०५ ईक्षत्यधिकरणम्

ॐ ईक्षतेर्नाशब्दम् ॐ

५. ईक्षत्यधिकरणम्

सूत्रभाष्यं

ननु ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ (तै.उ.२-२२)॥ ‘अशब्द-मस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्’ (क.उ.१-३-१५)। ‘अवचनेनैव प्रोवाच’ (बाष्कलश्रुति)॥ ‘यद्वाचाऽनभ्युदितं येन वागभ्युद्यते। (क.उ.१-५) यच्छ्रोत्रेण न शृृणोति येन श्रोत्रमिदं श्रुतम्’ (के.उ.१-८) इत्यादिभिर्न तच्छब्दगोचरम्। नेत्याह।

॥ ॐ ईक्षतेर्नाशब्दम् ॐ॥

‘स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ (ष.प्र.उ.५-५)। ‘आत्मन्येवात्मानं पश्येत्॥ विज्ञाय प्रज्ञां कुर्वीत’ (बृ.उ.६-४-२३, ६-४-२१) इत्यादिवचनैरीक्षणीय-त्वाद्वाच्यमेव। औपनिषदत्वान्नावचनेनेक्षणम्।

‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ (क.उ.२-१५)। ‘वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्’ (भ.गी.१५-१५) इत्यादिश्रुतिस्मृतिभ्यश्च।

सत्तर्कदीपावली

योऽयं सर्ववेदवाक्यपदसमन्वयो ब्रह्मणि प्रतिज्ञातस् तं तावदाक्षिपति। यतो वाच इत्यादिश्रुतिभिर् अशब्दत्वेन ब्रह्मणः प्रतिपादितत्वात् तत्रैकस्यापि पदस्य न समन्वयः किमु सर्ववेदसमन्वय इत्येतन्निषेधक-सूत्रमवतारयति॥ ईक्षतेरिति॥ व्याचष्टे स इति। न चाशब्दत्वेन श्रुत्युक्तत्वात्परमात्मनो तत्राशेष-श्रुतिसमन्वय इति न वाच्यम्। तं त्वौपनिषदं पुरुषमित्यस्यां श्रुतावुपनिषदेकसमधिगम्यत्वेन अनुमानाद्य-गोचरत्वस्योक्तत्वात्। अतः सर्ववेदवेद्यो विष्णुः। सर्वे वेदा यत्पदमामनन्ति इत्यादिश्रुतिवचनात्। एवं सति यतो वाच इत्यादिश्रुत्यर्थः क इत्यतोऽपेक्षितमर्थमाह॥ अवाच्येति॥ साकल्येन वक्तुमशक्यत्वेन अप्रसिद्धत्वात्। ब्रह्मणोऽवाच्यत्वादिव्यपदेश इत्येतत्सोदाहरणमाह॥ न तदिति॥ न च वाच्यमीक्षतेर्ना-शब्दमित्यनेन शब्दावाच्यत्वं मायावाद्यभ्युपगतं ब्रह्मणो न निषिध्यते किं तु प्रधानस्य जगत्कारणत्वं साङ्ख्याभ्युपगतं श्रुतिशब्दावाच्यत्वहेतुना निषिध्यत इति। अजामेकामित्यादिश्रुत्युक्तस्य प्रधानस्याशब्दत्वेन साङ्ख्यानभ्युपगतत्वादित्याह॥ न चेति॥

तत्त्वप्रदीपिका

एवं तावद्ब्रह्मणो जिज्ञास्यत्वं प्रतिज्ञाय तस्य जन्मादिकारणत्वोक्त्या सर्वगुणपूर्णत्वं प्रदर्श्यायोगान्य-योगव्यवच्छेदेन शास्त्रगम्यत्वमुक्तम्। अत्रेदमसहमानैर्मायिभिराक्षिप्यते न ब्रह्म शास्त्रगम्यं, शब्दागोचरत्वात्। ‘यतो वाचो निवर्तन्त’ इत्यादिश्रुतेः। गोचरत्वे, घटादिवदब्रह्मत्वप्रसङ्गाच्च। औपनिषदत्वं तु, लक्षणया तत्रोपनिषद्वृत्तेरिति। तन्निराकरणायेदमधिकरणमारभ्यते। ॐ ईक्षतेर्नाशब्दम् ॐ। जीवघनो जीवसारो ब्रह्मा। तस्मात्तदुपदेशादित्यर्थः। ‘‘तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण’’ इति, तमेव शास्त्रा-दाचार्याद्विज्ञाय प्रकृष्टमपरोक्षं ज्ञानमापादयेत्। ब्राह्मणो ब्रह्मनिष्ठः।

‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ इति। ‘तप आलोचन’ इति धातोरालोचनरूपा युक्तयस्तपांसि।

तत्त्वप्रकाशिका

अत्र ब्रह्मणो वाच्यत्वसमर्थनादस्ति शास्त्रसङ्गतिः। सकलजगज्जन्मादिकारणत्वेन ब्रह्मैव शास्त्रस्य मुख्यार्थ इत्यभिहितम्। उपक्रमादिभिर्निर्णीतस्य मुख्यार्थत्वात्। तच्च वाच्यत्व एव सम्भवतीति। तन्मुख्यतः शास्त्रयोनित्वं विषयः। ब्रह्मणो युक्तमयुक्तं वेति सन्देहः। वादिविप्रतिपत्तिः सन्देहबीजम्। तत्र पूर्वपक्षयति॥ नन्विति॥ न ब्रह्मणः शास्त्रमुख्यार्थत्वमुपपद्यते। यतस्तत ‘यतो वाचो निवर्तन्ते’ इत्यादिश्रुतेः शब्दावाच्यम्। न ह्यवाच्यस्य शास्त्रमुख्यार्थता सम्भवति। अतो न शास्त्रोक्तकारणत्वं तस्येति भावः। अशब्दमित्यादेः शब्दादिगुणशून्यं तदविषयश्चेत्यर्थः। ‘अवचनेनैव प्रोवाच’ इति वचनवृत्तिं विना लक्षणयोपदिदेश। यच्छ्रोत्रेण न शृृणोति पुरुषः। ‘त्रयी न श्रुतिगोचरा’ इति गोचर-शब्दस्य विशेष्यलिङ्गतयाऽऽर्षप्रयोगान्न तच्छब्दगोचरमिति युक्तम्। सिद्धान्तयत्सूत्रमवतारयति॥ नेति॥ अत्र सूत्रकारो ब्रह्मणोऽवाच्यत्वं श्रुतिप्राप्तं प्रतिषेधतीत्यर्थः। सूत्रं व्याचष्टे। स इति॥ स प्रणवोपासको जीवोत्तमहिरण्यगर्भोपदेशेन परमं पुरुषं पश्यति। परोक्षतो ब्रह्म विज्ञायाऽपरोक्षतो जानीयादित्यादिश्रुतिभि-र्ब्रह्मण ईक्षणीयत्वावगतेस्तदन्यथानुपपत्त्या वाच्यमेव तदतस्तस्य शास्त्रयोनित्वोपपत्तेः कारणत्वसम्भव इत्यर्थः। नेक्षणीयत्वान्यथानुपपत्त्या ब्रह्मणो वाच्यत्वं वाच्यम्। ईक्षणस्य प्रत्यक्षादिनापि सम्भवादित्यत आह॥ औपनिषदत्वादिति॥ भवेदेतद्यदि ब्रह्म प्रत्यक्षादिगम्यम्। नैतदस्ति। तस्योक्तरीत्योप-निषदेकगम्यत्वात्। तथा च प्रत्यक्षाद्यवेद्यत्वे सतीक्षणीयत्वान्यथानुपपत्त्या वाच्यमेव तदिति भावः। परिशेषप्रमाणेन वाऽत्र वाच्यत्वं साध्यते। तथा हि। श्रुतिषु तावदीक्षणीयत्वं ब्रह्मणः श्रूयते। ईक्षणं च प्रमाणेन भवेत्। प्रसक्तप्रमाणेषु न ब्रह्मणो वचनेतरप्रमाणेनेक्षणम्। तस्यौपनिषदत्वात्। वचनेनेक्षणं चावाच्ये वृत्त्यन्तरायोगेन परिशेषाद्वाच्यत्वमेव साधयतीति।

ननु श्रुतिसिद्धमवाच्यत्वं कथं युक्तिमात्रेण दूष्यते। ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इति युक्तितः श्रुतेः प्राबल्योक्तेरित्यतः श्रुतिस्मृती चाह॥ सर्व इति॥ तपांसि यत्प्रति वदन्ति वेदाः।

गुर्वर्थदीपिका

‘पुरुषमीक्षत’ इति श्रुतौ ‘इक्श्तिपौ’ इति धातुनिर्देशाद् ईक्षतेर् ईक्षधातुश्रवणात् तेन च परमात्मन ईक्षणीयत्वमपि श्रुतमिति भावेनोक्तं ब्रह्मण ईक्षणीयत्वावगतेरिति। सौत्रप्रयोगबलादीक्षणवाच्यपीक्षतिरिति वैदिकं पदं वा। औपनिषदत्वाद् ब्रह्मणो न श्रुतिनिरपेक्षप्रत्यक्षादिप्रमाणैरीक्षणम्। श्रुत्यर्थश्रवण-मनननिदिध्यासनैः शक्त्युत्तेजने यन्मनसा भगवदीक्षणं तत् ‘असाधारण्येन व्यपदेशा भवन्ति’ इति न्यायात् श्रुत्यैवेक्षणमिति सौत्राभिप्रायं हृदि निधायोक्तम् ईक्षणं च प्रमाणेनेत्यादि। श्रुतिसहितयौक्तानुभवस्य केवलश्रुतितः प्राबल्यमिति सौत्राभिप्रायस्फोरणायोक्तं न्यायविवरणे श्रुतिसहितानुभवस्य प्रबलत्वादिति। का सा श्रुतिरित्यतो भाष्येऽस्मिन्यः श्रुतिस्मृत्योरुद्धारस्तस्य सङ्गतिमाह॥ नन्विति॥

