०२ जन्माधिकरणम्

ॐ जन्माद्यस्य यतः ॐ

२. जन्माधिकरणम्

सूत्रभाष्यम्

ब्रह्मणो लक्षणमाह—

॥ ॐ जन्माद्यस्य यतः ॐ॥ १-१-२॥

सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षा यतः।

‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृत्तिः।

बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट्’॥ इति स्कान्दे।

यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद् ब्रह्मेति। (तै.उ.३-२)

य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा (ऋ.सं.१-१५४-५)।

चतुर्भिस्साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्। (ऋ.सं.१-१५५-६)।

‘परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति। न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप’ (ऋ.सं.७-९९-१२)।

‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा’ (ऋ.१०-८२-३) इत्यादि च॥ २॥ अ.२॥

सत्तर्कदीपावली

किं तद् ब्रह्म यज्जिज्ञासा कर्तव्येत्यपेक्षायां जगज्जन्मादिकर्तृत्वादिविशिष्टब्रह्माभिधानमसङ्गतमिति चेन् मैवम्। सर्वथाऽनवगतस्य प्रश्नासम्भवाद् बृहद्ब्रह्मेति ज्ञानमेव सर्वतो व्यावृत्ततया ज्ञातुं पृष्टत्वेन व्यावृत्तये लक्षणविशिष्टब्रह्माभिधानस्य सङ्गतत्वात्। निर्गुणं चेदत्र ब्रह्म विवक्षितं जन्माद्यस्य न यत इति सूत्रं स्यात्। न हि कर्तृत्वादिधर्मरहितात्किञ्चिदुत्पद्यते। जगज्जन्मादिकर्ता च हरिरेवेत्यत्र पुराणवचनमाह॥ उत्पत्तीति॥ भीषास्माद्वातः पवते यः पृथिवीमन्तरो यमयतीत्यादिश्रुतावपि विष्णुरेव जगज्जन्मादि-कर्तोच्यते। तद्ब्रह्मेति श्रवणात्। एतद्दार्ढ्याय विष्णुसूक्तगतश्रुती दर्शयति। य उ त्रिधात्वित्यादिना। अस्यार्थः। यः प्रकृतिपुरुषकालाधारत्वात्त्रिधातुशब्दोक्त एक एव पृथिव्याद्याधारः स हि विष्णुर्नम्यत्वेन नामपादोक्तैश्चतुर्भिर्वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्यस्वरूपैः सहितो ऽष्टवस्वेकादशरुद्रविष्णुव्यतिरिक्तैका-दशादित्यहिरण्यगर्भादिदशप्रजापतिपञ्चाशन्मरुदाख्यान्नवतिसङ्ख्याकान् विशेषेणार्तान् अधिकान् अन्यांश्च पदार्थान् वृत्तं चक्रमिव अवीविपद् विशेषेण सृष्ट्यादिना परिवर्तयामासेत्यर्थः। तदेतज्जगत्सृष्ट्यादिमाहात्म्यं विष्णोरन्ये न प्राप्नुवन्तीत्येतदुच्यते॥ पर इति॥ यतो मात्रया मितेः परो ऽपरिच्छिन्नो ऽवध्यतीतस् तन्वा वृधान जगद्व्याप्त्या विष्णो ते तव महिमानमन्ये न प्राप्नुवन्तीत्यर्थः। महिमातारतम्यपरावधिभूतं विष्णोर्महित्वं यथेदानींतनो न प्राप्नोति तथा जातो नापि जनिष्यमाणो प्राप्स्यतीत्युच्यते॥ न त इति॥ एतदेव महित्वं दृश्यते यो न इति। यो विश्वकर्मनामा पद्मनाभो नः सुरनरादीनामस्माकं पितेत्याद्यपि दत्तुपुत्रादेरजनकोऽपि पिता दृष्ट इति तन्निवृत्यर्थं जनिता पितेति विशेषणम्। पातीति वा पिता विशेषेण धाता विधारकः पोषको मुक्तानां तत्संपृच्छ्यत इति सम्प्रश्नं भुवनानि यन्तीत्यन्वयः।

तत्त्वप्रदीपिका

ब्रह्मणो लक्षणमाह-जन्माद्यस्य यतः। सा च विष्णोर्ब्रह्मत्वविधात्री तैत्तिरीयश्रुतिर्यानि तस्य लक्षणा-न्याह तान्यनेन सूत्रेण भगवानाह। तथाहि– ‘‘यतः प्रसूता जगतः प्रसूती’’ ‘‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधी’’ति प्रकृतिकालसृष्ट्यभिधानेन तस्मादेव सर्वसृष्टिरुक्ता। तदधीनत्वादितरसृष्टेः। ‘‘यस्मिन्निदं सं च विचैति सर्वं यस्मिन्देवा अधि विश्वे निषेदुः’’रिति स्थितिः। ‘‘वेनस्तत्पश्यन्विश्वा भुवनानि विद्वान्यत्र विश्वं भवत्येकनी’’मिति ज्ञानं संहारश्च। ‘‘विवेश भूतानि चराचराणी’’त्यर्थान्नियमनम्। ‘‘येनाऽदित्यस्तपति तेजसा भ्राजसा चे’’ति स्पष्टम्। ‘‘ऋतस्य तन्तुं विततं विवृत्य तदपश्यत्तदभव-त्प्रजास्वि’’त्यज्ञानं बन्धश्च। ‘‘य एनं विदुरमृतास्ते भवन्ती’’ति मोक्षः। ‘‘यतो वा इमानि भूतानि जायन्ते, ये जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्मे’’ति तैत्तिरीयश्रुतिर् विष्णो-रेवैतानि स्रष्टृत्वादीनि प्रसिद्धलक्षणानीत्याह॥ य उ त्रिधात्वित्यादि। प्रकृतिपुरुषकालधातृत्वात् ‘त्रिधातु’। भूमिं श्रियं च दधार। चतुर्भिरिति। वासुदेवादिनामवद्भिः रूपै‘र्व्यतीन्’ विशेषतोऽधि-का‘न्नवतिं’ ‘साकं’ युगपदेव ‘अवीविपत्’ पर्यवर्तयत्; विप परिवर्तन इति धातोः, किमुतान्यान्। प्रधानवायुना सह पञ्चाशन्मरुतो, वसवो, रुद्रादित्या एकादश, प्रजापतयश्च ब्रह्मदशमा नवतिर्देवाः। चतुर्भिर्नामवद्भिः कीर्तिमद्भिर्देवैः साकं नवतिं देवान्पर्यवर्तयदिति वाऽन्वयः। तथा चोक्तम्–

‘‘आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि।

बृहस्पतिश्च कामश्च मनुर्दक्षो विनायकः॥

भृगुश्चैवानिरुद्धश्च धर्मो निर्ऋतिरेव च।

कुबेरसहिता देवा नवतिस्सम्प्रकीर्तिताः॥

अनन्तो गरुडो वायुश्चत्वारो ब्रह्मणा सह।’’ इति।

परो मात्रयेति। मात्रायाः ‘परः’ परिमाणातीतस्त्वं, तन्वा ‘वृधान’ वर्धमान, देहेन पूर्ण, इत्थम्भावे तृतीया। देहरूपेण पूर्ण इत्यर्थः। यतश्चिदानन्दात्मको विष्णोरभिन्नश्च देहः। ते महिमानं नानुभवन्ति न प्राप्नुवन्ति॥

१. त्वदीयायाः ‘पृथिव्याः’ प्रकृतेः ‘रजसी’ पुण्यपापे ‘विद्म’। प्रकृते रजसा हि पुण्यपापे सृज्येते। ‘परमस्य’ ते रूपं महिमानं वा त्वमेव वित्से।

त्वमेव ‘महिम्नो’ महिमसमुदायस्यान्तः। ब्रह्मणश्श्रियो वा महिमानमतिशयितो हि विष्णुमहिमा। अन्यमहिम्नां परमन्तं ते महिमानं न कश्चिदाप॥

२. यत्राकं नास्ति त‘न्नाकम्’। उच्चैरस्तम्भयः। ‘ऋष्वं’ प्रकाशरूपम्। ‘पृथिव्याः’ पृथिव्यात्मकस्य ब्रह्माण्डस्य प्राचीं दिशमुत्थापनेन ‘दाधर्थे’ति सर्वधारणोपलक्षणम्। देवान्पर्यवर्तयदित्युक्त्यैव सृष्ट्यादयः स्पष्टोदिता अतिमहिमोक्त्याऽपि सन्दर्शिताः॥ यो नः पिता पाता।

‘‘स एव पितृसंस्थस्तु पातृत्वात्पितृनामकः’’ इत्यैतरेयसंहितायाम्। विधाता धारणपोषणकर्ता, पोषणं ज्ञानमोक्षप्रदानेन॥ इति जन्माधिकरणम्॥

तत्त्वप्रकाशिका

अत्र श्रुत्युक्तब्रह्मणो विष्णुत्वसमर्थनादस्ति शास्त्रसङ्गतिः। श्रुत्यादिसङ्गतिस्तु तद्विजिज्ञासस्व तद्ब्रह्मेति श्रुत्युक्तं ब्रह्म जिज्ञास्यमित्युक्तं तस्य च विष्णुत्वं यावन्न साध्यते तावत्तस्य गुणपूर्त्यसिद्ध्या भेदकाभावेन जिज्ञास्यता न सम्भवतीति। तच्छ्रुत्युक्तं ब्रह्मात्र विषयः। किं विष्णुरुत जीव इति सन्देहः। उभयत्रापि ब्रह्मपदप्रयोग एव सन्देहबीजम्। यद्यपि पूर्वाधिकरणे विष्णावेव ब्रह्मशब्दो मुख्य इत्युक्तं तथापि स्वकृत-व्याख्यानस्थापनाय भाष्यकारैरेवोक्तत्वाद् भवति सन्देहः। जीव एवेदं ब्रह्मेति पूर्वः पक्षः। बृह जातिजीवेति ब्रह्मशब्दस्य जीवे रूढत्वात्। यद्यपि ब्रह्मशब्दो विष्णौ प्रवर्तते तथापि तस्य तत्र योगेनैव प्रवृत्तेः। रूढियोगयोश्च रूढेरेव बलवत्त्वाज्जीववाचित्वमेव मुख्यम्। न च रूढिपरित्यागेन योगाङ्गीकारो युक्तः। बाधकं विना मुख्यार्थत्यागायोगात्। न चात्र तादृशं बाधकमस्ति। तस्माज् जीव एवेदं ब्रह्म। तस्य च स्वप्रकाशत्वेनासन्दिग्धत्वादजिज्ञास्यतेति। अथ सिद्धान्तयत्सूत्रमवतारयति। ब्रह्मण इति। निर्बाधरूढिबलाज्जीव एवेदं ब्रह्मेति प्राप्ते तन्निराकर्तुं जीवग्रहणे बाधकं श्रुत्युक्तं जिज्ञास्यब्रह्मणो लक्षणमाह सूत्रकार इत्यर्थः। अस्य जगतो जन्म आदिपदोक्ते स्थितिसंहृती यतस्तद्ब्रह्मेत्यादिप्रतीतिनिरासाय सूत्रं यथावद्व्याचष्टे॥ सृष्टीति॥ सृष्ट्याद्यष्टकमस्य जगतो यतो भवति तदेव जिज्ञास्यं ब्रह्मोच्यते। तल्लक्षणं च विष्णावेव सम्भवति न जीवेऽतो ब्रह्मशब्दस्य जीवे रूढत्वेऽपि बाधकसद्भावात्तद्ब्रह्मेति श्रुत्युक्तं ब्रह्म विष्णुरेवेति युक्तैव प्रागुक्तजिज्ञासेत्यर्थः। यद्यपि विष्णौ ब्रह्मशब्दो विद्वद्रूढियुक्तस्तथाप्यभ्युप-गम्योक्तिरियमिति ज्ञातव्यम्। जन्माद्यस्येति तद्गुणसंविज्ञानः। लब्धजन्मनो हि स्थित्यादीत्यतो जन्मन आदित्वम्। ननु जगज्जन्मादिकर्तृत्वं यदि विष्ण्वेकनिष्ठं तर्हि भवेज्जीवापबाधकं तदेव कुत इत्यत आह॥ उत्पत्तीति॥ आवृतिरज्ञानम्। एकराट् स्वतन्त्रः। नन्वेतल्लक्षणं जिज्ञास्ये नोपलभ्यतेऽतः कथं जीवापबाधकमित्यतस्तत्पूर्ववाक्ये कथितमिति तदुदाहरति॥ यत इति॥ यत्प्रयन्ति प्रलये। यदभि स्वेच्छया सम्यक् प्रविशन्ति मुक्तौ। सृष्ट्यादिकर्तृत्वं प्रत्येकमपि विष्ण्वैकनिष्ठं किमु सर्वमित्यभिप्रायेण स्थितिकर्तृत्वस्य तदेकनिष्ठत्वे श्रुतिमाह॥ य इति॥ य एक एव प्रकृतिपुरुषकालाधारकः पृथिवीं द्यां सर्वभुवनानि च दधारेत्यर्थः। तथा नियमनं च तदेककर्तृकमिति श्रुतिमाह॥ चतुर्भिरिति॥ स बृहच्छरीरो मूलरूपी चतुर्भिर्वासुदेवादिनामभिर्नाममात्रैः स्वरूपभेदशून्यैः साकं नवतिं विशेषेणाधिकान् देवान् वृत्तं चक्रमिव पर्यवर्तयदित्यर्थः। अष्टौ वसव एकादश रुद्रा एकादशादित्या दश प्रजापतयः पञ्चाशन्मरुत इति नवतिः। एतान्यपि लक्षणान्यन्यव्याप्तानि नेत्याह॥ पर इति॥ हे विष्णो स्वमूर्त्यैवापरिच्छिन्न त्वं मितेः परोऽतोऽपरिमितत्वात्ते जगत्सृष्ट्यादिमहिमानं केऽपि न प्राप्नुवन्तीत्यर्थः। वर्तमाननिषेधात् स्यादतीतादावतिव्याप्तिरित्यत आह॥ नेति॥ हे विष्णो देव ते महिम्नः परमन्तं सीमानं जायमानो न प्राप्नोति जातो नाप जनिष्यमाणो नाप्स्यतीत्यर्थः। जगत्कारणत्वं च ब्रह्मणो न विकारित्वेन किन्तु पितृवदेवेति श्रुत्या दर्शयति॥ य इति॥ नः सर्वेषाम्। न दत्तपुत्रपितृवत्पिता किन्तु जनिता जनकः। सर्वाणि भुवनानि तद्गतधामानि च वेदेत्यर्थः। अतोऽतिव्याप्त्यादिशून्यविष्णुलक्षणवत्त्वाद्विष्णुरेव श्रुत्युक्तं ब्रह्म न जीवोऽतो युक्तैव ब्रह्मजिज्ञासेति स्थितम्॥ अ-२॥

