्तःप्रविष्टं कर्तारमेतम् इत्येतद्वाक्योक्तो विष्णुरेव तत्प्रकरणवाक्येषु अन्तःसमुद्र इत्यादिविष्णुलिङ्गश्रवणात्। एतच्च विष्णोरेव लिङ्गमित्येतद्व्यासस्मृत्या दर्शयति॥ सोऽभिध्यायेति॥ एतदेव श्रुत्यन्तरेण द्रढयति॥ अहं तत्तेज इति॥ ओयत्वादहंनामकं रश्मीनीरयति प्रेरयतीति रश्मीच्छब्दवाच्यम्। रश्मीनां मध्ये तपन्तमित्याद्युक्तं जलायनत्वान्नारायणनामकं तत्तेजोऽग्र आसीत् तस्मात्पुरुषशब्दाभिधेयात् प्रकृतिर् जगदण्डं च जातमित्यर्थः। एतेनान्यसिद्धेन विष्णुलिङ्गेनेन्द्रादि-श्रुतिलिङ्गानामन्यथासिद्धानां बाधितत्वान्नेन्द्राद्यन्यतमोऽन्तरित्यादिवाक्ये शङ्कनीयः।
तत्त्वप्रदीपिका
एवं तावदानन्दमयादिशब्दसमन्वयप्रतिपादनमुखेन तैत्तिरीयशाखागतानां तद्रूपशाखान्तरगतानां च नाम-शब्दानां विष्णौ समन्वयो दर्शितः। तेषां तद्गतलिङ्गानां वा पुनः श्रुतिष्वितरशब्दादियोगेन वृत्तेस्संशयप्राप्तौ विशेषन्यायविवक्षयाऽधिकरणान्तराण्यारभ्यन्त इत्यत्र च सम्बन्धः प्रायस्समन्वयाधिकरणानां विद्यते। तं च क्वचित्क्वचिदाचार्यः स्पष्टं दर्शयति। यथेह अदृश्य इत्यादिना। अयमर्थः, ‘अदृश्येऽनात्म्य’ इत्यानन्द-मयस्यादृश्यत्वमुक्तम्। तच्च अनःप्रविष्टस्य चन्द्रादिषु स्वेच्छया चरतः प्रतीयते न विजानन्तीति। स च ‘इन्द्रो राजा जगतो य ईशे सप्तहोता सप्तधा विक्लृप्तः,’ ‘सप्त युञ्जन्ति,’ ‘ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्’ इत्यादिष्वन्योऽन्यः प्रतीयते। सप्तबुद्धीन्द्रियाणि विषयेषु जीवेन जुहोतीति ‘सप्तहोता’, विषयानिन्द्रियैर्जीवे वा। सप्तगणा रथं प्रत्यात्मानं युञ्जन्ति, रथे युक्ता इत्यर्थः। एकोऽश्वो वेदः सप्तच्छन्दोनामा। छन्दोभिमानिनां पृथक्त्वेऽपि वेदाभिमानी सप्तस्वेकोऽस्ति। मास-चतुष्कैस्त्रिभिः ‘त्रिनाभि’। ‘अनर्व’मर्वभ्यो दूरस्थचक्रं मानसोत्तरगिरिशिखरवलयपरिवर्ति, अर्वन्तो मेरुमानसोत्तरमध्याकाशगाः। अन्तस्तद्धर्मोपदेशात्। ‘अन्तः समुद्रे मनसा चरन्तं ब्रह्मान्वविन्दद्दश-होतारमर्णे’ ‘समुद्रेऽन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः’। कवयः सन्तो वेधसः, मरीचीनामाश्रयभूतं विचक्षणायेच्छन्ति। ‘मरीचिर्मितरुक्त्वत’ इति वचनान्मरीचिर्जीवः। ‘यस्याण्डकोशं शुष्ममाहुः प्राणमुल्बं, तेन क्लृप्तोऽमृतेनाहमस्मि’ इति विरिञ्चवाक्यम्। शुष्मं वीर्यम्, उल्बं जरायोरन्तः-प्रावरणं, येन सहैव जायते। ‘अहं तत्तेजो रश्मीन्नारायणं पुरुषं जातमग्रतः। पुरुषात्प्रकृतिर्जगदण्डं त्रिपुरुषं मायाबीजं जायत’ इति। रश्मीनिन्दयतीति रश्मीत्, इन्द प्रेरण इति धातोः। रतिः शं च मितमस्येति रश्मिर्जीवः। अग्रतः पुरुषाज्जातं प्रकृतिर्जगच्च। जगदिति जीवसमुदाय उच्यते। ततः प्राप्तविशेषमित्यर्थः। पश्चादण्डं त्रिपुरुषयुक्तं प्रकृत्युपादानं जायते। ब्रह्मवायुरुद्रास्त्रयः पुरुषाः।
तत्त्वप्रकाशिका
अत्र परमात्मन्यन्यत्र प्रसिद्धेन्द्रादिनामसमन्वयसिद्ध्यर्थमन्तःस्थत्वलिङ्गसमन्वयसमर्थनादस्ति शास्त्रादि-सङ्गतिः। श्रुत्यधिकरणसङ्गती दर्शयति॥ अदृश्य इति॥ ‘अदृश्येऽनात्म्येऽनिरुक्ते’ इत्यानन्दमयस्य यददृश्यत्वमुक्तं तच्चान्तःप्रविष्टमिति वाक्ये कस्यचिदन्तःप्रविष्टस्य ‘सहैव सन्तं न विजानन्ति देवा’ इत्युच्यते। सोऽन्तस्थो निर्णेयो भवति। तस्य विष्णोरन्यत्वेऽदृश्यत्वं च तस्यैवेत्यानन्दमयस्यान्यत्व-प्रसङ्गात्। सोऽन्तःस्थो विषयः। विष्णुरन्यो वेति सन्देहः। अदृश्यत्वलिङ्गमिन्द्रादिश्रुतिश्च प्राबल्याद्य-विवेकेन सन्देहबीजमिति भावः।