भावबोधः

॥ ॐ ईक्षतेर्नाशब्दम् ॐ॥ वाच्यत्वसमर्थनादिति। उपलक्षणमेतत्। सकलशास्त्रप्रतिपाद्यत्व-दर्शनादित्यपि द्रष्टव्यम्। अत एव सुधायां वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तम्। तमाक्षिप्य समाधातुम् इदमधिकरणमारभ्यत इत्युक्तम्। एवञ्च ‘सं’शब्दार्थसकलवेदमुख्यार्थत्वाक्षेप-समाधानपरेऽस्मिन्नधिकरणे वेदमुख्यार्थत्वोपपादकवाच्यत्वसमर्थनपरसूत्राणामिव सकलवेदार्थत्वसमर्थनपरस्य ‘गतिसामान्यात्’ इति सूत्रस्याप्यन्तर्भाव उपपद्यते। ‘सं’शब्दाक्षेपसमाधानरूपत्वज्ञापनार्थमेव वाच्यत्व-समर्थनपरसूत्रमध्येऽस्य सूत्रस्य निवेशः कृतः। पृथक्करणे तु वाच्यत्वसमर्थनपरत्वाभावादधिकरणान्तरत्व-प्रतीतिप्रसङ्गात्। यथोक्तं सुधायाम्– सूत्रकारस्यापि प्रकरणसाङ्कर्यस्यैतदेव प्रयोजनम्। यदाक्षेपद्वय-समाधानस्य पूर्वसूत्रस्थ‘सं’ शब्दार्थसमर्थनमेकमेव प्रयोजनमिति सूचनमिति। अत्रानन्तरसङ्गतिस्तु वचनवृत्त्यैवेत्यादिपूर्वोदाहृतसुधाग्रन्थ एव स्पष्टमुक्ता।

ननु रुद्रादिशब्दयुक्तवेदवाक्येषु उपक्रमादिलिङ्गबलाद्विष्णुरेव प्रतिपाद्य इत्युक्तम्, न तु विष्णोर्वेद-मुख्यार्थत्वं, यत्सिद्ध्यर्थं वाच्यत्वसमर्थनं सङ्गतं स्यादित्यत आह– उपक्रमादिभिरिति। उपलक्षणञ्चैतत्। सुधोक्तरीत्या ‘सं’शब्देन विष्णोर्मुख्यार्थत्वं स्यादित्युक्तत्वादिति बोध्यम्। युक्तमयुक्तं वेति। अत्र पूर्वसूत्रस्थ‘सं’शब्दोक्तसर्ववेदमुख्यार्थत्वं ब्रह्मणो न युक्तमुत युक्तमिति चिन्ता। तदर्थं तस्य वाच्यत्वं नास्त्युतास्तीति। तदर्थं ‘यतो वाचः’ इति श्रुतिः किं ब्रह्मावाच्यत्वाभिप्रायतया निरवकाशा। उताप्रसिद्धेरवाच्यं तदित्युक्तप्रकारेण सावकाशेति। तदर्थं श्रुतेरवाच्यत्वाभिप्रायत्वे बाधकं ब्रह्मणो वाच्यत्वे साधकं नास्त्युतास्तीति। तदर्थम् ‘आत्मन्येवात्मानं पश्येत्’ इत्यादिश्रुत्युक्तेक्षणीयत्वं ‘पूर्णमदः’ ‘एको देवः’ इत्यादिश्रुत्युक्तञ्च किं गौणस्य; उत शुद्धस्य ब्रह्मण इति। तदर्थमात्मशब्दस्वाप्यय-वचननिर्गुणपदानि गौणे मुख्यानि, उत शुद्ध एव मुख्यानीति। तदर्थं ‘यस्यानुवित्त’ इत्यादिरात्मनिष्ठस्य मोक्षोपदेशः ‘तमेवैकम्’ इत्युक्तहेयत्वावचनम् ‘पूर्णमेवावशिष्यते’ इत्युक्तं प्रलयेऽवशिष्यमाणत्वं ‘सर्वव्यापी केवलः’ इत्याद्युक्तसर्वव्यापित्वजडामिश्रत्वादिकं किं गौणात्मनि सम्भवत्युत शुद्ध एव सम्भवतीति। यतस्तदिति। अनेन न च तस्यावाच्यत्वं श्रुत्यभिप्राय इति न्यायविवरणं व्याख्यातं भवति। उपदिदेशेति। विष्णुमिति शेषः। तथा च न व्याहतिरिति भावः। न तच्छब्दगोचरमिति युक्तमिति। उपलक्षणं चैतत्। सुधोक्तरीत्या शब्दानां सम्बन्धिनां गवां ज्ञानानां चरश्चरणं वृत्तिर्यस्मिंस्तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहित्वं वा चरश्चरणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वाऽऽश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम्। ततश्च ‘मनसा सह’ इति श्रुतौ यदज्ञेयत्वमभिप्रेतं तदपि सङ्गृहीतं भवति। अत एवावाच्यत्वादिकत्वाप्रसिद्धत्वादिकवदज्ञेयत्वस्यापि गतिं वक्ष्यति भाष्यकारः। सूत्रे वाच्यमित्येव वक्तव्ये नाशब्दमिति वचनम् ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति वचनादवधारणार्थमित्यभिप्रेत्योक्तम्। वाच्यमेवेति। प्रत्यक्षत्वाद्यवेद्यत्वे सतीति। आगमाननुसारिप्रत्यक्षादिप्रमित्यविषयत्वे सति प्रमाविषयत्वान्यथानुपपत्त्येत्यर्थः। तेन आगमानुसारिप्रत्यक्षादिवेद्यत्वेन भ्रान्तिवेद्यत्वेन वा न विशेषणा-सिद्ध्यन्यथासिद्धी। आगमानुसारिप्रत्यक्षादिवेद्यत्वं तु वाच्यत्वव्यतिरेकेण न सम्भवतीति भावः। एवमर्थापत्तिपरतया ‘औपनिषदत्वात्’ इति वाक्यं व्याख्याय परिशेषप्रमाणपरतयापि व्याचष्टे– परिशेषप्रमाणेन वेति। यद्यप्यर्थापत्तिपरिशेषयोरनुमानतैव। तथापि तयोर्भेदमभ्युपेत्य वाऽनुमानत्वा-वान्तरभेदमाश्रित्य वा पक्षान्तरोक्तिः। प्रमाणेनेति। भ्रान्तेरविद्यानिवर्तकत्वाभावेन प्रमाणाभासेन मोक्षजनकेक्षणासम्भवादिति भावः। ‘अवचनेन’ इत्येतद्वचनेतरप्रमाणेनेति व्याख्याय प्रकारान्तरेण व्याख्याति– वृत्त्यन्तरेति। श्रुतिस्मृती चाहेति। श्रुतावामनन्तीति साक्षाद्वाच्यत्वोक्तेः स्मृतौ च ‘अहमेव’ इत्यवधारणोपपत्तयेऽन्येषाममुख्यतया वेदवेद्यत्वेऽस्यापि मुख्यतया वेदवेद्यत्वस्य विवक्षणीय-त्वात्तस्य च वाच्यत्वं विनाऽयोगात् सर्वशब्दलक्षणायोगाच्च वाच्यत्वसिद्धिरिति भावः।