गुर्वर्थदीपिका

ब्रह्मणो जीवाभेदेन न जिज्ञासायां विषयतेत्याशङ्क्य जीवाभेदनिरासाय विषयत्वसमर्थनाय च जिज्ञास्ये ब्रह्मपदं प्रयुञ्जता सूत्रकारेणाज्ञरूढेरुपेक्षितत्वाद्विद्वद्रूढिमहायोगयोराश्रितत्वाद्भाष्यकृता च सौत्रब्रह्मशब्दस्यैव पोषणाय ‘‘तदेव ब्रह्म परमं कवीना’’मिति श्रुतिं प्रमाणयताऽज्ञरूढिमुपेक्ष्य विद्वद्रूढि-माश्रित्य विष्णोरेव ब्रह्मताया निर्णीतत्वाच्च सूत्रभाष्ययोर्दिशा नोत्तराधिकरणप्रापकतयाऽज्ञरूढिमात्रेण शब्दस्य पुनर्जीववाचित्वशङ्का। तथाऽप्यभ्युपगमवादेन कथञ्चिद् ब्रह्मशब्दस्य जीववाचित्वेऽङ्गीकृतेऽपि जिज्ञासाश्रुतौ न जीवोऽङ्गीकर्तुं शक्यः। तस्यामेव श्रुतौ जीवेऽसम्भावितलक्षणस्योक्तत्वेन रूढ्यपवादक-सद्भावादिति न्यायविवरणोक्तपूर्वपक्षसिद्धान्तानुसारेण टीकाकारस्य प्रवृत्तिः। ‘‘ब्रह्मणो लक्षणमाहे’’ति वदन्भाष्यकारः पूर्वाधिकरणोक्तसिद्धान्तसमर्थनार्थं तत्रैव स्वभाष्ये प्रपञ्चितमखिलमनुपमृद्यैव ‘‘लक्षण-प्रमाणाभ्यां वस्तुसिद्धि’’रिति वचनात् तयोरभावात्कथं तस्य पूर्वाधिकरणोक्तजिज्ञासेत्यभ्यधिकाशङ्कां परिहर्तुं क्रमेण जन्मादिकारणत्वाख्यलक्षणं तद्वत्त्वे सच्छास्त्राख्यप्रमाणं च समर्थयितुमुत्तराधिकरणद्वयमित्यपि सङ्गतिं सूचितवान्। अतो न ग्रन्थद्वयस्यापि वैयर्थ्यमिति ज्ञेयम्। अत एव स्वकृतव्याख्यानस्थापना-येत्याद्यपि मन्दाशङ्कैव। अधिकारिप्रयोजनसाधकाथातःपदद्वयवद्विषयप्रदिपादकसौत्रब्रह्मशब्देनैव सर्वस्याप्यर्थस्य सूचितत्वेन स्वकपोलकल्पितशङ्कायाः कारणाभावात्। यद्यपि विषयत्वसाधक-ब्रह्मपदेनैवानन्तगुणपरिपूर्णत्वाख्यं लक्षणमिति सूचितम्। तथापि तदसम्भावनाशङ्कायां सम्भावकश्रुत्युक्त-जन्मादिकारणत्वलक्षणस्य स्पष्टं निरूपणायाधिकरणान्तरारम्भ इति सर्वमवदातम्।

विष्णोरपरिमितत्वे तदभिन्नतन्महिम्नोऽप्यपरिमितत्वावश्यम्भावान्न परिमितगुणैरन्यैः स महिमा प्राप्तुं शक्य इति भावेनोक्तम्। अतोऽपरिमितत्वादिति। जात इति वचनबलाज्जायमान इति वचनबलाद्यो जातो न यश्च जायमानो न किन्तु भविष्यन्नपि नेति नञावृत्त्या अतीतवर्तमानभविष्यतां महिमनिषेधप्राप्ति-रिति भावेनाह। जायमान इत्यादिना। अन्यथा महतः सर्वोत्तमस्य भावो महिमेति सर्वोत्तमत्व-प्रतिपादकतया अस्यामेव श्रुतावुक्तमहिमशब्दविरोधः विष्णुपदसूचितविष्णुसहस्रनामस्थ‘भूतभव्य-भवत्प्रभु’रिति नामविरोधश्च स्यात्। इति जन्माधिकरणम्॥

भावबोधः

तस्य च विष्णुत्वं यावन्न साध्यत– इति। अनेन पूर्वाधिकरणेनास्याधिकरणस्याक्षेपिकी सङ्गतिरुक्ता भवति। न सम्भवतीति। प्रकारवाचिन इतिशब्दस्येति श्रुत्यादिसङ्गतिरिति पूर्वेण सम्बन्धः। किमिति। अत्र ‘तद्ब्रह्म’ इति श्रुत्युक्तं ब्रह्म किं जीव उत विष्णुरिति चिन्ता। तदर्थं ब्रह्मशब्दस्य रूढार्थजीवपरित्यागेन यौगिकार्थविष्णुग्रहणे हेतुर्नास्त्युतास्तीति। तदर्थं यतो वेत्यादिपूर्वोक्तं जन्मादिकारणत्वं किं जीवसाधारणमुत विष्णुमात्रनिष्ठमिति। तदर्थं तस्य विष्णुमात्रनिष्ठत्वे प्रमाणं नास्त्युतास्तीति। मुख्य इत्युक्तमिति। मुख्यामुख्ययोर्मध्ये मुख्यस्यैव सम्प्रत्यय इत्यवधारणबलेन नोत्कटकोटिकोऽपि सन्देहः सम्भवतीति भावः। स्वकृतव्याख्यानेति। ‘यतो नारायणप्रसादमृते’ इत्यादिनेत्यर्थः। योगेनैवेति। न्यायविवरणे पूर्वाधिकरणसिद्धान्ते ‘अथ कस्मादुच्यते’ इति श्रुत्युदाहरण-पूर्वकं विष्णौ तस्य योगस्यैव प्रदर्शितत्वात्। योगानङ्गीकारेण पूर्णत्वासिद्धेश्च श्रुतिप्रतिपादितयोगेनैव तद्व्यवहारोपपत्तौ योगरूढ्यङ्गीकारस्य व्यर्थत्वाच्चेति भावः। जीववाचित्वमेव मुख्यमिति। अनेन ‘जीव एवायं ब्रह्मशब्दः’ इति न्यायविवरणं व्याख्यातं भवति।

‘भरद्वाज प्रवक्ष्यामि लक्षणं परवस्तुनः।

यज्ज्ञानेन प्रकृष्टत्वं मन्दैरपि च ज्ञायते।’

इति प्रमाणानुसारेण ‘ब्रह्मणो लक्षणमाह’ इति भाष्यं व्याचष्टे– जीवग्रहणे बाधकमिति। जिज्ञास्यब्रह्मणो लक्षणमिति। विष्णुलक्षणत्वेन प्रमितं जगज्जन्मादिकारणत्वं जिज्ञास्यब्रह्मसम्बन्धि, जीवसम्बन्धि नेत्यर्थः। अत एव जीवग्रहणे बाधकमित्युक्तम्। ‘यतो वा इमानि भूतानि जायन्ते’ इति जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वेनोक्तेरिति न्यायविवरणानुसारेणाह तल्लक्षणं चेति। अभ्युपगम्योक्तिरियमिति ज्ञातव्यमिति। तथा च विद्वद्रूढ्या ब्रह्मशब्दस्य विष्णौ मुख्यत्वसाधकम् ‘ब्रह्मशब्दश्च विष्णावेव’ इत्यादिभाष्यमुपपन्नम्। सूत्रापेक्षया भाष्ये प्रकारान्तरेणोपपत्तिकथनं शिष्यव्युत्पादनार्थमिति ज्ञातव्यम्। न च रूढ्यङ्गीकारो निर्मूलः। ‘योगवत् कवीनाम्’ इत्यादिना तत्र तत्र प्रमितत्वादिति पूर्वाधिकरण एव प्रमापितत्वात्। अत एव न्यायविवरणेऽपि श्रुत्या योगप्रदर्शन-मुपलक्षणपरमिति ज्ञातव्यम्। तत्र कण्ठतोऽनुक्तिस्तु ब्रह्मशब्दस्य गुणपूर्णत्वाभिधायकत्वानुपपादकत्वेनानुप-योगादिति भावः। तद्गुणसंविज्ञान इति। ‘यतो वा’ इत्यादिश्रुतौ ‘जायन्ते’ इत्युक्तत्वादिति भावः। एवञ्च ‘लब्धजन्मनः’ इत्युपपन्नम्। अत एव ‘तद्गुणसंविज्ञानः’ इत्युक्त्वाऽनन्तरम् ‘लब्धजन्मन’ इत्युक्तम्। अन्यथा तन्निवर्तनीयशङ्काया एवानुदयात्।

उदयस्थितिसंहारनियमाज्ञानबन्धनम्।

ज्ञानमोक्षौ यतः पुंसः स विष्णुरिति कीर्तितः॥

इति प्रमाणानुसारेणाऽऽह– आवृतिरज्ञानमिति।

यतो जातानि भूतानि जीवन्त्येतानि येन वै।

आप्नुवन्ति लयं यत्र यत्र मुक्तिः स वै हरिः॥

तस्मात् स एव जिज्ञास्यो नात्र कार्या विचारणा॥

इति प्रमाणानुसारेण ‘यतो वा’ इत्यादिश्रुतिं व्याचष्टे– यत्प्रयन्ति प्रलय इति।

कर्मशेषादिरूपाणि भुवनानि चतुर्दश।

यो दधार स वै विष्णुर्नान्यो विश्वस्य धारकः॥

इति विशेषप्रमाणानुसारेण व्याचष्टे– य एक एवेति।

चतुर्भिर्नामभिः साकं वासुदेवादिभिर्हरिः।

वसून् रुद्रान् तथादित्यान् ब्रह्मणो मरुतस्तथा॥

बृहच्छरीरो भगवान् नूनं शास्ति च नित्यशः॥

इति प्रमाणानुसारेण श्रुतिं व्याचष्टे– स बृहच्छरीर इति।

व्यतीनित्यस्यार्थो विशेषेणाधिकानिति। ‘विशेषेणाधिकत्वेन व्यतयो देवताः स्मृताः’ इति वचनात्। एतान्यपि लक्षणानीति। न केवलं नियामकत्वं पालकत्वञ्चेति लक्षणद्वयमेव नातिव्याप्तम्, किन्तु तदतिरिक्तान्यपि सृष्टिकर्तृत्वादीनि नातिव्याप्तानीत्याहेत्यर्थः।

