०१ जिज्ञासाधिकरणम्

ॐ अथातो ब्रह्मजिज्ञासा ॐ

सूत्रभाष्यम्

ॐ अथातो ब्रह्मजिज्ञासा ॐ

अथशब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च। अतःशब्दो हेत्वर्थः।

उक्तं च गारुडे —

अथातःशब्दपूर्वाणि सूत्राणि निखिलान्यपि।

प्रारभन्ते नियत्यैव तत्किमत्र नियामकम्॥

कश्चार्थस्तु तयोर्विद्वन्कथमुत्तमता तयोः।

एतदाख्याहि मे ब्रह्मन्यथा ज्ञास्यामि तत्वतः॥

एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः।

आनन्तर्येऽधिकारस्य मङ्गलार्थे तथैव च॥

अथशब्दस्त्वतश्शब्दो हेत्वर्थे समुदीरितः।

परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत्॥

स हि सर्वमनोवृत्तिप्रेरकस्समुदाहृतः।

सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिःसृतौ॥

ओङ्कारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात्।

तद्धेतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः॥

अकारस्सर्ववागात्मा परब्रह्माभिधायकः।

तथौ प्राणात्मकौ प्रोक्तौ व्याप्तिस्थितिविधायकौ॥

अतश्च पूर्वमुच्चार्यास्सर्व एते सतां मताः।

अथातश्शब्दयोरेवं वीर्यमाज्ञाय तत्त्वतः।

सूत्रेषु तु महाप्राज्ञास्तावेवाऽदौ प्रयुञ्जत इति॥

सत्तर्कदीपावली

तत्र तावत्प्रथमसूत्रं व्याख्यातुमुपादत्ते॥ अथेति॥ तत्राथातःशब्दौ व्याचष्टे॥ अथशब्द इति॥ उक्तार्थे गारुडवचनमुदाहरति॥ अथात इति॥ ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ। इत्यादिवचनात् श्रुतमात्रेणाप्यथशब्देन मङ्गलाचरणं भवतीति ज्ञायते। अत्र अकाराद्यर्थकथनम् अथातःशब्दयोः प्राशस्त्यज्ञापनार्थम्। सर्ववागात्मकत्वं त्वकारस्य तत्प्रतिपाद्यविष्णुवाचित्वात्। तकारथकारौ विष्णोर्व्याप्तिस्थितिवाचिनावित्यर्थः।

तत्त्वप्रदीपिका

अथशब्दः श्रवणकीर्तनाभ्यां मङ्गलफलः। विष्णोः परममङ्गलस्य वाचकत्वेनातिप्रियत्वात्। अतश्शब्दो हेत्वर्थः। सर्वस्य हि, ‘दुःखं मा भूत्सुखमेव मे स्यादि’ति निश्शेषदुःखनिवृत्तिः परमसुखावाप्तिश्चेच्छाविषयत्वेन सदा हृदि कृताऽत इत्युच्यते। यस्माद्ब्रह्मजिज्ञासां विना ते न सिध्यतः, तया सिध्यतश्चातः सा कर्तव्या। ‘‘व्याख्यानत्वात्सर्ववाचां सर्ववागात्मता भवेत्’’ इति सामसंहितायाम्। तथौ प्राणात्मकौ प्रोक्तौ प्राणं प्रणेतारं विष्णुं वाचकत्वेनाऽप्तौ।

तत्त्वप्रकाशिका

तत्रादिसूत्रस्येदं सङ्गत्यादि। अत्र ब्रह्मजिज्ञासायाः कर्तव्यत्वसमर्थनादस्ति शास्त्रसङ्गतिः। अन्यथा शास्त्रस्यानारम्भणीयत्वप्रसङ्गादेतत्समर्थनीयम्। अध्यायपादसङ्गतिस्त्वानन्दमयाधिकरणमारभ्यैव गवेषणीया। ततोऽर्वाक्तनानामधिकरणानामध्यायपादपीठत्वात्। प्रथमाधिकरणत्वाच्छ्रुतिविचारस्याद्याप्यनारब्धत्वान्नाधिकरणश्रुतिसङ्गती च। प्रारिप्सिततया चित्तसङ्गतशास्त्रे प्रवर्तनीया ब्रह्मजिज्ञासा विषयः। कर्तव्या न वेति सन्देहः। उभयविधव्यापारदर्शनं सन्देहबीजम्। न कर्तव्येति पूर्वः पक्षः। अधिकारिविषयप्रयोजनसम्बन्धशून्यत्वात्। न तावद् ब्रह्म विषयः। असन्दिग्धत्वात्प्रमाणाभावेन जीवव्यतिरिक्तस्य ब्रह्मणोऽभावात्। जीवस्य च स्वप्रकाशत्वात्। न हि कश्चित्प्रकाशमानेऽर्थे सन्दिग्धे। न चात्मनः स्वप्रकाशत्वे विवदितव्यम्। अहमित्यनुभवात्। न चायं मानसोऽनुभवः। तस्यापि ज्ञायमानत्वेनानुभवान्तरान्वेषणेऽनवस्थानात्। कस्यचिदनुभवस्य स्वप्रकाशत्वेऽस्त्वात्मन एव तत्। जिज्ञासायामेवानुभवोऽनुभूयत इति न वाच्यम्। अनुभवविरोधात्। न ह्यज्ञायमानज्ञानसद्भावे किञ्चिन्मानम्। न च स्वप्रकाशसंविदाश्रयतयाऽऽत्माऽवभासत इति युक्तम्। औत्तरिकानुस्मृतिसिद्धसौषुप्तिकानुभवाभावप्रसङ्गात्। न हि सुषुप्तावात्मातिरिक्ता संविदस्तीति सम्भवति। संविदात्मकत्वाच्चात्मनो न संविद इव संविदाश्रयतया प्रतीतिः। अतः स्वप्रकाशात्मानतिरिक्तस्य ब्रह्मणोऽसन्दिग्धत्वान्न विषयत्वं सम्भवति। न च जिज्ञासायाः प्रयोजनमस्ति। ज्ञायमानेऽपि ब्रह्मणि तदनुपलम्भात्। विषयप्रयोजनाभावान्न ब्रह्मजिज्ञासायामधिकारी विद्यते। अत एव न सम्बन्धः। अतो न ब्रह्मजिज्ञासा कर्तव्येति नैतच्छास्त्रमारम्भणीयमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति॥ अथेति॥ ग्रन्थादौ मङ्गलाचरणस्यावश्यकर्तव्यत्वात्तत्परतयाऽथशब्दं व्याचष्टे॥ अथेति॥ मुक्त्यर्थिमात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तिनिरसनपरतयापि तं व्याचक्षाणस्तस्याभिधेयमर्थमाह॥ अधिकारेति॥ अथशब्दस्यानन्तर्यमात्रार्थत्वेऽप्यधिकारस्य योग्यतया सम्बन्धः। ब्रह्मजिज्ञासायाः प्रयोजनशून्यताशङ्कानिवर्तकतयाऽतःशब्दं व्याचष्टे॥ अत इति॥

नन्वथातःशब्दपूर्वकत्वं सूत्राणां किंनिमित्तं मङ्गलोक्त्यादेः (मङ्गलाचरणादेः) शब्दान्तरेणापि सम्भवादित्याशङ्कां पुराणवचनेनैव परिहरति॥ उक्तं चेति॥ अत्र प्रथमप्रयोज्यत्वे नियामकेन भाव्यं तत्किं नियामकम्। न चैतत्प्राथम्यं यादृच्छिकम्। यतोऽखिलान्यपि नियत्यैव तत्पूर्वकाणीत्यर्थः। नियामकं च भवद् द्विविधं भवेत्। अवश्यवक्तव्यार्थत्वमाधिक्यं चेति। आधिक्यं च स्वरूपतोऽर्थतश्चेति द्वेधा भवति। तत्रादिपक्षे पृच्छति॥ कश्चेति॥ कोऽसाववश्यवक्तव्योऽर्थो येन प्राथम्यमित्यर्थः। द्वितीयमाक्षिपति॥ कथमिति॥ शब्दान्तरस्य स्वरूपोत्तमत्वादर्शनात्कथमनयोस्तदिति भावः। तृतीये पृच्छति॥ कथमिति॥ अवश्यवक्तव्यार्थत्वात्प्रथमप्रयोग इति परिहारमभिप्रेत्यावश्यवक्तव्यार्थत्वं तयोर्दर्शयति॥ आनन्तर्य इति॥ अत्रातःशब्दस्याऽवश्यवक्तव्यमर्थान्तरं चाह॥ परस्येति॥ अकारवाच्याद्विष्णोस्तत्प्रसादात्तज्जिज्ञासादि कार्यमिति वाऽतःशब्दार्थो भवेदित्यर्थः। ‘अः इति ब्रह्म’ (ऐ.आ. २-३-८-७) इत्यादिश्रुतिं सूचयति परब्रह्मग्रहणेन। किं जिज्ञासाद्यर्थं भगवत्प्रसादेनेत्यत आह॥ स हीति॥ ननु मङ्गलोक्त्यादेः शब्दान्तरेणापि सम्भवात्किमेतत्प्रयोगनियत्येत्यतः स्वरूपाधिक्यं चास्तीत्याह॥ सिसृक्षोरिति॥ प्रथमं विनिःसृतावतः स्वरूपोत्तमौ तस्मात्प्राथमिकावित्यर्थः। यत्स्वजातौ प्रथमं हरेर्निस्सरति तत्तत्रोत्तममिति न्यायोऽनुसन्धेयः। अतश्च तृतीयतया प्राथमिक उदाहृतः। यतस्तृतीयतयोदाहृतो विष्णुनेत्यत उत्तम इत्यर्थः। तद्धेतुत्वं तस्य विष्णोर्जिज्ञासादौ हेतुत्वं तस्य जिज्ञासादेर्मोक्षहेतुत्वं वा वदन्नित्यनुवादः। न केवलमाधिक्यं स्वरूपत एव किन्त्वर्थतश्चेत्यतोऽपि प्रथमप्रयोग इत्याह॥ अकार इति॥ सर्ववागर्थपूर्णताभिधायकतया परब्रह्माभिधायक इत्यर्थः॥ प्राणात्मकाविति॥ प्राणदैवत्यौ भगवद्वाचकौ। अभिमान्यभिमन्यमानयोरैक्यव्यपदेशो महतश्चतुर्मुखादित्यादौ प्रसिद्धः। वाच्यवाचकयोरैक्यव्यपदेशो ‘अयं वै लोकः प्रथमा महानाम्नी’ इत्यादौ दृष्टः। अत इत्युपसंहारः। वीर्यं स्वरूपाधिक्यादिमाहात्म्यम्।

गुर्वर्थदीपिका

अस्ति शास्त्रसङ्गतिरित्यत्र साक्षात्परम्परया वा विष्णुमीमांसारूपो ग्रन्थसमुदायोऽत्र शास्त्रमित्युच्यते। अन्यथा साधनफलाध्यायार्थयोरसङ्ग्रहः स्यात्। तेन च सङ्गतिः कथञ्चिद्विष्णुमीमांसारूपत्वे सति स्यात्। प्रथमाधिकरणं च विष्णुजिज्ञासायाः कर्तव्यत्वमीमांसारूपत्वात्परम्परया विष्णुमीमांसाशास्त्रेऽस्मिन्नन्तर्भावलक्षणसङ्गत्या सङ्गतमिति भावः। प्रथमाध्यायस्य नामसमन्वयप्रतिपादकत्वात्प्रथमपादस्य चान्यत्र प्रसिद्धनाम्नां समन्वयप्रतिपादकत्वात्तस्य चानन्दमयाधिकरणमारभ्यैव क्रियमाणत्वेन ततः प्राक्तनाधिकरणपञ्चके चाभावाद् अध्यायपादसङ्गतिस्त्वानन्दमयाधिकरणमारभ्यैव गवेषणीयेत्युक्तम्। पूर्वाधिकरणे विचारितश्रुत्यर्थमाक्षिप्योत्तराधिकरणे तत्समाधाने हि श्रुत्यधिकरणसङ्गती वक्तव्ये। अस्य च प्रथमाधिकरणत्वेनेतः पूर्वमाक्षेप्यश्रुतेरेवानारब्धत्वान्नाधिकरणश्रुतिसङ्गती चेति भावेनोक्तं प्रथमाधिकरणत्वादिति। मनोवेद्यत्वे सुप्तौ मुक्तौ च मनसोऽभावेनाऽऽत्मनोऽपि ज्ञातत्वासम्भवात्स्वप्रकाशत्वेनैवाऽऽत्मसिद्धिरिति भावेनोक्तं जीवस्य स्वप्रकाशत्वादिति। स्वात्मन एव तदित्यत्र तत् स्वप्रकाशानुभवत्वं स्वात्मन एव जीवस्यैवेत्यर्थः। अनन्तः कस्यचिज्जडमानसानुभवस्य स्वप्रकाशत्वे प्राचीनानुभवस्यैव कुतो न तत्। अतोऽनवस्थापरिहाराय कस्यचिदनुभवस्य स्वप्रकाशत्वमभिलषता प्राचीनानुभवाद्वैलक्षण्यमवश्यं वाच्यम्। तच्च चिद्रूपत्वमेवेति भावेन स्वात्मन एव तदित्युक्तम्। जिज्ञासायामेवेत्यत्र बुभुत्सैव जिज्ञासा। एकेनाज्ञायमाने घटे तदैवान्येन ज्ञायमानत्वस्य स्थिरतया अन्येद्युर्वा ज्ञायमानत्वस्य सम्भवेऽपि त्रिक्षणावस्थायिनि परप्रत्यक्षाविषये ज्ञाने स्वप्रत्यक्षस्याप्यभावेऽप्रामाणिकत्वमेव स्यादिति भावेनोक्तं न हीति। अतीतकालेऽनुभूतार्थविषयत्वमात्रेण स्मृतिसारूप्यात् साक्षिरूपपरामर्शात्मकज्ञानमप्यनुस्मृतिरिति भावेनोक्तम् औत्तरिकानुस्मृतिसिद्धेति। अन्यथा स्मृतेरप्यतीतार्थसाधकता न स्यादित्यतिप्रसङ्गसूचनायेत्थं प्रयोगः। एतावन्तं कालं सुखमहमस्वाप्समित्यौत्तरिकपरामर्शबलादस्ति सुप्तावप्यनुभवः। स च सकलकरणोपरतिदशायां विद्यमानत्वान्न जन्यः। अजन्यस्य चानुभवस्याऽऽत्मातिरिक्तस्य कल्पने गौरवात्। ‘‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्। स्वरूपाण्येव जीवस्ये’’ति स्मृतिविरोधाच्चाऽऽत्मरूप एव वाच्य इति भावेनोक्तं न हि सुप्तावात्मातिरिक्तेति।

अथशब्दस्य शङ्खनिनादवच्छ्रवणत एव मङ्गलत्वान्मङ्गलमर्थः प्रयोजनं यस्य स मङ्गलार्थः। अधिकारस्तु योग्यतया लभ्यते। ‘‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि’’त्यभिधानम्। अतःशब्दो हेत्वर्थ इत्यस्य ‘‘यतो नारायणप्रसादमृते न मोक्षः। न च ज्ञानं विनाऽत्यर्थप्रसादः। अतो ब्रह्मजिज्ञासा कर्तव्ये’’ति स्वपदव्याख्यात्रा भाष्यकृतैव स्पष्टीकरिष्यमाणत्वाद् ब्रह्मजिज्ञासाया मोक्षसाधनभगवत्प्रसादजनकज्ञानं प्रति यद्धेतुत्वं स एवार्थो यस्य स हेत्वर्थ इत्यर्थः। भावप्रधानो निर्देश इति भावः। यद्वा ‘‘तद्धेतुत्वं वदंश्चापी’’ति स्मृतिसमाख्ययाऽकारवाच्यस्य विष्णोर्निमित्तार्थकपञ्चमीविभक्त्यादेशभूततसेरर्थभूतं यज्जिज्ञासां प्रति हेतुत्वं सोऽर्थो यस्य स हेत्वर्थ इत्यर्थः। ‘‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्वथो अथ’’ इति वचनात्। शब्दान्तरेण अथोऽत इति सूत्रवल्लघुभूतशब्दान्तरेणेत्यर्थः। तदित्यस्य पूर्वपरामार्शित्वात्परामृश्यं किमित्यतस्तत्प्रस्तावयति नियामकेनेति। यद्यपि ‘‘स्वरूपाधिक्यं चास्तीत्याहे’’ति स्वरूपाधिक्यस्यापि स्वयमेव वक्ष्यमाणत्वात्। ‘‘आदिपक्षे पृच्छति’’ ‘‘तृतीयेऽपि पृच्छती’’तिवद्द्वितीयेऽपि पृच्छतीत्येव वक्तव्यम्। तथापि लोके शब्दान्तरे स्वरूपोत्तमतायाः क्वाप्यदर्शानान्मन्द आक्षिपति इति भावेन द्वितीयमाक्षिपतीत्युक्तम्। यद्यपि ब्रह्मघटितश्रुतिसूचनाय ब्रह्मग्रहणेनेत्येव वक्तव्यम्। तथाऽपि ‘‘परस्य ब्रह्मण’’ इति स्मृतौ विष्णोरुत्तमब्रह्मत्वकथनेन मुख्ये सम्भवत्यमुख्यायोगात् श्रुतावपि ब्रह्मपदेन मुख्यब्रह्मरूपो विष्णुरेव ब्रह्मेति सूचनाय परब्रह्मग्रहणेनेत्युक्तम्। ‘‘सिसृक्षो’’रिति स्मृतिवाक्ये मध्ये उत्तमता न दृश्यते। तथाऽपि कथमुत्तमता तयोरिति प्रश्नानुगुण्याय तदध्याहार्यमिति भावेनोक्तम् अतः स्वरूपोत्तमाविति। चतुर्मुखादपि प्राग्भगवन्मुखाद्विनिस्सृतऋग्वेदस्य ततोऽप्याधिक्यादर्शनात्स्वजातावित्युक्तम्। ‘‘तृतीयोऽत उदाहृत’’ इत्यत्रातो ऽतश्शब्द इत्यर्थः। अतश्च तृतीयतया प्राथमिक उदाहृत इत्युक्तत्वेऽपि प्रथमं भगवन्मुखनिस्सृतत्वलाभेनोत्तमत्वे हेतुरेवोक्तो न तूत्तमत्वम्। ततश्च पूर्ववत् प्रश्नानानुगुण्यं स्यादित्याशङ्क्यापेक्षितार्थं पूरयन्वाक्यतात्पर्यार्थानाह अतस्तृतीयतयेति। अतः कारणाद् उत्तमस् तृतीयतयोत्तम इत्यर्थः। ‘‘अतश्शब्दो हेत्वर्थे समुदीरितः। परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेदि’’त्यतश्शब्दार्थद्वयस्य प्रागेव कथितत्वात्पुनस्तद्धेतुत्वं वदन्नित्यस्य वैयर्थ्यमाशङ्क्यानुवादेऽपि न्यूनतां परिहर्तुमर्थद्वयं वदन्नित्यनुवाद इत्याह तद्धेतुत्वं तस्य विष्णोरित्यादिना। अकार इतीति॥ सर्ववागर्थपरिपूर्णताभिधायकतया परब्रह्माभिधायक इति वदता यद्यप्यकारस्सर्ववागात्मा सर्ववागर्थपरिपूर्णः परमात्मेत्येव शब्दलभ्योऽर्थः। तथाऽप्यकारपरमात्मनोरैक्यायोगादिदं सामानाधिकरण्यं वाच्यवाचकयोरैक्याभिप्रायेणैव निर्दिष्टमिति सूचितम्। एवं च अकारस्सर्ववागात्मा सर्ववागर्थपरिपूर्णः परमात्मेति सामानाधिकरण्याद्वाच्यवाचकयोरैक्यमुक्तम्। तत्र दृष्टान्तः ‘‘अयं वै लोकः प्रथमा महानाम्नी’’ति। अत्र हि यथा महान्ति भगवन्नामानि यासु ता ऋचः महानाम््नयः। तासु प्रथमा महानाम्नी ऋक् अयं लोको वै। एतल्लोकाधारत्वादयं लोक इत्युक्तः परमात्मा वै इति वाच्यवाचकयोरैक्यमुक्तम्। तद्वदिदमपीति भावः। तथौ प्राणात्मकौ प्राणस्वरूपाविति शब्दलभ्योऽर्थः। प्राणः देवता अभिमानी ययोस् तौ प्राणदैवत्याविति तु फलितकथनम्। ‘‘तनु विस्तारे’’ ‘‘ष्ठा गतिनिवृत्ता’’विति धातोस्तकारो हरेर्व्याप्त्यभिधायकः। थकारस्स्थित्यभिधायक इति ‘‘व्याप्तिस्थितिविधायकौ’’। एवं च प्राणात्मकावित्यभिमान्यभिमन्यमानयोरैक्यमुक्तम्। तत्र दृष्टान्तो महतश्चतुर्मुखादिति। अत्र सृष्टिप्रकरणत्वान्महत्पदं महत्तत्वाभिधायकम्। एवं च यथा महतश्चतुर्मुखादित्यभिमान्यभिमन्यमानयोर्महत्तत्वचतुर्मुखयोस्सामानाधिकरण्येनैक्यव्यपदेशस्तथेहापीति॥

भावबोधः

अध्यायपादसङ्गतिस्त्विति। यथा ‘‘तद्विजिज्ञासस्व’ ‘यतो वा’ इत्यादिब्रह्मप्रतिपादकवाक्यार्थनिर्णायकन्यायव्युत्पादकतया अधिकरणपञ्चकस्य ब्रह्मविचाररूपेण शास्त्रेणान्तर्भावलक्षणा सङ्गतिः, न तथाऽध्यायपादाभ्यां समन्वयतद्विशेषाप्रतिपादकत्वादिति भावः।

ननु समन्वयसूत्रे साक्षात् समन्वयस्यैवोक्तेः ‘तमेव समन्वयं प्रकटयति’ इति भाष्येऽध्यायशेषस्य समन्वयसूत्रोक्तसमन्वयप्रपञ्चकत्वोक्तेः समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्चप्रपञ्चकभावसङ्गतिरिति सुधाग्रन्थाच्च तस्यान्तर्भावसत्त्वादीक्षत्यधिकरणे ‘‘तदभावे कुतोऽन्वयः’ इत्यनुव्याख्यानोक्तरीत्या समन्वयासाधारणहेतुवाच्यत्वसमर्थनेन तस्याध्यायान्तर्भावसम्भवात् कथमानन्दमयाधिकरणमारभ्यैवेत्युक्तमिति चेत्; सत्यम्। वैदिकानां शब्दानां ब्रह्मण्युपक्रमादिप्रमाणकः शक्तितात्पर्यलक्षणः सम्बन्धः समन्वयः। स च न समन्वयसूत्रप्रतिपाद्यः। तत्प्रमाणस्यानुक्तेः। किन्तु व्युत्पादयिष्यमाणः स शास्त्रयोनित्वे हेतुत्वेन सिद्धवदुपन्यस्तः। ईक्षत्यधिकरणेऽप्यवाच्यत्वप्रयुक्ता समन्वयासम्भवशङ्कैव निरस्ता। समन्वयस्तु न व्युत्पादित इति न तयोरध्यायान्तर्भावलक्षणा सङ्गतिः। किञ्च, अनयोरधिकरणयोः पादार्थाप्रतिपादकत्वेन न पादान्तर्भाव इति सिद्धम्। तथा च कथमध्यायान्तर्भावोऽपि ? न हि यद्विशेषानन्तर्भूतं तत् सामान्यान्तर्भूतं सम्भवतीति। अध्यायपादपीठत्वादिति। वक्ष्यमाणक्रमेणैतदधिकरणपञ्चकव्यतिरेकेण समन्वयाद्याकाङ्क्षानुदयात्तदाकाङ्क्षोत्थापकतया ततोऽर्वाक्तनानां पञ्चानामप्यधिकरणानामध्यायपादपीठत्वादित्यर्थः। नाधिकरणश्रुतिसङ्गती इति। पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गती नेत्यर्थः। कर्तव्या न वेति। अत्र वेदार्थनिर्णायकन्यायग्रथनात्मकमिदं शास्त्रमनारम्भणीयमुतारम्भणीयमिति प्रधानचिन्ता, नैतच्छास्त्रमारम्भणीयमित्युपसंहारवाक्यसूचिता द्रष्टव्या। अत एव सुधायां तत्र संशयः किमिदमारम्भणीयं न वेति प्रधानचिन्तामुक्त्वा जिज्ञासायाः कर्तव्यत्वाकर्तव्यत्वकोटिका चिन्ता तादर्थ्येनोक्ता। इदं तदर्थचिन्ताप्रदर्शनं सर्वत्र यथासम्भवं तदर्थचिन्तोहः कर्तव्य इत्युपलक्षणत्वेनेति ज्ञातव्यम्। तथा चात्र किमिदं शात्रमनारम्भणीयम्, उत आरम्भणीयमिति चिन्ता। तदर्थमेतच्छास्त्रव्युत्पादितन्यायकरणिका जिज्ञासा न कर्तव्या उत कर्तव्येति। तदर्थं जिज्ञासायां विषयादिकं न सम्भवति उत सम्भवतीति। तदर्थं विषयभूतं ब्रह्म किं प्रत्यगर्थभूतजीव एव प्रयोजनत्वेनाभिमतो मोक्षश्च कर्मादिसाध्यः; उत प्रत्यगर्थजीवभिन्नं मोक्षश्च विष्णुज्ञानजप्रसादैकसाध्य इति। तदर्थं ब्रह्मणो जीवभिन्नत्वे मोक्षस्य तादृशविष्णुप्रसादसाध्यत्वे च प्रमाणं नास्ति उतास्तीति। यदि प्रमाणाभावस्तदा ब्रह्ममोक्षयोर्विषयप्रयोजनत्वासम्भवात्तत एवाधिकार्याद्यभावाद्विषयादिशून्यत्वेन जिज्ञासायाम् अकर्तव्यत्वे शास्त्रमनारम्भणीयमिति पूर्वपक्षे, प्रमाणसद्भावे च तयोर्विषयप्रयोजनवत्वोपपत्तेर्मोक्षकामनया ब्रह्मजिज्ञासोरेवाधिकारित्वादिसम्भवात् सम्बन्धसम्भवाच्च विषयाद्युपेतत्वेन जिज्ञासायाः कर्तव्यत्वे शास्त्रमारम्भणीयमिति सिद्धान्ते च फलफलिभावः। एवमुत्तरत्रापि द्रष्टव्यम्। यत्राविशदं तत्र वक्ष्यते। जीवव्यतिरिक्तेश्वराभावात् तस्य च स्वप्रकाशत्वेन नित्यसिद्धत्वान्न जिज्ञास्यतेति न्यायविवरणानुसारेण पूर्वपक्षमाह। न कर्तव्येत्यादिना। न्यायविवरणे अधिकार्यादिनिरास उपलक्षित इत्यभिप्रेत्य विषयाद्यभावचतुष्टयं पूर्वपक्षयुक्तित्वेनोक्तम्। यथोक्तं न्यायविवरणटीकायाम् ‘तथाप्युपलक्षणतया विषयनिराकरणसमर्थनयोरेव विवरणं क्रियते’ इति। न तावद् ब्रह्मेति। नापि प्रयोजनादीति तावच्छब्दः, न तु नात्रऽब्रह्म विषय इति। अब्रह्मणो विषयत्वानिराकरणादिति ध्येयम्। किमनुभवोऽजिज्ञासितग्राह्यः, उत जिज्ञासितग्राह्य इति विकल्पं हृदि निधायाऽऽद्ये दोषमाह। तस्यापीति। द्वितीयं शङ्कते। जिज्ञासायामेवेति। जिज्ञासा च न सर्वत्रेति नानवस्थेति भावः। अनुभवविरोधादिति। ज्ञानस्य सुखदुःखादिवज्जिज्ञासा भावेऽप्यनुभवात्। अन्यथा जिज्ञासाया ज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभवादनवस्था स्यादिति भावः।

ननु न ज्ञानमात्रमजिज्ञासितग्राह्यम्, येनानवस्था। नापि जिज्ञासितग्राह्यम्, येनानुभवविरोधः। किन्तु किञ्चिज्ज्ञानं कदापि न ज्ञायत एवेति न कोऽपि दोष इत्यत आह न ह्यज्ञायमानेति। अज्ञायमानत्वादेवेति भावः। संविदात्मकत्वादिति। आत्मा न संविदाश्रयतया प्रतीयते संविदात्मकत्वात् संविद्वत्, इति प्रयोगो द्रष्टव्यः। न चासिद्धो हेतुः। औत्तरिकानुस्मृत्यैव तस्य सिद्धत्वादिति भावः। ‘विषयप्रयोजनाभावादेवाधिकारी च। तदभावादेव सम्बन्धोऽपी’त्याचार्योक्तिं मनसि निधाय अधिकारिसम्बन्धाभावमाह विषयप्रयोजनाभावादित्यादिना। यो यत्प्रयोजनमर्थयमानो यद्विषयं जिज्ञासते स तत्राधिकारीति विषयप्रयोजनयोरधिकारिव्यापकत्वादिति भावः। ‘अत एव’ सम्बन्धिनामभावादेवेत्यर्थः। तत्फलकतयेति पाठः साधुः। न तु तदभिधेयतयेति। अत एव ‘तस्याभिधेयमर्थमाहे’ति वक्ष्यति। तथा चाथशब्दो मङ्गलार्थ इति भाष्ये अर्थशब्दो प्रयोजनवचन इति भावः। मङ्गलोक्त्यादेरिति। मङ्गलप्रयोजनकाथशब्दो मङ्गलत्वेन विवक्षितः। तस्योक्तिरुच्चारणम्। आदिपदेनाधिकारानन्तर्यादिप्रतिपादनम्। अन्यथा मङ्गलोक्तेरित्यवक्ष्यदिति। निखिलान्यपीति। निखिलान्यपीत्यस्यैव विवरणं नियत्यैवेतीति भावः। द्वितीयमाक्षिपतीति। अवश्यवक्तव्यार्थत्वाधिक्यार्थयोस्तदभावयोश्च शब्दान्तरेषु दर्शनादथशब्दे तत्सन्देहेन प्रश्नमात्रसम्भवेन प्रथमतृतीययोः पृच्छतीत्युक्तम्। द्वितीये तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनादथशब्दे तदाक्षेप इति भावः। अत एव ‘शब्दान्तरस्य’ इत्यादिना मूलाभिप्रेतो हेतुः प्रदर्शितः। ‘कथं’शब्दः प्रश्नार्थकः। ‘उत्तमता’ शब्दस्तु उत्तमार्थतार्थक इत्यभिप्रेत्य कथमित्यादि प्रकारान्तरेण व्याचष्टे तृतीये पृच्छतीति। इति न्याय इति। अत्र सामान्यव्याप्तिरेवानुसन्धेया। यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवात्। न तु यः शब्द इति विशेषव्याप्तिः। दृष्टान्ताभावादिति भावः। अत इत्यस्यातःशब्दपरत्वं हेतुपरत्वं ‘तृतीयोऽत उदाहृतः’ इत्यनयोरावृत्तिं ‘प्राथमिकौ’ इत्यस्य वचनव्यत्यासेनानुषङ्गं चाभिप्रेत्य व्याचष्टे अतश्च तृतीयतयेति। ‘अकारः सर्ववागात्मा’ इत्यत्राकारस्य सर्ववागर्थप्रतिपादकत्वमेव सर्ववागात्मकत्वं सर्ववागात्मेत्यस्य हेत्वर्थगर्भत्वं चाभिप्रेत्याह सर्ववागर्थेति। अभिधायकतयेतीत्थम्भूतलक्षणे तृतीया। प्राणशब्दस्य विष्णुपरत्वमप्यभिप्रेत्याह भगवद्वाचकाविति। यद्वा, प्राणश्चात्मा भगवांश्च प्राणात्मानौ, स्वार्थे कप्रत्यय इति भावेन प्राणात्मकावित्येतद्व्याचष्टे। प्राणदैवत्यौ भगवद्वाचकाविति। महतश्चतुर्मुखादिति॥ महत्तत्वाभिमानिनश्चतुर्मुखादित्यर्थः। अयं वै लोकः प्रथमा महानाम्नीति। महानाम्नीसंज्ञिका, विदा मघवन्नित्यादिका ऋक् पृथिव्यादिलोकस्थविष्णुवाचीत्यर्थः। यथोक्तं कर्मनिर्णये–

प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिः।

द्वितीयायास्त्वन्तरिक्षस्तृतीयायाद्युगः प्रभुः॥ इति।

भावदीपः

॥ तत्रेति॥ सूत्रेष्वति वा अत्युपादेयत्वे सतीति वाऽर्थः। इदमित्युक्त्या परोक्तं हेयमिति सूचितम्। तद्विवृतं चन्द्रिकायाम्। अधिकरणानां हि सङ्गतिस्तावद् द्वेधा। अन्तर्भावरूपा आनन्तर्यरूपा चेति। तत्राऽऽद्या शास्त्रान्तर्भावाध्यायान्तर्भावपादान्तर्भावभेदेन त्रेधा। द्वितीयाऽपि आक्षेपिकी आतिदेशिकी औपोद्धातिकी आपवादिकीत्यादिरूपेणानेकविधा। एवमनेकविधाऽऽनन्तर्यरूपा सङ्गतिः। पूर्वाधिकरणेनोत्तराधिकरणस्येव पूर्वाधिकरणविषयवाक्येनोत्तराधिकरणविषयवाक्यस्याप्यस्ति सा श्रुतिसङ्गतिरित्युच्यते। उक्तं हि चन्द्रिकायाम्—

शास्त्रेऽध्याये तथा पादे श्रुत्याऽधिकरणेन च।

सङ्गतिः पञ्चधा प्रोक्ता सर्वाधिकरणेष्वपि॥

इत्यादि। तथा विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः॥ प्रयोजनं च पञ्चैतांस्तन्त्रेऽधिकरणं विदुरित्युक्तेर्विषयादिकं च वाच्यम्। तत् परैरन्यथा वर्णितमिति तद्व्युदासायेदं सङ्गत्यादीति प्रतिज्ञातं विवृण्वन् सङ्गतिं तावद् व्यनक्ति॥ अत्रेति॥ आद्याधिकरण इत्यर्थः। तद्विजिज्ञासस्वेति श्रुत्युक्ताया जिज्ञासायास्सविषयत्वादिन्यायबलेन कर्तव्यतासमर्थनेन ब्रह्मविचारपरे शास्त्रेऽन्तर्भावरूपा सङ्गतिरित्यर्थः। उक्तं च सुधायाम् अत एवाऽस्य न शास्त्रबहिर्भाव इति॥ व्यर्थमेतत्समर्थनमत्रेत्यत आह॥ अन्यथेति॥ न्यायानुसन्धानादिरूपजिज्ञासाया अकर्तव्यत्वे न्यायग्रथनात्मकसूत्रसन्दर्भरूपशास्त्रस्यानारम्भणीयत्वं स्यात्। न्यायानुसन्धानार्थत्वात्तस्य। तदारम्भणीयं चावश्यम्। अन्यथा परमपुरुषार्थहेतुश्रुत्यर्थनिर्णयानापत्तेरिति भावः। चन्द्रिकायां तु ब्रह्मविचारपरशास्त्रकर्तव्यतोपयोगितया जिज्ञासाकर्तव्यतासाधनादस्ति शास्त्रादिनौपोद्धातिकी सङ्गतिः। अन्यथा शास्त्रानारम्भापत्तेरित्यर्थ उक्तः॥ एतदिति॥ जिज्ञासाकर्तव्यत्वमित्यर्थः॥ अध्यायेति॥ अध्यायपादयोरन्तर्भाव इत्यर्थः॥ पञ्चाधिकरण्याः पदानां हरौ शक्ति-तात्पर्यावधारणरूपसमन्वयाप्रतिपादकत्वादिति भावः। सङ्गती इति वक्तव्ये सङ्गतिस्त्वित्येकवचनकृत्यं चन्द्रिकायां व्यक्तम्। तर्हि पञ्चाधिकरण्याः पूर्वं निवेशे किं बीजमित्यत आह॥ तत इति॥ पञ्चाधिकरण्यास्समन्वयविशेषाप्रतिपादकत्वेनाध्यायान्तर्भावासम्भवेऽपि जिज्ञासाकर्तव्यतायाः प्रथम-प्रतिपाद्यत्वात्तत्प्रतिपादनायाद्यसूत्रे ब्रह्मशब्देन जीवादिव्यावर्तकगुणपूर्तिलक्षणत्वेन सूचयित्वा, ‘‘जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये। ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः॥’’ इत्यनुव्याख्यानोक्तदिशा द्वितीये तस्य गुणपूर्तिवाचितासिद्धये जीवपरतानिरासाय विश्वकारणतां जिज्ञास्यब्रह्मलक्षणत्वेनोक्त्वा, तृतीये पूर्तिकारणतयोरतिव्याप्तिनिरासाय तत्र शास्त्रं प्रमाणीकृत्य चतुर्थे तयोर्विष्ण्वेकनिष्ठत्वाय शास्त्रस्यान्य-परतां निषिध्य सर्वशास्त्रस्थसर्वशब्दप्रवृत्तिनिमित्तसर्वगुणपूर्तिसिद्धये वचनवृत्त्या सर्वशास्त्रतात्पर्यविषयतायां चोक्तायां संशब्दार्थस्य वाच्यत्वस्य कार्त्स्न्यस्य च समर्थनार्थं पञ्चममिति पञ्चाधिकरण्या बद्धक्रमत्वात्तदनन्तरमेव समन्वये आकाङ्क्षोदयात्तदाकाङ्क्षोत्थापकतया समन्वयाध्यायस्य तदादिनामपादस्य चादौ निवेशो युक्त इत्यर्थः॥ नाधिकरणेति॥ पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गतिर्नेत्यर्थः। उत्तराधिकरणस्य पूर्वाधिकरणेन सङ्गतेः पूर्वाधिकरणविषयवाक्यभूतश्रुतिसङ्गत्या अविनाभाव एव न त्वभेद इति सा पृथगिति सूचनाय द्विवचनप्रयोगः।

एवं सङ्गतिमुक्त्वा विषयाद्याह प्रारिप्सिततयेत्यादिना॥ ब्रह्मजिज्ञासेति॥ ब्रह्मजिज्ञासा नाम ब्रह्मज्ञानाय सर्ववेदादिविषया वक्ष्यमाणदिशा श्रवणमनननिदिध्यासनरूपा वा सुधारीत्या वेदाद्यर्थनिर्णायकन्यायानुसन्धानापरपर्यायमननमात्ररूपा वा चित्तवृत्तिरित्यर्थः। अन्यथेत्यादि पूर्ववाक्योक्त-जिज्ञासाविषयकचिन्तासाफल्यद्योतनाय शास्त्रे प्रवर्तनीयेत्युक्तम्॥ जन्माद्यस्येत्यादौ शास्त्र इत्यर्थः। क्वास्ति शास्त्रमित्यत उक्तं प्रारिप्सिततया चित्तसङ्गतेति। एतेन शास्त्रमारभ्यं वा न वेति प्रधानसन्देहः। तदर्थं ब्रह्मजिज्ञासा कर्तव्या न वेति सन्देह इति सूचितम्। यद्यप्ययमत्र सन्देहो न ग्रन्थकर्तुः सर्वज्ञत्वात्तस्य। नापि परस्य शास्त्रस्यैवानुपलब्ध्या जिज्ञासाया अनुपस्थितेः। तथापि शास्त्रप्रणयनानन्तरम् एतत्सूत्राभाव एतद् दृष्ट्वा परस्सन्दिहीतेति तदीयसन्देहप्रदर्शनमेतदिति सुधायामेव व्यक्तम्। वादिविप्रतिपत्तिरेव विचाराङ्गसन्देहबीजमित्यत्र हेत्वभावाद्विप्रतिपत्तेरपि साधारणधर्म एवान्तर्भावस्य पद्धत्यादावुक्तत्वात्साधारणधर्ममेव सन्देहबीजमाह॥ उभयेति॥ लोके निर्विषयादिक्रियाया आकाशरोमन्थनादेरकर्तव्यत्वदृष्टिः सविषयादिक्रियाया अन्नभोजनादेः कर्तव्यत्वदृष्टिरित्यर्थः। अत्र तदर्थचिन्तासूत्रक्रमविशेषचर्चादिकं चन्द्रिकातोऽवसेयम्। सङ्गम्यन्ते गुरोर्गिर इति स्वप्रतिज्ञामनुरुध्य सौत्रब्रह्मपदव्यावर्त्योक्तिपरं जीवव्यतिरिक्तेश्वराभावात्तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति न्यायविवरणं विवृण्वन् पूर्वपक्षमाह॥ न कर्तव्येति॥ अधिकारीति॥ यद्यपि न्यायविवरणे जीवव्यतिरिक्तेत्यादिना विषयशून्यत्वमेको हेतुरुक्तो भाति न तु हेतुचतुष्टयमपि। तथापि विषयशून्यत्वोक्त्यैव तदन्यत्रितय-शून्यत्वमपि लभ्यत इति भावेन विषयशून्यत्वं तावद्वक्ति॥ न तावद् ब्रह्म विषय इति॥ ब्रह्मरूपो विषयस्तावन्नास्ति। प्रयोजनादि च नास्तीति वक्ष्याम इति तावच्छब्दः। श्रुतौ ब्रह्मेति श्रवणा-न्निष्कृष्योक्तिः। असंदिग्धत्वादित्येतदेव व्यनक्ति॥ प्रमाणाभावेनेत्यादिना स्वप्रकाशत्वादित्यन्तेन॥