भावदीपः

॥ ॐ ईक्षतेर्नाऽशब्दं ॐ॥ ब्रह्मण इति॥ तथा च तद्ब्रह्मेति श्रौतब्रह्मणः श्रुत्यन्तरोक्तेक्षणीय-त्वादिन्यायेन वाच्यत्वसमर्थनान्न्यायग्रथनात्मकशास्त्रेऽन्तर्भावसङ्गतिरित्यर्थः। यद्यपि पूर्वत्र संशब्दोक्तस्य वाच्यत्वस्येव सर्वशास्त्रयोनित्वस्यापि गतिसूत्रे समर्थनमस्ति तथापीहैकस्य प्राधान्यमुपेत्य वाच्यत्वेत्येवोक्तम्। नन्वत्र वाच्यत्वोक्तौ का पूर्वसङ्गतिः किं च फलमित्यतः श्रुत्यधिकरणसङ्गती प्रयोजनं चाह॥ सकलेति॥ कारणत्वेनेति॥ कारणत्वाद्यनन्तगुणत्वेनेत्यर्थः। ननु संशब्देन मुख्यत्वप्रतिज्ञानेऽपि समन्वयादित्युक्तहेतुना कथं तत्सिद्धमित्यत आह॥ उपक्रमेति॥ अबाधे सतीत्यपि योज्यम्। तेषां तात्पर्यलिङ्गत्वेन मुख्यत्वावगमकत्वात्। बाधकस्य चेहाशङ्क्य निरसिष्यमाणत्वादिति भावः॥ वादीति॥ वाच्यत्वावाच्यत्ववादीत्यर्थः। पूर्वाक्षेपपूर्वं भाष्योक्तपूर्वपक्षं व्यनक्ति॥ न ब्रह्मण इति॥ तत्र हेतुत्वेन इत्यादिभिर्न तच्छब्दगोचरमिति भाष्यं व्यनक्ति। यत इति॥ तद्ब्रह्मेत्यर्थः। अप्राप्य मनसा सहेत्युक्तेरज्ञेयं चेत्यपि ध्येयम्। अवाच्यत्वादज्ञेयत्वाच्च न ब्रह्मणश्शास्त्रमुख्यार्थत्वमित्यर्थः। हेत्वोर-सिद्धिवारणायोक्तमित्यादिश्रुतेरिति। भाष्ये बहुवचनोक्तावपि प्रत्येकं साधकत्वद्योतनाय श्रुतेरित्येक-वचनोक्तिः। हेत्वोरप्रयोजकत्वं निराह॥ न ह्यवाच्यस्येति॥ अज्ञेयस्य चेत्यपि ज्ञेयम्। व्याघात-प्रसङ्गादिति भावः॥ अत इति॥ शास्त्रमुख्यार्थत्वाभावादित्यर्थः॥ कारणत्वमिति॥ कारणत्वा-दीत्यर्थः॥ शब्दादीति॥ न विद्यते शब्दो यस्येति व्युत्पत्त्येत्यर्थः। अरूपमित्यादौ तु रूपादिराहित्यं रूपादिग्राहकचक्षुराद्यविषयत्वं चेत्यर्थः। महत्त्वसमानाधिकरणोद्भूतरूप वतस्तादृशस्पर्शवतो वा द्रव्यस्य चक्षुरादिविषयत्वात्। एवं चावाच्यत्वमज्ञेयत्वं चोभयं प्राप्तमिति भावः। सूत्रानुगुणत्वादेतद्वाक्योक्तिर्भाष्ये। अत्रावाच्यत्वादेरस्फुटत्वात्पूर्ववाक्योक्तिः। ब्रह्मणोऽवाच्यत्वे कथं तद्ब्रह्मेत्याद्युक्तिरित्यतो भाष्येऽवचनेनैव प्रोवाचेत्युक्तं तद्व्याहतिनिरासाय व्याचष्टे॥ अवचनेनेति॥ उपदिदेश। तद्ब्रह्मेत्यर्थः। यदित्येतत्कर्म-कारकमिति भावेनाह॥ पुरुष इति॥ अत्रावाच्यत्वाज्ञेयत्वे स्पष्टमुक्ते। गोचरा इन्द्रियार्थाश्चेति गोचरपदस्य पुंलिङ्गत्वात्कथं गोचरमित्युक्तिरित्यत आह॥ त्रयीति॥ ‘स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा’ इति प्रथमस्कन्धे प्रयोगादित्यर्थः। उपलक्षणमेतत्। यदि तत्स्यादगोचरमित्यनुव्याख्यान-सुधायामुक्तदिशा शब्दानां गवां ज्ञानानां चरश्चरणं वृत्तिर्यस्मिन् तच्छब्दगोचरमिति व्यधिकरण-बहुव्रीहिमाश्रित्यापि साधुत्वं ध्येयमित्युक्तं चन्द्रिकायाम्। तृतीये ग्रहवृधनिश्चिगमश्चेति सूत्रे घञर्थे कविधानमिति वार्तिकोक्त्या चरतेः कप्रत्यये चरेति रूपम्। गोचरसञ्चरवहव्रजव्यजापणनिगमाश्चेति सूत्रे मञ्जर्यां रूढशब्दोऽयं तस्य यथाकथञ्चिन्निर्वचनमित्युक्तेः। तथा च प्रागुक्तावाच्यत्वाज्ञेयत्वयोर्द्वयोरपि पूर्वपक्षभाष्येऽभिधानं लब्धम्। अप्राप्य मनसा सहेत्यंशोक्तिश्चार्थवतीति ज्ञेयम्। तेनेक्षणीयत्वमप्य-सिद्धमिति शङ्कितुर्भावः। अत एवाग्रे भाष्ये अवाच्यत्वादिकं त्वित्यादिशब्दः। एतेन न च तस्यावाच्यत्वं श्रुत्यभिप्राय इति न्यायविवरणेऽज्ञेयत्वमप्युपलक्ष्यं बोध्यम्। अत्र सूत्रे पूर्वसूत्रात्तत्पदमनुवर्त्य तदशब्दमिति योज्यमिति भावेन भाष्ये न तच्छब्दगोचरमित्युक्तम्। श्रुतिप्राप्तं श्रुतितात्पर्याज्ञानप्राप्तमित्यर्थः। न च तस्यावाच्यत्वं श्रुत्यभिप्राय इति न्यायविवरणोक्त्या किन्तु श्रुत्यभिप्रायाज्ञानप्राप्तमिति ध्वनितत्वात्। सूत्रे चावाच्यं नेत्यनुक्त्वा अशब्दं नेत्युक्त्या अशब्दमस्पर्शमित्यादिश्रुत्यर्थाज्ञानप्राप्तमिति लाभादिति भावः। ननु ‘यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषभिध्यायीत। स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्। स एतस्मात्’ इति श्रुतौ स हि ध्याता तं ध्येयं परमेश्वरमपरोक्षीकृत्य तेजसि सूर्ये सम्पन्नः सम्प्राप्तो जीर्णत्वङ्मुक्तसर्पवत्प्रारब्धपाप्मना विनिर्मुक्तः सामाभिमानिदेवताभिः सत्यलोकं नीतः स एतस्मात्सत्यलोकपतेर्जीवसाराच्चतुर्मुखादुत्तमोत्तमं सर्वशरीरगं पुरुषमीक्षत इत्यपरोक्षमीक्षणं भाति। तस्य च शब्दाकरणकत्वात्कथं तेन वाच्यत्वादिसिद्धिरित्यतः सत्यं सर्वं जीवघनादित्यत्र तदुपदेशेनेति व्याख्यायत इति भावेनाह॥ जीवोत्तमहिरण्यगर्भोपदेशेनेति॥ पश्यतीति जानातीत्यर्थः।

प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च।

ज्ञानं चतुर्मुखात्प्राप्य मुच्यते नात्र संशयः॥

इति षट्प्रश्नभाष्योक्तेरिति भावः। पश्यतीत्युक्तिस्तु ईक्षदर्शनाङ्कनयोरिति धातोर्दृशि धात्वादेशरूप-पश्यतेर्ज्ञानमात्रार्थत्वमुपेत्येति। भाष्ये आत्मन्यात्मानमिति श्रुतिर् उत्तरसूत्रार्था ईक्षत इति श्रुत्युक्तिश्च सूत्रोपात्तत्वादुभयत्रापि पश्यतेरपरोक्षेऽपि सम्भवात्स्पष्टमपरोक्षार्था विज्ञायेति श्रुतिः। आत्मनीति श्रुतिः प्रागेव व्याख्याता। भाष्ये वचनैरित्यस्येक्षणीयत्वे हेतुत्वानुपयोगादीक्षणीयत्वावगतेरित्युक्तम्। एतेन हेतोरसिद्धिरुद्धृता। सूत्रे ईक्षतेरिति धातुनिर्देशमात्रत्वेन तदर्थलक्षणाया ईक्षणादिति लाभात्तस्य चासम्बद्धस्य हेतुत्वायोगाद्योग्यतया पुरुषमीक्षत इति श्रुत्यानुगुण्याच्च क्रियाकर्मभाव इति मत्वेक्षणीयत्वादित्युक्तं भाष्य इति भावः। अशब्दं नेत्यस्य द्वौ नञाविति न्यायलब्धार्थस्योक्तिर्भाष्ये वाच्यमेवेति। तदनुवदन्विशेष्याकाङ्क्षां पूरयति॥ वाच्यमेव तदिति॥ पूर्वपक्षभाष्यात्तत्पदमिहानुवर्त्यम्। सूत्रे च पूर्वसूत्रादिति भावः। ननु सूत्रे अशब्दं नेत्यनुक्त्वा पूर्वस्मात्तत्त्वित्यनुवर्त्य ईक्षतेर्वाच्यमित्युक्तावपि तद्ब्रह्म वाच्यं तु वाच्यमेवेति सिध्यतीति चेन्न। तत्पदान्विततुशब्दस्यात्रान्वये सति तत्त्वित्याध्यायसमाप्त्यनुवृत्तिर्न स्यात्। शिष्टं तन्त्रदीपिकायां व्यक्तम्। वाच्यत्वोक्तेः फलमाह॥ अत इति॥ वाच्यत्वादित्यर्थः। सौत्रहेतोर-प्रयोजकत्वं शङ्कते॥ नेति॥ नावचनेनेक्षणमित्येतदर्थमाह॥ भवेदेतदिति॥ तत्र हेतुमाह। तस्योक्तेति॥ शास्त्रयोनिसूत्रोक्तरीत्येत्यर्थः। एवमीक्षणीयत्वाद्वाच्यमेवेति भाष्यमर्थापत्तिपरतया औपनिषदत्वादित्यादिभाष्यं तत्रेक्षणीयत्वे विशेषणार्पकमिति व्याख्यायेदानीमित्यादिवचनैरीक्षणीयत्वा-द्वाच्यमेवेति भाष्यं परिशेषपरतया औपनिषदत्वादित्यादि तु तत्र प्रसक्तप्रतिषेधपरतया व्याचष्टे॥ परिशेषेत्यादिना साधयतीत्यन्तेन॥ अर्थापत्तिपरिशेषयोरनुमानत्वेऽप्यवान्तरविशेषात्पृथगुक्तिः॥ श्रूयत इति॥ इत्यादिवचनैरिति भाष्यं पूर्ववदसिद्धिनिरासकमिति भावः। भाष्यस्थावचनेनेत्यस्यार्थो वचनेतरेति। वचनवृत्त्यन्येनेत्यर्थान्तरं चाह॥ वृत्त्यन्तरेति॥ उपस्थिते हि लक्षणादिर्वाच्यः। औपनिषदस्योपस्थितिश्च शब्देनैव। तत्रापि लक्षणादिश्चेत्तत्रापि लक्ष्योपस्थित्यर्थं शब्दान्तरमित्यनवस्थापत्तेरिति भावः। स्वप्रकाश-तया सिद्धे ब्रह्मणि शब्दानां लक्षणेति तु सूर्यदर्शने दीपस्येव वैयर्थ्यादयुक्तम्। विवरिष्यते चैतदग्रे।

इत्यादिश्रुतिस्मृतिभ्यश्चेति भाष्ये वाच्यमेवेति साध्यस्यान्वयात्सूत्रोक्तेक्षणीयत्वयुक्तिसहायत्वेन श्रुत्याद्युक्तौ बीजमाह॥ नन्विति॥ तेषु त्रिष्विति॥ प्रत्यक्षानुमानागमेषु मध्ये आगमस्य प्राबल्यं जात्यैवोत्सर्गेणैव स्मृतमिति तत्वनिर्णयोक्तेरित्यर्थः॥ इत्यत इति॥ एतेन सर्वे वेदा यत्पदमामनन्तीति श्रुतिसहितानुभवस्य बलवत्त्वादिति न्यायविवरणे साहित्योक्तरुक्तप्रयोजना॥ श्रुतिस्मृती चाहेति॥ भाष्ये अथ कस्मादुच्यते ब्रह्मेति नामानि सर्वाणि यमाविशन्तीति वचसां वाच्यमुत्तममित्यादीनां बहुत्वेन बहुवचनोक्तावप्युपात्तं तु श्रुतिस्मृतिरूपं द्वयमेवेति भावेन द्विवचनोक्तिः। श्रुतावाङ्प्रयोगेण साक्षादेव वाच्यत्वस्य स्मृतौ चाहमेवेत्यवधारणलब्धमुख्यमेववेद्यत्वाद्यन्यथानुपपत्त्या च वाच्यत्वस्य सिद्धेरिति भावः। सूत्रे श्रुत्याद्यनुक्त्वा ईक्षणीयत्वयुक्त्युक्तिस्तु पूर्वपक्ष्यक्तश्रुत्यादिप्रतिरुद्धत्वेन स्वतोऽनिर्णायकत्वा-त्तदनुग्राहकत्वेनेति बोध्यम्।

