ॐ शास्त्रयोनित्वात् ॐ
३. शास्त्रयोनित्वाधिकरणम्
सूत्रभाष्यम्
अनुमानतोऽन्ये न कल्पनीयाः।
॥ ॐ शास्त्रयोनित्वात् ॐ॥ ३॥
‘नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं साम्पराये’ (तै.ब्रा. ३-१२-९)॥ ‘औपनिषदः पुरुष’ इत्यादिश्रुतिभ्यश्च॥
न चानुमानस्य नियतप्रामाण्यम्॥
‘श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित्।
निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च॥
श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम्।
प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा॥
पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत्।
इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेदि’त्यादि कौर्मे॥
शक्यत्वाच्चानुमानानां सर्वत्र।
‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा।
तस्मान्न सा शक्तिमती विनागममुदीक्षितुम्।’ इति वाराहे।
सत्तर्कदीपावली
अधुना रुद्रादीनां जगत्कारणत्वमाशङ्क्य तत्परिहारत्वेन सूत्रमवतारयति॥ शास्त्रेति॥ यद्यनुमानेन जगत्कर्ता सिद्ध्येत् तर्ह्येव यत्कार्यं तत्सकर्तृकमिति व्याप्त्या क्षित्यादिकार्यस्यापि यः कश्चित्कर्ता सिद्ध्यन् रुद्रादिः परिशङ्कितः स्यात्। न त्वेतदस्ति शास्त्रैकसमधिगम्यत्वाज्जगत्कर्तुः। अतः शास्त्रं यं जगत्कर्तारं बोधयति स जगत्कर्ता स्यान्नापरः। शास्त्रैकवेद्यत्वं जगत्कर्तृः श्रुतिभिरुपपादयति। नावेदविदित्यादिना॥ सर्वमनुभवतीति सर्वानुभुं परमात्मानं साम्पराये तल्लोकमुद्दिश्य वेदविदेव मनुते न त्ववेदविदित्यनेन वेदैकवेद्यत्वमनुमानावेद्यत्वं च जगदीशितुरुक्तं भवति। पुरु सरणः परमपुरुषो जगत्कर्ता औपनिषद उपनिषदेकसमधिगम्य इत्युक्तं भवति। नैषा तर्केण मतिरापनेयेत्याद्या श्रुतिरादिशब्दोक्ता। इतोऽपि नानुमानं स्वतन्त्रमीश्वरं साधयति अनियतप्रमाणत्वाभावादित्याह॥ न चेति॥ एतदेव पुराणवचनेनोपपादयति॥ श्रुतीति॥ न ह्यनिश्चितार्थसाधकं प्रमाणं भवति। न च क्षित्यादेः कार्यत्वहेतुना घटवत्सकर्तृकत्वं निश्चेतुं शक्यम्। शरीरवत्कर्तृरहितत्वेन अकर्तृकत्वस्यापि सम्भवात्। जडशरीरादिमानीश्वरो अनुमानगम्योऽस्त्विति न वाच्यं प्रत्यक्षविरोधात्। अतः श्रुतिमनुसृत्यैव अत्यन्तातीन्द्रिये ईश्वरे प्रवर्तमानमनुमानं प्रमाणं भवेन् नान्यथा। यथा भगवदवतारग्राहि प्रत्यक्षम्। न चात्यन्तातीन्द्रियार्थे स्वतन्त्रानुमानप्रवृत्तौ यस्तर्केणानुसन्धत्ते स मां वेद न चेतनम् इति वचनविरोधः। तद्वचनस्य श्रुतिपौर्वापर्यपर्यालोचनतर्कविषयत्वादित्यर्थः। यदि स्वतन्त्रानुमानेन प्रत्यक्षयोग्यार्थस्यापि सिद्धिर्भवेत् तर्हि शशशृृङ्गादीनामपि सिद्धिः स्यात्। तत्रापि गवादिवच्चतुष्पाददिहेतुना अनुमानस्य कर्तुं शक्यत्वादित्याह॥ शक्यत्वादिति॥ पुराणवचनेनैतदुपपाद-यति॥ सर्वत्रेति॥ उदीक्षितुम् अर्थमुदीक्षयितुमित्यर्थः। ननु प्रत्यक्ष एव विषयीकरोति नानुमानम् इत्येतत्प्रतिपादनं व्यर्थमित्येतच्चोद्यं परिहरति रेतो धातुरित्यादिमोक्षधर्मवचनेन। अस्यार्थः। कस्यचिदेव रेतसः शरीरविशेषपरिणामान्यथानुपपत्या कस्यचिदेव अपथ्यस्य सेवनेन वातपित्तादिधातुविकारान्यथानुपपत्या कस्याश्चिदेव वटकर्णिकाया वटविशेषपरिणामान्यथानुपपत्या केनचिदेव जातिस्मृत्यन्यथानुपपत्या कस्यचिदेव अयस्कान्तस्य अयोभ्रामकत्वान्यथानुपपत्या सूर्यकान्तशिलाया अप्यग्निजनकत्वान्यथानुपपत्या जीवद्दशायां तन्निर्वाहकमन्यत्कल्पनीयम्। तच्च कारणं रेतोधात्वाद्यभिमानिजीवान्तर्यामी कर्मसापेक्षो विष्णुरेवेत्येतद्वेद एव बोधयितुं शक्नोति। देवताभ्युपयाचनान्यथानुपपत्याऽप्यागमिकोऽर्थः सिद्ध्यति। अप्रत्यक्षाया हि देवताया याचनं लोकसिद्धम्। मृतशरीरस्य ज्ञानचेष्टानिवृत्यनुपपत्या जीवद्दशायां ज्ञानादिनिर्वाहकं पूर्वोक्तं कारणं सिद्ध्यत्येव अन्यथा मृतशरीरस्यापि ज्ञानादिमत्वप्रसङ्गात्। गतप्राणत्वेन ज्ञानाभावश्चेत्सुप्तशरीरस्य ज्ञानं स्यात् सप्राणत्वात्। जीवेश्वरादिकमनङ्गीकुर्वतः प्रत्यक्षैकप्रामाण्यवादिनोऽम्बुपानादि प्रवृत्तिरपि दुर्घटा स्यात्। अनुमायत्तत्वात्तस्याः। इतोऽपि न शास्त्रापह्नवः कर्तुं शक्यते। अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते इति लोकप्रसिद्धेरित्याह दर्शनादिति। हितशासनात् शास्त्रम् ऋगादिकं तदनुकूलस्मृत्यादि चोच्यते न पाशुपतादिकं कुवर्त्मत्वादित्येतत्स्कान्दवचनेन दर्शयति॥ ऋगिति॥ चरितं रघुनाथस्य शतकोटिप्रविस्तरमित्यादिवचनसिद्धं मूलरामायणम्। भारतवचनैरपि वेदादेः सच्छास्त्रत्वं प्रदर्शयति॥ साङ्ख्यमिति॥
साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च।
ज्ञानान्येतानि भिन्नानीति
साङ्ख्यादिदर्शनानां नानामतत्वमुक्त्वा तत्र वेदारण्यकस्यापौरुषेयत्वेनोत्कर्षे वक्तव्ये पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्। ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यत इति पञ्चरात्रस्यैव प्रमाणत्वेन यद्वैशिष्ट्य-कथनं तद्वेदारण्यकेन यज्जगत्कारणमुच्यते तदेव पञ्चरात्रेणेति वेदपञ्चरात्रयोरेकत्वाभिप्रायं यथायोगं यथान्यायं निष्ठा नारायणः पर इति वाक्यशेषादित्यर्थः। एतदेव शास्त्रम् ऋगादिकं योनिः प्रतिपत्तिकारणं यस्य तच्छास्त्रयोनीत्येव व्याख्येयम्। न शास्त्रस्य योनिरितीत्याह॥ शास्त्रमिति॥ जगज्जन्मादिकारणे ब्रह्मणि पूर्वसूत्रोक्ते किं तत्र प्रमाणमित्याकाङ्क्षितत्वाच्छास्त्रप्रमाणकत्वमेवाभिधातुं युक्तम्। न तु शास्त्रकारणत्वम् असङ्गतत्वात्। न हि शास्त्रकारणत्वं जगत्कारणत्वे हेतुर् वैपरीत्यस्यापि वक्तुं शक्यत्वात्। जगज्जन्मादि-कारणत्वोक्तौ शास्त्रादिकारणत्वस्यापि सिद्धत्वाच्च। न पुनस्तत्कारणत्वं वक्तुं युज्यते शास्त्रस्यापि जगदन्तर्भूतत्वादित्यभिप्रायः।
तत्त्वप्रदीपिका
जगत्कारणत्वं विष्णोरुक्तं केचित्प्रधानरुद्रादीनां कल्पयन्ति, तन्निराकरोति– अनुमानत इत्यादिना। अनुमानतोऽन्ये न कल्पनीयाः कारणभूता इति कुतः?। शास्त्रयोनित्वात्। जगत्कारणस्य शास्त्रयोनित्वे प्रमाणमाह नेत्यादि। ‘‘नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं साम्पराय’’ इति। तं पूर्णं वेदेनैव मनुते। सर्वमनुभवतीति ‘सर्वानुभूः’ सम्यक्परस्मिन्नयनं ‘साम्परायः’। तादर्थ्ये सप्तमी। ‘औपनिषदः’ उपनिषदेकगम्यः। ‘पुरुषः’ पूर्णषड्गुणः। न हि पूर्णगुणात्सर्वज्ञादन्यस्य जगत्कारणत्वम्। न च द्वयोः पूर्णत्वं, पूर्णत्वविरोधात्। आदिशब्दात् ‘‘सर्वे वेदा यत्पदमामनन्ति’’ ‘‘तं त्वौपनिषदं पुरुषं पृच्छामी’’त्यादि च द्रष्टव्यम्।
न चानुमानस्य नियतप्रामाण्यम्। अनुमानत्वादेव। प्रमाणान्तरानुकूलत्वे यन्मानं, नान्यथा, तद्ध्यनुमानं नाम।
‘‘श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्’’ इति, ‘‘श्रुतिर्वेदोऽक्षजं प्रत्यक्षं पूर्वोक्तिरैतिह्यं युक्तिरनुमान-मि’’ति च तुरश्रुतेरैतिह्यादपि पाश्चात्त्यत्वादनुमानस्य न तेषां विरोधे, तन्निरपेक्षत्वे वा प्रामाण्यम्। श्रुतेस्तु क्वापि प्रत्यक्षानुमानानन्तर्यवचनं प्रवृत्तिक्रमापेक्षम्॥ श्रुतिसाहाय्यरहितमनुमानं प्रत्यक्षं च श्रौतेऽर्थे न क्वापि प्रमाणम्। यथा हिंसाऽधर्मत्वानुमानं; यथा च रामकृष्णादेर्मानुषत्वादिविषयं प्रत्यक्षम्। उपक्रमोपसंहारादि-लिङ्गैर् ऊहनं ‘तर्कः’। श्रुतिनिरपेक्षः ‘शुष्कतर्कः’। तस्मान्न स्वतन्त्रस्य तस्य प्रामाण्यं सम्भवति।