तत्र सयुक्तिकं पूर्वपक्षयति॥ स चेति॥ सोऽन्तःस्थोऽन्य इन्द्रादिः स्यात्। ‘इन्द्रो राजा जगतो य ईशे’ इतीन्द्रश्रुतेः। ‘सप्त युञ्जन्ति रथमेकचक्रम्’ इति सूर्यलिङ्गात्। ‘अपां नेतारम्’ इति वरुणलिङ्गात्। ‘त्वष्टारं रूपाणि विकुर्वन्तम्’ इति त्वष्टृश्रुतेः। ‘ब्रह्मेन्द्रम्’ इत्यादिश्रुतिलिङ्गेभ्यश्च। न चेन्द्रादिशब्दा अन्यत्र नेतुं शक्यन्ते। तेषां देवेष्वेव रूढत्वात्तेषामैश्वर्यादिशब्दप्रवृत्तिनिमित्तवत्त्वाच्च। न चादृश्यत्व-लिङ्गेनान्तःस्थो विष्णुः। श्रुत्यादिभ्यो लिङ्गमात्रस्य दुर्बलत्वात्। अतोऽन्यपरश्रुत्यादिबलादन्तःस्थोऽन्य एवेत्यर्थः। पूर्वपक्षफलमाह॥ तस्मादिति॥ यतोऽन्तःस्थोऽन्यस्तत एवादृश्यत्वं चान्यस्य तस्माददृश्यत्व-युक्तानन्दमयोऽपि कश्चिदिन्द्राद्यन्यतमः। तथा चान्यावयवस्य ब्रह्मणो न पृथग्जिज्ञास्यतेत्यर्थः।
सिद्धान्तयति॥ इतीति॥ तत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्य व्याचष्टे॥ अन्तरिति॥ समुद्रेऽन्तरर्णे जले यथेष्टं चरन्तं दशेन्द्रियेषु विषयहोतारं ब्रह्मा व्यजानात्। मरीचीनां जीवानामाश्रयं वेधसो भूतभविष्य-द्ब्रह्माण इच्छन्ति। ब्रह्माण्डकोशं यस्य वीर्यमाहुरिति समुद्रस्थत्वब्रह्माण्डवीर्यत्वादिविष्णुलिङ्गानामन्तः-प्रविष्टनिष्ठतयोपदेशादन्तःप्रविष्टं कर्तारमित्यन्तःश्रूयमाणो विष्णुरेव। ततश्च तस्यैवादृश्यत्वमानन्दमयत्वं चेति नान्यस्य तन्मन्तव्यमित्यर्थः। अत्र समुद्रस्थत्वं नाम क्षीराब्धिशायित्वं प्रलयसमुद्रशायित्वं च विवक्षितम्। समुद्रस्थत्वादेर्विष्णुधर्मत्वं कुत इत्यत आह॥ स हीति॥ अस्तु विष्णोः क्षीरसमुद्रशायित्वं लिङ्गम्। प्रसिद्धत्वात्। प्रलयार्णवस्थत्वस्य ब्रह्माण्डवीर्यत्वस्य च कुतो विष्णुधर्मत्वमित्यत आह॥ स इति॥ तदहेयं रश्मिप्रेरकं पूर्णषङ्गुणं नारायणाख्यं तेजः प्रलये स्थितं तस्मात्पुरुषात्प्रकृतिश्चेतना जगद् ब्रह्माण्डं च जातमित्यर्थः॥ २०॥
गुर्वर्थदिपिका
रश्मीन्नयतीति रश्मीन् इति द्वितीयाया अलुक्समासमभिप्रेत्यार्थमाह रश्मिप्रेरकमिति। अन्यथा रश्मिन्निति प्रयोगः स्यात्।
भावबोधः
॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥ इन्द्रादिनामसमन्वयसिद्ध्यर्थमिति। तेनान्तर्भावलक्षणपाद-सङ्गतिरप्यस्तीत्युक्तं भवति। श्रुत्यधिकरणसङ्गती दर्शयतीति। अव्यवहितपूर्वाधिकरणस्थ ‘भेदव्यपदेशात्’ इति सूत्रतदुक्तश्रुतिभ्यामित्यर्थः॥
यद्वा ‘‘….. देवानां तत्र शक्तताम्। आशङ्क्य तत्र रूढिञ्च तच्छब्दानामपि स्वयम्॥’’ इत्यनुव्याख्यानरीत्या सन्त्वन्नमयादिशब्दा विष्णुपरास्तेषां गुणिसामान्यवाचिनामित्युक्तत्वेन गुणिविशेषे निरूढत्वाभावात्। इन्द्रादिशब्दास्तु पुरन्दरादिव्यक्तिविशेषे योगरूढिभ्यां प्रवर्तमानाः कथं विष्णुपरा इति पूर्वाधिकरणवैषम्येणात्र पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति ज्ञातव्यम्॥ विष्णुरन्यो वेति॥ अत्रान्तःस्थत्वं किमिन्द्रादीनां सम्भवत्युत विष्णोरेवेति चिन्ता। तदर्थमुभयप्रापकश्रुतिलिङ्गानामन्तःस्थैक-निष्ठताप्रतीत्यन्यथानुपपत्त्याऽन्तस्थेन परस्परमभेद उतेन्द्रस्यात्मेत्यादिभेदव्यपदेशाद्भेद इति। तदर्थमुभयप्रापकश्रुतिलिङ्गानां परस्परं साम्यमुत निरवकाशविष्णुलिङ्गेन सावकाशेन्द्रादिश्रुतिबाध इति। तदर्थं श्रुतित्वादिजातिप्रयुक्तप्राबल्यं निरवकाशत्वप्रयुक्तप्राबल्यसममुत ततो दुर्बलमिति। अथवा अन्तस्थः किमिन्द्रादिरुत विष्णुरिति चिन्ता। तदर्थमिन्द्रादिश्रुत्यनुसारेण विष्णुलिङ्गं नेयमुत विष्णुलिङ्गानु-सारेणेन्द्रश्रुत्यादिकं नेयमिति। तदर्थं किं श्रुतिर्निवरकाशा लिङ्गं सावकाशमुत