कर्मकाण्डस्य कर्मपरत्वाद्वेदान्तानां च जीवचैतन्यपरत्वात्प्रत्यक्षानुमानयोश्चाप्रसक्तेरिति भावः। ब्रह्मणोऽभावादित्येव पूर्तौ जीवेत्याद्युक्तिर् वेदान्तानां निर्विषयत्वशङ्काव्युदासाय। उक्तं च सुधायाम्। ईश्वरविषया जिज्ञासा भविष्यतीति चेत् तस्यैवाभावात्। न चैवम् ईश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम्। तेषां कथञ्चिज्जीवविषयत्वादित्यादि। तर्हि जीव एवास्तु जिज्ञासाविषय इत्यत आह॥ जीवस्य चेति॥ जडं तु न सत्यमिति भावः। अत एव जीवस्य स्वप्रकाशत्वेऽपि देहादि-भिन्नताणुत्वमहत्वज्ञानानन्दात्मकत्वकर्तृत्वादिना सन्दिग्धत्वात्तेन रूपेणास्तु जिज्ञासाविषयत्वम्। अन्यथा सिद्धान्तेऽपि ज्ञोऽत एवेत्यारभ्य आपादसमाप्ति द्वितीये जीवविचारो न स्यादिति प्रत्युक्तम्। अभेदवादिनः पूर्वपक्षिणो मते जीवचैतन्यादन्यस्य सर्वस्यासत्वेन विषयत्वायोगात्॥ न चेति॥ यद्यपि स्वप्रकाशत्वासमर्थनेऽपि मानसानुभवादिना सिद्धत्वेऽपि प्रकृतसिद्धिरस्ति, स्वप्रकाशतया वा स्वप्रकाशज्ञानाश्रयतया वा मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेनेति सुधोक्तेः। तथापि न्यायविवरणोक्त-वास्तवप्रमेयसमर्थनमेतत्। सङ्गम्यन्ते गुरोर्गिर इति तद्विवरणस्यापि प्रतिज्ञानात्। अहमित्यनुभवः स्वप्रकाशरूपो न चेत् तत्प्रकाशः किं तार्किकरीत्या मानसानुभवेन किं वा प्राभाकररीत्या स्वप्रकाश-ज्ञानाश्रयतया। आद्यमाशङ्क्याह॥ न चायमिति॥ स्वात्मन इति॥ लाघवात्स्वात्मन एव तदस्त्वित्यर्थः॥ जिज्ञासायामिति॥ जिज्ञासा च न सर्वत्रेति नानवस्थेति भावः॥ अनुभवेति॥ ज्ञानस्य सुखदुःखादिवज्जिज्ञासाभावेऽप्यनुभवेन तद्विरोधात्। अन्यथा जिज्ञासाया ज्ञानाख्यधर्मिज्ञान-साध्यत्वानुभवादनवस्था स्यात्। अन्यथाऽनुभवविरोधादित्यर्थः। ननु न ज्ञानमात्रमजिज्ञासितग्राह्यम्। येनानवस्था। नापि जिज्ञासितग्राह्यम्। येनानुभवविरोधः। किन्तु किञ्चिज्ज्ञानं कदापि न ज्ञायत एवेति न कोऽपि दोष इत्यत आह॥ न हीति॥ न चेष्टापत्तिः। असत्वापादादिति भावः। द्वितीयं शङ्कते॥ न चेति॥ औत्तरिकेति॥ सुप्तोत्थितस्यैतावन्तं कालं सुखमहमस्वाप्समिति औत्तरिकी उत्तरकालीना अनुस्मृतिस्तावदस्ति। सा च पूर्वानुभवजन्येति सुप्तावप्यनुभवः कश्चन सिध्यति। स च स्वप्रकाशात्मरूपपक्ष एवोपपद्यते। न संविदाश्रयतया आत्मप्रकाशे। कुत इत्यत आह॥ न हीति॥ गृहीत एव प्राणो भवति गृहीता वाक् गृहीतं चक्षुरित्यादिकाण्वश्रुत्या सर्वेन्द्रिया-णामुपरमादिति भावः। आत्मातिरिक्तेत्युक्त्या आत्मस्वरूपत्वेनैव सौषुप्तिकानुभवस्समाधेय इति सूचयति। संविदित्युपलक्षणम्। सुखमपि ध्येयम्। पुंस्त्वादिवत्वस्य सतोऽभिव्यक्तियोगादित्यत्र द्वितीये। बलमानन्द ओजश्च सहो ज्ञानमनाकुलम्। स्वरूपाण्येव जीवस्येत्यादिवचनादिना आनन्दज्ञानादिस्वरूपत्वस्यात्मन उपपादयिष्यमाणत्वात्। वक्ष्यमाणोपयोगित्वादपि स्वप्रकाशत्वस्यात्र प्रपञ्चनमिति भावः। नायं सुप्तावनुभूतस्य परामर्शः। किन्तु तदैवातीतं सुप्तिकालमनुमानेनानुभूय तद्द्वारेण दुःखाभावोऽनुमीयत इति चेन्न। अस्यार्थस्यातीतानागतौ कालावित्यादावानुमानिकपादीयानुव्याख्यानसुधयोर्निरासात्। अत्रैके साक्षिज्ञानमेवातीतविषयकत्वमात्रेणानुस्मृतिरुच्यते। आजन्ममरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुरिति छान्दोग्यभाष्योक्तस्मृतौ मुक्तस्वरूपज्ञाने स्मृतिशब्दप्रयोगात्। नित्ये स्वरूपानुभवरूपे ज्ञाने सत्येव तज्जन्यसंस्कारजन्यस्मृतिकल्पनायोगाच्च। मनोनुत्पन्नानुभवजनितसंस्कारसहकृतस्य मनसस् तद्विषयस्मृति-जनकत्वेऽतिप्रसङ्गाच्च। अत एव ‘‘भक्तानां स्मरणं विष्णोर्नित्यज्ञप्तिस्वरूपतः। अनुग्रहोन्मुखत्वं तु नैवान्यत्क्वचिदिष्यत’’ इतीशावास्यभाष्यटीकायां ‘‘स्मरणं ह्यनुभवजन्यसंस्कारसहकृतेन मनसा जायते। ईश्वरश्च नित्यज्ञानस्वरूप इति तस्य स्मरणासम्भवाद् लक्षणाश्रयणमिति भाव’’ इत्युक्तमित्याहुः। अन्ये तु सौषुप्तिकस्वरूपज्ञानाहितसंस्कारसहकृतेन स्वरूपेन्द्रियेणानुभूतविषयकतया स्वरूपज्ञानस्य व्यज्यमानत्वादनुस्मृतित्वमित्याहुः। अपरे तु चिन्मात्राणीन्द्रियाण्याहुर्मुक्तानामन्यदैव तु। तान्येव जडयुक्तानि ह्यभिन्नानि स्वरूपत इति द्वितीयस्कन्धतात्पर्योक्त्या स्वरूपेन्द्रियाभिव्यक्तसाक्ष्यनुभवजन्य-संस्कारसहकृतं स्वरूपेन्द्रियमिश्रं बाह्यं मन एवेमां स्मृतिं जनयतीत्याहुः। अत्र सुषुप्तावात्मातिरिक्त-ज्ञानाभावेनौत्तरिकानुस्मृतिर्न स्याद् इत्यापादनीये औत्तरिकेत्यादिविपरीतापादनं तु संविदात्मकत्वादिति वक्ष्यमाणहेतोरसिद्धिनिरासार्थम्।

॥ न संविदाश्रयतयेति॥ यथा संविद इति दृष्टान्तो योज्यः। उक्तं पूर्वपक्षं न्यायविवरणारूढं दर्शयन्नर्थतस्तदनुवादपूर्वमुक्तमविषयत्वमुपसंहरति॥ अत इति॥ जीवस्य स्वप्रकाशत्वे औत्तरिकानु-स्मृत्यादिरूपसाधकमानभावेन जीवान्यब्रह्मणोऽभावाच्चेत्यर्थः। एतेन न्यायविवरणस्थस्वप्रकाशत्व-हेतुरसन्दिग्धत्वहेतूपपादनद्वारा जिज्ञास्यत्वाभावे हेतुर्न साक्षादित्युक्तं भवति॥ न विषयत्वमिति॥ ब्रह्मणो जिज्ञासाविषयत्वं न सम्भवतीत्यर्थः। सन्दिग्धे न्यायः प्रवर्तत इत्युक्तेर्जिज्ञासायाश्च न्यायानुसन्धानात्मकत्वादिति भावः। यत्त्वहमिति बुद्धाववेद्यं निर्विशेषं जीवचैतन्यं वेदान्तविषयोऽस्त्विति तत्तु परमतनिरासप्रस्तावे चन्द्रिकायां निरस्तम्॥ न चेति॥ प्रयोजनं चेति चान्वयः। सा हि मोक्षाख्यं प्रयोजनं जनयन्ती ज्ञानद्वारैवेति वाच्यम्। अहमिति जीवरूपब्रह्मज्ञाने सत्यपि फलानुभवानुप-लम्भान्न मोक्षाख्यं मुख्यप्रयोजनं ज्ञानरूपमवान्तरप्रयोजनं च नास्ति। जीवरूपब्रह्मज्ञानस्य सिद्धत्वादिति भावः॥ विषयेति॥ फलोद्देशेन विषयं जिज्ञासमानस्यैवाधिकारित्वादिति भावः॥ अत एवेति॥ त्रितयाभावादेवेत्यर्थः॥ अत इति॥ विषयाद्यभावादित्यर्थः। तद्विजिज्ञासस्वेत्यादिविधयस्त्वप्रमाणमिति भावः। पूर्वपक्षफलमाह॥ नैतदिति॥ अत्राद्य इतिशब्दो हेतौ अन्त्यस्समाप्तौ। अयं च सौत्रब्रह्मपद-व्यावर्त्यपूर्वपक्षो न्यायविवरणोक्तः प्रपञ्चितः। न तु सौत्राथातःपदव्यावर्त्यावपि। तौ तु यथाक्रमम् अथशब्दोऽधिकारानन्तर्यार्थोऽतःशब्दो हेत्वर्थ इति सङ्ग्रहव्यावर्त्योक्तिप्रस्तावे भक्तिमान्परमे विष्णौ कर्मणा त्वधमः प्रोक्त इति विस्तरव्यावर्त्योक्तिप्रस्तावे च वक्ष्येते। उक्तप्रयोजनाधिकारिसंबन्धाभावाश्च विषयाभावेनैव प्राप्ता इति जीवान्यविषयसमर्थनपरेण ब्रह्मशब्देनैव निरसिष्यन्ते। अत एव वक्ष्यति ग्रन्थकारस्सिद्धान्तोक्त्यवसरे जीवस्य स्वप्रकाशत्वेऽपि तद्भिन्नब्रह्मणस्सन्दिग्धत्वाद्विषयत्व-सिद्धेर्मोक्षाख्यप्रयोजनसद्भावात्तत एवाधिकार्यादिसम्भवादिति। उक्तं चन्द्रिकायाम्। अहमिति ब्रह्मणि ज्ञायमानेऽपि मोक्षानुपलम्भान्निष्प्रयोजनत्वमिति शङ्का तु विषयसूचकेन ब्रह्मपदेनैव निरस्तेति। अतो ब्रह्मपदव्यावर्त्य एवायं पूर्वपक्षो न त्वथातःशब्दव्यावर्त्योऽपीति ज्ञेयम्॥

॥ ग्रन्थादौ मङ्गलाचरणस्येति॥ तदावश्यकत्वं चाविघ्नपरिसमाप्त्यादिहेतुत्वादिति बोध्यम्। विस्तृतमेतत्सुधायाम्॥ तत्परतयेति॥ तत्फलतयेत्यर्थः। अथशब्दोच्चारणादेर्मङ्गलस्याशब्दार्थत्वेन तत्परत्वायोगात्। मङ्गलप्रयोजनक इति सुधाग्रन्थाच्च। तत्त्वप्रदीपे तु अथशब्दः श्रवणकीर्तनाभ्यां मङ्गलफलकः विष्णोः परममङ्गलस्य वाचकत्वेनातिप्रियत्वादिति मङ्गलफलकत्वं मङ्गलरूपविष्ण्वर्थकत्वं चोक्तम्। तत्फलतयेत्यपि पाठः। अथपदव्यावर्त्यं दर्शयन्नेव भाष्यमवतारयति॥ मुक्त्यर्थिमात्रस्येति॥ मुक्तियोग्यत्वशान्त्यादिमत्त्वस्यापि अधिकारत्वेन वक्ष्यमाणत्वान् मुक्तियोग्यत्वशान्त्यादिमत्त्वरूपाधिकारा-नन्तर्यवाचिना सौत्राथशब्देन मुक्त्यर्थिमात्रस्याधिकारनिरास इति भावः। ननु मुक्त्यर्थिमात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तावपि साधिकारित्वेन ब्रह्मजिज्ञासाकर्तव्यत्वप्राप्त्या मुक्तियोग्यत्वभक्तिपूर्वकाध्ययन-शमदमादिवैराग्यसंपत्तिरूपाधिकारार्पकेणाप्यथपदेन कथं जिज्ञासाकर्तव्यत्वोपपादनं तदुपपादकत्वेनैव सूत्र अथातोब्रह्मपदानामुपादानादिति चेत्सत्यम्। अथपदाभावेऽपि विषयार्पकब्रह्मपदेन जीवान्यविषय-सिध्द्यैव मुमुक्षुमात्रस्याधिकारप्राप्तौ शूद्रादेरपि प्राप्त्या अपशूद्रनये वक्ष्यमाणश्रवणाध्ययनादिप्रतिषेधक-प्रमाणविरोधेन मुमुक्षुमात्रमधिकारिणमुपाददाना जिज्ञासा न कर्तव्यैव स्यात्। अध्ययनादिमत्त्वरूपाधि-कारार्थकाथशब्दे तु सति अपशूद्रादिकमधिकारी सिद्ध इति विरोधाभावाज्जिज्ञासा कर्तर्व्यैव स्यादिति भावः॥ योग्यतयेति॥ आनन्तर्यप्रतियोगित्वसामर्थ्येनेत्यर्थः। सा च योग्यताधिकारस्यैव नान्यस्येत्येतद्विवृतं न तावदध्ययनमात्रादित्यादिना चन्द्रिकायाम्। प्रपञ्चितं च गुरुपादैर्न्यायमौक्तिकमालायाम्॥ प्रयोजनेति॥ मोक्षहेतोर्ज्ञानस्य विष्णुप्रसादस्य वा कर्मणा ज्ञानमातनोति तत्कर्म हरितोषं यदित्युक्त्या कर्मजन्यत्व-प्रयुक्तनिष्प्रयोजनत्वशङ्केत्यर्थः। न तु ज्ञायमानेऽपि ब्रह्मणीत्युक्तनिष्प्रयोजनत्वशङ्कानिवर्तकतयेति भ्रमितव्यम्। तस्य विषयार्पकब्रह्मपदेनैव निरासात्।

॥ नन्विति॥ विषयाधिकारिजिज्ञासाफलानामध्यायचतुष्टये निरूपयिष्यमाणक्रमेणाद्यसूत्रे निर्देशे कर्तव्येऽपीत्येतावद्वाक्यं नन्वित्यनन्तरं योज्यम्॥ मङ्गलोक्त्यादेरिति॥ विघ्ननिवर्तकशब्दोच्चारणादेरित्यर्थः। क्वचिन्मङ्गलाचरणादेरिति पाठः। अत्रेत्यनुवादेन प्रथमप्रयोज्यत्व इति व्याख्यानम्। तदित्यस्य परामृश्यं किमित्यतस्तत्प्रस्तावयति॥ नियामकेनेति॥ अखिलान्यपीति॥ अथातो धर्मजिज्ञासा अथातो दैवीमीमांसा अथातो दर्शपूर्णमासावित्यादिसम्भाविताखिलानीत्यर्थः। तेन न पाणिनीयादौ व्यभिचारः शङ्क्यः। अवश्यवक्तव्यार्थत्वस्य तदभावस्य च लोके शब्दान्तरेषु दर्शनाद् अथशब्दे तत्सन्देहेन पृच्छतीत्याद्युक्तम्। द्वितीये कथमाक्षेप इत्यत आह॥ शब्दान्तरस्येति॥ कथंशब्दमाक्षेपपरतया व्याख्याय पुनः प्रश्नपरतयापि व्याचष्टे॥ तृतीयेऽपीति॥ पूर्ववत्प्रश्नहेतुः संशय उपपाद्यः। पर्यवसितार्थमाह॥ तत्प्रसादादिति॥ जिज्ञासादि कार्यमिति शेषोक्तिः। प्रथमं निस्सृतत्वे प्राथम्यं कुत इत्यतो मध्ये शेषमाह॥ अतः स्वरूपोत्तमाविति॥ ननु ॐ अथशब्दौ स्वरूपोत्तमौ हरेः प्रथमं निस्सृतत्वात्। यः शब्दः प्रथमं हरेर्निःसृतः स उत्तम इति व्याप्तौ दृष्टान्तो नेत्यत आह॥ यत्स्वजाताविति॥ इति न्याय इति॥ सामान्यन्याय इत्यर्थः। यथा देवेषु चतुर्मुख इति दृष्टान्त-सम्भवान् न तु विशिष्येति भावः। अत इत्यस्य अतःशब्दपरत्वं हेतुपरत्वं तृतीय उदाहृत इत्यनयोरावृत्तिं प्राथमिकावित्यस्य वचनव्यत्ययेनानुषङ्गं चोपेत्याह॥ अतश्चेति॥ अनुवाद इति॥ तेन हेत्वर्थ इत्यनेन न पुनरुक्तिरिति भावः। नन्वतःशब्दस्य तृतीयत्वे पूर्वमुच्चार्या इति त्रयाणां पूर्वोच्चार्यत्वे च सति अथातःशब्दपूर्वाणीत्युपक्रमे अथातःशब्दयोरित्युपसंहारे च कथं द्वयोरेवोक्तिः। तावेवादावित्यवधारणं च। सत्यम्। आ अध्यायसमाप्ति प्रतिसूत्रमादावनुषङ्गायासंहिततयोच्चार्यमाणत्वेन वैलक्षण्यात्। सर्वत्रानुगतत्वेन पृथगोंक्रियतेऽखिलैरित्यनुभाष्योक्तेः। अथातः शब्दवदवश्यवक्तव्यार्थत्वाभावाद् विशेषविवक्षया तयोः प्रश्नादीत्यदोषः। अत एव भाष्ये अथादेरेव व्याख्यानम्॥ सर्ववागिति॥ अकारो वै सर्वावागित्यत्र अन्येऽपि शब्दाः सर्वेऽपि ह्यकारार्थाभिधायिन इति। तस्मादकार एवायं सर्ववागात्मकः श्रुत इति तस्मात्सर्वगुणान्विष्णोरकारो वक्ति यत्प्रभोः। तद्व्यक्तयोऽपि शब्दा ये सर्वे विष्णुगुणब्रुवा इत्याद्यैतरेयभाष्योक्तदिशा सर्ववाचां गुणपूर्णत्वरूपो योऽर्थस्तदभिधायकतयेति वा सर्वं पूर्णमिहोच्यत इत्यादेः सर्वेति या वाक् तदर्थपूर्णताभिधायकतयेति वा व्याख्यातत्वात्सर्ववाचां सर्ववागात्मता भवेदिति तत्त्वप्रदीपोक्तस्मृत्या वा व्याख्यानव्याख्येयभावेन सर्ववागात्मकत्वमुपेत्य सर्ववागर्थेत्युक्तम्। भाष्ये सर्ववागात्मेति हेतुगर्भम्। अर्थैक्यादैक्योक्तिरिति भावः। प्राणपदस्य वायुविष्ण्वर्थत्वमुपेत्याह॥ प्राणेत्यादि॥ महत इति॥ अन्तरा विज्ञानमनसी इत्यत्र विज्ञानतत्वं महतस्समुत्पन्नं चतुर्मुखादिति भाष्योक्तस्मृतौ यथा महत्तत्वाभिमानिचतुर्मुखादित्यर्थे महतश्चतुर्मुखादिति प्रयोगस् तथेत्यर्थः॥ अयं वै लोक इति॥ महन्नाम यासु ऋक्षु विद्यते ता महानाम््नयः। परस्य ब्रह्मणो यन्नामेन्द्रादिकं तन्महार्थत्वान्महदिति कर्मनिर्णयोक्तदिशा प्रथमा महानाम्म्नीत्युच्यमाना विदा मघवन्नित्यादिका ऋगित्यर्थः। ऐतरेयोपनिषद्गतं विदा मघवन्निति आभिष्ट्वमभिष्टिभिरिति राय इति च ऋक्त्रयमिति यावत्। पृथिवीस्थविष्णुवाचकमित्यर्थः॥ तदुक्तं कर्मनिर्णये त्यृचविभागेन तिस्रो महानाम््नय इति। तथा प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिरिति च॥ उपसंहार इति॥ तेन न पुनरुक्तिरिति भावः॥ तावेवादाविति भाष्ये संहिततयेति योज्यम्। ॐकारं त्वसंहिततयेति भावः॥ यद्वा स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यत इत्यर्थवादबलादेवोङ्कारस्य प्राप्त्या सूत्रकृतः प्रयत्नानपेक्षत्वात्तदारंभापेक्षया तावेवादावित्युक्तिरित्यदोषः।

अभिनवचन्द्रिका

सङ्गत्यादीति॥ आदिशब्देन विषयपरिग्रहः। शास्त्रसङ्गतिरिति॥ उपजीव्योपजीवकभावलक्षणा सङ्गतिरित्यर्थः। ‘शास्त्रस्याऽनारम्भणीयत्वप्रसङ्गा’दित्यनेन टीकाकारैरेवोपजीव्योपजीवकभावसङ्गतिरिति स्वाभिप्रायाविष्करणात्। अध्यायपादसङ्गतिं सूचयति – अध्यायपादसङ्गतिस्त्विति॥ आनन्दमयाधि-करणमारभ्यैवाध्यायपादसङ्गतिर्गवेषणीया। ततः प्राक् न गवेषणीयेति भावः। सङ्गतिसद्भावे कुतो न गवेषणीयेत्यत आह – ततोऽर्वाक्तनानामिति॥ पीठिकाऽऽचरणस्योपाद्घातरूपत्वेन अध्यायपादाभ्या-मौपोद्घातकी सङ्गतिः सिद्धेति न गवेषणीयेति भावः। अन्यथा – अत्राध्यायपादसङ्गत्यभावप्रतिपादनाय आनन्दमयाधिकरणमारभ्यैवाऽस्तीति बूयात्। आनन्दमयाधिकरण (१-६-अ.) मारभ्याऽवश्यं सङ्गति-र्गवेषणीया। तत्र विविक्षिताया अन्तर्भावलक्षणसङ्गतेः। ‘समस्तेनाऽध्यायेनेति, प्रायेणान्यत्र प्रसिद्धानामिति ‘प्रायेणे’ति पदाभ्यां भाष्यकारेणैव क्वचिदभावस्योक्तत्वेन विशेषानुक्त्या सर्वत्रापि अन्तर्भावशङ्काप्रसङ्गात्। यद्यपि – अध्यायपादाभ्यमिव शास्त्रेणापि औपोद्घातकी सङ्गतिरस्तीति शास्त्रादिसङ्गतिरिति वक्तव्यम्, तथापि अध्यायपादाभ्यामौपोद्घातकी सङ्गतिः पञ्चाधिकरणीसाधारणी। शास्त्रसङ्गतिस्तु जन्माधिकरण-मारभ्य अन्तर्भावलक्षणेति विशेषसूचनाय शास्त्रसङ्गतिं पृथगभिधाय अध्यायपादसङ्गतिः सूचिता। ब्रह्मविषयकविषयकत्वेन साक्षाद्ब्रह्मतल्लक्षणाद्यविषयकत्वेन मुख्यान्तर्भावाभावेऽपि ब्रह्मसम्बन्धिजिज्ञासा-कर्तव्यत्वस्य न्यायेन व्युत्पादकत्वात्, अस्याधिकरणस्य शास्त्रान्तर्भावोऽपि नानिष्टः। अत एव – एवमेवाऽभिप्रायं मनसि निधाय सुधायाम् – अस्याऽधिकरणस्य शास्त्रान्तर्भाव इति वक्तव्ये ‘अत एवास्य सूत्रस्य न शास्त्रबहिर्भाव’ इत्युक्तम्।

ननु अध्यायपादपीठत्वम् अध्यायपादोपोद्घातत्वमुक्तम्। तदयुक्तं द्वितीयाध्यायतो व्यावृत्तस्य प्रथमाध्यायमात्रासाधारणस्योपोद्घातत्वस्य, तथा द्वितीयादिपादतो व्यावृत्तस्य प्रथमपादमात्रासाधारण-स्योपोद्घातत्वस्य भावेन शास्त्रोपोद्घातत्वस्यैव सत्त्वेन शास्त्रपीठत्वादिति वक्तव्यम्, न तु अध्यायपादपीठ-त्वादिति इति चेत् – न ब्रूमो वयं शास्त्राध्यायान्तरपादान्तरसङ्गतिर्नास्तीति। किं नाम एतदध्याय-पादाभ्यामौपोद्घातकी सङ्गतिरस्तीति, स्मृत्यधिकरणस्य (ब्र.सू.२-१-१) युक्तिसमयद्विविधश्रुतिन्यायोपेत-श्रुतिविरोधपरिहारात्मकत्वेन सर्वपादसङ्गतत्वेऽपि युक्तिविरोधपरिहारकत्वस्यापि भावेन प्रथमपादान्त-र्भावाऽभिधानवत्, आनन्दमयनाम्नो नामलिङ्गात्मकत्वेऽपि नामात्मकत्वेन प्रथमपादान्तर्भावाऽभिधानवच्च, एतस्यापि प्रथमाध्यायप्रथमपादसङ्गतत्वाभिधानोपपत्तेः। सर्वाध्यायसर्वपादपीठत्वेऽपि प्रथमाध्यायप्रथम-पादपीठत्वोक्तिस्तु प्रकृतोपयोगित्वाद् इति द्रष्टव्यम्। अथवा अध्यायपादपीठत्वादित्यनेन न प्रथमाध्यायप्रथमपादपीठत्वमुक्तम्, किं नाम सर्वाध्यायसर्वपादपीठत्वम्। ‘आनन्दमयाधिकरणमारभ्ये’त्यनेन तस्यैव प्रकृतत्वान् न हि आरभ्यपदगृहीतद्वितीयाध्यायाधिकरणानां प्रथमाध्यायप्रथमपादसङ्गतिरस्ति, किन्तु– तत्तदध्यायपादसङ्गतिः। अतो ऽध्यायपादशब्दाभ्यां सर्वाध्यायपादा एव विवक्षिता इति। यद्वा – ननु अस्याधिकरणस्याध्यायांतर्भावो भाष्यकृतोऽभिमतः। तथा हि – ‘विष्णुरेव विजिज्ञास्य’ इति अणुभाष्ये ‘जिज्ञास्योऽयं विधीयत’ इत्यनुव्याख्याने च जिज्ञास्यत्वरूपलिङ्गसमन्वयस्योक्तत्वात्, न्यायविवरणे ‘जीवव्यतिरिक्तेश्वराभावात् तस्य स्वप्रकाशत्वेन स्वतः सिद्धत्वान्न जिज्ञास्यते’त्याक्षेपाच्च शास्त्राध्यायसङ्गती स्त इति वक्तव्यम्। कथं शास्त्रसङ्गतिमात्रकथनमित्यत आह– अध्यायपाद-सङ्गतिस्त्विति॥ पादग्रहणं दृष्टान्तार्थम्। यथा – पादसङ्गतिरानन्दमयाधिकरणमारभ्यैव साक्षादस्ति अध्यायसङ्गतिरपि तथैवेति गवेषणीया ज्ञातव्येत्यर्थः॥ यद्यस्याधिकरणस्याध्यायान्तर्भावो भाष्यकृदभिमतः स्यात् तर्हि इहैवाध्यायप्रतिपाद्यं ब्रूयान् न त्वानन्दमयाधिकरणोपक्रमे, पादप्रतिपाद्येन सहेति ‘आनन्दमयाधिकरणमारभ्ये’त्यनेन सूचयामास अन्यथा – ‘अध्यायपादसङ्गतिस्त्विह ने’त्येव ब्रूयात्। अणुभाष्याऽनुव्याख्याने तु आर्थिकार्थप्रदर्शनपरे। न्यायविवरणं तु आर्थिकार्थाक्षेपमुखेन जिज्ञासाक्षेपकं द्रष्टव्यम्॥ नाधिकरणश्रुतिसङ्गती इति। गवेषणीयेति प्रकृतमनुवर्तते। ‘क्व प्रकृतमनुवर्तते। ‘आनन्द-मयाधिकरणमारभ्ये’ति वाक्ये प्रकृतमिति गृहाण। ननु – तध्द्येकवचनान्तं प्रकृतं द्विवचनान्तेन चेहार्थः। न चानुवर्तमानं द्विवचनान्तमिति वाच्यम्। अनुवर्तमानस्यापि द्विवचनान्तत्वायोगात्। ‘न हि – गोधा अभिसर्पणादहिर्भवती’ति चेत् – न, एकवचनान्तत्वेन प्रकृतमपि अर्थादिह द्विवचनान्तं सम्पत्स्यते, तदुक्तं महाभाष्ये – ‘तस्य लोप’ (पा.सू.१-३-९) इति सूत्रे, ‘तस्य ग्रहणं किमर्थम् ? इत्संज्ञकः प्रतिनिर्दिर्श्यते। नैतदस्ति प्रयोजनम्। प्रकृतमिदिति वर्तते क्व प्रकृतम् ? ‘उपदेशेऽजनुनासिक इत्’ (पा.सू.१-३-२) इति। तत्र प्रथमानिर्दिष्टम्। षष्टीनिर्दिष्टेन चेहार्थः। अर्थाद् विभक्तिपरिणामो भविष्यति। तद्यथा – उच्चानि देवदत्तस्य गृहाणि आमन्त्रयस्व एनं देवदत्तमिति गम्यते। देवदत्तस्य गावोऽश्वा हिरण्यं च। आढ्योवैधेयः। देवदत्त इति गम्यत इति यदपि ‘न हि गोधाऽभिसर्पणादहि-र्भवती’ति तत् शब्दातिरिक्तद्रव्येष्वेव। शब्दस्तु येन येन विशेषेणाभिसम्बध्यते तस्य तस्य विशेषको भवतीति। ततश्च अधिकरणश्रुतिसङ्गती च न गवेषणीये इति व्यतिरेकनिश्चयादिति भावः।

यच्चोक्तं कल्पतरुकारेण ‘प्रथमसूत्रस्य समन्वयाद्यशेषविचारहेतुत्वात् शास्त्रप्रथमाध्यायप्रथमपादसङ्गतय’ इति। तन्न – समन्वयाद्यशेषविचारहेतुत्वेन सर्वाध्यायसर्वपादसङ्गतत्वेन प्रथमाध्यायपादमात्रसङ्गत्युक्त्य-योगात्। अस्मदुक्तरीत्या अध्यायान्तरादिसङ्गतिमनिवार्य प्रकृतत्वात् प्रथमाध्यायादिसङ्गत्युक्तिरित्यङ्गी-कारेऽपि शास्त्रसङ्गतिरित्युक्तमयुक्तमेव। समन्वयाद्यशेषविचारहेतुत्वस्य समन्वयाद्यध्यायातिरिक्त-जन्माधिकरणादिचतुष्टयसाधारणशास्त्रसङ्गतिं प्रत्यप्रयोजकत्वात्। यदपि वाचस्पतिना श्रोतव्यादिवाक्यानां स्वार्थे समन्वयस्य तद्द्वारेण विचार्यमाणवेदान्तवाक्यानामपि ब्रह्मणि समन्वयस्य च निमित्तत्वाद् आद्यं सूत्रं समन्वयेन सङ्गतमित्युक्तम्। तदपि न अस्याधिकरणस्य श्रोतव्यादिवाक्यानां स्वार्थे समन्वयप्रतिपादकत्वेन तन्निमित्तत्वोक्त्ययोगात्।

चन्द्रिकायां तु– अध्यायपादसङ्गतिस्त्विति॥ यद्यपि = एतदधिकरणाभावे शास्त्रस्येव तदेकदेशयोरध्यायपादयोरपि आरम्भासम्भवस् तथापि सिद्धे शास्त्रारम्भे पुनरध्यायाद्यारम्भाक्षेपस्य अनेना-समाधानात्। शास्त्रेणेव न ताभ्यामौपोद्घातकी सङ्गतिरित्यर्थः। यद्वा यथा ‘तद्विजिज्ञासस्वे’(तै.उ.३)-त्यादि ब्रह्मविचारविधायकवाक्यार्थनिर्णायकन्यायव्युप्तादकत्वाद् ब्रह्मविचाररूपेण शास्त्रेण अन्तर्भावलक्षणा सङ्गतिः, न तथा अध्यायपादाभ्यां, समन्वयतद्विशेषाप्रतिपादकत्वादित्यर्थ’ इत्युक्तम्। ननु– आद्यव्याख्यानं तावदयुक्तम्। तथा हि किमेतदधिकरणाभावे अध्यायपादयोर्य आरम्भासम्भवः सिद्धे शास्त्रारम्भे तस्यासमाधानम्, आहोस्विद् अन्यस्य। नाद्यः – अध्यायपादयोर्विषयाद्यभावप्रयुक्तारम्भा-सम्भवस्यातत्समर्थने सति अनिरासे कारणाभावात्। अन्यथा शास्त्रस्याप्यारम्भसिद्धिर्न स्यात्। न द्वितीयः – प्रकारान्तरेण अध्यायपादयोरनारम्भणीत्वप्रसक्त्यभावात्। भावे वा तदर्थमधिकरणान्तरं प्रणेयं स्यात्। अन्यथेदमप्यधिकरणं न प्रणेयं स्यात्। द्वितीयमपि व्याख्यानमनुपपन्नम् – तथा हि – ‘तद्विजिज्ञासस्वे’ति वाक्यं यथा ब्रह्मविचारविधायकं तथा विचारविशेषसमन्वयादिविचारविधायकमपि भवत्येव। अतस् तदर्थनिर्णायकन्यायग्रथनात्मकस्याधिकरणस्य शास्त्रेणेव अध्यायपादाभ्यामपि अन्तर्भावो दुर्वारः। यदि साक्षात्समन्वयाप्रतिपादकत्वादध्यायाद्यसङ्गतिस् तर्हि साक्षाद्ब्रह्मप्रतिपादकत्वाभावान् न शास्त्रसङ्गतिरिति चेत् – अत्रोच्यते। यत्तावत्पृष्टं ‘किमेतदाधिकरणाभावेऽध्यायपादयोर्य आरम्भासम्भवः, सिद्धे शास्त्रारम्भे तस्याऽसमाधानं, आहोस्विदन्यस्य वे’ति तत्र द्वितीयपक्ष एवास्तु। न च ‘प्रकारान्तरेणाऽनारम्भणीयत्वशङ्काभावः। भावे वा अधिकरणान्तरं प्रणेय’मिति उक्तमिति वाच्यम्। वाच्यत्वाऽभावप्रयुक्तसमन्वयासम्भवेन अध्यायाद्यारम्भाक्षेपप्राप्तेस् तन्निरासाय ईक्षत्यधिकरण (१-१-५) प्रणयनाच्च। अयं भावः – अस्त्येव अध्यायपादाभ्यामौपोद्धातकी सङ्गतिः। न शास्त्रेणेव एतदधिकरणानन्तरं केनापि प्रकारेण शास्त्रस्यानारम्भणीयत्वशङ्कानुदयवद् अध्यायपादयोस्तदनुदयाभावाद् इति। तदिदमुक्तं ‘शास्त्रेणेव न ताभ्या’मिति। यदपि द्वितीयव्याख्याने ‘शास्त्रेणेवाऽध्यायपादाभ्यामन्तर्भावो दुर्वार’ इत्युक्तम्। तन्न – यथा – शास्त्रेणाऽन्तर्भावलक्षणासङ्गतिस् तथा अध्यायपादाभ्यामन्तर्भाव सङ्गतेरभावात्। तथा हि – ब्रह्मस्वरूपनिर्णायकन्यायानां शास्त्रप्रतिपाद्यत्वाद् अस्मिश्चाधिकरणे ब्रह्मस्वरूपनिर्णायकत्वांशपरित्यागेन न्यायप्रतिपादकत्वांशसद्भावात् शास्त्रान्तर्भावसङ्गतिर्गौणी। ब्रह्मणि समन्वयनिर्णायकन्यायानामध्यायार्थत्वात्, अस्मिश्चाऽधिकरणे ब्रह्मांशं समन्वयांशं चापहाय न्यायव्युत्पादकत्वमात्रस्य सत्त्वात् तदपेक्षयांऽतर्भावलक्षणसङ्गतिरमुख्या। एवं पादसङ्गतिर् ब्रह्मसमन्वयनामरूपांशत्रयपरित्यागात् ततोऽप्यमुख्या। तदिदमुक्तं ‘न तथाऽध्यायपादाभ्या’मिति। अन्यथा अध्यायपादाभ्यां सङ्गतिर्नेत्येवावक्ष्यत्।

‘अनूद्य परपक्षन्तु मितैः शब्दैस्तु दूषणम्।

गुरुणा सत्यनिधिना यदवादि तदुच्यते’ (१)

वाचस्पत्युक्तमधिकरणम् – शास्त्रे क्रियमाणो वेदान्तविचारो विषयः। कर्तव्य उत नेति सन्देहः। न कर्तव्य इति पूर्वपक्षः। विषयादिशून्यत्वात्। तथा हि – न तावद् ब्रह्मातिरिक्तं विषयः। तस्य मिथ्यात्वेन तद्विचारस्य व्यर्थत्वात्। नापि ब्रह्म। तस्य प्रत्यगात्माऽभिन्नत्वेन अहंप्रत्यये भासमानत्वेन नित्यसिद्धत्वात्। नाप्यविद्यानिवृत्तिः प्रयोजनम्। आत्मनि भासमानेऽपि तदनिवृत्तेः। न च वाच्यम् अहंप्रत्ययः ‘स्थूलोऽहं कर्ता भोक्ता दुःखी’ति गृह्णाति। तद्विपरीतश्च वेदान्तवेद्यः सन्दिग्ध इति विषयादिसिद्धिरिति। वेदान्तानां प्रबलप्रत्यक्षबाधितत्वेन जपमात्रोपयोगित्वेनाऽविवक्षितार्थत्वात्। तथा च – वेदान्तविचारोऽनारब्धव्य इति।

सिद्धान्तस्तु वेदान्तवाक्यैर् ज्ञानानन्दैकरसाद्वितीयोदासीनस्वभाव आत्मा उपक्रमादिभिः प्रतिपाद्यते। न चोपक्रमादिलिङ्गसिद्धतात्पर्यकाणां वेदान्तवाक्यानां जपमात्रोपयोगित्वेनाऽविवक्षितार्थत्वं वक्तुं युक्तम्। प्रत्यक्षं तु सम्भावितदोषम् अपौरषेयतया निश्चितेन निर्दोषेणाऽऽगमेन बाध्यते। तेन वेदान्तवेद्यः शुद्धो ऽहंप्रत्यये न भातीति विषयादिसिद्धिरिति।

तत्र पूर्वपक्षस्तावदनुपपन्नः। तथा हि – ब्रह्मणो ऽहंप्रत्यये भासमानत्वेनाऽसन्दिग्धत्वेऽपि विपर्यस्तत्वेन विषयत्वोपपत्तेः। विचारस्य संशयनिरासकत्ववद् विपर्ययस्यापि निरासकत्वात्। किञ्च ब्रह्मस्वरूपस्य भासमानत्वेन सिद्धत्वेऽपि विचार्यमाणाद्वितीयत्वाकारेण सन्दिग्धत्वाद्विषयता दुर्वारा। न हि ब्रह्ममीमांसया स्वरूपमात्रं विचार्यम्। येन स्वरूपमात्रस्याऽसन्दिग्धता विषयताविघातनी स्यात्। अपि च – एवं सति विचारमात्रमनारम्भणीयं स्यात्। आकारविशेषविशिष्टस्यैव सन्दिग्धत्वेन स्वरूपमात्रे सन्देहस्य क्वाप्यभावात्। अत एव प्रयोजननिरासोऽपि निरस्तः। अहं कर्ता भोक्तेति विपरीतज्ञानदशायामविद्यानिवृत्यभावेऽपि सम्यज्ज्ञानेन तन्निवृत्युपपत्तेर् मा हि भूत् – स्रगादि भुजङ्ग-त्वादिना प्रतीतं न तोषहेतुरिति स्रगादित्वेन ज्ञातमपि तदहेतुः। यच्चोक्तम् – ‘न च वाच्यमहंप्रत्ययः ‘स्थूलोऽहं कर्ता भोक्ता दुःखी’ति गृह्णाति तद्विपरीतश्च वेदान्तवेद्यः सन्दिग्ध’ इति विषयादिसिद्धि-रित्यादि। किमनेनोक्तं भवति किं – वेदान्तप्रत्यक्षयोरेकस्मिन्धर्मणि विरुद्धनानाधर्मावगाहित्वात् प्राबल्याद्यविवेकेन निर्णायकाऽभावात्संशय इति, आहोस्वित् तयोर्भिन्नविषयत्वात् प्रत्यक्षविषयस्य सिद्धत्वेऽपि वेदान्तवेद्यस्याऽसिद्धत्वमिति। आद्ये – ‘प्रबलप्रत्यक्षबाधितत्वेन जपमात्रोपयोगित्वेनाऽ-विवक्षितार्थत्वात्’ इति समाधानमयुक्तं स्यात्। प्राबल्याद्यविवेकदशायां सन्देह इत्युक्ते तद्विवेकदशायां तदभावव्युत्पादनस्याऽसङ्गतत्वात्, निर्णायकदशायां सन्देहाभावस्य सार्वत्रिकत्वेन सर्वलौकिकवैदिकविचारा-भावप्रसङ्गात्। न द्वितीयः। प्रबलाहंप्रत्ययबाधितत्वेनेत्यस्याऽयुक्तेर् भिन्नविषययोर्बाध्यबाधकभावायोगात्। किं च – वेदान्तानामविवक्षितार्थत्वे निर्विषयत्वस्य सिद्धत्वाद् असंदिग्धत्वोपपादनप्रयासाऽनुपपत्तिरिति सिद्धान्तोऽप्यनुपपन्नः। तथा हि – वेदान्तवेद्यस्य शुद्धस्य अहंप्रत्ययाविषयत्वमात्रेण सन्दिग्धत्वासिद्धेः। शुद्धोऽहंप्रत्यये न भातीति त्वयैवोक्तत्वात्। अहंप्रत्ययवेदान्तयोर्भिन्नविषयत्वेन बाध्यबाधकभावायोगः। किं च– उपक्रमादिवशाद् वेदान्तानां शुद्धप्रतिपादकत्वसिद्धौ विषयत्वसिध्द्या विचारप्रवृत्तिः। तत्प्रवृत्तौ चोपक्रमादिवशात् तत्सिद्धिरित्यन्योन्याश्रयः। तदेवं मतान्तरीयमधिकरणमयुक्तमिति हृदि निधाय स्वमतेनाऽधिकरणमारचयति – प्रारिप्सिततया चित्तसङ्गतेति॥ कर्तव्या न वेति सन्देह इति। सन्देहस्यैकज्ञानत्वेन युगपदेव कोटिद्वयाऽवलम्बनात् कर्तव्या। न वाः। न कर्तव्या उत कर्तव्येति संशययोरविशेषः। इममेवाभिप्रायं मनसि निधाय चन्द्रिकायां ‘न कर्तव्य उत कर्तव्य’ इत्युक्तम्। न तु पूर्वपक्षसम्बन्धित्वेन निषेधकोटेः प्राथम्यमित्यभिप्रेत्येति द्रष्टव्यम्। विषयीकरणव्यापारे प्राथम्याभाव-स्योक्तत्वात्।

ननु पूर्वमीमांसायां तदर्थचिन्तायाः प्रदर्शितत्वात् साऽत्रावश्यं वक्तव्येति चेद् अत्र – त्वेवं तदर्थचिन्ता वक्तव्या। अत्र वेदान्तनिर्णायकन्यायग्रथनात्मकमिदं शास्त्रमनारम्भणीयमुतारम्भणीयमिति। तदर्थं न्यायानुसन्धानरूपो विचारो न कर्तव्य उत कर्तव्य इति। तदर्थं विचारविधेर्विषयादिकं न सम्भवति उत सम्भवतीति। तदर्थं विषयीभूतं ब्रह्म किं प्रत्यगर्थभूतजीव एव उत तदन्यदिति। न च सा सम्भवति तथा हि—