अभिनवचन्द्रिका

ईक्षतेरिति धातुनिर्देशः। न चाऽविविक्षितार्थशब्दमात्रं ब्रह्मणो वाच्यत्वे हेतुर्भवितुमर्हतीति तदर्थोऽनेन लक्ष्यते। न च ब्रह्मासम्बन्धीक्षणमप्यत्र हेतुर्भवति। अतिप्रसङ्गात्। सम्बन्धश्च न कर्तृत्वादिरूपः श्रुत्यननुगमात्। विपक्षे बाधकाभावप्रसङ्गाच्च। अत ईक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम्। न चैतदपि युक्तं व्यधिकरणत्वात्। तस्मादीक्षणकर्मत्वमेव हेतुतया विवक्षितम्। इममेवाभिप्रायं मनसि निधाय ‘ईक्षणीयत्वतो विष्णुर्वाच्य एवे’(अनुव्या.१-१-५)त्युक्तम्। ततश्चैवं सूत्रयोजना – न विद्यते वाचकः शब्दो यस्य तद् अशब्दम्। ईक्षणकर्मत्वाद्ब्रह्म अशब्दम् अवाच्यं न, किन्तु वाच्यमेवेति। वाच्यमिति वक्तव्ये ‘नाशब्द’मिति वचनं तु ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत’ इति न्यायाद् अवधारणार्थम्। यद्यप्येक एव नञ् प्रकृतमर्थं सातिशयं गमयति, अपरस्तु प्रकृतार्थाभावं गमयतीति ‘नञुत्तरो नञ् प्रकृतमर्थं गमयती’ति वक्तव्यं तथापि छत्रिन्यायेन तथोक्तमिति ध्येयम्।

अन्तर्भेदाधिकरणमिदम्। वाच्यत्वसमर्थनपरेऽस्मिन्नधिकरणे ‘गतिसामान्या’(१-१-१०)दिति अप्रसिद्धशाखाप्रतिपाद्यत्वस्य समर्थनात्। यद्यपि इदमपि ‘गतिसामान्या’दिति सूत्रं पूर्वाधिकरण एव निवेशनीयम्, तथापि शास्त्रीयप्रमेयस्य बहुवारं स्मृतेः फलातिशयहेतुत्वात् सिंहावलोकनन्यायमवष्टभ्य इहाधिकरणे प्रवेशितम्। तदुक्तं ‘बहुवारं स्मृतेस्तस्य फलबाहुल्यकारणा’दिति। ननु वाच्यत्वसमर्थनमेव कुत इत्यतस् तस्यावश्यकत्वं वक्तुमुपक्रमते– सकलजगदिति॥ सकलजगज्जन्मादिकारणत्वेन ब्रह्मैव सकलशास्त्रान्तर्गतपदानां वचनवृत्त्या लभ्योऽर्थ इत्यभिहितमित्यर्थः। अत्र टीकायामितः परं श्रूयमाणम्। ‘उपक्रमादिभिर्निर्णीतस्य मुख्यार्थत्वा’दिति वाक्यं प्रक्षिप्तम्। अवश्यं चैतदेवं विज्ञेयम्, ‘शास्त्रमुख्यार्थ इत्यभिहित’मित्यस्य हेत्वाकाङ्क्षाविधुरत्वेन तस्याऽवक्तव्यत्वात्। न हि पूर्वाधिकरणनिर्णीतप्रमेयानुवादावसरे हेत्वाकाङ्क्षा भवति। अन्यथा – अधिकरणान्तरेषु सङ्गतिप्रदर्शनाय वृत्तानुवादवेलायां हेत्वाकाङ्क्षा भवति।

तन्निवृत्तये हेत्वभिधानं च स्यात्। उपक्रमादीनां तात्पर्यसाधकत्वेऽपि शक्तिसाधकत्वाभावाच्च। तच्चेति॥ वृत्त्या लभ्यार्थत्वं वाच्यत्व एव सम्भवति न तु सर्वथा केनाप्यवाच्यत्वे। पदशक्त्यविषयस्य शक्तिलभ्यार्थत्वासम्भवाद् वाच्यत्वं समर्थनीयमिति भावः। तन्मुख्यत इति॥ नन्वत्राधिकरणे ब्रह्मणो वाच्यत्वसमर्थनात्, ब्रह्म विषयः वाच्यमवाच्यं वेति संदेह इति वक्तव्यं, न तु तन्मुख्यतः शास्त्रयोनित्वं विषयः ब्रह्मणो युक्तमयुक्तं वेति संदेह इति। साध्यसंदेहस्यानुमानाङ्गत्वेन तस्यैव दर्शनीयत्वात्। शास्त्रयोनित्वस्य सिद्धान्तफलत्वेनासाध्यत्वादिति चेत्, सत्यमिह तथैव वक्तव्यम्, तथापि सर्वेष्वप्याक्षेपकाधिकरणेषु तदधिकरणसंशयस्याऽऽक्षेप्याधिकरणप्रमेयसंशयपर्यवसन्नतेति सूचनाय तथोक्तमिति। भाष्ये – ‘नन्वित्यारभ्य न तच्छब्दगोचर’मित्यन्तं वाक्यं पूर्वपक्षप्रदर्शकम्, ‘नेत्याहे’ति तु सिद्धान्तप्रदर्शकमिति ज्ञापनाय प्रथमवाक््यमवतारयति – तत्र पूर्वपक्षयतीति॥ एतेन – नन्वित्यनेन पूर्वपक्षस्य स्पष्टं प्रतिभासात् तत्र पूर्वपक्षयतीत्यवतारिका अनुपपन्नेति परास्तम्। न ह्यवाच्यस्येति॥