विपरीतम् ? लिङ्गस्य निरवकाशत्वेऽपि किं श्रुतित्वप्रयुक्तप्राबल्यं बलवत्, उत निरवकाशत्वप्रयुक्तप्राबल्यं बलवदिति। प्राबल्याद्यविवेकेनेति। ‘श्रुतिर्लिङ्गम्’ इति वाक्ये पूर्वं पूर्वं बलीयः स्यादित्युक्तश्रुतिलिङ्गगतजातिकृत-प्राबल्यदौर्बल्याविकेनेति वा नामानि सर्वाणीत्यादिना इन्द्रादिश्रुतीनां विष्णौ यत्सावकाशत्वलक्षणं दौर्बल्यम् ‘अतर्क्यं तर्क्यमज्ञेयम्’ इत्युक्तरीत्या ‘विवक्षितगुणोपपत्तेः’ इत्यादिवक्ष्यमाणरीत्या च यददृश्यत्वलिङ्गस्य विष्णोरन्यत्र निरवकाशत्वलक्षणं प्राबल्यं चोक्तं तयोरविवेकेनेत्यर्थः। ‘इत्यादिभिः’ इति भाष्यगतादिशब्दोपात्तमाह अपां नेतारमित्यादिना। ‘‘न च–
‘ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्।
चतुर्होतारं प्रदिशोऽनुक्लृप्तं वाचो वीर्यं तपसाऽन्वविन्दत्’
इत्यादिशब्दानामन्यविषयत्वम्’’ इति न्यायविवरणं मनसि निधायाऽऽह ब्रह्मेन्द्रमिति। दिव आत्मत्वादिकं वायुलिङ्गमिति ज्ञातव्यम्। ‘… देवानां तत्र शक्तताम्। आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम्’ इत्यनुव्याख्यानं मनसि निधायाह। तेषां देवेष्वेवेत्यादि। तस्यार्थो यथेष्टमिति। ब्रह्माण्डवीर्यत्वादि इत्यादिपदेन न्यायविवरणोदाहृतश्रुत्युक्तब्रह्मतपोलभ्यत्वादिलिङ्गग्रहणम्। अत्र समुद्रान्तस्थत्वं नामेति। अत एवार्णवपदोपेततत्वेन विशिष्य प्रलयसमुद्रशायित्वप्रतिपादकवाक्यमुदा-हृतम्। सामान्यतः समुद्रस्थत्वप्रतिपादकस्य समुद्रेऽन्तरिति वाक्यस्याप्युदाहरणं भाष्ये कृतम्। तथा च ‘स हि क्षीरसमुद्रशायी’ इति प्रसिद्ध्युक्तिः ‘आपो नाराः’ इति प्रलयसमुद्रशायित्वे प्रमाणोदाहरणञ्च युक्तमिति भावः। प्रसिद्धत्वादिति॥ अनेन ‘स हि’ इति ‘हि’शब्दार्थ उक्तो भवति। प्रलये स्थितमिति। अनेन ‘जातमग्रतः’ इत्येतद्व्याख्यातं भवति। जातमित्यर्थ इति। अनेन जातमित्येतदनुवर्त्य व्याख्यातं भवति।
भावदीपः
॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥ परमात्मनीति समन्वयेति अन्यत्र प्रसिद्धेन्द्रादिनामेति चोक्त्या क्रमेण शास्त्राध्यायपादेष्वन्तर्भावः। सिद्ध्यर्थमित्युक्त्या फलत एव पादान्तर्भावः न साक्षात्। साक्षात्तु लिङ्गस्येति सूचितम्। लिङ्गसमन्वयोक्तेस्तु कृत्यमन्ते व्यक्तम्। सङ्गतिपरत्वेन तावद्भाष्यं विवरितुमुक्त-मित्यन्तस्यार्थमाह॥ अदृश्य इति॥ अनिरुक्त इत्यन्तोक्तिरदृश्यत्वमज्ञेयत्वं न त्वप्रत्यक्षत्वम् अनिरुक्ते-र्ज्ञानाभावहेतुकत्वादिति द्योतनाय। अन्यथाऽसङ्गतेः। तच्चेत्यादेरुच्यत इत्यन्तस्यार्थमाह॥ तच्चेति॥ इत्युच्यत इति॥ देवा अपि न जानन्ति किम्वन्य इति कैमुत्येन सर्वाज्ञेयत्वरूपमदृश्यत्वमुच्यत इत्यर्थः। अदृश्यत्वं कार्त्स्न्येनाज्ञेयत्वम्। भाष्ये इति न मन्तव्यमित्यतःप्राक्प्रसज्यत इति संयोज्य तदन्तभाष्यस्य सङ्गत्यर्थतया तात्पर्यमाह॥ तस्य विष्णोरिति॥ अन्यत्व इति॥ स चेन्द्रो राजेत्यादिभाष्यवाक्योक्तेन्द्रादिश्रुत्या इन्द्रादित्व इत्यर्थः। प्रसङ्गादित्यस्य सोऽन्तस्थो निर्णेयो भवतीति पूर्वेण भाष्येऽध्याहृतसाध्येनान्वयः। तथा च पूर्वाधिकरणतद्विषयवाक्याभ्यामाक्षेपिकी सङ्गतिरे-तदधिकरणैतद्विषयवाक्ययोरिति भावः॥ स इति॥ अन्तःप्रविष्टमित्यादिश्रुत्युक्त इत्यर्थः। अन्यः प्रतीयत इति भाष्योक्तेराह॥ अन्यो वेतीति॥ प्राबल्यादीति॥ श्रुतिः प्रबला लिङ्गं दुर्बलमित्यविवेकेनेति वा। श्रुतेः श्रुतित्वेन लिङ्गस्य निरवकाशत्वेन प्रबलत्वात्किं तयोः प्रबलमित्यविवेकेनेति वाऽर्थः। स चेत्यारभ्य प्रतीयत इत्यन्तं भाष्यं पूर्वपक्षतद्युक्तिपरतयाऽपि व्याचष्टे॥ सोऽन्तस्थोऽन्य इत्यादिना॥ जगतो य ईशे ईष्टे स्वामीत्यर्थः॥ सूर्येति॥ सप्ताश्वत्वैकचक्ररथत्वरूपलिङ्गद्वयादित्यर्थः। भाष्यस्थादि-पदार्थमाह॥ अपामिति॥ अब्नेतृत्वलिङ्गादित्यर्थः। अस्य चैकत्वेऽपि अन्ते श्रवणात्परप्राबल्यन्यायेन विष्णुलिङ्गात्पूर्वस्मात्प्राबल्यमिति भावः। विष्णुलिङ्गेभ्य इन्द्रादिश्रुतिलिङ्गयोः प्राबल्याय वा अग्न्यादयोऽप्यत्र ग्राह्या इति भावेन वा न च ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्। चतुर्होतारं प्रदिशोऽनुक्लृप्तं वाचो वीर्यं तपसाऽन्वविन्ददित्यादिशब्दानामन्यविषयत्वमिति न्यायविवरणमत्र योजयति॥ ब्रह्मेन्द्रमिति॥ तथा च इन्द्रश्रुतेर्जात्याऽभ्यासेन च सूर्यलिङ्गस्य च सवितृश्रुत्यनुगृहीतत्वेन प्राबल्यमिति भावः। एतेन ब्रह्मश्रुत्या विष्णुः किं नेति निरस्तम्। ब्रह्मा तपसाऽन्वविन्ददिति सुधोक्तदिशा वाक्यशेषस्य क्रियापेक्षितकर्त्रर्पकत्वेन प्रथमान्तपुल्लिङ्गत्वेन विरिञ्चिपरत्वादिति। उक्तश्रुत्यादेः सावकाशत्वेन दौर्बल्यनिरासाय
देवानां तत्र शक्तताम्।
आशङ्क्य तत्र रूढिं च तच्छब्दानामपि स्वयम्।
इत्यनुभाष्यमात्रव्यावर्त्यशङ्कापूर्वं योजयति॥ न चेति॥ तत्र रूढिं च तच्छब्दानामित्यस्यार्थः देवेष्विति। देवानां तत्र शक्ततामित्यंशस्य तत्रैश्वर्यादिरूपशब्दप्रवृत्तिनिमित्तवत्तायां शक्ततामित्यर्थकस्य तात्पर्यं तेषामिति। भाष्ये स एवेत्यवधारणादन्य इत्यत्राप्यन्य एवेति संयोज्यमिति भावेन तदवधारण-व्यावर्त्यमाह॥ न चेति॥ अदृश्यत्वेति॥ सिद्धान्तीयलिङ्गानामप्युपलक्षणम्। अतो लिङ्गमात्रस्येत्याह न त्वेकस्येति। एतेन तेषां बहुत्वेन प्राबल्यमिति निरस्तम्। श्रुतित्वरूपस्वभावप्राबल्यस्य बलवत्वादिति। तदप्याह श्रुत्यादिभ्य इति श्रुतिग्रहणेन॥ अत इति॥ निर्बाधरूढियोगसद्भावादन्यपरेत्यर्थः। पूर्वपक्षस्य नानाकोटित्वात्सन्देहादविशेषः स्यादित्यत उक्तम्॥ अन्य एवेति॥ इन्द्रादिप्रापकाणां बलाबलानिर्णयेनेन्द्र एवेत्याद्यनिर्णयेऽपीह विष्णोरन्य एव यः कश्चित्सर्वथा विष्णुर्नेति विष्ण्वन्यत्वेन निर्धारणसम्भवादिति भावः। अत एव संशयेऽप्यन्य इत्येवोक्तम्। एवमन्यत्राप्यनेककोटिकस्थले बोध्यम्। सङ्गतिपरतया तात्पर्यतो व्याख्यातमपि भाष्यशेषं पूर्वाक्षेपबीजं वदन्फलपरत्वेनापि व्याचष्टे॥ पूर्वपक्षेति॥ तदाक्षेपस्यापि किं फलमित्यतः पूर्वभाष्योक्तमाह॥ तथा चेति॥ श्रुत्यर्थोक्तिपूर्वं हेत्वर्थं व्यञ्जयन्व्यवहितत्वाद्भाष्ये हेतुसाध्यान्वयमाह॥ समुद्र इति॥ वीर्यत्वादीत्यादिपदेन ब्रह्मज्ञेयत्वब्रह्मतपोलभ्यत्वादेर्ग्रहः। तद्धर्मेत्यत्र तदिति तन्त्रं षष्ठ्यन्तं सप्तम्यन्ते चेत्युपेत्यार्थमाह॥ विष्णुलिङ्गानामन्तःप्रविष्टनिष्ठतयेति॥ समन्वय-सूत्रात्तत्त्विति पदं साध्यार्पकं सद् अध्यायसमाप्ति प्रतिनयमनुवर्तत इति भावेन विष्णुरेवेत्युक्तिः। एवमग्रेऽपि ज्ञेयम्। वक्ष्यमाणभाष्यानुगुण्यादाह॥ अत्रेति॥ हिशब्दार्थमनुवदति॥ प्रसिद्धत्वादिति॥ प्रलयेति। अपो नारा इत्यत्र तत्प्रतीतेरिति भावः। स्मृतिर् निगदव्याख्येति श्रुतिमेव व्याचष्टे॥ तदिति॥ अहमित्यस्यार्थोऽहेयमिति। नञुपपदादोहाक्त्याग इति धातोः कर्मणि डप्रत्यये अहमिति रूपमिति भावः॥ रश्मिप्रेरकमिति॥ रश्मीनिन्धयति दीपयतीति रश्मीत्। अग्नीदितिवद् रश्मिप्रेरकमिति यावत्। पुरुषपदार्थः पूर्णेति। जातमग्रत इत्यस्यार्थः प्रलये स्थितमिति। जातमिति पूर्वस्मादनुवृत्तमिति भावः। उत्पन्नमित्यर्थः। एतेन श्रुतिसन्देहे अनन्यथासिद्धलिङ्गेन निर्णयोपपत्तेरिति न्यायविवणोक्त-मनन्यथासिद्धत्वमुपपादितं ज्ञेयम्॥ २०॥
