०४ समन्वयाधिकरणम्

ॐ तत्तु समन्वयात् ॐ

४. समन्वयाधिकरणम्

सूत्रभाष्यम्

अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम्, कुतः ?

॥ ॐ तत्तु समन्वयात् ॐ॥

अन्वय उपपत्त्यादि लिङ्गम्। उक्तं च बृहत्संहितायाम्।

‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।

अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णय’ इति॥

उपक्रमादितात्पर्यलिङ्गैः सम्यङ्निरूप्यमाणे तदेव शास्त्रगम्यम्।

‘मां विधत्तेऽभिधत्ते मां विकल्प्योऽपोह्य इत्यहम्।

इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’

इति हि भागवते (११-२१-४३)॥

सत्तर्कदीपावली

जगत्कारणतया शास्त्रप्रमाणकत्वं विष्णोरेव कुतः प्रधानस्यान्यस्य वा तत्किं न स्यादिति। तत्तद्वादिभिस्तथा तथोच्यमानत्वादित्येतदाशङ्क्य परिहारत्वेन सूत्रमवतारयति॥ तत्त्विति॥ तत्रान्वय-शब्देनोपपत्त्यादिकमुच्यते। ब्रह्मणि शास्त्रान्वयसाधकत्वात्। उपपत्यादिषड्विधतात्पर्यलिङ्गमागमवाक्येन दर्शयति। उपक्रमेति। यज्जिज्ञास्यत्वेन प्रतिज्ञातं विष्णुशब्दवाच्यं ब्रह्म तदेव जगत्कारणतया शास्त्रप्रतिपाद्यम्। उपक्रमादिवशात्। तद्विरोधादेव न प्रधानादि तथाभूतमित्यर्थः। एतदेव भगवद्वाक्येन समर्थयते॥ मामिति॥ मदुद्देशेन कर्माणि विधत्ते इन्द्रादिनामापि मामभिधत्ते न देवानित्यर्थः।

तत्त्वप्रदीपिका

जगत्कारणस्य विष्णोश्शास्त्रैकगम्यत्वं साधितम्। तस्यैव च शास्त्रगम्यत्वमित्याह। अज्ञाना-मित्यादिना। साङ्ख्यपाशुपतसौरशाक्तेयादीनां प्रतीयमानमपीतरेषां प्रधानरुद्रादीनां न शास्त्रगम्यत्वम्। कुतः ? तत्तु समन्वयात्। उपपत्त्यादि लिङ्गमिति वचनादुत्तरोत्तरप्राबल्यं सूचितम्। उपक्रमादीनां सर्वेषामुपपत्तित्त्वेऽपि ब्राह्मणपरिव्राजकन्यायेन भेदोक्तिः। यद्यपि वेदैकदेशस्य देवतान्तराद्यन्वयः, स ब्रह्मणः सर्वोत्तमत्वप्रतिपादनार्थ इति तदेव सम्यगन्वयान्महातात्पर्यमवगम्यते।

उपक्रमोपसंहारयोर्विशेषसामान्योक्तितया यत्राविरोधस्तत्र क्वचिदुपक्रमो बलवान्। प्रथमप्राप्तत्वात्। तदनुरोध्युपसंहारः। यथा ‘‘आत्मा वा इद’’मित्युपक्रमसिद्ध आत्मा ‘तन्मामवत्वि’ति सामान्योप-संहारेऽप्यनुगच्छति। यत्र विरोधस्तत्रोपसंहारानुरोधेनोपक्रमो व्याख्येयः। व्याख्यानरूपत्वादुपसंहारस्य। असकृदुक्तिः ‘अभ्यासः’। ‘अपूर्वत्वं’ प्रमाणान्तरागम्यत्वम्। अभ्यासः प्रमाणान्तरासिद्धविषयस्त्व-पूर्वताबलेन नीयते। ज्ञानादिफलवत्त्वात्तस्याः। यथा– ‘तदस्य प्रथमं जन्म’, ‘तदस्य द्वितीयं जन्म’, ‘तदस्य तृतीयं जन्मे’त्यभ्यासो जीवगः प्रतीतोऽन्तर्यामिविषयो भवति। अफलादपूर्वात्सुपूर्वेऽपि फलवति तात्पर्यं स्यात्, किमुतापूर्वे। यथा–

‘‘स्नेहपूर्वेण मनसा यन्नः स्मरसि केशव।

अपत्यमिव कूर्माणां तेन जीवामहे वय’’मित्यादौ॥

यदर्थमन्यस्यार्थजातस्य सृष्ट्यादेर्वादः, तस्मिन्नर्थवादवत्यश्रुतफले श्रुतफलादपि तात्पर्यं स्यात्। यथा– ‘‘श्रयन्तेऽस्मिञ्छ्रियो य एवमेतच्छिरसः शिरस्त्वं वेदे’’त्यादौ श्रुतफलादपि शिरस्त्ववेदनादश्रुतफले प्राण-संवादाद्यर्थवादवति प्राणोत्कर्षवेदने तात्पर्यं पर्यवसीयते। अर्थवादोऽप्युपपत्तिबलेन नीयते। यथाऽत्र प्राणगः प्रतीतः सर्वोत्तमत्वार्थवादस्तदसम्भाव्यधर्मैरन्तर्यामिविषयो भवति। यथा चेन्द्राग्न्यादिगः प्रतीतः सर्वोत्तमत्वार्थवादस्तस्मिन्नेव प्रकरणेऽन्यत्र वा तेषां हीनत्ववचनाद्युपपत्त्या विष्णुपरोऽवसीयते। तस्मादर्थ-वादादुपपत्तिर्बलीयसी॥

‘मां विधत्तेऽभिधत्ते मा’मिति भागवतवचनार्थं दशर्यति। ‘आत्मानमेव लोकमुपासीत’, ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’, ‘ब्राह्मणो न हन्तव्य’ इत्यादि मामुद्दिश्यैव विधत्ते श्रुतिः।

‘‘न ते विष्णो जायमानो न जातः’’ ‘‘अग्न इन्द्र वरुण मित्र देवा’’ इत्यादि मामभिधत्ते।

‘‘द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च,’’ ‘‘द्वे वाव ब्रह्मणो रूपे आत्मा चैवानात्मा चे’’ति विविधं कल्पयित्वा, ‘‘नेति नेति तत्र यस्स आत्मा स नित्यः शुद्धः केवलो निर्गुणश्च। अथ ह योऽनीदृशः सोऽनात्मे’’त्यादिना दोषादपोह्यः, निर्दोषत्वेन विधेयोऽप्यहमेवेत्यस्याभिप्रायमहमेव वेदेति॥

तत्त्वप्रकाशिका

अत्र ब्रह्मणो जगत्कारणत्वेन शास्त्रप्रतिपाद्यत्वसमर्थनादस्ति शास्त्रसङ्गतिः। कारणस्य शास्त्रैकयोनित्वाद्यस्य शास्त्रं कारणतामाचष्टे तदेव कारणमिति वर्णितम्। तद्यदा विष्णोरेव तदैवोक्तलक्षणं सम्भवतीति। तत्कारणत्वेन शास्त्रयोनित्वं विषयः। विष्णोरन्यस्यापि वेति सन्देहः। पूर्वोक्तिरुभयथापि शास्त्रप्रतीतिः सन्देहबीजम्। रुद्रादीनामपि कारणत्वेन शास्त्रयोनित्वमिति पूर्वः पक्षः। पाशुपतादिशास्त्रेषु रुद्रादिर्जगत्कारणत्वेन वेदादिवेद्य इति निगदितत्वात्। न च तस्याप्रामाण्येनासाधकत्वम्। वेदेऽपि तेषां कारणतया प्रतीयमानत्वात्प्रतीतिसध्रीचीनस्य च प्रामाण्योपपत्तेः। तथा च पाशुपताद्युक्तिप्रतीतिभ्या-मन्येषामपि कारणत्वेन शास्त्रयोनित्वे जगत्कारणत्वं न विष्णोरेव लक्षणमिति प्राप्ते सिद्धान्तयति॥ अज्ञानामिति॥ पाशुपतादावुक्तत्वेऽपि नेतरेषां शास्त्रयोनित्वम्। पाशुपताद्युक्तस्योक्तरीत्याऽयथार्थत्व-सम्भवात्। प्रतीतेरज्ञानमूलत्वसम्भवात्। प्रतीतमपि नेतरेषां शास्त्रयोनित्वमिति भावः। ननु प्रतीत्यादेरज्ञानमूलत्वादि परिकल्प्याऽप्यन्येषां कारणतया शास्त्रयोनित्वाग्रहणे को हेतुरिति पृच्छति॥ कुत इति॥ प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वमिति सम्बन्धः। तत्र हेतुकथनाय सूत्रमुपन्यस्यति॥ तत्त्विति॥ सूत्राक्षराणि व्याचष्टे॥ अन्वय इति॥

कानि तान्युपपत्त्यादीनि कुत्र च लिङ्गानीत्यत आह॥ उक्तं चेति॥ एकप्रकाराऽसकृदुक्तिरभ्यासः। प्रमाणान्तरासिद्धता अपूर्वता। फलवत्वं फलम्। स्तुतिर्निन्दा परकृतिः पुराकल्पोऽर्थवादः। युक्तिरुपपत्तिः। उपक्रमादीनामुपपत्तित्वेऽपि ब्राह्मणपरिव्राजकन्यायेन पृथगुक्तिः। उपक्रमादीना-मुपपत्त्यादित्वेन भाष्यं तेषामुत्तरोत्तरप्राबल्याभिप्रायम्। ‘उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम्’ इत्युक्तेः। उपसंहारस्य व्याख्यानरूपत्वेन तद्विरोध्युपक्रमाप्रामाण्योपपत्तेस्तस्य ततोऽपि प्राबल्यम्। एकत्रोक्तादपि बहुलोक्तेः प्राबल्यादभ्यासस्योपक्रमोपसंहाराभ्यां प्राबल्यम्। एकत्र बहुवारोक्तादपि मुख्यस्य प्राबल्याद-पूर्वताया उपक्रमोपसंहाराभ्यासेभ्यः प्राबल्यम्। फलस्योद्देश्यत्वादुपक्रमादिभ्यः प्राबल्यम्। करणाकरण-योरिष्टानिष्टकथनादिरूपार्थवादस्य फलमात्राधिक्यादुपक्रमादिभ्यः प्राबल्यम्। उपपत्तेः सर्वमूलत्वेन सर्वतः प्राबल्यमिति। एतत्सर्वं वाक्यतात्पर्यार्थनिर्णये लिङ्गं भवति।

विरोधे तु दुर्बलबाधकतया प्रबलं निर्णायकम्। साम्ये निवरकाशेन सावकाशं बाध्यते। स्वभावदुर्बले-नापि निरवकाशेन स्वभावतः प्रबलस्यापि सावकाशस्य बाधो भवत्येवमेकेनानेकेषां च बाधः।

ननु सावकाशत्वनिरवकाशत्वाभ्यामेव निर्णयो न स्वभावप्राबल्यदौर्बल्यं नामास्ति। दुर्बलप्रबलयोः सावकाशत्वादिनियमात्। अन्यथा वाक्याप्रामाण्यापत्तेरिति। मैवम्। स्वभावप्रबलेन दुर्बलबाधने तत्प्रामाण्यायार्थान्तरकल्पनम्। सावकाशत्वं पुनः स्वयमर्थान्तरवाचित्वमिति भेदात्। अत्र श्रुत्यादिषट्कं च ग्राह्यम्। सूत्रं योजयति॥ उपक्रमादीति॥ पाशुपतादिशास्त्रोक्तं प्रतीतमपि नान्येषां शास्त्रयोनित्वम्। पाशुपताद्युक्त्यादेः शास्त्रनिर्णायकत्वाभावादुपक्रमादीनामेव निर्णायकत्वात्। तैश्च सम्यक् शास्त्रे विचार्यमाणे ब्रह्मैव शास्त्रगम्यं प्रतीयते न रुद्रादि। अतोऽन्यथाप्रतीत्यादेरज्ञानमूलत्वाद्येव युक्तमिति भावः। ननु कर्म-विधानादिरूपत्वाच्छास्त्रस्य कथं ब्रह्मपरतेत्याशङ्कां भगवद्वाक्येन परिहरति॥ मामिति॥ कर्मविधात्री श्रुतिरपि मां प्रत्येव तद्विधत्ते। इन्द्राद्यभिधात्री च मामभिधत्ते। चत्वारि वागित्यादिश्रुत्याऽहं विविधरूपत्वेन कल्प्यः। न सुरां पिबेदित्यादिश्रुत्याऽहमेवाप्रियादपोह्यः। एवम्भूताया अस्याः श्रुतेरित्यभिप्रायमहमेव वेद न मत्तोऽन्य इत्यर्थः। तस्मादुपक्रमादिवशाद्विष्णुरेव सर्वशास्त्रैर्जन्मादिकारणत्वोक्त्युपलक्षितानन्तगुणतयोच्यत इति तस्यैवैतल्लक्षणमिति सिद्धम्॥ अ-४॥

गुर्वर्थदीपिका

स्तुतिर्निन्दा परकृतिः पुराकल्पोऽर्थवाद इत्यत्र स्तुतिः ‘‘वायव्यं श्वेतमालभेत भूतिकाम’’ इति स्वविहितवायव्ययागे रुच्युत्पादनाय ‘‘वायुर्वै क्षेपिष्ठा देवता’’ इत्यादिना वायोर्यत्स्तवनं सा स्तुतिः। ‘‘अस्ति ब्रह्मेति चेद्वेदे’’ति स्वोक्तब्रह्मास्तित्वे रुच्युत्पादनाय तद्विपरीतासत्त्वाश्रयणे ‘‘असन्नेव स भवति। असद् ब्रह्मेति वेद चे’’दिति याऽनर्थोक्तिः सा निन्दा। परकृतिः ‘‘अथात एैन्दो महाभिषेक’’ इति स्वविहितमहाभिषेके रुच्युत्पादनाय ‘‘एतेन हत्वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारीक्षितमभिषिषेचे’’त्यादिना या परेषां कृतिरुच्यते सा परकृतिः। पुराकल्पः ‘‘वायुर्ह्येव प्रजापति’’रिति स्वोक्ते वायुप्रजापत्योरैक्ये तदप्येतदृषिणोक्तं ‘‘पवमानः प्रजापति’’रिति स्वपूर्वाचार्यषेर्या ज्ञानरूपकल्पना सा पुराकल्प इति विवेकः।

स्वभावप्रबलेन दुर्बलबाधने तत्प्रामाण्यायार्थान्तरकल्पनमित्यस्य स्वभावप्रबलेन भेदग्राहिणा साक्षिणा विरोधे सति ‘‘अहं ब्रह्मास्मी’’त्यपौरुषेयवाक्यस्य सर्वथाऽप्रामाण्यायोगाद्यदहम्पदस्यान्तर्याम्यर्थत्वकथनं तत्सावकाशत्वनिरवकाशत्वे विहाय स्वभावप्रबलेनैव दुर्बलबाधनं नेत्यर्थः। सावकाशत्वं पुनः स्वयमर्थान्तरवाचित्वमित्यस्योपक्रमतया स्वभावतो दुर्बलेन निरवकाशतया प्रबलेन च ‘‘सता सौम्य तदा सम्पन्नो भवती’’ति वाक्येन ‘‘यत् स आत्मा तत्त्वमसी’’त्युपसंहारवाक्यस्य तत्त्वमस्यतत्त्व-मसीत्यर्थद्वयेऽपि सावकाशस्य च यदतत्त्वमसीत्यर्थकथनं तन्निरवकाशेन सावकाशबाधनं नामेत्यर्थः। न विद्यते प्रियं फलं यस्मात्तदप्रियमपरितोषणं तस्मादपोह्य इति भावेनोक्तम्। अप्रियादपोह्य इति।