जातो जनिष्यमाणश्च वर्तमानस्तथैव च।

विष्णोः सृष्ट्यादिकर्तृत्वं लभते न कुतश्चन।

इति वचनानुसारेणाऽऽह विष्णो इति।

सृष्ट्यादिकरणे विष्णौ न विकारोऽस्ति कुत्रचित्।

यथा पुत्रस्य जनने पितुर्नास्ति विकारता॥

इति वचनानुसारेण ‘यो नः पिता’ इति श्रुत्यभिप्रायमाह जगत्कारणत्वञ्चेति।

तस्मात् सृष्ट्यादिकर्ता यस् तद्ब्रह्म स हरिः स्मृतः।

न जीवादिरतो विष्णुर्विजिज्ञास्य इति स्थितम्॥

इति वचनानुसारेणाधिकरणार्थमुपसंहरति अत इति॥ २॥

भावदीपः

॥ ॐ जन्माद्यस्य यतः ॐ॥ प्रत्यधिकरणं प्रतिपाद्यज्ञानेन स्पष्टत्वाद्भाष्यानुक्तामप्यन्तर्भावसङ्गतिं स्वयमाह॥ अत्रेति॥ एतदधिकरण इत्यर्थः॥ सङ्गतिरिति॥ अन्तर्भावरूपेत्यर्थः। तदुपपादनं श्रुत्युक्तेत्यादि। ब्रह्मपदवाच्यस्येत्येव वाच्ये श्रुत्युक्तेत्युक्तिस्सौत्रब्रह्मपदोक्तस्येति भ्रमनिरासाय। तथा च श्रुत्यर्थनिर्णायकन्यायग्रथनात्मके शास्त्रे अस्य श्रौतब्रह्मपदार्थनिर्णायकन्यायग्रथनात्मकस्यान्तर्भावो युक्त इति भावः॥ विष्णुत्वेति॥ सिद्धान्ते तस्य रूढिनिरासेन यौगिकत्वमात्रोक्तावपि योगार्थस्य विष्णावेव सम्भवाद् यौगिकत्वेत्यनुक्त्वा विष्णुत्वेति फलितोक्तिः कृता॥ श्रुत्यादीति॥ अधिकरणमादिपदार्थः। सङ्गतिः पूर्वानन्तर्यरूपा॥ एकवचनं तु एकस्य प्रदर्शनेऽन्यस्य सा सुज्ञाना एकप्रकारत्वात् श्रुत्यधि-करणसङ्गत्योरिति प्रकारैक्यबुध्या। न तु सङ्गत्यैक्यबुध्या। क्वचिद् द्विवचनस्यापि प्रयोगात्। पूर्वाधिकरणतद्विषयवाक्याभ्यामेतदधिकरणविषयवाक्ययोः सङ्गती त्वित्यर्थः॥ इत्युक्तमिति॥ विषयादिन्यायैः पूर्वाधिकरणे साधितमित्यर्थः। तस्य श्रौतब्रह्मशब्दार्थस्य॥ न साध्यत इति॥ रूढित्याजकजन्मादिहेतुत्वरूपबाधकाख्यन्यायोपदर्शनेनेति भावः॥ भेदकाभावेनेति॥ तथा च पूर्वपक्षे जीवस्यैव ब्रह्मतापत्त्या पूर्वत्रेव विषयादिशून्यत्वेन तज्जिज्ञासा पूर्वसूत्रोक्ता न कार्येत्याक्षेपादाक्षेपिकी सङ्गतिरित्यर्थः। ‘पूर्वमाक्षिप्यते यत्र तत्र साक्षेपिकी मते’त्युक्तेः। एतेन तद्विजिज्ञासस्वेत्युक्ता जिज्ञासा कार्येत्युक्तं पूर्वं तदयुक्तम्। तद्ब्रह्मेत्युक्तब्रह्मणोऽविष्णुत्वेन रूढ्या जीवत्वादिति पूर्वश्रुत्यात्र विचार्यश्रुतेरपि सङ्गतिः सिद्धा। वाक्यैक्येऽपि पूर्वत्र तद्विजिज्ञासस्वेत्यंशस् तद्ब्रह्मेति ब्रह्मश्रुतिरूपहेतूक्त्या विचारितोऽत्र तु पूर्वत्र हेतूकृततद्ब्रह्मेत्यंश उत्तरत्र तु अत्र हेतूकृतो यतो वेत्यादि पूर्वांशो विचार्यत इत्यंशभेदाद्भेद इति भावः। इतिशब्दस्य इति सङ्गतिरिति पूर्वेणान्वयः। एवमग्रेऽपि सङ्गतिग्रन्थव्याख्या ध्येया॥ तच्छ्रुत्युक्तमिति॥ न तु सुधायामिव सर्वश्रुत्युक्तं ब्रह्मपदार्थमात्रं जीव इति पूर्वपक्ष्यते इति तच्छब्दप्रयोगाभिप्रायः॥ उभयत्रापीति॥ तदेव ब्रह्मेति श्रुतौ विष्णौ बृहजातिजीवकमलासन-शब्दराशिष्विति जीवे प्रयोग इत्यर्थः। कारणत्वश्रवणाज्जात्यादेरिहासन्देहनिविष्टत्वं व्यक्तम्। यद्वा तदप्युपलक्ष्यम्॥ उत जीवादिरिति॥ यथोक्तं न्यायविवरणटीकायाम्। जीव एवेति जात्यादेरुपलक्षणम्। एवशब्दस्तु भगवन्तं व्यावर्तयतीति॥ स्वकृतेति॥ यतो नारायणप्रसादमृत इत्यादिना स्वकृतेत्यर्थः। तथा चेतःपूर्वसूत्रे विष्णुत्वासाधनात्सन्देहो युक्त इति भावः। यत्तु स विष्णुराह हीत्यादावे-तत्पूर्वभाविसूत्रद्वये ब्रह्मशब्दस्य विष्णौ मुख्यत्वं सिद्धम्। अस्मिन्नपि शास्त्रे स्याच्चैकस्य ब्रह्मशब्दवदित्यत्र द्वितीये। परं जैमिनिर्मुख्यत्वादिति चतुर्थे च मुख्यत्वं सूत्र एव सिद्धमिति। तन्न। योगेनैव तत्र मुख्यत्वस्याभिमतत्वात्। इह तद्ब्रह्मेति श्रुतौ योगार्थस्यैव पूर्वपक्षिणाऽऽक्षेपात्। विष्णौ विद्वद्रूढिसत्त्वेऽपि इह तदभावाभ्युपगमेन केवलयौगिकत्वोपगमेनोत्तरपक्षप्रवृत्तेरिति तात्पर्यात्। अभ्युपगमकृत्यं त्वभ्युपगम्योक्तिरियमिति टीकाव्याख्याने वक्ष्यामः। न च जीव एवायं ब्रह्मशब्द इति न्यायविवरणं विवृण्वान आह॥ जीव एवेति॥ तत्रस्थैवकारसूचितहेतुमाह॥ रूढत्वादिति॥ गुणपूर्तिरूपयोगस्य जीवे अयोगात्। अन्यस्य चानतिप्रसक्तस्याभावाज्जात्यादिसाहचर्याच्च रूढत्वमेवेति भावः॥ प्रवर्तत इति॥ तदेव ब्रह्मेत्यादिश्रुताविति भावः॥ योगेनैवेति॥ रूढत्वे गुणपूर्त्यसिद्धेरिति भावः। एवकारस्तु योगरूढिव्युदासार्थः। बृहन्तो ह्यस्मिन्गुणा इति श्रुत्यनुसारिक्लृप्तावयवशक्तिरूपयोगेनैवोपपत्तौ समुदायशक्तिरूपरूढेस्तदेव ब्रह्मेत्यादावपि सर्वत्राकल्पकत्वादिति भावः। एतेन विष्णौ ब्रह्मशब्दस्य रूढिरप्याक्षिप्ता॥ रूढेरेवेति॥ अवयवार्थनिरपेक्षायाः शीघ्रमर्थोपस्थापकत्वादिति भावः। तदेव ब्रह्मेत्यादाविवात्राप्यस्त्वित्यत आह॥ न चात्रेति॥ तद्ब्रह्मेति श्रुतावित्यर्थः। तादृशं समुद्रशायित्वादि-रूपम्। कारणत्वं त्वदृष्टद्वारा जीवेऽपि युक्तमिति भावः। उक्तं प्रमेयं पूर्वपक्षन्यायविवरणारूढं कुर्वन्नुपसंहरति। तस्माद्रूढौ बाधकाभावादिति। जीव एवेदं ब्रह्मेत्यनेन जीव एवायं ब्रह्मशब्द इति न्यायविवरणमुक्तार्थम्। इदं ब्रह्म। तद्ब्रह्मेति श्रुत्युक्तं ब्रह्मेत्यर्थः। अत्राप्येवकारेण पूर्वोक्तदिशा जात्यादिकमपि वा विष्णुमात्रमेव वा व्यावर्त्यं बोध्यम्। जीवादावनेकत्र ब्रह्मत्वबुद्धिप्रसक्तावेव लक्षणोक्त्या विष्णुरेवेदं ब्रह्मेति सिद्धान्तयितव्यत्वात्। तस्य स्वप्रकाशत्वान्न जिज्ञास्यतेति पूर्वाधिकरणपूर्वपक्षन्यायविवरणशेषं जीव एवायं ब्रह्मशब्द इत्यत्राप्यनुवर्त्य योज्यमिति भावेन वाक्यं पूरयति॥ तस्य चेति॥ एतेन फलं दर्शितम्। अत्र स्वप्रकाशत्वेनेति जात्यादेः सुप्रसिद्धत्वेनेत्यस्योप-लक्षणं वा अध्याहारो वा। इतिशब्दः पूर्वपक्षसमाप्तौ। एवमग्रेऽपि। अत्र क्वचिज्जात्यादेर्मुख्यतोऽ-जिज्ञास्यत्वात्। देहात्मविवेकस्यावश्यकत्वादिति टीकापाठो नात्रत्यटीकापाठः। तस्य चेत्याद्युत्तर-वाक्यानानुगुण्याच्चन्द्रिकावाक्यानानुगुण्याच्च। किन्तु न्यायविवरणटीकादिस्थ एवात्र कैश्चित्प्रक्षिप्तो बहुकोशेष्वदर्शनादित्याहुः॥ अथेति॥ अथ केन प्रयुक्तोऽयमित्यादाविव प्रकृतादर्थादर्थान्तरेऽयमथशब्दः विष्णुरिति सिद्धन्तयितुमित्यर्थः। एवमन्यत्रापि। ब्रह्मलक्षणोक्तौ सङ्गत्यप्रतीतेर्जीव एवायं ब्रह्मशब्द इत्यन्यत्रोक्तं संयोजयंस्तामाह॥ निर्बाधेति॥ उक्तं च सङ्गम्यन्ते गुरोर्गिर इति॥ इत्यादीति॥ आद्यस्य चतुर्मुखस्य जन्म यत इत्येतदादिपदार्थः। ननु सूत्रे जन्मादीत्येकवचनं भाष्ये तु मोक्षा इति बहुवचनं कथं व्याख्यानमित्यतः समुदायाशयं सूत्रमिति भावेनाकांक्षितपूर्त्या भाष्यसूत्रयोरर्थमाह॥ सृष्ट्यादीति॥ यथायोगं व्यस्तं समस्तं चेति भावः। व्यस्तसमस्तविश्वविभूतय इति प्राक् स्फुटत्वा-दत्रानुक्तिः। भाष्ये बहुवचनं तु सौत्रैकवचनात्सर्वमेकं लक्षणमिति पररीत्या न भ्रमितव्यमिति बहुलक्षण-सूचनाय। व्यक्तमेतत्सुधाचन्द्रिकयोः॥ तदेवेति॥ जन्मादिकारणत्वलक्षणयुक्तमेवेत्यर्थः। जन्मादिकारणत्वस्यैव लक्षणत्वोक्तेरिति न्यायविवरणोक्तेरिति भावः। यत इत्युक्तेस्तदिति लभ्यते। भाष्यटीकयोः सृष्टिस्थितीत्यादिप्रयोजकव्यापारवाचिना सृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मादिर्लक्ष्यते। लक्षणाफलं तु ब्रह्मणः स्रष्टृत्वादिकमेव न तूपादानत्वमिति प्रदर्शनमिति चन्द्रिकोक्तेः। अत एव वक्ष्यति यो नः पितेति॥ ब्रह्मोच्यत इति॥ तेन पूर्वस्माद् ब्रह्मपदानुवृत्तिः सूचिता। ततः किमित्यतो वक्ष्यमाणं भाष्यं सर्वं हृदि कृत्वा सूत्रभाष्ययोः फलितार्थमाह॥ तल्लक्षणं चेति॥ सम्भवति वक्ष्यमाणदिशेति भावः॥ न जीव इति॥ न जीवादावित्यर्थः। ननु रूढ्या जीव इति प्राप्ते सूत्रे विद्वद्रूढ्युक्त्यैव समाधिः कार्यः। तदेव ब्रह्मेत्यादिश्रुत्या ब्रह्मशब्दस्य विष्णौ विद्वद्रूढेः सत्त्वात्। न तु रूढौ बाधकोक्त्येत्याशङ्क्याह॥ यद्यपीति॥ इयमिति सौत्री बाधकोक्तिः। पूर्वपक्ष्युक्तदिशा विष्णौ रूढ्यभावमङ्गीकृत्यैव न तु वस्तुत इत्यर्थः। अभ्युपगमवादफलं तु जीवभेदकगुणपूर्तिलाभेन पूर्वोक्तविषयसिद्धिरिति ज्ञेयम्। रूढ्युक्तौ तदलाभात्। अष्टकलाभायाह॥ तद्गुणेति॥ तस्य गुणस्य उपसर्जनीभूतस्यान्यपदार्थे सम्यग्विज्ञानं विशेषणत्वेनोपादानं यस्मिन्बहुव्रीहौ स तद्गुणसंविज्ञानो बहुव्रीहिरिति शेषः। तद्गुणसंविज्ञानमति पाठे तद्गुणस्यान्यपदार्थे संविज्ञानं विशेषण-त्वेनोपादानमित्यर्थः। जन्म आदिः प्रथमं यस्मिन् स्थित्यादिजात इत्यत्र कथं जन्मनस्तेषु प्राथम्यम्। ‘न पौर्वापर्यमिच्छन्ति नद्यां भ्राम्यद्भ्रमेरिवे’ति तृतीयस्कन्धोक्त्या दर्शपौर्णमासीतिथ्योरिव जन्म-संसारयोरनादित्वादित्यत आह॥ लब्धेति॥ सत्यमेवं तथापि लब्धजन्मनः स्थित्यादिरितिवत् स्थितस्य नष्टस्य वा जन्म नेत्येकव्यक्त्यपेक्षया जन्मनः प्राथम्यमिति भावः। व्यक्तमेतन्मिथ्यात्वानुमानखण्डनटीका-भावप्रकाशिकायाम्। अन्धकारभ्रान्तिं निराह॥ आवृतिरिति॥ एकाकित्वभ्रान्तिं निराह॥ एकराडिति॥ नियतिर् व्यापारेषु प्रेरणम्। बन्धः प्रकृतितः। मोक्षो बन्धादिति व्यक्तमिति भावः। एतेषामसाङ्कर्यं चन्द्रिकायां व्यक्तम्। एतेन