सन्दिग्ध इति यं जानन् हेतुमाहेष्टसिद्धये।

पूर्वपक्षी च सिद्धान्ती न स्यादकुशलः कथम्॥

तदर्थचिन्ताविषयत्वेन सन्दिग्धानेव हेतून् स्वार्थसिद्धये प्रयुंजानौ पूर्वपक्षिसिद्धान्तिनावकुशालौ कथं न स्यातामिति। किं च तदर्थमित्यस्य प्रथमसंशयसिध्द्यर्थमयं संशय इति अर्थ एव वक्तव्यो गत्यन्तरा-भावात्। न च तद्युज्यते विचारकर्तव्यत्वाऽकर्तव्यत्वकोटिकसंदेहस्य शास्त्रानारम्भणीयत्वारम्भणीयत्वसन्देह-कोटिस्मरणाद्यहेतुत्वात्। शास्त्रानारम्भणीयत्वाऽऽरम्भणीयत्वसन्देहस्य शास्त्रदर्शनानन्तरमेव विशेषदर्शना-भावेन जातत्वात्। तदनन्तरभाविनो विचारकर्तव्यत्वाकर्तव्यत्वकोटिकसंशयस्य पूर्वभावित्वाभावाच्च। अपि चैवं चरमहेतावपि सन्देहप्रसङ्गेन पूर्वपक्षसिद्धान्तयोरनुत्थानमेव स्यात्।

यत्तु चन्द्रिकायां – तदर्थचिन्ताप्रदर्शनं तत्तु पररीतिमबलम्ब्यैवेति द्रष्टव्यम्। अत एव न्यायामृते ‘त्रैकालिकनिषेधप्रतियोगि। न वे’त्यत्र तदप्रदर्शनम्।

न कर्तव्येति पूर्वपक्ष इति॥ नन्वधिकरणस्य न्यायनिबन्धनत्वेन तदपेक्षितसंशयव्युत्पादनमस्तु न पूर्वपक्षस्योपयोगं पश्यामः। न हि पर्वतोऽग्निमानित्यनुमिमानेन अनग्निमानिति साधितम्। किं च संशयपूर्वपक्षयोः समावेशोऽनुपपन्नः। संशयपूर्वपक्षसामग््रयोर्विरुद्धत्वेन समावेशायोगात्। किं च पूर्वपक्षस्य साध्याभावनिश्चयरूपत्वात्, ग्राह्याभावनिश्चयस्याऽनुमितिप्रतिबन्धकत्वात् साध्यानुमितिरूपसिद्धान्तोदयो न स्यात्। न च – सिद्धान्तस्य द्वेधा प्रतिष्ठा भवति। स्वपक्षस्थापनेन परपक्षनिराकरणेन च। तन्निराकरणस्य तदनुवादमन्तराऽयोगेन पूर्वपक्षप्रदर्शनमिति वाच्यम्। तथा सति सिद्धान्तोक्त्यनन्तरमेव पूर्वपक्षनिरासस्याऽवसरप्राप्तत्वेन तत्रैव पूर्वपक्षः प्रदर्शनीयः। किञ्च एवमाऽऽप्ततमः सूत्रकारो मन्यते। ‘आनन्दमयोऽभ्यासा’(ब्र.१-१-१२)दिति स्वपक्षमभिधाय ‘विकारशब्दान्ने’(ब्र.सू.१-१-१३)ति परपक्षमनूद्य न प्राचुर्यादिति तन्निरासात्। प्रथमाध्याये समन्वयमुक्त्वा तत्र प्राप्तविरोधपरिहारस्य द्वितीयाध्यायेऽभिधानाच्च। किं च – एवं भाष्यकारो मन्यते अस्मिन्नेव सूत्रे पूर्वपक्षानुक्तेः। अत एव अनुव्याख्यानेऽपि पूर्वपक्षमनुक्त्वैव ‘ॐ तत्ववाचि’ इति सूत्रं व्याख्यातवान् इति चेत् – न सन्दिग्धस्येव विपर्यस्तस्यापि न्यायविषयत्वेन पूर्वपक्षस्याप्यवश्यकत्वात्। ‘संशयपूर्वपक्षयोः समावेश एवानुपपन्न’ इत्युक्तमिति चेत्, न ब्रूमो वयं यस्य संशयस् तस्यैव पूर्वपक्ष इति। किं तर्हि कस्यचित् संशयः कस्यचित् पूर्वपक्ष इति। प्रत्यधिकरणमुभयप्रदर्शनं तु सूत्राणामुभयनिरासकत्वात्। तदुक्तम् – ‘इदमदो वेति संदिग्ध’ इत्यादिना। न च पूर्वपक्षेण साध्याभावनिश्चयात् तस्य च ग्राह्याभावनिश्चयत्वेन अनुमितिप्रतिबन्धकत्वात् साध्यानुमितिर्न स्यादिति वाच्यम्। ग्राह्याभावनिश्चायकप्रमाणदौर्बल्याज्ञानदशायां तस्यानुमितिप्रतिबन्धकत्वेऽपि तन्निश्चयदशायामप्रतिबन्धकत्वात्। अन्यथा प्रमाणप्राबल्यदौर्बल्यचिन्ता व्यर्था स्यात्। सप्रतिपक्षस्थले च समबलचिन्ता व्यर्था स्यात्। दुर्बलेनापि प्रबलप्रतिरोधात्। यत्तु ‘आप्ततमः सूत्रकारो मन्यत’ इत्यादि न तद्युक्तम्। सूत्रकारेणापि संशयं पूर्वपक्षं च मनसि कृत्वैव सूत्रप्रणयनात्। अन्यथा अनाकाङ्क्षितत्वेनाऽनवधेयवचनः स्यात्। ‘विकारशब्दा’दित्यादिना तु उक्तस्य हेतोः प्रतिरोधं बाधितविषयत्वं वाऽऽशङ्क्य समादधावित्यङ्गीकारात्। यदपि ‘भाष्यकारोऽप्येवं मन्यत’ इत्यादि तदपि न। न्यायविवरणे जीवव्यतिरिक्तेश्वराभावात् तस्य स्वप्रकाशत्वेन नित्यसिद्धत्वान् न जिज्ञास्यत इति पूर्वपक्षाभिधानाद् भाष्यएवोत्तरत्र तत्प्रदर्शनाच्चेति। अधिकारिविषयेति॥ विषय-प्रयोजनयोरधिकार्यर्थत्वात् तस्य प्राधान्याद् अथशब्देन सूचितत्वाच्च प्रथमतस् तत्कीर्तनम्। प्रयोजनस्याऽतःशब्देन सूचितत्वेऽपि विषयज्ञानसाध्यत्वेन विषयस्य प्राधान्यमभिप्रेत्य तदनन्तरं तत्कीर्तनम्। अवसरप्राप्तत्वात् प्रयोजनस्य तदानन्तर्यम्। सम्बन्धस्य सर्वनिरूप्यत्वात् सर्वानन्तर्यम्। नन्वत्राधिकारि-विषयप्रयोजनसम्बन्धाभावानां किं प्रत्येकहेतुत्वम्, उत मिलितानाम् आहोस्विद् विषयादिचतुष्टयवृत्ति-व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकैकाभावस्य। नाद्यः – स्वव्याहतत्वात्। तथा हि सिद्धत्वान्न ब्रह्मणो विषयत्वमिति वदता सन्दिग्धस्यैव विषयत्वाभ्युपगमात्। तस्य च निर्विषयत्वेनैकेन हेतुना विचाराऽकर्तव्यत्वस्य सिध्द्या पुनर्हेत्वंतरेण विचारं कुर्वता परित्यागात्। किं च अधिकारिविषय-प्रयोजनशून्यत्वं हि तत्सम्बन्धशून्यत्वमेव। नान्यत्। तथा च – विषयप्रयोजनाऽधिकारिशून्यत्वाद् इत्येव वाच्यं न तु सम्बन्धशून्यत्वादित्यपि। अन्यथा कस्यचित्संदिग्धार्थस्य कस्यचित्प्रयोजनस्य सद्भावेन विषयादिशून्यत्वमसिद्धं स्यात्। कस्यचित् सन्दिग्धस्य सद्भावेऽपि न तेन सहास्य विचारस्य प्रतिपाद्यप्रतिपादकभाव इति चेदङ्गीकृतं तर्हि विषयेण प्रतिपाद्यप्रतिपादकभावरूपसम्बन्धवत्त्वं सविषयत्वं तदभावश्च निर्विषयत्वमिति। किं च – अथशब्देन भक्तिवेदाध्ययनरूपाधिकारस्य सूचनात् तदभावेन पूर्वपक्षो युक्तः न तु फलकामनावदधिकार्यभावेन सौत्रपदानिरस्यत्वात्। न च अथशब्देनाऽयमेवाऽधिकारः सूचित इति वाच्यम्। तथासति अधिकारिघटकविषयप्रयोजनयोस्तेनैव सूचितत्वाद् ब्रह्मातःशब्दयोर्वैयर्थ्यं स्यात्। अपि च सूत्रे सम्बन्धस्यासूचनात् तदभावेन पूर्वपक्षो न युक्तः। न द्वितीयः। विषयाभावमात्रस्य व्यभिचाराभावेन मेलनवैयर्थ्यात्। न तृतीयः। एकस्य विषयाभावस्य व्युत्पादनेनैव व्यासज्यवृत्ति-प्रतियोगिताकाभावस्य व्युत्पादयितुं शक्यत्वेन ‘न च जिज्ञासया प्रयोजनमस्ती’त्युत्तरटीकावैयर्थ्यप्रसङ्गाद् इति चेत्, अत्रोच्यते – विषयशून्यत्वादयः प्रत्येकमेव हेतवः। ननु चोक्तं व्याहतिरिति। न – श्रोतृभेदेन तेषां हेतुत्वाङ्गीकारात्। तथा हि – कदाचिन्निर्विषयत्वेनानारम्भणीयत्वं प्रसाध्यते। अन्यदा तु निष्प्रयोजनत्वेनानारम्भणीयत्वं प्रसाध्यते, अन्यदा तु निरधिकारित्वेनानारम्भणीयत्वं प्रसाध्य तत्रासिद्धौ चोदितायां कदाचिद्विषयशून्यत्वेन, कदाचित्प्रयोजनशून्यत्वेन अनधिकारित्वं प्रसाध्यते। यद्यपि निर्विषयत्वेन निष्प्रयोजनत्वेन वा, नारम्भणीत्वं शक्यसाधनं तथापि विषयशून्यत्वस्य प्रयोजनशून्यत्वस्य चाऽनारम्भणीयत्वेन व्याप्त्यप्रतिसन्धानदशायामयं क्रम इत्यङ्गीकाराददोषः। अन्यदा विषयसम्बन्धशून्यत्वेन अन्यदा प्रयोजनसम्बन्धशून्यत्वेन अन्यदाऽधिकारिसम्बन्धशून्यत्वेनाऽनारम्भणीयत्वं प्रसाध्यते। यच्चोक्तम् अधिकारिविषयप्रयोजनशून्यत्वमेव तत्सम्बन्धशून्यत्वमिति। तन्न – प्रतियोगिभेदात्। अन्यथा इह घटो नास्ति, घटसम्बन्धो नास्तीत्यनयोरविशेषः स्यात्। यदपि अथशब्देन भक्तिवेदाध्ययनादि-रूपाधिकारस्य सूचनात् तदभावेन पूर्वपक्षो युक्त इति, तत्तथैव जीवव्यतिरिक्तेश्वराभावेन विष्णौ भक्तेस् तत्पूर्वकाध्ययनस्य च मोक्षरूपप्रयोजनाऽभावेन विषयवैराग्यस्य ब्रह्मादिपदादेर् मोक्षादवरत्वरूपा-सारत्वज्ञानरूपस्य चाऽधिकारिविशेषणस्याऽभावेन ब्रह्मजिज्ञासायामधिकारी न विद्यत इत्यभिप्रेत्य टीकायां ‘विषयप्रयोजनाभावान्न ब्रह्मजिज्ञासायामधिकारी विद्यत’ इत्युक्तत्वात्। यदपि चोक्तम् – सूत्रे सम्बन्ध-सूचकाऽभावात्तदभावेन न पूर्वपक्षो युक्त इति। तन्न – ‘ब्रह्मजिज्ञासे’त्यत्र लुप्तया कर्मणि षष्ठ्या विषयविषयिभावलक्षणसम्बन्धबोधनात् सम्बन्धान्तरस्य च स्मारितत्वाद् इति॥ ब्रह्मातिरिक्तस्य परेणैव विषयत्वानङ्गीकाराद् अङ्गीकृतस्य ब्रह्मणो विषयत्वखण्डने निर्विषयत्वमेव भवतीत्यभिप्रेत्य ब्रह्मणो विषयत्वं दूषयति – न तावदिति॥ ननु न तावद्ब्रह्म विषय इत्यनेन किं पारिभाषिकं सन्दिग्धत्वरूपं विषयत्वं निराक्रियते आहोस्विद् गोचरत्वं निराक्रियते नाद्यः। असंदिग्धत्वादिति हेतोः साध्याभेदप्रसंगात्। किं च संदिग्धत्वं विषयत्वमिति न परिभाषा सम्भवति। संदिग्धार्थप्रतिपादकस्यापि वाक्यस्य संदेह-निवृत्युत्तरकालं निर्विषयत्वापत्तेः। स्याच्च ज्ञातार्थं प्रत्यपि ज्ञातज्ञापकस्य वाक्यस्य सविषयत्वं पुरुषान्तरसन्देहविषयार्थप्रतिपादकत्वात्। अपि च सन्देहः विशेषणमुपलक्षणं वा।

नाद्यः। घटोऽस्तीति वाक्येन विशेषणीभूतसन्देहाविषयीकरणात्। न द्वितीयः। ज्ञातज्ञापकविषयेऽपि कदाचित् सन्देहसद्भावेन सविषयत्वप्रसङ्गात्। न द्वितीयः – अनुभवविरोधाद् इति चेत्। अत्रोच्यते – नाऽत्र शास्त्रगोचरत्वं नापि संदिग्धत्वं निराक्रियते। किं नाम शास्त्रकर्तुः प्रतिपिपादयिषायोग्यत्वम्। असंदिग्धत्वादिति॥ उपलक्षणमेतत्। ‘अविपर्यस्तत्वाद् अज्ञातत्वाभावाच्चे’ति द्रष्टव्यम्। ननु – ब्रह्मणि विषयत्वाऽविषयत्वकोटिकसंशयोऽस्ति न वा। आद्ये – असंदिग्धत्वादिति हेतोरसिद्धिः। द्वितीये तु – अनुमानप्रवृत्त्यनुपपत्तिः। सन्देहाभावेऽप्यनुमानप्रवृत्तिरिति चेत् प्रकृतब्रह्मजिज्ञासाप्रवृत्तिरपि तथाऽस्तु इति चेत्, अत्रोच्यते – अस्त्येव ब्रह्मणि शास्त्रविषयत्वाऽविषयत्वकोटिकः संशयः। न च – असंदिग्धत्वहेतोरसिद्धिः। भावाऽनवबोधात्। न हि – असंदिग्धत्वादित्यनेन सर्वथा संदेहविषयत्वा-भावोऽभिमतः। किं नाम शास्त्रप्रतिपाद्यत्वाऽभिमतसर्वोत्तमत्वाद्याकारेण। तत्कुत इति चेत्, जीवव्यतिरिक्तेश्वराभावात् तस्य चाऽसर्वोत्तमत्वाद्याकारतया अनुभूयमानत्वात्। नहि – अन्यतरकोट्यधि-करणतया प्रतीयमाने तत्कोट्यवगाही संदेहो युज्यते। एवं च शास्त्रप्रतिपाद्याकारवत्तया सन्देहाभावान्न ब्रह्मणः शास्त्रविषयत्वम्। कथं तर्हि ‘न हि कश्चित्प्रकाशमानेऽर्थे सन्दिग्ध’ इति टीकायां सन्देह-मात्राभावव्युत्पादनमिति चेत्, मैवम् – तत्रापि आकारविशेषेणैव संदेहाभावस्य व्युत्पादितत्वात्। न हि प्रकाशमानः कोऽपि घटादिः सर्वथा सन्देहाविषयोऽस्ति। तत्रापि किमयं देवदत्तेन ज्ञातो न वेत्यादिसंदेहदर्शनात्। एतेन ब्रह्मणो जिज्ञास्यत्वं प्रतिज्ञाय जीवाऽभिन्नत्वादिना विचारं कुर्वतः स्वव्याहतिरिति परास्तम्। सिद्धान्त्यभिमताऽऽकारेणाऽविचार्यत्वस्यैव प्रतिज्ञातत्वात्। तदुक्तं ‘शास्त्रे प्रवर्तनीया ब्रह्मजिज्ञासा विषय’ इति। अन्यथा ब्रह्मजिज्ञासाविषय इत्येव ब्रूयात्। ननु चिन्मात्रे ब्रह्मणि भासमानेऽपि यथाऽहमज्ञो दुःखीत्यादिभ्रमोऽङ्गीक्रियते तथा संशयोऽप्यस्तु। अधिष्ठानयाथात्म्य-ज्ञानस्य भ्रमाविरोधित्ववत् संशयाऽविरोधित्वस्यापि सम्भवात्। अन्यथा भ्रमोऽपि न स्याद् इति चेत्, न – स्यादिदं दूषणं यदि चिन्मात्रैक्येन पूर्वपक्षः स्यात्, किं नाम विशिष्टजीवाभेदेन। तथा च दुःखादीनां सत्यत्वेन भ्रमानङ्गीकारात्। तदुक्तं ‘प्रमाणाभावेन जीवव्यतरिक्तस्थब्रह्मणोऽभावात्’ इति। अन्यथा – ‘तत्त्वमस्या’दि प्रमाणसद्भावेन चिन्मात्रैक्यादित्यवक्ष्यत्। उक्तं च – न्यायविवरणे ‘नाऽनुभवसिद्धाऽल्पगुणजीवाऽभेद इति। अन्यथा गुणविकलचिन्मात्रैक्यस्य पूर्वपक्ष्यभिप्रेतत्वेनाऽल्पगुण-जीवाऽभेदनिराकरणमयुक्तं स्यात्। किं च – चिन्मात्रैक्यं प्रतिपादयतो मायावादिनोऽपि मते विचारस्य विषयप्रयोजनसद्भावेन तदाक्षेपानुपपत्तिः। मायावादिनापि ब्रह्ममीमांसाशास्त्रस्यारम्भणीयत्वाङ्गीकारेणाऽऽ-रम्भणीयत्वाक्षेपानुपपत्तिश्च। ननु विरुद्धधर्माऽधिकरणत्वेन हेतुना भिन्नत्वेन प्रतीतयोर्जीवपरयोः कथमभेदेन पूर्वपक्षो घटत इति चेत्, न – जीवपरयोर्भेदसिद्धौ तद्गतधर्माणां विरुद्धत्वसिद्धिः, तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रय इति पूर्वपक्ष्याशयात्।

यद्यपि – चन्द्रिकायां – ‘तत्र तावद्विषयत्वेनाऽभिमतं ब्रह्म न जीवचैतन्याद्भिन्न’मित्युक्तम्। तेन चैतन्याभेदेन पूर्वपक्षः न तु विशिष्टाभेदेन तैरुक्त इति प्रतीयते। तथापि न विरोधः। विशिष्टाभेदेन पूर्वपक्षो न कार्य इत्यनुक्तत्वात्। तत्रोक्तपूर्वपक्षस्य च प्रकारान्तरत्वेनाबाधकत्वात्। अन्यथा सुधायां निरीश्वरमतावलम्बनेन पूर्वपक्षस्योक्तत्वेन तद्विरोधो दुर्वारः स्यात्। विशिष्टाभेदेन पूर्वपक्षस्य तेषामभिप्रेतत्वाच्च। अत एव विशिष्टाभेदेन पूर्वपक्षस्य वक्तव्यत्वेऽपि शुद्धाभेदं वदन् मायावादी सूत्रानभिप्रेतार्थप्रतिपादनात् पूर्वपक्ष्येवेति तद्व्याख्यानमश्रद्धेयमिति भावेन शुद्धाभेदेन पूर्वपक्षं प्रदर्श्य, जिज्ञासाकर्तव्यत्वोपपादकसाधकस्वाऽभिमतचैतन्याभेदव्युत्पादनाय जीवव्यतिरिक्तेश्वरे प्रमाणाभावं प्रतिज्ञाय, कर्मकाण्डस्य कर्मपरत्वात्, वेदान्तानां चोपक्रमादिभिः प्रत्यगात्ममात्रपरत्वात्, इति हेतुं वदतः पूर्वपक्षिणः स्वव्याघातः, उपक्रमाद्यनुसन्धानेन विना वेदान्तानां प्रत्यगात्ममात्रपरत्वस्य निर्णेतुमशक्यत्वात्, विचाराऽ-कर्तव्यत्वं प्रतिपादयतैव उपक्रमाद्यनुसन्धानरूपविचारकरणात्। तथा च – औतवादी वेदान्तशास्त्रे पूर्वपक्षितामपि नार्हतीत्यालोच्य ‘यद्वे’त्यादिना स्वाभिप्रेतो विशिष्टाऽभेदेन पूर्वपक्ष उक्तः।

ननु जीवस्यासन्दिग्धत्वोपपादनाय मानसानुभववेद्यत्वं वक्तव्यं न तु स्वप्रकाशत्वमसिद्धत्वादित्यत आह– न चेति॥ यद्यपि सिद्धान्तिनाप्यात्मनः स्वप्रकाशत्वाङ्गीकारात्। स्वप्रकाशत्वासिद्धिमाशंक्य तत्साधनमयुक्तम्। तथापि यदि सिद्धान्ती स्वप्रकाशत्वमङ्गीकुर्यात् तर्हि ब्रह्मविचारं न कुर्यात्, करोति च तेन ज्ञायते नाऽऽत्मनः स्वप्रकाशत्वमङ्गीकरोतीति मन्वानस्य तद्युक्तमेवेति द्रष्टव्यम्॥ तस्यापीति। मानसानुभवस्य ज्ञायमानत्वात् स्वप्रकाशत्वानङ्गीकारात्, तदैवानुभवान्तरमङ्गीकर्तव्यं तदप्येवं तदप्येवमिति ज्ञानानां यौगपद्यप्रसङ्गेनाऽनवस्थाप्रसङ्गादित्यर्थः। एतेन पूर्वज्ञानोत्पत्तेरुत्तरज्ञानोत्पत्त्यनधीनत्वेन मूलक्षयाभावान् नाऽनवस्थेति निरस्तम्। कस्यचिदिति॥ आत्मस्वप्रकाशत्वस्य ज्ञानयौगपद्यापत्ति-परिहारक्षमत्वात् तदेवाङ्गीकार्यं न तु कस्यचिदज्ञानस्य तदक्षमत्वादिति भावः। ननु अहमित्यनुभवो नानुभूयते जिज्ञासाभावात्। यदा च तज्जिज्ञासा तदा तज्ज्ञायते न तु तज्ज्ञानमपि तज्जिज्ञासाभावात्। तथा च न यौगपद्यमित्यत आह – जिज्ञासायामेवेति॥ अनुभवविरोधादिति॥ ज्ञानस्य अबुभुत्सित-ग्राह्यत्वानुभवविरोधादित्यर्थः। ज्ञानमबुभुत्सितग्राह्यमित्यनुभवो भ्रमः। बुभुत्साविरहदशायामज्ञायमानज्ञानस्य सद्भावादित्यत आह – न ह्यज्ञायमानेति॥ औत्तरिकानुस्मृतीति॥ ननु सुषुप्तौ सर्वेन्द्रियोपरमेऽपि मनसोऽनुपरतत्वाद् उपपन्नः सौषुप्तिकानुभवः। औत्तरिकानुस्मृतिलक्षणकार्यबलेन मनसोऽनुपरमकल्पनात्। प्रत्युत स्वप्रकाशत्ववादिमत एव अनुभवसिद्धौत्तरिकानुस्मृत्यभावप्रसङ्गः। मनस उपरतत्वेन स्वप्रकाश-संविदा तत्र संस्कारोत्पादायोगात्। संस्काराभावे च कारणाभावेन स्मरणायोग इति। न चोपरते मनसि संस्कारोत्पाद इति वाच्यम्। उपरतेनापि मनसा सुषुप्तौ ज्ञानोत्पादप्रसङ्गात्। न च – संस्कारस्य न मनोधर्मत्वं किं तु आत्मधर्मत्वमिति वाच्यम्। अपसिद्धान्तादिति चेत्, अत्रोच्यते – सुषुप्तौ अहमर्थावभास आत्मरूपोऽङ्गीकर्तव्यः न तु मानसस् तस्योपरतत्वात्। न च मनसोऽनुपरमः कल्प्यत इति वाच्यम्। स्वप्नसुषुप्त्योर्भेदाभावप्रसङ्गात्। यदपि स्वप्रकाशत्वादिमत एव संस्काराभावेन स्मरणायोग इति, तन्न सुषुप्तिदशायां संस्कारानङ्गीकारात्। कथं तर्हि अनुस्मृतिरिति चेत्, स्वापाऽपाये मनस उद्बोधे सति सौषुप्तिको नित्यानुभवः संस्कारमुत्पाद्य तिरोभवतीत्यङ्गीकारात्। ननु न ब्रूमो वयं संविदाश्रयतयैवाऽऽत्मनो भानमिति किं नाम – स्वप्रकाशतयापि। अतो न सौषुप्तिकानुभव इत्यत आह – संविदात्मकत्वादिति॥ स्वप्रकाशत्वाङ्गीकारे संविदाश्रयतया भानाङ्गीकारो व्यर्थः। अन्यथा संविदोऽपि संविदाश्रयतया भानं स्याद् अविशेषादिति भावः।

सुधायान्तु– जीवस्य अहमिति स्वप्रकाशतया वा स्वप्रकाशज्ञानाश्रयतया वा मानसवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तं तत्रापि पक्षद्वयं निराकृत्य एकैकपक्षमवशेष्य पुरुषभेदेन पूर्वपक्षत्रयं द्रष्टव्यम्।

ज्ञायमानेऽपि ब्रह्मणीति॥ ननु– जिज्ञासाया निष्प्रयोजनत्वव्युत्पादनाय सत्यामपि जिज्ञासायां तदनुपलम्भादिति वक्तव्यम्। न तु ज्ञायमानेऽपि ब्रह्मणि तदनुपलम्भादिति। असङ्गतत्वात्। न च जिज्ञासाया विषयापरोक्षद्वारेणैव फलहेतुत्वात् तदापरोक्ष्यस्य निष्फलत्वेन जिज्ञासाया निष्फलत्वं भवतीत्येतदुक्तमिति वाच्यम्। तथा सति जिज्ञासाया वैफल्यव्युत्पादनाय तज्जन्याऽऽपरोक्ष्यवैफल्यस्य वक्तव्यत्वेन तदजन्यज्ञानस्य वैयर्थ्यात्। केवलाग्नेरोगाऽदाहकत्वेऽप्ययःशलाकारोपितस्य तद्दाहकत्ववत्। स्वतःसिद्धब्रह्मापरोक्षस्य फलाहेतुत्वेऽपि जिज्ञासोत्थस्य तत्संभवादिति चेत्, मैवम् भावाऽनवबोधात्। तर्ह्यस्माभिर् अहमित्याकारस्य ब्रह्मज्ञानस्य निष्फलत्वं, जिज्ञासाया निष्फलत्वे हेतुतयोच्यते। किंनाम जिज्ञासाया ब्रह्मज्ञानाहेतुत्वमनेनोच्यते। तथा हि – ‘न च जिज्ञासया प्रयोजनमस्ती’ति पूर्ववाक्येन परमप्रयोजनाभावव्युत्पादनाय अपरोक्षरूपावान्तरप्रयोजनाभावं प्रतिज्ञाय तद्धेतुरनेनोच्यते ब्रह्मणि ज्ञायमानेऽपि तदनुपलम्भात् = जिज्ञासानुपलम्भाद् इति। अयमत्र समुदायार्थः – जिज्ञासा नापरोक्षजननद्वारा महापुरुषार्थहेतुर् अपरोक्षज्ञानाऽजनकत्वात्। प्रमाणाभावेनाऽपरोक्षज्ञाने अवान्तरविशेषाभावात्। जिज्ञासा नाऽपरोक्षहेतुः, तद्व्यतिरेकप्रयोजकव्यतिरेकशून्यत्वाद् इति।

चन्द्रिकायां तु– ‘नापि जिज्ञासायाः प्रयोजनमस्ति, प्रत्यग्रूपे ब्रह्मणि अहमिति ज्ञायमानेऽपि मोक्षानुपलम्भा’दित्युक्तम्। तेषामपि अस्मदुक्त एवाभिप्रायः। तथा हि – ‘नापि जिज्ञासायाः प्रयोजनमस्ती’ति वाक्यस्यायमर्थः – जिज्ञासाया अपरोक्षजननद्वारा मोक्षरूपप्रयोजनं नास्तीति। तत्र व्यतिरेकव्यभिचारः ‘अपरोक्षज्ञानहेतुत्वाभावा’दिति हेतुर्बहिरेवानुसंधेयः। ननु – प्राग्भवीयजिज्ञासया इदानीन्तनीयाहमिति ब्रह्माऽपरोक्षोत्पादस्य कल्पयितुं शक्यत्वेन न व्यतिरेकव्यभिचारः। न ह्यनादौ संसारे कदापि जिज्ञासा नानुष्ठितेति निश्चेतुं शक्यते इत्याशंकापरिहाराय ‘प्रत्यग्रूपे ब्रह्मणि अहमिति भासमानेऽपि मोक्षानुपलम्भा’दिति द्वितीयं वाक्यम्। तस्यार्थः – यद्यहमिति ज्ञानं प्राग्भवीयजिज्ञासाजन्यं स्यात् तर्हि मोक्षोपलम्भः स्यात्। त्वया जिज्ञासाजन्यज्ञानस्य मोक्षहेतुत्वाभ्युपगमात्। न च तदस्तीति न जिज्ञासाजन्यमिति सिद्धो व्यतिरेकव्यभिचार इति। उपलक्षणं चैतत् ‘भवान्तरे जिज्ञासाया अनुष्ठितत्वात् तत्फलस्यापि भावान्नातः परं जिज्ञासा कार्ये’ति द्रष्टव्यम्।

यद्वा– जीवब्रह्मणोरभेदेन विषयाभावान्न जिज्ञासा कार्येत्यभिधाय अधुना भेदमङ्गीकृत्य प्रयोजनाभावेन न जिज्ञासा कार्येत्याक्षिपति – नचेति॥ अत्र हेतुमाह – ज्ञायमानेऽपीति॥ जिज्ञासया साक्षात्कृतब्रह्मणां वसिष्ठादीनां मोक्षानुपलम्भादित्यर्थः। विषयप्रयोजनाभावादिति॥ ऐक्यपक्षे विषयप्रयोजनाभावात्। भेदपक्षे प्रयोजनाभावादित्यर्थः। एवं प्राप्ते सिद्धान्तयत् सूत्रमुपन्यस्यति — अथेतीति॥ ननु अथेति प्रतीकग्रहणमनुपपन्नम्। तस्य सूत्रादित्वाभावात्। ‘तत्र ताराथमूलत्व’मित्यनुव्याख्याने ॐकारस्याऽऽदित्वोक्तेः। ‘ननु– सूत्रादौ ॐकार एव न विद्यत’ इत्याक्षिप्य ॐकारस्य सूत्रादित्वेन सुधायां समर्थितत्वाच्च। न च प्रथमसूत्रे विद्यमानस्याप्योंकारस्य, द्वितीयादिसूत्रेष्वनुवृत्तत्वेन प्रथमसूत्रा-नवयवत्वात् ‘अथे’ति प्रतीकधारणमुपपन्नमिति वाच्यम्। द्वितीयादिसूत्रेष्वनुवर्तमानस्यापि प्रथमसूत्रा-वयवत्वात्, नहि ‘‘उपत्वाग्ने दिवे दिव,’’ इति मन्त्रगतस्य ‘उपेमसी’त्यस्य ‘राजन्तमध्वराणा’-मित्यत्राऽनुवृत्तिमात्रेण प्रथममन्त्रानवयवत्वं भवति। येनेह ॐकारस्यापि प्रथमसूत्रानवयवत्वं स्यात्। इममेवाभिप्रायं मनसि निधाय, सुधायां ‘न ह्यूह्यमानं वाक्यात्पृथगिति शक्यते वक्तुं, मन्त्रेष्वप्यूह्यमानस्य मन्त्रानवयत्वप्रसङ्गा’दित्युक्तम्। तथा भाष्ये– प्राथमिकमोङ्कारं विहाय ‘अथशब्दो मङ्गलार्थ’ इति अथशब्दव्याख्यानमयुक्तम्। प्रथमपरित्यागकारणाभावाद् इति चेदुच्यते – अत्र द्वे दर्शने – ‘अथातो ब्रह्मजिज्ञासे’त्यादिमं सूत्रमित्येकम्, अपरन्तु ॐअथातो जिज्ञासे’ति। तत्राऽऽद्यं सन्यायरत्नावलीकृतो दर्शनम्। ‘तत्र व्याख्येयस्य शास्त्रस्येदमादिमं सूत्रम्। ‘अथातो ब्रह्मजिज्ञासे’ति। तत्र ॐकारश्चाथ-शब्दश्च मङ्गलार्थत्वादादितः प्रयोक्तव्यौ। ॐकारस्तु ‘स्रवत्यनोंकृतं ब्रह्मे’त्यादिवचनात् प्रत्यधिकरण-मनुवर्तमानत्वात् पृथुगुच्चारितो वेदितव्यः। नाऽथशब्दवत्सूत्रोपनिबद्धः। इदानीमोंकाराद्यखिलवेदार्थ-भूतशास्त्रस्य विषयं प्रदर्शयितुमाह– ‘ओतत्ववाचीती’ति संन्यायरत्नावल्युक्तेः। तथा हि– ॐकाररहितस्य ब्रह्मशब्दसहितस्य सूत्रस्योपन्यासात् ‘नाऽथशब्दवत्सूत्रोपनिबद्ध’ इत्युक्तेश्च, ‘ॐकाराद्यखिल-वेदार्थभूतशास्त्रस्य विषयं प्रदर्शयितुमाहे’त्यादिना ओतत्ववाचीत्यनुव्याख्यानस्य वैदिकोङ्कारव्याख्यान-रूपत्वस्याभिधानाच्च। अन्यथा – सूत्रव्याख्यामारभते – ओतत्ववाचीत्यवक्ष्यत्। अस्मिंस्तु मते भाष्यकारीयम् ॐकारमव्याख्याया अथशब्दव्याख्यानं लिङ्गम्। न्यायविवरणकारीयो ‘जीवव्यतिरिक्तेश्वरा-भावात्, तस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् – अजिज्ञास्यतेत्यतः ‘अथातो ब्रह्मजिज्ञासे’त्याहेत्योङ्कार-रहितस्य सूत्रस्य पाठो लिङ्गम्। अनुव्याख्यानकारीयं ‘सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलै’रित्यत्र सूत्रकृतेति वक्तव्ये ‘अखिलै’रित्यभिधानं लिङ्गम्। सूत्रकारीयश्च अथशब्दवत् ॐकारस्य निबन्धाभावः, ब्रह्मशब्दनिबन्धश्च लिङ्गम्। आद्यं द्वितीयं चेत्युभयमपि सुधाकृतोमतम्। तत्राऽऽद्यमतस्य तु ज्ञापक-मुक्तमेव। सुधाकृतो द्वितीयमताङ्गीकारे तु ‘तत्र ताराथमूलत्वं सर्वशास्त्रस्य चेष्यत’ इति अनुव्याख्याने अथशब्दवदोंकारस्य सर्वशास्त्रमूलत्वोक्तिर्लिङ्गम्। अन्यथा – प्राङ्मुखत्वादिवदोङ्कारस्य सर्वशास्त्र-मूलत्वमवक्ष्यन् नाथशब्दस्य समकक्षतया ब्रूयात्। आह च अथशब्दसमकक्षतया ॐकारस्य शास्त्रमूलत्वं, तेन मन्यामहे ॐकारस्याऽथशब्दवत्सूत्रावयवत्वमनुव्याख्यानकृतो मतमिति भवत्येतल्लिङ्गम्। भाष्यकारीयं च ‘ॐकारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात्। तद्धेतुत्वं वदश्चापि तृतीयोऽत उदाहृत’ इति प्रमाणोदाहरणं लिङ्गम्। अन्यथा– अनुपयुक्तत्वात्तदुदाहरणमसङ्गतं स्यात्। ननु– सत्यमोङ्कारः सूत्रावयवतया सुधाभिमतस् तथापि ‘अथातो ब्रह्मजिज्ञासा, ॐ अथातो जिज्ञासे’ति पाठद्वयं नाऽभिमतं किं तर्हि – ॐ ब्रह्मशब्दोपेतः ‘ॐ अथातो ब्रह्मजिज्ञासे’ति पाठः। तथा हि– ‘ताराथमूलत्व’-मित्येतद्व्याख्यानावसरे ‘तारश्चाऽथश्चतयोर्मूलत्वं क्रमेणादित्व’मित्यभिधानात्। तथा सूत्रयामास भगवानाचार्यः ‘ॐअथातो ब्रह्मजिज्ञासे’ति। ॐब्रह्मशब्दोपेतसूत्रोपन्यासाच्च। ‘यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्तीति तत्परिहाराय सूत्रकृता ‘ॐकारब्रह्मशब्दौ’ इत्यभिधानाच्च। ‘तदेतौ ॐकारब्रह्म-शब्दावपि यौगिकौ जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात् तद्व्यतरिक्तमेव किंचद्गमयत’ इत्युक्तेश्च। ‘अस्तु ॐकारब्रह्मशब्दाभ्यां जीवजडव्यतिरिक्तस्य जिज्ञास्यस्य सिद्धि’रित्युक्तेश्च, ‘अथवा सूत्रकारोक्तौ ॐब्रह्मशब्दोपेतसूत्रोपन्यासाच्चे’ति तत्पाठद्वयं सङ्कलय्योपन्यस्तमित्यङ्गीकारान्न विरुद्धम्। अन्यत्तु सर्वं ज्ञापकं सुधार्थाऽपरिज्ञानविजृम्भितं साधकमस्माकमेव न परस्य। तथा हि– यदत्रोक्तं ‘तारश्चाऽथश्च तयोर्मूलत्वं क्रमेणादित्व’मिति तत्पाठभेदे लिङ्गम्। न ह्येकपाठपक्षे द्वयोर्मुख्य-मादित्वं सम्भवति। अमुख्यमादित्वमेकस्य वक्तुं युक्तं तदिदमुक्तं क्रमेणेति, पर्यायेणेत्यर्थः। पूर्वपाठे अथशब्दस्य, द्वितीयपाठ ओङ्कारस्य आदित्वमिति विवेकः। यदपि ‘यदुक्तं जीवव्यतरिक्त ईश्वर एव नास्तीति तत्परिहाराय सूत्रकृता ॐकारब्रह्मशब्दौ प्रयुक्ता’विति तदपि पाठभेदे लिङ्गम्। एकेनैवशब्देन शङ्कायाः परिहृतत्वात्। अपरप्रयोगवैयर्थ्याद् यदेकेनापि वर्णेन अनर्थकेन सूत्रे न भवितव्यं किं पुनः पदेन तस्मादकामेनापि एकस्मिन्पाठे शङ्कापरिहारायैकं पदमुपात्तम्। अपरस्मिन्पाठे तच्छङ्कापरिहाराय पदान्तरमिति व्यवस्थाऽऽश्रयणीयेति। यदपि ‘तदेतावोङ्कारब्रह्मशब्दावपि यौगिकौ जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात् तद्व्यतरिक्तमेव किंचिद्ग्रमयत’ इति तदप्येवमेवास्माकमेव साधकं न परस्य। एकेनैव पूर्णत्वेनाऽपरस्य वैयर्थ्यप्रसङ्गात् पाठभेदेनैव तयोर्गमकत्वस्याङ्गीकार्यत्वात्। यच्चोक्तम् – अस्तु ओंब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धि’रिति तदपि एवमेव एकस्मिन्पाठे ओंशब्देनाऽन्यस्मिन्पाठे ब्रह्मशब्देन जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धिरित्यर्थत्वात्। यदपि ‘अथवा– सूत्रकारोक्तावोंब्रह्मशब्दावुपलक्षणमात्र’मिति तदप्यस्माकमेव साधकं न परस्य। एकस्यैवोपलक्षणत्व-सम्भवेऽपरस्य वैयर्थ्यात्। अस्माकं मते तु एकस्मिन्पाठे ब्रह्मशब्द उदाहरणत्वेनोपात्तः। पाठान्तरे तु ओंशब्द इत्यवैयर्थ्यम्। अवश्यं चैतदेव विज्ञेयम् – ‘अथातो ब्रह्मजिज्ञासा, अथात ओंजिज्ञासे’-त्यन्वयसम्भवात् शब्दद्वयोपेत एक एव पाठ इत्यङ्गीकारे तु जिज्ञासापदस्य ब्रह्मशब्देनान्वितत्वाद् ओङ्कारेणाऽन्वयो न स्यात्। बुध्द्या विवेकस्याऽगतिकागतित्वात्। अन्यथा ‘तथात्वे प्रथमसूत्रं न्यून-मापद्येत। अधिकार्यादिप्रतिपादकस्याऽन्यस्याऽभावा’दिति सुधावाक्यं चाऽनर्थकं स्यात्,। विषयसमर्पकस्य ब्रह्मशब्दस्य सद्भावेनाऽऽदिशब्दसङ्ग्राह्याभावात्। किं च– ब्रह्मशब्देन गुणपरिपूर्णत्वस्याभिहितत्वात्, ओङ्कारस्यवैयर्थ्यम्। न च अन्यतरस्य रूढत्वान् न वैयर्थ्यमिति वाच्यम्। ‘स एव ब्रह्मशब्दार्थ’ इति ओङ्कारब्रह्मशब्दस्यापि यौगिकत्वाभिधानात्। ‘ताभ्यां च तत्सकलजीवजडात्मकात् प्रपञ्चाद्विलक्षण-मवगम्यत’ इति सुधोक्तेश्च। न च ओंजिज्ञासा, ब्रह्मजिज्ञासेति योजनाभेदेनाऽवैयर्थ्यमिति वाच्यम्। वाक्यभेदापरिहारात्। बुध्द्या विवेकप्रसङ्गाच्च। ‘नारायणानन्तेश्वरादिशब्दाना’मिवोङ्कारस्यापि ब्रह्म-शब्दस्योपलक्षणत्वेन लाभसम्भवे पृथुग्ग्रहणवैयर्थ्यं चेति। भवेदयं ग्रन्थकृतोऽभिप्रायः। तथापि– सन्न्यायरत्नावलीविरोधः। तैः ‘अथातो ब्रह्मजिज्ञासे’त्येकस्यैव पाठस्याङ्गीकृतत्वाद् इति चेत्, न–