ननु स्वतन्त्रमेवार्थं साधयदनुमानं को निवारयति? तथाहि– विमतं सकर्तृकं कार्यत्वाद्घटवदित्य-नपेक्षमेवेदं जगत्कर्तारमीश्वरं साधयतीति; तदयुक्तम्। उपाधिदोषदुष्टत्वात्तस्य। अस्मदादिप्रत्यक्षकर्तृकत्वं शरीरवत्कर्तृकत्वं वा उपाधिः। तेन हि घटादेस्सकर्तृकत्वम्। तस्मान्न स्वतन्त्रस्य प्रामाण्यमिति नियत-प्रामाण्यं नास्तीत्युक्तम्। तस्मान्नानुमाऽऽगमं विनाऽर्थमुदीक्षयितुं शक्नोति।
तत्त्वप्रकाशिका
अत्र जन्मादिकारणत्वस्यान्यनिष्ठत्वनिरासादस्ति शास्त्रसङ्गतिः। जगज्जन्मादिकर्तृत्वस्य जिज्ञास्ये ब्रह्मणि श्रवणाद्विष्णुरेव ब्रह्मेत्युक्तम्। जन्मादिकर्तृत्वस्य च यदाऽन्यनिष्ठता निवार्यते तदैव तेन विष्णुत्वनिश्चयः स्यादिति। तज्जन्मादिकारणत्वं विषयः। किं विष्णोरेवान्यस्याप्यस्ति वेति सन्देहः। पूर्वोक्तन्यायः प्रसिद्धिश्च संशयबीजम्। अन्येषामप्यस्तीति पूर्वः पक्षः। अनुमानेन रुद्रादेरपि कारणता-साधनसौलभ्यात्। न चोदाहृतश्रुतिविरोधः। तासां युक्तिविरुद्धार्थे प्रामाण्यायोगात्। तथा च जन्मादिकारणत्वस्य भगवदेकनिष्ठताभावान्न तस्यैव तेन जिज्ञास्यब्रह्मतानिश्चय इति। सिद्धान्तयति॥ अनुमानत इति॥ कारणत्वेनेति शेषः। तत्र हेत्वाकाङ्क्षायां सूत्रमुपन्यस्यति॥ शास्त्रयोनित्वादिति॥ भवेदनुमानतोऽन्येषां कारणत्वकल्पना यदि कारणमानुमानिकं स्यात्। न चैतदस्ति। शास्त्रैक-समधिगम्यत्वात्कारणस्य। न हि धर्मादिनिश्चयोऽनुमानेनेति सूत्रार्थः। कारणस्य शास्त्रैकवेद्यत्वं कुत इत्यत आह॥ नेति॥ तं पूर्णं सर्वज्ञं सर्वकर्तारं सर्वस्वामिनं मोक्षायाऽवेदविन्न जानाति। पुरुषो जगत्कर्तोपनिषदेकसमधिगम्य इत्यर्थः।
औपनिषदस्यापि कारणस्यानुमानेन सिद्धिः किं न स्यात्स्वातन्त्र्यादिहेतुना पूर्णत्वादिसिद्ध्यङ्गी-कारादित्यत आह॥ न चेति॥ सत्यमस्त्येवाऽनुमानस्यौपनिषदपदार्थनिश्चायकत्वं श्रुत्यादिसहकारि-युक्तस्यैव न तु नियतप्रामाण्यम्। स्वातन्त्र्येणादृष्टार्थनिश्चायकत्वे प्रतिपक्षादिसम्भवात्। तादृशं च प्रकृतमिति भावः। अत्रैव स्मृतिसंमतिमाह॥ श्रुतीति॥ कुत्रचिददृष्टे। यथेश्वरो न स्वतन्त्रश्चेतन-त्वादिति। प्रमाणान्तरं प्रत्यक्षं यथा रामकृष्णादिदोषग्राहि। तर्हि कीदृशस्य प्रत्यक्षादेरदृष्टार्थनिश्चायकत्वमिति तत्राह॥ श्रुतीति॥ अत्रापि प्रमाणान्तरं प्रत्यक्षम्। यशोदायाः प्रत्यक्षम्। तर्कः प्रमाणपदवीं गच्छेदित्यन्वयः। यथा विष्णुः स्वतन्त्रः पूर्णत्वादिति। केवलानुमानस्य प्रामाण्येऽतिप्रसङ्गं चाह॥ शक्यत्वाच्चेति॥ श्रुत्यादिसाहित्यहीनानुमानस्य सर्वत्र जगत्कारणाभावादौ शशादीनां विषाणित्वादौ च कर्तुं शक्यत्वान्नानुमानस्य नियतप्रामाण्यमित्यर्थः। तत्रैव प्रमाणमाह॥ सर्वत्रेति॥ उदीक्षितुमर्थमुदीक्ष-यितुम्। तस्मात्केवलानुमानस्यानिर्णायकत्वाच्छास्त्रेणैव कर्तृत्वनिश्चय इति स्थितम्॥
भावबोधः
॥ ॐ शास्त्रयोनित्वात् ॐ॥ अन्यनिष्ठत्वनिरासादिति। तथा चोक्तस्य लक्षणस्यातिव्याप्ति-निरासाय प्रमाणमुच्यत इत्यनन्तरसङ्गतिरिति भावः। किमिति। अत्र जगज्जन्मादिकारणत्वं किमन्यस्यापि किं विष्णोरेवेति चिन्ता। तदर्थं जगत्कारणत्वं किमनुमानादिप्रमाणगम्यमुत शास्त्रैकवेद्य-मिति। तदर्थं कारणत्वस्य शास्त्रैकसमधिगम्यत्वे प्रमाणं नास्त्युतास्तीति। तदर्थं नावेदविदित्यादिश्रुतेः कारणत्वस्यानुमानवेद्यत्वनिषेधकत्वं न सम्भवत्युत सम्भवतीति। तदर्थं केवलानुमानस्यातीन्द्रियार्थे प्रामाण्यं युक्तमुतायुक्तं वेति। तदर्थं केवलानुमानस्य प्रामाण्याभावे प्रमाणं नास्ति उतास्तीति। ‘रुद्रादेः सममेतल्लक्षणम्’ इति न्यायविवरणानुसारेण पूर्वपक्षमुपपादयति। अनुमानेनेति। न चानुमानतः कल्प्या अन्ये सृष्ट्यादिकारणाः’ इति प्रमाणानुसारेणाह। कारणत्वेनेति शेष इति।
सृष्ट्यादिकारणत्वस्य गम्यत्वादागमादिभिः।
कारणं भगवान् विष्णुः शास्त्रगम्यः सनातनः॥
इति विशेषप्रमाणमूलकं ‘शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य’ इति न्यायविवरणं मनसि निधाय सूत्रार्थमाह। भवेदित्यादिना। जगत्कारणत्वस्य शास्त्रैकसमधिगम्यत्वे हेतुत्वेनाभिप्रेतस्यातीन्द्रियत्वस्य शास्त्रैकसमधिगम्यत्वेन व्याप्तिमुपपादयति। न हि धर्मादीति।
तस्माद्वेदविदः पुंसो सर्वस्वामी स सर्ववित्।
सर्वगः सर्वकर्ता वै ज्ञायते न कुतश्चन॥
इति प्रमाणानुसारेण ‘नाऽवेदवित्’ इति श्रुतिं व्याचष्टे– तं पूर्णमित्यादिना। आत्मानमित्यस्य सर्वकर्तारं सर्वस्वामिनमिति। पुरुष इत्यस्य जगत्कर्तेति च व्याख्यानम्, श्रुत्योः प्रकृतोपयुक्तत्वज्ञापनार्थम्। कर्तृत्वस्य आत्मशब्दार्थत्वेन पुरुषस्य जगत्कर्तृत्वेन ‘कर्तृत्वादात्मशब्दोक्तः’ ‘जगृहे पौरुषं रूपमादौ लोकसिसृक्षया’ इत्यादिप्रमाणसिद्धत्वादिति भावः।
श्रुतिसाहाय्यरहितानुमानस्य वह्न्यादौ प्रवृत्तेः कथं न कुत्रचिदित्युक्तमित्यत आह– कुत्रचिददृष्ट इति। अस्मदाद्यदृष्ट इत्यर्थः। तथा च प्रमाणान्तरं प्रत्यक्षमित्याद्युपपन्नम्। अन्यथा केनाप्यदृष्ट-विषयकश्रुतिसहितप्रत्यक्षस्याप्रसिद्धत्वाद्विशिष्य निषेधोऽनर्थक इति भावः। अत्रापि प्रमाणान्तरमिति। तर्कस्य पृथग्ग्रहणादिति भावः।
भावदीपः
॥ ॐ शास्त्रयोनित्वात् ॐ॥ सङ्गतिरिति॥ अन्तर्भावरूपा। अन्यनिष्ठत्वनिरासमात्रेण कथं सा लब्धा। तन्निरासस्य वा किं फलमित्यतस् तन्निरासफलं व्यञ्जयंस्तां व्यनक्ति॥ जगदिति॥ तदैव तेनेति॥ एतेनास्य जिज्ञास्यब्रह्मणो विष्णुत्वनिर्णायकलक्षणातिव्याप्तिनिरासपरत्वाद् ब्रह्मशास्त्रेऽन्तर्भावः प्रागुक्तजिज्ञास्यब्रह्मणो विष्णुत्वनिश्चयः फलमिति सूचितम्। इतिशब्दो हेत्वर्थः सन्निति शास्त्रसङ्गतिरित्यन्वेति। यद्वा पूर्वस्माच्छ्रुत्यधिकरणसङ्गतिस्त्विति इहेतरत्र च शास्त्रसङ्गति-रित्यनन्तरमनुवर्त्य तत्परतया एतद्वाक्यं पूर्वाधिकरण इव योज्यम्। तथा चात्र पूर्वपक्षे पूर्वोक्तस्याक्षेपा-त्पूर्वाधिकरणतद्विषयवाक्याभ्यामेतदधिकरणैतद्विषयवाक्ययोराक्षेपिकी सङ्गतिरिति भावः। अस्मिन्पक्षे अनुवृत्तेन प्रकारार्थकस्येतिशब्दस्यान्वयो ज्ञेयः। यद्यपि पूर्वत्रैव श्रुतिस्मृत्युक्त्या जन्मादिकर्तृत्वस्य विष्ण्वेकनिष्ठतोक्ता। तथापि सा भाष्यकृतैवोक्ता न तु सूत्रकृतेति वा तासामिह पूर्वपक्षे युक्तिनिरोधे-नाक्षेपाद्वा भवत्यन्यनिष्ठताशङ्केति भावः। एतेनानेन सर्वगतत्वमायामयशब्दादिभ्य इत्यत्रैव तृतीये विष्ण्वेकनिष्ठताया वक्ष्यमाणत्वात्तेन गतार्थमिदमिति निरस्तम्। आगमाद्यवष्टम्भेनात्र तदुक्तस्याप्याक्षेपादिति बोध्यम्॥ तदिति॥ यतो वेत्यादिवाक्योक्तम्। अन्यस्यापीति॥ भाष्ये अन्य इत्येवोक्तावपि न च रुद्रादौ सममेतल्लक्षणमिति न्यायविवरणे समपदेन साधारण्यस्योक्तेर् अत्रापि भाष्येऽन्येऽपीत्यभि-मतमिति भावेनान्यस्येत्यनुक्त्वा विष्णोरेव अन्यस्याप्यस्ति वेत्युक्तम्। क्वचिद्विष्णोरन्यस्याप्यस्ति न वेति पाठः। अत एव भाष्यानुरोधादन्येषामपीति वाच्ये रुद्रादाविति एकवचनानुरोधेनान्यस्येत्युक्तम्॥ पूर्वोक्तेति॥ स च न्यायो जगज्जन्मादिकर्तृत्वस्येत्यादिना प्राग्विवृतः॥ प्रसिद्धिश्चेति॥ रुद्रादौ जगत्कर्तृत्वसंहर्तृत्वादिप्रसिद्धिश्चेत्यर्थः। अत्र सौत्रशास्त्रपदेनानुमानमूलकं पाशुपताद्यागममूलकं चेति चोद्यद्वयं व्यावर्त्यम्। द्वयोरप्यशास्त्रत्वात्। नैव शास्त्रं कुवर्त्म तदिति वक्ष्यमाणत्वात्प्रत्यक्षस्याप्रसक्तेः। तत्राद्यमनुमानत इति भाष्येण द्वितीयं तु ऋग्यजुस्सामाथर्वाश्चेति भाष्येण सूचितम्। तत्राद्यं व्यनक्ति॥ अनुमानेनेति॥ विमतं सकर्तृकं कार्यत्वाद् घटवदित्यनेन विश्वकर्तृसिद्धौ प्रसिद्धिबलाद्रुद्रादिरेव कश्चिन्न तु विष्णुः। नावेदविदिति नैषा तर्केणेति स्वप्रामाण्यनिषेधकश्रुत्युक्ते विष्ण्वाख्यकर्तरि अनुमानस्या-पर्यवसानादिति भावः। एतेन भाष्ये तसिल् तृतीयार्थः। तथा रुद्रादौ सममेतल्लक्षणमिति न्यायविवरणे च मया अनुमानेन सहितं समम् अनुमानेन सिद्धमिति समशब्दार्थो दर्शितः। अत एव भाष्यरीत्या अन्येषामिति प्रक्रमेऽपि रुद्रादेरित्युक्तम्॥ श्रुतीति॥ य उ त्रिधात्वित्यादिश्रुतीत्यर्थः॥ युक्तिविरुद्धार्थ इति॥ विष्णुरेव कर्ता नान्य इत्यस्योक्तयुक्तिविरुद्धत्वेन विष्णुकर्तृत्वमात्र एव तात्पर्यं श्रुत्यादेर्न त्वन्यकर्तृतानिषेधे इति श्रुत्यादिना विष्णोरनुमानेन च शिवादेः कर्तृत्वं प्राप्तमिति देशादिभेदेनाविरुद्धं नेयमिति भावः। ततश्च किमित्यत आह॥ तथा चेति॥ रुद्रादेरपि कारणत्वे सतीत्यर्थः। एतेन रुद्रादौ समं साधारणमित्यपि समशब्दार्थो दर्शितो भवति॥ भगवदेकेति॥ जन्माद्यस्येत्यत्र कृत्स्नजग-ज्जन्मादिकर्तृत्वस्य विष्णुलक्षणत्वे असम्भवापत्त्या कतिपयजगज्जन्मादिकर्तृत्वे लक्षणत्वेनावश्यं विवक्षणीये सति तदन्येषामपि प्राप्तमिति न भगवदेकनिष्ठतेति भावः। यथान्यासे विरोधादसङ्गतेश्चाह॥ कारण-त्वेनेति शेष इति॥ कथमनेनोक्तार्थे हेतुरुक्त इत्यतो भाष्येऽनुक्तमपि शास्त्रैकसमधिगम्यत्वात्कारणस्येति न्यायविवरणवाक्यमत्र संयोज्यमिति भावेन तदेव पठति॥ शास्त्रैकेति॥ शास्त्रं वेदादि च तदेकम् असहायं च शास्त्रैकं विशेषणविशेष्यभावस्य कामचारित्वात् सङ्ख्यावचनस्यैवैकशब्दस्य पूर्वकालैकेति समासविधानात्। सूत्रे पूर्वत्र प्रकृतं कारणं कारणत्वस्येत्यनुवर्त्यं कारणवाचितयाऽध्याहृतं तत्पदं वा तस्येत्यनुवर्त्यमिति भावः। क्वचिच्छास्त्रगम्यत्वस्यानुमानिकेऽपि दृष्टेर्व्यभिचारव्युदासायार्थ-लब्धस्याप्येकेत्यस्योक्तिः। अयं च सूत्रार्थोऽत्रापि भाष्ये सौत्रपदयोर्विग्रहोक्त्याऽन्ते विवरिष्यते। अत्र च जगत्कर्ता नानुमानयोग्यः शास्त्रैकगम्यत्वादित्यभिमतप्रयोगे धर्मादिर्दृष्टान्तः। तत्र चोदनालक्षणोऽर्थो धर्म इति जैमिनिसूत्राच्छास्त्रैकगम्यत्वरूपहेतुसत्वं सिद्धं कृत्वा साध्यमुपपादयति॥ न हीति॥ चोदनैकप्रमाणकत्वभङ्गापत्तेरिति भावः। ऋग्यजुरित्यादिस्मृत्या शास्त्रशब्दितस्य सर्वस्य विष्णौ प्रामाण्येऽपि अन्यार्थं तु जैमिनिरित्यादावपरममुख्यवृत्त्या धर्मादावपि प्रामाण्योपगमान्न तत्र साधनवैकल्यं शङ्क्यम्।
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचिकाः।
ता एव तु परा विद्या यदा विष्णोस्तु वाचिकाः॥
इत्याथर्वणभाष्योक्तेः। एतेन पूर्वपक्ष्यभिमतकार्यत्वाद्यनुमानस्य बाधितविषयत्वं सूचितम्। सर्वानुभुमित्यस्य सर्वमनुभवति अनुभावयति उत्पादयति चेत्यर्थद्वयमुपेत्याह॥ सर्वज्ञं सर्वकर्तारमिति॥ आत्मानमित्यस्य स्वामिनमित्यर्थः। सर्वेति योग्यतयोक्तम्। सम्यक्परस्मिन्नयनं सम्परायः। तादर्थ्ये सप्तमी। चर्मणि द्वीपिनं हन्तीत्यादिवदित्युपेत्याह॥ मोक्षायेति॥ प्रकृतोपयोगायाह॥ पुरुषो जगत्कर्तेति॥ जगृहे पौरुषं रूपमादौ लोकसिसृक्षयेत्यादेरिति भावः।
भाष्यस्थादिपदेन तं चौपनिषदं पुरुषं पृच्छामीत्यादेर्ग्रहः। इत्यादिभ्य इति भाष्यस्य सूत्रेणान्वयः॥ स्वातन्त्र्यादिहेतुनेति॥ तथा चोक्तं सर्वधर्मोपपत्तेश्चेत्यत्र न्यायविवरणे स्वतन्त्रस्य पूर्णगुणत्वनियमात्।
अपूर्णोऽयं जीवसङ्घोऽस्वतन्त्रः पूर्णो हरिर्यः स्वतन्त्रः सदैव।
न हि स्वतन्त्रोऽपूर्णतां कामयीत पूर्णो यदि स्यादस्वतन्त्रः कुतस्सः॥
इति श्रुतेरिति। आदिपदेन कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभेत्याद्युक्तकर्तृत्वादिहेत्वादिग्रहः। भाष्ये चस्त्वर्थः। नियतप्रामाण्यं तु नास्तीत्युपेत्य तदनूद्यार्थमाह॥ न त्विति॥ प्रतिपक्षादीति॥ तच्च व्यक्तमनुभाष्ये तत्वनिर्णयतट्टीकयोस्तर्कताण्डवे च। प्रकृतं कार्यत्वादीत्यर्थः। धूमादौ व्यभिचारादाह॥ कुत्रचिददृष्ट इति॥ यथा रामेति॥ व्यक्तमेतत्‘अपरीक्षितदृष्ट्यैव सदोषो ज्ञायते हरिरि’त्यादि-ज्ञानपादीयानुव्याख्यानसुधयोः॥ यशोदाया इति॥ ‘सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिश’ इत्यादेः कृष्णानने विश्वग्राहिप्रत्यक्षम् एको दाधारेत्यादिविश्वम्भरश्रुतिसहायम्। पूर्णत्वादित्यादि तु ‘न हि स्वतन्त्रोऽपूर्णतां कामयीते’ति ‘आत्मा हि परमस्स्वतन्त्रोऽधिगुणः’ ‘पूर्णमदः पूर्णमिदमि’त्यादि-श्रुतिसहायम्॥ केवलानुमानस्येति॥ तेन भाष्ये चकार उक्तस्मृतिसमुच्चायक इति सूचितम्॥ जगत्कारणाभावादाविति॥ तथा चोक्तं विष्णुतत्वनिर्णये। विमतं विकर्तृकमस्मत्संमतकर्तृरहित-त्वादित्यादि। आदिपदेन ‘‘वस्तुत्वात्तुरगः शृृङ्गी’’त्याद्यनुभाष्योक्तमश्वशृृङ्गित्वादिकं ग्राह्यम्। पूर्वस्मात्साध्यानुवृत्तिं मत्वाह॥ नानुमानस्येति॥
अभिनवचन्द्रिका
अत्र जगज्जन्मादिकारणत्वस्येति॥ ब्रह्मसम्बन्धिलक्षणस्य अनतिप्रसक्तत्वविचारत्वेन ब्रह्मविचारत्वात् शास्त्रान्तर्भाव इत्यर्थः। तदैव तेन विष्णुत्वनिश्चयः स्यादिति॥ ननु जगज्जन्मादि-कारणत्वस्यान्यनिष्ठत्वेऽपि रूढिविषयजीवानिष्ठत्वात् तेन रूढ्यर्थजीवनिरासायोगेन विष्णुपरता सेत्स्यतीति किमन्यनिष्ठतानिरासप्रयासेनेति चेत् सत्यम्। भवत्येव तेन देवदत्तादिजीवव्यावृत्तिर् देवदत्तादिजीवा-निष्ठत्वात्, तथापि जीवत्वेन ब्रह्मशब्दरूढिविषयस्य न रुद्रादेर्व्यावृत्तिः सम्भवति। जीवापबाधकत्वेनोप-न्यस्तस्य पूर्ववाक्योक्तजगज्जन्मादिकारणत्वस्य तत्रापि सत्त्वात्। नापि मुख्यतो जिज्ञास्यत्वानुपपत्तिर्बाधिका विष्णुवत्तस्यापि मुख्यतो जिज्ञास्यत्वसम्भवात्। अन्यथा तस्यापि न स्यात्। तथा च रुद्रादिरेव जिज्ञास्यं ब्रह्म निर्बाधरूढिसद्भावादिति शङ्कापरिहाराय पूर्वोक्तजन्मादिकारणत्वस्य विष्ण्वेकनिष्ठत्व-साधनमावश्यकमिति द्रष्टव्यम्। किं विष्णोरन्यस्याप्यस्ति न वेति सन्देह इति॥ विष्णोरित्यनन्तर-मिवेति शेषः। ततश्चैवं योजना – यथा विष्णोः स्वातन्त्र्येण जगत्कारणत्वं तथैवान्यस्यापि रुद्रादेर् अस्ति न वेति सन्देह इति। अन्येषामप्यस्तीति पूर्वपक्ष इति॥ नन्विदमयुक्तम्। सिद्धान्त्यभिमतस्य रुद्रादिसमवेतज्ञानाज्ञानबन्धादिकर्तृत्वस्य रुद्रादावसम्भवात्। न हि स्वयमेव प्रेक्षावान् स्वात्मानं बध्नाति दुःखयतीति कर्तृत्वस्यात्र युक्तम्। प्रेक्षावत्त्वहानेः। प्रेक्षावत्त्वानङ्गीकारे च मूढस्य देवदत्तादिजीववज् जगत्कर्तृत्वासम्भवेनानतिव्याप्तिरेवेति चेत्, स्यादयं दोषः यदि ‘यतो वा इमानी’ति वाक्यस्य रुद्रादि-समवेतज्ञानाज्ञानबन्धादिकर्तृत्वमेवार्थः स्यात्। न चासावर्थः। रुद्रादेर्विष्णुसमानत्वेन बन्धादिशून्यत्वात्। किं नाम महदादिकर्तृत्वमेवार्थः। अन्यथा घटस्य ज्ञानाज्ञानबन्धकर्तृत्वं वाक्यार्थः स्यात्। यदि बाधितविषयत्वान्नासौ वाक्यार्थः, हन्त तर्हि तत एव रुद्रादिसम्बन्धादिकर्तृत्वमपि न वाक्यार्थः। ततश्चऽऽगमाद्विष्णोरिवानुमानाद्रुद्रादेरेपि कारणत्वस्य प्रमितत्वाद् भवेदेवातिव्याप्तिः। न च छलप्रसङ्गः। सूत्रकाराभिमतस्य रुद्रबन्धादिकारणत्वस्य श्रुत्यनभिमततत्वात्। प्रत्युत सूत्रकारस्यैवायं दोषो यत् श्रुत्यनभिमतार्थवक्तृत्वं नामेति। एवमेव हिरण्यगर्भादिचेतनेषु प्रधानाद्यचेतनेषु चातिव्याप्तिरूह्या। यद्यपि प्रधानादौ सिद्धान्त्यभिमतम् उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वरूपं कर्तृत्वं न सम्भवति, तथापि ज्ञानं विनैव जगत्कारणत्वं श्रुत्यर्थ इति मन्यमानस्य भवेदेवातिव्याप्तिरिति शङ्केति। अनुमानं तु– शिवो जगत्कर्ता जगत्करिष्यामीति तदिच्छुत्वे सति तत्कर्त्रा विष्णुना न्यूनाधिकबलवत्त्वात्। न चाऽसिद्धो हेतुः। ब्रह्मविष्णुमहेश्वराणाम् आत्यन्तिकसाम्यस्य आविपालगोपालसिद्धत्वादिति। तदिदमुक्तम्– साधनसौलभ्यादिति॥ हेतोराविपालगोपालसिद्धत्वेनासिद्धिशङ्कानुदयात्सौलभ्यमित्यर्थः। न चोदाहृतश्रुतिविरोध इति॥ ‘न ते विष्णो’ (ऋ.सं.७-९९-१२) इत्यादिश्रुतिविरोध इत्यर्थः। तासां युक्तिविरुद्धार्थ इति॥ तासां श्रुतीनां ‘न हि निन्दा’ न्यायेन विष्णूत्कर्ष एव तात्पर्यं न तु शिवाद्यपकर्ष इति भावः। न तस्यैव तेनेति॥ ब्रह्मशब्दस्य विष्णाविव रुद्रादावपि वृत्तेः पूर्ववाक्योक्तस्य जन्मादिकारणत्वस्य तत्रापि सत्त्वेन निर्णायकाभावाज् जिज्ञास्यं ब्रह्म शिवो वा विष्णुर्वेति सन्देहः स्यात्, न तु निश्चयः। उभावपि विष्णुशिवौ जिज्ञास्यब्रह्मणी इति निश्चयो वा स्यादित्यर्थः। अङ्गीकृत्य चेदमुदितम्। ब्रह्मशब्दस्य विष्णौ यौगिकत्वाद् रुद्रे रूढत्वाद् योगापेक्षया रूढेर्बलवत्त्वाद् रुद्र एवेति निश्चयः स्यादिति द्रष्टव्यम्। भवेदनुमानत इति॥ यद्यपरोक्षस्यैव परोक्षमनुमानस्य प्रमेयं स्यात् तदाऽनुमानेन रुद्रादीनां कारणत्वनिश्चयः। महदादिकारणत्वमेव श्रुत्यर्थ इति निश्चयः स्यात्। न चैवं – परोक्षमात्रस्य शास्त्रासाधारणविषयत्वात्। अन्यथा अनुमानेन धर्मादिनिश्चयः स्यादिति भावः। शास्त्रैकसमधिगम्यत्वादिति॥ ननु कारणस्यानुमानवेद्यत्वात्, शास्त्रैकसमधिगम्यत्वादित्ययुक्तमिति चेत्, स्यादयं दोषः यद्ययमेकशब्दो ऽनुमानावेद्यत्वं वदेत्, न चैवम्। किं नाम असहायवाची, स च असहायः शास्त्रवेद्यतामाह। एकशब्दस्यानेकार्थत्वात्। तदुक्तं महाभाष्ये– ‘एकशब्दोऽयं बह्वर्थः। अस्ति संख्यावाची एको द्वौ बहव इति, अस्त्यसहायवाची एकाग्नय एकहलानि एकाकिभिः क्षुद्रकैर्जितमिति, अस्त्यन्यवाची ‘सधमादोद्युन्म एकास्ताः, अन्या इत्यर्थोगम्यत’ इति, ननु– समासशास्त्रे प्रथमानिर्दिष्टत्वेनोपसर्जनत्वाद् एकशब्दस्य पूर्वनिपातेन भवितव्यम्। न भवितव्यम्। पूर्वकालैके(पा.२-१-४९)ति सूत्रेण समासानङ्गीकारात्। सङ्ख्यार्थकस्यैकशब्दस्य तत्र ग्रहणात्। सङ्ख्येतरार्थकस्य ‘विशेषणं विशेष्येण बहुल(पा.२-१-५७)मि’त्यनेन समासविधानात्। नन्वथापि विशेषणमिति प्रथमानिर्दिष्टत्वात् पूर्वनिपातो भविष्यति। न भविष्यति। विशेषणविशेष्यभावस्य कामचरणत्वेन एकशब्दस्य विशेष्यत्वात्। ननु ‘नावेदवित्’ इति श्रुत्या कारणस्य शास्त्रैकवेद्यत्वाप्रतिपादनाद् एतच्छ्रुत्युदाहरणमयुक्तमित्यतः ‘सर्वानुभु’मिति शब्दार्थमाह– सर्वज्ञं सर्वकर्तारमिति॥ सर्वमनुभवतीति व्युत्त्पत्या सार्वज्ञं तथा सर्वप्राणिनामनु कर्मानुसारेण भावयति उत्पादयतीति व्युत्पत्त्या सर्वकर्तृत्वं चशब्दार्थ इति बोध्यम्। ‘औपनिषदः पुरुष’ इति श्रुतेरनुदाहार्यत्वमिति शङ्कानिरासाय पुरुषशब्दार्थमाह– पुरुषो जगत्कर्तेति॥ पुरु सर्वं सूत इति जगत्कर्तृत्वं पुरुषशब्दार्थ इति बोध्यम्। औपनिषदस्यापीति॥ चाक्षुषेऽपि पुष्पे घ्राणेन गन्धसिद्धिवद् औपनिषदे धर्मिणि अनुमानेन शिवत्वसिद्धिः किं न स्यात्। अपि तु स्यादेव। त्वयापि औपनिषदे धर्मिणि स्वातन्त्र्यादिहेतुना पूर्णत्वसिध्यङ्गीकारादिति भावः। एतेन औपनिषदस्य कारणस्यानुमानेन सिद्धिर्नानिष्टा विष्णोर् जगत्कारणत्वाहानेः। न हि य एव विष्णुर् जगत्कारणत्वेनोपनिषद्भिः सिद्धः स एव चेदनुमानेन सिद्धः। तदा विष्णोर्जगत्कारणत्वहा-निर्भवति। उपनिषदनुमानयोः समानविषयत्वाद् येनानुमानेन सिद्धिरनिष्टा स्यादिति परास्तम्। सत्यमस्त्ये-वेति॥ सत्यमस्त्येवानुमानस्य पूर्णत्वादिधर्मवैशिष्ट्येन निश्चायकत्वम्, तत्साधकस्वातन्त्र्यादिहेतूनां श्रुत्यनुसारित्वात् तथापि नानुमानेन जगत्कारणे शिवत्वसिद्धिः। आगमसाहाय्यरहितानुमानस्यादृष्टार्थ-निश्चायकत्वाभावात् प्रतिपक्षादिसम्भवादिति भावः। भाष्ये– श्रुतिसाहाय्यरहितेति॥ श्रुतिसाहाय्यरहित-मनुमानं कुत्रचिददृष्टेऽर्थे शिवत्वादिरूपमर्थं निश्चयान्न साधयेन्निश्चयरूपानुमितिजननद्वारा अर्थं न व्यवस्थापयेत्। किन्तु एककोटिकसंशयरूपामनुमितिं जनयेत्। एवं प्रमाणान्तरं प्रत्यक्षमपि अदृष्टेऽर्थे एककोटिकसंशयं विपरीतनिश्चयं वा जनयेत्। न त्वर्थव्यवस्थापिकां प्रमां, श्रुतिस्मृतिसाहाय्ययुक्तं प्रमाणान्तरं प्रत्यक्षं प्रमाणपदवीं गच्छेत्, निश्चयरूपं ज्ञानं जनयेदित्यर्थः। कीदृशमनुमानं प्रमाणपदवीं गच्छेदित्यतः शृृङ्गग्राहकतया प्रमाणमनुमानमाह– भाष्ये पूर्वोत्तरेति॥ श्रुतिसाहाय्ययुक्तस् तर्कः प्रमाणपदवीं गच्छेदिति पूर्वेण सम्बन्धः। कोऽसौ श्रुतिसाहाय्ययुक्तस्तर्क इत्यत उक्तं– पूर्वोत्तरेति। ‘मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवताया’मित्यत्र प्राणशब्दस्य पूर्वोत्तराविरोधेन निमित्तेन कश् चतुर्मुखो ऽभिमतोऽर्थः विवक्षितोऽर्थो भवेत्। अन्यथा मुक्त्यर्थलयप्रतिपादकपूर्वोत्तरवाक्यविरोधः स्यादिति भावः। एतेन ‘कोऽत्रार्थोऽभिमतो भवे’दिति प्रश्नस्य आक्षेपस्य वा ऊहशब्दवाच्यानुमानत्व-कथनमयुक्तमिति परास्तम्। टीकायां – रामकृष्णादिदोषग्राहीति॥ ननु रामकृष्णादि-दोषाणामतीन्द्रियत्वेन तान् प्रत्यक्षं विषयीकुर्यात्। विषयीकरोति च। अतः शुक्तिकायामारोपितरजतत्ववद् रामकृष्णाद्यारोपितदोषाणामैन्द्रियकत्वमेव वाच्यम्। तथा चाऽऽगमाऽसहकृतस्य प्रत्यक्षस्याऽतीन्द्रियार्थ-निश्चायकत्वाभावेनेदमुदाहरणमिति चेत्, मैवम् – रामकृष्णाद्यारोपितदोषाणामतीन्द्रियत्वात् कथं तर्हि तेषामिन्द्रियेण ग्रह इति चेत्, चक्षुराद्यविषयीभूताया अपि तत्तायाः संस्कारलक्षणसहकारिवशात् सोऽयमिति ग्रहवद् दोषलक्षणसहकारिवशाद् अतीन्द्रियाणामपि दोषाणां ग्रह इति गृहाण। अत एव दृष्टान्तोऽप्यपास्तः। इन्द्रियं स्वमहिम्ना यमर्थं विषयीकरोति तस्यैवैन्द्रियकत्वात्। अन्यथा सर्वेषा-मारोपितार्थप्रतिभासप्रसङ्गो दुर्वार इति। यथा यशोदाया इति॥ यशोदाप्रत्यक्षस्य श्रुतिस्मृतिसहायत्वं नाम श्रुतिस्मृत्युक्तानुष्ठानजनितधर्मसहकृतत्वमिति द्रष्टव्यम्। एतेन यशोदाप्रत्यक्षगृहीतस्यातीन्द्रियत्वेन प्रत्यक्षेण ग्रहः। प्रत्यक्षेण ग्रहे च नातीन्द्रियत्वमिति परास्तम्। अतीन्द्रियस्याप्यर्थस्य योगजधर्म-सहकारिवशेन भानसम्भवात्। ‘इत्याद्यमूहनं तर्क’ इत्यत्राऽऽद्यशब्दोक्तोदाहरणमाह– यथा विष्णुरिति॥
वाक्यार्थमुक्तावली