‘‘सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने।

बन्धो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च॥’’

इति तत्वसङ्ख्यानोक्त्या सुखादीन्यपि कुतो न गृहीतानीति निरस्तम्। स्कान्दे सूत्रकृतैवाष्टक-कर्तृत्वस्यैव लक्षणत्वेनोक्तत्वात्। सूत्रे तावत एव विवक्षणीयत्वात्॥ पूर्ववाक्ये कथितमिति॥ तेन लक्षणस्यासम्भवनिरासार्थमेतदिति दर्शितम्। अत एव वक्ष्यत्युपसंहारे व्याप्त्यादीत्यादिपदम्। नन्वत्र वाक्ये जन्मस्थितिलयमुक्तिरूपव्यापारचतुष्टयकृत्त्वमात्रमेव श्रुतं न तु सृष्ट्याद्यष्टककर्तृत्वरूपम् अतः कथमेतल्लक्षणं पूर्ववाक्ये कथितमित्युक्तिः। मैवम्। एतद्वाक्योपलक्षितेष्वेवंरूपवाक्यान्तरेषु त्वं मुक्तिदो बन्धदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो इत्यादिषु तत्र तत्र व्यापारान्तराणां श्रवणेनात्रा-प्युपलक्षणतया सृष्ट्याद्यष्टकस्य ग्राह्यत्वादिति तात्पर्यात्। विवृतमेतत्सृष्ट्याद्यष्टकस्य श्रौतत्वं तत्वप्रदीप-चन्द्रिकयोः। एकैकव्यापारोक्तिपरश्रुत्युक्तेरुपयोगाप्रतीतेराह॥ सृष्ट्यादीति॥ विष्ण्वेकनिष्ठमिति॥ जीवापबाधकमिति अनुवर्तते॥ किम्विति॥ स्कान्दस्मृत्या परो मात्रयेति वक्ष्यमाणश्रुत्या च सर्वं विष्ण्वेकनिष्ठं सज्जीवबाधकं किमु वाच्यमित्यर्थः। सर्वमित्यनेकपरं वा। प्रागुक्तदिशा यतो वेत्यत्रोप-लक्षितसृष्ट्याद्यष्टकपरं वा ज्ञेयम्॥ तदेकनिष्ठत्व इति॥ एक एवेति श्रौतावधारणादेतल्लाभ इति भावः॥ श्रुतिमिति॥ स्मृतौ सर्वस्य तदेकनिष्ठत्वोक्तेस्सा पूर्वमुक्तेति भावः। एतेन यतो वेति वाक्ये चतुष्टयश्रवणेनाष्टकाश्रवणेऽपि तेन तत्र जीवबाधनं सिद्ध्यतीत्येतत्स्मृत्युक्तौ फलं सूचितम्। उ इत्येकस्येतिपदेनान्वयं मत्वार्थमाह॥ एक एवेति॥ त्रिधात्वित्यस्यार्थः प्रकृतीति। विष्णुसूक्तस्थत्वाद्य-च्छब्दो विष्णुपरः। तस्य तदस्य प्रियमिति वक्ष्यमाणेनान्वय इति भावः॥ तदेकेति॥ श्रुतौ ब्रह्म-रुद्रादिसर्वदेवतानियमनोक्त्या एतल्लाभ इति भावः। चतुर्भिर्नामभिरित्युक्तेर्भावो नाममात्रैरित्यादि। व्यतीनित्यस्यार्थो विशेषेणाधिकानिति। ‘विशेषेणाधिकत्वेन व्यतयो देवताः स्मृता’ इति कर्मनिर्णयोक्तेः। नेत्यस्यार्थो इवेति॥ पर्यवर्तयदिति॥ विप परिवर्तन इति तत्वप्रदीपोक्तधातोर्णिच लुङि रूपम्। यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति काण्वश्रुतौ तृतीये।

आदित्या वसवो रुद्रास्त्रिविधा हि सुरा यतः।

मरुतश्चैव विश्वे च साध्याश्चैव च तद्गताः॥

इति सप्तमस्कन्धतात्पर्ये। नवचयं नवतिमित्यत्र ऋग्भाष्ये च गणश उक्तान्देवानाह॥ अष्टाविति॥ आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानाम् एकादशत्वादेकादशादित्या इत्युक्तिः॥ पञ्चाशदिति॥ एकोनपञ्चाशन्मरुतां मुख्यवायुना सह पञ्चाशत्त्वादिति भावः। एतेन चतुर्मुखस्यापि नियम्यत्वसिद्धिः। मुख्यवायोरेव तत्त्वात्। तत्वप्रदीपे तु टीकोक्तमेकमर्थमुक्त्वा चतुर्भिनमिभिर् नामवद्भिः साकं नवतिं देवान्पर्यवर्तयदिति वान्वयः। तथा चोक्तम्।

आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि।

बृहस्पतिश्च कामश्च मनुर्दक्षो विनायकः।

भृगुश्चैवानिरुद्धश्च धर्मो निर्ॠतिरेव च।

कुबेरसहिता देवा नवतिः सम्प्रकीर्तिताः।

अनन्तो गरुडो वायुश्चत्वारो ब्रह्मणा सह॥

इतीत्यन्तेन ग्रन्थेन नामभिश्चतुर्भिरित्यनेन अनन्तादिचतुर्णाम् एकोनपञ्चाशन्मरुताम् अश्विनोरैक्य-विवक्षयाऽश्विप्रभृत्येकादशदेवानां च नवतिपदेन ग्रहणमुपेत्येयं श्रुतिरन्यथापि व्याख्याता॥ एतान्यपीति॥ सृष्टिकर्तृत्वादीन्यष्टावपि लक्षणानीत्यर्थः। विष्णोर् देवत्वमित्युत्तरार्धे श्रवणादाह॥ हे विष्णो इति॥ तन्वा वृधानेत्यस्यार्थः स्वमूर्त्येत्यादि। मात्रयेत्यस्य मितेः परिमितेरित्यर्थः। पूर्वोक्तं हेतुगर्भमिति भावेनाह॥ अत इति॥ आपेत्यस्य विपरिणामेनार्थमाह॥ प्राप्नोतीति॥ एतच्चोपलक्षणं मत्वाऽऽह॥ जनिष्यमाण इति॥ सर्वे च वयं च वयम्। त्यदादीनि सर्वैर्नित्यमिति एकशेषं मत्वाऽह॥ न इति॥ नोऽस्माकम् अस्मदादिसर्वेषामित्यर्थः। पुनरुक्तेराह॥ न दत्तेति॥ जनिता जनयिता। जनिता मन्त्र इति सूत्राज्जनक इत्यर्थः। विधाता धारणपोषणकर्ता। न च जीव एवायं ब्रह्मशब्दः यतो वा इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तेरिति न्यायविवरणारूढं दर्शयितुं तदर्थं व्युत्क्रमेणानुवदन्नधिकरणार्थं फलोक्त्योपसंहरति॥ अत इति॥ उक्तश्रुतिस्मृतिबलाद् अतिव्याप्त्यादि-शून्येत्यवधारणार्थोक्तिः। असम्भव आदिपदार्थः। स च यतो वेत्यादिवाक्योक्तितात्पर्यलब्धः। लक्ष्यैक्यादव्याप्तिशङ्का नास्त्येव। न च जीव एवेत्यवधारणं विष्णुरेवेत्यध्याहृतविष्णुपदेनान्वेतीति भावेनोक्तम्॥ विष्णुरेव श्रुत्युक्तं ब्रह्म न जीव इति॥ न जीवादीत्यर्थः। अत ब्रह्मणो विष्णुत्वान्निश्चितजीवत्वाभावेन सन्दिग्धत्वसम्भवादित्यर्थः॥ अ-२॥