स्थितं मतद्वयं सम्यक् व्यासमध्वहृदम्बरे।

जानतापि स्वेच्छयैव स्वीकृत्यैवैकमुच्यते।

श्रीपद्मनाभगुरुणा निषिध्यैवापरं मतम्।

जयतीर्थमुनिः प्राह शिष्याणां हितकाम्यया॥

मतद्वयं तयोस्तस्मान् मतं नैव विरुध्यते।

तथा हि– उभयथापि ज्ञापकसद्भावात् पाठद्वयं सूत्रकारभाष्यकारयोः सम्मतमेव। तत्र ‘अथातो ब्रह्मजिज्ञासे’ति पाठमङ्गीकृत्य सन्न्यायरत्नावली प्रवृत्ता। ‘नाऽथशब्दवत्सूत्रोपनिबद्ध’ इति ओङ्कारस्य सूत्रोपनिबन्धाभावकथनं तु एतत्पाठाभिप्रायेण ‘नाथशब्दव’दित्यभिधानात्। अथशब्दो यथा पाठद्वयेऽपि सूत्रावयवः न तथोङ्कार इति तदर्थः। अन्यथा न सूत्रोपनिबद्ध इत्येवाऽवक्ष्यत्। इदं तु जयमुनेरपि सम्मतमेव। तथा च– ‘अथातो ब्रह्मजिज्ञासे’ति पाठाभिप्रायेण भाष्यस्य प्रवृत्तत्वात्। ओङ्कार-मव्याख्यायाऽथशब्दव्याख्यानमुपपन्नम्। अत एव टीकाकारीयम् ‘अथे’ति प्रतीकधारणं युक्तमिति द्रष्टव्यम्। सूत्रकाराणां पाठभेदोऽभिमत इति दृष्टचरमेतत्। तथा हि– इह तावत् सूत्रस्य पाठद्वयं दृश्यते ‘पुरुषाश्मवदिति चेत्तत्रापी’(ब्र.सू. २-२)ति एकः पाठः। अपरस्तु ‘पुरुषाश्मवदिति चेत्तथापी’ति। तत्राद्यपाठमभिप्रेत्य भाष्ये ‘यथा चेतनसम्बन्धाद् अचेतनमेव शरीरम् अश्मादिकमादाय गच्छति एवमचेतनाऽपि प्रकृतिः पुरुषसम्बन्धात् प्रवर्तत इति चेत्, न– ‘न र्ऋते त्वत् क्रियत’ इति तत्रापि तथात्वे दृष्टान्ताभावा’दिति व्याख्यातम्। द्वितीयपाठानुसारेण अनुव्याख्याने– ‘सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम्। तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवे’दिति व्याख्यातम्। ‘वृद्धिरादैच्, ओङ्गुणः’ इत्यत्र संहिताऽसंहिताभेदेन पाठभेदः पाणिनेरप्यभिमतः। अत एव महाभाष्ये असंहितया पाठपक्षे कुत्वं कस्मान्न भवति चोः कुरिति कुत्वं प्राप्नोतीत्याशङ्क्य ‘अयस्मयादीनि च्छन्दसी’ति भसंज्ञया परिहारमभिधाय, ‘वृद्धिरादैजदेङ्गुण’ इति संहिततया पाठपक्षे जस्त्वाभावमाशङ्क्य ‘उभयसंज्ञान्यपि छन्दांसि दृश्यन्त’ इति पदसंज्ञामङ्गीकृत्य समाहितम्।

तत्परतयेति॥ मङ्गलसिध्द्यर्थमथशब्दोऽयमुच्चरित इत्याहेत्यर्थः। प्रयोजनकथनस्यापि व्याख्यान-रूपत्वाद् व्याचष्ट इत्येतन्नानुपपन्नमिति बोध्यम्। एतेन मङ्गलस्य वाक्यार्थेऽनन्वयान् नाऽथशब्दो मङ्गलार्थ इति परास्तम्। न केवलमथशब्दो मङ्गलसिध्द्यर्थः। अपि तु अवश्यवक्तव्यार्थप्रतिपादकश्चेति भावेनाह– मुक्त्यर्थिमात्रस्येति॥ न केवलमथशब्दस्य मङ्गलसिद्धिरेव प्रयोजनम् अपि तु – मुक्त्यर्थि-मात्रस्य ब्रह्मजिज्ञासायां प्रवृत्तिनिरसनमपि प्रयोजनम्। इयास्तु विशेषः – मङ्गलप्रयोजनकत्वं तु उच्चारणमात्रेणैव, प्रवृत्तिनिरसनं तु वाक्यार्थे समन्वीयमानार्थाभिधानद्वारेति बोध्यम्। ननु– ‘अतःशब्दो हेत्वर्थे समुदीरित’ इत्यादिना अतःशब्दार्थस्योक्तत्वात् पुनः ‘तद्धेतुत्वं वदंश्चापी’ति तस्यौवाभिधाने पौनरुक्त्यमित्यत आह– वदन्नित्यनुवाद इति॥ प्रथमामहानाम्नीति॥ विदा मघवन्नित्यादिका ऋक् महानाम्नीति शब्दवाच्या। ‘अयं वै लोक’ इति स्वप्रतिपाद्यलोकस्य विष्ण्वात्मकतया व्यपदिश्यत इत्यर्थः।

वाक्यार्थमुक्तावली

ॐ अथातो ब्रह्मजिज्ञासा ॐ॥ आदिसूत्रस्येदं सङ्गत्यादीत्यादिपदेन विषयसंशयादि गृह्यते। अधिकरणानां सङ्गतिस्तावद्द्वेधा। अन्तर्भावलक्षणाऽनन्तर्यरूपा चेति। तत्र आद्या शास्त्राध्याय-पादान्तर्भावभेदेन त्रेधा। द्वितीयाऽप्याक्षेपिक्यौपोद्घातक्यातिदेशिक्यापवादक्यादिरूपेणानेकधा। पूर्वाधि-करणेन उत्तराधिकरणस्य सङ्गतिरधिकरणसङ्गतिः। सा च शास्त्राध्यायपादेष्वन्तर्भावरूपाप्याक्षेपिक्यादिरूपा सम्पद्यते। पूर्वाधिकरणविषयवाक्येनोत्तराधिकरणविषयवाक्यस्य सङ्गतिः श्रुतिसङ्गतिः। तदुक्तम् ‘‘शास्त्रेऽध्याये तथा पादे श्रुत्याऽधिकरणेन च। सङ्गतिः पञ्चधा प्रोक्ता सर्वाधिकरणेष्वपी’’ति। तत्राधिकरणं नाम विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः। प्रयोजनं च पञ्चैतान् प्राञ्चोऽधिकरणं विदुरिति वचनोक्तलक्षणाधिकरणं ज्ञेयम्। प्रतिज्ञातां सङ्गतिं तावदाह। अत्रेति। ब्रह्मप्रतिपादकश्रुत्यर्थ-निर्णायकन्यायव्युत्पादनपरेऽत्र शास्त्रेऽन्तर्भूतेऽस्मिन्नधिकरणे ब्रह्मणो जिज्ञास्यत्वमहिम्नो वर्णनपरतया ब्रह्मप्रतिपादिकायास् तद्विजिज्ञासस्वेत्यादिन्यायेन समर्थनादस्ति शास्त्रसङ्गतिरित्यर्थः। अत एव ‘विष्णुरेव विजिज्ञास्यः’ इति सङ्ग्रहभाष्ये ‘सर्वकर्ताऽगमोदितः’ इत्यादिगुणव्युत्पादकत्वेन जन्मादिसूत्राणां शास्त्रान्तर्भाववदस्यापि शास्त्रान्तर्भावः सूचितः।

ननु चन्द्रिकायां ब्रह्मविचारशास्त्रकर्तव्यतोपयोगितया जिज्ञासाकर्तव्यतासाधनादस्य शास्त्रेणौपोद्धातिकी सङ्गतिरन्यथा शास्त्रानारम्भप्रसङ्गादित्युक्तत्वात्कथमन्तर्भावोक्तिरिति चेन्न। अस्याधिकरणस्य शास्त्रारम्भं प्रति उपोद्धातरूपेण सङ्गतत्वेऽपि स्वयं ब्रह्मणो जिज्ञास्यत्वगुणनिर्णायकत्वेन शास्त्रान्तर्भावेनाविरोधात्। अध्यायपादसङ्गतिरिति। अध्यायपादान्तर्भावलक्षणा सङ्गतिरित्यर्थः। कुतो नान्तर्भाव इत्यत आह। तत इति। पञ्चाधिकरण्या अध्यायपादप्रतिपाद्यप्रमेयोपयुक्तप्रमेयप्रतिपादकतया समन्वयाकाङ्क्षाजनकतया वाऽध्याय- पादपीठत्वादुपक्रमादिन्यायेन ब्रह्मणि शक्तितात्पर्यलक्षणसम्बन्धावधारणसमन्वयसाधकत्वादिति भावः।

ननु जन्मादिसूत्रे तद्ब्रह्मेति श्रौतब्रह्मशब्दस्य जीवादिसाधारणस्य यतो वा इमानि भूतानि जायन्त इति श्रुतजन्मादिकारणत्वरूपासाधारणलिङ्गेन विष्णुपरत्वसाधनात्समन्वयाध्यायान्तर्भावस् तृतीये च लिङ्गस्य रुद्रादिसाधरणत्वाक्षेपे जगज्जन्मादिकारणत्वस्य शास्त्रैकसमधिगम्यत्वसमर्थनेन अनुमानतो रुद्रादौ लिङ्गस्य सावकाशत्वनिरसनेन विष्णोरेव ब्रह्मशब्दवाच्यत्वं दृढीकृतम्। चतुर्थे च जगज्जन्मादिकारणत्वेन शास्त्रप्रतिपाद्यत्वं रुद्रादेरेव ‘एको रुद्रो न द्वितीयोऽवतस्थे’ इति प्रलये च स्थानेन तस्यैव कारणत्वात्। ‘‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’’ इति मोक्षहेतुत्वश्रवणात्। संहारकारणत्वप्रसिद्धेश्चेत्याशङ्कापरिहाराय सर्वसमन्वयस्योक्तत्वादीक्षत्यधिकरणे च सर्वपदवाच्यत्वसाधनेन शक्त्यवधारणात्। ‘‘तदभावे कुतोऽन्वय’’ इत्यनुव्याख्यानोक्तरीत्या समन्वयमाक्षिप्य समाधानाच्चेति चेन्न। आनन्दमयोऽभ्यासादन्तस्तद्धर्मोपदेशा-दाकाशस्तल्लिङ्गादित्यधिकरणेषु शब्दविशेषं श्रुतिविशेषं न्यायविशेषं चोपादाय समन्वयोक्तिवदधिकरणपञ्चके तथोक्त्यभावात्। समन्वयपर्यवसानत्वेनान्तर्भाव-सङ्गत्यभावकथनोपपत्तेः। तथाप्यौपोद्धातकी सङ्गतिरस्त्येवाध्यायपादपीठत्वोक्तेरिति चेन्न। अधिकरणानामन्तर्भावसङ्गतेरेव मुख्यत्वात्प्रकृते तदभावात्। अथेदानीं विषयाद्याह। पारिप्सिततयेत्यादिना। ब्रह्मप्रतिपादकश्रुत्यर्थनिर्णायकन्यायानुस्मारके शास्त्रे प्रवर्तनीया शास्त्रेणोक्तविचारमननापरनामिका चित्तवृत्तिर् यावत्तत्साध्यानिदिध्यासना या च तदङ्गभूता वाक्यार्थज्ञानलक्षणरूपा सा ब्रह्मजिज्ञासा विषय इत्यर्थः। कर्तव्या न वेति। किमिदं शास्त्रमना-रम्भणीयमुतारम्भणीयमिति प्रधानचिन्ता। अन्यथा शास्त्रस्यानारम्भणीयत्वप्रसङ्गाद् इत्युपक्रमात्। नैतच्छास्त्रमारम्भणीयमित्युपसंहाराच्च। तदर्थमेतच्छास्त्रव्युत्पादितन्यायकरणिका जिज्ञासा न कर्तव्योत कर्तव्येति। तदर्थं विषयादिकं नास्त्युतास्तीति। यद्यप्ययं सन्देहो न ग्रन्थकर्तुः सर्वज्ञत्वान्नापि परस्य संशयविषयशास्त्रस्याप्रणीतत्वे धर्मिदर्शनाभावेनारम्भणीयत्वादिकोटिकसंशयायोगात्। तथापि शास्त्र-प्रणयनदशायामादित एतत्सूत्रप्रणयने शास्त्रं दृष्ट्वा परः सन्दिहतीति तदीयसन्देहप्रदर्शनमेतदिति सुधायां व्यक्तम्। इदानीं सङ्गम्यन्ते गुरोर्गिर इति प्रतिज्ञामनुस्मृत्य जीवव्यतिरिक्तेश्वराभावात्तस्य च स्वप्रकाशत्वेन नित्यसिद्धत्वान्न जिज्ञास्यतेति न्यायविवरणं विवृण्वन् पूर्वपक्षमाह न कर्तव्येति। अधिकारीति। यद्यपि न्यायविवरणे विषयमात्रमाक्षिप्तं तथापि तदभावादेव प्रयोजनाद्याक्षेपस्य ज्ञायमाने ब्रह्मणि तदनुप-लम्भादित्यादिना करिष्यमाणत्वात् तदाक्षिप्ततया वा तदुपलक्षिततया वा प्रयोजनाधिकार्याद्यभावोक्तिः। न तावद् ब्रह्म विषय इति। क्रमेण प्रयोजनादि निरसिष्यत इत्यर्थः। तद्ब्रह्मेति श्रवणाद् ब्रह्मेति विशिष्योक्तिः। अहमिति साक्षिणैवानुभवादित्यर्थः। तार्किकमतावष्टम्भेनाशङ्क्य परिहरति। न चायमिति।

नन्वहमिति प्रत्ययस्य मानसत्वेनात्मनस्तत्सिद्धत्वे प्राभाकररीत्याऽत्मनः संविदाश्रयतयाऽभावेऽपि पूर्वपक्ष्यभिप्रेतविषयाक्षेपसम्भवान्न्यायविवरणटीकायां सुधायां च स्वप्रकाशत्वेन नित्यसिद्धमिति मूलमुप-लक्षणीकृत्य स्वप्रकाशतया वा स्वप्रकाशसंविदाश्रयतया वा मानसप्रत्यक्षतया वा सिद्धत्वान्न विषयत्वमित्याक्षिप्तत्वाच्च कुतः पूर्वपक्षिणा तदाशङ्क्य इष्यते इति चेन्न। मानसप्रत्यक्षतया स्वप्रकाश-संविदाश्रयतया वाऽत्मनो भाने यदा वृत्तिरूपात्मप्रमोपरम्यते तदा सन्देहावस्कन्दनाद्विषयत्वं घटेतापि स्वप्रकाशने तु साक्षिरूपज्ञानस्य नित्यतयाऽत्मनो नित्यसिद्धत्वात्कदापि सन्देहाद्यभावान्न विषयत्व-सम्भावनापीत्यभिप्रेत्य तदाशङ्क्य दूषणोपपत्तेः। अत एव न्यायविवरणे स्वप्रकाशत्वेन नित्यसिद्ध-त्वादित्युक्तेर् न्यायविवरणटीकादौ आत्मनो न विषयत्वं सर्वैरपि वादिभिरात्मनः प्रत्यक्षतयैव सिध्यङ्गीकारा-दित्यविप्रतिपत्तिसूचनाय पक्षत्रयेऽपि सिद्धत्वप्रतिपादनमिति ज्ञेयम्। ननु कुतो नायं मानसोऽनुभव इति चेन्न। स किमजिज्ञासितग्राह्य उत जिज्ञासितग्राह्य उताग्राह्य एव। आद्ये दोषमाह। तस्यापीति। कस्यचिदिति अनवस्थापरिहाराय। कस्यचिदनुभवस्य स्वप्रकाशत्वे संविद्रूपस्यात्मन एव तत्किं नाङ्गीक्रियते लाघवादिति भावः। द्वितीयं शङ्कते। जिज्ञासायामेवेति। जिज्ञासा च न सर्वत्रेति नानवस्थेति भावः। अनुभवेति। सुखादिविशिष्टस्य जिज्ञासाभावेऽपि ग्राह्यत्वानुभवादिति भावः। अन्यथा जिज्ञासा नाम प्रकृते ज्ञानेच्छा तस्याः समानविषयकज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभावादनवस्था स्यादिति भावः।

ननु ज्ञानमात्रं न जिज्ञासितग्राह्यं येनानवस्था नापि अजिज्ञासितग्राह्यं येनानुभवविरोधः। किन्तु किञ्चिज्ज्ञानं न ज्ञायत एव इति तृतीयमाशङ्क्य प्रतिषेधति। न ह्यज्ञायमानेति। मनसोऽभावे च तेनैव ज्ञायमानत्वाद् व्याघात इति भावः।

नन्वात्मा न स्वप्रकाशतया भासते किन्तु संविदाश्रयतया। न च तस्यापि संविदो ज्ञायमान-त्वेऽनुभवान्तरान्वेषणेऽनवस्था। तस्या एव संविदः स्वप्रकाशत्वाङ्गीकारात्। न च तथापि यथा कथञ्चित्सिद्धत्वाद्विषयत्वं भज्यत इति वाच्यम्। दत्तोत्तरत्वादिति। प्राभाकरमतरीतिमाशङ्क्य निषेधति। न चेति। औत्तरिकेति। सुप्तोत्थितस्य एतावन्तं कालं सुखमहमस्वाप्समित्त्यौत्तरिकानुस्मृतिस्तावदस्ति। सा च पूर्वानुभवजन्येति सुप्तावपि एतावत्कालसुखसुप्त्यवस्थात्मविषयानुभवः कश्चन सिद्ध्यति। स च स्वप्रकाशात्मपक्ष एवोपपद्यते न तु संविदाश्रयतयाऽत्मपक्ष इत्यर्थः। कुत इत्यत आह। न हीति। तदा सर्वेन्द्रियाणामुपरमादिति भावः। यद्यप्यात्मनो नित्यं स्वप्रकाशतया भासमानत्वान्नानुस्मृतिर्युक्ता। तथाप्यतीतकालसुखावस्थाविशिष्टात्मज्ञानस्यैकस्य जायमानत्वात्तस्य चानुभवत्वायोगाद् अतीतसुख-स्मृतित्वमेष्टव्यम्। सा च स्वरूपतः साक्षिस्वरूपैव। साक्ष्यनुभवेन स्वरूपान्तःकरणसंस्कारोदयेन तदभिव्यक्तस्मृत्यनुपपत्तेरिति दिक्। संविदाश्रयतयाऽत्मभाने तर्कविरोधमुक्त्वाऽनुमानविरोधमप्याह। संविद्रूपत्वाच्चेति। न चात्मन एवासिद्धिर् औत्तरिकानुस्मृत्या विज्ञानघन एवेति श्रुत्या सिद्धत्वादिति भावः।

एवं विषयमाक्षिप्य न्यायविवरणे विषयाक्षेपलब्धं प्रयोजनाद्यभावं चोपपादयति। न चेत्यादिना। प्रयोजनमिति। मोक्षाख्यप्रयोजनमित्यर्थः। ज्ञानद्वारेति शेषः। ब्रह्मणि जीवरूपब्रह्मणि। उपलक्षणं चैतत्। जीवरूपब्रह्मज्ञानस्य जिज्ञासायाः पूर्वमेव सिद्धत्वाद् ज्ञानरूपमवान्तरफलं च नास्तीति ज्ञेयम्। ब्रह्मशब्दव्यावर्त्य एवायं पूर्वपक्षः न त्वथशब्दव्यावर्त्यस् तयोर्यथाक्रममधिकारानन्तर्यार्थश्चातःशब्दो हेत्वर्थ इति सङ्क्षेपेण ‘भक्तिमान् परमे विष्णौ’ ‘कर्मणा त्वधमः प्रोक्तः’ इति विस्तरेण च विप्रतिपद्यमानत्वात्। अत एवोक्तप्रयोजनाधिकारिसम्बन्धाभावाश्च विषयाभावेनैव प्राप्ता इति। जीवान्यविषयसमर्थनपरेण ब्रह्मशब्देन निरसिष्यन्ते। तदुक्तं चन्द्रिकायाम्। अहमिति ब्रह्मणि ज्ञायमानेऽपि मोक्षानुप-लम्भान्निष्प्रयोजनत्वमिति शङ्का तु विषयसूचकेन ब्रह्मपदेन निरस्तेति। विषयप्रयोजनाभावादेवाधिकारी च तदभावादेव सम्बन्धोऽपीत्याचार्योक्तिं मनसि निधायाह। विषयप्रयोजनाभावादित्यादिना। यो यत्प्रयोजनमर्थयमानो यं विषयं जिज्ञासते स तत्राधिकारीति विषयप्रयोजनयोर् अधिकारिव्यापकत्वाद् इति भावः। तत्फलतयेति। अथशब्दस्य शङ्खवीणाध्वनिवत् श्रुतितो माङ्गलिकत्वेन तद्वाचकत्वा-भावान्मङ्गलप्रयोजनकत्वेनेत्यर्थः। अत एवाभिधेयमर्थमाहेति वक्ष्यति। एतेन मङ्गलार्थ इति भाष्ये अर्थशब्दः प्रयोजनपर इत्युक्तं भवति। विमुक्त्यर्थिमात्रस्येति। अयोग्यानामपि तदर्थित्वान्मुक्तियोग्यत्व-शान्त्यादिमत्वलक्षणाधिकारानन्तरवाचिनाऽथशब्देन मुक्त्यर्थिमात्रनिरास इत्यर्थः (यद्वाऽध्ययनादिरूपाधि-कारानन्तर्यार्थकाथशब्देन मुक्त्यर्थिमात्रस्य शूद्रादेर्वेदार्थजिज्ञासायामधिकारनिरास) इति भावः। योग्यतयेति। अधिकारिणं प्रत्येव ब्रह्मजिज्ञासा कर्तव्येति विधिसन्निधानादानन्तर्यप्रतियोगित्व-सामर्थ्येनाधिकार एवोपस्थीयत इति भावः। प्रयोजनेति। मोक्षहेतुज्ञानविष्णुप्रसादयोः कर्मणा ज्ञानमातनोति तत्कर्म हरितोषं यदित्यादिना कर्मजन्यतावगमाज्जिज्ञासाया निष्प्रयोजनत्वशङ्कानिवर्तक-तयेत्यर्थः। नतु ज्ञायमानेऽपि ब्रह्मणीत्युक्तशङ्कानिवर्तकतयेति भ्रमितव्यम्। तस्य विषयार्थकब्रह्मपदेनैव निरासात्। नन्विति। विषयाधिकारिजिज्ञासाफलानामाध्यायचतुष्टयप्रतिपाद्यमानत्वात्तत्क्रमेणादिसूत्रैर्निर्देशे कर्तव्येऽपि इति नन्वित्यनन्तरमध्याहार्यम्। मङ्गलोक्त्यादेरिति। श्रुतितो माङ्गलिकाथशब्दं विहाय साक्षान्मङ्गलशब्दितदेवताप्रणामोक्तेरादिपदेनाधिकार्योक्त्यादेरित्यर्थः। निखिलान्यपीत्यस्य विवरणं नियत्येति। यद्वा ननु ॐकारोऽपि सूत्रादावुपबद्धो किं विशिष्योच्यते अथातःशब्दपूर्वाणि निखिलान्यपि सूत्राणि प्रारभन्त इत्याशङ्क्य नियत्येत्युक्तम्। अथातश्शाब्दवन्नोङ्कारनियतिर्ब्रह्मसूत्रे ॐकारोपबद्धत्वेऽपि अन्यशरीरानुप्रविष्टतया सूत्रकृतोपबद्धत्वाभावात्। अत एव सूत्रेषु तु महाप्राज्ञास्तावेवादौ प्रयुञ्जत इति नियमाभिप्रायेण वक्ष्यति। अतश्च पूर्वमुच्चार्यास्सर्व एते सतां मता इति तु प्रत्यवायपरिहारार्थ-मध्येतृभिर्बहिरेवोच्चार्या इत्यभिप्रायेणेति प्रवृत्तम्। अतःशब्दस्य तृतीयत्वोक्तिस्तु ब्रह्मसूत्रगतातश्शब्दाभि-प्रायेण तत्र प्राथमिकतयोङ्कारस्योपबद्धत्वादिति ज्ञेयम्।

तृतीयेऽपि पृच्छतीति। द्वितीयपक्ष इवाक्षेपकारणाभावात्प्रथमपक्ष इव तृतीयेऽपि सन्देहात् पृच्छामात्रमिति भावः। स्वरूपोत्तमाविति। नन्वोमथशब्दौ स्वरूपोत्तमौ प्रथमोत्पन्नत्वादित्यसिद्धिः। ब्रह्मण एव प्रथमजत्वादित्याशङ्कां परिहरन्सामान्यव्याप्तिप्रदर्शनपूर्वं दृष्टान्तमाह। यत्स्वजाताविति। श्रवणपाठादिनाऽस्य शब्देभ्योऽप्यतिशयेन धर्महेतुत्वं विवक्षितम्। अर्थाधिक्यातिरिक्तस्य तदुत्तमत्व-स्याभावात् तद्धेतुत्वमिति भाष्ये अत इत्यस्यातश्शब्दपरत्वं हेतुपरत्वं तृतीय उदाहृत इत्यनयोश्चावृत्तिं प्राथमिकावित्यस्य वचनव्यत्ययेनानुषङ्गं चाभिप्रेत्य चापिशब्दयोः सम्बन्धं च दर्शयति। अतश्चेति। अनुवाद इति। तेनातःशब्दो हेत्वर्थे इत्यनेन न पुनरुक्तिरिति बोध्यम्। सर्ववागात्मेति हेतुगर्भविशेषणम्। तत्र सर्ववागिति तदर्थभूतं पूर्णत्वमुच्यते। वाच्यवाचकयोरैक्यव्यपदेशस्य वक्ष्यमाणत्वात्। पुनस्तदात्मत्वं नाम तत्प्रतिपादकत्वमित्यभिप्रेत्य व्याचष्टे। सर्वेति। यद्वा सर्ववागात्मत्त्वं नाम सर्ववाग्व्याख्येयत्वम्। व्याख्यानव्याख्येययोरैकार्थ्यात्सर्ववागर्थपूर्णताभिधायकतयेति लभ्यते। तदुक्तमकारो वै सर्ववागिति। ऐतरेयभाष्ये च ‘‘अन्येऽपि शब्दास्सर्वेऽपि ह्यकारार्थाभिधायिनः। तस्मादकार एवायं सर्ववागात्मकः श्रुतः। तस्मात्सर्वगुणान्विष्णोरकारो वक्ति यत्प्रभोः। तद्व्यक्तयो हि शब्दा ये सर्वे विष्णुगुणब्रुवा’’ इत्युक्तम्। अभिधायकतयेतीत्थंभूतलक्षणे तृतीया। प्राणशब्दस्य विष्णुपरत्वमप्यभिप्रेत्य व्याचष्टे भगवद्वाचकाविति। यद्वा प्राणश्चात्मा च भगवांश्च प्राणात्मानौ स्वार्थे कप्रत्यय इति भावेन प्राणात्मकौ प्राणदैवत्यौ भगवद्वाचकाविति।

महतश्चतुर्मुखादित्यादाविति। विज्ञानतत्वं महतस्समुत्पन्नं चतुर्मुखादित्यादावित्यर्थः। प्रथमा महानाम्नीति। अयं वै लोकः प्रथमा महानाम्नीत्युच्यमानविदामघवन्नित्यादि ऋचि अयं वै लोकः पृथिवीलोकस्थो विष्णुरिति विष्णोर् ऋगैक्यमुच्यते। तत्र यथा वाच्यवाचकयोरैक्यव्यपदेशस्तथेत्यर्थः। तदुक्तं कर्मनिर्णये। प्रथमा या महानाम्नी तद्वाक्यैः पार्थिवो हरिरिति। नन्वर्थाधिक्यं वक्तुमुपक्रम्य किमित्यभिमान्याधिक्यमुच्यत इति चेन्न। अभिमानिनोऽपि अभिमानित्वादेवामुख्यतया वाच्यत्वसूचनेनापरब्रह्मवाचकतयाऽर्थाधिक्यसूचनादिति बोध्यम्।

तत्त्वसुबोधिनी

अध्यायपादसङ्गतिस्त्विति। यद्यपि एतदधिकरणाभावे शास्त्रस्येव तदेकदेशयोर् अध्यायपादयोरप्या-रम्भासम्भवः। तथापि सिद्धे शास्त्रारम्भे पुनरध्यायाद्यारम्भाक्षेपस्यानेन समाधानात् शास्त्रेणैव न ताभ्यामित्यौपोद्धातिकी सङ्गतिरित्यर्थः। यद्वा तद्विजिज्ञासस्व इत्यादिब्रह्मविचारविधायकवाक्यार्थनिर्णायक-न्यायव्युत्पादकत्वाद् अधिकरणपञ्चकस्य ब्रह्मविचाररूपेण शास्त्रेण अन्तर्भावलक्षणा सङ्गतिर् न तथा अध्यायपादाभ्यां समन्वयाप्रतिपादकत्वाद् इत्यर्थः। ननु तथापि आनन्दमयाधिकरणारभ्येति कथम्? समन्वयसूत्रे साक्षात् समन्वयोक्तेः समन्वयसूत्रेण अध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावसङ्गतिरिति सुधाग्रन्थाच्च तत्राध्यायसङ्गतेः सत्त्वात्। ईक्षत्यधिकरणे समन्वयासाधारणहेतुवाच्यत्वसमर्थनेन तस्मिन्नपि तस्याः सत्त्वात्। ‘‘तदभावे कुतोऽन्वयः’’ इत्यनुव्याख्याने वाच्यत्वस्य समन्वयहेतुत्वेन उक्तत्वादिति। उच्यते। वैदिकशब्दानां ब्रह्मण्युपक्रमादिप्रमाणकः शक्तितात्पर्यलक्षणसम्बन्धः समन्वयः। तेन समन्वयासम्भवाशङ्कैव निरस्ता। समन्वयस्तु न व्युत्पादित इति न तयोर् अध्यायपादाभ्याम् अन्तर्भाव-लक्षणा सङ्गतिः। यद्वा आनन्दमयमारभ्य सङ्गतिद्वयं ततोऽर्वाक् समन्वयेक्षत्योः पादमात्रेण सङ्गत्यभावः। अन्येषु त्वध्यायेनापि सङ्गत्यभावः॥ अत एव अध्यायपादसङ्गतिरिति समुदायैकवचनम्। अध्यायपादपीठत्वादिति। पञ्चाधिकरण्याः समन्वयविशेषाप्रतिपादकत्वादध्यायाद्यन्तर्भावासम्भवेऽपि विचारकर्तव्यतायाः प्रथमप्रतिपाद्यत्वाद्वक्ष्यमाणक्रमेण चतुरधिकरण्या बद्धक्रमत्वात्तदनन्तरमेव समन्वये आकाङ्क्षोदयात् तदाकाङ्क्षोत्थापकतया समन्वयाध्यायस्य तदादिनामपादस्य चादौ निवेशो युक्त इत्यर्थः। नाधिकरणश्रुतिसङ्गती इति। पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गती नेत्यर्थः। ननु शास्त्रं सिद्धमसिद्धं वा। आद्ये विषयस्य सिद्धत्वात् कथमनुपयुक्तम्। द्वितीये शास्त्रस्यैवासिद्धत्वात्कुत्र विषयः कथ्यते इत्यत आह। चित्तसङ्गतेति। कर्तव्या न वेति॥ अत्र शास्त्रम् अनारम्भणीयम् उत आरम्भणीयमिति प्रधाना चिन्ताऽभिमता द्रष्टव्या। अत एव नैतत् शास्त्रम् आरम्भणीयमिति उपसंहारः। इयं तु तदर्थ-चिन्तेति द्रष्टव्यम्। अत एव च सुधायाम् आरम्भणीयं न वेति प्रधानचिन्तामुक्त्वा कर्तव्यत्वाकर्तव्यत्व-चिन्तायास् तदर्थत्वमुक्तम् इति भावः। सयुक्तिकं पूर्वपक्षमाह। न कर्तव्येतीति॥ न तावद् ब्रह्मेति॥ नापि प्रयोजनादीति तावच्छब्दः। नतु नाप्यब्रह्म विषय इति। अब्रह्मणो विषयत्वानिराकरणादिति ध्येयम्॥ असन्दिग्धत्वादिति। सन्दिग्धस्यैव विषयत्वादिति भावः। ननु नासन्दिग्धत्वं ब्रह्मणस् तस्य जीवव्यतिरिक्तत्वेन प्रत्यक्षाद्यविषयत्वात्। तथा च कुतो न विषयत्वमित्यत आह। प्रमाणेति। यदि जीवव्यतिरिक्तं ब्रह्म अस्तीति स्यात् तदा सन्दिग्धत्वेन विषयत्वं स्यात्। न चैवम्। जीवव्यतिरिक्त-ब्रह्मसद्भावे प्रमाणाभावात्। प्रत्यक्षाप्रत्यक्षधर्मभेदस्य वायुवनस्पतिसंयोगवदप्रत्यक्षत्वेन प्रत्यक्षाप्रत्यक्ष-प्रतिबद्धलिङ्गाभावेनानुमानासम्भवात्। कर्मकाण्डस्य कर्मपरत्वात्। ब्रह्मकाण्डस्य औतरीत्या अखण्ड-चिन्मात्रबोधकत्वादिति भावः। अस्तु जीवाभिन्नत्वं तथापि जीवस्य सन्दिग्धत्वाद् विषयत्वं भविष्यतीत्यत आह। जीवस्येति। किमनुभवोऽजिज्ञासितग्राह्य उत जिज्ञासितग्राह्य इति विकल्पं हृदि निधायाद्ये दोषमाह। तस्यापीति। ज्ञायमानत्वेनेति। परप्रकाश्यत्वेनेत्यर्थः। द्वितीयं शङ्कते। जिज्ञासायामेवेति। जिज्ञासा न सर्वत्रेति नानवस्थेति भावः। अनुभवविरोधादिति। ज्ञानस्य सुखदुःखादिवज् जिज्ञासा-भावेऽपि अनुभवात्। अन्यथा जिज्ञासाया ज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभवादनवस्थेति भावः॥ ननु न ज्ञानमात्रमजिज्ञासितग्राह्यम्। येन नानवस्था। नापि जिज्ञासितग्राह्यम्। येनानुभवविरोधः। किन्तु किञ्चित्ज्ञानं कदापि न ज्ञायत एवेति न कोऽपि दोष इत्यत आह। न ह्यज्ञायमानेति। अज्ञायमानत्वादेवेति भावः। कुत इत्यत आह। न हीति। संविदात्मकत्वादिति। आत्मा न संविदाश्रयतया प्रतीयते संविदात्मकत्वात् संविद्वदिति प्रयोगो द्रष्टव्यः॥ न चासिद्धिः। औत्तरीयकानु-स्मृत्यैव तस्य सिद्धत्वादिति भावः। विषयेति॥ योर् यत्प्रयोजनमर्थयमानो यद्विषयं जिज्ञासते स तत्राधिकारीति विषयप्रयोजनयोर् अधिकारिव्यापकत्वादिति भावः। अत एव विषयप्रयोजनाधिकारिणाम् अभावादेव। तत्फलकतयेति पाठः साधुः। न तु तत्परतयेति। अस्माभिरपि आनन्तर्याभिधोऽथशब्दः श्रुत्या मङ्गलप्रयोजनक इत्यङ्गीकृतत्वादिति सुधानुसारात्। विघ्नोत्सारणासाधारणकारणरूपस्य विष्णु-स्मरणादेर् मङ्गलस्याथशब्दार्थत्वाभावेन तत्परत्वायोगात्। तस्याप्यभिधेयमर्थमाह इत्युत्तरग्रन्थाननुगुणत्वात्। तत्परतयेति पाठेऽप्ययमेवार्थोऽनुसन्धेयः। तथा चाथशब्दः मङ्गलार्थ इति भाष्ये अर्थशब्दः प्रयोजनवचन इति भावः। मङ्गलोक्त्यादेरिति। मङ्गलप्रयोजनकाथशब्दः मङ्गलत्वेन विवक्षितः। तस्योक्तिरुच्चारणम्। आदिपदेनाधिकारानन्तर्यादिप्रतिपादनम्। अन्यथा मङ्गलोक्तेरित्यवक्ष्यदिति। शब्दान्तरेणापीति॥ मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेत्यादि वचनादानन्तर्याद्यर्थकशब्दान्तरेणापीत्यर्थः। भाष्ये निखिलान्यपीति। निखिलान्यपीत्यस्यैव विवरणं नियत्यैवेति इति भावः। अथातःशब्दपूर्वाणीति भाष्योदाहृतश्लोके सूत्राणीति बहुवचनस्य त्रित्वे पर्यवसानवारणाय निखिलानीत्युक्तम्। नन्वेतन्निखिलानां सूत्राणाम् अथातःशब्दपूर्वकत्वं यादृच्छिकमित्यत उक्तम्। नियत्यैवेति। बुद्धिपूर्वकमित्यर्थः। अभियुक्ता हि बुद्धिपूर्वकम् आदिसूत्रे अथातःशब्दौ प्रयुञ्जते। नन्वेतत्कथं ज्ञायते। सर्व एते सतां मता इत्युपसंहारेणैवेति। नन्वेतदथातःशब्द-पूर्वकत्वमसिद्धमित्यत उक्तम्॥ अपीति। सूत्राणामथातःशब्दपूर्वकत्वं निश्चितमित्यर्थः। न चैतत्केन निश्चितमिति वाच्यम्। निरुपाधिकसहचारदर्शनव्यभिचारादर्शनाभ्यामेवेति भावः॥ ननु निखिलानि सूत्राणि अथातःशब्दपूर्वकाणीत्यसङ्गतम्। उत्तरसूत्रेषु तदभावात्। न च निखिलान्यादिसूत्राणीति विवक्षितमिति वाच्यम्। एवमपि वृद्धिरादैजित्यादिपाणिनीयसूत्रे तदभावात्। तथा च कथमिदमिति चेन्न। वेदार्थनिर्णायकादिसूत्रत्वावच्छेदेन अथातःशब्दपूर्वकत्वस्य विवक्षितत्वात्। एवं च उत्तर-सूत्रादेरादिसूत्रत्वाभावान्न दोषः। पाणिनीयसूत्रस्य च प्रकृतिप्रत्ययव्युत्पादनेन शब्दमात्रनिर्णायकत्वेन वेदार्थनिर्णायकसूत्रत्वाभावात्। गौतमसूत्रादावपि न प्रसङ्गः। वेदार्थनिर्णायकत्वाभावादेव। अथातो दर्शपूर्णमासौ व्याख्यास्याम इत्यनेन मन्त्रेण इदं कर्म कर्तव्यम् इति कर्मरूपवेदार्थनिर्णायकत्वाद् अथातः-शब्दपूर्वकत्वाच्च न कोऽपि दोषः। एवं च धर्मदेवब्रह्ममीमांसादिसूत्राणां वेदार्थनिर्णायकादिसूत्रत्वाद् अथातःशब्दपूर्वकत्वाच्च न कोऽपि दोष इति सर्वमनवद्यम्। तथाच भाष्ये अथ च अतश्च अथातो ऽथातश्चासौ शब्दौ च अथातःशब्दौ पूर्वं येषां तानीति विग्रह इति भावः। द्वितीयमाक्षिपतीति। अवश्यवक्तव्यार्थत्वाधिक्ययोस् तदभावयोश्च शब्दान्तरेषु दर्शनादथशब्दे तत्सन्देहेन प्रश्नमात्रसम्भवेन प्रथमतृतीययोः पृच्छतीत्युक्तम्। द्वितीये तु स्वरूपाधिक्यस्य शब्दान्तरेषु अदर्शनाद् अथशब्दे तदाक्षेप इति भावः। अत एव शब्दान्तरस्येत्यादिना मूलाभिप्रेतो हेतुः प्रदर्शितः। मूले कथंशब्दः प्रश्नार्थः। उत्तमताशब्दस्तु तत्वार्थक इत्यभिप्रेत्य कथमित्यादि प्रकारान्तरेण व्याचष्टे। तृतीयेऽपि पृच्छतीति। प्रथमं निःसृतत्वेऽपि स्वरूपोत्तमत्वं कुत इत्यत आह। यत्स्वजाताविति। इति न्याय इति। अत्र सामान्यव्याप्तिरेवानुसन्धेया। यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवात्। नतु यः शब्द इति विशेषव्याप्तिः। दृष्टान्ताभावादिति भावः। न च अथातःशब्दयोः प्राथम्यस्यैव पृष्टत्वात् तत्प्राथम्यमेव, उपपादनीयम्। ॐकारप्राथम्योपपादनं क्वोपयुक्तम् इति वाच्यम्। तस्यापि प्रथमं हरेर् निःसृतत्वेन प्रसङ्गात् तत्कथनमिति भावः। अत इत्यस्यातःशब्दपरत्वं हेतुपरत्वमसकृदावृत्तित्वं ‘‘तृतीयः’’ ‘‘उदाहृतः’’ इत्यनयोर् आवृत्तिं प्राथमिकावित्यस्य वचनव्यत्ययेनानुषङ्गं चाभिप्रेत्य व्याचष्टे। अतश्च तृतीयतयेति॥

‘‘अकारः सर्ववागात्मा’’ इत्यत्राकारस्य सर्ववागर्थप्रतिपादकत्वमेव सर्ववागात्मकत्वं सर्ववागात्मक इत्यस्य हेत्वर्थगर्भत्वं वाभिप्रेत्याह॥ सर्ववागर्थेति। अभिधायकतयेति इत्थंभूतलक्षणे तृतीया। प्राणात्मकौ प्राणस्वरूपौ इत्येव शब्दलभ्योऽर्थः। प्राणो देवता अभिमानी ययोस्तौ प्राणात्मकौ इति फलितकथनं तनु विस्तार इति स्मरणात्। तकारो हरेर् व्याप्त्यभिधायकः। स्था गातिनिवृत्ताविति च स्मरणात् थकार स्थित्यभिधायक इति व्याप्तिस्थितिविधायकौ। एवं च प्राणात्मकावित्यभिमान्यभि-मन्यमानयोर् ऐक्यव्यपदेशः कथमित्यतः दृष्टान्तेन उपपादयति। अभिमानीति। अत्र च सृष्टि-प्रकरणत्वान् महत्पदं महत्तत्वाभिधायकम्। तथा च महत्तत्वाभिमानिनश् चतुर्मुखादित्यर्थः। प्राणात्मका-विति भगवद्वाचकौ इति फलितम्। एवं च प्राणात्मकावित्येतद्वाच्यवाचकयोरैक्यव्यपदेशादृष्टेरनुपपन्नमित्यतो दृष्टान्तेनोपपादयति। वाच्यवाचकयोरित्यादिना। यद्वा प्राणश्चात्मा भगवांश्च प्राणात्मानौ प्राणात्मानावेव प्राणात्मकावित्यस्योक्त एवार्थः। प्राणदैवत्यौ भगवद्वाचकाविति व्याख्यातम्। तदयुक्तम्। प्राणदैवत्यत्वे भगवद्वाचकत्वे च तथयोस्तथौ प्राणात्मानाविति अभिमानिना प्राणेन वाच्येन भगवता चैक्यव्यपदेशा-योगादित्यतो ऽभिमान्यभिमन्यमानयोरैक्यव्यपदेशं दृष्टान्तोक्त्या घटयति। अभिमानीति। वाच्य-वाचकयोरपि तद्व्यपदेशं पूर्ववदुपपादयति। वाच्यवाचकयोरिति। अयं वै लोक इति। विदा मघवन्नित्यादिका ऋक् पृथिवीलोकस्थविष्णुवाचीत्यर्थः। प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिरिति स्मरणादिति भावः।