अभिनवचन्द्रिका
अस्ति शास्त्रादिसङ्गतिरिति॥ अस्याधिकरणस्य शास्त्राध्याययोरन्तर्भावः, पादेन त्वौपोद्धातिकी सङ्गतिः। एतदधिकरणस्य लिङ्गसमन्वयद्वारा अन्यत्रप्रसिद्धेन्द्रादिनामसमन्वयसिध्द्युपयोगित्वादिति भावः। एतेन अस्याधिकरणस्य पादसङ्गतिर्नास्तीति भाष्यकृतैवोक्तत्वात् पादसङ्गतिसूचकस्य ‘इन्द्रादिनाम-समन्वयसिध्द्यर्थ’मिति विशेषणस्य वैयर्थ्यमिति परास्तम्। भाष्यकारोक्तांऽतर्भावलक्षणसङ्गत्यभावमङ्गीकृत्य सङ्गत्यन्तरसूचनाय विशेषणस्य प्रयुक्तत्वात्। इत्युच्यत इति॥ अनेन आनन्दमयाधिकरणतद्विषय-वाक्योक्तस्यानन्दमयस्यैतदधिकरणोक्तान्तस्थस्य चाऽदृश्यत्वरूपैकधर्माक्रान्तन्त्वमेवाऽस्याधिकरणस्य पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गतिरुक्तेति ज्ञातव्यम्। एवमुत्तरत्रापि द्रष्टव्यम्। एतेन अदृश्यत्व-मन्तस्थस्योच्यते इत्युक्त्या सङ्गतिविशेषस्यानिरूपणात् श्रुत्यधिकरणसङ्गती दर्शयतीत्ययुक्तमिति परास्तम्। अस्तु सङ्गतिस् तथापि नेदमधिकरणमारम्भणीयम्। अन्तस्थो विष्णुरिति निर्णयस्याऽनावश्यकत्वाद् इत्यत आह– तस्येति॥ अन्तस्थस्य विष्णोरन्यत्वे अन्तस्थवाक्योक्तमदृश्यत्वं च तस्यैव स्यात्। ततश्च अदृश्यत्वेनोक्तानन्दमयस्य प्रत्यभिज्ञानाद् विष्ण्वन्यत्वप्रसङ्गः स्यादित्यर्थः। एतेन तस्य विष्णोरन्यत्वे अदृश्यत्वं च अन्यस्यैवेत्ययुक्तं, घटपटयोरदृश्यत्ववद् अन्तस्थानन्दमययोरुभयोरपि अदृश्यत्वसम्भवात्। अत एव आनन्दमयस्याप्यन्यत्वप्रसङ्गादित्ययुक्तमिति परास्तम्। अन्तस्थवाक्योक्तमदृश्यत्व-मन्यस्यैवेत्याशयात्। आनन्दमयस्याऽन्यत्वं तु प्रत्यभिज्ञावशेन। प्रत्यभिज्ञायास् तादात्म्यसाधकत्व-मित्यङ्गीकारात्। पूर्वाधिकरणोक्तब्रह्मशब्दाभ्यासादेः प्रत्यभिज्ञातो दुर्बलत्वशङ्काप्रतिरुद्धत्वेन अबाधकत्वात्। विष्णोरन्यो वेतीति॥ अन्यो वेत्यनेन इन्द्रो वा, सूर्यो वा, वरुणो वा, त्वष्टा वा, अग्निर्वा, बृहस्पतिर्वेति कोटीनां ग्रहणम्। अन्यः प्रतीयते इति भाष्ये अन्तस्थ इन्द्रः, अन्तस्थः सूर्यः, अन्तस्थो वरुणः, अन्तस्थस्त्वष्टा, अन्तस्थोऽग्निः, अन्तस्थो बृहस्पतिर् इति पूर्वपक्षाः प्रतिज्ञाता इत्यभिप्रायेण अन्यशब्दं व्याचष्टे – अन्य इन्द्रादिरिति॥ आद्यपूर्वपक्षे हेतुरिन्द्रेति। एतेन इन्द्रश्रुतेरित्यस्य इन्द्रादिः स्यादित्यनेन अनन्वय इति परास्तम्। इन्द्रश्रुतेरित्यस्य इन्द्रादिः स्यादिति प्रतिज्ञवाक्यम् इन्द्रः स्यादिति रूपेण विभज्य अङ्गीकारात्। एवमुत्तरत्रापि द्रष्टव्यम्। द्वितीय आह– सप्तेति॥ तृतीय आह– अपामिति॥ चतुर्थे त्वाह– त्वष्टेति॥ ‘ब्रह्मेन्द्रमग्निं जगतः प्रतिष्टां दिव आत्मानं सवितारं बृहस्पतिम्, चतुर्होतारं प्रदिशोनुक्कृप्तं वाचो वीर्यं तपसा अन्वविन्द’(तै.आ.)-दित्यादिशब्दानामन्यविषयत्वमिति न्यायविवरणानुसारेण अग्निरेव अन्तस्थ इति पूर्वपक्षे अग्निश्रुतिर् जगत्प्रतिष्ठापकत्वं च लिङ्गं साधकम्। बृहस्पतिरेव अन्तस्थ इति पूर्वपक्षे तु बृहस्पतिश्रुतिः, वाग्वीर्यत्वं च, लिङ्गं साधकम्। इन्द्र एवांतस्थ इति प्रागुक्तपूर्वपक्षे सवितृश्रुतिः ‘दिव आत्मान’ मित्युक्त-दिवस्पतित्वं च साधकमित्यभिप्रेत्याह– ब्रह्मेन्द्रमिति॥ अत्रापि इन्द्रादिः स्यादिति प्रतिज्ञावाक््यं बुद्ध्या विभज्य इत्यादिश्रुतिलिङ्गेभ्यश्चेति हेतुवाक््यमपि विभज्य यथासम्भवमन्वयो द्रष्टव्यः। प्रागुक्तपूर्वपक्षे हेत्वन्तराभिधायकत्वाच्चशब्दः। एतेन – ‘ब्रह्मेन्द्रमग्नि’मित्यादिश्रुतिलिङ्गेभ्यश्च इन्द्रादिः स्यादित्ययुक्तम्। एकस्य अनेकतादात्म्यायोगेन अन्तस्थस्य इन्द्रत्वे सूर्यादित्वस्य, सूर्यादित्वे तु इन्द्रादित्वस्य च अयोगादिति परास्तम्। न केवलमिन्द्रादिशब्दानामिन्द्रादौ रूढिर् अपि तु योगोऽप्यस्ति इत्याह– केषामिति॥ पूर्वपक्षफलमाहेति॥ सर्वेषां पूर्वपक्षाणां फलमाहेत्यर्थः। तस्मादिति॥ यस्माददृश्यत्वमन्यस्य प्राप्तं, तस्मादेव आनन्दमयत्वं प्राप्नोति प्रत्यभिज्ञानादेवेत्यर्थः। एतेन इन्द्रादीनामदृश्यत्वेऽपि आनन्दमयस्य नेन्द्रादित्वं साधकाभावात्। न हि घट इत्येतावता पार्थिवत्वेनोक्ताः पटादयोऽपि घटा भवन्ति। येनेन्द्रादीनामदृश्यत्वे अदृश्यत्वेनोक्तानन्दमयस्य इन्द्रादित्वं स्यादिति परास्तम्। प्रत्यभिज्ञाप्रत्यक्षस्य साधकत्वेनेहाभिमतत्वात्। ‘अन्तः समुद्रे मनसा चरन्त’मिति श्रुत्युदाहरणेनैव समुद्रस्थत्वलिङ्गलाभात्, ‘समुद्रे अन्तः कवयो विचक्षते’ इति श्रुत्युदाहरणं व्यर्थमित्यत आह– अत्रेति॥ अत्र सूत्रे विष्णुत्व-साधकतया क्षीराब्धिशायित्वं प्रलयोदकशायित्वं च लिङ्गत्वेन विवक्षितम्। प्रलयोदकशायित्वलिङ्गदर्शनाय ‘अन्तः समुद्रे मनसे’ति श्रुत्युदाहरणम्। तत्र जलवाच्यर्णवशब्दसद्भावात्। क्षीराब्धिशायित्वलिङ्गप्रदर्शनाय ‘समुद्रेऽन्तः कवय’ इति श्रुत्युदाहरणम्। क्षीरसमुद्रशायिनः कविभिरीड्यत्वादिति भावः।
वाक्यार्थमुक्तावली
ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥ नामसमन्वयसिद्ध्यर्थमिति। प्रकृतनामसमन्वयसिद्ध्यर्थं लिङ्गसमन्वयचिन्तनादौपोद्धातकी पादसङ्गतिर्न पादान्तर्भावरूपा। चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं प्रचक्षत इति वचनादिति भावः। अदृश्येऽनात्म्येऽनिरुक्त इति। अत्रानिरुक्त इत्यन्तोक्तिस्तु अदृश्यत्वमज्ञेयत्वमेव न त्वप्रत्यक्षत्वम्। अनिरुक्तेर्ज्ञानाभावहेतुकत्वादिति द्योतनाय, न विजानन्ति देवा इति भाष्ये तच्च दृश्यत्वमित्यर्थः। न च तत्रादृश्यत्वसामान्यमुक्तमत्र तु देवाज्ञेयत्वमतः कथं तदेवादृश्यत्वमत्रोच्यते। तथा चान्तस्थस्य विष्ण्वन्यत्वे आनन्दमयस्य विष्ण्वन्यत्वं कथमिति वाच्यम्। देवा अपि कार्त्स्न्येन न जानन्ति किम्वन्य इति कैमुत्येनात्रापि साकल्येन सर्वाज्ञेयत्वमेवोच्यत इति तदाक्षेपो युज्यत एवाप्रसङ्गादिति। तथा च पूर्वाधिकरणेनास्याक्षेपकी सङ्गतिरिति भावः। विष्णुरन्यो वेति। अत्रान्तस्थः किमिन्द्रादिरुत विष्णुरिति चिन्ता। तदर्थं विष्णुप्रापकलिङ्गानां समुद्रान्तस्थत्वादीनां सावकाशत्वेन स्वभावदौर्बल्येन किं पूर्वपक्षप्रापकेन्द्रादिश्रुतिलिङ्गेभ्यो दौर्बल्यमुत निरवकाशत्वेन प्राबल्यमिति। तदर्थं किमिन्द्रादीनामन्तस्थेनाभेद उत भेद इति॥ प्राबल्याद्यविवेकेनेति॥ श्रुतिः प्रबला लिङ्गं दुर्बलमिति जातिकृतप्राबल्याद्यविवेकेनेत्यर्थः। यद्वा नामानीत्याद्युक्तरीत्या इन्द्रादिश्रुतीनां सावकाशतया विवक्षितगुणोपपत्तेश्चेति वक्ष्यमाणन्यायेन चाज्ञेयत्वलिङ्गस्य विष्णोरन्यत्र निरवकाशत्वेन प्राबल्यमिति तयोरविवेकेनेत्यर्थः। ईशे ईष्टे अतो राजेत्यर्थः। इत्यादिभिरित्यादिशब्दार्थमाह– अपामित्यादिना। एवं विशकलितानेकवाक्यस्थश्रुतिलिङ्गान्युक्त्वा तत्प्राबल्याय देवतान्तरग्रहणाय वा एकवाक्यगृहीतानि दर्शयति– ब्रह्मेति॥ एतेन न च ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्। चतुर्होतारं प्रदिशोऽनुक्लृप्तं वाचो वीर्यं तपसाऽन्वविन्ददित्यादिशब्दानामन्यविषयत्वमिति न्यायविवरण-मप्यादिशब्दार्थतया योजितं भवति। तथा चेन्द्रश्रुतेर्जत्या अभ्यासेन च सूर्यलिङ्गयोश्च सवितृश्रुत्यनुगृहीतत्वेन प्राबल्यमिति भावः। ब्रह्मेन्द्रमिति श्रुतौ ब्रह्म तपसाऽन्वविन्ददिति सुधोक्तरीत्याऽन्वयः। तेन ब्रह्मश्रुते-रन्तस्थो विष्णुरिति चोद्यानवकाश इति ज्ञेयम्। नन्वतीताधिकरणे ब्रह्मशब्दाद्धिरण्यगर्भस्य प्राप्तिरित्यादिना पदार्थान्तरविषयौ रूढियोगावाश्रित्य पूर्वपक्षितेऽन्नमयादिशब्दानां महायोगविद्वद्रूढिभ्यां विष्णुपरत्वं सिद्धान्तितम्। तथा च तन्न्यायेनेन्द्रादिशब्दसमन्वयलाभात्किमनेनाधिकरणेनेत्याशङ्क्य देवानां तत्र शक्ततामित्यनुव्याख्यानानुसारेणाभ्यधिकाशङ्कामाह। न चेत्यादिना देवेष्वेव रूढत्वादिति। विद्वद्रूढत्वा-दित्यर्थः। इन्द्रस्य नु वीर्याणि प्रवोचमित्यादिमन्त्रेषु बहुलप्रयोगदर्शनेन रूढेर्विद्वत्सम्बन्धित्वादन्यथा तद्यजनादौ विधिनियोगानुपपत्तेरिति भावः। तेषामैश्वर्यादीति॥ तेषां देवत्वेन निरवधिकापरायत्तैश्वर्यादि-मत्वेन महायोगस्यैवाभावादशक्तेषु खलु सामन्तादिषु ऐश्वर्यादिकमल्पं परायत्तं भवति। देवास्त्वप्रतिहत-शक्तयः कथमेवं भवेयुः। तथा च श्रुतिः। इन्द्रो वै देवानामोजिष्ठतम इत्येवं जातीयका। अन्नौषध्या-दीनां त्वदेवत्वेन प्रवृत्तिनिमित्तस्य तत्र पौष्कल्यं परायत्तत्वं सम्भवतीति भावः। मनसेत्यस्यार्थो यथेष्टमिति। मरीचीनां जीवानामिति। मरीचिभिर्मरुत्व इति भावः। ब्रह्माण्डवीर्यत्वादीत्यादिपदेन ब्रह्मज्ञेयत्वब्रह्मतपोलभ्यत्वादेर्ग्रहः। तद्धर्मेत्यत्र तदिति तन्त्रं षष्ठ्यन्तं सप्तम्यन्तं चोपेत्यार्थमाह। विष्णुलिङ्गानाम् अन्तःप्रविष्टतयेति। स हि क्षीरसमुद्रशायी आपो नारा इति वक्ष्यमाणमनुस्मृत्यार्थमाह समुद्रान्तस्थत्वं नामेति। रश्मिप्रेरकमिति॥ रश्मीनिन्धयति दीपयतीति रश्मीत्। अग्नीदितिवत्। प्रेरितमिति फलितकथनम्। अग्रत इत्यस्यार्थो प्रलय इति। जातमित्यस्य स्थितमिति पुरुषात्प्रकृति-र्जगदण्डमित्यत्रार्थविशेषस्तु मुक्तावल्यां बोध्यः। भावबोधे तु ब्रह्माण्डं च जानातीत्यनेन जातमित्यस्यानुवृत्यार्थ इत्युक्तम्।
तत्त्वसुबोधिनी
ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥ इन्द्रादिनामसमन्वयसिद्ध्यर्थमिति। तेनान्तर्भावलक्षणा पादसङ्गतिरप्यस्तीत्युक्तं भवति। श्रुत्यधिकरणसङ्गती इति। अव्यवहितपूर्वाधिकरणस्थ ‘‘भेदव्यपदेशात्’’ इति सूत्रतदुपात्तश्रुतिभ्यामित्यर्थः। अत्रानन्दमयधर्मस्यादृश्यत्वस्य अन्तस्थे श्रवणात् तस्य चाविष्णुत्वाद् आनन्दमयत्वमपि अन्यस्यैवेति नान्यावयवस्य ब्रह्मणोजिज्ञास्यत्वं युक्तमिति पूर्वाधिकरणाक्षेपेण पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिः॥ प्राबल्याद्यविवेकेनेति॥ श्रुतिर्लिङ्गमिति वाक्ये पूर्वं पूर्वं बलीयः स्यादित्युक्तश्रुतिलिङ्गगतजातिकृतप्राबल्यदौर्बल्याविवेकेनेत्यर्थः। यद्वा श्रुतेः स्वतो बलवत्वाद् इदं दुर्बलम् इदं प्रबलम् इति प्राबल्याद्यविवेकेनेत्यर्थः। इत्यादिभिरिति भाष्यगतादिशब्दार्थमाह। अपां नेतारमिति॥ ननु इन्द्रादिशब्दानां विष्णुपरत्वान् न तत्प्रापकश्रुतिविरोध इत्यत आह॥ न चेति॥ कुतो देवेष्वेव रूढ इत्यत आह॥ तेषामिति॥ मनसेत्यर्थो यथेष्टं चरतामिति। शुष्ममित्यस्यार्थो वीर्यमिति। ब्रह्माण्डवीर्यत्वादि इत्यादिपदेन न्यायविवरणोदाहृतश्रुत्युक्तब्रह्मतपोलभ्यत्वादिलिङ्गग्रहणम्। नन्वग्रिमभाष्ये प्रलयसमुद्रशायित्वे प्रमाणकथनम् अयुक्तं प्रलयसमुद्रस्थत्वस्य पूर्वमुक्तत्वादित्यत आह॥ अत्र समुद्रान्तस्थत्वं नामेति॥ तथा च स हि क्षीरसमुद्रशायीति प्रसिद्ध्युक्तिः। आपो नारा इति प्रलयसमुद्रशायित्वे प्रमाणोदाहरणं च युक्तमिति भावः। प्रसिद्धत्वादिति॥ अनेन स हीति हिशब्दार्थम् उक्तो भवति। जातमग्रत इत्यस्यार्थः प्रलये स्थितमिति॥ जातमित्यर्थ इति॥ अनेन जातमित्येतदनुवर्त्य व्याख्यातं भवति।