टीकागाम्भीर्यमाहात्म्यं मर्शं मर्शं पुरो मनः।

नैति तद्विस्तरभयात्करोत्यग्रेसरं मतिः॥

अभिनवचन्द्रिका

अत्रेति॥ अस्याधिकरणस्य श्रुत्यर्थनिर्णायकन्यायग्रन्थनात्मकशास्त्रान्तर्भावप्रतिपादनाय श्रुत्युक्तेति ब्रह्मविशेषणमिति द्रष्टव्यम्। तस्य विष्णुत्वमिति। श्रुत्युक्तस्य ब्रह्मणः विष्णुत्वसिद्धेः पुरा, श्रौतब्रह्मशब्दस्य यौगिकत्वानिर्णयेन न तेन तस्य गुणपूर्तिसिद्धिः स्यात्। ततश्च जिज्ञास्यस्य जीवाद्भेदकाभावेनासन्दिग्धत्वापत्त्या जिज्ञास्यता न स्यादिति। तस्य विष्णुत्वसमर्थनमावश्यकम्। समर्थ्यते च श्रौतब्रह्मणो विष्णुत्वमत्राधिकरण इति श्रुत्यादिसङ्गतिरिति भावः। ननु श्रौतब्रह्मणो विष्णुत्वसमर्थनेनैव जीवभेदसिद्धिसम्भवाज् जीवभेदसिद्धये किं गुणपूर्तिसिध्द्यनुसरणेनेति चेत्, सत्यम् – विष्णुत्वसिद्ध्यैव जीवाद्भेदः सिध्यतीति तथापि पूर्वाधिकरणे जीवभेदसिद्धये ब्रह्मशब्देनोपन्यस्तस्य गुणपरिपूर्णत्वस्य हेतोः, नाऽस्य ब्रह्मशब्देन गुणपूर्णता सिध्यति रूढ्यैव ब्रह्मशब्दस्य प्रवृत्तत्वादित्य-सिद्धिशङ्का प्राप्तौ तत्परिहाराय विष्णुत्वसमर्थनेन गुणपूर्णत्वसाधनमावश्यकम्। भाष्यकारेणैवोक्त-त्वादिति॥ सूत्रकृता ब्रह्मशब्दो विष्णावेव मुख्य इत्यनुक्तत्वात्, भाष्यप्रवृत्तेः प्राक् स्वकृतप्रथमसूत्रदर्शिनां सम्भावित संशयाऽऽहरणे न श्रुत्युक्तब्रह्मणो विष्णुत्वसमर्थनं सूत्रकारस्योपपन्नमिति भावः। एतेन भाष्यकारवचनस्य निर्णायकत्वेन संशयाहेतुत्वाद् भाष्यकारेणैवोक्तत्वात् ‘भवति सन्देह’ इत्ययुक्तमिति परास्तम्। बृहजातिजीवेति॥ उपलक्षणमेतत्। ब्रह्मशब्दस्य जीवे बहुलप्रयोगात् ‘ब्रह्माणि जीवाः सर्वेऽपि परब्रह्माणि मुक्तिगा’ इति ब्रह्मशब्दस्य जीववाचितया व्याख्यानाच्चेत्यपि द्रष्टव्यम्। यद्यपि ‘बृहजतिजीवकमलासनशब्दराशि’ष्विति धातुव्याख्यानाद् बृहधातोरेव जीवादौ रूढिसिद्धिर् न तु ब्रह्मशब्दस्येति जीवादौ तस्य रूढिसिद्धये नेदं धातुव्याख्यानमुदाहर्तव्यं तथापि बृहधातोः स्वार्थिकमनिन्प्रत्ययान्तत्वेन बृहधातोर्जीवे रूढिसिद्धौ ब्रह्मशब्दस्य रूढिः स्वयमेव सिध्यतीति भावेन धातोरेव रूढिसिध्द्यर्थं धातुव्याख्यानमुदाहृतम्। यद्यपि ब्रह्मशब्द इति॥ अत्राधिकरणे जीवव्यतिरिक्तेश्वरवादी पूर्वपक्षी। ततश्च ब्रह्मशब्दो विष्णौ योगेन प्रवर्तते जीवे रूढ्या प्रवर्तत इत्याद्युपपन्नमिति बोध्यम्॥ ननु गङ्गायां घोष इत्यत्र समभिव्याहृतघोषपदमुख्यार्थान्वयानुपपत्त्या गङ्गापदमुख्यार्थस्य प्रवाहस्य त्यागवत्, अत्रापि समभिव्याहृत‘विजिज्ञासस्वे’तिपदमुख्यार्थ-जिज्ञासान्वयानुपपत्त्यैव ब्रह्मशब्दमुख्यार्थस्यापि जीवस्य त्यागोऽस्त्वित्यत आह– न चात्र तादृशमिति॥ युक्तस्तत्र गङ्गापदमुख्यार्थस्य त्यागः। समभिव्याहृतघोषपदमुख्यार्थान्वयानुपपत्तिसद्भावात्। प्रकृते च ब्रह्मशब्दमुख्यार्थत्यागो न युक्तः – समभिव्याहृत ‘विजिज्ञासस्वे’ति पदस्य विचारे लाक्षणिकत्वेन मुख्यार्थान्वयानुपपत्तेरभावात्। एवं च ब्रह्मशब्दमुख्यार्थं गृहीत्वा तदन्वययोग्यमेव विजिज्ञासस्वेति पदेन लक्षणीयमिति भावः। तदिदमुक्तम् – न चाऽत्र तादृशं बाधकमस्तीति। अन्यथा – न चात्र बाधकमस्तीत्यवक्ष्यत्। उपसंहरति – तस्मादिति॥ अत्र टीकायां ‘जात्यादेर्मुख्यतो जिज्ञास्यत्वाद् देहात्मविवेकस्याऽऽवश्यकत्वा’दिति प्रक्षिप्तम्। ततश्चैवं टीकावाक्यपाठः – ‘तस्माज्जीव एवेदं ब्रह्मे’ति तस्यार्थः – बाधकं विना मुख्यार्थत्यागासम्भवाज् जात्याद्यपेक्षया जीव एव ब्रह्मशब्दस्य बहुलप्रयोग-सद्भावान् नपुंसकब्रह्मशब्दस्य जीववत् कमलासने बहुलप्रयोगाभावात्। जीव एवेदं ब्रह्म न जात्यादिः। नापि कमलासनः। नापि विष्णुरिति। अवश्यं च ‘जात्यादौ मुख्यतो जिज्ञास्यत्वाद् देहात्म-विवेकस्याऽऽवश्यकत्वा’दिति वाक्यं प्रक्षिप्तं विज्ञेयम्। अन्यथा ‘देहात्मविवेकस्यावश्यकत्वा’दिति जिज्ञास्यत्वं विधाय अजिज्ञास्यतेत्युपसंहारे व्याहतिः स्यात्। सन्दिग्धत्वं विना देहात्मविवेक-स्यावश्यकत्वायोगेन आवश्यकत्वोक्त्यैव सन्दिग्धत्वलाभात्, असन्दिग्धत्वादित्यप्ययुक्तं स्यादिति। लक्षणमाह सूत्रकार इति॥ ननु सृष्टिकर्तृत्वादि प्रत्येकं लक्षणम्। उत मिलितमेकमेव। किं चातः यदि प्रत्येकं लक्षणं तर्हि लक्षणान्याहेति बहुवचनेन भवितव्यम्। अथ समुदितं तर्हि एकैकस्यापि व्याप्तिर्वक्तव्या। अन्यथा विशेषणवैय्यर्थ्यम्। न च सा सम्भवति, ‘य उ त्रिधा (ऋ.सं.१-१५५-६) त्वित्यादिना स्थित्यादेर् विष्ण्वेकनिष्ठत्वस्य भाष्य एवोक्तत्वात्। यतो वा इमानि भूतानि जायन्त’ (तै.उ.३-१) इत्यस्यां श्रुतौ यच्छब्दत्रयश्रवणेन यत इमानि भूतानि जायन्ते तद्ब्रह्म, येन जीवन्ति तद्ब्रह्मेत्यादि पृथगन्वयेन प्रत्येकं लक्षणत्वप्रतीतेश्चेति चेत्, सत्यम्– सृष्टिकर्तृत्वादीनि प्रत्येकमेव लक्षणानीति। तथापि लक्षणमाहेत्येकवचनमुपपन्नम्। सूत्रकृता सृष्ट्यादिनिरूपितस्यैकस्यैव कर्तृत्वस्य लक्षणत्वेन विवक्षितत्वात्। श्रुतौ तु प्राधान्येन जगत्कारणत्वजगत्पालकत्वादीन्यनेकानि लक्षणान्युक्तानि, अर्थात्तु जगद्धर्मजनिस्थितिसंहाराद्यनेकधर्मकर्तृत्वं लक्षणमुक्तम्। सूत्रकृता तु सूचितेन जन्मादिकर्तृत्वेनैव जिज्ञास्यस्य जीवाद्व्यावृत्तिर्भवति, किमु कण्ठोक्तैर्जगत्कर्तृत्वपालकत्वादिभिरिति भावेन सूचितमेव सृष्ट्यादिकर्तृत्वं लक्षणमुक्तमिति ध्येयम्। एतेन ‘जन्माद्यस्य यत’ इति सूत्रे अस्येत्यनेन घटादिग्रहणवत्, इदंशब्देन उत्पत्तिस्थितिसंहारादीनामपि ग्रहणसम्भवात् ‘इदं यत’ इति, ‘जन्म यत’ इति वा, सूत्रेण सर्वस्यापि सिद्ध्या, ‘जन्माद्यस्य यत’ इति गुरुतरसूत्रप्रणयनमयुक्तमिति परास्तम्। अस्मिन्सूत्रे जगद्धर्म-सृष्ट्याद्यष्टकारणत्वस्यैव विवक्षितत्वेन जगत्कारणत्वस्याविवक्षितत्वात्। आदिपदोक्ते स्थितिसंहृती इति॥ ननु आदिपदस्य पूर्वपदेनैकार्थत्वाज् जन्मपदोक्तमेव आदिपदोक्तं भवेन् न तु स्थितिसंहृती आदिपदोक्ते, अन्यथा स्थितिसंहृत्योरादिपदार्थत्वे अन्यपदार्थत्वाभावाज् जन्मादीत्यत्र बहुव्रीहिर्न स्यादिति चेत्, न– बहुव्रीहौ समस्यमानपदयोर्व्यासज्यवृत्तिलक्षणया अन्यपदार्थपरत्वेन स्थितिसंहृत्योरादिपदार्थत्वात्। दम्पतिपुत्रस्य अन्यतरपुत्रत्वव्यवहारवत् पदद्वयार्थस्य एकपदार्थत्वव्यवहारस्य युक्तत्वात्। ननु– अथापि अस्य तद्गुणसंविज्ञानबहुव्रीहित्वाद् आदिपदोक्ताः सृष्टिस्थितिसंहृतय इति वक्तव्यम्। यत्र वर्तिपदार्थो ऽन्यपदार्थैकदेशस् तत्रैव तद्गुणसंविज्ञानबहुव्रीहिरिति नियमाद् इति चेत्, सत्यम् – स्थितिसंहृती इव जन्मापि अन्यपदार्थ एव। तथापि जन्मनः समस्यमानपदशक्यत्वं स्थितिसंहृत्योस्तु तन्नेति विशेषद्योतनाय तथोक्तम्। प्रतीतिनिरासायेति॥ यद्यपि सृष्टिस्थितिसंहारकर्तृत्वस्य ब्रह्मासाधारणधर्मत्वात् सृष्टिस्थितिसंहृतयो यतस् तद्ब्रह्मेति प्रतीतिर्न निरसनीया, तथापि सृष्टिस्थितिसंहारकर्तृत्ववमात्रं सूत्रार्थ इति प्रतीतिर्निरसनीयैव, सृष्टिस्थितिसंहृतिनियमनज्ञानाऽज्ञानबन्धमोक्षसुखदुःखादिप्रमाणप्रमितयावद्धर्म-कर्तृत्वस्य सूत्रार्थत्वात्। प्रमाणप्रमितस्य हातुमशक्यत्वात्। भाष्ये सूत्रार्थत्वेन सृष्ट्याद्यष्टकर्तृत्वोक्तिस्तु परोक्तसृष्ट्यादित्रितयकर्तृत्वादिनियमनिरासेन प्रमाणप्रमितयावज्जगद्धर्मकर्तृत्वं सूत्रार्थ इति विज्ञेयमिति ज्ञापनाय न तु सृष्ट्याद्यष्टकर्तृत्वमेव सूत्रार्थ इत्यवधारणज्ञापनायेति बोध्यम्। लब्धजन्मन इति॥ ननु– लब्धजन्मनः स्थित्यादीति, यदि जन्मन आदित्वम्, तर्हि – ‘बन्धस्यैव जन्मादीति बन्धाद्यस्य यत’ इति सूत्रं स्याद् इति चेत्, सत्यं तथापि बन्धस्याऽसार्वत्रिकत्वात्, जन्मनः सार्वत्रिकत्वात्, जन्मन आदित्वम्। भाष्ये ‘यस्मात्स हरिरेकराडिति॥ उत्पत्त्यादिकं यस्मात्स हरिरेकराडिति उत्पत्त्यादिकर्तृत्वं प्रति हरित्वस्य व्यापकत्वोक्त्या व्यापकाभाववति व्याप्याभावनियमात्, जन्मादि-कारणत्वस्य विष्ण्वैकनिष्ठत्वं सिध्यतीति भावः। प्रत्येकमपीति॥ एकैकनिरूपितमित्यर्थः। किमु सर्वमिति॥ सृष्ट्यादिसर्वनिरूपितमेकमेव कर्तृत्वमित्यर्थः। एतेन प्रत्येकं विष्ण्वेकनिष्ठत्वे न समुदितानां कर्तृत्वानां लक्षणत्वम्, व्यावर्त्याभावात्, समुदितानां न च लक्षणत्वे एकैकस्यापि व्याप्तेरावश्यकत्वात् प्रत्येकं विष्ण्वेकनिष्ठत्ववर्णनमयुक्तमिति परास्तम्। त्रिधा त्वित्यस्यार्थः प्रकृतिपुरुषकालाधार इति॥ एकादशादित्या इति॥ आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानामेकादशत्वादियमुक्तिः। तत्वप्रदीपे तु – चतुर्भिर् नामवद्भिर्कीर्तिमद्भिर् अनन्तगरुडवायुब्रह्मभिः साकं नवतिं देवान् पर्यवर्तयदिति वा अन्वय’ इति टीकोक्तव्याख्यानं प्रथमतः कृत्वा इत्यपि व्याख्यातम्। स्वकीयद्वितीयव्याख्याने संमतिश्चोक्ता–

‘आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि।

बृहस्पतिश्च कामश्च मनुर्दक्षो विनायकः।

भृगुश्चैवाऽनिरुद्धश्च धर्मो निर्ऋतिरेव च॥

कुबेरसहिता देवा नवतिः सम्प्रकीर्तिताः।

अनन्तो गरुडो वायुश्चत्वारो ब्रह्मणा सहे’ति॥

अत्राश्विनोरैक्यविवक्षा द्रष्टव्या। एतान्यपि लक्षणानीति॥ केवलं नियामकत्वं पालकत्वं चेति लक्षणद्वयमेव नातिव्याप्तम्, किन्तु तदतिरिक्तान्यपि सृष्टिकर्तृत्वादीनि नातिव्याप्तानीत्याहेत्यर्थः।

अत्र परैः– ‘न तावदुपलभ्यमानं जगदेव ब्रह्मलक्षणम्। तस्याऽनित्याऽशुद्धपरिच्छिन्नादिरूपस्य तद्विरुद्धब्रह्मलक्षणत्वानुपपत्तेः। नापि नित्यत्वादिर्ब्रह्मधर्मः। तस्यानुपलब्धेरिति प्राप्ते, मा भूदनुभूयमानं जगत् तद्धर्मतया तदात्मतया वा लक्षणम्; तदुत्पत्त्यादि तु भविष्यति देशान्तरप्राप्तिरिव सवितुर्व्रज्याया’ इति सिद्धान्तितम्। तन्न– ‘यतो वा इमानी’ति वाक्येन सूत्रेण च जगत्कारणत्वस्यैव स्पष्टं लक्षणतया प्रतिभानेनोत्पत्त्यादेर्लक्षणत्वाभिधानायोगात्। जगत इव जन्मनोऽपि विरुद्धत्वेन तल्लक्षणतायोगस्य त्वद्रीत्यैव प्राप्तेश्च। ब्रह्मत्वसिद्धस्यापि जन्मनो लक्षणत्वे जगतोऽपि तथात्वप्राप्त्या ‘मा भूदनुभूयमानं जगत्तद्धर्मतया तदात्मतया वा लक्षणमित्युक्त्यनुपपत्तेश्च। देशान्तरप्राप्तेः सवितुर्व्रज्या ज्ञापकत्वेन तल्लक्षणत्वाच्च।

पूर्वपक्षस्तु– जीव एवेदं ब्रह्म न विष्णुर् जीवप्रापकरूढिसद्भावात्। न च विष्णुप्रापकयोगसद्भावाद् विष्णुरेवात्रोक्तं ब्रह्म किं न स्यादिति वाच्यम्। योगाद्रूढेर्मुख्यत्वात्, बाधकं विना मुख्यार्थत्यागायोगात्। न च जिज्ञास्यत्वमेव बाधकमिति वाच्यम्। जिज्ञासापदस्य ज्ञानेच्छावाचकत्वेन विचारार्थकत्वाभावात्। ततश्च जीवस्य ब्रह्मपदमुख्यार्थत्वाभावाद् अस्य ब्रह्मणः जीवत्वे सिद्धे तस्य च स्वप्रकाशत्वेनासन्दिग्धस्याऽ- विचार्यत्वात् प्रकृतानुगुणमेव जिज्ञासापदेन लक्षणीयमिति जिज्ञासाया अविहितत्वात्, न ब्रह्मजिज्ञासा सम्भवतीति।

सिद्धान्तस्तु– ब्रह्मशब्दस्य विष्णौ योगरूढत्वाद् विष्णुरेवेदं ब्रह्म। यद्यपि ब्रह्मशब्दो जीवे रूढस् तथापि रूढिमात्राद् विद्वद्रूढेः प्राबल्येन निर्णयोपपत्तेः। अस्तु वा जीव एव रूढिः। तथापि ‘यतो वे’ति पूर्ववाक्योक्तकारणत्वपालकत्वसंहारकत्वमुक्तप्राप्यत्वानामयोगप्रसङ्गेन मुख्यार्थस्यापि त्याज्यत्वात्। न च तेषां जीवे सम्भव इति वाच्यम् – भाष्योदाहृत ‘य उ त्रिधा’ त्वियादिना तेषां विष्ण्वेकनिष्ठत्वस्य सिद्धत्वात्। जिज्ञासाशब्दो विचारे रूढः, यदि वा लाक्षणिकः, उभयथापि ‘आत्मा वा ओ द्रष्टव्य’ (बृ.उ.४-) इति श्रुतिसमाख्यानाद् विचारपर एवेति तद्विरोधाच्च न जीवोऽत्र विवक्षितः। तथा च जीवातिरिक्तस्य ब्रह्मणः प्रागुक्तं जिज्ञास्यत्वं सिद्धम् (२.अ)