वाक्यार्थविवरणं

तत्रेति॥ सूत्राणां व्याख्येयत्वे सिद्धे सतीत्यर्थः॥ शास्त्रसङ्गतिरिति॥ शास्त्रप्रतिपाद्यप्रतिपादकत्वेन शास्त्रान्तर्भावलक्षणा सङ्गतिः शास्त्रसङ्गतिः॥ अन्यथेति। ब्रह्मविचाराख्यजिज्ञासाया अकर्तव्यत्वे तत्कारणीभूतन्यायग्रन्थनात्मकशास्त्रस्याप्यनारम्भणीयत्वं स्यादिति भावः। एतज् जिज्ञासायाः कर्तव्यत्वम्। अध्यायपादसङ्गतिरिति॥ अध्यायपादप्रतिपाद्यप्रतिपादकत्वेन तदन्तर्भावलक्षणसङ्गतिरित्यर्थः। अध्यायपादपीठत्वात्॥ तदुपयुक्तार्थप्रतिपादकत्वेनौपोद्धातरूपत्वादिति व्याख्येयम्। ‘‘विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः। प्रयोजनं च वक्तव्यं पूर्वसिद्धान्तपक्षयोः’’ इति उक्तिमनुसृत्य विषयादिकं दर्शयति। प्रारिप्सिततयेति। शास्त्रस्याप्यभावात् शास्त्रस्य प्रतिपाद्याभावात् कुत्र विषयप्रदर्शनमित्यत उक्तम्॥ चित्तसङ्गतेति॥ बुद्धिस्थितेत्यर्थः। विषयः संशयधर्मीत्यर्थः। उभयविधेति। कर्तव्याकर्तव्येत्यर्थः। आत्मनो जीवस्य अनुभवात् स्वविषयकज्ञानरूपत्वरूपस्वप्रकाशत्वस्येत्यर्थः। आत्मनो यदि अप्रकाशत्वं तर्हि तत्प्रकाशः किं तार्किकरीत्या मानसानुभवेन, किं वा प्राभाकररीत्या स्वप्रकाशसंविदाश्रयतया॥ आद्ये सोऽनुभवः किं ग्राह्योऽग्राह्यो वा। ग्राह्यत्वेऽप्यजिज्ञासितग्राह्य उत जिज्ञासितग्राह्य इति विकल्पाः॥ अजिज्ञासितग्राह्यत्वे दोषमाह॥ तस्यापीति॥ सुप्त्यभावप्रसङ्गरूपबाधकं स्फुटत्वान्नोक्तम्। कस्यचिदनुभवस्य स्वप्रकाशत्वान्नानवस्थेत्यत आह॥ कस्यचिदिति॥ तत् स्वप्रकाशत्वम् अङ्गीकार्यमित्यर्थः। अजिज्ञासितग्राह्यत्वाङ्गीकाराज्जिज्ञासायाश्च सर्वत्राभावान्नानवस्थितिः। द्वितीय-पक्षमाशङ्कते॥ जिज्ञासायामेवेति॥ सुखादिवज् ज्ञातैकसत्त्वेन जिज्ञासाभावेऽप्यनुभवेन जिज्ञासित-ग्राह्यत्वमनुभवविरुद्धमित्यत आह॥ अनुभवेति॥ जिज्ञासितग्राह्यत्वपक्षेऽपि अनवस्थापि द्रष्टव्या॥ तथा हि॥ ज्ञातुमिच्छा हि जिज्ञासा। तथा चानुभवविषयकजिज्ञासायां सत्यामेवानुभवविषयकं ज्ञानं भवतीति वाच्यम्। तस्याश्चेश्वरेच्छाया ज्ञानसाध्यज्ञानान्तरमङ्गीकरणीयम्। तस्यापि ज्ञानस्य पुनः जिज्ञासितग्राह्यत्वात्तद्विषयणीच्छाऽङ्गीकार्या। तस्याः पुनः ज्ञानसाध्यत्वाज् ज्ञानान्तरमङ्गीकरणीयम् इति। अग्राह्यत्वपक्षं दूषयति॥ न हीति॥ अज्ञायमानत्वादेव तस्याप्रामाणिकत्वं स्यादिति भावः। प्राभाकररीत्या स्वप्रकाशसंविदाश्रयतया भासत इति न स्वप्रकाशत्वमिति शङ्कते॥ न चेति॥ ‘आत्मा स्वप्रकाशसंविदाश्रयतया न भासते। संविद्रूपत्वात्। संवेदनवत्’ इत्यनुमानं वक्तुं तत्र स्वरूपासिद्धिपरिहाराय हेतुं तावत् साधयति॥ औत्तरिकेति॥ आत्मनो ज्ञानरूपत्वसाधकसौषुप्ति-कानुभवस्यैवाप्रामाणिकतापरिहारायौत्तरिकानुस्मृतिसिद्धेत्यर्थः। ननु संविदाश्रयतया प्रतीत्यङ्गीकारे कुतः सौषुप्तिकानुभवाभावप्रसङ्ग इत्यत आह॥ न हीति॥ येन तदाश्रयतया आत्मा प्रतीयेतेत्यर्थः। मनआदिसर्वेन्द्रियाणां तदोपरतत्वेनात्मातिरिक्तं जन्यं ज्ञानं न तदानीमस्तीति भावः। एवं हेतुं प्रसाध्य प्रयोजनमाह॥ संविदात्मकत्वादिति॥ आत्मनो जीवस्य मानसानुभवसिद्धत्वं स्वप्रकाश-संविदाश्रयत्वेन सिद्धत्वं वा कस्माद्दूषणीयम्। यथाकथञ्चिदात्मनः सिद्धत्वेनाविषयत्वं वाच्यम्। तदेवमपि भविष्यत्येव। यथोक्तं सुधायाम्। ‘जीवात्मनः स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया सिद्धिः प्रदर्शिताऽतो न्यायविवरणोक्तं स्वप्रकाशत्वं साधयितुमेवेतरपक्षद्वयं दूषितमिति सम्प्रदायोऽव-गन्तव्यः। यथोक्तं चन्द्रिकायाम्। टीकायां वस्तुस्थितिप्रदर्शनाय न्यायविवरणोक्तस्वप्रकाशता साधितेति।

प्रयोजनं भवदैहिकमामुष्मिकं वा स्यात्। नाद्यः। तस्यान्यतो लभ्यत्वात्। द्वितीयेऽपि स्वर्गोऽ-विद्यानिवृत्तिरूपापवर्गो वा। नाद्यः। तस्य कर्मादिसाध्यत्वात्। द्वितीये त्वाह। ज्ञायमानेऽपीति॥ स्वप्रकाशतयोक्तरीत्या अहमिति ब्रह्मणि ज्ञायमानेऽपि तस्याऽविद्यानिवृत्तिरूपप्रयोजनस्य इदानीमस्माकमनुपलम्भादिति व्याख्येयम्। अनूदितमेतच्चन्द्रिकायाम्। ‘नाप्यविद्यानिवृत्तिः प्रयोजनम्। उक्तरीत्या आत्मनि भासमानेऽपि तदनिवृत्तेरि’ति॥ अधिकारीति॥ यो हि यमर्थमर्थयमानो यं विषयं जिज्ञासते तस्यैवाधिकारित्वादिति भावः। अत एव सम्बन्धिनामभावादेव॥ नैतच्छास्त्रमिति। तत्कारणीभूतन्यायग्रथनात्मकमिति शेषः॥

अतःशब्दः हेत्वर्थ इति भाष्ये हेत्वर्थः हेतुत्वार्थक इत्यर्थः। तथा चातो मोक्षरूपनिमित्त-सद्भावादिति सौत्रातःशब्दार्थो द्रष्टव्यः। एवं प्रमाणेऽपि हेत्वर्थे हेतुत्वार्थ इति व्याख्येयम्॥ तृतीय इति॥ तथाच उत्तमता अर्थत उत्तमता कथम् उत्तमार्थकम् इति यावदिति भाष्यं योज्यम्। स हीति भाष्यम्। जिज्ञासाया अपि मनोवृत्तिविशेषत्वादिति भावः। मधुकैटभादिव्यावृत्त्यर्थं स्वजाता-वित्युक्तम्। इत्यत उत्तम इत्यर्थः। इति हेतोर् अतश्शब्दः स्वरूपत उत्तम इति व्याख्येयम्। तस्य तत्र इत्यर्थद्वयमभिप्रेत्य व्याचष्टे। तस्य विष्णोरिति। विष्णुप्रसादस्येत्यर्थः। तस्य हेतुत्वं हेतुकत्व-मित्यर्थमभिप्रेत्याह॥ तस्येति। अनुवाद इति॥ अतश्शब्दो हेत्वर्थे समुदीरत इत्युक्तत्वान्न विधानमिति भावः। सर्ववागर्थपूर्णतेति॥ सर्वशब्दार्थभूता ये गुणास्तैः पूर्णतेत्यर्थः। ‘अकारो वै सर्ववाक्’ इति श्रुतेरिति भावः। इत्यादावित्यत्रादिपदेन ‘अन्तरिक्षलोको, द्वितीयोऽसौ लोकस्तृतीय’ इति वाक्यशेषग्रहणम्।

वाक्यार्थमञ्जरी

तत्रेति॥ सूत्रेष्वित्यर्थः। सूत्राणामत्युपादेयत्वेन व्याख्येयत्वे सिद्धे सतिति वा। आदिशब्देन विषयादिपरिग्रहः। अत्र प्रथमाधिकरणे॥ शास्त्रसङ्गतिरिति। तद्विजिज्ञासस्व तद्ब्रह्मेत्यादिब्रह्मविचार-विधायकवाक्यार्थनिर्णायकन्यायव्युत्पादकत्वाद् ब्रह्मविचारपरशास्त्रेऽन्तर्भावलक्षणसङ्गतिरित्यर्थः। यथोक्तं सुधायाम्। सङ्गतिर्द्विविधा। अन्तर्भावलक्षणा आनन्तर्यलक्षणा चेति। आद्यापि शास्त्राध्यायपादान्तर्भाव-भेदेन त्रिविधा। द्वितीयाप्याक्षेपिकी आतिदेशिकी औपोद्घातिकी आपवादिकीत्याद्यनेकविधेति। अत्र यद्यप्यन्यथेत्युत्तरवाक्योक्तरीत्या जिज्ञासायाः कर्तव्यत्वाभावे जिज्ञासाकारणीभूतन्यायग्रथनात्मकशास्त्रस्या-नारम्भणीयत्वप्रसङ्गात्तदर्थं प्रवृत्तस्याधिकरणस्य शास्त्रेणोपौद्घातिकी सङ्गतिरस्ति तथापि सात्र न विवक्षिता। तथात्वे तस्या वक्ष्यमाणरीत्याऽध्यायपादाभ्यामपि सत्वेन शास्त्रसङ्गतिरस्ति अध्यायपादसङ्गतिर्नास्तीति वक्तुमयोगात्। अत एव न्यायविवरणटीकायां तद्विजिज्ञासस्वेति वाक्यार्थविचारपरत्वाद्वेदार्थमीमांसा-शास्त्रान्तर्गतमपि भवतीत्यन्तर्भावसङ्गतिरेवोक्ता। सुधायामपि अत एवास्य न शास्त्रबहिर्भाव इत्युक्तम्। किमर्थं जिज्ञासाया कर्तव्यत्वमत्र समर्थनीयमित्यत आह॥ अन्यथेति॥ जिज्ञासाया अकर्तव्यत्वे जिज्ञासाकारणीभूतन्यायग्रथनात्मकशास्त्रस्यानारम्भणीयत्वप्रसङ्गादित्यर्थः। ननु–

शास्त्रेऽध्याये तथा पादे श्रुत्याऽधिकरणेन च।

सङ्गतिः पञ्चधा प्रोक्ता सर्वाधिकरणेष्वपि॥

इत्याद्युक्तेः कथं शास्त्रसङ्गतिरेव प्रदर्श्यत इत्यत आह॥ अध्यायपादसङ्गतिस्त्विति॥ पञ्चाधिकरण्या अध्यायपादप्रतिपाद्यसमन्वयतद्विशेषाप्रतिपादकत्वेन तदुभयान्तर्भावासम्भवादिति भावः। ननु चतुर्थसूत्रे समन्वयादिति साक्षात्समन्वयोऽभिहितः। तमेव समन्वयं प्रकटयतीत्यानन्दमयनयभाष्ये अध्यायशेषस्य समन्वयप्रपञ्चकत्वमुक्तं, सुधायां च समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चक-भावसङ्गतिरित्युक्तम्। तथेक्षतिनये तदभावे कुतोऽन्वय इत्यनुव्याख्यानोक्तरीत्या समन्वयसाधारण-हेतुवाच्यत्वसमर्थनं क्रियते। अतः समन्वयेक्षतिनययोरपि अध्यायसङ्गतत्वेन कथमानन्दमयाधिकरण-मारभ्यैवेत्युक्तमिति चेत्। उच्यते। आनन्दमयनयमारभ्य सङ्गतिद्वयं ततोऽर्वाक्तनसमन्वयेक्षतिनययोः पादमात्रेण सङ्गत्यभावः। अन्येषु त्रिषु चाध्यायेनापि सङ्गतेरभावः पञ्चाधिकरणीसाधारणोऽभिहितः। एतत्सूचनार्थमेवाध्यायपादसङ्गतीति द्विवचने प्रयोक्तव्ये सङ्गतिरिति समुदायैकवचनं प्रयुक्तम्। पञ्चाधि-करण्या अध्यायपादानन्तर्भावे तदादौ निवेशः कथमित्यत आह॥ तत इति॥ आद्यसूत्रे जिज्ञास्यतयोक्तब्रह्मणो द्वितीये लक्षणमभिधाय तृतीये तस्यातिव्याप्तिनिरासाय शास्त्रं प्रमाणीकृत्य चतुर्थे शास्त्रस्यान्यपरत्वनिरासाय सर्वशब्दसमन्वयमभिधाय संशब्दवाच्यत्वे पञ्चमे समर्थिते तदनन्तरमेव समन्वये आकाङ्क्षोदयात् पञ्चाधिकरण्या उपोद्घातरूपत्वेन समन्वयाध्यायस्य तदादिनामपादस्य चादौ निवेशो युक्त इत्यर्थः। नाधिकरणश्रुतिसङ्गतीति॥ पूर्वनयेनोत्तरनयस्य सङ्गतिरधिकरणसङ्गतिः। पूर्वनयस्थविषय-वाक्येनोत्तरनयस्थविषयवाक्यस्य सङ्गतिः श्रुतिसङ्गतिः। तदुभयमुक्तरीत्या नास्तीत्यर्थः। ‘‘विशयो विषयश्चैव पूर्वपक्षस्तथोत्तरः। प्रयोजनं च पञ्चैते प्राञ्चोऽधिकरणं विदुरि’’त्युक्तेरधिकरणशरीरभूत-विषयादिपञ्चकं क्रमेण दर्शयति॥ प्रारिप्सितेत्यादिना॥ शास्त्रस्यैवानारब्धत्वात् कुत्र प्रवर्तनीयमित्यत उक्तम्॥ प्रारिप्सिततया चित्तसङ्गतेति॥ विषयः विचारविषयीभूतः संशयधर्मी। उभयविधेति॥ अग्निहोत्रनिषिद्धहिंसयोः कर्तव्यत्वाकर्तव्यत्वाभ्यां सहदृष्टव्यापारत्वाख्यसाधारणधर्मस्य जिज्ञासायां दर्शनं संशयकारणमित्यर्थः। अधिकारीति॥ एतेषां प्रत्येकं हेतुत्वं चन्द्रिकातोऽवगन्तव्यम्। ननु विषयस्यादौ निराकरणात् तदादित्वेन निर्देशः कार्यः। न च सूत्रे अथशब्देनादावधिकारिणः सूचितत्वात् तदादित्वेन निर्देश इति वाच्यम्। तर्हि तस्यैवादौ निरासप्रसङ्गात्। अतःशब्दसूचितप्रयोजनस्य द्वितीयतया ब्रह्मशब्दसूचितविषयस्य तृतीयतया निर्देशप्रसङ्गश्चेति चेत्। उच्यते। सौत्रक्रमानुसारेणादावधिकारि-निर्देशेऽपि तन्निरासे विषयप्रयोजननिरासयोर्हेतुत्वेन तयोर् निर्देशवैपरीत्येन निराकरणं युक्तमिति॥ न तावदिति॥ प्रयोजनादि च निराकरिष्यामीत्याशयेन तावच्छब्दः॥ असन्दिग्धत्वादिति॥ सन्दिग्धस्यैव विचार्यत्वादिति भावः। कुतोऽसन्दिग्धत्वमिति चेत्। अत्र प्रष्टव्यम्। ब्रह्म किं जीवभिन्नं किञ्चिदस्त्युत जीव एव। नाद्य इत्याह॥ प्रमाणाभावेनेति॥ प्रत्यक्षानुमानयोस्तत्रासामर्थ्येन कर्मकाण्डस्य कर्मपरत्वेन वेदान्तस्य जीवपरत्वेन जीवातिरिक्ते ब्रह्मणि न मानमिति भावः। द्वितीये त्वाह॥ जीवस्येति॥ ततः किमित्यह आह॥ न हीति॥ सन्दिग्धे सन्देहवान् भवति। निश्चयस्य संशयविरोधित्वादिति भावः॥ अनुभवादिति॥ अस्यानुभवस्यात्मस्वरूपत्वेन तत्प्रकाशितस्य स्वप्रकाशितत्वादिति भावः। नायमनुभव आत्मस्वरूपः किन्तु तदतिरिक्तमनोजन्य एव। अत आत्मनोऽन्यप्रकाशितत्वेन न स्वप्रकाशितत्वमिति मतमपाकरोति॥ न चेति॥ तस्यापीति॥ अज्ञायमानत्वपक्षे दूषणस्य वक्ष्यमाणत्वेन मानसानुभवस्य केनचिदनुभवेन ज्ञायमानत्वं वाच्यम्। एवं तस्यापीत्यनवस्थेत्यर्थः॥ कस्यचिदिति॥ तथाच तज्ज्ञानायानुभवान्तरानन्वेषणान्नानवस्थेति भावः। तत् स्वप्रकाशत्वं लाघवादिति भावः। ननु यदाऽनुभवं ज्ञास्यामीति जिज्ञासा तदैव तज्ज्ञानायानुभवान्तरान्वेषणं जिज्ञासा च सन्देह-दशायामेव। तथाच यदा कोटिस्मरणादिविरहेण सन्देहानुदयस्तदा तदधीनजिज्ञासाया अप्यभावेन नानुभवान्तरान्वेषणमतो नानवस्थेत्याशङ्क्य निराकरोति॥ जिज्ञासायामेवेति॥ अनुभवविरोधादिति॥ सुखं ज्ञास्यामीति जिज्ञासाभावेऽपि यथा सुखमनुभूयते तथा घटानुभवानन्तरमनुभवं ज्ञास्यामीति जिज्ञासाभावेऽपि घटज्ञानवानहमित्यनुभवसद्भावेन जिज्ञासायामेवानुभवस्य ज्ञायमानत्वाङ्गीकारे ज्ञानस्य अजिज्ञासितग्राह्यत्वानुभवविरोध इत्यर्थः। ननु मानसानुभवो न ज्ञायत एवातोऽनानवस्थेत्यत आह॥ न हीति॥ केनचित्प्रमाणेन ज्ञेयस्यैव सत्यत्वेन सर्वथाऽज्ञेयत्वे असत्वस्यापरिहार्यत्वादिति भावः। न ब्रूमो वयमात्मनो मानसानुभववेद्यत्वं येनानवस्था किन्तु स्वप्रकाशसंविदाश्रयतयाऽऽत्मा भासत इति प्राभाकरशङ्कामपाकरोति॥ न चेति॥ सौषुप्तिकानुभवेति॥ सुषुप्तौ जायमानात्मानुभवेत्यर्थः। इष्टापत्तिपरिहारायोक्तम्। औत्तरिकानुस्मृतिसिद्धेति॥ सुषुप्त्युत्तरकाले खल्वेतावन्तं कालं सुखमहमस्वाप्समिति स्मृतिर्भवति सा चानुभवपूर्वकत्वात् सुप्तावात्मानुभवं गमयतीति भावः। ननूक्त-ज्ञानस्यात्मादिविषयकत्वेन साक्षिरूपत्वात्कथं स्मृतित्वं मनोजन्यज्ञानस्यैव स्मृतित्वादिति चेत्। सत्यम्। अतीतकाले अनुभूतार्थविषयकत्वसारूप्येण साक्षिज्ञाने स्मृतिशब्दव्यवहारोपपत्तिः। आजन्म मरणं स्मृत्वा मुक्ता हर्षमवाप्नुयुरिति छान्दोग्यभाष्योदाहृतस्मृतौ मुक्तस्वरूपज्ञाने स्मृतिशब्दप्रयोगात्। कुत इत्यत आह। न हीति॥ गृहीत एव प्राणो भवति गृहीता वाक् गृहीतं चक्षुरिति श्रुत्या सर्वेन्द्रियो-परमावगमेनातिरिक्तसंविदभावान्न तदाश्रयतयाऽत्मभानमिति भावः।

आत्मातिरिक्तेति। मुक्तात्मस्वरूपसंविदैव सौषुप्तिकानुभवः समाधेय इति सूचयति। किं चात्मा न संविदाश्रयतया भासते संविद्रूपत्वात्संविद्वदिति दूषणान्तरं प्राभाकरमते चाह॥ संविदात्मकत्वादिति॥ नन्वात्मनो विषयत्वं निराकुर्वता यथाकथञ्चिदात्मसिद्धिर्वक्तव्या। सा च स्वप्रकाशत्व इव मानसानुभववेद्यत्वे स्वप्रकाशसंविदाश्रयतया भाने वा समाना। अतोऽत्र तदुभयनिराकरणं व्यर्थमिति चेत्। सत्यम्। जीवव्यतिरिक्तेश्वराभावात्तस्य च स्वप्रकाशत्वेन नित्यसिद्धत्वादिति न्यायविवरणोक्तस्वप्रकाशत्वसमर्थनार्थमेव मानसानुभववेद्यत्वादिति मतनिराकरणं कृतम्। न चेति॥ प्रयोजनं चेति सम्बन्धः॥ ज्ञायमानेऽपीति॥ जीवाख्ये ब्रह्मण्यहमिति ज्ञायमानेऽप्यैहिकामुष्मिकफलानुपलम्भादित्यर्थः॥ विषयेति॥ यो हि यत्प्रयोजनमुद्दिश्य यं विषयं जिज्ञासते तस्यैव तत्राधिकारित्वादिति भावः। अत एव सम्बन्धिभूतत्रितया-भावादेव। अतः विषयाद्यभावात्। पूर्वपक्षफलमाह॥ नैतदिति॥ आद्य इतिशब्दो हेतौ। द्वितीयः पूर्वपक्षसमाप्तौ॥

ॐ अथातो ब्रह्मजिज्ञासा ॐ॥ अत्रौङ्कारो बुद्ध्या विविक्तेन ब्रह्मेत्यनेनान्वीयते। तथाच। अथाध्ययनशमदमादिरूपाधिकारसम्पत्त्यनन्तरम्। अतो ऽकारशब्दवाच्यात् प्रसन्नाद् ब्रह्मणो ज्ञानजन्य-प्रसादजन्यमोक्षाख्यफलसत्वात्। ओं ब्रह्मणो गुणपूर्णस्य विष्णोर् जिज्ञासा श्रवणमनननिदिध्यासनरूपा कर्तव्येत्यर्थः। ओंब्रह्मशब्दयोरपि योगेन गुणपूर्तिवाचित्वेऽपि एकस्य रूढित्वमाश्रित्य विशेष्य-वाचित्वेनान्वयः। आत्मेति तूपगच्छन्तीत्यत्रेव द्रष्टव्यः। तत्रात्मशब्दस्यावृत्तिमङ्गीकृत्यैकस्य स्वामित्वार्थ-कत्वमपरस्य विष्णुरूपविशेष्यवाचित्वं चाङ्गीकृत्यान्वयस्य वक्ष्यमाणत्वात्। ब्रह्मशब्दमात्राद्विषयसिद्धावपि ब्रह्मणि वेदरूपप्रमाणसूचनाय तद्व्याख्येयौंकारग्रहणम्॥ अवश्यमिति॥ तस्याविघ्नपरिसमाप्त्यादि-फलकत्वादिति भावः॥ न च सूत्रकारस्य विघ्नशून्यत्वात् तत्करणमनर्थकमिति वाच्यम्। शिष्यशिक्षार्थ-त्वात्। अन्यथा भारतादौ न कुर्यात्॥ तत्परतयेति॥ मङ्गलफलतयेत्यर्थः। न तु तदभिधायकतयेति। अथशब्दस्य श्रुतितो माङ्गलिकत्वेन मङ्गलाभिधायकत्वाभावात्। अथशब्दः श्रुत्या मङ्गलप्रयोजनक इति सुधाग्रन्थाच्च। मङ्गलस्य वाक्यार्थान्वयाच्च। तस्याभिधेयमाहेत्युत्तरग्रन्थस्वारस्याच्च। अत एव तत्फलतयेति क्वचित्पाठः। ततश्च मङ्गलार्थ इत्यर्थशब्दः प्रयोजनवचन इति भावः॥ योग्यतयेति॥ आनन्तर्यप्रतिपत्तावबधित्वसामर्थ्येनेत्यर्थः। मङ्गलोक्त्यादेरिति। मङ्गलप्रयोजनकशब्दोऽत्र मङ्गलत्वेन विवक्षितः। उक्तिरुच्चारणम्। क्वचिन्मङ्गलाचारादेरिति पाठः। आदिपदेनाधिकारानन्तर्यादिप्रतिपादनम्। शब्दान्तरेणेति॥ तत्प्रयोगेणेत्यर्थः। अत्रेत्यनुवादः। प्रथमप्रयोज्यत्व इति व्याख्या। तदिति परामर्शघटनाय नियामकं प्रस्तावयति॥ नियामकेनेति॥ यादृच्छिकम् ईश्वरेच्छया प्राप्तम्। ‘‘यदृच्छा हि तदिच्छा स्यादि’’त्युक्तेः। अनियतमिति यावत्। अतो न नियामकापेक्षेति भावः॥ यत इति॥ निखिलानीत्यस्यैव विवरणं नियत्यैवेति भावः। अथातो ब्रह्मजिज्ञासा। अथातो धर्मजिज्ञासा। अथातो दैवीमीमांसा। अथातो दर्शपूर्णमासावित्यादिसम्भावितनिखिलानीति बोध्यम्। तेन पाणिनीयसूत्रादौ न व्यभिचारः शङ्क्यः। किं नियामकमित्येतद्विवरणपरतयोत्तरग्रन्थं योजयति॥ नियामकं चेत्यादिना॥ अवश्यवक्तव्यार्थत्वमिति॥ अर्थस्यादौ वक्तव्ये तत्प्रतिपादकशब्दस्यापि प्रथमं प्रयोक्तव्यत्वमिति भावः। स्वरूपतो ऽर्थत उत्तमत्वमनपेक्ष्य। अर्थतो ऽर्थाधिक्यमनपेक्ष्य॥ आक्षिपतीति॥ तथाच न कथमपीति योज्यमिति भावः। अत्रावश्यवक्तव्यार्थत्वाधिक्ययोस्तदभावयोश्च लोके शब्दान्तरेषु दर्शनादथशब्दादौ तत्सन्देहेन प्रश्नसम्भवात्प्रथमतृतीययोः पृच्छतीत्युक्तम्। स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनादथशब्दादौ तदाक्षेप इति द्वितीये आक्षिपतीत्युक्तम्। अत एव तत्र शब्दान्तरस्येत्यादिना मूलाभिप्रेतो हेतुः प्रदर्शितः। हेत्वर्थ इति भाष्ये हेतुत्वार्थक इत्यर्थः। अतः प्रसादाद् ब्रह्मप्रसादादित्यर्थः। कथं लभ्यत इत्यतोऽतःशब्दार्थमाह॥ अकारशब्दवाच्याद्विष्णो-रिति॥ पञ्चम्यर्थे तसिरिति भावः। पर्यवसितमाह॥ तत्प्रसादादिति॥ प्रसन्नादिति योग्यतया लाभादिति भावः। जिज्ञासादि कार्यमिति शेषोक्तिः। अकारशब्दवाच्यत्वं विष्णोः कुत इत्यत आह॥ अः इतीति॥ ब्रह्मपदोदितश्रुतिसूचनाभावे विष्णोरित्येव ब्रूयादिति भावः॥ स हीति॥ जिज्ञासाया अपि मनोवृत्तिविशेषत्वात्तदर्थं तत्प्रसादादिरावश्यक इति भावः। प्रथमं निःसृतत्वमेव प्राथम्ये हेतुत्वेनोच्यते न तु स्वरूपत उत्तमत्वमत आह॥ अतः स्वरूपोत्तमाविति॥ ननु ओंकाराथ-शब्दौ स्वरूपोत्तमौ हरेः प्रथमं निसृतत्वादित्यनुमाने यः शब्दो हरेः प्रथमं निःसरति स उत्तम इति व्याप्तौ दृष्टान्तो नेत्यत आह॥ यत्स्वजाताविति॥ मधुकैटभादेश्चतुर्मुखादप्याधिक्यनिरासाय स्वजाताविति। इति न्यायः सामान्यन्यायः। यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवान् न तु विशिष्येति भावः। शब्दान्तरस्य स्वरूपत उत्तमत्वादर्शनात्कथमनयोस्तदिति शङ्कानिरासाय सिसृक्षो-रित्यादि भाष्ये ओंकारस्य स्वरूपोत्तमग्रहणमिति ध्येयम्। अतःशब्दस्य तृतीयत्वेनोदाहरणे स्वरूपोत्तमत्वं कथमित्यत आह॥ अतश्चेति॥ अतःशब्दार्थ इत्यर्थः॥

प्राथमिक इति॥ अनेन प्राथमिकावित्यस्य वचनव्यत्यासेनानुषङ्ग इत्युक्तं भवति॥ तृतीयतयोदाहृत इति॥ अनेन तृतीयोदाहृतशब्दयोरावृत्तिरित्युक्तं भवति॥ इत्यत इति॥ अनेन तन्त्रन्यायेनातःशब्दस्य हेतुपरत्वं चास्तीत्युक्तं भवति। परस्य ब्रह्मण इति द्वितीयव्याख्यानानुसारेणाह। तस्य विष्णोरिति॥ हेत्वर्थे समुदीरित इति प्रथमव्याख्यानानुसारेणाह॥ तस्य जिज्ञासादेरिति॥ मनोवृत्तिशब्देन जिज्ञासाया अपि प्रकृतत्वादिति भावः। व्यत्यासप्रश्नपरस्येत्यादिनोक्तस्य समीपस्थत्वेन तत्परामर्शस्वारस्यसूचनाय कृतः॥ अनुवाद इति॥ प्रागुक्तमेव हेत्वर्थकत्वम् अधिकविधानायानूद्यते न पुनरत्र विधीयते तेन हेत्वर्थे समुदीरित इत्यादिना न पौनरुक्त्यमिति भावः। स्वरूपैक्यानुपपत्तेराह॥ सर्ववागर्थेति॥ सर्वासां वाचामर्थभूतं यद् गुणपूर्णत्वं तदभिधायकतयेत्यर्थः। अकारो वै सर्वा वागित्यैतरेय-वाक्यव्याख्यानावसरे तद्भाष्ये—

‘अन्येऽपि शब्दाः सर्वेऽपि ह्यकारार्थाभिधायिनः।

तस्मादकार एवायं सर्ववागात्मकः श्रुतः।

तस्मात्सर्वगुणान्विष्णोरकारो वक्ति यत्प्रभोः॥’

इत्युक्तत्वादर्थैक्याभिप्रायेणैक्यव्यपदेशः। हेतुगर्भं चैतदिति भावः। परब्रह्माभिधायक इति॥ गुणपूर्णत्वस्यैव परब्रह्मशब्दार्थत्वादिति भावः। प्राणशब्दस्य वायौ प्रसिद्ध्यनुसारेणाह॥ प्राणदैवत्या-विति॥ तस्य विष्णुपरत्वमभ्युपेत्याह॥ भगवद्वाचकाविति॥ भाष्ये अत सातत्यगमने ष्ठा गतिनिवृत्ता-विति स्मरणात्। क्रमेण व्याप्तिस्थितिविधायकावित्यर्थः। व्याख्यानद्वयेऽपि कथं प्राणात्मकावित्यैक्य-व्यपदेश इत्यतः क्रमेणोभयत्र प्रयोगौ प्रदर्शयति॥ अभिमानीति॥ विज्ञानतत्त्वं महतः समुत्पन्नं चतुर्मुखादित्यादौ महत्तत्वाभिमानिनश्चतुर्मुखादिति वक्तव्ये महतश्चतुर्मुखादिति प्रयोगो यथा तथेत्यर्थः॥ अयं वै लोक इति॥ परमैश्वर्यादिसम्पन्नमहार्थप्रतिपादकत्वेन महच्छब्दितेन्द्रादिनामास्यामस्तीति महानाम्नीसंज्ञका प्रथमा विदा मघवन्नित्यादिका ऋगयं लोकः भूलोकस्थविष्णुवाचकेत्यर्थः। प्रथमा या महानाम्नी तद्वाच्यः पार्थिवो हरिरिति कर्मनिर्णयोक्तेः॥ उपसंहार इति॥ अतस्तस्मात्प्राथ-मिकावित्यादिना न पुनरुक्तिरिति भावः।

विवृतिः

अध्यायपादसङ्गतिस्त्विति॥ यद्यप्येतदधिकरणाभावे शास्त्रस्येव तदध्यायपादयोरप्यारम्भासम्भवस् तथापि सिद्धे शास्त्रारम्भे पुनरध्यायाद्यारम्भाक्षेपस्यानेन समाधानात् शास्त्रेणैव न ताभ्यामौपोद्घातिकी सङ्गतिरित्यर्थः। यद्वा, तद्विजिज्ञासस्वेत्यादि ब्रह्मविचारविधायकवाक्यार्थनिर्णायकन्यायव्युत्पादकत्वाद्-ब्रह्मविचाररूपेण शास्त्रेणान्तर्भावसङ्गतिर्न तथाऽध्यायपादाभ्यां समन्वयाप्रतिपादकत्वादित्यर्थः॥

ननु तथाप्यानन्दमयाधिकरणमारभ्येति कथम्। समन्वयसूत्रे साक्षात्समन्वयोक्तेः॥ समन्वय-सूत्रेणाध्यायशेषस्य प्रपञ्चस्य प्रपञ्चकभावसङ्गतिरिति सुधाग्रन्थाच्चात्राध्यायसङ्गतेः सत्वात्॥ ईक्षत्यधिकरणे समन्वयासाधारणहेतुवाच्यत्वसमर्थनेन तस्मिन्नपि तस्याः सत्वात्॥ तदभावे कुतोऽन्वय इत्यनुव्याख्याने, वाच्यत्वस्य समन्वयहेतुत्वेनोक्तत्वादिति॥ उच्यते॥ वैदिकानां शब्दानां ब्रह्मणि उपक्रमादिप्रमाणकः शक्तितात्पर्यलक्षणसम्बन्धः समन्वयः। स च न समन्वयसूत्रव्युत्पाद्यः। तत्र तत्प्रमाणस्यानुक्तेः। किन्तु व्युत्पादयिष्यमाणः स शास्त्रयोनित्वे हेतुत्वेन सिद्धवदुपन्यस्तः॥ ईक्षत्यधिकरणे च अवाच्यत्वप्रयुक्तासम्भावनाशङ्कैव निरस्ता, समन्वयस्तु न व्युत्पादित इति न तयोरध्यायपादाभ्यामन्तर्भाव-लक्षणा सङ्गतिः। यद्वा आनन्दमयमारभ्य सङ्गतिद्वयं ततोऽर्वाक् समन्वयेक्षत्योः पादमात्रेण सङ्गत्यभावो ऽन्येषुत्वध्यायेनापीति सङ्गत्यभावः पञ्चाधिकरणीसाधारणः। अत एवाध्यायपादसङ्गतिरिति समुदायैकवचनम्। अध्यायपादपीठत्वादिति॥ पञ्चाधिकरण्याः समन्वयविशेषाप्रतिपादकत्वा-दध्यायान्तर्भावासम्भवेपिऽविचारकर्तव्यतायाः प्रथमप्रतिपाद्यत्वाद्वक्ष्यमाणक्रमेण चतुरधिकरण्या बद्धक्रमत्वात्तदनन्तरमेव समन्वये आकाङ्क्षोदयात्तदाकांक्षोत्थापकतया समन्वयाध्यायस्य तदादि नामपादस्य चादौ निवेशो युक्त इत्यर्थः॥ नाधिकरणश्रुतिसङ्गती चेति॥ पूर्वाधिकरणतद्विषयवाक्याभ्यां सङ्गती नेत्यर्थः। ननु शास्त्रं सिद्धमसिद्धं वा। आद्ये विषयस्य सिद्धत्वात्कथं तत्कथनमनुपयुक्तम्॥ द्वितीये शास्त्रस्यैवासिद्धत्वात्तत्कथनमनुपयुक्तम्॥ विषयः कथ्यत इत्यत आह॥ चित्तसङ्गतेति॥ सयुक्तिकं पूर्वपक्षमाह॥ न कर्तव्येतीति॥ न तावद्ब्रह्मेति॥ नापि प्रयोजनादीति तावच्छब्दः। न तु नाप्यब्रह्मविषय इति। अब्रह्मणो विषयत्वनिराकरणादिति ध्येयम्॥ असन्दिग्धत्वादिति॥ सन्दिग्धस्यैव विषयत्वादिति भावः॥ ननु नासन्दिग्धत्वं ब्रह्मणः, तस्य जीवव्यतिरिक्तत्वेन प्रत्यक्षाद्यविषयत्वात्॥ तथा च कुतो न विषयत्वमित्यत आह॥ प्रमाणेति॥ यदि हि जीवव्यतिरिक्तं ब्रह्मास्तीति स्यात्तदा सन्दिग्धत्वेन विषयत्वं स्यात्। न चैवम्॥ जीवव्यतिरिक्तेश्वरसद्भावे प्रमाणाभावादिति भावः॥ प्रमाणेति॥ अस्तु जीवाभिन्नत्वं तथापि जीवस्य सन्दिग्धत्वाद्विषयत्वं सम्भविष्यतीत्यत आह॥ जीवस्य चेति॥ किमनुभवो जिज्ञासितग्राह्य उत अजिज्ञासितग्राह्य इति विकल्पं मनसि निधायाद्ये दोषमाह॥ तस्यापीति॥ द्वितीयं शङ्कते॥ जिज्ञासायामेवेति॥ जिज्ञासा च न सर्वत्रेति। तथा च नानवस्थेति भावः॥ अनुभवविरोधादिति॥ ज्ञानस्य सुखदुःखादिवज्जिज्ञासाभावेऽप्यनुभवात्। अन्यथा जिज्ञासाया ज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभवादनवस्थेति भावः॥

ननु न ज्ञानमात्रमजिज्ञासितग्राह्यं, येनानवस्था, नापि जिज्ञासितग्राह्यं, येनानुभवविरोधः, किन्तु किञ्चिज् ज्ञानं कदापि न ज्ञायत एवेति न कोऽपि दोष इत्यत आह॥ न हीति॥ संविदात्मकत्वा-दिति॥ आत्मा, न संविदाश्रयतया प्रतीयते, संविदाश्रयकत्वात्, संविद्वदिति प्रयोगो द्रष्टव्यः। न चासिद्धिः। औत्तरीयकानुस्मृत्यैव तस्य सिद्धत्वादिति भावः। तदभावादेव विषयेति॥ यत्प्रयोजन-मर्थयमानो यं विषयं जिज्ञासते स तत्राधिकारीति विषयप्रयोजनयोरधिकारिव्यापकत्वादिति भावः। अत एव सम्बन्धिनामभावादेव॥ तत्परतयेति॥ अस्माभिरप्यनन्तर्याभिधेयोऽथशब्दः श्रुत्या मङ्गल-प्रयोजनक इत्यङ्गीकृतत्वादिति सुधानुसारान्मङ्गलप्रयोजनतयेत्यर्थः। न तु तत्परतयेति। अत एव ‘तस्याभिधेयमर्थमाह’ इति वक्ष्यति॥ तथा चाथशब्दो मङ्गलार्थ इति भाष्येऽथशब्दः प्रयोजनवचन इति भावः॥ तत्फलतयेति पाठस्तु समीचीन एव॥ मङ्गलोक्त्यादेरिति॥ मङ्गलप्रयोजनकाथशब्दो मङ्गलत्वेन विवक्षितस् तस्योक्तिरुच्चारणं, आदिपदेनाधिकारानन्तर्यादिप्रतिपादनम्। अन्यथा मङ्गलाद्युक्तेरित्यवक्ष्यदिति॥ अथातःशब्दपूर्वाणीति भाष्योदाहृत(वाक्ये) श्लोके सूत्राणीति बहुवचनस्य त्रित्वे पर्यवसानवारणाय निखिलानीत्युक्तम्। न चैतन्निखिलानां सूत्राणामथातःशब्दपूर्वकत्वं यादृच्छिक-मित्यत उक्तम्॥ नियत्यैवेति॥ बुद्धिपूर्वकमित्यर्थः। अभियुक्ता हि बुद्धिपूर्वकमथातःशब्दौ प्रयुञ्जते, न चैतत्कथं ज्ञायते, तच्च सर्वएते सतां मता इत्युपुसंहारेणैवेति। नन्वेतदथातःशब्दपूर्वकत्वमसिद्धमित्यत उक्तम् अपीति॥ सूत्राणामथातः शब्दपूर्वकत्वं निश्चितमित्यर्थः। न चैतत्केननिश्चितमिति वाच्यम्॥ निरुपाधिकसहचारदर्शन व्यभिचारादर्शनाभ्यामेवेति भावः।