भावबोधः

तद्यदा विष्णोरेव तदैवोक्तलक्षणं सम्भवतीति। तथा च पूर्वाधिकरणे कारणत्वेन शास्त्रयोनित्व-मुक्तम्। तच्चेदन्यस्यापि स्यात्तदोक्तातिव्याप्तितादवस्थ्यमिति पूर्वपक्षोत्थानादनन्तरसङ्गतिरिति भावः। किमिति। अत्र कारणत्वेन शास्त्रयोनित्वं किमन्यस्याप्युत विष्णोरेवेति चिन्ता। तदर्थं वेदतात्पर्यनिश्चयः, किं शैवागमादिना, किं वोपक्रमादिनेति। तदर्थमुपक्रमादिकं किं वेदतात्पर्यव्यभिचार्युताव्यभिचारीति। तदर्थमुपक्रमादेर्बलाबलव्यवस्थापनं न सम्भवत्युत सम्भवतीति। बलाबलोपेतोपक्रमादीनां वेदतात्पर्य-निश्चायकत्वपक्षेऽप्यवधारणार्थकसौत्रः ‘तु’शब्दः किं नोपपद्यत उतोपपद्यत इति। तदर्थं तस्य ब्रह्मपरत्वे प्रमाणं नास्त्युतास्तीति।

शैवपाशुपताद्यैश्च ह्यागमैस्तु पितामह।

शिवादेः कारणत्वञ्च वेदेऽपि प्रोच्यते क्वचित्॥

तस्माद्धरेः सर्वशास्त्रगम्यत्वं तत्कथं भवेत्।

एतदाचक्ष्व मे ब्रह्मन् विस्तरात् पृच्छतो मम॥

इति प्रमाणमूलकं न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणमिति न्यायविवरणं मनसि निधाय पूर्वपक्षमुपपादयति। पाशुपतादिशास्त्रेष्विति। न्यायविवरणगतादिपदव्याख्यानम्। वेदेऽपीति॥

कामक्रोधाभिभूतानामज्ञानामकृतात्मनाम्।

प्रतीतमपि रुद्रादेः शास्त्रकारणता कुतः॥

उपक्रमादेरज्ञानाद्रुद्रादेः शास्त्रयोनिता।

प्रतीयते द्विजश्रेष्ठ वस्तुगत्या न विद्यते॥

इति प्रमाणमूलकमज्ञानां प्रतीयमानमपीति भाष्यमवतारयति– सिद्धान्तयतीति। ‘शैवपाशुपतादीनां मोहकानां न मानता’ इति प्रमाणं मनसि निधायाह– पाशुपताद्युक्तस्येति। उक्तरीत्या। साङ्ख्ययोग इत्युक्तरीत्येत्यर्थः। प्रमाणान्तरासिद्धेति। प्रमाणलक्षणटीकारीत्याऽत्रापि प्राचुर्येणेति ग्राह्यम्। अन्यथा प्रमाणसम्प्लववादिनामस्माकमसम्भवः स्यात्। तदुक्तरीत्या ऐकरूप्यमप्यत्र सङ्ग्राह्यम्। अथवोपक्रमोप-संहारावित्यत्रोपक्रमश्चोपसंहारश्चोपक्रमोपसंहारौ मिलिताविति व्याख्यानविवेकेनैव तदपि लब्धमिति बोद्धव्यम्। कर्तृनामनिर्देशपूर्वकमितिहासः परकृतिः। सामान्यतः कथाकथनं पुराकल्पः। ब्राह्मण-परिव्राजकन्यायेनेति। उपक्रमादीनां तात्पर्यार्थनिर्णय उपपत्तित्वेऽपि स्वार्थ आगमत्वमेव। नैवमुपपत्तेरिति विशेषादिति भावः। मुख्यस्येति। प्राचुर्येण प्राप्तस्येत्यर्थः। फलमात्रादिति। असाधने प्रत्ययवचना-द्विरहितादित्यर्थः। साम्य इति। एकस्य बहुत्वेन प्राबल्यमेकस्य ज्ञात्वा प्राबल्यमिति वोपपत्त्यादीनां श्रुत्यादिभिः सह यथासम्भवं साम्यमिति वा द्रष्टव्यम्। एकेनेति। निरवकाशेनेत्यनुवर्तते। अन्यथेति। द्वयोरपि निरवकाशत्व इत्यर्थः। अर्थान्तरकल्पनमिति। व्याख्यात्रा कर्तव्यमित्यर्थः। स्वयमर्थान्तर-वाचित्वमिति। व्याख्यातृव्यापारमनपेक्ष्येत्यर्थः। उपक्रमादीनामेवेति। अनेन ‘किन्तूपक्रमादिलक्षणः समन्वय एव’ इति न्यायविवरणं व्याख्यातं भवति। तद्गत‘एव’कारस्तु पाशुपतादिशास्त्रोक्तमित्यादिना प्रागेव व्याख्यात इति बोध्यम्॥

उपक्रमादिभिर्लिङ्गैः सम्यग्वेदे विचारिते।

विष्णुरेव हि तद्गम्यो न रुद्राद्याश्च जातुचित्॥

इति प्रमाणमूलकम् ‘उपक्रमादिभिः’ इति भाष्यं व्याचष्टे– तैश्चेति। ब्रह्मैवेति। अनेनान्वयादित्येक-वचनं समुदायार्थम्। सम्यगित्यर्थस्य ‘सं’शब्दस्य ‘शास्त्रे विचार्यमाणः’ इत्यध्याहृतेन सम्बन्धः। तच्छब्दः प्रथमसूत्रोक्तब्रह्मपरामर्शकः। तुशब्दो ऽवधारणार्थकः। शास्त्रयोनीति पूर्वसूत्रादनुवृत्तिरिति योजना दर्शिता भवति॥

कर्मकाण्डपरो वेदस्तत्परो विबुधर्षभ।

श्रुतिः कर्मपरेन्द्रादिवाचिनी हरिमेव च॥

विधत्ते ह्यभिधत्ते च विविधः कल्प्य एव च।

अप्रियत्वाद्धरेर्यस्मान्न सुरां तु पिबेदिति॥

श्रुत्यापोह्य इति ह्यस्या हृदयं हरिरेकराट्॥

इति प्रमाणानुसारेण भगवद्वाक्यं व्याचष्टे– कर्मविधात्रीति। योग्यतया कर्मणां कर्मत्वेन सम्बन्धः। मां प्रत्येवेति। मत्प्रीत्यर्थमेवेत्यर्थः। अप्रियादपोह्य इति। सुरापानादिकं मदप्रीतिसाधनत्वान्निषिध्यत इत्यर्थः। इत्यस्या इत्यत्रत्येतिशब्दं व्याचष्टे– एवम्भूताया इति। कर्मविधात्र्यादिरूपाया इत्यर्थः। इत्यभिप्रायमिति। अनेन ‘अस्याः’ ‘हृदयम्’ इत्यनयोर्मध्ये ‘मां विधत्तेऽभिधत्ते मां विकल्पोऽपोह्यः’ इत्येतद्योजनीयमित्युक्तं भवति। उपलक्षितानन्तेति। अस्मिन्नधिकरणे शास्त्रपदवाच्यानन्तवेदादिसदागमानां जन्मादिकारणत्वादिलक्षणतदितरानन्दादिगुणप्रतिपादकानां समन्वयस्योक्तत्वदिति भावः॥ इति समन्वयाधिकरणम्॥ ४॥

भावदीपः

॥ ॐ तत्तु समन्वयात् ॐ॥ ब्रह्मण इत्युक्त्या ब्रह्मपरे शास्त्रेऽन्तर्भावसङ्गतिरुपपादिता। कारणस्येत्यादिग्रन्थस्तु पूर्वत्रेव द्वेधा व्याख्येयः। एवमग्रेऽपि। तथा च पूर्वाधिकरणफलाक्षेपेण पूर्वपक्षोत्थानात्पूर्वेणाक्षेपिकी सङ्गतिरिति भावः॥ अन्यस्यापि वेतीति॥ इतरेषामिति भाष्योक्तावप्येकदा न बहुभिर्विवादः। किं तु प्रत्येकं प्रत्येकं विष्णोरेव शिवस्यापि वेति तथा विष्णोरेव वा हिरण्यगर्भस्यापि वेति एवंरूपेण पूर्वपक्षादिरप्येवमेव ज्ञेय इति सूचयितुम् अन्यस्यापीत्येकवचनोक्तिः। पूर्वत्राप्येयं ध्येयम्। विष्णोरित्यत्र विष्णोरेवेति बोध्यम्॥ पूर्वोक्तिरिति॥ कारणस्य शास्त्रयोनित्वाद्विष्णुरेव कारणमिति पूर्वोक्तिरित्यर्थः॥ उभयथापीति॥ विश्वाधिको रुद्रः। ‘हिरण्यगर्भः समवर्तताग्रे’ ‘नारायणो वा इदमग्र आसीदि’त्यादिनेत्यर्थः। सौत्रसमन्वयशब्देन करणव्युत्पत्त्यान्वयज्ञापकोप-क्रमादिवाचिना पाशुपतादिरूपव्याख्यानोक्तत्वं वेदादावापातप्रतीतत्वं चेति द्वयं व्यावर्त्यम्। न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणमिति न्यायविवरणोक्तम्। तत्रादिपदेन हैरण्यगर्भसौर-शाक्तेयोदितत्वादेरिवापातप्रतीतिरपि गृहीता। तथा च तदनुरोधादज्ञानामिति भाष्योक्तमापातप्रतीतत्वं पाशुपतोदितत्वादेरुपलक्षणम् अपिना समुच्चायकं वेत्यभिप्रेत्योभयमूलं पूर्वपक्षं व्यनक्ति॥ रुद्रादीनामपीति॥ पूर्वेण गतार्थत्वं शङ्कते॥ न चेति॥ कुवर्त्म तदित्याद्युक्तदिशेति भावः। सध्रीचीनस्य सहितस्य। अत एव पाशुपताद्युदितत्वहेतोर्दार्ढ्यापादकत्वाद्भाष्ये आपातप्रतीतेः स्वशब्दे-नोक्तिरिति भावः। सिद्धान्तसुधायां प्रत्येकमेव हेतुद्वयपरतयोक्तम्॥ पाशुपतादीति॥ पाशुपतादावुक्तिप्रतीतिभ्यामित्यर्थः। तथा चेत्यनन्तरं पञ्चरात्राद्युक्तिप्रतीतिभ्यां विष्णोरिवेति योज्यम्। तदुक्तं न्यायविवरणटीकायाम्। यथाहि वेदैश्च सर्वैरहमेव वेद्य इत्यादिशास्त्रबलाद्वेदादिकं विष्णोः प्रतिपादकमिष्यत इति। अन्येषामपीत्यनेन भाष्ये इतरेषामपीति योज्यमिति सूचितम्॥ कारणत्वेनेति॥ कालादिभेदेनाविरुद्धेनेति भावः॥ न विष्णोरेवेति॥ एतेन न्यायविवरणे तथा च रुद्रादौ सममेतल्लक्षणमिति पूर्वन्यायविवरणवाक्यमनुवर्त्य योज्यमिति सूचितम्। एतच्च सौत्रावधारणार्थं तुशब्दव्यावर्त्यम्। प्रतीयमानमिति भाष्यमन्यत्रोक्तस्याप्युपलक्षणं मत्वाह॥ पाशुपतादाविति॥ उक्तरीत्येति॥ कुवर्त्म तदित्याद्युक्तरीत्येत्यर्थः। अज्ञानामित्युक्तिलब्धहेतुमाह॥ प्रतीतेरिति॥ अनेन भाष्यं द्वेधा योजितम्। आक्षेपार्थस्य प्रकृतेऽनन्वयादाह॥ पृच्छतीति॥ प्रतीयमानमपीति॥ प्रागुपलक्षितं पाशुपताद्युक्तमपीत्येतदप्यत्र योज्यम्॥ व्याचष्ट इति॥ अन्वीयन्ते शक्तितात्पर्यगोचरेण सम्बध्यन्ते तथा ज्ञायन्त इति यावत्, वाक्यान्येतेनेति व्युत्पत्त्येति भावः।

भाष्ये लिङ्गमिति समुदायाभिप्रायं सूत्रस्मृत्यनुसार्येकवचनम्। अन्यथा लिङ्गैरित्यग्रेतनोक्तिविरोध इति मत्वोक्तम्॥ कानि तानीति॥ वाक्यस्यादिरुपक्रमः। तदन्त उपसंहार इति स्फुटत्वादन्यस्वरूप-माह॥ एकेति॥ प्रमाणान्तरासिद्धताऽपूर्वतेत्येवात्र पाठः। प्राचुर्येणेति तु न्यायकल्पलतापाठः। गुणाभिधानं स्तुतिः। दोषोक्तिर् निन्दा। एककर्तृकोपाख्यानं परकृतिः। बहुकर्तृकोपाख्यानं पुराकल्पः।