वाक्यार्थमुक्तावली

ॐ जन्माद्यस्य यतः ॐ। अत्र ब्रह्मप्रतिपादिकायास्तद्ब्रह्मेति श्रुतेरर्थनिर्णयानुकूलन्यायानुसन्धानस्य क्रियमाणत्वेन शास्त्रान्तर्भावसङ्गतिरस्तीति आह अत्रेति। पूर्वाधिकरणे ब्रह्मजिज्ञासायां कर्तव्यतयोक्तायां तत्राक्षेपे प्राप्ते तत्परिहारस्य क्रियमाणत्वादस्याधिकरणस्य श्रुत्यधिकरणाभ्यामाक्षेपकी सङ्गतिः। अध्यायादिसङ्गतिस्तु नास्तीति प्रागेवोक्तेत्यभिप्रेत्याह श्रुत्यादीति। न सम्भवतीति। श्रुत्यादि-सङ्गतिरित्यन्वयः। अत्र श्रुत्यधिकरणसङ्गत्योरेकप्रकारत्वज्ञापनाय सङ्गतिरित्येकवचनम्। वस्तुतः सङ्गत्यैक्याभावेन क्वचित्सङ्गतीति द्विवचनप्रयोगः। यद्यपि सिद्धान्ते ब्रह्मशब्दस्य रूढित्याजक-जन्मादिहेतुत्वरूपबाधकोपन्यासेन रूढिनिरासेन यौगिकत्वमात्रं समर्थ्यते तथापि योगार्थस्य विष्णावेव सम्भवाद्यौगिकत्वसमर्थनमित्यनुक्त्वा विष्णुत्वेति फलितोक्तिः कृता। ब्रह्मशब्दितविष्णुनिर्णायकत्वेन शास्त्रान्तर्भावप्रदर्शनार्थं च। यद्यप्यधिकरणत्रये विषयवाक्यमेकमेव। तथापि पूर्वाधिकरणे तद्विजिज्ञासस्वेत्यंशस् तद्ब्रह्मेति गुणसमर्पकतया जीवव्यावर्तकब्रह्मश्रुतिरूपहेतूक्त्या विचारितः। अत्र पूर्वं हेतूकृतो ब्रह्मेत्यंश उत्तरत्र तु अत्र हेतूकृतो यतो वेत्यादि पूर्वांशो विचार्यत इत्यंशभेदाद्भेद इति भावः। किं विष्णुरिति। अत्र तद्ब्रह्मेति श्रुत्युक्तं ब्रह्म किं जीव उत विष्णुरिति चिन्ता। तदर्थं ब्रह्मशब्दस्य रूढार्थजीवपरित्यागेन यौगिकार्थविष्णुग्रहणे हेतुर्नास्त्युतास्तीति। तदर्थं हेतुत्वेनोपन्यस्यमानं जन्मादिकारणत्वं विष्णौ किमप्रमितमुत प्रमितमिति। कारणत्वश्रवणाज्जात्यादेरसन्देहनिविष्टत्वम्। जीवस्य त्वदृष्टद्वारा कारणत्वं सम्भवतीति तस्य सन्देहनिविष्टत्वम्। यद्वा न्यायविवरणटीकायां जीव एवेति जात्यादेरुपलक्षणम्। एवशब्दस्तु भगवन्तं व्यावर्तयतीत्युक्तत्वेनात्र जीवग्रहणमुपलक्षणं द्रष्टव्यम्। स्वकृतव्याख्यानेति। सौत्रब्रह्मशब्दस्य यतो नारायणप्रसादमृते न मोक्ष इति स्वकृतव्याख्यान-स्थापनायेत्यर्थः। जीववाचित्वमिति। न्यायप्रदर्शकं जीव एवायं ब्रह्मशब्द इति न्यायविवरणं विवृण्वन् ब्रह्मणो लक्षणमाहेत्युक्त्या लक्षणस्य सजातीयजीवव्यावर्तकत्वलाभात्। व्यावृत्तेश्च प्रसक्तिपूर्वकत्वात्प्रसञ्जकं पूर्वपक्षमाह जीव एवेति। यद्यपीति। ‘स्याच्चैकस्य ब्रह्मशब्दवत्’। ‘परं जैमिनिर्मुख्यत्वादि’ति वक्ष्यमाणन्यायेनेति भावः।

योगेनैवेति। ननूत्तरत्र योगोपपादनेऽपि देवशास्त्रे निरन्तरसूत्रद्वये आचक्षत इति प्रयोगबाहुल्य-प्रतिपादनेन रूढ्युक्तेः कथमवधारणमिति चेन्न। रूढ्या विष्णुस्वीकारे रूढेर् जीवेषु तुल्यत्वेन तस्यापि अत्र प्राप्तिः स्यादिति भयेन सिद्धान्तिना रूढ्याच्छादनेन योगेनैव तत्प्रवृत्तेरङ्गीकर्तव्यत्वात्। योगरूढ्यङ्गीकारस्य रूढ्यंशे प्रकृतोपयोगाभावेन तस्यानुपन्यसनीयत्वादित्यभिप्रेतत्वात्। रूढेरेवेति। अवयवार्थनिरपेक्षतया तस्याः शीघ्रमर्थोपस्थापकत्वादिति भावः।

ननु तदेव ब्रह्म परमं कवीनामित्यत्र रूढार्थजीवपरित्यागेन यौगिकार्थविष्णुग्रहणं दृष्टम्। तद्वत्प्रकृते किं न स्यादित्यत आह न चात्रेति। तादृशं निरवकाशम्। समुद्रशायित्वरूपं कारणत्वं त्वदृष्टद्वारा जीवेऽप्यस्तीति भावः। जन्मादिपदोक्ते इति। जन्मादिपदोक्ते स्थितिसंहृती च इति यत इति योज्यम्। यद्वा तद्गुणसंविज्ञानं गृहीत्वा जन्म विना स्थितिसंहृती यतस्तद्ब्रह्मेति योज्यम्। इत्यादि-प्रतीतीति। आद्यस्य जन्म यतो इत्यादिशब्दार्थः। भाष्ये मोक्षा इति बहुवचनं सौत्रैकवचनादेकं लक्षणमिति न भ्रमितव्यमित्याशयेन प्रवृत्तम्। सौत्रैकवचनं जात्यभिप्रायेण। आकाङ्क्षितपूरणेन सूत्रभाष्ययोरर्थमाह सृष्ट्यादीति। नन्वदृष्टद्वारा जीवस्यापि कारणत्वात्कथमनेन रूढार्थत्याग इत्यत आह लक्षणं चेति। यतो जायन्त इति साक्षात्कारणत्वस्य श्रूयमाणत्वेनादृष्टद्वारा कल्पकाभावात्। मोक्षादिहेतुत्वस्य सर्वथाऽनवकाशाच्चेति भावः। ननु रूढ्या जीव इति प्राप्ते विद्वद्रूढ्या विष्णुरिति समाधिः कार्यः। तदेव ब्रह्म परमं कवीनामिति विद्वद्रूढेः प्रमितत्वात्। न तु योगमात्रमङ्गीकृत्य बाधकवशेन मुख्यस्यापि रूढार्थस्य त्याग इति समाधानं वक्तमुचितमित्यशङ्क्य परिहरति। यद्यपीति। अभ्युपगम्योक्तिरिति। विष्णौ रूढ्यभावमिति शेषः। इयमुक्तिः सौत्री बाधकोक्तिः। तावतापि जीवभेदबाधकगुणपूर्तिलाभेन प्रकृतसिद्धेरिति भावः। नन्वस्तु जन्मादीत्येकवचनं जात्यभिप्रायं तथाप्य-तद्गुणसंविज्ञानः किमिति मन्दाशङ्कां परिहरति। तद्गुणसंविज्ञान इति। जायन्त इत्युक्तत्वात्। अष्टकलाभाच्चेति भावः। ननु स्थित्याद्यपेक्षया जन्मन आदित्वमयुक्तम्। न पौर्वापर्यमिच्छन्ति नद्यां भ्राम्यद्भ्रमेरिवेति भागवतोक्त्या दर्शपौर्णमासीतिथ्योरिवोभयोरप्यनादित्वादित्यत आह लब्धेति। स्थित्यपेक्षया जन्मनः पूर्वभावित्वनियमाभावेऽपि यत्र जन्मस्थिती वर्तेते तस्य लब्धजन्मनः स्थित्यादिक-मिव स्थितस्य वा नष्टस्य वा जन्म नेति। तत्र जन्मनः पूर्वभावित्वनियमात्। एकत्वाभिप्रायेण स्थित्यादि इत्यनुक्त्वा जन्मादीत्युक्तमिति भावः।

नन्वस्य जगतो धर्मिणस्तद्धर्माणां च जन्मादि सृष्टिस्थिती यत इत्युक्तेऽपि संहारादिषट्कस्यापि अस्येत्यनेन ग्रहणाज् जगत्कर्तृत्ववत् संहारादिकर्तृत्वमपि सेत्स्यति। न च वाच्यमस्येति धर्मिण एव ग्रहणं न धर्माणामिति। सुखदुःखादिधर्मान्प्रत्यपि कर्तृत्वस्य पृथग्वक्तव्यतापातात्। तस्मादष्टकर्तृत्वं न सूत्रार्थ इति चेन्न। सृष्ट्याद्यष्टकर्तृत्वस्य मोक्षार्थमवश्यं ज्ञातव्यत्वेनैवमुक्तत्वात्। यथोक्तम्—

सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान्।

मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्न चान्यथेति॥

पूर्ववाक्ये कथितमिति। चतुष्टयं साक्षात् श्रुतम्। बन्धान्मोक्षदानोक्त्या बन्धकत्वमप्युक्तप्रायम्। बन्धस्य भगवदज्ञानकार्यत्वात्तत्कर्तृत्वं, विज्ञानान्मोक्षस्य प्रमितत्वात्तत्कर्तृत्वमपि, नियमनकर्तृत्व-मुपलक्षणतया द्रष्टव्यम्। अभिसमित्युपसर्गद्वयबलादिदं मुक्तिपरमिति भावेनार्थमाह। यदभि स्वेच्छयेति। विष्ण्वैकनिष्ठमित्यनतिव्याप्तमित्यर्थः। श्रुतिमाहेति। स्मृतौ सर्वस्य विष्णुनिष्ठतोक्तेः। सा पूर्वमुपन्यस्तेति भावः। एक एवेति। एतेन उशब्द एवार्थ एक इत्यनेन सम्बध्यत इत्युक्तं भवति। श्रुतौ त्रिधा-त्वित्येकं पदम्। तथा नियमनमिति सर्वदेवतानियमनोक्त्या तल्लाभ इति भावः। बृहच्छरीर इत्युत्तर-वाक्यस्थं विशेष्यतया संयोज्य व्याख्यातम्। व्यतीनित्यस्यार्थो विशेषेणाधिकानिति। विशेषेणाधिकत्वात्तु व्यतयो देवताः स्मृता इति कर्मनिर्णयोक्तेरिति भावः। च्रकमिवेति। नकार इवार्थको वेदे प्रसिद्ध इति भावः। पर्यवर्तयदिति ‘विपू’ परिवर्तन इति धातोरिति तत्वप्रदीपे। हे विष्णविति। विष्णोर्देवत्व-मित्युरार्धे श्रवणादिति भावः। अन्तमित्यस्यार्थः सीमानमिति। यथा जीवमहिमसु चतुर्मुखमहिम्नः सीमत्वं यथा वा परतन्त्रमहिमसु रमामहिम्नः। एवं विष्णुमहिम्नोऽपि विवक्षाविशेषेण सीमत्वं न मन्तव्यमिति भावेनोक्तं परमिति। यथोक्तं सत्तर्कदीपावल्याम्। महिमातारतम्यपरावधिभूतं विर्ष्णोर्महिमत्वं यथेदानीन्तनो न प्राप्नोति तथा जातोऽपि न प्राप्नोति न विकारित्वमिति। तथा च न प्रकृतावति-व्याप्तिरिति भावः।