ननु निखिलानि सूत्राणि अथातःशब्दपूर्वकाणीत्यसङ्गतम्। उत्तरसूत्रेषु तदभावात्। न च निखिलान्यादिसूत्राणीति विवक्षितमिति वाच्यम्। एवमपि, वृद्धिरादैजिति पाणिनीयसूत्रे तदभावात्। तथा च कथमिदमिति चेन् न। वेदार्थनिर्णायकादिसूत्रावच्छेदेनाथातःशब्दपूर्वकत्वस्य विवक्षितत्वात्। एवं चोत्तरसूत्रादेरादिसूत्रत्वाभावान्न दोषः॥ पाणिनीयसूत्रस्य, प्रकृतिप्रत्ययव्युत्पादनेन शब्दमात्र-निर्णायकत्वेन, वेदार्थनिर्णायकसूत्रत्वाद्यभावाद् गौतमसूत्रादावपि न प्रसङ्गः। वेदार्थनिर्णायकत्वाभावादेव। अथातो दर्शपूर्णमासौ व्याख्यास्यामः, इत्यत्र तु अनेन मन्त्रेणेदं कर्म कर्तव्यमिति कर्मरूप-वेदार्थनिर्णायकत्वाद् अथातःशब्दपूर्वकत्वाच्च न कोऽपि दोष इति सर्वमनवद्यम्॥ अखिलानीत्यस्यैव विवरणं नियत्यैवेतीति भावः॥ तथा च भाष्ये अथ च अतश्च अथातो ऽथातश्च तौ शब्दौ च अथातःशब्दौ, तौ पूर्वे एषान्तानीति विग्रह इति भावः॥ द्वितीयमाक्षिपतीति॥ अवश्यवक्तव्यार्थ-त्वार्थाधिक्ययोस्तदभावयोश्चशब्दान्तरेषु दर्शनादथशब्दे तत्सन्देहेन प्रश्नमात्रसम्भवेन प्रथमतृतीययोः पृच्छतीत्युक्तम्। द्वितीये तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनादथशब्दे तदाक्षेप इति भावः। अत एव शब्दान्तरस्येत्यादिना मूलाभिप्रेतो हेतुः प्रदर्शितः॥ कथंशब्दः प्रश्नार्थ उत्तमशब्दस्तूत्तमार्थ क इत्यभिप्रेत्य कथमित्यादिकं प्रकारान्तरेण व्याचष्टे। तृतीयेऽपि पृच्छतीति॥ प्रथमं निःसृतत्वेऽपि स्वरूपोत्तमत्वं कुत इत्यत आह॥ यत्स्वजाताविति॥ अत्र सामान्यव्याप्तिरेवानुसन्धेया॥ यथा देवेषु चतुर्मुख इति दृष्टान्तसम्भवात्॥ न तु यः शब्द इति विशेषव्याप्तिः। दृष्टान्ताभावादिति भावः॥ नन्वथातःशब्दयोः प्राथम्यस्यैव पृष्टत्वात्तत्प्राथम्यमेवोपपादनीयं, ओङ्कारप्राथम्योपपादनं क्वोप-युक्तमिति वाच्यम्। तस्यापि प्रथमं हरेर्निस्सृतत्वेन प्रसङ्गात्तत्कथनमिति भावः। अत इत्यस्यातः शब्दपरत्वं हेतुपरत्वम् असकृदावृत्तित्वं, तृतीय उदाहृत इत्यनयोरावृत्तिं, प्राथमिकावित्यस्य वचनव्यत्ययेनासङ्गं चाभिप्रेत्य व्याचष्टे॥ अतश्च तृतीयतयेति॥ अकारः सर्ववागात्मेत्यत्राकारस्य सर्ववागर्थप्रतिपादकत्वमेव, सर्ववागात्मकत्वं, सर्ववागात्मेत्यस्य हेत्वर्थत्वं चाभिप्रेत्याह॥ सर्ववागर्थेति॥ अभिधायकतयेतीत्थम्भूतलक्षणे तृतीया॥ प्राणशब्दस्य विष्णुपरत्वमभिप्रेत्याह॥ भगवद्वाचकाविति॥ महतश्चतुर्मुखादिति॥ महत्तत्वाभिमानिचतुर्मुखादित्यर्थः॥ अयं वै लोक इति॥ महानाम्नीसंज्ञिका विदा मध्घवन्नित्यादिका ऋक् पृथिवीलोकस्थविष्णुवाचिकेत्यर्थः।


ॐ अथातो ब्रह्मजिज्ञासा ॐ

सूत्रभाष्यम्

अधिकारश्चोक्तो भागवततन्त्रे —

‘‘मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः।

तत्र मन्दा मनुष्येषु य उत्तमगणा मताः॥

मध्यमा ऋषिगन्धर्वा देवास्तत्रोत्तमा मताः।

इति जातिकृतो भेदस्तथाऽन्यो गुणपूर्वकः॥

भक्तिमान्परमे विष्णौ यस्त्वध्ययनवान्नरः।

अधमः शमादिसंयुक्तो मध्यमस्समुदाहृतः॥

आब्रह्मस्तम्बपर्यन्तमसारं चाप्यनित्यकम्।

विज्ञाय जातवैराग्यो विष्णुपादैकसंश्रयः॥

स उत्तमोऽधिकारी स्यात्सन्न्यस्ताखिलकर्मवानि’’ति।

अध्ययनमात्रवतः (ब्र.सू.३-४-१२)। नाविशेषात् (ब्र.सू.३-४-१३) इति चोपरि। शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्। (बृ.उ.४.४.२३)। परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायात्। नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् (मुं.उ.१-२-१२)। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (क.उ.२-२३)

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।

तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥ श्वे.उ.६-२३)

इत्यादिश्रुतिभ्यश्च॥ व्योमसंहितायां च—

अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः।

स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता॥

एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे।

त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ॥

आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके।

यथोर्वशी यमी चैव शच्याद्याश्च तथा पराः॥ इति।

यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं विनाऽत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासा कर्तव्या।

यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम्।

वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्॥ इति बृहत्संहितायाम्।

सत्तर्कदीपावली

यदानन्तर्यमथशब्दो ब्रवीति तमधिकारं मन्दमध्यादिभेदेन त्रिधा विभज्य भागवततन्त्रोक्त्या दर्शयति। मन्देति॥ विष्णुभक्तिमत्वे सत्यध्ययनवतामपि शमदमादिराहित्यसाहित्यवशान्मन्दमध्योत्तमभेदविशेषित एव जिज्ञासाधिकारो नाविशेषित इत्येतस्मिन्नुपरितनमपि सूत्रद्वयं दर्शयति॥ अध्ययनेति॥ तथानेकशाखागतश्रुतिमप्यस्मिन्नर्थे दर्शयति। शान्त इत्यादिना। यमेवैष वृणुत इत्यनेन व्रियमाणस्य भक्तत्वं सिद्ध्यति। न ह्यभक्तं कश्चित् स्वीकरोतीति। तेन लभ्य इत्यनेन स्वीकृतेन लभ्य इत्युच्यते। लब्धः परमात्मा किं करोतीत्याकाङ्क्षायामुक्तं तस्यैष आत्मा विवृणुते तनूं स्वामिति। तस्य स्वीकृतस्य एष परमात्मा स्वां तनूं वेदवाक्यैर् विवृणुते प्रकाशयतीत्यर्थः। अनेन भक्त्या विष्णुं प्रसाद्य तस्मात्प्रसन्नात् तज्जिज्ञासा कर्तव्येत्युक्तं भवति। विष्ण्वादिकं नाम। इतिहासादि तन्त्रम्।

अतश्शब्दस्य हेत्वर्थं विवृणोति॥ यत इति॥ जिज्ञासाऽऽसादित ब्रह्मज्ञानं विना विष्णुप्रसाद-द्वारकमोक्षासिद्धेर्बह्मजिज्ञासा कर्तव्येत्यर्थः। न च साङ्गादध्ययनादेव ब्रह्मज्ञानसिद्धेर्व्यर्था ब्रह्मजिज्ञासेति वाच्यम्। जिज्ञासामन्तरेण संशयविपर्ययरहितज्ञानासम्भवात्। न हि परस्परं विरुध्यमानवाक्यैर्निर्णायकन्यायव्युत्पादन-मन्तरेण सम्यग्ज्ञानं ब्रह्मविषयकमुत्पद्यते। अत्र ब्रह्मजिज्ञासापदं स्वाकाङ्क्षितेन न्यायप्राप्तेन कर्तव्यमिति पदेन योजयितव्यमित्येतद्धृदि निधाय पदसापेक्षं वाक्यसापेक्षं वा यत्सूत्रं तत्र न्यायप्राप्तं पदादिकमश्रुतमप्यध्याहर्तव्य-मित्येतद् बृहत्संहितावचनेन दर्शयति॥ यत्रेति॥ न चाध्याहारस्य निरङ्कुशत्वादिदं पदमध्याहर्तव्यमिदं तु नेति नियमहेतुर्नास्तीति वाच्यम्। यत्र साकाङ्क्षवाक्ये यत्पदं विनाऽन्यस्य पदस्यावकाशो न्यायबाधितस् तत्र तदेव पदमध्याहार्यतया प्रतिष्ठितं न्यायवशादिति नियामकस्य वक्तुं शक्यत्वात्। अनेकपदानामविशेषेण अवकाशवति हि साकाङ्क्षावाक्ये इदमेव पदमध्याहार्यमिति नियमो न युज्यत इत्यर्थः।

तत्त्वप्रदीपिका

‘‘अध्ययनमात्रवतः’’ ‘‘नाविशेषात्’’ इति चोपरि सूत्रकारो भगवान्व्यास एवाधिकारं तारतम्येन वक्ष्यति। शान्तो दान्त उपरतस्तितिक्षुः समाहित इति। ‘‘शमो मन्निष्ठता बुद्धे’’रिति भागवते। वैष्णवसिद्धान्तादचलनमित्यर्थः। ‘‘दम इन्द्रियनिग्रहः’’। ‘उपरतिः’ विष्णावेव मनोरतिः। ‘तितिक्षा’ द्वन्द्वसहिष्णुता। ‘समाधानं’ सदा हरौ चित्तस्यावस्थितिः। ‘‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामि’’ति। यमेष परमात्मा भक्तिदानेन ‘वृणुते’ स्वीकरोति तेन प्राप्यः, यतस्तस्यैव स्वां तनुं प्रकाशयति।

‘‘भक्त्यैव वृणुते विष्णुर्भक्त्या दद्यान्निजं पदम्।

भक्त्यैव दृश्यते नित्यं भक्त्या योगान्ददाति च॥’’ इति पाद्मे, जयोत्तरे च।

‘‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुनः।

ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तपे’’त्यादिस्मृतिश्चशब्दाद्गृह्यते॥

ब्रह्मजिज्ञासाया मोक्षहेतुत्वं सूचितं, तत्कथमित्यत आह। यतो नारायणप्रसादमृते न मोक्ष इत्यादि।

अत्राऽह, बन्धस्याज्ञानकार्यत्वेन मिथ्यात्वाज्ज्ञानादेव निवृत्तेर्न प्रसादान्मोक्ष इति। तदयुक्तम्। अज्ञानासम्भवात्। न हि परमात्मनः सर्वज्ञस्याज्ञानं सम्भवति। आश्रयविषयाभावात्। न च स्वयं प्रकाशमानस्याज्ञातत्वं, स्वज्ञातत्वात्। नन्वपराधीनप्रकाशत्वं ब्रूमो न स्वदृश्यत्वं, कर्तृकर्मत्वविरोधात्। तन्न। शृृङ्गवत्त्वपुच्छवत्त्ववदविरोधात्। न च द्रष्टृदृश्यनिरपेक्षं दृग्रूपत्वं निरूपणीयम्। अतोऽपराधीनप्रकाशत्वं स्वाधीनप्रकाशत्वमेव। तस्मादेतदपि निर्विशेषत्वाभिनिवेशदोषदूषितशेमुषीणां दुष्प्रतिपादम्। न चैकस्यैवाज्ञानाश्रयविषयत्वम्। निर्विशेषत्वादेव। सविशेषत्वे ‘‘त्वहं मां न जानामी’’त्युभयविधा प्रतीतिः सम्भवति। अतो यद्यपि स्वयम्प्रकाशत्वं नः, तथाऽपि सविशेषत्वादज्ञातत्वं, तथा ज्ञत्वज्ञातत्वे चेति नास्मत्पक्षे विरोधः। न च रूपयोर्भेदः, विशेषादेव द्वित्वाद्युपपत्तेः। ते चानन्ताः प्रतिवस्तु विशेषाः। विशेषविशेषिणोर्विशेषाणां च विशेषः स्वयमेव। एवम्भूते विशेषे किं प्रमाणमिति चेन्न प्रमाणप्रश्नः सिद्धार्थत्वात्। एवम्भूतत्वं न विशेषाद्भिन्नं, सामानाधिकरण्योक्तेः, अन्यथाऽनवस्थानाच्च। न च तयोः पर्यायत्वम्। अतस्तत्र तत्र प्रसिद्धो विशेषः।

ननु न वयं निर्विशेषत्ववादिनो विशेषमङ्गीकुर्महे। न। निर्विशेषत्वविशेषाङ्गीकारात्। न च तन्मिथ्या। सविशेषत्वप्रसङ्गात्। अथ कथं तर्हि सविशेषत्वपरिहाररूपेण निर्विशेषत्वोक्तेन सविशेषत्वप्रसङ्ग इति चेत्कथं वाचालत्वपरिहाररूपेण ‘‘अहं मौनी’’तिवचनावर्तनेनामौनित्वम्।

सर्वज्ञस्याप्यज्ञत्वमज्ञातत्वं च परमात्मन एकस्यैवौपाधिकभेदात्सम्भवतीति चेत्कस्योपाधिरिति वक्तव्यम्। न तावच्छुद्धस्य। सर्वज्ञत्वात्। अज्ञानकार्यो ह्युपाधिः। अशुद्धस्य चेदनवस्था, परस्पराश्रयत्वं वा, अज्ञानसिद्धौ तत्कार्योपाधिसिद्धिस्तत्सिद्धौ चाज्ञानसिद्धिरिति। न च बीजाङ्कुरवदुपपत्तिः। मूलबीजस्य प्रकृतिकार्यत्वादवस्थितेः। दृष्टा च सा बीजाङ्कुरपरम्परा। न चात्र किञ्चिन्मानम्। अतो दुर्घटमिदम-ज्ञानकल्पितो बन्ध इति। अतस्त्वत्पक्षस्याविद्यामूलत्वमनुपपन्नम्। उपपन्नश्चेत्सत्यस्स्यात्। उपपन्नोऽपि मिथ्या चेद् ब्रह्मणो मिथ्यात्वप्रसङ्गः। न च जगतो दुर्घटत्वं, प्रत्यक्षादिप्रमाणदृष्टत्वात्। तस्मान्मिथ्यात्वं जगतो दुर्घटमतो न कल्पनीयम्। प्रमाणसिद्ध्यसिद्धी एव हि सौघट्यदौर्घट्ये। न च ब्रह्माविद्योत्थो घटादिर्घटादिव्यवहारयोग्यस्स्यात्। न हि शुक्त्यज्ञानोत्थं रजतं रजतार्थक्रियाकारि क्वापि दृष्टम्। न हि बाधानन्तरं कस्यचिदेतावन्तं कालमपि शुक्त्यज्ञानं नासीदिति प्रतीतिः, यथेदं रजतं नासीदिति। न च रजतस्यानिर्वचनीयत्वम्। न हि बाधकज्ञानेऽनिर्वचनीयत्वप्रतीतिः। नास्ति रजतमिहेति सर्वोऽनुभवति। ख्यातिबाधान्यथानुपपत्त्याऽनिर्वचनीयत्वं कल्प्यत इति चेन्न। असतः ख्यातिनिषेधासम्भवात्। ननु नासतः ख्यातिर्निषिध्यते, अपि त्वसतः सत्त्वप्रतीतिरेव। न। असतः सत्त्वप्रतीतिर्हि भ्रान्तिः। न ह्यानिर्वचनीयस्यानिर्वचनीयत्वं तवापि भ्रान्तौ प्रतीयते, सदिति प्रतिभानात्। न च तस्य सत्त्वमस्ति, सदसद्विलक्षणत्वात्। न चानिर्वचनीयस्य सत्त्वमनिर्वचनीयम्, अनवस्थानात्। न चानिर्वचनीयत्वे नानवस्थादोषः, किन्तु वेष इति वाच्यम्। अनिर्वचनीयस्याद्याप्यसिद्धत्वात्। अन्ततो गत्वा येन रूपेण भ्रान्तौ प्रतीयते तेन रूपेण नास्त्येवेत्यङ्गीकार्यम्। अन्यथा न भ्रान्तित्वं स्यात्। अतो न बन्धो मिथ्या।

दुःख्यहमित्यबाधितानुभवस्य भ्रान्तित्वं प्रत्यक्षानुमानागमविरुद्धस्य ब्रह्मास्मीति परोक्षावभासस्या-भ्रान्तित्वमित्यहो महोन्मत्तानां प्रलापः। प्रत्यक्षतो हि दुःखित्वमनुभूयते। न च बाधो दृश्यते श्रूयते वा।

‘‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः।

स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयो’’रिति परमश्रुतिः।

न च मिथ्यादुःखित्वपरिहाराय विपश्चिच्छ्रवणादौ प्रवर्तेत। न खल्वाप्तवचनाधिगतरज्जुसर्पस्वरूपो रज्जुसर्पपरिहाराय विषविगमविद्यां चरति। नापि श्रुतशास्त्रो भोजनादौ प्रयतेत, अशनायाद्यतीत-ब्रह्मात्मतानिश्चयात्। न हि प्रमाणान्तरनिश्चितदिग्विशेषोऽन्यथाऽनुभवन्नपि तत्प्रयुक्तव्यवहारं करोति। दृश्यन्ते चैते स्वशरीरपोषणप्रयत्ता मायिनः सुनिश्चितनिर्गुणात्मानः। अतस्तन्मतमत्यन्तहेयम्। अतश्शास्त्रार्थत्वाय बन्धस्सत्यः।

स च सदागमगीयमानस्वमानस्वातन्त्र्यसार्वज्ञादिगुरुतमगुणगणपरिपूर्णपरमानन्दामृतमहार्णवस्य विष्णोः प्रसादमन्तरेण नोच्छिद्यते।

‘‘यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण।

नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मात्॥’’ इति हि श्रुतिः॥

‘‘न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात्।

तत्प्रीणनान्मोक्षमाप्नोति सर्वस्ततो वेदास्तत्परास्सर्व एव॥’’ इति च॥

तस्मात्सुष्ठूक्तं यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं विनाऽत्यर्थप्रसादः, अतो ब्रह्मजिज्ञासा कर्तव्येति॥ यत्रानवसरोऽन्यत्र अन्यस्य पदस्य वाक्यस्य वेत्यर्थः।

तत्त्वप्रकाशिका

ननु कोऽसावधिकारः कतिविधश्च ब्रह्मजिज्ञासायां यदानन्तर्यमथशब्दो वक्तीत्यत आह॥ अधिकारश्चेति॥ अत्राधिकारिकथनेऽपि तद्विशेषणतयाऽधिकारोऽप्युक्तो भवति। अनेन मोक्षयोग्यत्वं सामान्यलक्षणमभिप्रेतम्। अस्य च सच्छूद्रादौ व्याप्तेः प्रायिकत्वादरुच्या प्रकारान्तरेणाधिकारिणः स्वरूपमाह॥ तथेति॥ अत्राध्ययनलब्धापि विष्णुभक्तिरन्याय्याध्ययननिवृत्त्यर्थं पृथगुक्ता। तथा च हरिभक्तिपूर्वकाध्ययनवत्त्वं सामान्यतो ब्रह्मविद्याऽधिकार इत्युक्तं भवति। शमादिसंयुक्त इत्यादौ पूर्वसङ्ग्रहः। पूर्वत्र चोत्तरोक्तानुकर्षश्च कर्तव्यः। न चैवं साङ्कर्यम्। उत्तरोक्ताप्राचुर्येणासाङ्कर्यात्। ब्रह्माद्यसारता नाम तेषामसर्वोत्तमत्वं तत्पदादीनां मोक्षावरत्वं च ज्ञेयम्। नन्वत्र ब्रह्मविद्यायामित्यनुक्तेः कुतोऽय-मधिकारस्तत्त्रैविध्यं च ब्रह्मविद्यायामित्यत आह॥ अध्ययनेति॥ उपरि तृतीये वक्ष्यते। शमादिसंयुक्तता च ब्रह्मविद्यायामेवाधिकार इति श्रुत्याऽऽह॥ शान्त इति॥ शान्तो भगवन्निष्ठबुद्धिः। दान्तो निगृहीतेन्द्रियः। उपरतो विषयालम्बुद्धिमान्। तितिक्षुर्द्वन्द्वसहिष्णुः। समाहितो यथावस्तुज्ञानादिमान्। शान्तादिर्भूत्वा परमात्मानं स्वस्थितं विद्यादिति तेषां तादर्थ्यमुक्तं भवति उपनीतोऽधीयीतेत्यादिवत्। अत्राऽऽत्मनीत्युक्त्या मध्यमाधिकारित्वं सूचितम्। ‘ऋषयोऽन्तःप्रकाशाः’ इति श्रुतेः। सारासारविवेकाद्यपि ब्रह्मविद्यायामेवाधिकार इति श्रुत्या दर्शयति॥ परीक्ष्येति। लोकान्विष्णुलोकेतरान् कर्मापादितान् असारानित्यतया परीक्ष्य वैराग्यं प्राप्नुयात्। स च मोक्षादितरत्र निर्विण्णो विज्ञानार्थं गुरुमेवाभिगच्छेत्। यस्मान्नित्यपुमर्थो मोक्षः कर्मादिना न सिद्ध्यति तस्मादित्यर्थः। अत्रापि विज्ञानपदेनोत्तमाधिकारित्वं सूचितम्। ‘देवादीनां तु यज्ज्ञानं विज्ञानमिति कीर्तितम्’ इत्युक्तेः। विष्णुभक्तिरपि ब्रह्मविद्यायामधिकार इति श्रुत्याऽऽह॥ यमिति॥ एष विष्णुर् यं वृणुते तेन लभ्यस्तस्य प्रसन्नो भवति। ततश्च तस्याधिकारिणः स्वस्वरूपं प्रकाशयतीत्यर्थः। अत्र वृणुत इत्यनेन भक्तत्वं सूचितम्। सा च भक्ति-र्विष्णौ सर्वाधिकाऽन्येष्वपि यथायोग्या ब्रह्मविद्योपयोगिनीत्येतच्छ्रुत्याऽऽह॥ यस्येति॥ नन्वध्ययनवतामेव ब्रह्मविद्याधिकारित्वे त्रिवर्णेतरेषामध्ययनविधुराणां ज्ञानाभावेन मोक्षाभावः स्यादित्याशङ्कां प्रमाणेन परिहरति॥ व्योमसंहितायां चेति॥ अन्त्यजा वर्णबाह्याः। भक्ता इत्यधिकारकथनम्। तन्त्रं पञ्चरात्रादि। अध्ययनाभावेन वैदिकज्ञानानधिकारित्वेऽपि त्रिवर्णेतरेषां नामादिज्ञानाधिकारित्वान्मोक्षो-पपत्तिरिति भावः। ‘सपत्नीं मे पराधम’ इत्यादौ स्त्रीणामपि वेदाधिकारदर्शनात्कथं तासामनधिकार इत्यत उक्तस्यापवादमाह॥ आहुरिति॥ तथा परा मुनिस्त्रियो नरादिकुलजाश्च॥

एवमथशब्दं सङ्क्षेपविस्तराभ्यां व्याख्यायातःशब्दो हेत्वर्थ इत्युक्तं व्यनक्ति॥ यत इति॥ सुखमेव मे स्याद् दुःखं मनागपि मा भूदिति सर्वाभिमतमोक्षस्य नारायणात्यर्थप्रसादमन्तरेणासम्भवादत्यर्थप्रसादस्य च तदपरोक्षज्ञानमन्तरेणालाभादपरोक्षज्ञानस्य च ब्रह्मजिज्ञासां विनाऽनुदयादत्यर्थप्रसादद्वारा मोक्षसाधनापरोक्षज्ञानोत्पादिका ब्रह्मजिज्ञासा कर्तव्येत्यर्थः। यदुक्तमसन्दिग्धत्वान्न ब्रह्मणो विषयत्वमिति तद्ब्रह्मपदप्रयोगेण परास्तम्। तथा हि। भवेदेतदसन्दिग्धत्वं जिज्ञास्यस्य यदि तत्स्वप्रकाशजीवाभिन्नं स्यात्। न चैतदस्ति। जिज्ञास्ये ब्रह्मपदश्रवणात् ‘तद्विजिज्ञासस्व तद्ब्रह्मेति’। ब्रह्मशब्दश्च पूर्णगुणतां वक्ति। ‘अथ कस्मादुच्यते ब्रह्मेति। बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेः। तथा च कथं तस्य जीवाभेदः जीवस्याल्पगुणत्वेनानुभवात्। न च ब्रह्मणि गुणाध्यासः। परमार्थतोऽब्रह्मत्वप्रसङ्गात्। देशाद्यपरिच्छिन्नता ब्रह्मतेति चेन्न। उक्तश्रुतिविरोधाद् देशाद्यपरिच्छेदेन च जीवभेदसिद्धेः। जीवाणुत्वस्य च वक्ष्यमाणत्वात्। अतो जीवस्य स्वप्रकाशत्वेऽपि तद्भिन्नब्रह्मणः सन्दिग्धत्वाद्विषयत्वसिद्धेर्मोक्षाख्यप्रयोजनसद्भावात् तत एवाधिकार्यादिसम्भवाद् ब्रह्मजिज्ञासा कर्तव्येति। ब्रह्मपदव्याख्यानरूपं नारायणपदम्। ननु कर्तव्येति पदमत्र न श्रूयते यद्यध्याहारस्तर्हि न कर्तव्येत्यध्याहारः किं न स्यादध्याहारस्य निरङ्कुशत्वादित्यत आह॥ यत्रेति॥ यत्र वाक्ये महावाक्ये वा यत्पदं वाक्यं वा विनाऽन्यत्रार्थान्तरेऽनवसरोऽर्थान्तरस्याघटना तत्र वाक्ये महावाक्ये वा तदेव पदं वाक्यं वा प्रतिष्ठितं प्राप्तं नान्यदिति सतां न्यायः। यत्पदं वाक्यं वा विनापि पदान्तरेण वाक्यान्तरेण वा वाक्ये महावाक्ये वा सावकाशेऽर्थान्तरे घटनावति तदेव पदं वाक्यं वा नियमेन प्रतिष्ठितं न भवेदिति न्यायात्कर्तव्यपदमेवाध्याहार्यम्। न कर्तव्येत्यादेरधिकारकथनादिनाऽयोगादिति भावः।

गुर्वर्थदीपिका

कोऽसावधिकार इत्यत्र कः किंलक्षणः किं तस्य सामान्यलक्षणं किं वा विशेषलक्षणमिति भावः। कतिविधः सामान्यतः कतिप्रकारः विशेषतश्च कतिप्रकार इत्यर्थः। सर्वेषां च प्रश्नानां समान्यतो विशेषतश्च ब्रह्मजिज्ञासायामप्युपयोगाद् ब्रह्मजिज्ञासायामित्युक्तम्। यद्यपि वक्ष्यमाणपञ्चरात्र-वचनेऽधिकार्येव प्रपञ्चितस् तथाऽप्यधिकारसम्पत्त्यनन्तरमधिकारिणा क्रियमाणजिज्ञासायामधिकार्यनन्तर-मित्यस्यानुपपन्नत्वात्सौत्राथशब्दसङ्गतिरधिकारस्यैवेति भावेनाधिकारश्चोक्त इति भाष्यम्। तर्हि स्मृता-वधिकारकथनं क्वेति शङ्कापरिहारार्थमाह टीकाकारः। अत्राधिकारिकथनेऽपीति। ‘‘मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिण’’ इति स्मृतावधिकारिणो मोक्षाधिकारिण इत्यर्थस्य विवक्षितत्वान्मोक्षयोग्यत्वं सर्वाधिकारिसामान्यलक्षणं लब्धमिति भावेनाह॥ अत्रेति। ‘‘तत्र मन्दा मनुष्येष्वि’’त्यत्र मनुष्येषु तत्पदोपलक्षितपश्वादिषु चेत्यर्थः। अस्य मोक्षयोग्यत्वरूपसामान्यलक्षणस्य सामान्यतो विभागस्य च। सच्छूद्रादौ मोक्षयोग्यजीवमात्रे व्याप्तेर् व्याप्त्या वर्तमानत्वेन निमित्तेन। प्रायिकत्वाद् बहुसम्बन्धिलक्षणत्वेन सामान्यलक्षणत्वात्। अरुच्या साक्षाद् ब्रह्मजिज्ञासोपयोगित्वाभावाख्यारुच्या। प्रकारान्तरेण ब्रह्मजिज्ञासायामेव यथोपयोगस्तेन प्रकारेण। अधिकारिणां स्वरूपमाह लक्षणविभागाभ्यामाहेत्यर्थः। तर्ह्यनुपयुक्तप्रमेयं स्मृतौ कुतः कथितं भाष्यकारेणापि कस्मादुद्धृतमिति न शङ्कनीयम्। वक्ष्यमाणाधिकारि-विशेषलक्षणादिकथने सर्वाधिकारिसाधारणसामान्यलक्षणस्यापि प्रमाणसामान्यलक्षणवत्तदुपयोगित्वात्तत्सङ्ग्रहः स्मृतौ भाष्ये चेति ज्ञेयम्। यद्यपि मोक्षयोग्यत्वाख्यगुणः प्रागुक्तस्तथाऽपि तस्य जातावेव पर्यवसानाज्जाति-कृतो भेद इत्युक्तम्। वक्ष्यमाणविभागस्य विप्रर्षिदेवत्वाख्यजातिमात्राश्रयणं विनाऽध्ययनशमादिगुणानामपि कथनात् ‘‘तथाऽन्यो गुणपूर्वक’’ इत्युक्तम्। विशेषलक्षणस्य सामान्यलक्षणपूर्वकत्वात्तस्य च स्मृतौ

स्पष्टमभावेऽपि ‘‘अध्ययनमात्रवत’’ इत्यनुपदमेव भाष्यकृता वक्ष्यमाणसूत्रार्थपर्यालोचनयोहः कर्तव्य इति भावेनाह। तथा चेति। उत्तरोक्ताप्राचुर्येणेत्यत्र अधमेष्वध्ययनवन्मध्यमेषु शमादिवदुत्तमे विष्णुपादैक- संश्रयादिवच्च स्मृत्या स्पष्टमनुक्तानामुत्तरत्रानुकर्षबलेनाधमेषूक्तशमादीनां मध्यमेषूक्ताध्ययनादीना-मुत्तमेषूक्ताध्ययनशमादीनां च तत्र तत्र प्रागुक्तासाधारणगुणेभ्योऽप्राचुर्येणेत्यर्थः। अत एवं प्राचुर्यात्तेषु तेष्वैकैकगुणस्यैव मुख्यतः कथनम्। तथा च स्वनिष्ठगुणेषु येषामध्ययनमेव प्रधानो गुणस्तेऽधमाः। येषां शमादिकमेव प्रधानो गुणस्ते मध्यमाः। येषां सारासारविवेकादिकमेव प्रधानो गुणस्ते उत्तमा इति विभागः स्मृत्यैव सूचित इत्यनुसन्धेयम्। मोक्षादितरपदार्थानामसारत्वज्ञानाभावे तेषु वैराग्यानुदयात्तच्च ग्राह्यमित्युक्तम्। तत्पदादीनामिति। मध्यमाधिकारित्वमित्यत्र ब्रह्मविद्यायां मध्यमाधिकारिभूतमृष्यादित्वमित्यर्थः।

भावबोधः

सच्छूद्रादौ व्याप्तेरिति। अतिव्याप्तेरित्यर्थः। यद्यपि सच्छूद्रादेर्देहान्तरे वैदिकब्रह्मविद्याधिकारसम्भवेन तेषामपि लक्ष्यत्वान्नातिव्याप्तिः। तथापि वेदविद्याधिकारशून्यतापादकशूद्रादिदेहावच्छिन्नेऽपि तस्मिन् मोक्षयोग्यत्वसत्वेनातिव्याप्तिरिति भावः। प्रायिकत्वादिति। देवानारभ्य त्रैवर्णिकमनुष्योत्तमपर्यन्तेषु बहुषु मोक्षयोग्येषु वेदविद्याधिकारस्य सत्वेनास्य मोक्षयोग्यत्वस्य प्रायिकत्वादित्यर्थः। अध्ययनलब्धापीति। ‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते’ इत्यादेरित्यर्थः। अन्याय्याध्ययनेति। अभक्तैरनधिकारिभिर्वा भक्तादिभिरप्यसमये अयोग्यपुरुषेभ्यो वा पुस्तकपाठादिना वा कृतत्वमन्याय्यत्वमध्ययनस्य। सामान्यतो ब्रह्मविद्येति। मुक्त्ययोग्यब्राह्मणादौ तद्योग्यसच्छूद्रादौ चातिव्याप्तिपरिहाराय क्रमेण पदद्वयम्।

ननु हरिभक्तिपूर्वकाध्ययनवत्त्वं कथं सामान्यलक्षणम्? मध्यमादिष्वभावात्। तत्सत्त्वेऽधिकारि-लक्षणस्यातिव्याप्त्यापत्तेरित्यतः–

भक्तियुक्तः परे विष्णौ तथाध्ययनवानपि।

अधमोऽयमिति ज्ञेय एतत्पूर्वं शमादिमान्॥

मध्यः स्याद् ब्रह्मणो विष्णोर्वशे ब्रह्मादिपूर्वकम्।

विज्ञाय भक्तिसम्पन्नः॥

इति विशेषप्रमाण उपलक्षणत्वेन एतत्पूर्वशमादिमानिति भक्तिसम्पन्न इति अधमाधिकारिलक्षणस्य मध्यमोत्तमयोरप्युक्तत्वेन तदनुसारेणाऽऽह। शमादिसंयुक्त इत्यादाविति।

ननु सर्वं सर्वत्र चेत् परस्पराव्यावृत्तत्वान्न विशेषलक्षणानीत्याशङ्क्य निरस्यति। न चैवमिति। उत्तरोक्तमिति। पूर्वस्मिन्निति शेषः। तथा चोत्तरस्मिन् मध्यम उत्तमे चोक्तानामध्ययनवत्त्वादीनां त्रयाणां गुणानां पूर्वस्मिन्नधमे वाऽप्राचुर्यादित्यर्थः। ततश्च प्रचुरतमाध्ययनादिगुणत्रयवत्वमुत्तमत्त्वम्। प्रचुरतमत्वरहितप्रचुरतराध्ययनादिमत्वं मध्यमत्वम्। प्रचुरतमत्वप्रचुरतरत्वरहिताध्ययनादिमत्वम् अधमत्वमित्युत्तमादीनां त्रयाणां लक्षणान्यनेनोक्तानि। प्रचुरत्वप्रचुरतरत्वप्रचुरतमत्वानां मधुरत्वादिवत् स्पष्टत्वादिवच्च जातिरूपत्वान्न कश्चित् क्षुद्रोपद्रवः॥

यद्वा सङ्गृहीतानुकृष्टाश्च गुणा उत्तरोक्ताः। तेषां तत्र तत्र भक्तिमानित्यादियथास्थितमूलोक्त-गुणापेक्षयाऽप्राचुर्येणेति योजना। यथास्थितमूलोक्तगुणानां च प्राचुर्यमर्थतो लभ्यम्। ततश्च यत्राध्ययनवत्त्वं प्रचुरं गुणद्वयमप्रचुरं सोऽधमः। यत्र शमादिसम्पत्तिः प्रचुरा अध्ययनवत्त्वं वैराग्यादि चाप्रचुरं स मध्यमः। यत्र विष्णुपादैकसंश्रयत्वं प्रचुरम् अध्ययनवत्त्वं शमादिसम्पत्तिश्चाप्रचुरा स उत्तम इत्यर्थः। अधमादिष्वध्ययनवत्त्वादीनां समानाधिकरणगुणद्वयापेक्षया प्राचुर्ये भक्तिमानित्यादौ तत्र तत्र तस्य तस्य गुणस्य विशिष्य वचनम् आत्मनीति मध्यमाधिकारित्वं सूचितमिति विज्ञानमित्युत्तमाधिकारित्वं सूचितमिति टीकावचनं ज्ञापकमिति ध्येयम्।

तात्पर्यचन्द्रिकायां तु समानाधिकरणानां वेदाध्ययनशमादिविष्णुपादैकसंश्रयत्वादीनां मध्ये यस्य शमादिविष्णुपादैकसंश्रयत्वादिकेऽप्रचुरेऽध्ययनं प्रचुरं सोऽधमः। यस्य विष्णुपादैकसंश्रत्वादिकमेवाप्रचुरम् अध्ययनशमादिके प्रचुरे स मध्यमः। यस्य तु विष्णुपादैकसंश्रयत्वादिकं प्रचुरमध्ययनशमादिके त्वप्रचुरे स उत्तम इत्यर्थ इत्युक्तम्।

ब्रह्मणो विष्णोर्वशे ब्रह्मादिपूर्वकं विज्ञायेति विशेषप्रमाणानुसारेण ब्रह्मेत्यादि व्याचष्टे। ब्रह्माद्यसारता नामेति। ‘विष्णुपादैकसंश्रयः’ इति मूलस्यार्थो भक्तिसम्पन्नो विष्ण्वर्थं मोक्षमर्थयमाणो मोक्षार्थं तु विष्णुः स्यादिति ज्ञानी स उत्तम इति विशेषप्रमाणानुसारेणार्थो ज्ञातव्यः। ‘नाविशेषात्’ इति सूत्रेण तत्त्रैविध्यं कुतो ब्रह्मविद्यायामित्याशङ्कापरिहार इति बोद्धव्यम्॥

तस्माच्च भगन्निष्ठबुद्धिना जितशत्रुणा।

विषयस्नेहहानेन द्वन्द्वदुःखसहिष्णुना।

यथावज्ज्ञानिना विष्णुर्जिज्ञास्यो मोक्षमिच्छता॥

इति विशेषप्रमाणानुसारेण शान्त इत्यादिश्रौतपदानि व्याचष्टे। शान्तो भगवन्निष्ठबुद्धिरित्यादिना। विद्यादिति। पश्यार्थैश्चानालोचन इति ज्ञानमात्रे तत्प्रयोगात्। अन्यथा परोक्षज्ञान एव शमादीनां हेतुत्वं लभ्येत। न ब्रह्मविद्यायामिति भावः। मध्यमाधिकारित्वं सूचितमिति। तथा चैतत्समाख्या-बलाच्छमादिसंयुक्तो मध्यम इति वाक्यस्य ब्रह्मविद्यायामेव मध्यमाधिकारिप्रतिपादकत्वं सिद्ध्यतीति भावः। उत्तमाधिकारित्वं सूचितमित्यस्याप्ययमेवाभिपायः।

तस्मान्नित्यमनित्यं वा ज्ञात्वाऽसारमनर्थकम्।

तस्मान्निर्वेदमापन्नः प्रपद्येत गुरुम् ऋजुम्॥

इति विशेषप्रमाणानुसारेण श्रुतिं व्याचष्टे। लोकान् विष्णुलोकेतरानित्यादिना। ‘यथा भक्त्या हरिस्तुष्टः प्रसीदति तया युतः’ इति विशेषप्रमाणानुसारेण श्रुतिं व्याचष्टे। तस्य प्रसन्नो भवतीति। प्रकाशयतीति। श्रवणादिज्ञानविषयं करोतीत्यर्थः।

यथा विष्णौ परा भक्तिर्यथायोग्यं गुरावपि।

कर्तव्या परमं ब्रह्म तत्त्वं तस्य प्रकाशते॥

इति विशेषप्रमाणानुसारेण श्रुत्यभिप्रायमाह। सा च भक्तिरिति। अनेन देवे विष्णौ परा सर्वाधिका भक्तिः। तथा देवे तदितरदेवेषु गुरावन्येषु स्वोत्तमेषु च। यथा यथायोग्यं भक्तिर्यस्य तस्येति वाक्यं योजितं भवति।

वेदाध्ययनहीना ये स्त्रीशूद्रान्त्यजपूर्वकाः।

तेषां मुक्तिः कथं ब्रह्यंस्तैर्जिज्ञास्यो हरिः कथम्॥

इति प्रमाणानुसारेण व्योमसंहितायामित्यादिभाष्यमवतारयति। नन्वध्ययनेति। वर्णबाह्या इति। तेन म्लेच्छादीनां सङ्ग्रह इति भावः। सपत्नीं म इति। तदधिकाराभावे तद्द्रष्टृत्वं कथं स्यादिति भावः।

देव्यो मुनिस्त्रियश्चैव नरादिकुलजा अपि।

उत्तमा इति विज्ञेयाः॥

इति भारततात्पर्यनिर्णयानुसारेणाह। तथा परा इति। नरादिकुलजाश्चेति। शच्याद्या इत्यर्थः। यदर्थं ब्रह्मजिज्ञासाविधिः स मोक्ष एव मा भूद् अनपेक्षितत्वादित्यत उक्तम्। सुखमेव मे स्यादिति।

विना हरिप्रसादं न मोक्षो भवति कर्हिचित्।

प्रसादोऽपि तदा तस्य यदा चास्यापरोक्षता।

विना वै ब्रह्मजिज्ञासां नापरोक्षं क्वचिद्भवेत्॥

इति विशेषप्रमाणानुसारेण भाष्ये ‘ज्ञान’पदमपरोक्षज्ञानपरम्। ‘प्रसादः’ इत्यनन्तरं न च ब्रह्मजिज्ञासां विना ज्ञानमित्यध्याहारश्च। अन्यथा भाष्ये अतो ब्रह्मजिज्ञासा इत्यस्यासङ्गत्यापत्तेः। ‘आत्मा वाऽरे द्रष्टव्यः’ इत्यादिप्रमाणोदाहरणानुपयोगाच्चेत्यभिप्रेत्य तद्व्याचष्टे। मोक्षस्येत्यादिना। ‘जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते’ इत्यनुव्याख्यानानुसारेण अतो ब्रह्मजिज्ञासा इत्येतद्व्याचष्टे। अत्यर्थप्रसादद्वारेति। ‘तद्विजिज्ञासस्व, तद्ब्रह्म’ इति ब्रह्मशब्देन गुणपूर्णतोक्तेर्नानुभवसिद्धाल्पगुण-जीवाभेदः। ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतेरिति न्यायविवरणं मूलीकृत्य सिद्धान्तमाह। यदुक्तमित्यादिना। देशाद्यपरिच्छेदेनेति। अङ्गीकारवादोऽयम्। ब्रह्मपदव्याख्यानरूपं नारायणपदमिति। अत्र गुणपरिपूर्णतावाचिना नारायणपदेन सौत्रब्रह्मपदव्याख्यानमुक्तसिद्धान्तज्ञापनार्थम्। अन्यथा यतो ब्रह्मप्रसादमित्येवावक्ष्यत्। व्याख्यानव्याख्येयभावज्ञापनार्थमेवातो ब्रह्मजिज्ञासेति ब्रह्मपदप्रयोगः। अन्यथा तत्रापि नारायणपदप्रयोगः स्यादिति भावः।