वाक्यार्थमञ्जरी
नामसमन्वयसिद्ध्यर्थमिति॥ अत एव तत्पादान्तर्भाव इति भावः। श्रुतेः स्वभावतः प्राबल्याल्लिङ्गस्यापि वक्ष्यमाणरीत्या निरवकाशत्वेन श्रुतितः प्राबल्यादन्यतरनिर्णय एव स्यान्न सन्देह इत्यत उक्तम्॥ प्राबल्याद्यविवेकेनेति॥ ईशो ईष्टा स्वामी यस् तं न विजानन्तीत्यन्वयः। अदृश्यत्वाद्यभिधायि पदं नास्तीत्यत आह॥ सहैवेति॥ स्वैः सहैवेत्यर्थः॥ सूर्यलिङ्गादिति॥ एकचक्ररथं प्रति सप्तनामाऽश्वः सम्बध्यत इति सप्ताश्ववत्वैकचक्ररथित्वरूपादित्यर्थः॥ वरुणलिङ्गादिति॥ जलनियामकत्वरूपादित्यर्थः॥ त्वष्टारमिति॥ रूपाणि विविधतया कुर्वन्तं त्वष्टारं निचिक्युरित्यन्वयः॥ ब्रह्मेन्द्रमित्यादीति॥ ‘‘ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम्’’ इत्यादीत्यर्थः। अत्र दिव आत्मत्वं वायुलिङ्गम्। योगेनैतेषां विष्णुपरत्वमित्यत आह॥ न चेति॥ तेषामित्यादि॥ तथा च योगरूढिभ्यां योगमात्रस्य बाध इति भावः। पृथक् स्वातन्त्र्येण।
ॐ अन्तस्तद्धर्मोपदेशात् ॐ॥ अन्तप्रविष्टमित्यादौ अन्तःप्रविष्टतया श्रुतं ब्रह्मैव। तस्य ब्रह्मणो धर्माणां समुद्रस्थत्वब्रह्माण्डवीर्यत्वादीनाम् अन्तः श्रुतेरन्तः समुद्रे यस्याण्डकोशमित्यादिनाऽभिधा-नादित्यर्थः। होतारं दातारं ‘हू’तुदानादनयोरिति धातोः। बहुवचनं घटयति॥ भूतेति॥ न चात्र समुद्रस्थत्वं नाम क्षीरसमुद्रशायित्वं वा प्रलयसमुद्रशायित्वं वा। नाद्यः। अपो नारा इति प्रमाणो-दाहरणासङ्गतेः। न द्वितीयः। स हि क्षीरसमुद्रशायीति प्रतिज्ञासङ्गतेरित्यत आह॥ अत्रेति॥ भाष्ये अभिध्याय ध्यात्वा। अहमित्यस्यार्थ ओयमिति। नञुपपदादोहाक्त्याग इत्यस्मात्कर्मणि डप्रत्यय इति भावः। रश्मीनिन्धयति दीपयतीति रश्मीत्। तत्फलितप्रदर्शनं रश्मिप्रेरकमिति।
विवृतिः
इन्द्रादिनामसमन्वयसिद्धर्थमिति॥ तेनान्तर्भावलक्षणपादसङ्गतिरप्यस्तीति सूचितं भवति॥ श्रुत्यधिकरणसङ्गतीति॥ अव्यवहितपूर्वाधिकरणस्य भेदव्यपदेशादिति सूत्रतदुपात्तश्रुतिभ्यामित्यर्थः। आनन्दमयधर्मस्यादृश्यत्वस्यान्तस्थे श्रवणात्तस्य चाविष्णुत्वादानन्दमयत्वमप्यन्यस्यैवेति। नान्यावयवस्य ब्रह्मणो जिज्ञास्यत्वं युक्तमिति पूर्वाधिकरणाक्षेपेण पूर्वपक्षोत्थानादनन्तरसङ्गतिः॥ प्राबल्याद्यविवेकेनेति॥ श्रुतिर्लिङ्गमिति पूर्ववाक्ये पूर्वं पूर्वं बलीयः स्यादित्युक्तश्रुतिलिङ्गगतजातिकृतप्राबल्यदौर्बल्याद्यविवेकेनेत्यर्थः। यद्वा श्रुतेः स्वतो बलवत्वाल्लिङ्गस्य च निरवकाशत्वेन प्रबलत्वादिदं प्रबलम् इदं दुर्बलमिति प्राबल्याद्य-विवेकेनेत्येत्यर्थः॥ इत्यादिरिति। भाष्यगतादिशब्दार्थमाह॥ अपां नेतारमिति॥ नन्विन्द्रादिशब्दानां विष्णुपरत्वान्न तत्प्रापकश्रुतिविरोध इत्यत आह॥ न चेति॥ तथापि योगेन विष्णुपरं किं न स्यादित्यत आह॥ तेषामिति॥ मनसेत्यस्यार्थो यथेष्टं चरन्तमिति॥ ब्रह्माण्डवीर्यत्वादीत्यादिपदेन श्रुत्युक्तब्रह्मतयोपलभ्यत्वादिति ग्रहणम्। नन्वग्रिमभाष्ये प्रलयसमुद्रशायित्वे प्रमाणकथनमयुक्तम्। प्रलयसमुद्रस्थत्वस्य पूर्वमनुक्तत्वादित्यत आह॥ अत्र समुद्रान्तस्थत्वं नामेति॥ तथा च स हि क्षीरसमुद्रशायीति प्रसिध्या धिशयोऽनारायण इति प्रलयसमुद्रशायित्वे प्रमाणोदाहरणं च युक्तमिति भावः॥ प्रसिद्धत्वादिति॥ अनेन सहीतिशब्दार्थ उक्तो भवति॥ जातमग्रत इत्यस्यार्थो प्रलये स्थितमिति॥ जातमित्यर्थ इति॥ अनेन जातमित्येतदनुवृत्या व्याख्यातं भवति॥