उदाहरणमेतेषां चन्द्रिकायां प्रकाशते।

विस्तरो भीषयत्यस्मांस्तस्मान्नात्र यतामहे॥

तत्वप्रदीपे विवृतत्वाट्टीकायामुदाहरणानुक्तिः। उपक्रमोपसंहारतदैकरूप्येति प्रमाणलक्षणोक्तैक-रूप्यस्येहानुक्तिबीजं चन्द्रिकायां व्यक्तम्॥ उपपत्तित्वेऽपीति॥ तात्पर्यनिर्णयरूपसाध्ये इति भावः। कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वच इति भक्तिपादीयानुभाष्योक्तेरिति भावः। ननु स्मृतावुपपत्तेरित्युक्तावपि भाष्ये उपपत्त्यादिलिङ्गमित्युपक्रमादिषूपपत्तेः प्राथम्यं कुत इत्यत आह॥ उपक्रमेति॥ उक्तेरिति॥ ज्ञानपादीयानुभाष्योक्तेरित्यर्थः। बीजं वदन् प्राबल्यं व्यनक्ति॥ उपसंहारस्येत्यादिना॥ आपत्तेरित्यनन्तरं तत्प्रामाण्यार्थमुपसंहारानुसारित्वस्योपेयत्वादिति योज्यम्। तृतीयाद्यपदे प्रथमेऽश्रवणादिति चेदित्यत्रोपक्रम-प्रामाण्यार्थमुपसंहारानुसारित्वमङ्गीकर्तव्यम्। व्याख्यानस्य पश्चात्तनत्वनियमादिति न्यायविवरणोक्तेरिति भावः। विस्तृतमेतत्तर्कताण्डवे॥ गुरुपादकृतोपसंहारविजये च। उपसंहारयोरित्यनन्तरं सकाशादिति शेषः। बहुबाधस्यान्याय्यत्वादिति भावः॥ मुख्यस्येति॥ अप्राप्तस्येत्यर्थः। सर्वमेतच्चन्द्रिकायां सम्यग्विवृतम्। ननूपक्रमादीनां वाक्यैकदेशत्वात् कथं लिङ्गमित्युक्तिर्भाष्य इत्यतो लिङ्गं तात्पर्यनिर्णय इति चतुर्थपादं व्याचष्टे॥ एतत्सर्वमिति॥ एतेन कुत्र च लिङ्गादीति टीकायां कृता शङ्का दत्तोत्तरा। स्वार्थे शब्दात्मकमपि इदमेतत्परमबाधे सत्येतदुपक्रमत्वादित्यादिरूपेण महावाक्यतात्पर्यार्थनिर्णये लिङ्गमित्यर्थः। वाक्यानां तात्पर्यं नाम न वृत्त्यन्तरम्। कर्मनिर्णये निरस्तत्वात्। किन्तु तत्प्रमितिशेषत्वं तथैव तर्कताण्डवे प्रथमपरिच्छेदेऽभिधानात्। उत्तरोत्तरप्राबल्योक्तेरुपयोगमाह॥ विरोधे त्विति॥ साम्य इति॥ उपक्रमादिद्विकस्य यथाकथञ्चित्साम्ये प्रतीते सतीति वा उपक्रमादेः श्रुत्यादिभिः साम्ये प्रतीते सतीति वार्थः। विस्तरस्तु चन्द्रिकाप्रकाशे ध्येयः॥ स्वभावेति॥ उपजीवकत्वादिना स्वभावदुर्बलेनापि उपजीव्यत्वादिना स्वभावप्रबलस्यापि इत्यर्थः। एवमिति। एकेन निरवकाशेन सावकाशानामनेकेषां बाध इत्यर्थः॥ प्राबल्यदौर्बल्यमिति॥ विप्रतिषिद्धं चानधिकरणवाचीत्येकवद्भावः। शीतोष्णमितिवत्॥ सावकाशत्वादीति॥ दुर्बलस्य प्रबलेन बाधो नामार्थान्तरपरत्वरूपसावकाशत्व-कल्पनम्। प्रबलस्य यथाश्रुतार्थत्वरूपनिरवकाशत्वमित्येव वाच्यम्। अन्यथा अर्थान्तरताऽकल्पने पाशुपतादेर्वेदेनेवाप्रमाण्यं स्यात्। सावकाशत्वाप्रामाण्याभ्यामन्यस्य बाधस्याभावादित्यर्थः॥ वाक्येति॥ उपक्रमादिरूपावान्तरवाक्येत्यर्थः॥ अर्थान्तरेति॥ बलाल्लक्षणादिनार्थान्तरकल्पनमित्यर्थः॥ स्वयमर्थान्तरेति॥ स्वरसतोऽर्थान्तरवाचित्वमित्यर्थः। एवं स्वभावदुर्बलस्योक्तरूपसावकाशत्वनियमा-भाववत्स्वभावप्रबलस्य निरवकाशत्वनियमाभावोऽप्यूह्य इति भावः। नन्वग्रे तल्लिङ्गादित्यादौ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिरपि निर्णयो दृश्यत इति कथं भाष्ये सप्तानामेवोक्तिरित्यत आह॥ अत्रेति॥ तात्पर्यार्थनिर्णय इत्यर्थः। उपपत्त्यादिलिङ्गमिति भाष्य इति वार्थः। श्रुत्यादीनां लक्षण-बलाबलबीजादिकं तुशब्दादेवेत्यत्र वक्ष्याम इति भावः। ननु प्रतीत्यादेरज्ञानमूलत्वादि परिकल्प्यान्येषां कारणतया शास्त्रयोनित्वाग्रहणे को हेतुरिति कृतप्रश्नस्य कथमनेनोत्तरं लब्धमित्यतः सौत्रसमन्वया-दित्येतत्तात्पर्योक्तिपरस्योपक्रमादिलक्षणः समन्वय एव शास्त्रप्रतिप्राद्यत्वे कारणमिति न्यायविवरणस्यार्थ-माह॥ पाशुपतेति॥ प्रतीतमपि आपातप्रतीतमपि इत्यर्थः॥ पाशुपताद्युक्त्यादेरिति॥ पाशुपतादावुक्ते-रापातप्रतीतेश्चेत्यर्थः। एवं सौत्रसमन्वयशब्दार्थोक्तिपरन्यायविवरणार्थमुक्त्वा ततश्च किमित्यतस् तदन्वितत्वेन भाष्यार्थमाह॥ तैश्चेति॥ शास्त्र इति भाष्ये शेष इति भावः॥ ब्रह्मैवेति॥ एतेन सूत्रे तुरवधारणे तदिति च ब्रह्म परामृश्यते। शास्त्रयोनीति पूर्वस्मात्प्रथमान्तं सदनुवर्तत इति दर्शितम्। शास्त्रस्य ऋग्यजुःसामेत्युक्तऋगादिरूपशास्त्रस्य विविधरूपत्वेन कल्पनं विकल्पः॥ चत्वारि वागित्यादि॥ तत्र वागित्यनुवादः।

विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः।

विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम्॥

उच्यते सर्ववेदेषु तच्च वेद स एव हि।

सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम्॥

सुरापानमिति प्रोक्तं तन्न कुर्यात्कथञ्चन।

ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीत्यभिचिन्तनम्॥

ब्रह्महत्या समुद्दिष्टा तां न कुर्यात्कथञ्चन।

इत्याद्यपोहवाक्यार्थश्चिन्त्यो विष्णौ बुधैर्जनैः॥

इत्येकादशस्कन्धतात्पर्यदिशाऽर्थमाह॥ कर्मेति॥ अस्या इत्यग्रे श्रवणादाह॥ श्रुतिरिति॥ मां प्रत्येवेति॥ तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तत इत्युक्तेर्निश्शेषदुःखप्रहाणरूपमोक्षस्य प्रीत्या मोक्षफलत्वाच्चेत्यनुव्याख्यानोक्तदिशा विष्णुप्रीतिं विनाऽयोगाज्जीवानां तादृङ्मोक्षहेतुविष्णुप्रीत्युद्देशेन विधत्ते। अवान्तरतात्पर्येण कर्म विदधदपि कर्मकाण्डं महातात्पर्येण मय्येव पर्यवस्यतीति भावः। वक्ष्यति च वाक्यान्वयादित्यत्र॥ अभिधत्त इति॥ रूढियोगादिवृत्तिभिरिन्द्राद्यभिधात्री श्रुतिर्महायोग-विद्वद्रूढिभ्यां मामेवाभिधत्त इत्यर्थः। तदपि वाक्यान्वयमुपेत्यैव अप्रियादप्रीतेरपोह्यो ऽप्रीतिमान्न कार्यः। अप्रीतिहेतुत्वात्सुरापानं न कार्यमिति वक्तीत्यर्थः। इत्यस्या इत्येतद्व्याख्यानम् एवम्भूताया इति। कर्मादिविधात्र्यादिरूपाया इत्यर्थः। इत्यहमित्यत्रत्येतिशब्दस्य हृदयमित्यनेनान्वयमाह॥ इत्यभिप्रायमिति॥ ननु जिज्ञास्यब्रह्मणो जन्मादिसूत्रोक्तजगज्जन्मादिकारणत्वरूपलक्षणस्यातिव्याप्ति-निरासायोपक्रमादिन्यायैः कारणवाक्यराशिप्रतिपाद्यत्वमात्रं प्रतिज्ञातव्यं न तु कर्मकाण्डादिसर्वशास्त्रप्रतिपाद्यत्वं शास्त्रयोनिसूत्रे तावदेव हेतूकर्तव्यमित्याशङ्कां निरस्यन्समग्रसूत्रार्थं च व्यञ्जयन्फलोक्त्योपसंहरति॥ तस्मादिति॥ उपक्रमादीनामेव तात्पर्यार्थनिर्णायकत्वादित्यर्थः। अयं चोपक्रमादिलक्षणः समन्वय एव शास्त्रप्रतिपाद्यत्वे कारणमिति न्यायविवरणे लिङ्गं तात्पर्यनिर्णय इति भाष्ये चोक्तार्थस्य हेतुतयोपसंहारः। समन्वयादिति सौत्रहेत्वर्थस्योपसंहार उपक्रमादिवशादिति॥ तत्त्वित्यस्य विष्णुरेवेति। संशब्दोऽत्र सूत्रे आवर्तमानः सन्ननुवर्तमानशास्त्रयोनिपदेनाप्यन्वेति तत्र साकल्यं मुख्यत्वं चास्यार्थ इत्युपेत्यार्थमाह॥ सर्वशास्त्रैरिति॥ उच्यत इति॥ स्वरवर्णपदवाक्यात्मना मुख्यवृत्त्या प्रतिपाद्यत इत्यर्थः। ‘मुख्यार्थो भगवान्विष्णुः सर्वशास्त्रस्य नापरः’ इत्यनुभाष्योक्तेः। कथमुच्यत इत्यतः कारणत्वेत्यादिपूर्वसूत्रेऽन्वितं कारणस्येत्येतदिह कारणत्वेनेत्येवमन्वेति तच्चोपलक्षणमित्यर्थः। कारणत्वाद्यनन्तगुणतयेति यावत्। अयं भावः। जिज्ञास्यब्रह्मणो ब्रह्मपदोक्तमनन्तगुणत्वं प्रथमलक्षणम्। तत्प्रसिध्यर्थं जन्मादिकारणत्वं लक्षणमिति सर्वशब्दप्रवृत्तिनिमित्तवत्तया सर्वशास्त्रप्रतिपाद्यत्वस्याप्रतिज्ञायां प्रधानलक्षणं न सिध्यतीति तत्सिद्ध्यर्थं मुख्यवृत्त्या सर्वशास्त्रयोनित्वप्रतिज्ञा युक्तेति। तदुक्तमनुव्याख्याने–

‘जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये।

ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः॥

अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः॥’

इत्यादि। तस्यैवैतल्लक्षणमिति फलोक्तिः। एतत्कारणत्वमनन्तगुणत्वं चेत्यर्थः। अत्रोपक्रमादिभिः शास्त्रप्रतिपाद्यत्वस्याबाधे सति मुख्यत्वस्य प्राप्तावपि न सर्वशास्त्रार्थत्वस्य प्राप्तिः। तथापि तत्र गतिसामान्यादिति हेतुरग्रे स्पष्ट इति भावः॥ यत्तु एतेन सर्वे व्याख्याता इत्यनेनेदं गतार्थम्। वाक्यान्तरेऽन्यस्यापि कारणत्वं प्रतीयत इति चोद्यस्य प्रागुक्तन्यायातिदेशेन निरसिष्यमाणत्वादित्युपा-लम्भनम्। तन्न। त्वन्मते तथात्वेऽप्यस्मन्मते तत्र निषेधमुखेन वेद्यवस्तुवाचिपदघटितवाक्यानामेव विचार्यत्वेनागतार्थत्वात्। विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनामित्युक्तेः। किञ्चेहापातप्रतीत्यादिना पूर्वपक्षस् तत्र तु प्रवृत्तिनिमित्ताभावेन, किञ्चेह कारणत्वं विष्ण्वेकनिष्ठं नेति तत्र तु सर्वशब्दवाच्यत्वं नेति। अत्रोक्तस्याग्रे न्यायातिदेशेन प्रपञ्चनाच्च न कश्चिद्दोष इति॥ ४॥ अ.४॥