भावदीपः

॥ अनेनेति॥ मोक्षाधिकारिणस्त्रिविधा इति वचनेन मुक्तियोग्यत्वं जिज्ञासामात्राधिकारिलक्षणं लब्धमित्यर्थः॥ व्याप्तेरिति॥ व्याप्तिर्व्यापनम्। यस्य व्यापनं लक्ष्यमात्रेऽस्ति तद्धि लक्षणं यो धर्मो लक्ष्ये व्याप्त्या वर्तत इत्युक्तेः। अस्य च मुक्तियोग्यत्वस्य व्याप्तिस्तु सच्छूद्रे असमर्थेषु अनर्थि-ष्विदानीन्तनपशुपक्ष्यादिष्वलक्ष्यभूतेषु बाहुल्येन वर्तत इति व्याप्तेः प्रायिकत्वादित्युक्तम्। विदुरधर्म-व्याधजरितर्यादौ ब्रह्मविद्याधिकारदृष्ट्या तत्र व्याप्तिरिष्टैवेत्यतः प्रायिकत्वादित्युक्तम्। तानति-क्रम्यानुत्पन्नज्ञानेष्वपि बाहुल्येन वर्तमानत्वादित्यर्थः। सच्छूद्रादेर्देहान्तरे वैदिकब्रह्मविद्याधिकारेऽपि नैतद्देहेऽधिकारः। देहान्तरेऽधिकारश्च नेदानीं प्रवृत्त्युपयोगीत्यरुच्येत्यर्थः॥ प्रकारान्तरेणाधिकारि-स्वरूपमिति॥ एतच्च वेदजिज्ञासारूपजिज्ञासाविशेषाभिप्रायम्। ननु मुक्तियोग्यत्वमेवाधिकारिलक्षणमस्तु। शुगस्येति वक्ष्यमाणापशूद्राधिकरणन्यायेनाधिकारस्य त्रैवर्णिकमात्रपर्यवसानोपपत्तेः। व्यर्थश्चायमथशब्दः। जीवान्यविषयार्पकब्रह्मपदेनैव मुमुक्षुमात्राधिकारिणस्तदपशूद्रत्वस्यापशूद्रनयन्यायेनैव लाभसम्भवात्। तत्सिद्धस्यैवापशूद्राधिकारस्यात्र सूचनमित्यपि नातीवतुष्टिकरम्। तथान्यो गुणपूर्वक इत्यादिभाष्यं च व्यर्थम्। अरुच्येत्यादिटीका चायुक्तेति कस्यचिच्चोद्यमयुक्तम्। त्वदुक्तदिशा त्रैवर्णिकाधिकारलाभेऽपि त्रैवर्णिकेष्वपि केषाञ्चिदनधिकारिणां भावेन तत्परिवर्जनस्यापशूद्रनयेनाप्राप्तेः। अध्ययनमात्रवत इत्यधिकरणे तादृशाधिकारविशेषस्य प्राप्तत्वेऽपि तस्यैवेह तथान्यो गुणपूर्वक इत्यादिभाष्येण विविच्य कीर्तनात्। श्रोतृप्रवृत्तिसौकर्याय वक्ष्यमाणस्यैवादावथपदेन निर्देशोपपत्तेश्चेत्यथशब्दोऽर्थवानेव। भाष्यं चार्थवत्। तदेतदाह। सच्छूद्रादावित्यादिपदेन। अन्यथा सच्छूद्र इत्येवावक्ष्यत्। तथा च त्रैवर्णिकमात्राधिकारि-कत्वेऽपि अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते। गुरुभक्तिविहीनस्य शमादिरहितस्य चेत्यादिप्रमाण-विरोधान्मुक्तियोग्यत्रैवर्णिकमात्रमपि न वेदजिज्ञासाधिकारि। किन्तु राजसूयादौ राजत्वादिमानिव तथान्य इत्यादिवचनसिद्धशान्त्यादिमानपीति वक्तुं प्रकारान्तरेणाधिकारि स्वरूपमाहेति टीकार्थो बोध्यः॥ अध्ययनलब्धापीति॥ अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते। गुरुभक्तिविहीनस्य शमादिरहितस्य च॥ न च वर्णावरस्यापीत्यध्ययनमात्रवत इत्यत्र भाष्योक्तदिशेति भावः। भक्तिरित्युपलक्षणम्। अध्ययनवानित्यस्याग्रेऽप्यन्वयात्। अध्ययनलब्धोऽपि शमादिरित्यपि ध्येयम्॥

अन्याय्येति। अभक्तानधिकारिकृतत्वादिकमन्याय्यत्वम्॥ हरिभक्तीति॥ शमादिकमप्यत्र ग्राह्यम्। अध्ययनशमादिवैराग्येष्वन्यतमप्राचुर्येण त्रिविधाधिकारिव्यवस्थोक्तिरग्रेतनवाक्यानुरोधात्॥ उत्तरोक्तेति॥ पूर्वपूर्वस्मिन्निति शेषः। ततश्चायमर्थः। समानाधिकरणानामध्ययनशमादिविष्णुपादैकसंश्रयत्वादीनां मध्ये यस्याध्ययनं प्रचुरमन्यदप्रचुरं सोऽधमः। यस्य विष्णुपादैकसंश्रयत्वादिकमेवाप्रचुरमध्ययनशमादिके तु प्रचुरे स मध्यमः। यस्य विष्णुपादैकसंश्रयत्वादिकमेव प्रचुरम् अध्ययनशमादिके त्वप्रचुरे स उत्तम इति। भाष्ये सन्यस्तेति विष्ण्वपितेत्यर्थः॥ तृतीय इति॥ अध्याये चतुर्थपाद इत्यर्थः। मात्रेति कार्त्स्न्यमुच्यते। यथाशक्ति कृत्स्नाध्ययनवतोऽधिकारितेत्युक्त्या कुतोऽयमधिकारो ब्रह्मविद्यायामिति शङ्काऽपास्ता। सा चाधिकारिता देवादीनामविशेषान्न भवति। अविशेषेण न भवति। एकरूपा न भवति। अविशेषात्। ज्ञानादेरप्यविशेषप्रसङ्गात्। स च प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तमित्यत्र निरस्त इति नाविशेषादित्यनेन तत्त्रैविध्यं च कुत इति शङ्काऽपास्तेति भावः। ब्रह्मविद्यायां श्रवणादि-रूपायाम्॥ श्रुत्येति॥ विस्पष्टं विवक्षितसर्वार्थलाभात्स्मृतिः पूर्वमुक्तेति भावः। अत्रैके कानि-चिद्वचनान्युदाहृत्य तदनुरोधेन टीकायां श्रुत्यर्थोक्तिरित्याहुः। तानि चाचार्यैर्न क्वाप्युदाहृतानीति केचिन्न श्रद्धधते। अन्ये त्वाचार्यानुदाहृतत्वेऽपि पञ्चरात्रपञ्चाधिकरणीसूत्रभावविवृतिपरभारद्वाजसंहितादौ पठ्यमानत्वाददोष इत्याहुः। शमो मन्निष्ठता बुद्धेरित्येकादशस्कन्धोक्तेराह॥ भगवन्निष्ठेति॥ वैष्णवसिद्धान्तादचलनमित्यर्थ इति तत्वप्रदीपे। पश्येदित्युक्त्या शमादेरपरोक्षाङ्गत्वप्रतीत्या-प्रकृतानुपयोगमाशङ्क्यानुबन्धादिभ्य इत्यत्र तृतीये दद्याच्छमदमादींश्च तेन चैते गुणाः पुनः। तैः सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेदित्यादिस्मृत्यादौ वक्ष्यमाणदिशा अपरोक्षाङ्गत्वमिव प्रशान्तचित्ताय शमान्विताय प्रोवाच तां तत्वतो ब्रह्मविद्यामित्यादौ श्रवणादिरूपब्रह्मविद्याङ्गत्वमपि श्रुतमिति भावेन पश्येदिति पदं श्रवणादिरूपज्ञानमात्रार्थतया व्याचष्टे॥ विद्यादिति॥ तस्मादेवंविच्छान्त इति पूर्ववाक्ये एवंविच्छब्देन न श्रवणादिरूपं ज्ञानं विवक्षितं किन्तु तदङ्गमन्यदेव ज्ञानमिति भावः। अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेदित्येतद्व्याख्यावसरे तत्वनिर्णययीकादौ पश्यार्थैश्चानालोचन इति पाणिनीये चाक्षुषभिन्नज्ञानार्थैरित्यर्थोक्त्या दृशि धात्वादेशस्य पश्येदित्यस्य ज्ञानमात्रे प्रयोगादिति व्याख्यानादिति हृदयम्। षष्ठे काण्वशाखायां पश्यतीति पाठेऽपि तदर्थानुवादेन शाखान्तरस्थत्वेन भाष्ये पश्येदिति पाठः साधुरिति भावः॥ इति श्रुतेरिति॥ चतुर्थाध्यायतृतीयपादान्ते विशेषं च दर्शयतीत्यत्र भाष्योक्तश्रुतेरित्यर्थः॥ विवेकाद्यपीति॥ आदिपदोक्तवैराग्यद्वाराऽधिकारत्वं विवेकस्य ज्ञेयम्। न तु परमत इव वैराग्यादिवत्साक्षात्। परीक्ष्येति श्रुतौ विज्ञाय जातवैराग्य इति स्मृतौ च ल्यबन्तोक्त्या तथैव प्रतीतेः। उक्तं च पद्धत्यादौ तदेवंभूतैः प्रमाणैः पदार्थानां नित्यानित्यत्वादिकं निश्चित्य विषयेषु विरक्तस्येत्यादि। तदित्यस्यार्थस्तस्मादिति। अत्र विवेकादेः श्रवणाद्यङ्गगुरूपसत्तेः पूर्वभाव-श्रवणात् तादर्थ्यं सिद्धमिति स्फुटत्वान्नोक्तम्। भाष्ये श्रोत्रियमित्यस्य छन्दोध्यायिनमित्यर्थः॥ इत्युक्तेरिति॥ गीताभाष्ये षष्ठे अध्याय इत्यर्थः। नन्वत्रात्मन्येवेति श्रुतौ तद्विज्ञानार्थमिति श्रुतौ च मध्यमोत्तमयोर्यथाक्रमं शमादिकं विवेकादि च विशेषणं प्राप्तं न त्वाद्यायामुत्तमाधमयोरन्त्यायां मध्यमाधम-योरिति प्राप्तं तथा मध्यमोत्तमयोरध्ययनादिकं च विशेषणमिति च श्रुतिद्वयेन न प्राप्तमिति चेन्न। ब्रह्मविद्यायां शमदमादिकमङ्गमुत नेति विचारे शमदमादिकमङ्गमित्येव वक्तुं प्रवृत्तत्वाच्छ्रुतिद्वयस्य। अत एव टीकायां शमादिसंयुक्तता च ब्रह्मविद्यायामेवाधिकार इत्येवोक्तम्। अध्ययनादिकं तु पूर्वोक्तविशेषस्मृतिबलादुपलक्षणत्वेन ग्राह्यम्। शमादेर्विवेकादेश्च स्वशब्देनोक्तिस्तु श्रुतिद्वये मध्यमोत्तमयोः स्वगतधर्मेष्वध्ययनादिषु यथाक्रमं शमादेर्विवेकादेः प्राचुर्याभिप्रायेण। अत एव श्रुतिबलात्प्राचीनस्मृतिरपि ब्रह्मविद्याधिकारपरेति द्वयोरप्यन्योन्यसाहाय्येन विवक्षितार्थे साधकत्वात् श्रुतिस्मृत्योर्द्वयोरप्युक्तिर्भाष्ये अर्थवतीति भावः। भक्त्यैव वृणुते विष्णुर्भक्त्या दद्यान्निजं पदम्। भक्त्यैव दृश्यते नित्यं भक्त्या भोगान्ददाति चेति पाद्मस्मृत्या अन्यत्र भाष्येऽन्यथाव्याख्यानेऽपीह प्रकृतोपयोगितया लभ्यपदेन प्रसादोऽभिमतः। विवृणुत इत्यनेन श्रवणादिजन्यप्रकाशविषयं स्वां तनुं करोतीत्यर्थ इत्यभिप्रेत्याह॥ विष्णुरिति॥ वृणुते तदीयभक्त्या स्वीकरोतीत्यर्थः। ततश्च भक्तिजन्यप्रसादतश्चेत्यर्थः। परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेत्। तज्जिज्ञासादिकं कार्यमिति पूर्वोक्तदिशा श्रवणादिविषयतायामपि प्रसादस्यावश्यकत्वादिति भावः। श्रुत्यर्थं व्यञ्जयन्नेव तामवतारयति॥ सा चेति॥ परेत्यस्यार्थः सर्वाधिकेति। देवे गुरावित्येतद्बहुवचनान्तं व्याचष्टे॥ अन्येष्वपीति॥ यथायोग्येति॥ देवेषु देवयोग्या गुरौ गुरुयोग्येत्यर्थः। उक्तं च ज्ञानपादीयसुधायाम्। यथा देवे तथा गुराविति। यथा देवे देवयोग्या तथा गुरौ गुरुयोग्येत्यर्थ इति। विष्णुभक्तिर्देवभक्तिर्गुरुभक्तिस्तथैव च। तत्तच्छ्रैष्ठ्यानुसारेणेति प्रथमाध्याय-बृहद्भाष्योक्तेश्चेति ज्ञेयम्॥ ब्रह्मविद्येति॥ प्रकाशन्त इति प्रकाशपदेन ज्ञानरूपपरतत्वादिविद्योक्तेरिति भावः॥ श्रुत्याऽहेति॥ एतेन भाष्ये इत्यादिश्रुतिभिश्चेत्यस्याधिकारश्चोक्त इति पूर्वेणान्वयः सूचितः। तत्वप्रदीपे तु भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन॥ ज्ञातुं द्रष्टुं चेत्यादिस्मृतिश्चशब्दाद् गृह्यत इत्युक्तम्। व्योमसंहतियां चेतीति॥ भाष्ये व्योमसंहितायां चाधिकार उक्त इत्यन्वयः। अयमपि सौत्राथशब्दार्थ एव। ब्रह्मजिज्ञासा नाम सर्ववेदान्तनये दर्शयति चेति सूत्रभाष्यादिदिशा यथाधिकारं ब्रह्मज्ञानायाखिलवेदवेदानुसारिग्रन्थार्थविषयकश्रवणमनननिदिध्यासनादि। तत्राऽथपदेनोक्तानां मुक्ति-योग्यानां मध्ये त्रैवर्णिकानां प्रागुक्तगुणयुक्तानां सर्वत्राधिकारः। तदन्येषां तु भक्तानां वेदानुसारि-ग्रन्थार्थजिज्ञासायामेव। तत्रापि केषाञ्चिन्नाममात्रादावित्यादिरूपोऽधिकारविशेषो व्योमसंहितायामुक्त इत्यर्थः। अरुच्या प्रकारान्तरेणेत्यादिटीका तु जिज्ञासाविशेषपरा। तेनैतद्भाष्यमुत्सूत्रमिति न कस्यचिदुपालम्भावकाशः॥ वेदाधिकारेति॥ अन्यथा तद्द्रष्टृत्वं न स्यादिति भावः॥ मुनिस्त्रिय इति॥ काण्वश्रुतौ एतद्वै तदक्षरं गार्ग्येतस्य वा अक्षरस्य प्रशासने गार्गीत्यक्षरविद्यायां गार्ग्याः सम्बोधनात्। तथा आत्मा वा ओ द्रष्टव्य इत्यादावर इति मैत्रेय्याः सम्बोधनात्। तथा भवति ते व्याख्यास्यामीति मैत्रेयीं सम्बोध्य व्याचक्षाणस्य तु मे निदिध्यासस्वेति निदिध्यासनविधानादिति भावः॥ नरादिकुलजाश्चेति॥ तदुक्तं तात्पर्यनिर्णये एकोनत्रिंशेऽध्याये। देव्यो मुनिस्त्रियश्चैव नरादिकुलजा अपि। उत्तमा इति विज्ञेयाः सच्छूद्रैरप्यवैदिकम्। ज्ञेयमन्यैर्हरेर्नामेत्यादि॥ सङ्क्षेपेति॥ अथशब्दोऽधि-कारेत्यादिसङ्क्षेपः। अधिकारश्चोक्तो भागवततन्त्र इति विस्तरः। सङ्क्षेपविस्तराभ्यां च प्रवदन्ति मनीषिण इत्यादेर्भाष्यत्वाच्च द्वाभ्यामुक्तिरर्थवतीति भावः॥ व्याख्यायेति॥ ब्रह्मज्ञानहेतुजिज्ञासामात्रे योग्यत्वमधिकारः। तद्विशेषे तु तद्विशेष इत्यर्थतया व्याख्यायेत्यर्थः। अनिर्वचनीयाविद्यानिवृत्तिरूपमोक्षस्य ज्ञानादेव सिद्धेः किं प्रसादेनेत्यतो वा गौतमाद्यभिमतैकविंशतिदुःखध्वंसादिरूपस्य मोक्षस्य पुरुषैरर्थ्यमानत्वरूपपुमर्थत्वाभावेन तदुद्देशेन जिज्ञासायाः कर्तव्यत्वायोगादित्यतो वा कर्मासाध्यत्वसूचनाय वा मोक्षस्वरूपं वदन्नेव वाक्यं योजयति॥ सुखमेवेति॥ सर्वाभिमतेत्युक्त्या सर्वाविवादो वाऽस्य परमपुरुषार्थत्वं वा सूचितम्। तदुक्तं तत्वनिर्णयादौ। मोक्षो हि सर्वपुरुषार्थोत्तम इत्यादि। अन्यत्रापि न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचिदित्यादि। परोक्तमोक्षस्वरूपे तु न सर्वाभिमतिरस्तीति तन्न मोक्षस्वरूपं किन्तु दुःखनिवृत्तिविशिष्टसुखावाप्तिरूपमेवेति भावः। उपर्यत्यर्थेति भाष्यानुवादात्पूर्वत्रापि तथा ज्ञेयमिति भावेनोक्तम्॥ नारायणात्यर्थेति॥ अत्यर्थप्रसादस्य चेति॥ एतेन भाष्येऽत्यर्थ-प्रसादश्चेति चकारान्वयः। ज्ञानपदं चापरोक्षपरम्। अपरोक्षज्ञानस्य चेत्यादिशेषश्च ज्ञेय इति दर्शितम्। जिज्ञासां श्रवणमनननिदिध्यासनरूपाम्। जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यत इत्यनुभाष्योक्तेः। अत्राप्यग्रे सर्वस्योक्तस्य भाष्ये यथाक्रमं स्पष्टयिष्यमाणत्वाच्चेति भावः। भाष्यस्थातःशब्दार्थमाह॥ अत्यर्थेत्यादिना उत्पादिकेत्यन्तेन हेतुगर्भविशेषणेन। पक्षधर्मताभिव्यक्त्यर्थं हेतुविभक्त्यनुक्तिः। एतेन सौत्रातःशब्दस्य सर्वनामत्वात्प्रकृतस्य हेतुत्ववाचकेनातःशब्देन कथमेता-वल्लभ्यम्। अथशब्दोक्ताधिकारिविशेषणत्वेन मोक्षस्येच्छाविषयतया प्रकृतत्वेऽपि तं प्रति नारायण-प्रसादसाधनत्वादेरप्रकृतत्वेन तस्यात इत्यत्र प्रातिपदिकेन परामर्शासम्भवेन तस्य जिज्ञासाकर्तव्यतायां हेतुत्वस्य तसिल्प्रत्ययरूपविभक्त्योगादिति चोद्यं निरस्तम्। सूत्रे अथशब्दानन्तरमतःशब्दात्पूर्वं नारायणेत्यादिवाक्यस्य भाष्यकृताऽध्याहृतत्वेन मोक्षहेतुप्रसादजनकज्ञानोत्पादकत्वस्य प्रकृतत्वसम्भवेनात इत्यत्राकाररूपप्रातिपदिकेनोक्तरूपोत्पादकत्वं परामृश्य पञ्चम्यास्तसिलित्युक्ततसिल्प्रत्ययेन तस्य हेतुत्वं जिज्ञासां प्रति वक्तुं शक्यते। तादृशज्ञानोत्पादकत्वाज्जिज्ञासा कर्तव्येति। न चैवमध्याहारो निष्प्रमाणकः। यत्रानवसरोऽन्यत्रेति वक्ष्यमाणमूलकत्वादस्याध्याहारस्य। अत एव तत्र वाक्यं चेत्युक्तम्। अत एव च मोक्षप्रसादज्ञानजिज्ञासानामुत्तरोत्तरेण विना पूर्वपूर्वस्याघटनोक्ता भाष्ये। तमेवमित्यादिवक्ष्यमाणप्रमाण-सिद्धत्वाच्चेति॥

नन्वेतदयुक्तम्। मुक्त्यर्थिरूपाधिकारिसामान्ये सिद्धे सति तस्य मुक्तियोग्यत्वाध्ययनश-मदमादिरूपविशेषणमर्पयितुमथपदम्। सिद्धे च मोक्षफले प्रसादादिद्वारा तद्धेतुत्वार्पकमतःपदम्। न चैतदस्ति। अहमर्थान्यविषयाभावात्तस्मिंश्चाहमिति ज्ञायमानेऽपि मोक्षानुपलम्भात्प्रयोजनं नास्ति। तदभावान्नाधिकारीत्युक्तत्वादित्यतस्सर्वमेतद्विषयाभावमूलम्। विषयसत्वे तु तज्ज्ञानान्मोक्षस्तदिच्छुरधिकारी च सिद्ध्यतीति भावेन जीवान्यविषयप्रदर्शनपरसौत्रब्रह्मपदव्याख्यानार्थं प्रवृत्तं ब्रह्मशब्देन गुणपूर्ण-त्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेद इत्यादि न्यायविवरणं विवृण्वानः पूर्वपक्षं निराह॥ यदुक्तमित्यादिना॥ एतेन ग्रन्थान्तरोक्तपूर्वोत्तरपक्षयोरत्र प्रपञ्चनं निर्बीजमिति प्रत्युक्तम्। ब्रह्मपदेन विषयार्पणप्रकारस्यान्यत्रोक्तस्यात्रानुसन्धानेऽथातःपदव्याख्यानस्यात्र प्रकृतेनान्वयाद्बुद्धिसौकर्याच्च। अत एव सङ्गम्यन्ते गुरोर्गिर इति पूर्वप्रतिज्ञापि युक्तेति। प्रयोगेणेत्युक्तं व्यनक्ति॥ श्रवणादिति॥ न्यायविवरणोक्तश्रुतिमेवाह॥ अथेति॥ उच्यते विष्णुरित्यर्थः॥ न चेति॥ तथा च न जीवभेद-सिद्धिरिति भावः॥ देशेति॥ सा चास्त्यध्यस्तगुणेऽपि ब्रह्मणीत्यब्रह्मतापत्तिर्नेति भावः॥ उक्तेति॥ श्रुतिरध्यस्तगुणपरेति चेन्न। निर्दोषत्वेन सिद्धप्रामाण्यभङ्गप्रसङ्गादिति दोषे सत्येव दोषान्तरमाह॥ देशेति॥ वक्ष्यमाणत्वादिति॥ उत्क्रान्तिगत्यागतीनामित्यत्र द्वितीयस्य तृतीयपादे तत्र सोऽस्माच्छरीरा-दुत्क्रम्यामुं लोकमभिगच्छति। अमुष्मादिमं लोकमित्युत्क्रमणगमनक्रियावत्त्वहेतुनाऽणुत्वस्य वक्ष्यमाणत्वादित्यर्थः। न चैतदभेदवादिमते पूर्वपक्षसूत्रं चन्द्रिकायां निरस्तत्वात्। न्यायामृते जीवाणुत्वस्य जीवाणुत्ववादे समर्थनाच्च। यदुक्तमित्यादिनोक्तमर्थं भाष्यारूढं दर्शयन्नतो ब्रह्मजिज्ञासेत्युपसंहारभाष्यं प्रकारान्तरेण व्याचष्टे॥ अत इति॥ जिज्ञास्ये ब्रह्मपदश्रवणादिति प्रागुक्तहेतुपरामर्शित्वमेकोऽर्थः। अस्मिन्नर्थे तद्भिन्नेति साध्येनान्वयः॥ अर्थान्तरं चाह॥ जीवस्येत्यादिना सम्भवादित्यन्तेन॥ एतेन भाष्ये अत इत्यस्यावृत्तिर् आद्यस्य जीवभेदकगुणपूर्तिवाचिब्रह्मपदश्रवणादित्यर्थः। अन्यस्य तु जीवस्येत्यादिरर्थ इति सूचितम्। बुद्धिस्थपरामर्शित्वादतःशब्दस्य। इतिशब्दो वाक्यव्याख्यासमाप्तौ।

ननु मुक्तिहेतुनारायणप्रसादस्य ज्ञानद्वारा जिज्ञासाजन्यत्वे तज्जिज्ञासैव कार्या न ब्रह्मजिज्ञासा व्यधिकरणत्वात्तस्मादतो ब्रह्मजिज्ञासेत्ययुक्तमित्यत आह॥ ब्रह्मपदेति॥ नारायणपदस्य गुणपूर्त्यर्थताया आद्यपद्यव्याख्यायामभिधानात्। दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः॥ गुणा नारा इति ज्ञेयास्तद्वान्नारायणः स्मृतः॥ ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययमित्याद्यनुभाष्योक्तेश्चेति भावः। तेन नारायणोऽसौ परमो विचिन्त्य इत्यादिश्रुतिस्सूचिता। भाष्ये इत्यादिश्रुतिस्मृतिभ्य इति वक्ष्यमाणस्य यतो नारायणप्रसादमृते इत्यनेनान्वयात्।

अभिनवचन्द्रिका

अनेनेति॥ ‘तत्र मन्दा मनुष्ये’ष्वित्यादिना मोक्षयोग्येतरावृत्तिविशेषलक्षणत्रयकथनेनेत्यर्थः। अस्य चेति॥ ‘सच्छूद्रादा’वित्यतः परं ‘सत्त्वेने’ति शेषः। ततश्चैवं योजना – अस्य सामान्यलक्षणस्य मनुष्योत्तमादिविशेषलक्षणस्य च ‘नाग्निर्न यज्ञो न वेदो न व्रतानी’त्यादिना वैदिकविद्याधिकार-रूपसाध्यस्यापवादविषये शूद्रादौ सत्त्वेन व्याप्तेः प्रायिकत्वाद् औत्सर्गिकत्वाद् अपवादविषयं परित्यज्य साध्यानुमितिजनकत्वेन प्रतिपत्तिगौरवमित्यरुच्या प्रकारान्तरेणाधिकारिणः स्वरूपं प्रमाणोदाहरण-मुखेनाहाऽऽचार्यो भाष्यकार इत्यर्थः। नन्वेवं सति कथं दुष्टस्य लक्षणस्य स्वीकारः कृत इति चेन् न। दोषस्याल्पत्वेन स्वीकारसम्भवात्। तदुक्तं महाभाष्ये ‘न हि दोषाः सन्तीति परिभाषा न कर्तव्या लक्षणं वा न प्रणेयम्, न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, न हि मृगाः सन्तीति यवा नोप्यन्त’ इति। भाष्ये– इति जातिकृतो भेद इति॥ भेदो विभागः। अस्मिन् कल्पे देवा उत्तमगणस्थाः। ऋषिगन्धर्वा मध्यमाः। उत्तरपक्षे तु विज्ञानशून्या अन्तःप्रकाशा एव ऋषयो मध्यमाः। विज्ञानवन्तो गन्धर्वाः। विशिष्टऋषयो देवाश्चोत्तमगणस्था इति विवेकः। एतेन – भेदस्यैकत्वाद् अन्य इत्यनुपपन्नमिति परास्तम्। ननु भक्तिरध्ययनाङ्गम्। अध्ययनमेव अधिकारिलक्षणम्। तथा च ‘भक्तिमान् परमे विष्णा’विति श्लोकेऽध्ययनमेव लक्षणत्वेन वाच्यम्। न तु भक्तिरपि तत्समकक्षतया ग्राह्या व्यर्थत्वादित्यत आह– अध्ययनलब्धापीति॥ अध्ययनेन लब्धा अध्ययनाङ्गमिति यावत्। अयं भावः – सत्यमध्ययनमेव ब्रह्मविद्याधिकारिणो लक्षणं तथापि अलक्षणव्यावृत्तमेव लक्षणं लक्ष्यनिर्धारणस्येष्टे नाऽव्यावृत्तमिति लक्षणभूताध्ययनस्याऽऽभासव्यावृत्युपयोग्यध्ययन-जन्याऽतिशययोगित्वलक्षणविशेषसंपत्तय एव भक्तिः पृथगुक्ता। न तु लक्ष्यस्य अलक्ष्यव्यावृत्युपयोगि-तयेति। अत एव ‘हरिभक्तिपूर्वकाध्ययनवत्त्वं ब्रह्मविद्याधिकार’ इत्युक्तं भवतीत्युक्तम्। अन्यथा– हरिभक्तिमत्त्वे सति अध्ययनवत्त्वं ब्रह्मविद्याधिकार इत्यवक्ष्यत्। या तु भक्तिः ‘विष्णुपादैकसंश्रया’ इत्यनेनोक्ता सा अधिकार एव न तु तदप्यध्ययनविशेषणम्। यद्वक्ष्यति ‘विष्णुभक्तिरपि ब्रह्मविद्याया-मधिकार इति श्रुत्याऽऽहे’ति। ननु– न भक्तिरध्ययनाङ्गम्। भक्तिशून्यानामपि दुर्योधनादीनामध्ययन-दर्शनात्। अन्यायाध्ययनमेतदिति चेत्। महानुभावद्रोणस्य अनधिकार्यध्यापनप्रवृत्त्ययोगात्। अन्यथा– कर्णस्याप्यध्यापनप्रसङ्गः। अभक्तस्यैव विरोचनस्य चतुर्मुखादध्ययनदर्शनाच्च। अध्ययनाय ‘अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीते’ति संस्कारपरामर्शवद् भक्तेरपरामर्शाच्च, इति चेत्, सत्यम् – न भक्तिर् वर्णवद् अध्ययनमात्राङ्गम्। किन्तु– तत्वज्ञानाङ्गाऽध्यापनाङ्गम्। एवं च– द्रोणादीनाम-भक्ताऽध्यापनप्रवृत्तिरुपपन्ना भवति।

कथं तर्हि – ‘विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि। अनार्यकायाऽनृजवे शठाय न मां ब्रूया वीर्यवती तथा स्या’मिति विद्यादेवताप्रार्थनमिति चेत्, नेदमध्यापनपरित्याजनाय प्रार्थनम्। किं तर्हि व्याख्याननिषेधाय। अवश्यं चैतदेवं विज्ञेयम्। अन्यथा – अभक्तानामध्ययनशून्यत्वेन तेषां वेदवाक्येन मिथ्याज्ञानं न स्यात्। न स्याच्चाभक्तानां मिथ्याज्ञानजननाय ‘तत्त्वमसी’त्यादि-व्यामिश्रोक्तिः। एतदेवाभिप्रेत्य अन्यायाध्ययनव्यावृत्त्यर्थं पृथुगुक्तेति उक्तम्। अन्यथा हरिभक्तिकृता-न्यायाध्ययनव्यावृत्त्यभावेन अन्यायाध्ययन व्यावृत्त्यर्थमित्युक्तमयुक्तं स्यात्। अन्यायाध्ययनशब्दे अभक्तत्रिवर्णकृतमिथ्याज्ञानपर्यवसिताध्ययनग्रहणे तु न दोषो भवति भक्तिपदेन तद्व्यावृत्तिसम्भवात्। एवं च कर्णाध्यापननिवृत्तिरप्युपपद्यते। अध्ययनमात्राङ्गसंस्कारशून्यत्वात्। अत एव संस्कारपरामर्शोऽपि युज्यत इति न किञ्चिदत्रानुपपन्नमस्तीति। ननु किं शमादिसल्लक्षणमधमादीनां स्वरूपभूतम्। उत आगन्तुकम्। नाद्य आनन्दतारतम्यविधायकतैत्तिरीयश्रुतावुपलक्षणतया आनन्दस्य गृहीतत्वेन एकवृत्ति-सर्वगुणानां साम्यात्। समानाधिकरणगुणान्तरोत्कर्षासम्भवेनासम्भवात्। न द्वितीयः। संसारदशायां कदाचित्सुखस्य। कदाचिद् दुःखस्य प्राचुर्यवद् अधम एव कदाचिच्छमादेः कदाचिद्विष्णुपादैक-संश्रयत्वादेः प्राचुर्यसम्भवात् समानाधिकरणगुणोत्कर्षसम्भवेन मध्यमोत्तमलक्षणयोरतिव्याप्तेः। एवमधमलक्षणस्यातिव्याप्तिर्द्रष्टव्येति चेत्, यथेच्छसि तथास्तु। अस्तु तावदाद्यः पक्षः। ननु चोक्तम-सम्भव इति न। अधमादिगतानामध्ययनादिगुणानां ‘यथाऽऽनन्दे तथा ज्ञाने विष्णुभक्तौ बलादिके। सर्वैर्गुणैः शतगुणाः क्रमेणोक्ते न तेऽखिला’ इति प्रमाणानुसारेण साम्येऽपि प्राचुर्यस्यापि भावात्। कथं तर्हि न व्याहतिरिति चेत्। न प्राचुर्यपदेन शमादिगतस्पष्टत्वस्यैव विवक्षितत्वात्। जगद्विषये लक्ष्मीज्ञानसमानविषयस्यापीश्वरज्ञानस्य एवंरूपातिशयदर्शनात्। तदुक्तम्–

‘अथवा सहस्रगुणिता अनन्तगुणितास्तथा।

परिमाणे शतगुणेत्यानन्दस्फुटतावशात्’॥ इति।

अथवा पुनरस्तु द्वितीयः। ननु चोक्तमतिव्याप्तिरिति, स्यादयं दोषः यदि प्राचुर्यपदेन परिमाणाधिक्यं सङ्ख्याप्रकर्षं वा ब्रूमः। न चैवं, किं नाम स्पष्टत्वमात्रम्। तथा च अधमे संसारदशायां किञ्चि-च्छमाधिक्येऽपि अल्पसुवर्णाधिकस्यापि कांस्यस्य स्पष्टत्वाभाववत् शमे स्पष्टताभावाद् अध्ययन एव तद्भावान् न कश्चिद्दोष इति। एतेन न्यूनशमाद्यधिकायुक्तेति मध्यमलक्षणमुपपन्नम्। तस्य प्रमाणप्रमितत्वेन उत्तमाधमयोः सत्त्वादतिव्याप्तेः। नापि ‘आब्रह्मस्तम्बपर्यन्त’मित्याद्युत्तमलक्षणम्। तस्यापि अधममध्यमयोस्सत्त्वेनातिव्याप्तेः। नापि ‘भक्तिमान्परमे विष्णा’ वित्यादि अधमलक्षणम्। तस्य सामान्यलक्षणत्वेन मध्यमोत्तमयोस्सत्त्वादतिव्याप्तेरित्यत आह – शमादिसंयुक्त इत्यादाविति। आदिपदेनोत्तमग्रहणम्। ततश्च मध्यमोत्तमलक्षणयोर् अधमलक्षणसङ्ग्रह इत्यर्थः।

पूर्वत्र चेति। अधमलक्षणे मध्यमलक्षणस्यानुकर्ष इत्यर्थः। एवमपि प्रागुक्तातिव्याप्तिर् न परिहृतेत्याशङ्क्य निषेधति – न चेति॥ उत्तरोक्तेति॥ अधममध्यमोत्तमानां लक्षणोक्तिसमये गृहीतानां प्राचुर्यम्। उत्तरकाले च अनुवृत्त्या, आकर्षणेन वा, उक्तानामप्राचुर्येण असाङ्कर्यमित्यर्थः। शमादीत्यत्र प्रचुरशमस्यैव लक्षणत्वं, पूर्वोक्तानुवृत्तिकथनं तु प्राचुर्यनिरूपणाय। आदिपदोक्तानां दमादीनामपि प्रत्येकलक्षणत्वम्। एवमुत्तमस्य बहून्येव लक्षणानीति ध्येयम्। ततश्च स्वसमानाधिकरण-शमप्रचुराध्ययनवत्त्वमधमत्वम्। स्वसमानाधिकरणाध्ययनप्रचुरशमवत्त्वं मध्यमत्वम्। स्वसमानाधिकरणा-ध्ययनप्रचुरवैराग्यवत्त्वमुत्तमत्वम्।

एवमन्यान्यपि लक्षणानि द्रष्टव्यानि। यद्यपि सर्वेषामपि अध्यायनशमादिवैराग्यविष्णुपादैकसंश्रय-त्वादीनि सन्ति, तथापि प्राचुर्यानिरूपणाय एकोपादानेन कृतत्वान् न तानि विशेषणानि विवक्षितानि। एतेन– ननु स्वसमानाधिकरणगुणेषु प्रचुराध्ययनवतोऽधमाच्छतगुणाधिकस्य मध्यमस्याऽध्ययनाधिक्यमेव न्याय्यम्। सहस्त्राश्वैकगजवतो देवदत्ताद् द्विगुणैश्वर्यवान् यज्ञदत्त इत्युक्ते द्विसहस्त्राश्वानां गजद्वयस्य च प्रतीतेर् एवमुत्तमेऽपीति निरस्तम्। यद्यपि सत्तर्कदीपावल्यां विष्णुभक्तिमत्त्वे सति अद्ययनवतामपि शमदमादिराहित्यसाहित्यवशान् मंदमध्योत्तमभेदविशेषित एव जिज्ञासाधिकार इत्युक्तत्वात्। सर्वत्र शमादिसाहित्यं प्रतिपादयतष् टीकाकृतस् तद्विरोधः प्रतीयते। तथापि नासौ वास्तवतविरोधः। ‘अल्पस्वे निस्व’ इत्यादिप्रतिपादनवद् अस्पष्टे नास्तीति प्रयोगदर्शनात्, शमादीनामस्पष्टत्वाभिप्रायेणैव शमादिराहित्यस्योक्तत्वात्।

चन्द्रिकायान्तु समानाधिकरणानां वेदाध्यनशमादिविष्णुपादसंश्रयत्वानां मध्ये यस्य शमादिविष्णु-पादैकसंश्रयत्वादिके अप्रचुरेऽध्ययनन्तु प्रचुरं सोऽधमः। यस्य विष्णुपादैकसंश्रयत्वादिकं प्रचुरम्, अध्ययनशमादिमत्त्वे अप्रचुरे स उत्तम इत्युक्तम्। तत्र लक्षणेषु स्वरूपकथनायैव विशेषणानि प्रयुक्तानि न त्वतिव्याप्तिपरिहाराय। अतो न पदकृत्यचिन्तया क्लेशः कार्यः।

यथा योग्येति॥ भिन्ने एवैते पदे। अन्येषु ब्रह्मादिषु यथा=येन प्रकारेण। अनुष्ठिता योग्या= तत्तत्स्वरूपानुसारिणी स्यात्, तथा कृता भक्तिर् ब्रह्मविद्योपयोगिनीत्यर्थः। एतेन अव्ययीभावत्वाद् यथायोग्यमिति भाव्यमिति परास्तम्। भाष्ये– ‘यस्य देवेपरा भक्ति’रिति॥ आद्यो देवशब्द परब्रह्म-वाचकः द्वितीयस्तु ब्रह्मादिपरः। ततश्चैवं योजना – यस्याधिकारिणः देवेपरा=सर्वोत्कृष्टा भक्तिः, देवे=देवेषु, ब्रह्मादिषु, यथा=योग्यतानुसारेण गुरावपि यथा – योग्यतानुसारेणैवेति। भाष्ये – स्त्रीशूद्रेति॥ तन्त्रोत्पाद्यविद्यायां भक्तिविशिष्टे श्रवणेऽधिकार इति भावः। स्त्रीशूद्रादीनां न तन्त्रोत्पाद्य-सर्वज्ञानाधिकारः किन्तु एकदेश इत्याह– एकदेश इति॥ परोक्ते=परं प्रत्युक्ते उपसर्जनतया श्रवणाधिकार इति भावः। न तु ग्रन्थेति॥ ग्रन्थो वेदः। वेदमनूद्य व्याख्यानपरे श्रुतिगीतादौ नाधिकारः किन्तु वेदसंवादिपञ्चरात्रादेर्भागविशेष इति भावः। त्रैवर्णिकानामिति॥ वेदोक्ते वेदप्रवचनोत्पादिते भक्तेस्सम्यक्त्वं नाम अध्ययनसाहित्यम्। अयमत्र समुदायार्थः – मोक्षसाधनीभूतं ज्ञानं त्रिविधम् – नामार्थज्ञानं, तन्त्रैकदेशार्थज्ञानं, वेदार्थज्ञानं चेति। तत्राद्ये भक्तिरेवाधिकारः। द्वितीये भक्तिविशिष्टो वर्णः। तृतीये तु – भक्तिपूर्वकमध्ययनमिति। ननु ब्रह्मणः गुणपरिपूर्णत्वेऽपि जीवाभेदः किं न स्यादित्यत आह– टीकायां जीवस्याल्यगुणत्वेनानुभवादिति॥ विरुद्धधर्माधि-करणत्वात् तयोर्नैक्यमिति भावः। ननु विरुद्धधर्माधिकरणत्वेन भेदसाधनमनुपपन्नम्। अन्योन्याश्रयात्। तथा हि– जीवब्रह्मणोर्भेदसिद्धौ गुणपरिपूर्णत्वाल्पगुणत्वयोर्विरोधसिद्धिः, तत्सिद्धौ च तत्सिद्धिरिति चेत्,

स्यादेतत् – यदि भिन्नाधिकरणवृत्तित्वं विरोधः स्यात्, न चैवं – किं नाम परस्परविरहव्याप्यत्वं वा, परस्परविरहरूपत्वं वा। अन्यथा भूतत्वमूर्तत्वयोरपि विभिन्नाधिकरणवृत्तित्वेन विरोधः स्यात्। न स्याच्च संयोगतदत्यन्ताभावयोर् एकाधिकरणवृत्तित्वात्। तथा च गुणेषु पूर्णत्वं नाम निरवधिकत्वं, अल्पत्वं च सावधिकत्वं, अवधितदभावयोः परस्परविरहरूपत्वेन विरोधित्वात्। तद्द्वारा सावधिक-निरवधिकयोरपि विरुद्धत्वात्। तदधिकरणत्वेन जीवेश्वरयोर्भेदसिद्धिः। यद्यपि यत्र विरुद्धधर्माधिकरणत्वं तत्र भेद इति न व्याप्तिः। संयोगतदत्यन्ताभावाधिकरणे वृक्षे व्यभिचारात्। तथापि यौ विरुद्धौ तौ भेदनिर्वाह्यावित्यस्त्येव व्याप्तिः। स च भेदो न धर्मिण एवेति नियमः किन्तु कालावच्छेदकसम्बन्धा-वयवाधिकरणादीनामन्यतमस्य। प्रकृते च इतरप्रतिषेधसहितस्य विरुद्धधर्माधिकरणत्वस्य धर्मभेदसाधकत्वमिति न किञ्चिदनुपपन्नम्। ननु सुखदुःखादयोऽन्तःकरणधर्मास् तद्भेदादन्तःकरणभेदः साध्यतां, जीवेश्वरभेदे तु किमायातमिति चेत्। न। ब्रह्मानन्दस्य तत्स्वरूपत्वेन अन्तःकरणधर्मत्वा-भावात्। जीवानन्दस्यापि स्वरूपबाह्यभेदेन द्विविधत्वात्। स्वरूपानन्दमादाय भेदसाधनसम्भवात्। बाह्यस्य अन्तःकरणधर्मत्वेऽपि तत्स्वामित्वस्य जीववृत्तित्वात्, परिच्छिन्नाऽपरिच्छिन्नगुणस्वामित्वाभ्यामपि भेदसाधनसौलभ्यात्। ननु ब्रह्मणि जीवे च प्रतीयमानं पूर्णगुणत्वम् अल्पगुणत्वं च मिथ्यैव। न च मिथ्याभूतेन विरुद्धधर्माधिकरणत्वेन भावभेदः सम्भवति नागवंगत्वेन विभ्रमगोचरायाः शुक्तिकाया अपि भेदप्रसङ्गादित्यत आह – न च ब्रह्मणीति॥ गुणाध्यासो ऽल्पगुणपूर्णगुणयोरध्यासः। परमार्थत इति॥ उपलक्षणमेतत्। अजीवत्वप्रसङ्गाद् इत्यपि द्रष्टव्यम्। मायावादिना इष्टापत्तिरिति वक्तुं शक्यत्वेऽपि न पूर्वपक्षिणा तथा वक्तुं शक्यते। विशिष्टाद्वैतवादिना तेन जीवत्वब्रह्मत्वयोः पारमार्थिकत्वाङ्गीकारादिति भावः। नन्वपरिच्छिन्नपरिच्छिन्नगुणयोर्मिथ्यात्वेऽपि न जीवत्वब्रह्मत्वहानिः। सत्येन देशाद्यपरिच्छेदेन ब्रह्मत्वाङ्गीकारात्। अपरिच्छिन्नस्यापि आकाशस्य घटावच्छेदेन परिच्छिन्नत्ववद् अपरिच्छिन्नस्यापि ब्रह्मणो देहावच्छेदेन परिच्छिन्नत्वरूपजीवत्वसम्भवाद् इत्याशङ्कते– देशाद्य-परिच्छिन्नेति॥ उपलक्षणं चैतत्। शरीरावच्छिन्नता जीवतेत्यपि द्रष्टव्यम्। जीवाणुत्वस्य वक्ष्यमाणत्वादिति॥ स्वाभाविकमेव तदणुत्वं नाऽऽकाशाणुत्ववदौपाधिकमिति भावः।