केनापि पदेनावाच्यस्य शक्तिबललभ्यशास्त्रार्थत्वं नास्तीति हि प्रसिद्धमित्यर्थः। अत इति॥ यस्मादवाच्यमेव ब्रह्म अतस्तस्यकारणादिपदशक्तिबलेन शास्त्रोक्तं कारणत्वं न सम्भवति कारणपदावाच्यस्य कारणत्वासम्भवात्। अन्यथा गङ्गापदावाच्यस्यापि तीरस्य गङ्गात्वप्रसङ्गादिति भावः। ननु कारणपदावाच्यत्वादकारणमित्ययुक्तम्। कारणपदावाच्यस्यापि कारणत्वे प्रमाणसद्भावेन स्वीकर्तव्यत्वात्, गङ्गापदावाच्यस्य गङ्गात्वाभावस्तु प्रमाणाभावादेव। अन्यथा – अशब्दपदोक्तमशब्दत्वं न स्याद् यदि ‘यतो वाच’ (तै.उ.२०) इत्यादि प्रमाणबलाद् अशब्दपदावाच्यस्यापि अशब्दत्वसिद्धिः, तर्हि – ‘यतो वा इमानि भूतानी’ति वाक््यबलात् कारणपदावाच्यस्यापि कारणत्वसिद्धिरस्त्विति चेद् लक्षणया समन्वयवादिनामशब्दपदावाच्यस्यापि प्रमाणबलेन अशब्दत्वसिद्धिसम्भवेऽपि त्वन्मते कारणपदावाच्यस्य न कारणत्वसिद्धिः। लक्षणया समन्वयस्य त्वयाऽनङ्गीकारात्। अवाच्ये मुख्यसमन्वयस्याप्यभावेन त्वन्मते जगत्कारणत्वे प्रमाणवैधुर्यस्यैव प्राप्तेः। न च – प्रमाणबलाद् अशब्दपदप्रवृत्तिनिमित्तसद्भावे तच्छब्दवाच्यत्वमवर्जनीयमिति वाच्यम्। प्रमाणबलेन तत्तच्छब्दप्रवृत्तिनिमित्तसद्भावेऽपि श्रुत्या वाच्यत्वस्य निषिद्धत्वेन तस्यानंगीकर्तव्यत्वात्। ननु ब्रह्मणो वाच्यत्वाभावे ‘यतो वाचो निवर्तन्ते’ (तै.उ.२) इत्यादिश्रुतिप्रतिपाद्यत्वाभावेन तस्यावाच्यत्वं न सिध्येदिति शंकापरिहारार्थं भाष्ये प्रवृत्तं ‘अवचनेने’ति वाक्यं व्याचष्टे – अवचनेनेति॥ ब्रह्मणोऽवाच्यत्वसमर्थनाय भाष्योदाहृतं ‘यच्छोत्रेणे’ति वाक्यं व्याचष्टे – यच्छ्रोत्रेणेति॥ ‘न शृृणोती’त्यत्र अयमित्यनुक्तेर् ब्रह्मेति प्रतीति निरासायाह – पुरुष इति॥ ततश्चैवं योजना। पुरुषः यद्बह्म श्रोत्रेण न शृृणोति यद्वाचकं शब्दं न शृृणोतीत्यर्थः। श्रोत्रशब्दार्थमाह श्रुतिः – येन श्रोत्रमिति॥ येन कारणेन इदं शब्दजातं श्रोत्रेण श्रुतं तेन निमित्तेन इदं श्रोत्रमुच्यते। शब्दग्राहित्वं श्रोत्रशब्दप्रवृत्तिनिमित्तमिति भावः। ननु – ‘रोपध’ (५५) इति लिङ्गानुशासनसूत्रेण गोचरशब्दस्य पुंलिङ्गत्वविधानात् ‘न तच्छब्दगोचर’मित्यनुपपन्नम्। न च – अस्य प्रयोगस्यार्षत्वान्नपुंसकत्वमुपपन्नमिति वाच्यम्। आर्षग्रन्थेषु नपुंसकत्वेन प्रयोगाभावादित्यत आह– त्रयीति॥ नपुंसकत्वेन प्रयोगाभावेऽपि विशेष्यलिङ्गतया प्रयोगस्य विद्यमानत्वा दार्षप्रयोगस्यानियतलिङ्गत्वं सिद्धमिति भावः॥ ईक्षणीयत्वावगतेरिति॥ ‘स एतस्मा’दित्यादि-श्रुतिसिद्धशब्दजन्यापरोक्षज्ञानविषयत्वान्यथानुपपत्त्या ब्रह्म वाच्यमेवेत्यर्थः। अत्र शब्दस्यापरोक्ष-ज्ञानजनकत्वं च तज्जनकेन्द्रियसहकारित्वमेव न साक्षादिति बोध्यम्। यद्यपि शब्दविषयत्वमात्रेणैव वाच्यत्वसाधनमुचितं परेणापि ‘यतो वाचो निवर्तन्त’ इत्यादिश्रुतिविषयत्वस्याङ्गीकृतत्वेनाऽसिद्धि-शङ्कानुदयात्, तथापि शिष्यबुद्धिशुद्धये मीमांसाप्रवृत्त्यर्थं ‘स एतस्मा’दि त्यादिश्रुतिसिद्धमीक्षणविशेषकर्मत्वं हेतुत्वेनोपात्तम्। ननु ईक्षणीयत्ववाच्यत्वयोर् व्याप्तिसद्भावाद् धूमादिना वह्न्यादिसाधनमिव, ईक्षणीयत्वेन लिङ्गेन वाच्यत्वसाधनमुचितम्, न त्वर्थापत्तिविधया। यत्र हि नात्यन्तकी व्याप्तिस् तत्रार्थापत्तिविधया गमकत्वमङ्गीकरणीयम्। तद्यथा – पीनत्वं यस्य रात्रिभोजनमन्तराऽनुपपद्यमानं तस्यैव रात्रिभोजनं कल्पयति, न तु दिवा भुंजानस्य। योगिनो वा रोगिणो वा दिवा भोजनादिनैवोपपन्नत्वेन अन्यथानु-पपत्तेरभावादिति चेत्, सत्यम् – तथापि ईक्षणीयत्ववाच्यत्वयोर्व्याप्तेः परेणानङ्गीकाराद् अर्थापत्तिविधया गमकत्वमुक्तम्। ईक्षणमात्रं हेतुत्वेन सूत्रकृतोक्तमिति मन्यमानः शङ्कते – नेक्षणीयत्वान्यथानुपपत्त्येति॥ कुतो न वाच्यमित्यत आह– ईक्षणस्येति॥ ऐन्द्रियकत्वे केवलप्रत्यक्षेण अतीन्द्रियत्वे अनुमानोपनीत-प्रत्यक्षेण वा ईक्षणस्य सम्भवाद् वाच्यत्वमन्तराऽप्युपपन्नस्य न वाच्यत्वसाधकत्वमिति भावः। भवेदेत-दिति॥ यदि ब्रह्मविषयकमीक्षणं केवलप्रत्यक्षेण, अनुमानोपनीतप्रत्यक्षेण वा। उपपन्नं भवेत् तदैव वाच्यतां न साधयेत्। नैतदस्तीत्यर्थः। कुतो नेत्यत आह – तस्योक्तरीत्येति॥ नन्वस्तु आगमसहकृत-प्रत्यक्षजन्येक्षणस्य वाच्यत्वसाधकत्वं, सूत्रोक्तेक्षणस्य अन्यथोपपन्नत्वेन न वाच्यत्वासाधकत्वमित्यत आह– तथा चेति॥ सूत्रकृता शब्दसहकृतप्रत्यक्षजन्येक्षणमेव हेतुत्वेन विवक्षितं नेक्षणमात्रमिति भावः। परिशेषप्रमाणेन वेति॥ परिशेषप्रमाणसिद्धेनेक्षणेन अत्र सूत्रे वाच्यत्वं साध्यत इत्यर्थः। पूर्वं ‘स एतस्मा’ (प्र.उ.)दित्यादिश्रुत्यैव शब्दसहकृतप्रत्यक्षजन्येक्षणं सिद्धमित्यभिप्रेत्य तदन्यथानुपपत्त्या वाच्यत्वं साध्यत इत्युक्तम्, इदानीं तु श्रुत्या ईक्षणमात्रं सिद्धं परिशेषेण तु तस्मिन्नीक्षणे शब्दसहकृतप्रत्यक्षजन्यत्वरूपविशेषः सिध्यति। एवं च श्रुतिपरिशेषसिद्धविशिष्टेक्षणान्यथानुपपत्त्या वाच्यत्वं साध्यत इत्युच्यत इति भेदः। एतेन – ‘परिशेषप्रमाणेन वा अत्र वाच्यत्वं साध्यत’ इत्ययुक्तम्, ‘वचनेनेक्षणं च अवाच्ये वृत्त्यन्तरायोगेने’ति ईक्षणीयत्वार्थं पराभ्युपगतलक्षणान्यथानुपपत्त्या वाच्यत्वसिद्धेर्वक्ष्यमाणत्वेनोत्तरग्रन्थविरोधात्, ईक्षतेरिति सूत्रोक्तेक्षणहेतुत्वपरित्यागप्रसङ्गाच्चेति परास्तम्। परिशेषसिद्धेनेक्षणेन वाच्यत्वसिद्धेरिहाभिमतत्वात्। परिशेषमेव दर्शयति – ईक्षणं च प्रमाणेन भवेदित्यादिना॥ अत्र ईक्षणसाधनानि त्रीणि प्रमाणानि प्रसक्तानि। केवलं प्रत्यक्षं, अनुमानसहकृतम् आगमसहकृतं चेति। तत्र केवलम् अनुमानसहकृतं प्रत्यक्षं वा न सम्भवति। परमेश्वरस्य औपनिषदत्वेन तदयोग्यत्वात्। परिशेषाच्छब्दसहकृतप्रत्यक्षमेव परमेश्वरेक्षणजनकत्वेन सिद्धमिति भावः। परिशेषसिद्धि-फलमाह – वचनेनेक्षणं चेति। परिशेषात्सिद्धं वचनेन जन्यमीक्षणं शब्दानां ब्रह्मणि लक्षणावृत्ति-स्वीकारेऽपि वाच्यत्वं साधयति। अवाच्ये लक्षणादिरूपवृत्त्यन्तरायोगादिति भावः। श्रुतिस्मृती चाहेति॥ ईक्षतिशब्दार्थत्वेन श्रुतिस्मृती चाहेत्यर्थः। एतेन श्रुतिसिद्धस्य अवाच्यत्वस्य युक्तिमात्रेण दूषणमनुपपन्नमित्याशङ्काया भाष्यकारीयश्रुतिस्मृत्युदाहरणेनाऽपरिहारात्। तदुदाहरणमयुक्तम्। न हि अन्यस्य प्रमेयसिद्धये दुर्बलप्रमाणोदाहरणमयुक्तमिति शङ्काप्राप्तौ तदन्यनेन केनचित्प्रबलप्रमाणोदाहरण-मुपयुज्यते, येन भाष्यकारीयं तदुदाहरणं युक्तं स्यादिति परास्तम्। ईक्षतेरिति धातुनिर्देशस्य ईक्षणीयत्वोप-लक्षकत्ववत् श्रुतिस्मृत्युपलक्षकत्वस्य इहाभिमतत्वात्। भाष्ये– सर्वे वेदा यत्पदमामनन्तीति॥ सर्वे वेदाः, नामानि सर्वाणीत्येवमादयः वाच्यत्वादिप्रतिपादका यावन्तो वेदास् ते सर्वे यत्स्वरूपमामनन्ति। ननु तपःप्रतिपादकानां वेदानां न भगवत्परत्वमिति सर्वेषां वेदानां भगवत्परत्वमयुक्तमिति शङ्कापनोदा-योक्तम् – तपांसीति॥ तपःप्रतिपादकत्वेनाभिमता यावन्तो वेदास् ते सर्वेऽपि सर्वाणि तपांसि यत्प्रति वदन्ति। उपलक्षणमेतत्। ‘न सुरां पिबे’दित्येवमादयो भगवत्प्रीतिमुद्दिश्य सुरापाननिषेधं कुर्वन्तीत्यादिकमूह्यम्। वाच्यत्वादिप्रतिपादकैः सर्वैरपि वेदैरहमेव वेद्य इत्यर्थः। एतेन – उदाहृत-श्रुतिस्मृत्योर् वेदानां भगवत्परत्वाभिधायकत्वेऽपि वाच्यत्वाभिधायकत्वाभावात्तदुदाहरणमयुक्तमिति परास्तम्। साक्षाद्वाच्यत्वाभिधायकत्वाभावेऽपि सर्वेषां भगवत्परत्वोक्तौ ‘नामानी’त्यादिश्रुतीनामपि भगवत्परत्वप्राप्त्या वाच्यत्वस्यापि सिद्धेः। न हि ‘नामानी’त्यादिवाक््यं भगवत्परं तदर्थञ्च वाच्यत्वं न भगवत इति सम्भवति। येन श्रुतिस्मृत्युदाहरणमसंगतं स्यात्।

वाक्यार्थमुक्तावली

ॐ इक्षतेर्नाशब्दं ॐ॥ अत्र सर्वे वेदा यत्पदमामनन्तीत्यादिब्रह्मप्रतिपादकश्रुत्यर्थभूतस्य ब्रह्मण-स्सर्ववेदमुख्यप्रतिपाद्यत्वस्य निर्णयाङ्गन्यायानुसन्धानस्य क्रियमाणत्वाच्छास्त्रसङ्गतिरित्याह। अत्रेति। शास्त्रमुख्यार्थत्वसिद्धय इति शेषः। वाच्यत्वेत्युपलक्षणम्। सर्वशास्त्रप्रतिपाद्यत्वेत्यपि ग्राह्यम्। वेदमुख्यार्थत्वोपपादकवाच्यत्वसमर्थनपरसूत्राणामिव सकलवेदार्थत्वसमर्थनपरस्य गति सामान्यसूत्रस्याप्यत्र विद्यमानत्वात्।