अभिनवचन्द्रिका

इदमप्यधिकरणं पूर्वाधिकरणवत् ‘यतो वा इमानी’ति वाक्यस्य परोक्तार्थमङ्गीकृत्य प्रवृत्तमिति बोध्यम्। एतेन– ‘यतो वा इमानी’ति वाक्यतात्पर्यविषयीभूतस्य ब्रह्मरुद्रादिसमवेतबन्धादिकारणत्वस्य रुद्रादिनिष्ठत्वेन यया कयापि श्रुत्या प्रतिभासाभावात् शास्त्रावष्टम्भेनाऽतिव्याप्तेरयोगात् तत्परिहाराय प्रवृत्तमिदमधिकरणं व्यर्थमिति परास्तम्। अत्र ब्रह्मण इति॥ रुद्रादीनां जगत्कारणत्वप्रतिपादकतया प्रतीयमानशास्त्रभागप्रतिपाद्यत्वसमर्थनादित्यर्थः। एतेन पूर्वपक्षिणा विष्णोर्जगत्कारणत्वेन शास्त्रप्रतिपाद्यत्व-स्याऽङ्गीकृतत्वात् तत्समर्थनं व्यर्थमिति परास्तम्। पूर्वपक्षिणा भागविशेषे प्रतिपाद्यत्वाङ्गीकारेऽपि रुद्रादीनां जगत्कारणताप्रतिपादकतया प्रतीयमानवेदभागप्रतिपाद्यत्वानङ्गीकारेण तत्प्रतिपाद्यत्वसमर्थन-स्याऽऽवश्यकत्वात्। कारणस्येति॥ भावप्रधानो निर्देशः। कारणत्वस्य शास्त्रैकयोनित्वादित्यर्थः। तत्सम्भवतीति॥ तत्समर्थनमावश्यकमिति शेषः। तत्कारणत्वेनेति॥ विष्णुरुद्रशब्दाघटित ‘द्यावाभूमी जनयन् देव एक’ इत्यादिसामान्यवचनप्रतिपाद्यत्वं तथा ‘एको रुद्रो न द्वितीयाय तस्थ’ इत्यादि-विशेषवाक्यप्रतिपाद्यत्वं च विषय इत्यर्थः। सामान्यवचनप्रतिपाद्यत्वकोटिकं संशयमाह– विष्णोरन्यस्यापि वेति॥ ‘द्यावाभूमी जनय’न्नित्यादिवाक्यप्रतिपाद्यत्वं विष्णोरेव उतान्यस्यापि वेत्यर्थः। उपलक्षणं चैतत्, ‘एको रुद्र’ इत्यादिविशेषवाक्यप्रतिपाद्यत्वं किं विष्णोरेव उतान्यस्यैवेति सन्देह इत्यपि द्रष्टव्यम्। कण्ठोक्तसंशयबीजमाह– पूर्वोक्तिरिति॥ शास्त्रयोनित्वादियुक्तिः। उभयथापि शास्त्रप्रतीतिः– ‘द्यावाभूमी’ इति वाक्यस्य कदाचिद्विष्णुपरतया कदाचिदन्यपरतया प्रतीतिः। अयमेव अस्य वाक्यस्य प्रतिपाद्य इति निर्णयाभाव इति यावत्। उपलक्षणमेतत्। पूर्वोक्तिः, एको रुद्र इत्यादिवाक्यानां रुद्रपरत्वप्रतीतिश्च, सन्देहबीजमिति द्रष्टव्यम्। एतेन इहाधिकरणे शास्त्रविशेषप्रतिपाद्यत्वस्यैव निर्णयात् शास्त्रयोनित्वमिति सामान्यस्य विषयत्वाभिधानमयुक्तमिति परास्तम्। रुद्रादीनामपीति॥ न केवलं विष्णोरेव कारणत्वेन शास्त्रभागप्रतिपाद्यत्वम् अपि तु रुद्रादीनामपि कारणत्वेन शास्त्रभागप्रतिपाद्यत्वमिति पूर्वपक्ष इत्यर्थः। ‘न च – पाशुपतादिशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारण’मिति न्यायविवरणं मनसि निधायाह– पाशुपतादिशास्त्रेष्विति॥ न च तस्येति॥ पाशुपतादिशास्त्रस्याऽज्ञप्रणीतवेद-व्याख्यानसाम्येनाऽप्रामाण्यान्न तस्य वेदतात्पर्यनिर्णायकत्वमिति न वाच्यमित्यर्थः। प्रतीतिसध्रीचीन-त्वान्नाज्ञप्रणीतवेदव्याख्यानसाम्यमिति भावेनाह– वेदेऽपीत्यादिना॥ रुद्रादीनां कारणताया वेदेऽपि प्रतीयमानत्वेन पाशुपतादीनां प्रतीतिसध्रीचीनत्वम्। ततश्चाऽज्ञप्रणीतवेदव्याख्यानसाम्यान्नाप्रामाण्यमिति भावः। तथा चेति॥ ‘यजमानः प्रस्तर’ इति वाक्यजन्यप्रतीतेस् तात्पर्यानिर्णायकत्वेन वेदजन्यशिवादि-कारणताप्रतीतेरपि तात्पर्यानिश्चायकत्वात् प्रतीतिमात्रं न पूर्वपक्षहेतुः। सर्वज्ञप्रणीतशास्त्ररूपवेदव्याख्यानस्य तात्पर्यनिर्णायकत्वेऽपि अज्ञप्रणीतवेदव्याख्यानसाम्यशङ्काप्राप्तासाधकत्वपरिहाराय प्रतीत्यनुसरणमावश्यक-मिति द्योतनायो‘क्तिप्रतीतिभ्या’मित्युक्तम्। ततश्च पाशुपताद्युक्तिप्रतीतिभ्यां रुद्रादीनां जगत्कारणत्वेन शास्त्रयोनित्वे सिद्धे लक्षणत्वेनोक्तं जगत्कारणत्वं न विष्णोरेव अपि तु अन्येषामपीति भावः। अज्ञानमूलत्वसम्भवादिति॥ रुद्रादीनां कारणताप्रतीतेः शास्त्रतात्पर्याज्ञानमूलत्वसम्भवादित्यर्थः। तत्र हेतुकथनायेति॥ प्रतीयमानमपि पाशुपतादिशास्त्रोक्तमपि, नेतरेषां शास्त्रयोनित्वं ग्राह्यमित्यस्मिन्नर्थे हेतुकथनाय सूत्रमुपन्यस्यतीत्यर्थः। अनेन सूत्रे ‘यत’ इति शेषं पूरयित्वा, अन्वयात् – उपक्रमादिलिङ्गैः, सम्यक् – विचारे क्रियमाणे, यतस्तत्तु – तदेव, ब्रह्मैव, शास्त्रयोनितया निश्चीयते, तस्मात् प्रतीयमानमपि पाशुपतादिशास्त्रोक्तमपि नेतरेषां शास्त्रयोनित्वं ग्राह्यमिति सूत्रस्य योजनोक्ता भवति। एतेन समन्वयादित्यस्य विष्णुरेव शास्त्रयोनिरित्येतस्मिन्नर्थे हेतुत्वेन ‘नेतरेषां शास्त्रयोनित्व’ मित्यस्मिन्नर्थे हेतुत्वाभावात् तत्र हेतुकथनाय सूत्रमुपन्यस्यतीत्ययुक्तमिति परास्तम्। ‘समन्वया’दिति सूत्रखण्डस्य ‘नेतरेषां शास्त्रयोनित्व’मित्यस्मिन्नर्थे हेतुकथनपरत्वाभावेऽपि समग्रसूत्रस्य तद्धेतुकथनपरत्वात्। सूत्राक्षराणीति॥ भाष्ये व्याख्येयतया उदाहृतस्य ‘अन्वय’ इत्यस्य सौत्रपदत्वाभावात् सूत्राक्षराणी-त्युक्तम्। भाष्ये ‘अन्वय उपपत्यादिलिङ्ग’मित्युक्त्वा, उक्तं चेति संमतिकथनमयुक्तं, तत्र उपपत्यादि-लिङ्गानाम् अन्वयशब्दार्थत्वानुक्तेरित्यत आह। कानि तानीति॥ अनेन उक्तं चेत्यस्य उपपत्यादीनां समन्वयशब्दार्थत्वं प्रतिज्ञातं बृहत्संहितायामुक्तमिति नार्थः किन्तु कानि तान्युपपत्यादीनि। कुत्र च लिङ्गानीति शङ्कापरिहाराय यन्मया वक्तव्यं तदुक्तमेवेत्यर्थ इति सूचितम्। प्रकरणादिरुपक्रमः। तदन्त उपसंहार इत्यनयोर्लक्षणयोस्स्फुटत्वाद् अनुक्त्वा अभ्यासादीनां लक्षणमाह– एकप्रकारेत्यादिना॥ स्तुतिर्निन्देति॥ गुणख्यापनं स्तुतिः। तदन्यत्र दोषख्यापनं निन्दा। कर्तृनामनिर्देशपूर्वकमितिहासः परकृतिः। सामान्यतः कथाकथनं पुराकल्प इत्यनेकानि अर्थवादस्य लक्षणानि द्रष्टव्यानि। उपक्रमादीना-मुपपत्तित्वेऽपीति॥ ननु उपक्रमादीनामुपपत्तित्वेपीत्ययुक्तं तथा हि ‘उपक्रमोपसंहाराविति श्लोके साध्यान्तरे उपपत्तित्वेन प्रसिद्धस्य तात्पर्यलिङ्गत्वमुच्यते न। चोपक्रमादयस्तथा स्वार्थे तेषामागमत्वात्। तदुक्तं तर्कताण्डवे – ‘अत्र स्वार्थे शब्दात्मकानामुपक्रमादीना’मिति। तथा च नोपपत्तिशब्देन उपक्रमादीनां ग्रहणं सम्भवति। अवश्यं चैतदेवं विज्ञेयम्। स्वार्थोपपत्तेस्तात्पर्ये लिङ्गत्वमुच्यत इति। इदं विप्रतिपन्नं वाक्यं विष्णुसर्वोत्तमत्वपरं तत्साधकयुक्तिमत्वात्, यद्वाक्यं यत्साधकयुक्तिमत् तद्वाक्यं तत्परम्। यथा आप्ततया स्वयं पर्वतस्याग्निमत्त्वमभिधाय तत्रैव संवादितया युक्तिमभिदधतो वाक्यमिति। इयांस्तु विशेषः – धूमाद्या उपपत्तयः संयोगादिसम्बन्धेन विद्यमानाः स्वसाध्यसाधकाः। उपपत्तिः प्रतिपाद्यप्रतिपादकभावसम्बन्धेन विद्यमाना तात्पर्यसाधिकेति। अन्यथोपपत्तिस्तात्पर्यलिङ्गमित्यस्य तात्पर्योपपत्तिस् तात्पर्यलिङ्गमित्यर्थप्राप्त्योपपत्तिर्लिङ्गमित्यभिधानमनर्थकं स्यात्। वह्निव्याप्यं वह्निव्याप्यमित्यभिधानवदिति चेत्, उच्यते – सत्यमुपपत्त्यादीनां स्वप्रतिपाद्यार्थे आगमत्व’मिति तथाप्यर्थान्तरे उपपत्तित्वसद्भावात् ‘उपक्रमादीनाम् उपपत्तित्वेऽपी’त्युक्तिरुपपन्ना। न हि उपक्रमादिः स्वार्थमागमतयैव बोधयति, न तु किमप्यनुमापयतीति वक्तुं शक्यम्। उपक्रमादिवाक्यश्राविणस् तत्प्रयोक्तृपुरुषानुमानदर्शनात्। ब्राह्मणपरिव्राजकन्यायेनेति॥ ब्राह्मण इत्योवोक्तौ परिव्राजकलाभेऽपि ब्राह्मणत्वातिरिक्तपरिव्राजकत्वाख्यधर्मसद्भावात् तद्विवक्षया परिव्राजकानां पृथगुक्तिवद् उपक्रमादिष्वपि उपपत्तित्वातिरिक्तोपक्रमत्वादिविशेषधर्मसद्भावात् तद्विवक्षया उपक्रमादीनां पृथगुक्तिरित्यर्थः। ननु भाष्ये ‘अन्वय उपक्रमादिलिङ्ग’मिति वक्तव्यम्। उपपत्यादि लिङ्गमिति तु कथमुक्तमित्यत आह– उपक्रमादीनामिति॥ उपसंहारस्येति॥ ननु व्याख्यानरूपत्वेन तस्य ततः प्राबल्यमित्येतावता पूर्णत्वेन तद्विरोध्युपक्रमाप्रामाण्यापत्तेरित्यस्य अपिशब्दस्य च वैय्यर्थ्यम्। न च प्राबल्योपपादनाय तद्विरोधिन उपक्रमस्याऽप्रमाण्यापत्तेरिति हेत्वन्तरमुक्तमिति वाच्यम्– उपसंहारविरोध्युपक्रमाप्रामाण्ये सिद्धे उपसंहारस्य व्याख्यानत्वोपपादनाय तद्विरोध्युपक्रमाप्रामाण्यापत्तेरिति हेत्वन्तरमुक्तमिति वाच्यम्। उपसंहारविरोध्युपक्रमाप्रामाण्ये सिद्धे उपसंहारस्य प्राबल्यं तत्प्राबल्ये एतदप्रामाण्यमित्यन्योन्याश्रयादिति चेत्, न। उपसंहारस्य व्याख्यानत्वोपपादनाय तद्विरोध्युपक्रमाप्रामाण्यापत्तेरित्यस्य वक्तव्यत्वात्। अन्यथोपक्रमाविरुद्धोपसंहारस्येव विरुद्धोपसंहारस्यापि उपक्रमव्याख्यानता न सिध्येत्। ‘तद्विरोध्युपक्रमाप्रामाण्यापत्तेरित्युक्तौ’ तु सिद्ध्यत्येव विरोध्युपसंहारस्योपक्रमव्याख्यानरूपत्वम्। अन्यतरस्यान्तरव्याख्यानत्वाऽनङ्गीकारे ‘माता वन्ध्ये’ति मत्तवाक्यवत् परस्परविरोधेनाऽप्रामाण्यं स्यादिति बाधकस्य सूचनात्। न च वैपरीत्यमेव युक्तम्। व्याख्येयस्य पूर्वभावित्वनियमात्। यत्र तु उपक्रमो-विस्पष्ट उपसंहारस्तु सामान्यरूपेण तत्र तु उपक्रमस्य निरवकाशत्वेनैव प्राबल्यम्। न व्याख्यानत्वेन पूर्वभाविनो व्याख्यानत्वा सम्भवात्। अनुपसञ्जातविरोधित्वेन प्रबलतया सम्भावनाविषयोऽपि उपक्रमाद् उपसंहारः प्रबल इति सूचनायाऽपिशब्दोऽपि सार्थकः। ततश्चैवं योजना – उपसंहारविरोध्युप्रक्रमा-प्रामाण्यापत्तेर् उपसंहारस्य व्याख्यानरूपत्वं, तत एव उपक्रमादपि प्राबल्यम् उपक्रमस्य तु उपसंहारानु-सारित्वं चाभ्युपेयमिति। तदुक्तं न्यायविवरणे– ‘उपक्रमप्रामाण्यार्थमेवोपसंहारानुसारित्वमङ्गीकार्यम्। व्याख्यानस्य पश्चात्तनत्वनियमादिति। एकत्रोक्तादपीति॥ ननूपक्रमात्प्रबलादुपसंहारादभ्यासस्य प्राबल्योक्त्यैव उपक्रमादपि प्राबल्यलाभसम्भवाद् उपसंहारात्प्राबल्यमित्येव वक्तव्यं न तूपक्रमोपसंहार-योरिति। न चोपसंहारात्प्राबल्यमित्येतावन्मात्रोक्तौ विरूपोपक्रमात् तथा तादृशोपसंहारमात्राच्च प्राबल्यमिति विज्ञायेत तन्मा विज्ञायि, किन्तु यत्रोपक्रमोपसंहारयोरैकरूप्यं तत्र ताभ्यामपि प्राबल्यमिति बोधनायोप-क्रमोपसंहारयोः प्राबल्यमित्युक्तमिति वाच्यं यत्रोपक्रमोपसंहारयोरैकरूप्यं तत्रोपक्रमोपसंहारयोरभ्यास-रूपत्वेन ताभ्यामभ्यासस्य प्राबल्यायोगात्। न चास्य द्विवारोक्तिरूपत्वेन बहुलोक्तिरूपस्याभ्यासस्य प्राबल्यमुपपद्यत इति वाच्यम्। द्विवारोक्तिरूपाभ्यासस्य प्राबल्यासिद्धिप्रसङ्गादिति। अत्र वक्तव्यम्। किम् उपसंहारप्राबल्योक्तिरेवोपक्रमप्राबल्योक्तिः, आहोस्विद् अभ्यास उपक्रमात्प्रबलः, तदुत्तमोपसंहारोत्तम-त्वादिति मानान्तरेण लभ्यत इति। नाद्यः। तयोर्भेदेन तदुक्तेस्तदुक्तित्वायोगात्। न द्वितीयः – उपसंहारोत्तमत्वसाधकबहूक्तित्वेनैवोपक्रमाधिक्यसाधनस्य सम्भवे उपक्रमोत्तमोपसंहारोत्तमत्वरूपहेत्वतरानु-सन्धानस्य गुरुत्वात्। एवमुत्तरत्रापि द्रष्टव्यम्। एकत्र बहुवारोक्तादपीति॥ मुख्यस्य – आवश्यकस्य। ततश्चैवं योजना – अयं पूज्य इति एकवारं बहुवारं वोक्तमप्यपहायाऽऽवश्यकस्य लोके पूजादर्शनेन प्राबल्यस्य सिद्धत्वेन अपूर्वस्य मानान्तराऽप्राप्तत्वेन तत्प्रतिपादनस्यात्यावश्यकत्वाद् अपूर्वताया उपक्रमोपसंहाराभ्यासेभ्यः प्राबल्यमिति। फलमात्राधिक्यादिति॥ अकरणे प्रत्यवायस्य च वैशद्येन फलस्वरूपस्य च कथनं विना फलस्वरूपप्रतिपादकाद् ग्रन्थादर्थवादग्रन्थस्याऽऽधिक्यमित्यर्थः। एतेनार्थवादस्य फलात्मकत्वात् तस्य फलाधिक्यकथनमयुक्तमिति परास्तम्। अर्थवादफलग्रन्थयोः सामान्यविशेषरूपत्वेन सामान्यरूपात्फलग्रन्थाद्विशेषरूपार्थवादग्रन्थस्य आधिक्यकथने बाधकाभावात्। यद्यपि इष्टानिष्टकथनादिरूपस्यार्थवादस्योपक्रमादिभ्यः प्राबल्यमित्येतावदेव वक्तव्यम्, फलाधिक्यसाधकेन करणाकरणयोरिष्टाकथनादिरूपाख्येन लिङ्गेन उपक्रमाद्याधिक्यसाधनसम्भवात्, तथापि शिष्यबुद्धिवैशद्याय पूर्वोक्तेन लिङ्गेन फलाधिक्यं प्रसाध्यते। न चोपक्रमाद्याधिक्यं प्रसाधितम्। उपपत्तेः सर्वमूलत्वेनेति॥ उपपत्तेः सर्वमूलत्वं नाम उपक्रमाद्यर्थ संशये सति तद्व्युदासेन तदर्थनिश्चायकत्वम्। तदुक्तमनुव्याख्याने– ‘युक्तोऽयुक्तश्च यत्रार्थ आगमस्य प्रतीयते। स्यात्तत्र युक्त एवार्थ’ इति। ननु उपक्रमादीनां प्राबल्य-दौर्बल्यमयुक्तं तेषामनुमानत्वात्, अनुमानस्य च द्वयं सामर्थ्यं, व्याप्तिः, समुचितदेशादौ सिद्धिश्च। तदुभयम् उपक्रमादिषु सर्वेष्वप्यस्तीति सर्वेषां साम्यमेव वाच्यम्, न तु कस्यचित्प्राबल्यम्। व्याप्ति-समुचितदेशादिसिद्ध्यतिरिक्तस्यानुमानबलस्याभावाद् इति चेत्, उच्यते। नोपक्रमादीनां धूमादिलिङ्गानामिव निरङ्कुशा व्याप्तिः, किन्तु इष्टसाधनत्वेनान्नत्वस्येव यदुपक्रम्यते तत्तत्परमित्यादिरूपा व्याप्तिरौत्सर्गकी। तत्र पूर्वपूर्वा व्याप्तिर् उत्तरोत्तरविरोधे संकुच्यत इति प्राबल्यदौर्बल्यमुपपन्नमिति। ननु यत्र यदुपक्रम्यते तत्तत्परमित्यौत्सर्गकी व्याप्तिरित्ययुक्तम्। यत्प्रकरणं यदुपक्रमवत् तत्तत्परमेवेति आत्यन्तिकनियमसद्भावात्। न च यस्मिन्प्रकरणे उपक्रमोपसंहारौ विरुद्धौ तत्रोपक्रान्तार्थे तात्पर्याभावान् नात्यन्तिकनियम इति वाच्यम्। उपक्रमस्योपसंहारानुसारेण नेयत्वेन विष्णूपसंहारानुसरणाय विष्णूपक्रमत्वस्यैव वक्तव्यत्वात्। अन्यथा उपक्रमः शिवपर उपसंहारस्तु विष्णुपर इति मत्तवाक्यवत् तत्प्रकरणमप्रमाणं स्याद् इति चेत् स्यादयं दोषः यदि शिवाद्युपक्रमशब्दस्य शिवादिप्रतिपादकोपक्रमत्वमर्थः स्यात्, न चैवं, किं नाम, शिवादिशब्दोपेतोपक्रमत्वमर्थः। एवं तत्तदुपसंहारादिशब्दस्य तत्तच्छब्दोपेतोपसंहारत्वादिशब्दस्य तत्तच्छब्दोपेतोपसंहारत्वादिकमर्थो बोध्यः। एवं च यत्र शिवशब्दोपेतोपक्रमस् तत्र तत्परप्रमित्यान्तिक-नियमाभावाद् औत्सर्गकी व्याप्तिरित्येवाभ्युपेयम्। ननु अभ्यासो लिङ्गमित्यादिरूपेण एकवचनान्ता-नामन्वयसम्भवेऽपि उपक्रमोपसंहारौ अर्थवादोपपत्ती चेति द्विवचनान्तयोर्नान्वयः सम्भवतीत्यतः ‘एतत्सर्व’मित्यध्याहृत्यान्वयं दर्शयति। एतत्सर्वमिति॥ साम्य इति॥ विरुद्धोभयतात्पर्य-निर्णायकयोरभ्यासत्वादिना साम्य इत्यर्थः। न स्वभावप्राबल्यदौर्बल्यं नामास्तीति॥ असंकीर्णोदाहरणा-भावादिति भावः। अर्थान्तरकल्पनमिति॥ लक्षणादिनेति शेष इदं च समाधानम् उभयोर्निरवकाशस्थल-मभिप्रेत्य। उभयोर्निरवकाशत्वेन साम्येऽपि अपरत्र स्वभावप्रबलत्वस्याधिकस्य प्रविष्टत्वाद् अन्यतरबाधनिर्णयो न विहन्यते। तथा च– सावकाशत्वनिरवकाशत्वासङ्कीर्णोदाहरणसद्भावात् पार्थक्यं युज्यत एवेति द्रष्टव्यम्। उपलक्षणमेतत्। उभयोः सावकाशत्वेऽपि स्वभावतः प्रबलेन रूढ्यादिप्राप्त-स्वारसिकार्थस्य बाधदर्शनाद् इदमप्यसंकीर्णोदाहरणं द्रष्टव्यम्। अत्रेति॥ अत्र भाष्ये अन्वय उपपत्त्यादिलिङ्गमित्यतः परं ‘श्रुत्यादिषट्कं चे’ति शेषो द्रष्टव्य इति भावः। न चाऽऽदिशब्देनैव श्रुत्यादिषट्कग्रहणसम्भवे शेषाभिधानमयुक्तमिति वाच्यम्। उपक्रमादिषु उत्तरोत्तरं प्राबल्यं, श्रुत्यादिषट्के तु पूर्वपूर्वप्राबल्यमिति विशेषद्योतनाय पृथक्ग्रहणस्य भाष्यकाराभिमतत्वात्। तैः सम्यक्शास्त्रे विचार्यमाण इति॥ सुधायां तु, अन्वयात् – उपक्रमादिलिङ्गसमुदायात्, शास्त्रे सम्यक् विचारिते सति सर्वशास्त्रस्य भगवत्येव सम्यक् वचनवृत्त्या अन्वयात् शक्तितात्पर्यलक्षणसम्बन्धावगमात् तद्विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हिरण्यगर्भादय इति उक्तम्। अत्रेदं प्रतिभाति – उपक्रमादि-लिङ्गसमुदायात् शक्तितात्पर्यलक्षणसम्बन्धावगमादित्ययुक्तम्। उपक्रमादीनां तात्पर्यनिर्णायकत्वेन शक्त्यनिर्णायकत्वात्। ‘लिङ्गं तात्पर्यनिर्णय’ इति वचनात्। अन्यथा तीरमुपगम्य गङ्गापदस्य तीरे शक्तिप्रसङ्गः। अधिकरणोपक्रमे सुधायामेव ‘यद्यपि नामानि सर्वाणी’त्यादि श्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते, तथापि न तात्पर्ये प्रमाणमस्तीति तात्पर्यस्यैव निर्णायकत्वाभिधानाच्चेति चेत्, भवेदयं दोषः यद्युपक्रमादिलिङ्गसमुदायात् साक्षात्तात्पर्यस्येव वचनवृत्तेरप्यवगमो भवतीति सुधाभिप्रायः स्यात्, न चैवं, किं नाम उपक्रमादिलिङ्गात् शास्त्रतात्पर्येऽवगते ‘नामानि सर्वाणी’ति श्रुतेरपि भगवति तात्पर्यावगमाद् आगमेनैव भगवति सर्वशब्दानां शक्तिः सिद्धा भवतीति।