॥ ॐ शास्त्रयोनित्वात् ॐ॥ अत्र यतो वेत्यादिब्रह्मलक्षणप्रतिपादकश्रुत्यर्थजन्मादिकारणत्वस्यानति-व्याप्तलक्षणत्वनिर्णयाङ्गन्यायव्युत्पादनस्य क्रियमाणत्वात् शास्त्रेऽन्तर्भावसङ्गतिरित्याह॥ तत्रेति॥ विष्णुरेव ब्रह्मेति पूर्वाधिकरणे सृष्ट्यादिकर्तृत्वलिङ्गेन साधिते तस्यान्यनिष्ठत्वादेतदनुपपन्नमित्याक्षेपे तत्परिहारस्य क्रियमाणत्वादाक्षेपिकी सङ्गतिरिति भावेन श्रुत्यधिकरणसङ्गतिमाह॥ जन्मादीति। स्यादितीति। श्रुत्यधिकरणसङ्गतिरिति शेषः। यद्यपि लक्षणस्यान्यनिष्ठता प्रागेव श्रुत्यादिभिर्निरस्ता। तथापि भाष्यकृतैव न सूत्रकृतेति भवत्येव शङ्का। यद्वा तासां युक्तिविरोधेनाक्षेपोऽत्र क्रियत इति। अन्यस्यापीति। अत्र जन्मादिकारणत्वं किमन्यस्याप्युत विष्णोरेवेति चिन्ता। तदर्थं जगत्कारणत्वं किमनुमानादि-प्रमाणगम्यमुत शास्त्रैकवेद्यमिति। तदर्थं कारणत्वस्य शास्त्रैकसमधिगम्यत्वेन प्रमाणं नास्त्युतास्तीति। पूर्वोक्तन्याय इति। य उ त्रिधातु पृथिवीमित्युक्तन्यायः शिवादीनां कारणत्वेन प्रसिद्धिश्चेत्यर्थः। अन्ततरानुक्तौ तूक्तरीत्या संशयो न स्यादिति द्रष्टव्यम्। सौत्रशास्त्रपदेनानुमानमूलं पाशुपताद्यागममूलं चेति पदद्वयं व्यावर्त्यम्। तत्राद्यमनुमानत इति भाष्येण द्वितीयं तु ऋग्यजुस्सामाथर्वाश्चेति भाष्येण सूचितम्। तत्राद्यं व्यनक्ति। अनुमानेनेति। रुद्रो जगत्कर्ता सर्वज्ञत्वाद् व्यतिरेकेण यज्ञदत्तवदि-त्यनुमानेनेत्यर्थः। यद्वा जगत्कारणत्वं रुद्रनिष्ठं तदन्यानिष्ठत्वे सति यत्किञ्चिन्निष्ठत्वादित्यनुमानेनेत्यर्थः। प्रामाण्यायोगादिति। य उ त्रिधात्वित्यादीनां युक्तिविरुद्धार्थे एकस्यैव जगद्धारकत्वादिकमिति प्रतीतार्थे प्रामाण्यायोगादित्यर्थः। यद्वा अन्यनिषेधेन विष्णुकारणत्वश्रुतीनां प्रामाण्येऽपि तासां तदितरनिषेधपराणां प्रामाण्यायोगादित्यर्थः। यद्वाऽतिव्याप्तिरित्यापाततः। वस्तुतस्त्वसम्भव एवेति न्यायविवरणटीकाया-मुक्तत्वात्। युक्तिविरोधे विष्णुकारणत्वपराणां सर्वथा अप्रामाण्यादित्यर्थः। शास्त्रयोनित्वादिति हेत्वंशस्यानुमानत इति भाष्येणान्वयमभिप्रेत्य व्याचष्टे। भवेदिति। शास्त्रयोनित्वादित्येतच्छेषपूरणेन न्यायविवरणवाक्येन विवृणोति। शास्त्रैकेति। शास्त्रं वेदादिकम्। शास्त्रं च तदेकमसहायं चेति शास्त्रैकं विशेषणविशेष्यभावस्य कामचारित्वात्। सङ्ख्यावचनस्यैवैकशब्दस्य पूर्वकालैकेति समास-विधानादिति न्यायविवरणटीकातस्तदर्थो ज्ञेयः। तथा च प्रयोगः। जगत्कर्ता नानुमानयोग्यः शास्त्रैकगम्यत्वाद्धर्मादिवदिति। तत्र चोदनालक्षणोऽर्थो धर्म इति जैमिनिसूत्राद्धेत्वंशं दृष्टान्ते सिद्धवत्कृत्य साध्यमुपपादयति। न हीति। चोदनैकप्रमाणकत्वभङ्गापत्तेरिति भावः। अमुख्यवृत्या अपि धर्मादेः शास्त्रैकगम्यत्वस्य सिद्धान्तेऽङ्गीकारान्न साध्यवैकल्यम्। आत्मानमित्यस्यार्थद्वयमाह। सर्वकर्तारं सर्वस्वामिनमिति। कर्तृत्वादात्मशब्दोक्त इति वचनात्। सम्यक् परस्मिन्नयनं साम्पराय इति तत्वप्रदीपं मनसि निधाय तादर्थ्ये सप्तमीति भावेन साम्पराय इत्येतद्व्याचष्टे। मोक्षायेति। पुरुषो जगत्कर्तेति। ‘‘जगृहे पौरुषं रूपमादौ लोकसिसृक्षये’’त्युक्तेरिति भावः। भाष्ये आदिपदेन तं चौपनिषदं पुरुषं पृच्छामीत्यादिसङ्ग्रहः। इत्यादिभ्य इति भाष्यस्य सूत्रेणान्वयः। स्वातन्त्र्यादीति। उक्तं च न्यायविवरणे। स्वतन्त्रस्य पूर्णत्वनियमादिति। आदिपदेन कर्तृत्वात् सगुणं ब्रह्मेत्याद्युक्त-कर्तृत्वादिग्रहः। धूमादौ व्यभिचारादाह। कुत्रचिददृष्ट इति। अस्मदादिप्रत्यक्षादृष्ट इत्यर्थः। तथा च प्रमाणान्तरं प्रत्यक्षमित्याद्युपपन्नम्। अन्यथा केनाप्यदृष्टविषयकश्रुतिसहितप्रत्यक्षस्याप्रसिद्धत्वाद्विशिष्य निषेधोऽनर्थक इति भावः। अथवा वेदैकवेद्यत्वमदृष्टत्वम्। अत एव तत्वप्रदीपे श्रुतिसाहाय्यरहितमनुमानं प्रत्यक्षं च श्रौतेऽर्थे न प्रमाणमित्युक्तम्। भाष्ये ‘इत्याद्यमूहनं तर्क’ इति। विमर्श एवाद्यं पूर्वभावि यस्य तदूहनं मननं तर्क इत्यर्थः।
तत्त्वसुबोधिनी
॥ ॐ शास्त्रयोनित्वात् ॐ॥ अन्यनिष्ठत्वनिरासादिति। तथा च उक्तस्य लक्षणस्यातिव्याप्ति-निरासाय प्रमाणमुच्यत इत्यनन्तरसङ्गतिरिति भावः। श्रुत्यधिकरणसङ्गती दर्शयति। जगज्जन्मादीति। पूर्वपक्षमुपपादयति। अनुमानेनेति। शिवो जगज्जन्मादिकर्ता सर्वज्ञत्वादिति व्यतिरेकेणेत्यर्थः। न च हेत्वसिद्धिः। पाशुपताद्यागमात्प्रसिद्धिरित्याशयात्। ननु रुद्रादीनामनुमानतो ऽकल्पनात् कारणताया एव च ततः कल्पनात् पूर्ववादिनां तन्निरासाय कारणत्वेन न कल्पनीया इत्येव वक्तव्ये अन्ये न कल्पनीया इति वचनमन्यथानुवाद इत्यतः शेषं सम्पूर्य व्याचष्टे। कारणत्वेनेति शेष इति। सूत्रार्थमाह। भवेदित्यादिना। जगत्कारणत्वस्य शास्त्रैकसमधिगम्यत्वे हेतुत्वेन अभिप्रेतस्यातीन्द्रियत्वस्य शास्त्रैकसमधिगम्यत्वेन व्याप्तिमुपपादयति। न हि धर्मादीति॥ आत्मानमित्यस्य सर्वकर्तारं सर्वस्वामिनमिति पुरुष इत्यस्य जगत्कर्तेति च व्याख्यानं श्रुत्योः प्रकृतोपयुक्तत्वज्ञापनार्थम्। कर्तृत्वस्य आत्मशब्दार्थत्वेन जगत्कर्तृत्वस्य पुरुषशब्दार्थत्वेन ‘‘कर्तृत्वादात्मशब्दोक्तः’’ ‘‘जगृहे पौरुषं रूपम् आदौ लोकसिसृक्षया’’ इत्यादिप्रमाणसिद्धत्वादिति भावः। नन्वनुमानस्यास्वातन्त्र्येणादृष्टार्था-निश्चायकत्वेऽपि श्रुत्यादिसाहाय्यरहितत्वान्नोपनिषदर्थनिश्चायकत्वमित्याह। तादृशं चेति। श्रुतिसाहाय्य-रहितानुमानस्य वह्न्यादौ प्रवृत्तेः कथं कुत्रचिदित्युक्तमित्याह। कुत्रचिददृष्ट इति। अस्मदाद्यदृष्ट इति अर्थः। तथा च प्रमाणान्तरं प्रत्यक्षमित्युपपन्नम्। अन्यथा केनाप्यदृष्टविषयकश्रुतिसहित-प्रत्यक्षस्याप्रसिद्धत्वाद्विशिष्य निषेधोऽनर्थकः स्यादिति भावः। अत्रापि प्रमाणान्तरमिति। तर्कस्य पृथग्ग्रहणादिति भावः। विपक्ष इति। पूर्वानुमानापेक्षया विपरीतानुमानकरणे इत्यर्थः। नन्वनुमाया अचेतनन्वेन उदीक्षणासम्भवात् कथमुदीक्षितुमित्युक्तमित्यत आह। अर्थमुदीक्षयितुमिति। केवलानु-मानस्येति। श्रुत्यादिसाहाय्यरहितस्येत्यर्थः। अनिर्णायकत्वात्। स्वातन्त्र्येणादृष्टार्थानिश्चायकत्वात्।
वाक्यार्थविवरणं
जगत्कारणम् अनुमानवेद्यं न भवति शास्त्रैकसमधिगम्यत्वाद् इत्यनुमाने शास्त्रेतरप्रमाणावेद्यत्वे सति तद्वेद्यत्वादिति हेत्वर्थः। तत्र जगत्कारणस्यानुमानिकत्वाभावे शास्त्रेतरानुमानरूपप्रमाणावेद्यत्वमात्रमेव हेतुः। न च साध्यावैशिष्ट्यम्। अनुमानवेद्यतायोग्यताशून्यस्य हेतुत्वात्। फलोपधानाभावस्य साध्यत्वात्। तथा च ‘जगत्कारणमनुमानवेद्यं न अनुमानवेद्यतायोग्यताशून्यत्वाद् धर्मादिवत्’ इत्येवानुमानमभिप्रेतम्। तत्र दृष्टान्ते हेतुमुपपादयति। न हि धर्मादिनिश्चयो अनुमानेनेति। नेति। ननु शास्त्रयोनित्वं नाम शास्त्रैकसमधिगम्यत्वम्। तच्च तदितरावेद्यत्वे सति तद्वेद्यत्वम्। तत्र यदि तदिरावेद्यत्वमात्रं हेतुत्वेनाभिप्रेतं, तर्हि विशेष्यभागो व्यर्थ इति चेत्। सत्यम्। ब्रह्मणः प्रत्यक्षावेद्यत्वस्योभयसिद्धत्वेन शास्त्रेतरानुमानावेद्यत्वे सर्वथा प्रमाणावेद्यत्वप्राप्त्या तदसिद्धिरेव स्यादित्याशङ्कापरिहारायैव शास्त्रवेद्यत्व-मुक्तम्। न तु हेतुशरीरप्रविष्टतयेति ज्ञेयम्॥ कारणस्य शास्त्रैकवेद्यत्वमिति॥ कारणस्य शास्त्रेतरप्रमाणावेद्यत्वं कुतः प्रमाणात्प्रतिपत्तव्यम्। तथा च हेतोः स्वरूपासिद्धिरिति भावः।