ननु तर्हि प्रमेयद्वयप्रतिपादनेऽधिकरणभेदप्रसङ्ग इति चेन्न। उभयोरपि पूर्वसूत्रीयसंशब्दार्थत्वेनैकत्व-विवक्षयैकाधिकरणत्वात्। अत एवाधिकरणान्तरत्वप्रतीतिनिरासाय गतिसूत्रस्य मध्ये निवेशः। अधिकरणादिसङ्गतिं दर्शयति सकलेति॥ शास्त्रेति॥ सर्वशास्त्रेत्यर्थः। अभिहितमिति। संशब्देनेति शेषः। आर्थिकी तत्सिद्धिरित्याह॥ उपक्रमादिति॥ युक्तमयुक्तं वेति। अत्र सकलवेदमुख्यार्थत्वं ब्रह्मण किमयुक्तमुत युक्तमिति चिन्ता। तदर्थं तस्य वाच्यत्वं नास्त्युतास्तीति। तदर्थं ब्रह्मणो वाच्यत्वसाधकप्रमा नास्त्युतास्तीति। तदर्थं प्रमाणतयोपन्यस्यमानमीक्षणीयत्वं पूर्णमद इति श्रुत्युक्तत्वं च किं जीवाख्यगौणस्योत ब्रह्मण इति। तदर्थम् ईक्षणीये श्रुतात्मशब्दः पूर्णमद इत्यत्रोक्तस्वप्ययः किं गौणे मुख्य उत शुद्ध एव मुख्य इति। तदर्थं यस्यानुवित्त इत्यादेरात्मनिष्ठस्य मोक्षोपदेशस्य तमैवैकमित्युक्ते हेयत्वावचनस्य च पूर्णमेवावशिष्यत इत्युक्तस्य प्रलयेऽवशेषस्य च किं गौणे सम्भव उत शुद्ध एव सम्भव इति। एतत्सर्वनिर्वाहार्थं निर्गुणस्यावाच्यत्वश्रुतिबाधकं वाच्यत्वसाधकमुपपत्तिनिरपेक्षं स्पष्टं प्रमाणं नास्त्युतास्तीति। हेतोरप्रयोजकत्वं परिहरति॥ न ह्यवाच्यस्येति॥ भाष्ये अप्राप्य मनसा सहेत्यंशोदाहरणं तु सिद्धान्त्यभिमतवाच्यत्वसाधकेक्षणीयत्वहेतोरसिद्धिव्युत्पादनाय। अत एवावाच्यत्वादिकं त्वप्रसिद्धत्वादित्यत्राज्ञेयत्वस्यापि गतिं वक्ष्यति। अशब्दमित्यादेः प्रकृतोपयुक्तमर्थ-द्वयमाह अशब्दमित्यादेरिति॥ शब्दादिगुणशून्यमिति॥ तथा चायमर्थः। वचनवृत्तिः खलु गुणादि-योगनिमित्ता। तस्य च निर्गुणत्वान्न तत्र वचनवृत्तिरिति भावः। अथवा शब्दादिगुणशून्यतया श्रोत्राद्यग्राह्यत्वादज्ञेयत्वं तस्येति भावः॥ तदविषयश्चेति॥ अशब्दमित्यस्य शब्दाविषय इत्यर्थः। अशब्दमित्यादेः शब्दादिग्राहकश्रोत्राद्यविषय इत्यर्थः। नन्वौपनिषदः पुरुष इति वाच्यत्वस्य श्रुतत्वात्कथमवाच्यत्वमित्यतः प्राप्तमवचनेनैव प्रोवाचेत्यंशं व्याचष्टे वचनवृत्तिमिति॥ उक्तं च सुधायाम्। औपनिषदत्वं तु लक्षणया वृत्त्या सम्भवान्न वाच्यतामपेक्ष्यत इति। यद्वाचानभ्युदितमित्यस्य यद्यद्वाचकं शब्दतत्वं वा वाचा इन्द्रियेण न व्यवहृतमिति वा यद् ब्रह्म वाचा वेदवाचा अनभिहितमिति वार्थः। यच्छोत्रेणेत्यत्र यद्यद्विषयं शब्दमित्यर्थः। यद्वा तस्य लौकिकशब्दगुणशून्यत्वादलौकिकशब्दगुणस्य श्रोत्राविषयत्वमित्यर्थः।

ननु गोचरा इन्द्रियार्थाः स्युरित्यभिधानात् कथं गोचरमिति नपुंसकलिङ्गप्रयोग इत्यत आह त्रयीति। सूत्रे ईक्षतेरिति धातुनिर्देशः। तेन तदर्थभूतमीक्षणं लक्ष्यते। न च ब्रह्मसम्बन्धीक्षणं तस्य वाच्यत्व-साधकमित्यत ईक्षणकर्मत्वमेव हेतुतया विवक्षितम्। तदित्यनुवर्तते। न विद्यते शब्दो वाचको यस्य तदशब्दमवाच्यं न। नाशब्दमिति वचनं द्वौ नयौ प्रकृतमर्थं सातिशयं गमयत इत्यतो वाच्य-मेवेत्यवधारणार्थमित्यभिप्रेत्य स एतस्मादित्यादिभाष्यं प्रवृत्तमिति भावेन व्याचष्टे। स प्रणवोपासक इत्यादिना॥ यः पुनरेतं त्रिमात्रेणोमित्यनेनाक्षरेण परं पुरुषमिभिध्यायीतेति षट्प्रश्ने पूर्ववाक्ये प्रणवोपासकस्य प्रकृतत्वादिति भावः। उत्तमाज्जीवघनाच्चतुर्मुखादपि परं पुरिशयं पुरुषमीक्षत इति परकृतापव्याख्याननिरासाय व्याचष्टे जीवोत्तमहिरण्यगर्भोपदेशेनेति।

पश्यत्यपरोक्षतो जानाति। अपरोक्षस्य शब्दाकरणत्वेऽपि शब्दजन्यपरोक्षज्ञानोपासनाद्वारकत्वाद् उपदेशेन पश्यतीति युज्यते। विज्ञाय प्रज्ञां कुर्वीतेत्येतत्समानार्थकत्वात्। आत्मन्येवात्मानमित्यत्र ह्युपदेशेनेति योज्यम्। ईक्षणस्य शब्दसम्बन्धाभावे तेन वाच्यत्वनिर्णयायोगादिति॥ वाच्यमेवेति॥ यद्यपि तत्त्वित्यनुवृत्तावधारणं स्वत एव भवति। तदर्थं नञ्द्वयं न प्रयोक्तव्यं तथापि तत्पदान्विततु-शब्दस्याध्यायपरिसमाप्तिपर्यन्तं धर्म्यन्वितत्वेन साध्यान्वितत्वाभावात्। अत्र तद्ब्रह्म वाच्यमेवेत्यन्वये तद्भङ्गभयेन पुनरवधारणस्यापेक्षितत्वादिति। प्रत्यक्षादिनापीति। आगमाननुगृहीतप्रत्यक्षादिनेत्यर्थः। सिद्धान्तिनोऽपि प्रात्यक्षिकेक्षणस्याङ्गीकृतत्वात्। प्रत्यक्षाद्यवेद्यत्वे सतीति। श्रुत्यननुसारिप्रत्यक्षादि-प्रमित्यविषयत्वे सति प्रमाविषयत्वान्यथानुपपत्येत्यर्थः। तेनागमानुसारिप्रत्यक्षादिवेद्यत्वेन भ्रान्तिवेद्यत्वेन वा विशेषेणासिध्यन्यथासिध्योर् निरासः। आगमानुसारिप्रत्यक्षादिवेद्यत्वं तु वाच्यत्वव्यतिरेकेण न सम्भवतीति भावः। एवमीक्षणीयत्वादिति वाक्यमर्थापत्तिपरतया औपनिषदत्वादिति वाक्यं तत्रेक्षणीयत्वे विशेषणार्पकतया व्याख्यायेदानीं प्रथमं वाक्यं परिशेषपरतया द्वितीयं प्रसक्तिप्रतिषेधपरतया व्याचष्टे॥ परिशेषेत्यादिना साधयतीत्यन्तेन। भ्रान्तेरविद्यानिवर्तकत्वाभावेन प्रमाणेन मोक्षजनकेक्षणासम्भवादिति भावः। वचनेतरप्रमाणेनेति वचनाननुगृहीतप्रमाणेनेत्यर्थः। अवचनेत्येतत् प्रकारान्तरेण व्याख्याति॥ वृत्यन्तरेति॥ श्रुतिस्मृती चाहेति। एतेन श्रुतिस्मृतिभ्यश्चेत्यस्य वाच्यमेवेत्यनेनान्वयं सूचयति। श्रुतिस्मृतीनामादिपदोपात्तानां बहुत्वेऽपि जातिविवक्षया टीकायां द्विवचनम्। तपांसीत्यत्र वेदा इति श्रुतावाङ्प्रयोगेन साक्षादेव वाच्यस्य स्मृतौ चाहमेवेत्यवधारणलब्धमुख्यवेद्यत्वान्यथानुपपत्त्या च वाच्यत्वसिद्धिरिति भावः। सूत्रे श्रुत्याद्यनुक्तेक्षणीयत्वयुक्तिस्तु सर्वे वेदा इत्यादेरेव विषयवाक्यत्वेन पूर्वपक्ष्युक्तश्रुतिप्रतिरुद्धत्वेन स्वतो निर्णायकत्वात् तदनुग्राहकत्वेनेति बोध्यम्।