भाष्ये मां विधत्त इति॥ यद्यपि भागवते (११-२१ अ.) ‘मां विधत्त’ इत्यस्यानन्तरं ‘इत्यस्या हृदय’मित्यस्योत्तरार्धस्य न पाठः किन्तु– ‘इत्यस्या’ इत्यनन्तरमेव ‘मां विधत्त’ इत्यर्धस्य पाठः। तथापि– ‘किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत्’ इति पूर्वार्धेन ‘इत्यस्या हृदय’मित्यर्धस्यान्वयाऽभावाद् व्यत्यासेन पाठः कृतः। ततश्चैवं भागवतसार्धश्लोकयोजना – पूर्वं ‘वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया अपी(भाग.११-२१-३५)’ति श्लोकार्धेन त्रिकाण्डविषयतया प्रतीयमाना अपि ब्रह्मात्मविषया इत्युक्त्या द्विकाण्डविषयत्वं सर्वथा निराकृतमिति मन्यमानस्य सर्ववैदिकपदानां भगवत्परत्वे उद्देश्यविधेयभावाद्यनुपपत्त्या परिनिष्ठितो वाक्यार्थ एव न सिध्यतीति श्रोतुर्मानसिकीं शङ्कामनुवदति – किं विधत्त इति॥ ‘यजेते’त्यादिश्रुतिः किमुद्दिश्य विधत्ते, इन्द्रादिप्रतिपादिका श्रुतिः किमाचष्टे। ‘चत्वारि वा’गित्यादिका श्रुतिः, किमनूद्य विकल्पयेत्। उपलक्षणमेतत् ‘न सुरां पिबे’दित्यादिका श्रुतिः किं निषेधतीत्यपि द्रष्टव्यम्। वाक्यसमन्वय-माश्रित्यास्माभिर्ब्रह्मपरत्वमुक्तम्। न तु पदसमन्वयाभिप्रायेणेत्याशयेनोत्तरमाह– ‘मां विधत्त’ इति॥ कर्मविधात्री श्रुतिरपि मां प्रत्येव विधत्ते, इन्द्राद्यभिधात्री च मामभिधत्ते, चत्वारि वागित्यादिश्रुत्या अहं विविधरूपत्वेन कल्प्यः। अहमेव ‘न सुरां पिबे’दित्यादिश्रुत्या अप्रियादपोह्यः, अहंशब्द ईश्वरगुणपरः। गुणगुणिनोरभेदात्। अप्रियात् = अत्र मद्गुणाः सन्त्विति ईश्वरेच्छारूपापीत्यविषयाज् जीवात्, अपोह्यः = निराकार्य इत्यर्थः। अनेन सुरां = भगवद्गुणं, स्वात्मनि न चिन्तयेद् इति ‘न सुरां पिबे’दिति श्रुतिर्व्याख्याता भवति। तदुक्तम्–

‘सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम्।

सुरापानमिति प्रोक्तं तन्न कुर्यात्कथंचन॥

ब्राह्मणो विष्णुरुद्दिष्टः स नास्तीति विचिन्तनम्।

ब्रह्महत्या समुद्दिष्टा तां न कुर्यात्कथंचन’॥ इति।

इत्यहमित्यत्र इतिशब्दो वेदव्याख्यानसमाप्त्यर्थकः। यद्ययं वेदार्थस् तर्हि वेदव्याख्यातृ-जैमिन्याद्यनुभवविरोध इत्यत आह– इत्यस्या हृदयमिति॥ अस्याः श्रुतेः, इति साक्षात् हृदयं=मुख्यं हृदयं, मदन्यः=जैमिन्यादिः, न वेद, किन्तु अवान्तरतात्पर्यविषयीभूतमर्थं वेद। कश्चन = कोऽपि, चतुर्मुखः, मदनुग्रहाद्वेदेत्यर्थः। अतो न कश्चिद्विरोधः। जन्मादिकारणत्वोक्त्यमुपलक्षितेति॥ इदमिह सम्प्रधार्यम्। अनन्तगुणाः कुत्रत्यजगत्कारणत्वोक्त्युपलक्षिता इति। किं वेदगतया जगत्कारणत्वोक्त्या उत सूत्रगतया। नाद्यः – वेदे साक्षाद्वचनवृत्त्या ब्रह्मशब्दाद् अनन्तगुणानामुक्तत्वेन उपलक्षणवैयर्थ्यात्। नापि द्वितीयः – ‘जन्माद्यस्य यत’ (१-१-२) इति सूत्रे जगत्कारणत्व-वाचकपदाभावाद् ब्रह्मशब्दोक्तानन्तगुणपूर्णत्वोपपादनाय जगत्कारणत्वस्योक्तत्वेन, तदुक्तेस्तदुपलक्षण-त्वाभिधानायोगाच्च। तदुक्तं सुधायाम् – ‘ननु बृहद्ब्रह्मेति समस्तगुणपरिपूर्णत्वं प्रसिद्धमेव। तत्किं लक्षणान्तरेण। सत्यम् – तथापि – तदुपपादनार्थमित्यदोष’ इति। ततश्चेदमयुक्तमिति चेत्, स्यादयं दोषः – यद्यनेन वाक्येन जगत्कारणमिति पदेनानन्तगुणा लक्षणयोच्यन्त इति प्रतिपाद्यत इत्यभ्युपगच्छामः। न चैवं, किं नाम जगत्कारणत्वोक्त्युपपादितानन्तगुणतया उच्यत इति प्रतिपाद्यत इति ब्रूमः।

पूर्वपक्षस्तु–

‘पञ्चरात्रादिसंसिद्धतात्पर्येणाऽऽगमेन हि।

यथा जन्मादिहेतुत्वं विष्णोरित्यवधार्यते॥

शैवागमादिसंसिद्धतात्पर्येणागमेन हि।

ज्ञायते तच्छिवस्यापीत्यतिव्याप्तिरतः स्फुटम्॥

प्रतीतिसध्रीचीनत्वमुभयत्र समं स्वतः।

तथा हि– विष्णोरिव अन्येषामपि जगत्कारणत्वेन शास्त्रयोनित्वमभ्युपगन्तव्यम्। वेदव्याख्यानरूप-पञ्चरात्राद्यगमाद् विष्णौ तात्पर्यावधारणवत्, सर्वज्ञशिवादिप्रणीतवेदव्याख्यानरूपपाशुपताद्यागमात् शिवादिष्वपि कारणत्वाभिधायकवेदैकदेशतात्पर्यावधारणात् सर्ववेदव्याख्यानप्रामाण्यसम्भवे पञ्चरात्रादि-प्रामाण्यमङ्गीकृत्य, शैवाद्यगमप्रामाण्यानङ्गीकारे कारणाभावात्। भागविशेषे विष्णुप्रतिपादकत्वस्य स्पष्टोपलम्भवद् भागविशेषे शिवादिपरत्वस्य स्पष्टमुपलम्भेन प्रतीतिसध्रीचीनत्वस्योभयत्र साम्यात्। न च बहूनां कारणत्वासम्भवः। गुरुतरभारोद्धरणादौ प्रत्येकमसमर्थानां सव्यपेक्षाणां बहूनां कर्मत्वस्य सर्वानुभवसिद्धत्वात्। न च ‘सर्वे वेदा यत्पदमामनन्ती’त्यादिश्रुतिविरोधः – विष्णुप्रसिद्धशब्दलिङ्गाद्युपेताः सर्वे वेदा इत्यर्थत्वात्तस्याः। न च– ‘एको नारायण आसीन्न ब्रह्मा न च शङ्कर’ इत्यादिरुद्रादि-कारणतानिषेधकवाक्यविरोधः – तेषां विष्णुकारणताप्राशस्त्यपरत्वेनोदितानुदितहोमनिन्दावाक्यवत् शिवादिकारणतानिषेधे तात्पर्याभावात्। न चोपक्रमादिविरोधः – उपक्रमादितो व्याख्यानस्य सर्वज्ञप्रणीतत्वेन बलवत्त्वात्। तस्माद्विष्णुवच्छिवादीनामपि कारणत्वेन शास्त्रयोनित्वात्, अतिव्याप्तं जगत्कारणत्वमिति।

सिद्धान्तस्तु–

‘उपक्रमादिलिङ्गेन वेदतात्पर्यमीयते।

विष्णावेव शिवादौ तु तात्पर्यं ग्राहकं न हि॥

शैवागमस्य मानत्वं नैवोपक्रमपूर्वकैः।

लिङ्गैर्बाधादभ्युपेयं नातिव्याप्तिरतो भवेत्॥

तथा हि– शिवादीनां प्रमाणाभावेन जगत्कारणत्वाभावान्नातिव्याप्तिः। न च शैवाद्यागमनिर्णीत-तात्पर्यकवेदस्तत्र मानम्। उपक्रमादिविरुद्धस्य शिवादौ वेदतात्पर्यग्राहकस्य शैवाद्यागमस्यामानत्वात्। न च वैपरीत्यं तेषामन्तरङ्गत्वेन बलवत्त्वात्। शैवाद्यगमस्य तात्पर्यावधारणायोपक्रमादीनां त्वयाऽनु-सर्तव्यत्वेनोपजीव्यत्वाच्च। न च प्रतीतिसध्रीचीनत्वेनागमस्य प्रामाण्यम् उपक्रमाद्यनुसन्धानपूर्वक-प्रतीतिसध्रीचीनत्वस्याभावात्। आपाततः प्रतीतिसध्रीचीनत्वस्याऽप्रयोजकत्वात्। उदितहोमादिनिन्दाया उदितहोमादेर्विहितत्वेन निन्दायां तात्पर्याभावेऽपि शिवादिकारणत्वस्याऽप्रामाणिकत्वेन तन्निषेधवाक्यानां स्वार्थे तात्पर्यसद्भावाच्च। तस्मादनतिव्याप्तं जगज्जन्मादिकारणत्वं ब्रह्मलक्षणमिति सिद्धम्॥ (अ.४)

वाक्यार्थमुक्तावली

ॐ तत्तु समन्वयात् ॐ॥ अत्र ब्रह्मणो जगत्कारणत्वेन शास्त्रप्रतिपाद्यत्वप्रतिपादिकाया औपनिषदः पुरुष इत्यादिश्रुतेरर्थनिर्णयाय न्यायानुसन्धानस्य क्रियमाणत्वाच्छास्त्रान्तर्भावसङ्गतिरित्याह। अत्र ब्रह्मण इति। अधिकरणादिना त्वाक्षेपकी सङ्गतिरित्याह। कारणत्वस्येति। विष्णोरन्यस्यापि वेति। विष्णोः शिवस्यापि वा विष्णोर्हिरण्यगर्भस्यापि वेत्यनेकसंशयप्रदर्शनाय सामान्येनेत्युक्तम्। भाष्ये नेतरेषामिति बहुवचनप्रयोगेऽपि युगपद्बहुभिर्विवादायोगादेकवचनम्। अत्र जगत्कारणत्वेन शास्त्रयोनित्वं किमन्यस्याप्युत विष्णोरेवेति चिन्ता। तदर्थं वेदतात्पर्यनिश्चयः किं शैवागमादिना किं वोपक्रमादिनेति। तदर्थं शैवागमादेर् वेदतात्पर्यनिश्चायकत्वे बाधकमुपक्रमादेरेव शास्त्रतात्पर्यलिङ्गत्वे प्रमाणं किं नास्त्युता-स्तीति। शास्त्र इति। ‘विश्वाधिपो रुद्रः’ ‘हिरण्यगर्भस्समवर्तताग्रे’ ‘नारायणो वा इदमग्र’ इत्यादिशास्त्रे उभयथापि विष्णोरन्यस्यापि प्रतीतिरित्यर्थः। समन्वयशब्देन करणव्युत्पत्या अन्वयज्ञापकोपक्रमादिवाचिना पाशुपतादिरूपव्याख्यानोक्तत्वं वेदादावापातप्रतीतत्वं चेति द्वयं व्यावर्त्त्यम्। तत्राद्यं न च पाशुपतादि-शास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणमिति न्यायविवरणे स्वपदेनोपात्तम्। द्वितीयमादिपदेन प्रतीतेः पाशुपतादिसहकारित्वेन सहकार्यप्राबल्यात्। भाष्ये तु द्वितीयमज्ञानां प्रतीयमानमिति स्वपदेनाद्यमपि-पदेनोक्तम्। पाशुपतादेः कुवर्त्मनः प्रागेवोक्तत्वादित्यभिप्रेत्योभयमूलं पूर्वपक्षं व्यनक्ति। पाशुपतादि-शास्त्रेष्वित्यादिना। निगदितत्वादिति। अनेन रुद्रादेः कारणतया शास्त्रयोनित्वे आगमः प्रमाणमित्युक्तं भवति। प्रतीयमानत्वादिति। रुद्रादेः कारणतया वेदप्रतिपाद्यत्वेऽनुभव एव प्रमाणमित्यर्थः। सध्रीचीनस्येति। संवादिन इत्यर्थः। अन्येषामपीति। एतेनाज्ञानां प्रतीयमानमपीत्यपिपदम् इतरेषा-मपीत्यपिपदेनापि सम्बध्यत इत्यपिपदं व्याख्यातं भवति। प्रतीयमानमपीत्यपिसमुच्चयमाह। पाशुपतादा-विति। अज्ञानामित्युक्तिलब्धार्थमाह। प्रतीतेरिति। प्रतीतमपीति। एतेनापिपदस्यार्थान्तरमुक्तं भवति। प्रतीतिसिद्धतयाऽपलापानर्हमपीति। व्याचष्ट इति। अन्वीयन्ते शक्तितात्पर्यगोचरेण सम्बन्धतया ज्ञायन्ते वाक्यान्येतेनेति व्युत्पत्येति भावः।