वाक्यार्थमञ्जरी
जन्मादिकारणत्वस्य विष्णुलक्षणत्वेनोक्तस्य। तेन शास्त्रसङ्गतिरित्युपपन्नम्॥ तदैवेति॥ अन्यथा अतिव्याप्तत्वेन विष्णुलक्षणत्वासिद्धेरिति भावः। यद्यपि लक्षणस्य विष्ण्वेकनिष्ठत्वं प्रागुक्तं तथापि तद्भाष्यकारेणैवेति न दोषः। इतिशब्दस्याध्याहृतेन श्रुत्यादिसङ्गतिरित्यनेनान्वयः। एवमग्रेऽपि। उक्तन्यायः पूर्वोक्तश्रुतिस्मृतिरूपः प्रसिद्धिर् वक्ष्यमाणरीत्या॥ अनुमानेनेति॥ क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनुमानेन कर्तृमात्रसिद्धावपि तस्य नावेदविदिति स्वप्रामाण्यनिषेधकश्रुत्युक्ते विष्ण्वाख्ये कर्तरि पर्यवसानायोगेन पाशुपताद्यागमोक्ते शिवादौ पर्यवसानाद्वा शिवो जगत्कर्ता सर्वज्ञत्वाद् व्यतिरेकेण कुलालवदित्यनुमाने वा रुद्रादेः कारणत्वसिद्धिः। न च द्वितीयेऽसिद्धिः पाशुपताद्यागमेन तत्सिद्धेरिति भावः॥ श्रुतीति॥ य उ त्रिधात्वित्यादिश्रुतीत्यर्थः। युक्तिविरुद्धार्थे उक्तानुमानविरुद्धे विष्णोरेव कारणत्वरूपे॥ ॐ शास्त्रयोनित्वात् ॐ॥ जगत्कारणस्य वेदवेदानुसारिग्रन्थैकप्रमाणकत्वान्नानुमान-पाशुपतादिवेद्यत्वमित्यर्थः। अभिधेयत्वादिनाऽन्येषामपि अनुमेयत्वादाह॥ कारणत्वेनेति शेष इति॥ आनुमानिकम् अनुमाननिश्चेयम्॥ शास्त्रैकेति॥ शास्त्रमात्रज्ञेयत्वादित्यर्थः। कारणं नानुमाननिश्चेयं शास्त्रैकवेद्यत्वादिति प्रयोगे व्याप्तिमुपपादयति॥ न हीति॥ तस्य चोदनैकवेद्यत्वादिति भावः। प्रकृतोपयोगायात्मशब्दस्यार्थान्तरं सर्वकर्तारमिति। कर्तृत्वादात्मशब्दोक्त इत्यादेः। सम्यक् परस्मिन्नयनं सम्परायः सम्पराय एव साम्परायः। तादर्थ्ये सप्तमीत्युपेत्याह॥ मोक्षायेति॥ जगत्कर्तेत्यपि प्रकृतोपयोगाय। ‘‘जगृहे पौरुषं रूपम् आदौ लोकसिसृक्षया’’ इत्युक्तेरिति भावः। अङ्गीकारात् स्वतन्त्रस्य पूर्णगुणत्वनियमादिति न्यायविवरणे॥ श्रुत्यादिसहकारीति॥ स्वातन्त्र्यानुमानमपि पूर्णो हरिर्यः सदैवेत्यादिश्रुतिसहायमिति भावः॥ प्रतिपक्षादीति॥ विमतं सकर्तृकं कार्यत्वादित्युक्ते विमतं विकर्तृकमस्मत्संमतकर्तृरहितत्वादिति प्रतिपक्षसम्भवादित्यर्थः। तादृशं श्रुतिसाहाय्यरहितम्। श्रुतिसाहाय्यरहितानुमानस्य वह्व्यादौ प्रवृत्तेः कथं न कुत्रचिदिति तत्राह॥ अदृष्ट इति॥ अस्मदाद्यदृष्ट इत्यर्थः। तेन प्रमाणान्तरं प्रत्यक्षमित्युपपन्नम्। अन्यथा केनाप्यदृष्टविषयकश्रुतिसहितप्रत्यक्षस्याप्रसिद्धत्वेन विशिष्य निषेधे अनर्थकः स्यादिति ध्येयम्। यथेश्वर इति॥ इदं तु यः स्वतन्त्रः सदैवेति श्रुतिबाधितम्॥ यथा रामेति॥ इदं तु वर्जितः सर्वदोषैरिति श्रुतिविरुद्धम्॥ अत्रापीति॥ तर्कस्य पृथगभिधानादिति भावः॥ यशोदाया इति॥ तच्च य उ त्रिधात्वित्यादिश्रुतिसहायम्। यथा विष्णुरिति॥ समव्याप्तत्वेनोभयोरपि परस्परं साध्यसाधनभावसूचनाय पूर्वप्रयोगाद्व्यत्यासः। भाष्ये तादृशतर्कप्रदर्शनाय पूर्वोत्तरेत्याद्युक्तम्। ऊहनं परामर्शजन्यज्ञानविशेषः। शुष्कः श्रुत्यसहायः॥ जगत्कारणत्वाभावादाविति॥ जगन्निष्कारणं वस्तुत्वादात्मवत्। न चेष्टापत्तिः। सकारणत्वस्य यतो वेत्यादिप्रमाणसिद्धत्वेन प्रामाणिकहानापत्तेः। शशो विषाणवान् मृगत्वात् कृष्णमृगवत्। न चेष्टापत्तिः। शशविषाणस्य सर्वथा अप्रमितत्वेनाप्रमाणिककल्पनाप्रसङ्गादिति भावः। ईक्षणकर्तृत्व-मागमसहायस्यापि नास्तीति किं विशिष्य निषेधेनेत्यत आह॥ उदीक्षयितुमिति॥ तस्मात् स्वपरपक्षयोः साधकबाधकसद्भावात्कथं शास्त्रादीश्वरसिद्धिरित्येतदुपपादनाय पूर्वभागः।
विवृतिः
अन्यनिष्ठत्वनिरासादिति॥ तथाचोक्तलक्षणस्यातिव्याप्तिनिरासाय प्रमाणमुच्यत इत्यनन्तरसङ्गतिरिति भावः। श्रुत्यधिकरणसङ्गती दर्शयति॥ जगज्जन्मादीति॥ पूर्वपक्षमुपपादयति॥ अनुमानेनेति॥ ननु रुद्रादीनामनुमानत अकल्पने असिद्धिरेव स्यात् तत्राह॥ कारणत्वेनेति शेष इति॥ सूत्रार्थमाह॥ भवेदित्यादिना॥ जगत्कारणत्वस्य शास्त्रैकसमधिगम्यत्वे हेतुत्वेनाभिप्रेतस्यातीन्द्रियस्य शास्त्रैकसमधिगम्यत्वेन व्याप्तिमुपपादयति॥ न हि धर्मादीति॥ नावेदविदिति श्रुतिं व्याचष्टे॥ तं पूर्णमिति॥ आत्मानमित्यस्य सर्वकर्तारं सर्वस्वामिनमिति॥ पुरुष इत्यस्य जगत्कर्तेति व्याख्यानं श्रुत्योः प्रकृतोपयुक्तत्वज्ञापनार्थम्॥ कर्तृत्वस्यात्मशब्दार्थत्वेन, जगत्कर्तृत्वस्य पुरुषशब्दार्थत्वेन, कर्तृत्वादात्मशब्दोक्तः, जगृहे पौरुषं रूपमादौ लोकसिसृक्षया’ इत्यादि प्रमाणसिद्धत्वादिति भावः। नन्वनुमानस्य प्रामाण्यमस्त्येवेति निषेधोऽनुपपन्न इत्याशङ्क्य तदर्थमाह॥ स्वातन्त्र्येणेति॥ तादृशं चेति॥ स्वातन्त्र्येणादृष्टार्थनिश्चायकमित्यर्थः। श्रुतिसाहाय्यरहितानुमानस्य वह्न्यादौ प्रवृत्तेः कथं कुत्र चिदित्युक्तमित्यत आह॥ कुत्रचिददृष्ट इति॥ अस्मदाद्यदृष्ट इत्यर्थः। तथा च प्रमाणान्तरं प्रत्यक्षमित्युपपन्नम्। अन्यथैकेनाप्यदृष्टविषयकश्रुतिसहितप्रत्यक्षस्याप्रसिध्या विशिष्य निषेधोऽनर्थकः स्यादिति भावः॥ अत्रापि प्रमाणान्तरमिति॥ तर्कस्य पृथग्ग्रहणादिति भावः॥ विपक्ष इति॥ पूर्वानुमानापेक्षया विपरीतानुमानकरणेत्यर्थः॥ नन्वनुमानस्याचेतनत्वेनोदीक्षणासम्भवात्कथमेतदित्यत आह॥ अर्थमुदीक्षयितुमिति॥ केवलानुमानस्येति॥ श्रुतिसाहाय्यरहितस्येत्यर्थः॥ अनिर्णायकत्वात्, स्वातन्त्र्येणादृष्टार्थानिश्चायकत्वात्॥
ॐ शास्त्रयोनित्वात् ॐ
सूत्रभाष्यम्
‘रेतो धातुर्वटकणिका घृतधूमाधिवासनम्।
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम्॥
प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम्।
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः॥’
इति मोक्षधर्मवचनान्न नास्तिक्यवादो युज्यते।
दर्शनाच्च तपआदिफलस्य।
तत्त्वप्रदीपिका
नन्वेवमनुमानस्याप्रामाण्यात्तन्न्यायेनाऽगमस्याप्यप्रामाण्यात्प्रत्यक्षमेव सम्मतं प्रमाणमस्तु। अतो न देहव्यतिरिक्तो जीवोऽस्ति नापि जगत्कर्तेश्वरः, प्रमाणाभावादित्याशङ्क्याऽह। रेतो धातुरित्यादि। रेतः सिक्तं कालाच्छरीरं भवति। न च तस्य शरीरभावः प्रत्यक्षग्राह्यः। वाक्याद्युक्त्या वा ज्ञायते, अतस्तयोः प्रामाण्यम्। न च तद्रेतो मृतशरीरे सिक्तं वर्धते। तस्माद्यदधिष्ठित एव वर्धते स देहव्यतिरिक्तो जीवोऽभ्युपगन्तव्यः। न च जीवच्छरीरेऽपि नियमेन वर्धते। अतो यदिच्छया वर्धते न वर्धते च, स ईश्वरः। धातुर्वातादिरपथ्याद्विपरीयते। न च तयोर्हेतुहेतुमद्भावः प्रत्यक्षः। न च मृतशरीरे विकारो भवति। अपथ्यकरणेऽपि जीवच्छरीरेऽपि कदाचिन्न। वटकणिकाया वटभावो न प्रत्यक्षः। नापि भर्जिता सा प्ररोहति। अभर्जिताऽपि कदाचित्प्ररोहति, कदाचिन्न। घृतोपयोगात्पीनतेति न प्रत्यक्षत्वम्। नापि मृतशरीरनिक्षिप्तेन तेन पीनता भवति। जीवोपयुक्तेऽपि कदाचिन्न भवति। न च वृक्षे धूमाधिवासन-निमित्तता पुष्पफलसम्भवस्य प्रत्यक्षा। न च धूमाधिवासनेऽपि शुष्के पुष्पादिसम्पत्तिः। जीवत्यपि क्वचिद्भवति, क्वचिन्न भवति। अनेन पुण्येनैवं स्वर्गोऽनुभूयते, अनेन पापेनेत्थं नरकमनुभूतमित्यादिज्ञानं जातिस्मृतिमतामस्ति। एतमर्थमागमश्चावगमयति। तस्मादागमप्रामाण्यस्थापिका सा। न च देह-व्यतिरिक्तस्य जीवस्यातीतवर्तमानदेहसम्बन्धमन्तरेण