तत्त्वसुबोधिनी

ॐ ईक्षतेर्नाशब्दम् ॐ॥ वाच्यत्वसमर्थनादिति। उपलक्षणमेतत्। सकलशास्त्रप्रतिपाद्यत्व-समर्थनादित्यपि द्रष्टव्यम्। आद्यसूत्रे ब्रह्मशब्देन जीवादिव्यावर्तकगुणपूर्तिलक्षणत्वेन सूचयित्वा द्वितीये तस्य गुणपूर्तिवाचितासिद्धये जीवपरतानिरासाय कारणता जिज्ञास्यब्रह्मलक्षणत्वेनोक्ता। तृतीये पूर्तिकारणतयोरतिव्याप्तिपरिहाराय तत्र शास्त्रं प्रमाणीकृत्य चतुर्थे तयोर् विष्ण्वेकनिष्ठत्वाय शास्त्रस्यान्यपरतां निषिध्य सर्वशास्त्रशब्दप्रवृत्तिनिमित्तसर्वगुणसिद्धये वचनवृत्त्या सर्वशास्त्रतात्पर्यविषयतायां चोक्तायां संशब्दार्थस्य वाच्यत्वस्य कार्त्स्नस्य च इहाक्षिप्य समाधानादनन्तरसङ्गतिः। एवं वाच्यत्वोपपादकेऽ-स्मिन्नधिकरणे सकलवेदार्थत्वसमर्थनपरस्य गतिसूत्रस्यान्तर्भावः संशब्दार्थाक्षेपसमाधानरूपत्वज्ञापनार्थमेव कृतः। पृथक्करणे तु वाच्यत्वसमर्थनपरत्वाभावादधिकरणान्तरत्वप्रतीतिप्रसङ्गादिति भावः। ननु रुद्रादि-शब्दयुक्तवेदवाक्येषु उपक्रमादिलिङ्गबलाद्विष्णुरेव प्रतिपाद्य इत्युक्तम्। न तु विष्णोर् वेदमुख्यार्थत्वं यत्सिद्ध्यर्थं वाच्यत्वसमर्थनं सङ्गतं स्याद् इत्यत आह॥ उपक्रमादिभिरिति॥ उपलक्षणं चैतत्। सुधोक्तरीत्या संशब्देन विष्णोर् मुख्यार्थत्वस्याप्युक्तत्वादिति बोध्यम्। शब्दवाच्यत्वेऽपि न शास्त्रमुख्यार्थत्वमित्यत आह॥ न हीति॥ उपदिदेशेति। विष्णुमिति शेषः। तथा च न व्याहतिरिति भावः। न तच्छब्दगोचरमिति युक्तमिति। उपलक्षणं चैतत्। सुधोक्तरीत्या शब्दानां गवां ज्ञानानां चरश्चरणं वृत्तिर् यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहित्वं वा चरश्चरणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वाश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम्। ततश्च यतो वाचो इत्यादिश्रुतौ मनसा सहेत्यदृश्यत्वस्यापि उक्तत्वाद् ईक्षणीयत्वम् असिद्धमिति पूर्वपक्षस्याभिप्रायः। सूत्रे वाच्यमित्येव वक्तव्ये नाशब्दमिति वचनं द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति वचनाद् अवधारणार्थम् इत्यभिप्रेत्योक्तं वाच्यमेवेति॥ प्रत्यक्षाद्यवेद्यत्वे सतीति॥ आगमाननुसारिप्रत्यक्षादिप्रमित्यविषयत्वे सति प्रमाविषयत्वान्यथानुपपत्तेत्यर्थः। तेनागमानुसारिप्रत्यक्षादिवेद्यत्वाद् भ्रान्तिविषयत्वाद्वा न विशेषणा-सिध्यन्यथासिद्धी। आगमानुसारिप्रत्यक्षादिवेद्यत्वन्तु वाच्यत्वव्यतिरेकेणासम्भवीति भावः। ‘औपनिषद-त्वात्’ इति वाक्यं पूर्वमर्थापत्तिपरतया व्याख्यातम् इदानीं परिशेषप्रमाणपरतया व्याचष्टे। परिशेषप्रमाणेन वेति। यद्यपि स्वमते अर्थापत्तिपरिशेषयोर् अनुमानता। तथापि तयोर् भेदमुपेत्य वा अनुमानत्वा-वान्तरभेदमाश्रित्य वा पक्षान्तरोक्तिः॥ प्रमाणेनेति॥ भ्रान्तेर् अविद्यानिवर्तकत्वाभावेन प्रमाणाभासेन मोक्षजनकेक्षणासम्भवादिति भावः। अवचनेन इत्येतद्वचनेतरप्रमाणेनेति व्याख्याय प्रकारान्तरेण व्याख्याति॥ वृत्त्यन्तरायोगेनेति॥ न च ईक्षणकर्मत्वरूपम् ईक्षणीयत्वं कथं सूत्रलब्धम् इति वाच्यम्। अन्यथानुपपत्त्यैव तस्य लाभात्। तथाहि। ईक्षतेरिति धातुनिर्देशः। तत्राविवक्षितशब्दमात्रे वाच्यत्वे हेतुत्वासम्भवात् तदर्थम् ईक्षणरूपोऽनेन लक्ष्यते। तथा चासम्बद्धस्यान्यसम्बन्धिनो वा ईक्षणस्य हेतुत्वासम्भवाद् ब्रह्मसम्बन्धिन एव तस्य हेतुत्वं वक्तव्यम्। सम्बन्धश्च न कर्तृत्वादिरूपः श्रुत्यननुगमाद् वाच्यत्वसाधकत्वाभावाच्च। तथा चेक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम्। तदपि न युक्तम्। तथात्वे ब्रह्म वाच्यं तत्कर्मकेक्षणादिति वैय्यधिकरण्यं स्यात्। ईक्षणकर्मत्वमेव वाच्यत्वे हेतुतया विवक्षितमित्यन्यथानुपपत्त्या ईक्षणीयत्वं लक्ष्यते इति न कोऽपि दोष इति भावः। श्रुतिस्मृती चाहेति। श्रुतावामनन्तीति साक्षाद्वाच्यत्वोक्तेः स्मृतौ चाहमेवेत्यवधारणोपपत्तये मुख्यतया वेद्यत्वस्य विवक्षणीयत्वात् तस्य च वाच्यत्वं विना अयोगात् सर्ववेदलक्षणाया अयोग्यत्वाच्च वाच्यत्वसिद्धिरिति भावः। ननु सर्वस्यापि वेदस्य ब्रह्मस्वरूपप्रतिपादकत्वे धर्मादिसिद्धिर् न स्यात् तत्प्रतिपादकाभावादित्यत आह॥ वेदा इति॥ तथा च वेदस्य धर्मादिप्रतिपादकत्वान् न तदसिद्धिः। न च तथात्वे विष्णु-प्रतिपादकत्वायोगः। स्वतन्त्र्येण विष्णुज्ञानार्थमेव तत्प्रतिपादनादिति भावः। यद्वा पदसमन्वयाभिप्रायेण सर्वे वेदा इति। वाक्यसमन्वयाभिप्रायेण तपांसीति। तथा च मुखतो धर्मादिप्रतिपादकत्वेऽपि वाक्यतात्पर्यं विष्णावेवेति भावः।

वाक्यार्थमञ्जरी

वाच्यत्वेति॥ उपलक्षणमेतत्। सुधोक्तरीत्या संशब्दार्थसर्वशास्त्रप्रतिपाद्यत्वसमर्थनादित्यपि ध्येयम्। तेन सकलशास्त्रप्रतिपाद्यत्वसमर्थकगतिसामान्यसूत्रस्यैतदधिकरणान्तर्भाव उपपन्नः। ननूपक्रमादिलिङ्ग-बलाद्रुद्रादिशब्दोपेतशास्त्रस्यापि विष्णुरेवार्थ इत्येवोक्तं न तु तस्य मुख्यत्वमित्यत आह॥ उपक्रमादीति॥ उपलक्षणमेतत्। सुधोक्तरीत्या संशब्देन विष्णोर्मुखार्थत्वस्याप्युक्तत्वात्॥ वादीति॥ वाच्यत्वा-वाच्यत्ववादीत्यर्थः। तद्ब्रह्म। न हीति। वचनवृत्त्या लब्धस्य मुख्यार्थत्वादिति भावः। प्रकृतोप-योगायाह॥ तदविषयश्चेति॥ शब्दत्वगाद्यविषय इत्यर्थः। एतदुपपादनायैव गुणराहित्यकथनमिति भावः। प्रोवाचेत्यनेन वचनप्राप्त्या अवचनेनेत्येतद्व्याहतमित्यत आह॥ वचनवृत्तिं विनेति॥ उपदिदेशेति॥ विष्णुमिति शेषः। यच्छ्रोत्रेणेत्यत्र यच्छब्दार्थब्रह्मणः कर्तृत्वे येन श्रोत्रमिदं श्रुतमित्यनेन व्याहतमित्यत आह॥ पुरुष इति॥

‘अत्रोदाहृतवाक्यार्थविशेषो लिख्यते मया।

पूर्वपक्षोत्थितिर्ज्ञेया प्रतीतार्थानुसारतः।

अत्रायं भाष्योदाहृतश्रुत्यर्थः। वाचः सवेऽपि शब्दा मनसा सह अप्राप्य साकल्येनाविषयीकृत्य यत आनन्दरूपाद् ब्रह्मणो निवर्तन्ते तं ब्रह्मस्वरूपानन्दं विद्वान्न वेत्तीत्यन्वयः। यद् ब्रह्म अशब्दं प्राकृतशब्दरहितं साकल्येन तदप्रतिपाद्यं तद्ग्राहिश्रोत्रागोचरं तद्ग्राहिरसनागोचरं नित्यं नाशरहितम् अगन्धवत् प्राकृतगन्धवन् न भवति तद्ग्राहिघ्राणागोचरं च तदित्यन्वयः। अस्पर्शं प्राकृतस्पर्शरहितं तद्ग्राहिस्पर्श-नेन्द्रियागोचरञ्च। अव्ययं ह्रासरहितम्। अरसं प्राकृतरसरहितम्। यद् ब्रह्म वाचा वागिन्द्रियेण अनभ्युदितम् अभि साकल्येन नोक्तं येन ब्रह्मणा वाक् वागुपलक्षितं सर्वं जगत्। अभ्युद्यते अभि साकल्येन वागिन्द्रियेणोच्चार्यते तदेव ब्रह्म त्वं विद्धीत्यन्वयः। पुरुषो यद् ब्रह्म श्रोत्रेण साकल्येन न शृृणोति येन च ब्रह्मणा इदं श्रोत्रोपलक्षितं जगत्साकल्येन श्रुतं श्रवणादिविषयीकृतं तदेव ब्रह्म त्वं विद्धीत्यन्वय इति॥ त्रयीति॥ स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा इति प्रथमस्कन्धे प्रयोगादिति भावः। त्रयी श्रुतिः श्रुतिगोचरा न श्रवणविषयीभूता न। उपलक्षणमेतत्। सुधोक्तरीत्या शब्दानां गवां ज्ञानानां चरश्चरणं वृत्तिर्यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहिं वा चरश्चरणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वा आश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम्। तेनाप्राप्य मनसा सहास्पर्श-मित्यादिश्रुतौ यदज्ञेयत्वमभिप्रेतं तदपि सङ्गृहीतं भवति। अन्यथा तदंशोदाहरणं न स्यात्। अत एव भाष्ये अवाच्यत्वादिकमित्यादिशब्दः, तदवतारिकाग्रन्थे अवाच्यत्वाज्ञेयत्वाभिधायकेति टीकावचनम्, अतर्क्यमज्ञेयमित्यादिप्रमाणोदाहरणं च सङ्गच्छते। न च ज्ञेयत्वसमर्थनमसङ्गतमिति वाच्यम्। ईक्षणीयत्वहेतोरसिद्धिपरिहारार्थत्वात्। अत एवेक्षणीयत्वासिद्धिपरिहारकत्वेन गौणश्चेन्नात्मशब्दादिति सूत्रं न च गौण आत्मा दृश्य इत्यादिना भाष्येण व्याख्यातमिति बोद्धव्यम्।