तत्त्वसुबोधिनी

ॐ जन्माद्यस्य यतः ॐ॥ तस्य विष्णुत्वं यावन्न साध्यत इति। अनेन पूर्वाधिकारणेना-स्याधिकरणस्याक्षेपिकी सङ्गतिरुक्ता भवति। जिज्ञासा न सम्भवतीतीत्यत्रस्थ इतिशब्दस्य प्रकारवाचिन इति श्रुत्यादिसङ्गतिरिति पूर्वेण सम्बन्धः। उभयत्रापीति। जीवे विष्णावपि इत्यर्थः। मुक्त इत्युक्तमिति। मुख्यामुख्ययोर् मध्ये मुख्यस्यैव सम्प्रत्यय इत्यवधारणबलेन नोत्कटकोटिकोऽपि सन्देहः सम्भवतीति भावः। स्वकृतव्याख्यानेति। यतो नारायणप्रसादमृत इत्यादिनेत्यर्थः। योगेनैवेति। पूर्वाधिकरणसिद्धान्ते अथ कस्मादुच्यत इति श्रुत्युदाहरणपूर्वकं विष्णौ तस्य योगस्यैव प्रदर्शितत्वात्। योगानङ्गीकारे गुणपूर्णत्वासिद्धेश्च। श्रुतिप्रतिपादितयोगेनैव तद्व्यवहारोपपत्तौ योगरूढ्यङ्गीकारस्य व्यर्थत्वाच्चेति भावः। न चात्रेति। अत्र तद्विजिज्ञासस्वेति वाक्ये तादृशं तदेव ब्रह्म परमं कवीनाम् इत्यादौ समुद्रशायित्वस्येव प्रकृते तदभावादिति भावः। न चैवं तेनैव सविषयत्वाद् आक्षेपानुपपत्तिरिति शङ्क्यम्। जीवान्यब्रह्म-धर्मिकगुणपूर्णत्वप्रकारकविशिष्टाधिकारिकपूर्वसूत्रोक्तजिज्ञासा न कर्तव्या इत्यत्र तात्पर्यात्। ननु ब्रह्मशब्दस्य जीव इव जात्यादावपि रूढिसद्भावात् तदप्यत्र ब्रह्मशब्दार्थः किं न स्यादित्यतस् तस्य तत्र रूढत्वेऽपि बाधकवशात्तत्परित्याग इत्याह। जात्यादेरिति॥ जडत्वेन तस्य जिज्ञास्यत्वाभावादिति भावः। ननु जडस्यापि वियदादेः ‘न वियत्’ इत्यादौ विचार्यमाणत्वाज् जात्यादेर् जडत्वेऽपि जिज्ञास्यत्वं स्यादित्यत उक्तम् मुख्यत इति। तथा च जात्यादेर् अन्यार्थं जिज्ञास्यत्वेऽपि मुख्यतस् तदभावान् न जिज्ञास्यत्वमिति भावः। ननु तर्हि जीवस्यापि जिज्ञास्यत्वस्यैव बाधकत्वाज् जीवोऽप्यत्र ब्रह्मशब्देन ग्राह्य इत्यत आह। देहात्मविवेकस्येति। जीवज्ञानाभावे देहात्मनोर् विवेकज्ञानासम्भवादिति भावः। ब्रह्मणो लक्षणमाहेति भाष्यं व्याचष्टे। जीवग्रहण इति। जिज्ञास्यब्रह्मणो लक्षणमिति। विष्णुलक्षणत्वेन प्रमितं जगज्जन्मादिकारणत्वं जिज्ञास्यब्रह्मसम्बन्धित्वेनेत्यर्थः। अत एव जीवग्रहणे बाधकमित्युक्तम्। इत्यादिप्रतीतिनिरासायेति। आदिपदेन आद्यस्य हिरण्यगर्भस्य जन्म यतस् तद्ब्रह्मेति। तथा जन्मादीति तद्गुणसंविज्ञानो बहुव्रीहिः। ततश्च जन्म आदि यस्यावस्थानस्य तज्जन्मादीत्येवार्थः। जगत्पालको भगवान् विष्णुरिति प्रसिद्धेरिति अपव्याख्यानद्वयपरामर्श इति ज्ञेयम्। यथावदिति। अयं भावः। श्रौतं हि ब्रह्मणो लक्षणमिहोच्यते। श्रुतयश्च कृत्स्नस्यापि प्रपञ्चस्य सृष्ट्याद्यष्टककारणं परमेश्वरमभिदध-तीत्यतः सृष्ट्याद्यष्टस्यैव जन्मादिपदार्थत्वाद् अन्यथाव्याख्यानम् अपव्याख्यानमेवेति। ननु पूर्वाधिकरणे तदेव ब्रह्म इत्यादिना विष्णौ विद्वद्रूढेः समर्थितत्वात् तस्मादादौ कुतो न सिद्धान्तः क्रियत इत्यत आह। यद्यपीति। उभयथापि सिद्धान्तसम्भवाद् योगमादाय सिद्धान्तः क्रियते इत्यदोषः। रूढिमादायापि सिद्धान्त ऊह्य इति भावः।

जन्म आदि यस्येति अतद्गुणसंविज्ञानो बहुव्रीहिः। तथा च स्थितिकर्तृत्वमेव लक्षणमिति ये मन्यन्ते तन्मतं निराकरोति। जन्माद्यस्येति। अन्यथा यतो वेति श्रुतौ जायन्ते इत्युक्तेर् असम्भव इति भावः। एवं च लब्धजन्मन इत्युपपन्नम्। अत एव तद्गुणसंविज्ञानम् इत्युक्त्वा अनन्तरं लब्धजन्मन इत्युक्तम्। तद्गुणसंविज्ञान इति। अत्र तच्छब्देन बहुव्रीह्यर्थोऽन्यपदार्थ उच्यते। तस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञानः। सर्वस्याविशेषणत्वे समासासम्भवात् समासार्थैकदेशो विशेषणमिति लभ्यते। तथा च लम्बकर्णो देवदत्त इत्यत्र देवदत्तैकदेशमेव विशेषणं कृत्वा देवदत्तो बोध्यते तथा जन्मादीत्यत्रापि विशेष्यभूतजन्मस्थितिभङ्गाद्येकदेशभूतं जन्मैव विशेषणं कृत्वा विशेष्यार्थो बोधनीय इति भावः। ननु स्थितिग्रहणमेव प्रथमतः किं न कृतमित्यत आह। लब्धजन्मनो हीति। आवृतिपदेन बन्धः प्रतीयते इति स्यात्। तथा च पौनरुक्त्यमत आह। आवृतिर् अज्ञानमिति। सृष्ट्यादिकारणस्य कुतो हरित्वमित्यतोऽन्येषामस्वातन्त्र्येण तदसम्भवात् हरेर् एव स्वातन्त्र्येण तत्सम्भवाद् इत्याशयेन स्वातन्त्र्यसमर्पकतया एकराट् इत्येतद्व्याख्याति। एकराडिति। पर्यवर्तयदिति। विपूपरिवर्तन इति धातोरिति भावः। व्यतीनित्यस्यार्थो विशेषेणाधिकानिति। विशेषेणाधिकत्वेन व्यतयो देवताः स्मृता इति वचनात्। नवतिमेव दर्शयति। अष्टाविति। पञ्चाशन्मरुत इति॥ एकोनपञ्चाशन्मरुतां मुख्यवायुना सह पञ्चाशत्वादिति भावः। एकादशादित्या इति। आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानाम् एकादशत्वादियमुक्तिः। सृष्टिस्थितीत्यादिभाष्ये प्रयोजकव्यापारवाचिना सृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मादिर्लक्ष्यते। लक्षणाप्रयोजनं च ब्रह्मणः स्रष्टृत्वादिकमेव नतु उपादानत्वमिति प्रदर्शनम्। अधिकरणार्थमुपसंहरति॥ अत इति॥

वाक्यार्थविवरणम्

भाष्यकारेणैवेति॥ न तु सूत्रकारेणेत्यर्थः। आदिपदोक्ते स्थितिसंहृतीति॥ यतो वा इत्यादिश्रुत्यनुसारादिति भावः। इत्यादीत्यादिपदेनातद्गुणसंविज्ञानबहुव्रीहिणा अस्य यतो जन्मादि जन्म आदि यस्य पालनस्य तज् जन्मादीति जन्मादिशब्देन पालनमेव ग्राह्यम्। तथा च स्थितिकर्तृत्वमेव ब्रह्मणो लक्षणं, न तु सृष्टिसंहारकर्तृत्वम्। ब्रह्मविष्णुमहेश्वराणां मध्ये विष्णुः पालकः, ब्रह्मा स्रष्टा, महेश्वरः संहारकर्तेति प्रसिद्धेरिति रामानुजीयव्याख्यानसङ्ग्रहः। आदिपदेन सङ्गृहीतं व्याख्यानमयुक्त-मित्याशयेनाह। जन्मादीति। ‘विशेषेणाधिका यस्माद्व्यतयो देवताः स्मृता’ इति प्रमाणं मनसि निधायोक्तम्॥ विशेषेणाधिकान् देवानिति॥ पर्यवर्तयदिति। विपू परिवर्तन इति धातुव्याख्यानादिति भावः॥ २॥

वाक्यार्थमञ्जरी

॥ शास्त्रसङ्गतिरिति॥ ब्रह्ममीमांसाशास्त्रप्रतिपाद्यब्रह्मविचारपरत्वाद् ब्रह्ममीमांसाशास्त्रेऽन्तर्भाव-सङ्गतिरित्यर्थः। एवमग्रेऽपि शास्त्रसङ्गतिर्व्याख्येया॥ श्रुत्यादिसङ्गतिस्त्विति॥ आदिपदेनाधिकरणम् एकवचनप्रयोगश्चैकप्रदर्शनेनान्यापि सुज्ञानेति प्रकारैक्याभिप्रायेण चतुरधिकरण्यां यतो वेत्यादिश्रुतिरेव विचार्यत इति श्रुतिसङ्गतिः स्फुटा। तुशब्दः शास्त्रसङ्गतित आक्षेपकत्वाख्यं विशेषमाह ‘पूर्वमाक्षिप्यते यत्र तत्र साक्षेपिकी मता’ इत्युक्तेः। एवमग्रेऽपि यत्र पूर्वाक्षेपस्तत्राक्षेपिकी ध्येया॥ गुणपूर्त्यसिद्ध्येति॥ रूढ्या जीवपरत्वे यौगिकार्थगुणपूर्त्यसिद्ध्येत्यर्थः। उभयत्रेति॥ तदेव ब्रह्मेति विष्णौ बृहजातिजीवेति जीव इत्यर्थः। मुख्य इत्युक्तमिति॥ मुख्यामुख्ययोर्मुख्यस्यैव सम्प्रत्यय इत्यन्यतरनिश्चयान्नोक्तसन्देहः सम्भवतीति भावः॥ स्वकृतेति॥ यतो नारायणप्रसादमृते न मोक्ष इत्यादिनेत्यर्थः। भाष्यकारैरेवेति। न सूत्रकारेणेत्येवशब्दः। सूत्रकारेणैव परकीयसम्भावितसन्देहात्परेण तन्निरासकन्यायस्य व्युत्पादितत्वादिति भावः। इतरकोटिप्रापकं प्रतिषेधति॥ यद्यपीत्यादिना॥ योगेनैवेति॥ रूढ्यङ्गीकारे गुणपूर्त्यसिद्धेरिति भावः। तर्हि पङ्कजादिशब्दवद्योगरूढिरस्तु तावतापि गुणपूर्तिलाभात्। एवं च रूढिमात्रतो योगरूढेः प्राबल्याद्विष्णुरेवायं ब्रह्मेति चेन्न। अथ कस्मादिति श्रुतिसिद्धयोगेनैव तद्व्यवहारोपपत्तावसिद्धसमुदाय-शक्तिरूपरूढिकल्पनस्य व्यर्थत्वात्। पङ्कजादिशब्दे योगमात्रस्य भेकादावतिप्रसक्त्या रूढिकल्पनम्। न चात्र तथा। अन्यत्र गुणपूर्तेरनङ्गीकारात्। तदेवाह योगेनैवेत्येवकारेण। रूढेरेवेति। तस्यावयवार्थ-सापेक्षयोगापेक्षया तन्निरपेक्षतया शीघ्रोपस्थापकत्वादिति भावः। ननु तदेव ब्रह्मेत्यत्र रूढिप्राप्तजीवत्यागेन विष्णुग्रहणवदत्रापि तन्निरपेक्षतया शीघ्रोपस्थापकत्वं स्यादित्याशङ्क्याह॥ न चेति॥ बाधकं विनेति॥ तत्र समुद्रस्थत्वं बाधकमिति भावः। अत्रापि जिज्ञास्यत्वं बाधकमित्यत आह॥ न च तादृशमिति॥ समुद्रस्थत्ववदपरिहार्यमित्यर्थः। जिज्ञास्यत्वं तु वक्ष्यमाणरीत्या जीवेऽपि सावकाशमिति भावः। ननु ब्रह्मशब्दस्य जीव इव जात्यादावपि रूढत्वात्कथं जीव एवेत्यवधारणमिति शङ्कां परिहरन्नेवोप-संहरति॥ तस्मादिति॥ मुख्यतो ऽवश्यं तस्यातीवप्रसिद्धेरिति भावः। जीवस्याप्यहमिति प्रसिद्धिरस्तीत्यतः स्वरूपेण सिद्धत्वेऽपि देहभिन्नत्वेन न सिद्धिरिति भावेनाह॥ देहात्मविवेकस्येति॥ अन्यथा ‘‘भस्मीभूतस्य देहस्य पुनरागमनं कुत’’ इति चार्वाकोक्तरीत्या न पुण्यपापकरणाकरणे स्यातामिति भावः। यद्यपि कमलासनस्यापि प्रसिद्धिरस्ति। तथापि न तस्य जिज्ञास्यत्वं प्रयोजना-भावादिति सुधायामेवोक्तम्। ननूक्तरीत्या जीवस्य जिज्ञास्यत्वे तस्य चेत्यादिना कथं तस्याजिज्ञास्य-त्वोक्तिरिति चेद् उच्यते– जात्यादिवैलक्षण्योपपादनाय देहान्यत्वादिना जीवस्य जिज्ञास्यतोक्ता। सिद्धान्त्यभिमतमोक्षफलकगुणपूर्णत्वप्रकारकजिज्ञासा निराक्रियते। अत एव चन्द्रिकायां विशिष्टाधिकारिक-मोक्षफलकजीवान्यधर्मिकगुणपूर्णत्वप्रकारकपूर्वसूत्रोक्तजिज्ञासाक्षेपेणैवेत्याद्युक्तम्॥