जातिस्मृतिरुत्पद्यते। सा च कस्यचिदेव भवति, न सर्वस्य। न चायस्कान्तस्यायोभ्रामशक्तिः प्रत्यक्षा। न चाजीवतश्चेष्टकत्वं दृष्टम्। न चैतादृशी वस्तुशक्तिः सर्वशक्तिमीश्वरमन्तरेण प्रतिनियममर्हति। एवं सूर्यकान्तेऽप्यूहनीयम्। अम्बुभक्षणात्तृष्णानाश इत्येतन्न प्रत्यक्षम्। न च मृतशरीरे पात्रान्तरे वा निहितं तत्पच्यते। जीवच्छरीरेऽपि कदाचिदेव। प्रेतशरीरं भूतान्यप्येति, पूर्वं नाप्येति; यस्मिंस्तिष्ठति नाप्येति, गच्छत्यप्येति, स देहातिरिक्तोऽस्तीति गम्यते। न च तस्य प्रेतस्य देहे भूताप्ययस्स्वाधीनः। आगमविहितं देवताराधनादि कुर्वतस्सा प्रत्यक्षा भवति। तत्प्रसादाद्यथोदितमारोग्यपुत्रवित्तादि भवति। तस्मादागमप्रामाण्यनिश्चयः। सा च वरप्रदानाद्यतिशयवती देवता परलोकसुखादिदानेन देहादन्यं जीवमीश्वरं चावगमयति। ईश्वर एव वा सा स्यात्। मरणनिमित्तत्वं चेष्टनिवृत्तेर्न प्रत्यक्षम्। स च चेष्टावान्न देहः। न च तस्य मरणं स्वाधीनम्। स्वाध्यायब्रह्मचर्यादे-स्तपसस्तेजस्वितादिफलं दृश्यते। तप्तमापादिदिव्यपरीक्षाणां च तत्वविज्ञानादि फलम्। तस्मादागमोक्तस्य सर्वस्य सिद्धिः। अतश्च न नास्तिक्यवादो युज्यते।
तत्त्वप्रकाशिका
नन्वतीन्द्रियार्थाभावेन प्रत्यक्षेतरस्याप्रामाण्यात्कथं शास्त्रादीश्वरसिद्धिरिति नास्तिकवादं मोक्षधर्मवचनेन निराचष्टे॥ रेत इति॥ रेतो धात्वाद्यतीन्द्रियार्थसत्त्वेऽनुमानादिप्रामाण्ये च प्रमाणं प्रमापकमिति निश्चयः। तथा हि। रेतःशरीरयोः कार्यकारणभावोऽस्ति। न चासौ प्रत्यक्षोऽतोऽन्वयव्यतिरेकित्वाख्यानुमानस्य मानत्वसिद्धिः। मृतशरीरे सिक्तस्याकारणत्वेन यदधिष्ठिते परिणमते तज्जीवसिद्धिः। न च जीवत्सर्वशरीरे पतितं कार्यकरमतस्तत्प्रेरकेश्वरादृष्टसिद्धिः। ततस्तत्प्रतिपादकागमप्रामाण्यसिद्धिः। एवं वातादि-धातुरपथ्याद्विक्रियते नापि मृतशरीरे न जीवच्छरीरेषु सर्वेषु। वटकणिकातो वट उत्पद्यते न च भर्जिताया नाप्यभर्जिताभ्यः सर्वाभ्यः। घृतेन पीनता जायते न मृतशरीरे नापि जीवत्सर्वशरीरेषु। धूमाधिवासनेन वृक्षेषु पुष्पादिसम्पत्तिर्जायते न च शुष्केषु नाप्यशुष्केषु सर्वेषु। साधनविशेषाज्जातिस्मृतिर्भवति न चेतनाभावे सा युक्ता न चास्ति सर्वेषाम्। अयस्कान्तेनायो भ्रमति न चाचेतने चेष्टकत्वं न च सर्वाचेतनानाम्। सूर्यकान्तेनाग्निर्जायते न चासौ शक्तिरचेतने युक्ता। अम्बुभक्षणेन तृष्णा निवर्तते न च तन्मृतशरीरे पच्यते न च जीवत्सर्वशरीरेषु। मरणेन देहस्य भूतेष्वप्ययो भवति न च जीवतो न स्वेच्छया। देवताभ्युप-याचनेन सम्पदादिकं भवति न च सर्वेषाम्। मरणेन चेष्टानिवृत्तिर्भवति न पुनः स्वेच्छया। एतैः प्रमापकै-रनुमानजीवेश्वरागमादृष्टादिसिर्द्धेर्न नास्तिक्यवादो युज्यत इत्यर्थः। इतश्चासौ न युज्यत इत्याह॥ दर्शनाच्चेति॥ अत्युत्कटतपःपापाभ्यां प्रत्यक्षत एव फलं दृश्यते। न च तत्र कारणान्तरमस्ति। अतस्तत्कार्यकारणभावोऽनुमानवेद्य इति तन्मानत्वसिद्धिः। तपआदीनां वैदिकत्वादागममानत्वसिद्धिः। ततश्चेश्वरादिसिद्धिरिति न नास्तिक्यवादो युज्यते। तस्माच्छास्त्रादेवेश्वरादिसिद्धिरिति युक्तमेवेति भावः।
गुर्वर्थदीपिका
देवताभ्युपयाचनं, मम सम्पदादिकं जायते चेत्तवैतावद्धनं दास्यामीत्याकारेण वेङ्कटपत्यादिदेवतायाः प्रार्थनम्। यद्यपि जन्मान्तरीयदेवताभ्युपयाचने सम्पदादिकं भवतीत्यस्माकमभिमतम्। तथाऽपि प्रत्यक्षैकप्रमाणवादी चार्वाकस्तु नाङ्गीकरोत्यत ईदृशदेवताभ्युपयाचनमेव वक्तव्यम्।
भावबोधः
अतीन्द्रियार्थसद्भावे स्मृतिरागम एव च।
तत्सहाय्यानुमा चैव प्रमाणमिति निश्चयः॥
रेतःशरीरयोः कार्यकारणत्वं हि विद्यते।
नादः प्रत्यक्षतो गम्यं प्रमाणमनुमात्र वै॥
मृते शरीरे सिक्तस्य तथा जीवशरीरके।
अभावात् कारणत्वस्य सिद्धिर्जीवेशयोरपि॥
तस्मात्तद्वाचकस्यापि आगमस्य प्रमाणता।
एवं धातोरपथ्यस्य वटपादपजीवयोः।
जातिस्मृतेरनुष्ठानादयस्कान्ताय सोऽपि तु॥
सूर्यकान्तस्य वह्नेश्च जलभक्षणतृष्णयोः।
मृते भूतलयस्यापि देवतार्चनसम्पदोः॥
मृते कर्मनिवृत्तिश्चेत्यादेरनुमानादिभिः।
तपःपापफलस्यापि दर्शनादनुमादिकम्॥
प्रमाणमेव नास्तिक्यवादोऽतो नैव विद्यते॥
इति विशेषप्रमाणानुसारेण रेत इत्यादिप्रमाणं व्याचष्टे रेतो। धात्वादीत्यादिना।
भावदीपः
शास्त्रपदव्यावर्त्यचोद्ययोरेकं निरस्यान्यं निरसिष्यन्निदानीं योनिपदव्यावर्त्यचोद्यनिरासाय प्रवृत्तं रेत इत्यादिभाष्यम्। तस्य सङ्गत्यप्रतीतेर्भाष्यस्थनास्तिक्यवादपदार्थं वदन्नेव तामाह॥ नन्वतीन्द्रियेति॥ एतेन रेतो धातुरित्यादिकमुत्सूत्रमिति कस्यचिच्चोद्यं निरस्तम्। शास्त्रं योनिः प्रमाणमित्युक्त्या तदप्रामाण्यापकृतेः सूचनात्। अनुक्तानां प्रमाणानां सङ्ग्रहश्च कृतो भवेदित्यादिस्मृत्याऽध्यायान्ते द्विरुक्त्या सर्वत्र सूचनाच्च शास्त्रपदव्यावर्त्यचोद्यद्वयनिरासानन्तरम् अस्य योनिपदव्यावर्त्यचोद्यस्य निरस्यत्वेऽप्यत्र तन्निरासस्तु प्रमाणपदवीं गच्छेदित्यनुमानप्रामाण्यप्रस्तावात्। भाष्ये मोक्षधर्मेति। तं प्रत्यस्यानुपयोगेऽपि शिष्यं प्रत्युपयोगादेतदुक्तिरिति भावः। भाष्येऽन्तिमं प्रमाणपदं करणसाधनं सद् रेतःप्रभृतिषु द्वादशस्वन्वेतीति कुत्र प्रमाणमित्याकाङ्क्षां पूरयन् योजयति॥ रेतो धात्वादीति॥ वचनादित्यस्य नास्तिक्यवादायोगे हेतुत्वायोगादाह॥ एतैरिति॥ वचनात्प्रतीतैरित्यर्थः।
अभिनवचन्द्रिका
नन्वतीन्द्रियार्थाभावेनेति॥ प्रमाणाभावेन अतीन्द्रियार्थाभावात् प्रत्यक्षेतरयोरनुमानाऽऽगमयोर-प्रामाण्यम्। एवं च सति कथं शास्त्रादीश्वरसिद्धिः स्यात्। अप्रमाणस्यार्थव्यवस्थापकत्वाभावात्। न चाऽनुमानाऽऽगमाभ्यामेवाऽतीन्द्रियार्थसिद्धेर् अतीन्द्रियार्थाभावरूपो हेतुरसिद्ध इति वाच्यम्। अनुमानाऽऽगमयोः प्रामाण्यसिद्धौ अतीन्द्रियार्थसिद्धिः। अतीन्द्रियार्थसिद्धौ च अप्रामाण्यसाधकासिद्ध्या तयोः प्रामाण्यसिद्धिरिति अन्योन्याश्रयादिति नास्तिकमतावलंबिनः शिष्यस्य पूर्वपक्षं मोक्षधर्मवचनेन निराचष्ट इत्यर्थः। एतेनाऽऽगमाप्रामाण्यवादिनं प्रति मोक्षधर्मवचनोदाहरणमयुक्तमिति परास्तम्। नास्तिकमतावलम्बिनं शिष्यं प्रत्येवोपन्यस्तत्वात्। नन्वनुमानागमयोरप्रामाण्यमिति पूर्वपक्षोऽनुपपन्नः। धूमाद्यनुमानस्य, आप्तवाक्यस्य च प्रामाण्यस्यावर्जनीयत्वात्। न हि समानविषययोः प्रत्यक्षानुमानयोः प्रत्यक्षागमयोश्च मध्ये प्रत्यक्षं प्रमाणं नानुमानं नाप्यागम इति सम्भवति। वस्तुनः सत्त्वमसत्त्वं चेति द्वैरूप्यापातात्। विषयस्य सत्त्वमन्तरा प्रामाण्यस्य विषयासत्त्वमन्तरा प्रामाण्यस्य चायोगाद् इति चेत्। स्यादयं दोषः यदि परो ऽनुमानमात्रस्याऽऽगममात्रस्य च असदर्थावगाहित्वलक्षणमप्रामाण्यं ब्रूयात्। न चैवं, किंनाम कतिपययोरनुमानाऽऽगमयोर् बाधितार्थकत्वलक्षणमप्रामाण्यं ब्रूते ततश्चाऽनाश्वासादनुमानमात्रस्य च अर्थाव्यवस्थापकत्वलक्षणमप्रामाण्यं ब्रूते। लोके अनुमानाद्युपन्यासस्तु परस्य सम्भवेनोत्पत्त्यर्थमेव न तु अर्थव्यवस्थापनार्थमिति ब्रवीति। अत एव धूमेन वह्न्यनुमितौ साशङ्क एव प्रवर्तते। दर्शनोत्तरकालं तु अर्थव्यवस्थासिद्धौ शङ्का निवर्तते। अत एव पर्वतोऽग्निमानिति वदन्तं प्रति पृच्छन्ति किमेवं पश्यसि उत एवमेव वदसीति स यदि पश्यमीत्याह तदा विश्वस्ता भवन्ति। यदाऽनुमाय वदामि, श्रुत्वा वदामीत्याह तदा न विश्वस्ता भवन्ति। अत एव प्रत्यक्षेतरा-प्रामाण्यसाधनाय परस्यातीन्द्रियार्थाभावादिति हेतोरुपन्यासो न युक्त इति शङ्का परास्ता। अर्थव्यवस्थापनार्थं हेतोरनुपादेयत्वेऽपि सम्भवनार्थमुपादेयत्वात्। रेतोधात्वादीति॥ रेतोधात्वाद्यैन्द्रियकम् अतीन्द्रियार्थमन्तरा अनुपपद्यमानमतीन्द्रियार्थस्यानुमानादिप्रामाण्यस्य च व्यवस्थापकं भवति। अन्यथा प्रत्यक्षप्रमितो धूमो वह्निमपि न व्यवस्थापयेत्। अतीन्द्रियत्वाविशेषात्। न चेष्टापत्तिः। धूमदर्शनानन्तरं वह्न्यर्थिनो निष्कम्पप्रवृत्यभावापातात्। न चेष्टापत्तिः। अनुभवविरोधात्। ननु प्रत्यक्षप्रमितोऽपि धूमः, यावता विना नोपपद्यते तत्सर्वं व्यवस्थापयतीति चेत्, मोच्चैर्वोचः। परोऽपि श्रोष्यति। यावता अस्माभिरपि प्रत्यक्षप्रमितं रेतोधात्वादि यावता विना नोपपद्यते तत्सर्वमैन्द्रियिकमतीन्द्रियं वा व्यवस्थापयतीति वक्तुं शक्यत इति भावः।