लिङ्गानीति। अन्वयादित्यस्य वक्ष्यमाणार्थान्तरविवक्षया समुदायाभिप्रायेण वा लिङ्गं तात्पर्यनिर्णय इति स्मृत्यनुसारेण वा सूत्रे एकवचनप्रयोगाद्भाष्ये लिङ्गमित्येकवचनमिति मनसि निधाय उपक्रमादिलिङ्गै-रित्युपसंहारभाष्यानुसारेणात्र बहुवचनप्रयोगः। प्रमाणान्तराप्राप्ततेति। अत्र प्रमाणलक्षणटीकारीत्या प्राचुर्येणेत्यपि ग्राह्यम्। अन्यथा प्रमाणसम्प्लववादिनामस्माकमसम्भवापत्तेः। स्वानुपजीविप्रमाणान्तरेत्यपि विशेषणीयम्। तेनेश्वरादिप्रतियोगिकजीवभेदे प्रत्यक्षानुमानसिद्धेऽपि न भेदवाक्यस्यापूर्वताभङ्गः। अनुमानादेरागमोपजीवित्वादिति प्रमाणलक्षणटीकोक्तरीत्यैवोपक्रमोपसंहारयोरैकरूप्यमप्यत्र गणनीयम्। यद्वा मूले उपक्रमश्च उपसंहारश्चोपक्रमोपसंहारौ मिलितौ चेति व्याख्यानेनैव तल्लाभः॥ फलवत्वमिति। एकस्मिन्प्रकरणे उभयप्रापकसद्भावेऽपि यद्भानात्फलं श्रूयते तद्विषयत्वं यद्वाक्यस्येति फलोक्तेर्लिङ्गत्वमिति भावः। यद्वा ‘तेषां पाहि श्रुधीहव’मित्यत्र विभक्तिविपरिणामेन तान् सोमान्पिबेत्यर्थं बूमो वा। तेषां सोमानामंशं पिबेति ब्रूमो वेति विषये विभक्तिव्यत्ययादपि तेषामंशं पाहीति व्याख्यानं वरमिति पूर्वपक्षे श्रीमता भाष्यकृता राद्धान्तितम्। भगवतो गुणाधिक्यज्ञापनलक्षणवेदफलविरोधात्तेषाम् अंशमिति न व्याख्यानमुचितम्। किन्तु विभक्तिव्यत्ययेनार्थकथनस्य सर्वभोक्तृत्वाख्यगुणाधिक्यज्ञापनलक्षणफलवत्वेन तान्समग्रान् सोमान् स्वातन्त्र्येण पिबेति स्वातन्त्र्यद्योतकविभक्तिव्यत्यय एव ज्यायानिति। यथोक्तम्।

गुणाधिक्यं येन भवेद् वेदस्यार्थः स एव हि।

प्रयोजकत्वान्नान्यस्य फलाभावात्तदर्थता।

उपक्रमादयो यत्र तात्पर्यार्थस्स एव हि।

इति ऋग्भाष्ये। तथा च फलोक्तिं विना येनार्थेन प्रतिपादिते न स्वतात्पर्यविषयद्योतनलक्षणफलवत्वं भवति तत्फलमित्यर्थः। गुणिनिष्ठगुणाभिधानं स्तुतिः। दोषिनिष्ठदोषाभिधानं निन्दा। कर्तृनामकथन-पूर्वकमितिहासः परकृतिः। सामान्यतः कथनं पुराकल्पः। यद्वा परेणेदं कृतमित्येककर्तृकत्वकथनं परकृतिः। पूर्वमन्यैरपीदं कृतमित्यनेककर्तृकत्वकथनं पुराकल्पः। उपक्रमादीनामिति। उपक्रमादीनां तात्पर्यार्थनिर्णये उपपत्तित्वेऽपि स्वार्थे आगमत्वमेव नैवमुपपत्तेरिति विशेषादिति भावः।

ननूदाहृतस्मृत्यनुसारेणान्वय उपक्रमादि लिङ्गमिति वक्तव्ये उपपत्त्यादीति व्यत्यासः कुत इत्यत आह उपक्रमादीनामिति। उपक्रमाप्रामाण्योपपत्तेरिति। प्रतीतार्थाप्रमापकत्वोपपत्तेत्यिर्थः। मुख्यस्येति। स्वानुपजीविप्रमाणान्तराप्राप्तेऽर्थेऽपूर्वतया मुख्यस्येत्यर्थः। करणाकरणयोरिति। करणे फलकथनरूप-स्तुत्यर्थवादात्। अकरणेऽनिष्टकथनरूपनिन्दार्थवादात्। आदिपदेन परकृत्यादिकथनमात्ररूपाच्चेत्यर्थः। यद्यपि गुणाभिधानादिकमेव स्तुत्यादि तथापि इष्टादिकथनं स्तुत्यादौ पर्यवस्यतीति तात्पर्यम्। फलमात्रा-दिति। असाधने प्रत्यवायवचनादिरहितादित्यर्थः। यद्वा फलवत्वरूपफलमात्रात्फलोक्तिरूपार्थवादस्य प्राबल्यमित्यर्थः। सर्वमूलत्वेनेति। उपक्रमादीनां व्याप्तिबलेनार्थगमकत्वलाभ एव तात्पर्यज्ञापकत्वेन सर्वत्र स्वस्वरूपाधायकत्वेन सर्वमूलत्वेनेत्यर्थः।

ननूपक्रमादीनां वाक्यशेषत्वात्कथं लिङ्गत्वमित्यतश्चतुर्थपादं व्याचष्टे। एतत्सर्वमिति। उत्तरोत्तर-प्राबल्योक्तेरुपयोगमाह। विरोधे त्वित्यादिना। दुर्बलबाधकतयेति। उक्तरीत्या दुर्बलोपक्रमादिबाधकतया प्रबलोपसंहारादिकं निर्णायकमित्यर्थः। साम्य इति। उपक्रमे एकविषये बहुश्रुतिः। उपसंहारेऽन्यविषये एकैव श्रुतिरिति। एकस्य बहुत्वेनापरस्य जात्या प्राबल्यमिति साम्यम् इत्यर्थः। यद्वा द्वयोरप्युपक्रमादि-स्थतया साम्य इत्यर्थः। स्वभावदुर्बलेनापीति। उपक्रमादिनेत्यर्थः। स्वभावप्रबलस्योपसंहारादेः। एवमेकेनेति। एवंविधेन निरवकाशनैकेन श्रुत्यादिना उपक्रमे मध्ये उपसंहारे वा विद्यमानेन तत्रैव विद्यमानानामन्यपराणां सावकाशानां श्रुत्यादीनां बाध इत्यर्थः। अन्यथेति। द्वयोरपि निरवकाशत्व इत्यर्थः। वाक्याप्रामाण्येति। उपक्रमाद्यवान्तरवाक्याप्रामाण्येत्यर्थः। अर्थान्तरकल्पनम् इति। व्याख्यात्रा बलादर्थान्तरे लक्षणादिनाऽर्थान्तरकरणमित्यर्थः। यथा स्वभावप्रबलोपपत्तिविरोधेन तत्वमसीति सामानाधिकरण्येनैक्यपरवाक्यस्य तत्सदृशस् त्वमसीति गौणार्थग्रहणमिति भावः। अर्थान्तरवाचित्वमिति। व्याख्यातृव्यापारमनपेक्ष्य स्वरसतोऽर्थान्तरशक्तिरित्यर्थः। यथा तत्रैवातत्वमसीति पदविभागेन भेदपरत्वम्। यथा वा नित्यं हरिर्यच्चरणाभिवन्दनादित्यादौ हर्यादिशब्दानां स्वत एवेन्द्रादिपरत्वमिति।

ननूत्तरत्र श्रुतिलिङ्गसमाख्यावाक्यप्रकरणस्थानैरपि निर्णयो दृश्यत इति कथं सप्तानामेवोक्तिरित्यत आह। अत्रेति। तुशब्दो भाष्ये अवधारणार्थतया तदेवेति व्याख्यात इत्यभिप्रेत्य तद्व्यावर्त्यम् अज्ञानां प्रतीयमानमपीति भाष्य एव व्यक्तमिति भावेन व्याचष्टे। पाशुपतादीति।

उपक्रमादीति प्रसिद्धं पदं परित्यज्य यौगिकान्वयपदग्रहणकृत्यमाह। पाशुपताद्युक्त्यादेरिति। भाष्यं समग्रं सूत्रारूढं दर्शयति। तैश्चेति। सम्यङ्निरूप्यमाण इति भाष्यं सूत्रे समित्यनन्तरं निरूप्यमाणेति शेषपरमित्यभिप्रेत्य तस्य विशेष्यापेक्षायामाह। शास्त्र इति। ततश्चायं सूत्रार्थः। अन्वयादुपक्रमादिलिङ्गैः सम्यक् शास्त्रे प्रविचार्यमाणे सति समन्वयात् सर्वेषां शब्दानां शक्तितात्पर्याभ्यां परमात्मन्यन्वयात् सम्बन्धावगमात् तदेव ब्रह्म ‘सं’ शास्त्रयोनि सकलशास्त्रमुख्यप्रतिपाद्यमिति। व्यक्तमेव तत्सुधायाम्। अन्वयशब्दस्योपक्रमाद्यर्थत्वं भाष्ये स्पष्टम्। संशब्दस्यावृत्या शास्त्रे विचार्यमाण इत्यध्याहृतसम्बन्धोऽपि। तैः सम्यक्प्रविचारित इत्येतद्व्याख्यापरसुधानुसारेण स्पष्टः। तमेव समन्वयं प्रकटयतीत्युत्तरभाष्य-पर्यालोचनयाऽन्वयादित्यस्यावृत्या सर्वशब्दानां परमात्मन्येव शक्तितात्पर्याभ्यां सम्बन्धादित्यपि लभ्यते। शास्त्रयोनीत्यनुवृत्तिस्तु स्फुटा। ‘सं’शब्दस्य पुनर्द्विरावृत्या सकलशास्त्रेति मुख्येति चार्थलाभस्तु ईक्षत्यधिकरणे तदुभयाक्षेपेणात्र भाष्ये च मां विधत्त इत्यादिप्रमाणोपन्यासेन ज्ञायत इति। अत एव मां विधत्त इत्यादिभाष्यमुन्मूलमिति निरस्तम्। अप्रियादपोह्य इति अभिप्रायात्सुरापानादेरहमपोह्यः व्यावर्त्यः न तु सोमपानादिव पूज्यः। तथा च भगवत्प्रीत्यै न सुरां पिबेदिति लभ्यत इति भावः। इत्यस्या इत्यत्रेतिशब्दार्थमाह। एवमिति। इत्यस्या इत्यत्र विद्यमानेतिशब्दस्येति हृदयमित्यनेनान्वयमाह। इत्यभिप्रायमिति।

ननु जन्मादिकारणत्वपराणां वाक्यानां समन्वयप्रतिज्ञानं सूत्रे सङ्गतं किं सर्वशब्दसमन्वय-प्रतिज्ञानेनेत्यत आह। जन्मादिकारणत्वोक्त्युपलक्षितेति। स्पष्टमेतदनुव्याख्याने। ‘जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये। ब्रह्मणो लक्षणं प्रोक्तम्’ इत्यादिना।