ॐ ईक्षतेर्नाशब्दम् ॐ॥ तद् ब्रह्म अशब्दम् अवाच्यं न किं तु वाच्यमेव ईक्षतेः पुरुषमीक्षत इति कर्मत्वव्यपदेशादित्यर्थः। श्रुतिप्राप्तम् आपापत इति शेषः। हिरण्यगर्भोपदेशेनेति॥

‘‘प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च।

ज्ञानं चतुर्मुखात्प्राप्य मुच्यते नात्र संशय’’

इति षट्प्रश्नभाष्योक्तेरिति भावः। पौनरुक्तिपरिहाराय विज्ञायेत्येतद्व्याचष्टे॥ परोक्षत इति॥ ईक्षणीयत्वं ज्ञेयत्वम्। ईक्षणस्य ज्ञानस्य। प्रत्यक्षादिनापीति॥ अतोऽन्यथाप्युपपत्तिरिति भावः। उक्तरीत्या शास्त्रयोनित्वादित्युक्तरीत्या॥ प्रत्यक्षाद्यवेद्यत्वे सतीति॥ आगमाननुसारिप्रत्यक्षाद्यवेद्यत्वे सतीत्यर्थः। तेनागमानुसारिप्रत्यक्षादिवेद्यत्वाद्विशेषणासिद्धिरिति निरस्तम्॥ ईक्षणीयत्वान्यथानुपपत्त्येति॥ प्रमाविषत्वान्यथानुपपत्त्येत्यर्थः। तेन भ्रान्तिविषयत्वेनान्यथासिद्धिरिति निरस्तम्। ‘औपनिषदत्वात्’ इति वाक्यमेवमर्थापत्तिपरत्वेन व्याख्याय परिशेषपरत्वेनापि व्याचष्टे॥ परिशेषप्रमाणेन वेति॥ प्रमाणेनेति॥ भ्रान्तेरज्ञानानिवर्तकत्वेन प्रमाणेन मोक्षजनकेक्षणासम्भवादिति भावः॥ अवाच्ये वृत्त्यन्तरेति॥ अवाच्येऽपि लक्षणाङ्गीकारेऽनवस्था वक्ष्यत इति भावः। अनेनावचनेनैतत्प्रकारान्तरेण योजितम्॥ प्राबल्यमिति॥ तेषु त्रिष्वक्षादिकरणेषु मध्ये यदागमस्य प्राबल्यमुक्तं तज्जात्यैव स्मृतम् उत्सर्गेणैव स्मर्तव्यमित्यर्थः॥ श्रुतिस्मृती चाहेति॥ श्रुतावाङा साक्षाद्वाच्यत्वोक्तेः स्मृतौ कर्मादीनामपि वेद्यत्वादहमेवेत्यवधारणानुपपत्त्या तदुपपत्तयेऽन्येषां मुख्यतया वेद्यत्वेऽपि हरेः परममुख्यवृत्त्या वेद्यत्वस्य वक्तव्यत्वात्तस्य च वाच्यत्वं विनाऽयोगात्तत्सिद्धिरिति भावः। भाष्ये वेदान्तकृद् वेदनिर्णायकब्रह्ममीमांसा-कर्ता। यत्प्रति यत्प्रीत्यर्थम्।

विवृतिः

वाच्यत्वसमर्थनादिति॥ उपलक्षणमेतत्। सकलशास्त्रप्रतिपाद्यत्वसमर्थनादित्यपि द्रष्टव्यम्। आद्यसूत्रे ब्रह्मशब्देन जीवादिव्यावर्तक गुणपूर्तिलक्षणत्वेन सूचयित्वा, द्वितीये तस्य गुणपूर्तिवाचित्वसिद्धये जीवपरता निरासाय कारणता जिज्ञास्यब्रह्मलक्षणत्वेनोक्ता। तृतीये पूर्तिकारणतयोरतिव्याप्तिपरिहाराय शास्त्रं प्रमाणीकृत्य चतुर्थे तयोर्विष्ण्वैकनिष्ठत्वाय शास्त्रस्यान्यपरतां निषिध्य सर्वशास्त्रस्य शब्दप्रवृत्तिनिमित्त-सर्वगुणपूर्तिसिद्धये, वचनवृत्या, सर्वशास्त्रतात्पर्यविषयतायां चोक्तायां संशब्दार्थस्य वाच्यत्वस्य कार्त्स्न्यस्य चेहाक्षिप्य समर्थनादनन्तरसङ्गतिः। एवं वाच्यत्वोपपादकेऽस्मिन्नधिकरणे सकलवेदार्थत्वसमर्थनपरस्य गतिसूत्रस्यान्तर्भावः संशब्दार्थाक्षेपसमाधानरूपत्वज्ञापनार्थमेव कृतः। पृथक्करणे तु वाच्यत्वसमर्थनपरत्वा-भावादधिकरणान्तरत्वप्रतीतिप्रसङ्गात्। ननु रुद्रादिशब्दयुक्तवेदवाक्येषु उपक्रमादिलिङ्गबलाद्विष्णुरेव प्रतिपाद्य इत्युक्तं, न तु विष्णोर्वेदमुख्यार्थत्वं यत्सिध्यर्थं वाच्यत्वसमर्थनं सङ्गतं स्यादित्यत आह॥ उपक्रमादिभिरिति॥ उपलक्षणं चैतत्। संशब्देन विष्णोर्मुख्यार्थत्वस्याप्युक्तत्वादिति बोध्यम्। शब्दावाच्यत्वेऽप्यस्तु शास्त्रमुख्यार्थत्वमित्यत आह॥ न हीति॥ उपदिदेशेति॥ विष्णुमिति शेषः। तथा च न व्याहतिरिति भावः। न तच्छब्दगोचरमिति युक्तमिति॥ उपलक्षणं चैतत्। शब्दानां गवां ज्ञानानां चरश् चरणं, वृत्तिः, यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहिं वा, चरश्चरणमस्या-स्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वाऽऽश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम्। ततश्च यतो वाच इत्यादिश्रुतौ मनसा सहेत्यदृश्यत्वस्याप्युक्तत्वादीक्षणीयमसिद्धमिति पूर्वपक्ष्यभिप्रायः।

सूत्रे वाच्यमित्येव वक्तव्ये नाशब्दमिति वचनं ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति वचनादवधारणार्थमित्यभिप्रेत्योक्तम्। वाच्यमेवेति॥ पूर्वमर्थापत्तिपरतया व्याख्यातम् इदानीं परिशेषप्रमाणपरतया व्याचष्टे॥ परिशेषप्रमाणेन वेति॥ यद्यपि स्वमतेऽर्थापत्तिपरिशेषयोरनुमानता, तथाऽपि तयोर्भेदमुपेत्य वाऽनुमानत्वावान्तरभेदमाश्रित्य वा पक्षान्तरोक्तिः॥ प्रमाणेनेति॥ भ्रान्तेरविद्या-निवर्तकत्वाभावेन प्रमाणाभासेन मोक्षजनकेक्षणासम्भवादिति भावः। अवचनेनेत्येतद्वचनेतरप्रमाणेनेति व्याख्याय प्रकारान्तरेण व्याख्याति॥ वृत्यन्तरायोगेनेति॥ न हि ईक्षतेरिति धातुनिर्देशस् तत्र विवक्षितशब्दमात्रस्य वाच्यत्वे हेतुत्वाभावात् तदर्थ ईक्षणरूपोऽनेन लक्ष्यते। तथाचासम्बद्धस्यान्य-सम्बन्धिनो वेक्षणस्य हेतुत्वासम्भवाद्ब्रह्मसम्बन्धिन एव तस्य हेतुत्वम्। वक्तव्यं सम्बन्धश्च न कर्तृत्वादिरूपः श्रुत्यननुगमाद् वाच्यत्वसाधकत्वाभावाच्च। तथाचेक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यं तदपि नयुक्तं, तथात्वे, ब्रह्म, वाच्यं, तत्कर्मकेक्षणादिति वैय्यधिकरण्यं स्यात्। तस्माद् ईक्षणकर्मत्वमेव हेतुतया विवक्षितमित्यन्यथानुपपत्या, ईक्षणीयत्वं लभ्यत इति न कोऽपि दोष इति भावः॥ श्रुतिस्मृती चाहेति॥ श्रुतावामनन्तीति साक्षाद्वाच्यत्वोक्तेः स्मृतौ चाहमेवेत्यवधारणोपपत्तये मुख्यतया वेद्यत्वस्य विवक्षणीयत्वात्तस्य च वाच्यत्वं विनाऽयोगात्सर्ववेदलक्षणाया अयोग्यत्वाच्च वाच्यत्वसिद्धिरिति भावः। ननु सर्वस्यापि वेदस्य ब्रह्मस्वरूपप्रतिपादकत्वे धर्मादिसिद्धिर्न स्यात्, प्रतिपादकाभावादित्यत आह॥ वेदा इति॥ तथा च वेदस्य धर्मादिप्रतिपादकत्वान्न तदसिद्धिः। न च तथात्वे विष्णुप्रतिपादकत्वायोगः, स्वातन्त्र्येणैव विष्णुज्ञानार्थं तत्प्रतिपादनादिति भावः। यद्वा पदसमन्वयाभिप्रायेण सर्वे वेदा इति वाक्यसमन्वयाभिप्रायेण तपांसीति। तथा च मुखतो धर्मादिप्रतिपादकत्वेऽपि वाक्यतात्पर्यं विष्णावेवेति भावः।