रेतःशरीरयोरिति॥ त्वन्मत इति शेषः। अन्यथा अपत्योत्पत्तिमुद्दिश्य रेतःसेकादौ प्रवृत्तिर्न स्यादिति भावः। अस्तु रेतःशरीरयोः कार्यकारणभावस् तथापि अनुमानस्य मानत्वं कुतोऽभ्युपेयमित्यत आह– न चासाविति॥ निर्मानस्य वस्तुनः सत्त्वायोगेन त्वदभ्युपगतरेतःशरीरयोः कार्यकारण-भावसत्त्वनिर्वाहाय किञ्चिन्मानमभ्युपेयम्। न तत्र प्रत्यक्षं सम्भवतीति प्रत्यक्षेतरस्य मानत्वसिद्धिरिति भावः। जीवसिद्धिरिति॥ यद्यपि स्वात्मा प्रत्यक्षसिद्धस् तथापि परात्मनोऽतीन्द्रियत्वात् तत्सिद्धिरनुमाने-नोक्ता। एवं वातादिधातूनामपथ्येन विक्रिया भवतीत्याद्यर्थानां परस्याभिमतत्वात् तेषामतीन्द्रियार्थसिद्धये लिङ्गत्वेनोपन्यासो नानुपपन्न इति द्रष्टव्यम्। अत्युत्कटतपःपापाभ्यामिति॥ अत्युत्कटतपःपापाभ्या-मनुष्ठिताभ्यां फलं तावत्प्रत्यक्षेण दृश्यते। वस्तुतः साध्यसाधनयोः प्रत्यक्षेण दर्शनानन्तरं तयोः कार्यकारणभावज्ञानं जायत इति प्रत्यक्षसिद्धमिति भावः। न च तत्रेति॥ प्रत्यक्षसिद्धे तत्कार्यकारणज्ञाने कारणान्तरं प्रत्यक्षमनुमानं वा न चाऽस्तीत्यर्थः। इतःपरं टीकायां श्रूयमाणं ‘अतस् तत्कार्यकारणभावो अनुमानवेद्य इति तन्मानत्वसिद्धि’रिति वाक्यं प्रक्षिप्तम्। अवश्यं चैतदेवं विज्ञेयम्। तप आदीनां वैदिकत्वादित्युत्तरग्रन्थविरोधात्। तप आदीनां स्वफलं प्रति कारणभावस्य आगमवेद्यत्वाभिधानात्। कुत तप आदीनां कार्यकारणभावज्ञाने प्रत्यक्षादेर्न कारणत्वमित्यत आह– तप आदीनामिति॥ परिशेषफलमाह– ततश्च आगममानत्वसिद्धिरिति॥ क्वचितु ‘आगममानत्वसिद्धि’रित्येव पाठः। तस्मिन् पाठे ‘ततश्चे’ति शेषो द्रष्टव्यः। आगममानत्वसिद्धिफलमाह– ततश्चेति॥
वाक्यार्थमुक्तावली
शास्त्रपदव्यवर्त्यचोद्ययोरेकं निरस्यान्यं निरसिष्यन्निदानीं योनिपदव्यावर्त्यचोद्यनिरासाय प्रवृत्तं रेत इत्यादिभाष्यम्। तस्य सङ्गत्यप्रतीतेर्नास्तिक्यवादशब्दार्थं वदन्नवतारयति। नन्वतीन्द्रियेति। एतेनैतदुत्सूत्रमिति कस्यचिच्चोद्यं निरस्तम्। शास्त्रं योनिः प्रमाणमित्युक्त्या तदप्रामाण्यनिराकृतेः सूचनात्। न च शास्त्रपदव्यावर्त्यचोद्यद्वयं निरस्यानन्तरमेतच्चोद्यं निरस्यतामिति वाच्यम्। प्रमाणपदवीं गच्छेदित्यनुमानप्रामाण्यप्रस्तावे तन्निरास इति भावः। भाष्ये मोक्षधर्मेति। चार्वाकं प्रत्यनुपयोगेऽपि शिष्यं प्रति तस्याभासत्वमुच्यत इति बोध्यम्। अन्वयव्यतिरेकित्वाख्येति। शरीरं रेतःकारणकं तदन्वयव्यतिरेकानुविधायित्वादित्यस्येत्यर्थः। जीवसिद्धिरिति। परिणम्यमानं रेतो ऽधिष्ठातृपूर्वकं परिणम्यमानरेतस्त्वाद् व्यतिरेकेण मृतशरीरे सिक्तरेतोवदित्यनुमानेनेत्यर्थ ईश्वरादृष्टसिद्धिरिति। वन्ध्यादौ सिक्तं रेतः दृष्टसामग्रीव्यतिरिक्तसामग्रीविरहप्रयुक्तकार्याभाववद् दृष्टसामग्रीसमवधानेऽपि कार्यशून्यत्वाद् व्यतिरेकेण वन्ध्याशरीरे सिक्तरेतोवदित्यनुमानेनेति भावः।
अत इति। सामान्यतोऽदृष्टसिद्धावपि अदृष्टविशेषस्येश्वरत्वप्रकारकेश्वरबोधस्य चागमं विनाऽयोगादिति भावः। अपथ्याद्विक्रियत इत्यादावन्वयव्यतिरेकित्वस्यानुमानत्वसिद्धिरित्यनुवर्तनीयम्। नापि मृतशरीर इत्यादौ कार्यकरणमतस्तदधिष्टातृजीवसिद्धिरित्युपस्कार्यम्। न सर्वशरीर इत्यादौ कार्यकरणमत-स्तत्प्रेरकेश्वरादिसिद्धिरित्युपस्कार्यम्। साधनविशेषाज्जातिस्मृतिरिति। साधनविशेषादित्यनेनान्वयतिरे-कित्वस्यानुमानत्वमुक्तमिति ज्ञेयम्। सर्वेषामपि पूर्वजन्मस्मृत्यभावाच्च साधनविशेषादित्युक्तम्। यद्यपि जातमात्रमृगादीनां स्तन्यपानादिप्रवृत्तौ पूर्वस्मृतिरावश्यकी तथापि जातिस्मृत्यभावात्तदर्थं साधनमपेक्षिमेवेति भावः। न चेतनाभाव इति॥ स्मृतेरनुभवजन्यत्वेनानुभवितृत्वेनानेकशरीरानुगतचेतनस्याङ्गीकार्यत्वादिति भावः। न चास्ति सर्वेषामिति। साधनवतामपीति शेषः। तेन साधनाभावादेवाभावोपपत्तौ नेश्वरापेक्षेति निरस्तम्। न चाचेतने चेष्टकत्वमतश्चेतनसन्निधानमङ्गीकार्यमिति भावः। न च सर्वाचेतनानामिति। चेतनसन्निधानवतामपि सर्वाचेतनानां कार्यकरत्वं न दृष्टमिति भावः। न च चेतनविशेषसन्निध्य-भावात्कार्याभाव इति वाच्यम्। तदर्थमपीश्वरस्याङ्गीकार्यत्वादिति। न चासौ शक्तिरचेतने युक्तेति। न च मृदा घटजनिवत्किं न स्यादिति वाच्यम्। मृद एव घटात्मना परिणामवत्सूर्यकान्तस्यापरिणामात्। सन्निधानमात्रेणान्यत्राग्निजननस्य तदधिष्ठितचेतनव्यापारमन्तरेणायोगात्। बिम्बप्रतिबिम्बभावस्य चाभावादिति भावः।
तत्त्वसुबोधिनी
रेत इत्यादिप्रमाणं व्याचष्टे। रेतो धात्वादीति। वातादिधातुरपथ्याद्विक्रियत इत्यादौ जन्यजनक-भावादिकं यथासम्भवमूहनीयम्। देवताभ्युपयाचनमिति। मम सम्पदादिकं जायते चेत् तवैतावद्धनं दास्यामीत्याद्याकारेण वेङ्कटपत्यादिदेवतायाः प्रार्थनम्। यद्यपि जन्मान्तरीयदेवताभ्युपयाचनेन सम्पदादिकं भवत्येव तथापि प्रत्यक्षैकप्रमाणवादी चार्वाकस् तन्नाङ्गीकरोतीति तादृशदेवताभ्युपयाचनमेव ग्राह्यमिति भावः।
वाक्यार्थमञ्जरी
ईश्वराद्यतीन्द्रियमेव नास्ति शास्त्रादिकमपि प्रमाणभूतं नास्तीति अनेनैव नास्तिक्यवाद इत्येतद्विवृतम्॥ कार्यकारणभावोऽस्तीति॥ अन्यथा अपत्योत्पादनाय रेतःसेकादौ प्रवृत्त्यनुपपत्तिरिति भावः॥ न चासाविति॥ तस्य कालादिघटितत्वादिति भावः॥ अन्वयव्यतिरेकित्वाख्येति॥ शरीरं रेतोजन्यं तदन्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकप्रतियोगित्वादित्यनुमानेनेत्यर्थः। यदधिष्ठिते येनाधिष्ठिते। परिणमते शरीरात्मना। वातादिधातुरित्यादौ न चासौ प्रत्यक्ष इत्यादि यथासम्भवमनुवृत्त्य कार्यकारणभाव-साधकानुमानप्रामाण्यजीवेश्वरादृष्टागमप्रामाण्यसिद्धिर्व्याख्येया। कणिका बीजम्। अयस्कान्तेन सूचीपाषाणेन॥ न चाचेतने चेष्टकत्वमिति॥ अतस्तत्रेश्वरोऽङ्गीकार्य इति भावः॥ एवमेव न चासाविति वाक्यं योज्यम्। पच्यत इति। पचनानन्तरमेव तृष्णानिवृत्तिरिति भावः॥ नापि जीववत्सर्वशरीरेति॥ व्याधिविशेषविशिष्टानां तथा दर्शनादिति भावः। भूतेषु पृथिव्यादिषु। वचनादित्यस्य नास्तिक्यवादायोगे हेतुत्वायोगादाह॥ एतैरिति॥
विवृतिः
रेत इत्यादिप्रमाणं व्याचष्टे॥ रेतो धात्वादीति॥ वातादि धातुरपथ्याद्विक्रियत इत्यादौ जन्यजनकभावादिकं यथासम्भवमूहनीयम्।