तत्त्वसुबोधिनी

॥ ॐ तत्तु समन्वयात् ॐ॥ श्रुत्यधिकरणसङ्गती दर्शयति। कारणस्येति। तद्यदेति। तथा च यत्पूर्वाधिकरणे शास्त्रयोनित्वेन जगत्कारणत्वमुक्तं तस्यातिव्याप्त्या पूर्वपक्षोत्थानाद् अनन्तरसङ्गतिरिति भावः। पूर्वपक्षमुपपादयति। पाशुपतादीति। न च तस्येति। पाशुपतादिशास्त्रस्येत्यर्थः। तेषामिति। रुद्रादीनामित्यर्थः। अस्तु रुद्रादीनामिति। पाशुपतादेरिति शेषः। उक्तरीत्येति। साङ्ख्ययोग इत्युक्तरीत्या इत्यर्थः। ननु प्रतीतिसध्रीचीनस्य पाशुपतादेः प्रामाणान्तरासिद्धेति। प्रमाणलक्षण-टीकारीत्याऽत्रापि प्राचुर्येणेत्यपि ग्राह्यम्। अन्यथा प्रमाणसम्प्लववादिनाम् अस्माकं मते असम्भवः स्यात्। तदुक्तरीत्या ऐकरूप्यमप्यत्र सङ्ग्राह्यम्। अथवा उपक्रमोपसंहारावित्यत्र उपक्रमश्चोपसंहारश्च उपक्रमोपसंहारौ मिलिताविति व्याख्यानविवेकेनैव तदपि लब्धमिति बोध्यम्। कर्तृनामनिर्देशपूर्वकम् इतिहासः परकृतिः। सामान्यतः कथाकथनं पुराकल्पः। उपक्रमादीनामिति। उपक्रमादीनाम् इदमेतत्परम् अबाधे सत्येतदुपक्रमत्वादित्यादिरूपेण महावाक्यतात्पर्यनिर्णये उपपत्तित्वेऽपि स्वार्थे आगमत्वमेव नैवमुपपत्तौ। किन्तु स्वार्थेऽपि लिङ्गरूपा तात्पर्येऽपि अयं तात्पर्यविषय उपपन्नत्वादित्यनेन रूपेण लिङ्गरूपैवेति विशेषात् पृथगुक्तिरिति भावः। ननु तात्पर्यनिर्णायकेषु उपक्रमस्य प्रथमत्वाद् अन्वय उपक्रमादि लिङ्गमिति वक्तव्यम्, उपपत्त्यादि लिङ्गमिति कथमुक्तमित्यत आह॥ उपक्रमादीनामिति॥ उपक्रमादीनां सङ्गाहकं यदुपपत्तेरादित्वेन ग्रहणं तस्य उत्तरोत्तरप्राबल्यज्ञापनार्थत्वान्नानुपपत्तिरिति भावः। उत्तरोत्तरप्राबल्यमेवोपपादयति। उपसंहारस्येत्यादिना। मुख्यस्येति। प्राचुर्येणाप्राप्तस्येत्यर्थः। फलमात्रादिति। असाधने प्रत्यवायवचनादिरहितादित्यर्थः। नन्वेषां परस्परविरोधे कथं निर्णय इत्यत आह। विरोधे त्विति। समत्त्वे कथं निर्णय इत्यत आह। साम्य इति। उपक्रमादिद्वयस्य समस्तविरोधे निरवकाशेन सावकाशं बाध्यत इत्यर्थः। एकस्य बहुत्वेन प्राबल्यमेकस्य जात्या प्राबल्यमिति वा उपपत्त्यादीनां श्रुत्यादिभिः सह यथा साम्यमिति वा द्रष्टव्यम्। स्वभावदुर्बलेनेति। उपजीव-कत्वादिनेति शेषः। स्वभावप्रबलस्येति। उपजीव्यत्वादिनेति शेषः। निरवकाशस्य एकस्य सावकाशानेक विरोधे कथं निर्णय इत्यत आह। एकेनेति। निरवकाशेनेत्यनुवर्तते। अन्यथेति। द्वयोरपि निरवकाशत्वे इत्यर्थः। अर्थान्तरकल्पनमिति। व्याख्यात्रा कर्तव्यमित्यर्थः। तथा चेदं दुर्बलत्वमिति भावः। स्वयमर्थान्तरवाचित्वमिति। व्याख्यातृव्यापारमनपेक्ष्येत्यर्थः। अत्र श्रुत्यादिषट्कं च ग्राह्यमिति। अत्र सूत्रे अर्थनिर्णायकश्रुत्यादिकमपि विवक्षितमिति नानुपपत्तिरिति भावः। अत्र सूत्रे उपक्रमादिति प्रसिद्धं पदं परित्यज्य यौगिकान्वयपदग्रहणेनेदं सूचितम्। शास्त्रस्यास्मिन्नर्थे तात्पर्यमस्तीति ज्ञाने आपातप्रतीतिर् व्याख्यातृवचनं वा न लिङ्गं किन्तु उपक्रमादय एव तेषामव्यभिचारित्वात् प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात्। यत्रापि तयोर् न व्यभिचारस् तत्रापि उपक्रमाद्यनुसन्धान-पूर्वकत्वादेव इत्युपजीव्यत्वाद् उपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति। संशब्दस्य त्रयोऽर्थाः। वचन-वृत्येति। सर्वेति। सम्यगिति। तत्र सम्यगित्यस्याध्याहृतप्रविचारित इति क्रियया सम्बन्धः। सम्यक्प्रविचारणं च उपक्रमादीनां श्रुत्यादीनां च सावकाशत्वादिना बलाबलनिश्चयपुरःसरं दुर्बलेन प्रबलाबाधेन वाक्यार्थविमर्श एव। अन्वयादित्येकवचनं समुदायार्थम्। तेन च तेषाम् अविरोधः सूचितो भवतीति। शास्त्रयोनीति पूर्वसूत्रादनुकर्षः। तच्छब्दार्थो ब्रह्म। तुशब्दोऽवधारणे। अन्वयादित्य-स्यावृत्तिः। तथा चैवं सूत्राक्षरार्थः सम्पन्नः। अन्वयादुपक्रमादिलिङ्गसमुदायात् शास्त्रे सम्यक् प्रविचारिते सति सर्वशास्त्रस्य भगवत्येव सम्यक् वचनवृत्त्या अन्वयात् शक्तितात्पर्यार्थलक्षणसम्बन्धावगमात् तद्विष्णाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हरादय इति। न च जन्माद्यस्य यत इति यच्छब्दश्रवणात् तद्ब्रह्मेति प्रकृतं तदेवानुवर्तिष्यत इति किन्तच्छब्दग्रहणेनेति वाच्यम्। तुशब्दस्तावदितरव्यावृत्यर्थ-मवश्यापेक्षितः। तत्र तच्छब्दाभावे तस्यान्वयो न ज्ञातुं शक्यते यतोऽवधारणं ततोऽन्यत्र निषेध इति वचनात्। न चानुवृत्तेनान्वय इति वाच्यम्। श्रुतेनान्वयादित्यनेनैव सम्बन्धप्रतीतिप्रसङ्गात्। न च तदनुपयोगः। प्रतीतिव्याख्याननिरासस्यैव प्रयोजनवत्वात्। तथा च तन्निरासाय सूत्रे तच्छब्दग्रहणं सार्थकमिति। कर्मविधात्रीति। योग्यतया कर्मणां कार्यत्वेन सम्बन्धः। मां प्रत्येवेति। मदर्थमेवेत्यर्थः। अप्रियादपोह्य इति। सुरापानादिकं मदप्रीतिसाधनत्वान्निषिध्यत इत्यर्थः। इत्यस्या इत्यत्र इतिशब्दं व्याचष्टे। एवम्भूताया इति। कर्मविधात्र्यादिरूपाया इत्यर्थः। इत्यभिप्रायम् इति। अनेन अस्या हृदयमित्यनयोर्मध्ये मां विधत्ते मां विकल्पोऽपोह्य इत्येतद् योजनीयमित्युक्तं भवति। उपलक्षितानन्तेति। अस्मिन्नधिकरणे शास्त्रपदवाच्यानन्तवेदादिसदागमानां जन्मादिकारणत्वलक्षणतदितरानन्दादि-गुणप्रतिपादकानां समन्वयस्योक्तत्वादिति भावः॥

वाक्यार्थविवरणम्

भवति अस्ति। अन्यथेति॥ उभयोरपि निरवकाशत्वे परस्परविरोधेन वाक्याप्रामाण्यापत्तेरिति भावः॥ अर्थान्तरकल्पनमिति॥ यथा एकीभवन्तीत्यादेः स्वभावप्रबलेन द्वा सुपर्णेत्यादिवेदवाक्येन विरोधे सति तत्प्रामाण्याय स्थानैक्यादिरूपार्थान्तरव्याख्यानं तथाऽत्र कर्तव्यम्। न सोऽर्थः पदमहिम्ना लभ्यते इति यावत्। सावकाशत्वं तु स्वयमेव व्याख्यातृव्यापारमनपेक्ष्यैव पदमहिम्नैवार्थान्तरवाचित्वम्। यथेन्द्रादिशब्दानां महोयोगवृत्त्या भगवद्वाचित्वम्। तथा च स्वभावप्रबलेन दुर्बलस्य बाधे सति तत्प्रामाण्याय व्याख्यात्रा कल्प्यमानार्थान्तरत्वं दुर्बलत्वम्। व्याख्यातृव्यापारमनपेक्ष्य स्वमहिम्नै-वार्थान्तरवाचित्वं सावकाशत्वमित्यर्थः। दुर्बलत्वलक्षणे कल्पनापदोपरि भारः। सावकाशत्वलक्षणे वाचित्वपदोपरि भार इति द्रष्टव्यम्॥ ४॥

वाक्यार्थमञ्जरी

जगत्कारणत्वेन जगत्कारणत्वमित्यनेन प्रकारेण। एवमग्रेऽपि। तज्जगत्कारणत्वेन शास्त्रयोनित्वम्। पूर्वोक्तिः कारणस्य शास्त्रयोनित्वाद्विष्णुरेव कारणमित्युक्तिः। प्रतीतिः ‘‘एको रुद्रो न द्वितीयोऽवतस्थे’’ ‘एको नारायण आसीदि’त्यादिना। अप्रमाण्येन नैव शास्त्रं कुवर्त्म तदित्युक्तरीत्या। प्रतीतिसध्रीचीन-स्येति। प्रतीतिसाहित्येन समीचीनस्येत्यर्थः॥

ॐ तत्तु समन्वयात् ॐ॥ जन्मादिकारणत्वेन शास्त्रगम्यं तत्तु विष्ण्वाख्यं ब्रह्मैव कुतः समन्वयाद् बलाबलत्वादिना सम्यग्विचारितोपक्रमादिप्रमाणादित्यर्थः। प्रकरणादिरुपक्रमस् तदन्त उपसंहार इत्यस्य स्फुटत्वादभ्यासादेर्लक्षणमाह। एकप्रकारेत्यादिना। असकृद् अनेकवारं यथा अहो दर्शनीयाऽहो दर्शनीयेत्यादि। ननु समिधो यजति इडो यजति तनूनपातं यजति बर्हिर्यजति स्वाहाकारं यजति इति भिन्नप्रकारयुते अभ्यासे इदं लक्षणमव्याप्तम्। न च तत्रापि यजत्यंशे एकप्रकारोऽस्तीति वाच्यम्। तथात्वे घटोऽस्ति पटोऽस्ति इत्यत्रातिव्याप्तेः। तत्राप्यस्तित्वांशे एकप्रकारोक्तिसत्वादिति चेत्। सत्यम्। अभ्यासो द्विविधस् तात्पर्यनिश्चायकः कर्मभेदप्रयोजकश्च। तत्राद्य एकप्रकारासकृदुक्तिरूपः। अपरस्त्वसकृदुक्तिमात्ररूपः। इदानीं तात्पर्यनिश्चायकस्यैव लक्ष्यत्वान्नेतरत्रातिव्याप्तिरिति॥ प्रमाणान्तरेणासिद्धार्थतेति॥ प्रमाणान्तरेणाग्राह्यतेत्यर्थः। यथेश्वरसार्वज्ञप्रतिपादकं यः सर्वज्ञ इत्यादि। नन्वेतदनुपपन्नम्। ईश्वरसार्वज्ञस्य स्मृतिवाक्येन कार्यत्वाद्यनुमानेन च प्राप्तत्वेन मानान्तराप्राप्तत्वाभावादिति चेन्न। प्रमाणलक्षणटीकानुसारेण प्राचुर्येणेति पूरणात्। तथा च स्वबोधनीयपुरुषगताज्ञानादिविरोधिना स्वानुपजीविमानान्तरेणाग्राह्यार्थत्वं पर्यवस्यति। अस्यार्थः स्वं शब्दस्तेन बोधनीयो यः पुरुषस्तद्गतं यदज्ञानादि तद्विरोधिनां स्वं शब्दस्तदनुपजीविमानान्तरेणाग्राह्यार्थत्वमिति। अत्र स्वानुपजीवि-मानान्तरेणेत्यनेनोक्तचोद्यनिरासः। स्मृतिवाक्यकार्यत्वाद्यनुमानयोः शब्दोपजीवित्वात्। तावन्मात्रस्य लक्षणत्वे असम्भवः सार्वज्ञादिरूपवेदार्थस्य शब्दानुपजीवीश्वरप्रत्यक्षग्राह्यत्वात्। अतः स्वबोधनीय-पुरुषगताज्ञानादिविरोधिनेति। ईश्वरस्य वेदबोधनीयत्वाभावाद् वेदबोधनीयास्मदादिगताज्ञानादिकं प्रतीश्वरप्रत्यक्षस्य विरोधित्वासम्भवाच्चासम्भवपरिहारः। टीकानुसारेण प्रमाणान्तराप्राप्तार्थत्वमित्युक्ते प्रत्यक्षापेक्षया पूर्वं प्रवृत्ते अग्निर्हिमस्य भेषजमित्यादिवाक्येऽतिव्याप्तिः। तत्रापि स्वबोधनीयपुरुष-गताज्ञानादिविरोधिना स्वानुपजीविना स्पार्शनप्रत्यक्षेण वह्न्यौष्णस्याप्राप्तत्वात्। अतो मानान्तराग्राह्येति। औष्ण्यस्य प्रत्यक्षाप्राप्तत्वेऽपि तद्ग्रहणयोग्यत्वेन तदग्राह्यत्वाभावान्नातिव्याप्तिरिति। फलवत्वमिति। फलप्रतिपादकत्वमित्यर्थः। यथाऽमृतो वाव सोमपोऽभवतीत्यादिरर्थवाद इत्यभियुक्तप्रयोगो वा विधिशेषत्वं वाऽर्थवाद इति तल्लक्षणस्य स्फुटत्वात् तद्विशेषानेवाह॥ स्तुतिरिति॥ वायुर्वै क्षेपिष्ठा देवतेत्यादि स्तुतिः। प्लवा ह्येते अदृढा यज्ञरूपा इत्यादि निन्दा। कर्तृनामनिर्देशपूर्वकमितिहासः परकृतिः। यथा जनको वैदेह आसाञ्चक्रेत्यादि। सामान्यतः कथाकथनं पुराकल्पः। यथाऽत्र य उद्गीथे कुशला बभूवुरित्यादि।

युक्तिरिति॥ पूर्णत्वापूर्णत्वाभ्यां जीवेशभेदप्रतिपादकम्। भिन्नोऽचिन्त्यः परमो जीवसङ्घात् पूर्णः परो जीवसङ्घोह्य पूर्ण इत्यादि।

उपक्रमोपसंहाराविति भाष्ये प्रत्येकविवक्षया द्वाविव समुदायविवक्षया तदैकरूप्यमपि विवक्षितम्। तट्टीकायां तदनुक्तिश्च कण्ठतोऽनुक्तत्वादिति ध्येयम्। ननूपक्रमादीनामुपपत्तेः सकाशात् पृथगुक्तिरयुक्ता। इदं वाक्यमेतत्परम् अबाधे सत्येतदुपक्रमवत्वादित्यादिरूपेण तेषामपि महावाक्यतात्पर्ये उपपत्तिरूपत्वादित्यत आह॥ उपक्रमादीनामिति॥ सन्न्यासिनां ब्राह्मणत्वेऽपि ब्राह्मणे अविद्यमानदण्ड-मुण्डतादिविशेषवत्वाद्यथा पृथगुक्तिस् तथोपक्रमादीनां तात्पर्यनिर्णये उपपत्तित्वेऽपि अवान्तरवाक्यार्थ-रूपस्वार्थे आगमरूपत्वम्। उपपत्तेश्च अयं तात्पर्यविषय उपपन्नत्वादिति तात्पर्यनिर्णय इव ईश्वरो भिन्नः पूर्णत्वादित्यादिस्वार्थेऽप्युपपत्त्यात्तिरूपत्वम्। अतो विशेषादुपपत्तेः सकाशादुपक्रमादेः पृथगुक्ति-रित्यर्थः। उदाहृतवाक्ये उपक्रमस्य प्राथम्यश्रवणादन्वय उपपत्त्यादि लिङ्गमिति कथमुक्तमित्यत आह। उपक्रमादीनामिति॥ अत्रानुव्याख्यानसंमतिमाह॥ उपक्रमेति॥ उत्तरोत्तरप्राबल्यमुपपादयति। उपसंहारस्येत्यादिना॥ व्याख्यानरूपत्वेनेति॥ तत्सत्यमित्युपक्रमे श्रुतसत्यशब्दव्याख्यानं सदिति प्राणो ऽतीत्यन्नं यदित्यासवादित्य इत्युपसंहारेण क्रियते। अन्यथा प्रथमप्राप्तोपक्रमेणैवार्थबोधे प्रयोजनान्तराभावेनोपसंहारस्य वैय्यर्थ्यं स्यादिति भावः॥ उपक्रमाप्रामाण्येति॥ निश्चितप्रामाण्य-व्याख्यानानुसारेण निश्चेतव्यप्रामाण्यव्याख्येयबाधस्य न्यायत्वादिति भावः॥ प्राबल्यमिति॥ सत्यशब्दादन्यप्राप्तिनिषेधकोदाहृतस्थल एव दृष्टत्वादिति भावः। बहूक्तेः प्राबल्यादिति॥ बहुबाधस्यान्याय्यत्वादिति भावः॥ प्राबल्यमिति॥ यथा ‘‘तस्यैष एव शारीर आत्मे’’ति शारीरशब्द-बलाज्जीवप्रापकोपसंहारापेक्षया ‘‘असद् ब्रह्मेति वेद चेदस्ति ब्रह्मेति चेद्वेदेति’’ ब्रह्मशब्दाभ्यासस्य प्राबल्यम्। अत्रोपक्रमात्प्राबल्यकथनं वस्तुस्थितिप्रदर्शनार्थं न त्वावश्यकम्। उपसंहाराधिक्येनैवोप-क्रमाधिक्यसिद्धेः। उपसंहाराधिक्यस्यैवोपपादनाच्च। एवमग्रेऽपि॥ मुख्यस्येति॥ प्राचुर्येणाप्राप्तस्येत्यर्थः। असकृदावृत्तस्यापि सम्भवदनेकार्थस्य स्वारसिकप्राप्तार्थत्यागेनावैय्यर्थ्यायाप्राप्तार्थताया आवश्यकत्वादिति भावः॥ प्राबल्यमिति॥ यथा ‘‘जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः। जीवे तु लयमिच्छन्ति’’ इति जीवशब्दाभ्यासापेक्षया प्रत्यक्षसिद्धं यत्किञ्चिद्भूतकर्तृजीवं विना ब्रह्मग्रहणेनापूर्वतायाः प्राबल्यम्॥ उद्देश्यत्वादिति॥ अपेक्ष्यत्वादित्यर्थः। अप्राप्ते निष्फले तात्पर्यादर्शनात् प्राप्तेऽपि सफले तात्पर्य-दर्शनादिति भावः॥ प्राबल्यमिति॥ यथा ब्रह्मोत्पत्तिप्रतिपादकत्वेनापूर्वतायुक्तादप्यसतः सदजायतेति वाक्याद् ब्रह्मानुत्पत्तिप्रतिपादकत्वेन तत्प्रीत्या मोक्षरूपफलवतः सदेव सौम्येति वाक्यस्य प्राबल्यम्॥ फलमात्रादिति॥ इष्टानिष्टकथनशून्यादित्यर्थः॥ प्राबल्यमिति॥ यथामृतो वावेति फलवाक्यात्काम्यकरणे अनिष्टकथनस्य प्लवा ह्येते अदृढा यज्ञरूपा इति निन्दारूपार्थवादस्य प्राबल्यम्॥ सर्वमूलत्वेनेति॥ उक्तरीत्योपक्रमादेरप्युपपत्तिरूपेण तात्पर्यनिश्चायकत्वादिति भावः॥ प्राबल्यामिति॥ यथा तस्य तावदेव चिरमित्याद्यर्थवादोपेतादप्यभेदवाक्याद्भिन्नोऽचिन्त्य इत्यादिसोपपत्तिकभेदश्रुतेः प्राबल्यम्। लिङ्गमित्येकवचनं घटयंश्चतुर्थपादार्थमाह॥ एतदिति॥ यदर्थमुत्तरोत्तरप्राबल्यनिरूपणं तदाह। विरोध इत्यादिना बाध इत्यन्तेन। उपक्रमादिष्वन्योन्यविरोध इत्यर्थः। एतदुदाहरणं पूर्वोक्तमेव ध्येयम्॥