ॐ जन्माद्यस्य यतः ॐ॥ अस्य प्रमितस्य चेतनाचेतनात्मकस्य जगतः जन्मादि सृष्टिस्थितिलय-नियमनज्ञानाज्ञानबन्धमोक्षजातं यतः यस्माद् यथायोग्यं भवति; तज्जन्मादिकारणं ब्रह्मेत्यर्थः। पूर्वपक्ष-प्रतिबन्धकयुक्तेरेव वक्तव्यत्वाद् लक्षणकथनमसङ्गतमित्यत आह॥ निर्बाधेति॥ श्रुत्युक्तमिति॥ विष्णुलक्षणत्वेन प्रमितं जन्मादिकारणत्वं जिज्ञास्यब्रह्मसम्बन्धित्वेनाहेत्यर्थः॥ अस्येति॥ इदं त्रितयकर्तृताभिधायिमायावादिव्याख्यानम्। आदिपदेन जन्म आदिर्यस्य पालनस्येत्यतद्गुणसंविज्ञान-बहुव्रीहिणा पालनकर्तृत्वमेवोच्यत इति रामानुजव्याख्यानसङ्गहः॥ निरासायेति॥ जिज्ञासाविधायके यतो वेत्यादिश्रुतावेव चतुष्टयकर्तृत्वोक्तेरिति भावः॥

॥ सृष्ट्याद्यष्टकमिति॥ ननु सूत्रे जगन्निष्ठजन्माद्युच्यते। भाष्यटीकयोस्तु स्रष्टा संहर्तेत्यादिप्रयोगाद् ब्रह्मनिष्ठव्यापार उच्यते। अतः कथं व्याख्यानव्याख्येयभाव इति चेत्। उच्यते। प्रयोजकव्यापारवाचिना सृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मादिर्लक्ष्यते। लक्षणाप्रयोजनं च ब्रह्मणः स्रष्टृत्वमेव न तूपादानत्वमिति सूचनम्। अत एव यो नः पितेति श्रुतिं तथैवावतारयिष्यतीति ध्येयम्। नन्वत्र जीवे रूढिमङ्गीकृत्य बाधकवशात्तत्परित्याग इति न वक्तव्यम्। किन्तु तदेव ब्रह्म परमं कवीनामिति पूर्वाधिकरणोक्तन्यायेन ब्रह्मशब्दस्य विष्णौ विद्वद्रूढेरुक्तत्वाद्विद्वदविद्वद्रूढ्योर्विद्वद्रूढेरेव बलीयस्त्वाद्विष्णुरेवात्रोक्तं ब्रह्मेति वक्तव्यमित्याशङ्क्य परिहरति॥ यद्यपीति॥ अभ्युपगम्येति॥ अभ्युपगमवादप्रयोजनं तु जीवभेदकगुणपूर्तिलाभः। रूढ्यङ्गीकारे तदलाभादिति भावः। इयमुक्तिः सौत्री बाधोक्तिः। रामानुज-रीत्याऽतद्गुणसंविज्ञानेऽष्टकालाभादाह॥ तद्गुणसंविज्ञान इति॥ तस्य गुणस्य अन्यपदार्थं प्रत्युपसर्जनी-भूतस्यान्यपदार्थे संविज्ञानं विशेषणत्वेनोपादानं यस्मिन्बहुव्रीहौ स तद्गुणसंविज्ञानः यथा लम्बकर्ण-मानयेत्यादौ। प्रकृते च तस्य गुणस्यान्यपदार्थपालनादिकं प्रत्युपर्सनीभूतस्य जन्मनोऽन्यपदार्थे पालनादौ संविज्ञानं विशेषणत्वेनोपादानं कार्यं न तु चित्रगुमानयेत्यादाविव तत्परित्याग इत्यर्थः। ननु कथं जन्मनः स्थित्याद्यपेक्षया आदित्वम् ? पौर्वापर्येणेति चेन्न। दर्शपौर्णमासतिथ्योरिव जन्मस्थिति-संहारप्रवाहस्यानादित्वेन पौर्वापर्यानियमादित्यत आह॥ लब्धजन्मेति॥ सत्यमेवं तथापि लब्धजन्मनः स्थित्यादिरितिवन्न स्थितस्य नष्टस्य वा जन्मेत्येकव्यक्त्यपेक्षया जन्मनः प्राथम्यमिति भावः। अज्ञानं भावरूपम्। नोपलभ्यत इति॥ तद्विजिज्ञासस्वेत्यत्रानुपलम्भादिति भावः। प्रयन्ति प्रयान्ति। त्रिधात्वित्यस्यार्थः प्रकृतिपुरुषकालाधारक इति। यच्छब्दस्य तदस्य प्रियमित्युत्तरेणान्वयः।

‘चतुर्भिर्नामभिः साकं वासुदेवादिभिर्हरिः।

वसून् रुद्रांस्तथादित्यान् ब्रह्मणो मरुतस्तथा॥

बृहच्छरीरो भगवान्नूनं शासति नित्यशः’

इति प्रमाणानुसारेण श्रुतिं व्याचष्टे॥ बृहच्छरीर इति॥ बृहच्छरीरो विमिमानित्युत्तरत्रोक्तमिदम्। व्यतीनित्यस्यार्थो विशेषेणाधिकानिति। विशेषेणाधिकत्वेन व्यतयो देवताः स्मृता इति कर्मनिर्णयोक्तेः। वृत्तं भ्रममाणं नेत्यस्यार्थो इवेति॥ पर्यवर्तयदिति॥ विपरिवर्तनधातोरिति भावः। एकादशादित्या इति। आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानाम् एकादशत्वादियमुक्तिः। पञ्चाशन्मरुत इति। एकोनपञ्चाशन्मरुतां मुख्यवायुना सह पञ्चाशत्वादिति भावः। तत्त्वप्रदीपे चेमं प्रकारमभिधाय

‘‘आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि।

बृहस्पतिश्च कामश्च मनुर्दक्षो विनायकः॥

भृगुश्चैवानिरुद्धश्च धर्मो निर्ऋतिरेव च।

कुबेरसहिता देवा नवतिः सम्प्रकीर्तिताः॥

अनन्तो गरुडो वायुश्चत्वारो ब्रह्मणा सह’’

इति प्रमाणानुसारेण प्रकारान्तरमप्युक्तम्। अत्राश्विनोरेकत्वं बोध्यम्॥ एतान्यपीति॥ न केवलं स्थितिनियमनकर्तृत्वे किं त्वष्टावपीत्यर्थः। तन्वा वृधानेत्यस्यार्थः स्वमूर्त्यैवापरिच्छिन्न इति। मात्रयेत्यस्य मितेरिति॥ अपरिमितत्वादिति॥ विष्णोरपरिमितत्वोक्तौ महिम्नस्तत्स्वरूपत्वात्तस्या-परिमितत्वमुक्तमित्याशयेनेयमुक्तिः॥ वर्तमानेति॥ वर्तमानार्थकलट्प्रयोगादिति भावः। यथा जीव-महिमसु चतुर्मुखमहिम्नः सीमात्वं यथा वा परतन्त्रमहिमासु रमामहिम्नः सीमात्वमेवं विष्णुमहिम्नोऽपि विवक्षाविशेषेण सीमात्वं न युक्तमित्याशयेनोक्तम्॥ परमिति॥

‘‘जातो जनिष्यमाणश्च वर्तमानस्तथैव च’’ इति प्रमाणानुसारेणेदमुपलक्षणमित्याशयेनाह॥ जनिष्यमाण इति॥ सर्वे च वयं च वयं त्यदादीनि सर्वैर्नित्यमित्येकशेषं मत्वा आह॥ नः सर्वेषामिति॥ अस्मदादिसर्वेषामित्यर्थः। पौनरुक्त्यवारणायाह॥ न दत्तपुत्रवदिति॥ पिता पालकः॥ २॥

विवृतिः

तस्य च विष्णुत्वं यावन्न साध्यत इति॥ अनेन पूर्वाधिकरणेनास्याधिकरणस्याक्षेपिकी सङ्गतिरुक्ता भवति। जिज्ञास्यता न सम्भवतीत्यत्रेतिशब्दस्य प्रकारवाचिन इति श्रुत्यादिसङ्गतिरिति पूर्वेणान्वयः (सम्बन्धः)। उभयत्रापीति॥ जीवे विष्णावपीत्यर्थः॥ मुख्य इत्युक्तमितिः॥ मुख्यामुख्ययोर्मध्ये मुख्यस्यैव सम्प्रत्यय, इत्यवधारणबलेनोत्कटकोटिकोऽपि सन्देहः सम्भवतीति भावः॥ स्वकृतव्याख्यानेति॥ यतो नारायणप्रसादमृत इत्यादिनेत्यर्थः॥

योगेनैवेति॥ पूर्वाधिकरणसिद्धान्ते अथ कस्मादुच्यत इति श्रुत्युदाहरणपूर्वकं विष्णौ तस्य योगस्यैव प्रदर्शितत्वात्। योगानङ्गीकारे गुणपूर्णत्वासिद्धेश्च श्रुतिप्रतिपादितयोगेनैव तद्व्यवहारोपपत्तौ योगरूढ्यङ्गीकारस्य व्यर्थत्वाच्चेति भावः॥ ननु ब्रह्मशब्दस्य जीव इव जात्यादावपि रूढिसद्भावात्तदेवात्र ब्रह्मशब्दार्थः किं न स्यादित्यत आह॥ जात्यादेरिति॥ जडत्वेन तस्य जिज्ञास्यत्वाभावादिति भावः॥ ननु जडस्यापि वियदादेः ‘न वियदश्रुतेः’ इत्यादौ विचार्यमाणत्वाज्जात्यादेर्जडत्वेऽपि जिज्ञास्यत्वं स्यादित्यत उक्तम्॥ मुख्यत इति॥ तथा च जात्यादेरन्यार्थं जिज्ञास्यत्वेऽपि मुख्यतोऽभावाद-जिज्ञास्यत्वमिति भावः॥ ननु जीवस्याप्यजिज्ञास्यत्वाज्जीवोऽप्यत्र ब्रह्मशब्देन न ग्राह्य इत्यत आह॥ देहात्मविवेकेति॥ जीवज्ञानाभावे देहात्मनोर्विवेकज्ञानासम्भवादिति भावः॥ ब्रह्मणो जिज्ञासेति भाष्यं व्याचष्टे॥ जीवग्रहण इति॥ जिज्ञास्यब्रह्मणो लक्षणमिति॥ विष्णुलक्षणत्वेन प्रमितं जगज्जन्मादिकारणत्वं जिज्ञास्यब्रह्मसम्बन्धित्वेनेत्यर्थः॥ अत एव जीवग्रहणे बाधकमित्युक्तम्। ननु पूर्वाधिकरणे तदेव ब्रह्मेत्यादिना विष्णौ विद्वद्रूढेः समर्थितत्त्वात्तामादायैव कुतो न सिद्धान्तः क्रियते इत्यत आह॥ यद्यपीति॥ उभयथापि सिद्धान्तसम्भवाद्योगमादाय सिद्धान्तः क्रियत इत्यदोषः। रूढिमादायापि सिद्धान्त ऊह्य इति भावः॥ जन्म आदि यस्येत्यतद्गुणसंविज्ञानो बहुव्रीहिः। तथा च स्थितिकर्तृत्वमेव लक्षणमिति मन्यते तन्निरासायाह॥ जन्माद्यस्येतीति। अन्यथा यतो वेति श्रुतौ जायन्त इत्युक्तेरसम्भव इति भावः॥

एवं च लब्धजन्मन इत्युपपन्नम्॥ अत एव तद्गुणसंविज्ञानम् इत्युक्त्वानन्तरं लब्धजन्मन इत्युक्तम्॥

ननु स्थितिग्रहणमेव प्रथमतः किं न कृतमित्यत आह॥ लब्धजन्मनो हीति॥ आवृतिपदेन बन्धः प्रतीयते। तथा च पौनरुक्त्यमत आह॥ आवृतिरज्ञानमिति॥ एकराट्त्वस्य ब्रह्मादिष्वपि सत्वादतिव्याप्तिरित्यत आह॥ एकराट् स्वतन्त्र इति। पर्यवर्तयदिति॥ विपरिवर्तन इति धातोरिति भावः। व्यतीनित्यस्यार्थो विशेषेणाधिकानिति॥ विशेषेणाधिकत्वेन व्यतयो देवताः स्मृता इति वचनात्। नवतिमेव दर्शयति॥ अष्टाविति॥ पञ्चाशन्मरुत इति॥ एकोनपञ्चाशन्मरुतां मुख्यवायुना सह पञ्चाशत्वादिति भावः॥ एकादशादित्या इति॥ आदित्यानां द्वादशत्वेऽपि विष्णुव्यतिरिक्तानां नियम्यानामेकादशत्वादियमुक्तिः। सृष्टिस्थितीत्यादिभाष्ये प्रयोजकव्यापारवाचिना सृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मादिर्लक्ष्यते॥ लक्षणाप्रयोजनं च ब्रह्मणः सृष्ट्रत्वादिकमेव न तूपादानत्वमिति प्रदर्शनम्। अधिकरणार्थमुपसंहरति॥ अत इति॥

॥ इति जन्माधिकरणम्॥