साम्य इति॥ उपक्रमादिद्वयस्योपसंहारद्वयस्य वा समस्य विरोधे निरवकाशेन सावकाशं बाध्य-मित्यर्थः। यथा प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति प्राणब्रह्मणोरुपक्रमेऽपि श्रुतिलिङ्गादिना निरवकाश-ब्रह्मोपक्रमेण प्राणोपक्रमबाधः॥ स्वभावेति॥ उपक्रमादावुत्तरत्वं स्वभावप्राबल्यनियामकम्॥ बाधो भवतीति॥ यथाऽदितेरदितित्वमिति स्वभावप्रबलोपसंहाराददितिप्रतीतावपि नैवेह किञ्चनेति निरवकाशोपक्रमेण सावकाशोपसंहारस्य बाधः। एकेन निरवकाशेन अनेकेषां सावकाशानां बाध इति। यथा एकमेवाद्वितीयं तत्त्वमस्यथ सम्पत्स्यत इत्यभेदप्रापकाणां क्रमेणोपक्रमोपसंहारफलानां शकुनिसूत्रदृष्टान्तोपपादकभेदोपपत्त्या बाधः। ननु बाधे सत्यर्थान्तरपरत्वं सावकाशत्वं दुर्बलत्वमपीदमेव। अर्थान्तरपरत्वाभावो निरवकाशत्वम्। प्राबल्यमपीदमेवातो बाध्यत्वे सावकाशत्वं बाधकत्वे निरवकाशत्वं प्रयोजकमित्येव वाच्यम्। न तूभयोरुभयत्र प्रयोजकत्वमिति शङ्कते॥ नन्विति॥ निर्णयः। बाध्य-बाधकव्यवस्था। अन्यथा द्वयोरपि निरवकाशत्वे॥ वाक्येति॥ उपक्रमाद्यवान्तरवाक्येत्यर्थः। वाक्यार्थे द्वैरूप्यायोगादिति भावः। अर्थान्तरपरत्वसाम्येऽपि व्याख्यातृव्यापारसापेक्षत्वनिरपेक्षत्वाभ्यां विशेष इत्याह॥ मैवमिति॥ अर्थान्तरकल्पनमिति॥ बलाल्लक्षणादिनाऽर्थान्तरकल्पनं व्याख्यात्रा कार्यमित्यर्थः। इदं दुर्बलत्वं नाम यथोपजीव्यत्वादिना प्रबलभेदग्राहिसाक्ष्यादिप्रमाणविरोधेन तत्त्वमसी-त्यादेः सादृश्ये लक्षणा। स्वयं व्याख्यातृप्रयासमनपेक्ष्य यथा निरवकाशपरोवरीयस्त्वादिलिङ्गविरोधे-नाकाशश्रुतेरासमन्तात्काशत इत्याकाश इति योगेन विष्णुपरत्वम्। सावकाशत्वदुर्बलत्वयोर्भेदे तद्विरुद्धनिरवकाशत्वप्राबल्ययोर्भेदः स्फुट एवेति नोक्तः। ननूपक्रमादीनां सप्तानामेव तात्पर्यलिङ्गत्वे कथमुत्तरत्र श्रुत्यादिना निर्णय इत्यत आह॥ अत्रेति॥ उपपत्त्यादीति॥ भाष्ये आदिपदार्थत्वेनेत्यर्थः। तत्स्वरूपं वामनाधिकरणे स्फुटीभविष्यतीति भावः। तर्ह्युपक्रमादिभिरेव रुद्रादिनिर्णयोऽस्त्वित्यह आह॥ तैश्चेति॥ कर्मविधात्री प्रातः सन्ध्यामुपासीतेत्यादिका। विष्णोः सिद्धत्वेन विधेयत्वाभावादाह॥ मां प्रत्येवेति॥ मत्प्रीत्यर्थमेव कर्मादि विधत्त इत्यर्थः। इन्द्राद्यभिधात्री। इन्द्र श्रेष्ठानीत्यादिका। मामभिधत्ते परममुख्यवृत्त्या। विविधरूपत्वेन वासुदेवादिरूपत्वेन। कल्प्यः ज्ञेयः। अप्रियत्वादपोह्य इति मदप्रीतिसाधनत्वादेव सुरापानादिकं निषिध्यत इत्यर्थः। इत्यस्या इत्यत्रेतिशब्दं व्याचष्टे॥ एवम्भूताया इति॥ इत्याभिप्रायमिति॥ अनेनास्या हृदयमित्यनयोर्मध्ये मां विधत्त इत्यादि योज्यमित्युक्तं भवति॥ उपलक्षितानन्तेति॥ अस्मिन्नधिकरणे शास्त्रपदवाच्यानन्तवेदादिसदागमानां जन्मादिकारणत्वादिलक्षणं तदितरानन्दादिगुणप्रतिपादकानां समन्वयस्योक्तत्वादिति भावः॥ ४॥

विवृतिः

श्रुत्यधिकरणसङ्गती दर्शयति॥ कारणस्येति॥ तद्यदेति॥ तथा च पूर्वाधिकरणे शास्त्रयोनित्वेन जगत्कारणत्वमुक्तम्। तस्यातिव्याप्त्या पूर्वपक्षोद्धारादनन्तरसङ्गतिरिति भावः। पूर्वपक्षमुपपादयति॥ पाशुपतादीति॥ न च तस्येति॥ पाशुपतादिशास्त्रस्येत्यर्थः॥ असाधकत्वं रुद्रादेः कारणत्वा-साधकत्वम्॥ तेषामिति॥ रुद्रादीनामित्यर्थः॥ अस्तु रुद्रादीनां कारणत्वेन प्रतीतिः। ततः किमित्यत आह॥ प्रतीतीति॥ पाशुपतादेरिति शेषः॥ उक्तरीत्येति॥ साङ्ख्यं योग इत्युक्तरीत्येत्यर्थः॥ ननु प्रतीति सध्रीचीनस्य पाशुपतादेः प्रामाण्योपपत्तिरित्युक्तमित्यत आह॥ प्रतीतेरिति॥ प्रमाणान्तरसिद्धेति॥ प्रमाणलक्षणटीकारीत्याऽत्रापि प्राचुर्येणेत्यपि ग्राह्यम्॥ अन्यथा प्रमाणा-सम्भवादीनामस्माकं मतेऽसम्भवः स्यात्। तदुक्तरीत्या ऐकरूप्यमप्यत्र सङ्ग्राह्यम्। अथवोपक्रमोप-संहारावित्यत्रोपक्रमश्चोपसंहारश्चोपक्रमोपसंहारौ मिलिताविति व्याख्यानविवेकेनानेनैवैतदपि लब्धमिति बोध्यम्। कर्तृनामनिर्देशपूर्वकमितिहासः परकृतिः, सामान्यतः कथाकथनं पुराकल्पः। ननु उपक्रमादीनामुपपत्तित्वादुपपत्तिग्रहणैनैवोपक्रमादिग्रहणे सिद्धे तेषां पृथगुक्तिर्व्यर्थेत्यत आह॥ उपक्रमादीनामिति॥ उपक्रमादीनां तात्पर्यार्थनिर्णये उपपत्तित्वेऽपि स्वार्थे आगमत्वमेव नैवमुपपत्तेरिति विशेषात् पृथुगुक्तिरिति भावः॥

ननु तात्पर्यनिर्णायकेषूपक्रमस्य प्रथमत्वादन्वय उपक्रमादिलिङ्गमिति वक्तव्यम्, उपपत्यादिलिङ्गमिति कथमुक्तमित्यत आह॥ उपक्रमादीनामिति॥ उपक्रमादीनाम्। सङ्ग्राहकं यदुपपत्तेरादित्वेन भाष्यं तदित्यर्थः॥ तेषामुपक्रमादीनां तथा चोपपत्तेरादित्वेन ग्रहणस्योत्तरोत्तरप्राबल्यसूचनार्थत्वान्नानुपपत्तिरिति भावः। ब्राह्मणपरिव्राजकन्यायेनेति॥ उपक्रमादीनां तात्पर्यनिर्णये उपपत्तित्वेति स्वार्थे आगमत्वमेव नैवमुपपत्तेरिति विशेषादिति भावः॥ उत्तरोत्तरप्राबल्यमेवोपपादयति॥ उपसंहारस्येत्यादिना॥ मुख्यस्येति॥ प्राचुर्येण प्राप्त्यस्येत्यर्थः॥ मूलमात्रादिति॥ असाधने प्रत्यवायवचनादिरहितादित्यर्थः॥ नन्वेषां परस्परविरोधे कथं निर्णय इत्यत आह॥ विरोधे त्विति॥ समत्वे कथं निर्णय इत्यत आह॥ साम्य इति॥ उपक्रमादिद्वयस्य समस्तविरोधे निरवकाशेन सावकाशं बाध्यत इत्यर्थः। एकस्य बहुत्वेन प्राबल्यमेकस्य जात्या प्रबलत्वमिति वोपपत्यादीनां श्रुत्यादिभिः सह यथा साम्यमिति द्रष्टव्यम्। निरवकाशस्यैकस्य सावकाशानेकविरोधे कथं निर्णय इत्यत आह॥ एवमेकेनेति॥ निरवकाशेनेत्यनुवर्तते॥ अन्यथेति॥ द्वयोरपि निरवकाशत्व इत्यर्थः॥ अर्थान्तरकल्पनमिति॥ तथा चेदमेव निरवकाशत्वम्। एवं च स्वभावप्रबलेनापि निरवकाशेन स्वभावदुर्बलस्यापि निरवकाशस्य बाधे तस्य व्याख्यात्राऽर्थान्तरकल्पनं कर्तव्यमित्युभयोर्निरवकाशत्वेऽपि नोक्तवाक्याप्रामाण्यदोष इति भावः॥ अत्रेति। अर्थनिर्णायकमिति शेषः। श्रुत्याद्यनुगुणेऽर्थे उपक्रमादिना तात्पर्यनिर्णय इत्यर्थः॥ अन्यथा श्रुत्यादि विरोधे लिङ्गादेः प्रामाण्यमेव न स्यादिति भावः॥ अत्र श्रुत्यादिषट्कञ्च ग्राह्यमिति॥ अत्र सूत्रे अर्थनिर्णायकं श्रुत्यादिकमपि विवक्षितमिति नानुपपत्तिरिति भावः॥ अत्र सूत्रे उपक्रमाति प्रसिद्धं पदं परित्यज्य यौगिकान्वयपदग्रहणेनेदं सूचितं शास्त्रस्यास्मिन्नर्थे तात्पर्यमस्तीति। ज्ञाने आपातप्रतीतिर्वा व्याख्यातृवचनं वा न लिङ्गं किन्तूपक्रमादय एव। तेषामव्यभिचारित्वात्। प्रतीति-व्याख्यानयोस्तु व्यभिचारित्वात्। यत्रापि तयोर्न व्यभिचारस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वादेव, न स्वत इत्युपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति। संशब्दस्य त्रयोऽर्थाः॥ वचनवृत्येति॥ सर्वेति॥ सम्यगिति॥

अत्र सम्यगित्यस्याध्याहृतप्रविचारित इति क्रियया सम्बन्धः। सम्यक् प्रविचारणं चोपक्रमादीनां श्रुत्यादीनां च सावकाशत्वादिना बलाबलनिश्चयपुरःसरं दुर्बलेन प्रबलबाधया वाक्यार्थविमर्श एव। अन्वयादित्येकवचनं समुदायार्थम्। तेन च तेषामविरोधः सूचितो भवतीति॥ शास्त्रयोनीति पूर्वसूत्रा-दनुकर्षः। तच्छब्दार्थो ब्रह्म। तुशब्दोऽवधारणे। अन्वयादित्यस्यावृत्तिः। तथा चैवं सूत्राक्षरार्थः सम्पन्नः। अन्वयाद् उपक्रमादिलिङ्गसमुदायात् शास्त्रे सम्यक् प्रविचारिते सति सर्वशास्त्रस्य भगवत्येव सम्यक् वचनवृत्या अन्वयात् शक्तितात्पर्यलक्षणसम्बन्धावगमात्तद्विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हरादय इति। न च जन्माद्यस्य यत इति यच्छब्दश्रवणात् तद्ब्रह्मेति प्रकृतं तदेवात्रानुवर्तिष्यत इति किं तच्छब्दग्रहणेनेति वाच्यम्॥ तुशब्दस्तदितरव्यावृत्यर्थमवश्यापेक्षितः। तत्र तच्छब्दाभावे तस्यान्वयो ज्ञातुं न शक्यते। यतोऽवधारणं ततोऽन्यत्र निषेध इति वचनात्। न चानुवृत्तेनान्वय इति वाच्यम्। श्रुतेनान्वयादित्यनेन सम्बन्धप्रतीतिप्रसङ्गात्। न च तदनुपयोगः। प्रतीतिव्याख्याननिरासस्यैव प्रयोजनत्वात्। तथा च तन्निरासाय सूत्रे तच्छब्दग्रहणं सार्थकमिति॥ कर्मविधात्रीति॥ योग्यतया कर्मणां कर्मत्वेनैव सम्बन्धः। मां प्रत्येवेति॥ मत्प्रीत्यर्थमेवेत्यर्थः॥ अप्रियादपोह्य इति॥ सुरापानादिकं मदप्रीतिसाधनत्वान्निषिध्यत इत्यर्थः। इत्यस्या इत्यत्रेतिशब्दं व्याचष्टे॥ एवंभूताया इति॥ कर्मविधात्र्यादिरूपाया इत्यर्थः॥ इत्यभिप्रायमिति॥ अनेनास्या हृदयमित्यनयोर्मध्ये मां विधत्तेऽभिधत्ते मां विकल्प्योऽपोह्यः, इत्येतद्योजनीयमित्युक्तं भवति। उपलक्षितानन्तेति॥ अस्मिन्नधिकरणे शास्त्रशब्दवाच्यानन्तवेदादिसदागमानां जन्मादिकारणत्वादि लक्षणतदितरानन्दादिगुणप्रतिपादकानां समन्वयस्योक्तत्वाद् इति भावः॥

॥ इति समन्वयाधिकरणम्॥