वाक्यार्थमुक्तावली

अधिकारश्चोक्त इति भाष्ये तत्त्रैविध्यं चोक्तमिति भाष्यार्थः। नन्वधिकारिस्वरूपमेव तत्रोच्यते नाधिकार इत्यत उक्तमधिकारश्चेति। न केवलमधिकार्यपि तु तद्विशेषणतयाऽधिकारोऽपीत्यर्थः। तदेतदाह। अत्राधिकारिकथनेऽपीति। अनेन मोक्षयोग्यत्वमिति। मोक्षयोग्यत्वेन सामान्य-लक्षणमभिप्रेतमित्यर्थः। मोक्षाधिकारिणस्त्रिविधा इति प्रतिपादनेनेति केचित्। सच्छूद्रादौ व्याप्ते-रतिव्याप्तेरित्यर्थः। यद्यपि सच्छूद्रादेर्देहान्तरे अधिकारोऽस्ति तथापि तद्देहावच्छिन्नेऽभावादतिव्याप्ति-रित्यर्थः। कथं तर्हि इदं सामान्यलक्षणं स्यादित्यत आह। प्रायिकत्वादिति। देवानारभ्य त्रैवर्णिक-मनुष्योत्तमपर्यन्तेषु बहुषु मोक्षयोग्येषु भावान्मोक्षयोग्यत्वस्य प्रायिकत्वात्प्रायो लक्ष्यतावच्छेदकसामानाधि-करण्यात्तद्विवक्षया सामान्यलक्षणत्वोक्तिरिति भावः। यद्वा सच्छूद्रादेः शूद्रादिजन्मन्यधिकाराभावेऽपि ब्राह्मणादिजन्मसु सत्वेनाधिकारस्य प्रायिकत्वान्नातिव्यप्तिः। तद्देहावच्छेदेन लक्षणाभावादरुचिरिति भावः। अथवा न च सच्छूद्रपक्ष्यादावतिव्याप्तिरिति युक्तम्। विदुरधर्मव्याधजरितर्यादीनां लक्ष्यत्वेनाति-व्याप्तेरयुक्तेरित्यत आह। प्रायिकत्वादिति। सच्छूद्रादिषु केषुचिदतिव्याप्त्यभावेऽपीदानीन्तनस-च्छूद्रादिष्वतिव्याप्तेर्बाहुल्येन वर्तमानत्वादित्यर्थः। प्रकारान्तरेणेति। न मुक्तियोग्यत्वमेवाधिकारः। त्रैवर्णिकेतरेष्वतिव्याप्तेः। नापि मुक्तियोग्यत्वे सत्यध्ययनवत्वमात्रम्। किन्तु राजसूयादौ राजत्वादिकमिव तथान्य इत्यादिवचनसिद्धभक्त्यादिगुणविशेषोऽपि तदधिकारविशेष इति भावेन प्रकारान्तरेणेत्यर्थः। अध्ययनलब्धापीति। अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यत इति वचनादिति भावः। अयोग्येभ्यो योग्येभ्यो वा असमये वा पुस्तकादिना वा कृतत्वमन्यायत्वमध्ययनस्य। तथाच भक्तिमानित्यस्य सार्थक्ये सति भक्तिमान्परमे विष्णौ यस्त्वध्ययनवान्सोऽधिकारीत्यन्वये सति हरिभक्तिपूर्वकाध्ययनवत्वं सामान्यतो ब्रह्मविद्याधिकार इत्युक्तं भवतीति भावः। मनुष्ययोग्यब्राह्मणादौ सच्छूद्रादौ चाति-व्याप्तिपरिहाराय क्रमेण पदद्वयम्। नन्वेवं भक्तिमान्परमे विष्णौ यस्त्वध्ययनवान्नरः सोऽधिकारीत्यनेनाधम इत्येतदनन्वितं स्यात्। भक्तिमानित्यादेरधम इत्यनेनाप्यन्वये विरोधलक्षणत्वेन कथमिदं सामान्यलक्षणं स्यान्मध्यमादावभावात्। भावे वाऽधमाधिकारिलक्षणस्यातिव्याप्तिरित्यतो नैतावदेवाधमाधिकारिलक्षणम्। नापि शमादिसंयुक्तत्वमात्रं मध्यमादिलक्षणमित्यभिप्रेत्याह शमदमादिसंयुक्त इत्यादाविति। ननु सर्वं सर्वत्र चेत्परस्याव्यावृत्तत्वान्न विशेषलक्षणानीत्याशङ्क्य निरस्यति। न चैवं साङ्कर्यमिति। उत्तरोक्तेति। पूर्वत्रेति शेषः। सर्वगुणानां सर्वत्रानुवृत्तौ सिद्धायामुत्तरस्मिन्मध्यम उत्तमे चोक्तानामध्ययनवत्वादीनां त्रयाणां गुणानां पूर्वस्मिन्मध्यमेऽधमे वा प्राचुर्यमित्यर्थः। तथा च प्रचुरतमाध्ययनादिगुणत्रयवत्वमुत्तमत्वं प्रचुराध्ययनादिमत्वं मध्यमत्वम्। एतद्भिन्नाध्ययनादिमत्वमधमत्वमिति। अथवोत्तरोक्तस्य शमादेः पूर्वस्मिन्नधमादावप्राचुर्यम्। यत्र शमादिकं च प्रचुरमध्ययनवत्वं वैराग्यं चाप्रचुरं स मध्यमः। यत्र वैराग्यं प्रचुरमध्ययनं शमादिकं वाऽप्रचुरं स उत्तमः। तथा च यत्राध्ययनवत्वं प्रचुरं शमादिकं वैराग्यं वा अप्रचुरं सोऽधमः।

ननु कथं वा देवादिषु मध्यमापेक्षया शमाद्यं प्रचुरमिति चेन्न। स्वसमानाधिकरणगुणापेक्षया प्राचुर्याप्राचुर्ययोर्विवक्षितत्वादिति भावबोधे। चन्द्रिकायां तु स्वसमानाधिकरणानां वेदाध्ययनशमादिविष्णु-पादैकसंश्रयत्वादीनां मध्ये यस्य शमदमादिविष्णुपादैकसंश्रयत्वादिके अप्रचुरे अध्ययनं तु प्रचुरं सोऽधमः। यस्य विष्णुपादैकसंश्रयत्वाद्येवाप्रचुरम् अध्ययनशमादिके प्रचुरे सो मध्यमः। यस्य तु विष्णुपादैक-संश्रयत्वादिकं प्रचुरमध्ययनशमादिकमप्रचुरं स उत्तम इत्यर्थ उक्तः। अनन्तभट्टीये तु उत्तरत्र पूर्वोक्तं प्रचुरमेव पूर्वत्रोत्तरोक्तमप्रचुरम्। तथा चोत्तमाधिकारिणः सर्वं प्रचुरमित्यर्थ उक्तः। भाष्ये विष्णुपादैक-संश्रय इत्यस्य विष्ण्वर्थमर्थयन्मोक्षं न मोक्षार्थे तु विष्णुः स्यादिति ज्ञानी स उत्तम इति प्रमाणानुसारेणार्थो ज्ञेयः। सन्यस्तेत्यस्य विष्ण्वर्पितेत्यर्थः। अध्ययनमात्रवत इत्यत्र मात्रेति कृत्स्नमुच्यते। यथाशक्ति कृत्स्नाध्ययनवतोऽधिकार इत्युक्त्याऽयमधिकारो ब्रह्मविद्यायामित्येतत्कुतोऽवगम्यत इति शङ्का निरस्ता। स चाधिकारो देवादीनामविशेषादेकप्रकारेण न भवतीति नाविशेषादित्यर्थः। तेन तत्त्त्रैविध्यं कुत इति शङ्का निरस्तेति। श्रुत्येति। स्पष्टं विवक्षितसर्वार्थलाभात्स्मृतिः पूर्वेति भावः।

पश्येदित्याद्ययुक्तम्। शमदमादीनां ब्रह्मविद्याधिकारत्वे प्रमाणस्य वक्तुमुपक्रान्तत्वादपरोक्षाङ्गत्वस्य प्रकृतासङ्गतत्वादित्यतो व्याचष्टे। विद्यादिति। प्रशान्तचित्ताय शमान्विताय प्रोवाच तां तत्वतो ब्रह्मविद्यामित्यादेः शमादेर्ब्रह्मविद्याङ्गत्वश्रवणादिहापि पश्येदित्यस्य पश्यार्थश्चानालोचन इति पाणिनिवचनात्, पश्येदित्यस्य विद्यादित्यर्थ इति भावः। काण्वशाखायां पश्यतीति पाठेऽपि पश्येदिति शाखान्तरमनुसृत्य पठितम्। मध्यमाधिकारित्वं च सूचितमिति। यद्यपि पूर्वोक्तदिशा शमादिकं सर्वत्र वर्तते। तथापि मध्यमे स्वसमानाधिकरणगुणेषु शमादेः प्राचुर्यान्मध्यमाधिकारिषु शमादिकं सूचितमित्यर्थः। एवमुत्तमाधिकारित्वमित्यत्रापि विरक्तिप्राचुर्यस्यान्यत्राभावाद् विरक्तिप्राचुर्यवानुत्तम इति विज्ञानपदेन सूचितमित्यर्थः। सारासारविवेक एवादिः कारणं यस्य वैराग्यस्य तद्विवेकादि विवेकजन्यं वैराग्यमिति यावत्। स्मृतौ विज्ञाय जातवैराग्य इति श्रुतौ परीक्ष्येति ल्यबन्तोक्त्या तथैव प्रतीतेः। उक्तं च पद्धत्यादौ नित्यानित्यत्वादिकं निश्चित्य विषयेषु विरक्तस्येति। तद्विज्ञानार्थमित्यत्र तदित्यस्यार्थस्तस्मादिति। अकृत इत्यस्यार्थो नित्येति। स्वस्वरूपं प्रकाशतीति। श्रवणादिना ज्ञानविषयं करोतीत्यर्थः। वृणुत इत्यनेनेति। अभक्तस्य स्वीयतया स्वीकारायोगादिति भावः। अन्येष्वपि यथायोग्येति। एतेन यस्य देवे परा निरतिशया भक्तिर्यथा देवे देवयोग्या तथा गुरावपि गुरुयोग्या भक्तिरस्ति। तस्यैते प्रागुक्ता अर्थाः प्रकाशन्ते प्रतीयन्त इति व्याख्यातं भवति। भाष्ये इत्यादिश्रुतिभ्यश्चेत्यस्य अधिकारश्चोक्त इत्यनेनान्वयः। एवं व्योमसंहितायां चेत्यस्यापि। अयं सौत्रार्थः शब्दार्थ एव। ब्रह्मजिज्ञासा नाम वेदान्ताधिकरणदिशा गतिसामान्यसूत्रदिशा च यथाधिकारं ब्रह्मज्ञानाय वेदवेदानुसारिग्रन्थार्थविषयकश्रवणमनननिदिध्यासनानि। तत्राथपदोक्तानां मुक्तियोग्यानां मध्ये त्रैवर्णिकानां प्रागुक्तानां सर्वाधिकारः। तदितरेषां तु वेदानुसारिग्रन्थार्थजिज्ञासायामेव। तत्रापि केषांचिन्नाममात्रादावित्यादिरूपोऽधिकारिविशेषो व्योमसंहितायामुक्त इत्यर्थः। अरुच्या प्रकारान्तरेणेति टीका तु वेदश्रवणादिरूपजिज्ञासाविशेषपरा। तेनैद्भाष्यमुत्सूत्रमिति कस्यचिच्चोद्यानवकाशः। नरादि-कुलजाताः शच्याद्या इत्यर्थः। नन्वतश्शब्दस्य हेतुसामान्यपरत्वेऽपि मोक्षलक्षणप्रयोजनाख्यहेतोरिति हेतुविशेषणप्रतिपत्तिः कथमित्यतो यान्प्रति जिज्ञासा विधीयते तैरपेक्षिततया बुद्धौ परिवर्तमानस्य मोक्षस्य मोक्षयोग्यत्वलक्षणाधिकारवाचकाथशब्देन प्रस्तुतत्वाद्धेतुविशेषप्रतिपत्तिः सम्भवतीति भावेनाह। सुखमेव मे स्यादिति। यद्यपि भाष्ये मोक्षाख्यफलस्य सत्वादित्येव वक्तव्यम्। तथाप्यतश्शब्दोक्तपुरुषार्थं प्रति विहितब्रह्मजिज्ञासायाः साक्षाद्धेतुत्वासम्भवेन तद्घटनाय यावदपेक्षितं तावत्सर्वमतश्शब्दापेक्षितमेवेति भावेन यतो नारायणप्रसादमृत इत्याद्युक्तम्। अत एवोक्तं भगवतः प्रसत्या पुरुषार्थो भवतीति सूचित इति। नानुभवसिद्धाल्पगुणजीवाभेद इति न्यायविवरणं हृदि निधाय पूर्वपक्षं निराह। यदुक्तमित्यादिना। न चेति। तथा च जीवभेदसिद्धिरिति भावः। अब्रह्मत्वेति। अब्रह्मत्वश्रवणप्रसङ्गादित्यर्थः। यदि गुणा आरोपितास्तदा परमार्थतो ब्रह्मेति श्रुतिषु श्रूयते। न च तथाविधं वाक्यं वर्तते येन गुणा आरोपिताः स्युः। केवलो निर्गुणश्चेति श्रुतेरन्यपरत्वादिति भावः। यद्वा गुणारोपितस्य प्रवृत्तिनिमित्तगुणाधिकरणत्वाभावेन जिज्ञास्यस्य परमार्थतोऽब्रह्मत्वप्रसङ्ग इत्यर्थः। देशादीति। सा चाध्यस्तगुणे ब्रह्मण्यस्तीति नाब्रह्मतापत्तिरिति भावः। उक्तेति। अथ कस्मादुच्यत इत्युक्तश्रुति-विरोधादिति भावः।

ननु नोक्तश्रुतिविरोधः। देशाद्यपरिच्छेदस्यापि गुणत्वादित्यत आह। देशाद्यपरिच्छेदेन चेति। यदुक्तमित्यादिनोक्तमर्थं भाष्यारूढं दर्शयन्नतो ब्रह्मजिज्ञासेति भाष्यमुपसंहारपरतया प्रकारान्तरेण व्याचष्टे॥ अत इति। पारमार्थिकगुणपूर्तिवाचिब्रह्मशब्दश्रवणादित्यर्थः। नारायणप्रसादमृते मोक्षाभावेन तत्प्रसादार्थं नारायणजिज्ञासा कार्या। कुतो ब्रह्मजिज्ञासा विधीयत इत्यत आह। ब्रह्मपदेति। अधिकारकथनादि-नेति। विषयप्रयोजनकथनमुच्यते। ब्रह्मजिज्ञासाया अकर्तव्यत्वे गुणपूर्तिप्रतिपादनं ब्रह्मपदेन कथ्यमान-मसङ्गतं स्यात्तस्य सन्दिग्धत्वोपपादकतया विषयसमर्पकत्वात्। अतश्शब्देन मोक्षप्रयोजनोक्तिश्चायुक्ता। इयन्तं कालं जिज्ञासाभावेऽपि मुक्त्यदर्शनादिति।

तत्त्वसुबोधिनी

नन्वधिकारे पृष्टे अधिकार एव वक्तव्यः। अधिकारिकथनं क्वोपयुक्तमित्यत आह। अधिकारीति। अधिकारविशिष्टाधिकारिनिरूपणेऽधिकारनिरूपणमपि सिद्धमिति स न पृथगुक्त इत्यर्थः। सच्छूद्रादौ व्याप्तेरिति। अतिव्याप्तेरित्यर्थः। यद्यपि सच्छूद्रादेर् देहान्तरे ब्रह्मविद्याधिकारसम्भवेन तेषामपि लक्ष्यत्वान्नातिव्याप्तिः। तथापि वेदविद्याधिकारशून्यतापादकशूद्रदेहावच्छिन्नेऽपि तस्मिन् मोक्षयोग्यत्व-सत्त्वेनातिव्याप्तिरिति भावः। प्रायिकत्त्वादिति॥ देवानामपि त्रैवर्णिकमनुष्योत्तमपर्यन्तेषु बहुषु मोक्षयोग्येषु वेदविद्याधिकारेऽपि न तद्देहेऽधिकारः। देहान्तरेऽधिकारश्च नेदानीं प्रवृत्युपयोगीत्यरुच्येत्यर्थ इति चन्द्रिकोक्तरीत्या अस्य च मोक्षयोग्यत्वरूपलक्षणस्य सच्छूद्रादौ व्यापनात्। अध्ययनलब्धाऽपीति॥ अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते इत्यादेरित्यर्थः। अन्याय्याध्ययननिवृत्यर्थमिति॥ अभक्तैर् अनधिकारिभिर् वा भक्तादिभिरपि असमयेऽयोग्यपुरुषेभ्यो वा पुस्तकपाठादिना वा कृतत्वमन्न्याय्यत्व-मध्ययनस्य द्रष्टव्यम्। तथा चेति। मुक्तियोग्यत्वे सति भक्तिपूर्वकाध्ययनवत्त्वम् अधिकारिलक्षणमिति भावः। मुक्त्ययोग्यब्राह्मणादौ तद्योग्यसच्छूद्रादौ वाऽतिव्याप्तिपरिहाराय क्रमेण पदद्वयम्। ननु हरिभक्ति-पूर्वकाध्ययनवत्वं कथं सामान्यलक्षणं मद्यमादिषु अभावात्। तत्सत्वे अधमाधिकारिलक्षणस्याति-व्याप्त्यापत्तेस् तस्यैवाधमाधिकारिविशेषलक्षणत्वाद् इत्यतो न तत्र तत्रोक्तगुणमात्राधरितानि विशेषलक्षणानि किं नाम गुणत्रयघटितान्येव। ‘‘भक्तियुक्तः परे विष्णौ तथाऽध्ययनवानपि। अधमोऽयमिति ज्ञेय एतत्पूर्वं शमादिमान्। मध्यः स्याद् ब्रह्मणो विष्णोर् वशे ब्रह्मादिपूर्वकम्। विज्ञाय भक्तिसम्पन्न’’ इति विशेषप्रमाणेन उपलक्षणत्वेन एतत्पूर्वं शमादिमानिति भक्तिसंपन्न इति च अधमाधिकारिलक्षणस्य मध्यमोत्तमयोर् उक्तत्वात्तदनुरोधेनाह। शमादिसंयुक्त इत्यादावित्यादिना। ननु सर्वं सर्वत्र चेत्परस्परव्याहतत्वान्न विशेषलक्षणानीत्याशङ्क्य निरस्यति। न चैवमिति। उत्तरोक्तेति। पूर्वपूर्वस्मिन्निति शेषः। तथा चोत्तरोक्तयोर् मध्यमे उत्तमे च उक्तयोर् गुणयोः पूर्वस्मिन्नधमे तथोत्तरस्मिन्नुक्तस्य उत्तमोक्तस्य गुणस्य मध्ये तथोत्तरस्मिन्नुक्तस्य उत्तमे उक्तयोर् अधममध्यमयोर् गुणयोर् अप्राचुर्यादित्यर्थः। ततश्चायमर्थः। समानाधिकरणानां वेदाध्ययनशमादिविष्णुपादैकसंश्रयत्वानां मध्ये यस्य शमदमादि-विष्णुपादैकसंश्रयत्वादिके अप्रचुरे अध्ययनन्तु प्रचुरं सोऽधमः। यस्य विष्णुपादैकसंश्रयत्वादिकमेवाप्रचुरम् अध्ययनशमादिके तु प्रचुरे सः मध्यमः। यस्य विष्णुपादैकसंश्रयत्वादिकं प्रचुरम् अध्ययनशमदमादिके तु अप्रचुरे स उत्तमः। यद्वा उत्तरोक्तयोर् मध्यमे उत्तमे च उक्तयोर् उत्तरोक्तस्य उत्तमोक्तस्य प्राचुर्येण इत्येव टीकार्थः। ततश्च यस्य समानाधिकरणानां त्रयाणां मध्ये भक्तिपूर्वकाध्ययनं प्रचुरं शमादिकेऽप्रचुरे सोऽधमः। यस्य समानाधिकरणानां मध्ये अध्ययनशमादिके प्रचुरे विष्णुपादैकसंश्रयत्वमेव अप्रचुरं स मध्यमः। यस्य तु त्रयमपि प्रचुरं स उत्तम इति त्रयाणां लक्षणानि सूचितानीति ज्ञातव्यम्। भावबोधे तु प्रचुरतमतया अध्ययनादिगुणत्रयवत्त्वम् उत्तमत्वम्। प्रचुरतमत्वरहितप्रचुर-तराध्ययनादिमत्वं मध्यमत्वम्। प्रचुरतमत्वप्रचुरतरत्वरहिताध्ययनादिमत्वम् अधमत्वम् इति उत्तमादीनां त्रयाणां लक्षणानि अनेनोक्तानि। प्रचुरत्वप्रचुरतरत्वप्रचुरतमत्वानां मधुरत्वादिवत् स्पष्टत्वादिवच्च जातिरूपत्वान्न कश्चित्क्षुद्रोपद्रवः। यद्वा सङ्गृहीता अनुकृष्टाश्च गुणा उत्तरोक्ताः। तेषां तत्र तत्र भक्तिमान् इत्यादियथास्थितमूलोक्तगुणापेक्षया अप्राचुर्येणेति योजना। यथास्थितमूलोक्तगुणानां प्राचुर्यम् अर्थतो लभ्यम्। ततश्च यत्राध्ययनवत्वं प्रचुरं गुणद्वयमप्रचुरं सोऽधमः। यत्र शमादिसम्पत्तिः प्रचुरा अध्ययनवत्त्वं वैराग्यादि च अप्रचुरं स मध्यमः। यस्य विष्णुपादैकसंश्रयत्वं प्रचुरम् अध्ययनवत्वं शमादिसम्पत्तिश्चाप्रचुरा स उत्तम इत्यर्थः। अधमादिषु अध्ययनवत्त्वादीनां समानाधिकरणगुणद्वयापेक्षया प्राचुर्ये तत्र तत्र तस्य तस्य गुणस्य विशिष्य वचनम् आत्मनीति मध्यमाधिकारित्वं सूचितमिति विज्ञानपदेनोत्तमाधिकारित्वं सूचितमिति टीकावचनं च ज्ञापकमिति ध्येयम्। ‘‘न अविशेषादिति’’ सूत्रेण तत्त्रैविध्यं कुतो ब्रह्मविद्यायामित्याशङ्कापरिहार इति बोद्धव्यम्। विद्यादिति॥ पश्यार्थैश्चानालोचन इति ज्ञानमात्रेऽपि तत्प्रयोगात्। अन्यथा परोक्षज्ञान एव शमादीनां हेतुत्वं लभ्येत। न ब्रह्मविद्यायामिति भावः। तेषां तादर्थ्यमिति॥ शमादीनां ब्रह्मविद्यात्वमित्यर्थः। मध्यमाधिकारित्वं सूचितमिति। तथा च एतत्समाख्याबलात् शमादिसंयुक्तो मध्यम इति वाक्यस्य ब्रह्मविद्यायामेव मध्यमाधिकारि-प्रतिपादकत्वं सिद्ध्यतीति भावः। विज्ञानपदेनेति। विज्ञानार्थमिति पदेनेत्यर्थः। उत्तमाधिकारित्वं सूचितमित्यस्यायमेवाभिप्रायः। प्रकाशयतीति। श्रवणादिजन्यज्ञानविषयो भवतीत्यर्थः। कथमनेन विष्णुभक्तिर् ब्रह्मविद्यायाम् अधिकार इत्युक्तमिति अत आह। अत्रेति। सा च भक्तिरिति। अनेन देवे विष्णौ परा सर्वाधिका भक्तिर् यथा तथा देवे तदितरदेवेषु गुरावन्येषु स्वोत्तमेषु च यथायोग्यं भक्तिर् यस्य तस्य एते कथिता विष्ण्वादिरूपा अर्थाः प्रकाशन्ते इति वाक्यं योजितं भवति। वर्णबाह्या इति। तेन म्लेंछादीनां सङ्ग्रह इति भावः। नामज्ञानाधिकारिण इति। नामज्ञानाधि-कारवत्त्वमुक्तं त्रिवर्णेतरेषां तत्र कोऽसौ नामज्ञानाधिकारो यद्वत्त्वम् अन्त्यजादेर् उच्यते इत्यत आह। भक्ता इत्यधिकारकथनार्थमिति। ततश्च भक्तिरेव नामज्ञानाधिकार इत्युक्तं भवति। कथमनेन अध्ययनविधुराणां स्त्रीशूद्रादीनां मोक्षः समर्थित इत्यत आह। अध्ययनाभावेनेति। भाष्ये तन्त्रज्ञान इत्यस्यैव विशेषणम् एकदेश इत्यादि। ननु ग्रन्थपुरस्सर इत्यस्य ग्रन्थमारभ्य समाप्तिपर्यन्तं न श्रोतव्यमित्यर्थः। त्रैवर्णिकानां वेदोक्ते अधिकार इत्युक्ते अयोग्यानामपि अधिकारः प्रतीयते अत उक्तम्। सम्यक् भक्तिमतामिति। सपत्नीं मे इति। तदधिकाराभावेन द्रष्टृत्वं कथं स्यादिति भावः। नरादिकुलजाश्चेति। शच्याद्या इत्यर्थः। सङ्क्षेपविस्तराभ्यामिति। अधिकारानन्तर्यार्थ इति सङ्क्षेपेण अधिकारश्चोक्तो भागवततन्त्र इति विस्तरेण च इत्यर्थः। यदर्थं ब्रह्मजिज्ञासाविधिः स मोक्ष एव मा भूदनपेक्षितत्वादित्यत उक्तम्। सुखमेव मे स्यादिति। भाष्ये ज्ञानपदम् अपरोक्षज्ञानपरम्। प्रसाद इत्यनन्तरं न च ब्रह्मजिज्ञासां विना ज्ञानमित्यध्याहारश्च कर्तव्यः। अन्यथा भाष्ये ‘अतो ब्रह्मजिज्ञासा’ इत्यस्यासङ्गतत्त्वापत्तेरित्यभिप्रेत्य तद्व्याचष्टे। मोक्षस्येति॥ ‘जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते’ इत्येतद्व्याख्यानानुसारेणातो ब्रह्मजिज्ञासा इत्येतद्व्याचष्टे। अत्यर्थप्रसादद्वारेति। ब्रह्मपदश्रवणेऽपि कुतो न जीवाभेद इत्यत आह॥ ब्रह्मशब्दश्चेति। अस्तु पुराणादौ गुणपूर्णत्वं तथापि जीवाभेदः स्यादेव जीवस्यापि गुणपूर्णत्वादित्यत आह। जीवस्येति। ननु गुणपूर्णत्वं ब्रह्मशब्दार्थः कुतः देशाद्यपरिच्छेद एव ब्रह्मशब्दार्थोऽस्तु इत्याशयेनाशङ्कते। देशादीति। अस्तु देशाद्यपरिच्छेदमात्रं ब्रह्मशब्दार्थस् तथापि जीवभेदः सिद्ध एवेत्यभ्युच्चयवादेनाह। देशाद्यपरिच्छेदेन चेति। ननु जीवस्यापि देशाद्यपरिच्छिन्नत्वात्कथं ततो भेदसिद्धिरित्यत आह। जीवाणुत्वस्येति। वक्ष्यमाणत्वात्। उत्क्रान्तिगत्यागतीनामित्यत्रेत्यर्थः। नन्वेवं सौत्रब्रह्मपदव्याख्यानेन सिद्धान्तकरणे किं ज्ञापकमित्याशङ्क्य भाष्यकारीयगुणपूर्णत्ववाचिनारायणपदप्रयोग एव इत्याह। ब्रह्मपदेति। अन्यथा यतो ब्रह्मप्रसाद-मित्येवावक्ष्यत्। ननु अतो ब्रह्मजिज्ञासेत्यत्र ब्रह्मशब्दप्रयोगः किमर्थः नारायणशब्दप्रयोग एव कुतो न कृत इति न वाच्यम्। व्याख्यानव्याख्येयभावज्ञापनार्थं तथोक्तमिति भावः। न कर्तव्येत्यादेरिति। न कर्तव्येत्यादेर् अध्याहारस्याधिकारकथनेन विरोध इत्यर्थः।

वाक्यार्थविवरणम्

ब्रह्मजिज्ञासायामधिकार इत्यन्वयः॥ असङ्गतिशङ्कापरिहारायाह॥ यदानन्तर्यमिति॥ इति जातिकृत इति भाष्ये मनुष्योत्तमत्त्वऋषित्वगन्धर्वत्वदेवत्वाख्यधर्मकृत इत्यर्थः। अस्य चेति। अस्य चेत्यस्यावृत्तिः। चशब्देन लक्ष्यतावच्छेदकसङ्ग्रहः। व्याप्तेः प्रायिकत्वादिति पदाभ्यामतिव्याप्तिरित्याचष्टे॥ तथाहि॥ सास्नादिरूपलक्षणस्य हि गोत्वरूपलक्ष्यतावच्छेदकाक्रान्त एव हि वृत्तिर्दृष्टा। तदनाक्रान्तेऽपि विद्यमानं पशुत्वं गोर् न लक्षणम्। एवमस्य च मोक्षयोग्यत्वरूपाधिकारिसामान्यलक्षणस्य सच्छूद्रादौ व्याप्तेरभिव्याप्य विद्यमानत्वादस्य च लक्ष्यतावच्छेदकीभूतस्य च ब्रह्मविद्याधिकारस्य प्रायिकत्वात्। ब्रह्मविद्याधिकाररूपलक्ष्यतावच्छेदकानाक्रान्तेऽपि सच्छूद्रादौ मोक्षयोग्यत्वरूपसामान्यलक्षण-सद्भावादतिव्याप्तिरित्यर्थः। चशब्दसूचितमिदं व्याख्यानमिति भावः। आब्रह्मस्तम्बपर्यन्तमित्यत्र ब्रह्मशब्देन चतुर्मुखस्य स्तम्बशब्देन तृणाभिमानिजीवविवक्षायामाह॥ तेषामिति। ब्रह्मशब्देन सत्यान्तलोकस्य, स्तम्बशब्देन तृणरूपजडविवक्षायामाह॥ तत्पदादीनामिति॥ भाष्ये यस्य देवे परमात्मनि परा सर्वोत्कृष्टा भक्तिः। देवे देवतासमूहे यथा योग्यतानुसारेणैव भक्तिः। गुरोस्तथा योग्यतानुसाणैव भक्तिः। तस्यैते कथिता ह्यर्था इति योजना॥ न च जिज्ञासया विना ज्ञानमित्यपि प्रनाडी अभिप्रेतेत्याशयेनाह॥ अपरोक्षज्ञानस्य चेति॥ गुणाध्यास इति॥ तथा च न विरुद्ध-धर्माधिकरणत्वमित्यर्थः। अब्रह्मत्वेति। गुणपूर्णत्वस्यैव ब्रह्मत्वादित्यर्थः। देशादिति। ‘बृह् वृद्धौ’ वृद्धिश्च देशतः कालतश्चाभिमतेति ब्रह्मत्वं युक्तमित्यर्थः॥ उक्तश्रुतीति॥ अथ कस्मादिति श्रुतीत्यर्थः। देशकालापरिच्छेदस्य ब्रह्मत्वेऽपि तेन जीवभेद एव सिद्ध्यतीत्याह॥ देशादीति॥ ननु जीवस्यापि व्याप्तत्वान्नित्यत्वाच्च कथं भेदसिद्धिरित्यत आह॥ जीवेति॥ उत्क्रान्तिगत्यागतीनाम् इत्यादाविति शेषः। उपलक्षणमेतत्। ज्ञोऽत एवेति जीवोत्पत्तेरपि वक्ष्यमाणत्वादित्यपि द्रष्टव्यम्। भाष्ये एकदेशे परोक्ते त्विति। ब्राह्मणान् बन्धून् व्यपदिशति न स्वयं ब्राह्मणो यः स ब्रह्मबन्धुस् तथा च स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारितास्ति, तत्रापि न समग्रतत्वज्ञानम् इत्युक्तमेकदेश इति। तत्रापि न स्वातन्त्र्येणाधिकार इत्युक्तं परोक्ते त्विति। परं प्रत्युक्त इत्यर्थः। तत्राप्यधिकारविशेषोऽ-स्तीत्याह॥ न त्विति॥ ग्रन्थशब्देन तन्नियमाः पुस्तकधारणशान्तिपाठादय उपलक्ष्यन्ते। ग्रन्थनियम-पुरस्सरे एकदेशे अधिकारो नैवेत्यर्थः। नियमपूर्वकं परं प्रत्युक्तैकदेशश्रवणं न कार्यमिति यावत्।

वाक्यार्थमञ्जरी

ब्रह्मजिज्ञासायामधिकार इति सम्बन्धः। कः किंलक्षणकः। मन्दमध्येत्यादिनाधिकारिनिरूपणा-त्कथमधिकारश्चोक्त इत्युक्तमत आह॥ अधिकारीति॥ भाष्ये जातिकृतः मनुष्योत्तमत्वादिधर्मकृतः। नन्वत्र त्रिविधा इत्युक्त्या कतिविधा इति प्रश्नपरिहारेऽपि लक्षणानुक्तेस्तत्प्रश्नो न परिहृत इत्यत आह॥ अनेनेति॥ मोक्षयोग्येतरावृत्तिमनुष्योत्तमत्वादिविशेषधर्मकथनेनेत्यर्थः॥ अस्य चेति॥ सच्छूद्रादौ चेत्यन्वयः। व्याप्तिर्व्यापनम्। यस्य व्यापनं लक्ष्यमात्रेऽस्ति तद्धि लक्षणम्। यो धर्मो लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र स धर्मो लक्षणमित्युक्तेः। अस्य मोक्षयोग्यत्वस्य व्यापनं लक्ष्य इव जिज्ञासानधिकारित्वेनालक्ष्ये सच्छूद्रादौ चास्ति। अतो नेदं लक्षणम्। ननु सच्छूद्रादेरपि विदुरधर्म-व्याधजरितर्यादेर्वैदिकब्रह्मविद्याधिकारदृष्ट्या लक्ष्यत्वात्तद्व्यापनमिष्टमेवेत्यत उक्तम्। प्रायिकत्वादिति॥ विदुरादिव्यतिरिक्तेष्वप्यनुत्पन्नज्ञानेषु बाहुल्येन वर्तमानत्वादित्यर्थः। ननु तेषामपि देहान्तरे वैदिकब्रह्मविद्याधिकारो वर्तत एवेति लक्ष्यत्वात्तद्व्यापनमपीष्टमित्यत उक्तम्॥ अरुच्येति॥ तेषां देहान्तरे विद्यामानोऽधिकारो नेदानीं प्रवृत्त्युपयुक्तः। प्रवृत्त्युपयुक्त एवाधिकारोऽत्र विचार्यत इत्युच्यत इत्यर्थः। तर्हि अतिव्याप्तस्य कथं सामान्यलक्षणत्वेन स्वीकारः। तथात्वे शृङ्गित्वस्यापि तथात्वापत्तेरित्यत उक्तम्। प्रायिकत्वादिति॥ लक्ष्यतावच्छेदकसामानाधिकरण्यस्य बाहुलिकत्वादित्यर्थः। अलक्ष्यता-वच्छेदकसामानाधिकरण्यापेक्षया वैदिकब्रह्मविद्याधिकारित्वरूपलक्ष्यतावच्छेदकसामानाधिकरण्यस्य बाहुलिकत्वेन दोषस्याल्पतयाऽस्य सामान्यलक्षणत्वेन स्वीकारः। शृङ्गित्वे तु नैवमिति भावः॥

अध्ययनलब्धेति॥ अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यत इत्युक्तेरिति भावः। अत्राध्ययनस्या-न्याय्यत्वम् अभक्तैरनधिकारिभिर्भक्तैरधिकारिभिरपि पुस्तकपाठादिनाऽयोग्योपदेशेन वा कृतत्वं द्रष्टव्यम्। विशेषलक्षणस्य सामान्यलक्षणपूर्वकत्वादाह॥ तथा चेति॥ अत्र मोक्षायोग्यब्राह्मणसच्छूद्रादिव्यावृत्त्यर्थं क्रमेण विशेषणद्वयम्। ननु ‘‘भक्तियुक्तः परे विष्णौ तथाध्ययनवानपि। अधमोऽयमिति ज्ञेय एतत्पूर्वशमादिमान्। मध्यः स्याद् ब्रह्मणो विष्णोर्वशे ब्रह्मादिपूर्वकः। विज्ञाय भक्तिसम्पन्नो विष्ण्वर्थं मोक्षमर्थयन्। न मोक्षार्थं च विष्णुः स्यादिति ज्ञानी स उत्तमः’’ इति विशेषप्रमाणेन मध्यमादावध्ययना-देरप्युक्तेः कथं शमादिसंयुक्तत्वमात्रं तल्लक्षणम्। किं च तावन्मात्रस्य मध्यमादिलक्षणत्वे उक्तस्य सामान्यलक्षणत्वानुपपत्तिरधममात्रवृत्तेरित्यत आह॥ शमादिसंयुक्त इत्यादाविति॥ शमादिसंयुक्त इत्यत्र भक्तिपूर्वकाध्ययनसङ्ग्रहः। जातवैराग्यो विष्णुपादैकसंश्रय इत्यत्र भक्तिपूर्वकाध्ययनशमादिसङ्ग्रह इत्यर्थः। विशेषप्रमाणमुपलक्षणमिति भावेनाह॥ पूर्वत्र चेति॥ भक्तिमानित्यादौ शमादिसंयुक्तत्वविष्णुपादैकसंश्रयत्वादेरनुकर्षः। शमादिसंयुक्त इत्यत्र विष्णुपादैकसंश्रत्वादेरनुकर्ष इत्यर्थः। एवं सर्वस्य सर्वत्र सम्बन्धसाङ्कर्यम्। परस्परमव्यावृत्तिर् अतिव्याप्तिरिति यावत्॥ उत्तरेति। पूर्वस्मिन्निति शेषः। उत्तरस्मिन्मध्यमे उत्तमे वोक्तानामध्ययनवत्वादिगुणसमुदायानां त्रयाणां पूर्वस्मिन्नधमे मध्यमे वा अप्राचुर्येणेत्यर्थः। ततश्च प्रचुरतमाध्ययनादिगुणवत्वमुत्तमत्वं प्रचुरतराध्ययनादिमत्वं मध्यमत्वं प्रचुराध्ययनादिमत्वमधमत्वमिति न साङ्कर्यमिति भावः। अथवा उत्तरं चोक्तं च तयोरप्राचुर्येणेत्यर्थः। सङ्गृहीतानामनुत्कृष्टानां चाप्राचुर्यं कण्ठतोऽभिहितानां च प्राचुर्यमिति यावत्। तथा चाधमनिष्ठगुण-समुदायत्रयमध्ये शमादिविष्णुपादैकसंश्रयत्वयोरप्राचुर्यमध्ययनादेः प्राचुर्यं मध्यमनिष्ठगुणसमुदायत्रयमध्ये अध्ययनादिविष्णुपादैकसंश्रयत्वयोरप्राचुर्यं शमादेश्च प्राचुर्यम्। उत्तमनिष्ठतयोक्तगुणसमुदायत्रयमध्ये अध्ययनादिशमाद्योरप्राचुर्यं विष्णुपादैकसंश्रयत्वादेः प्राचुर्यमिति न साङ्कर्यमिति भावः। भाष्ये सन्न्यस्तेति॥ विष्ण्वर्पितेत्यर्थः। ब्रह्मादिशब्देन चेतनविवक्षायामाह॥ असर्वोत्तमत्वमिति॥ तल्लोकादिजडविवक्षायामाह॥ तत्पदादीनामिति॥ अत्र भागवततन्त्रे। तृतीये वक्ष्यत इति॥ तृतीयाध्याये चतुर्थपादे द्वितीयाधिकरणे किं सर्वेषां ज्ञानाधिकार उत केषाञ्चिदेवेति सन्देहे फलार्थित्व-साम्यात्सर्वेषामस्तीति पूर्वपक्षे यथा नवकोटिदेवानां देवत्वसाम्येऽपि तन्मध्ये शतस्यैव सोमपानाधिकारस् तथा पुरुषार्थित्वसाम्येऽपि न सर्वेषां ज्ञानाधिकारः। किं त्वध्ययनमात्रवतः। यथाशक्त्यखिलवेदाध्ययनवत एवेति सिद्धान्तितम्। अनेनाध्ययनस्य ब्रह्मविद्याधिकारत्वं गम्यते। तत्रैव तृतीयाधिकरणे किं सर्वेषामेक-प्रकारेण ज्ञानाधिकार उत तारतम्येनेति सन्देहे तारतम्यकल्पनस्य व्यर्थत्वादविशेषेणैव सर्वेषामधिकार इति प्राप्ते नाविशेषान् न अविशेषेण ज्ञानाधिकारस् तथा सत्यात्मज्ञानेऽपि साम्यापत्तेरिति सिद्धान्तितम्। अनेन ब्रह्मविद्याधिकारत्रैविध्यं गम्यत इति भावः॥ द्वन्द्वसहिष्णुः सुखदुःखाभ्यामुच्चत्वनीचत्वहीनः। स्वस्थितमिति॥ आत्मनीत्यनन्तरं स्थितमिति शेष इति भावः। पश्येदिति तेषामपरोक्षज्ञान-साधनत्वमुच्यते न श्रवणादिरूपजिज्ञासार्थत्वमित्यत उक्तम्॥ विद्यादिति॥ पश्यार्थैश्चानालोचन इत्यत्र पश्यार्थैरित्यत्र ज्ञानार्थैरिति व्याख्यानेन ज्ञानमात्रेऽपि प्रयोगादिति भावः। तादर्थ्यं ज्ञानार्थत्वम्॥ उपनीत इति॥ उपनयनवानध्ययनं सम्पादयेदित्यत्र यथोपनयनस्याध्ययनार्थत्वं तथेत्यर्थः। अन्तःप्रकाशा इति॥ शरीरान्तःस्थितात्मज्ञानवन्त इत्यर्थः। तेषां मध्यमत्वं च मध्यमा ऋषिगन्धर्वा इति प्रागेवोक्तमिति भावः। निर्विण्णः विरक्तः। अकृतशब्दार्थो नित्यपुमर्थ इति। कृतेनेत्यस्य कर्मादिनेति। तदित्यस्य तस्मादिति॥ देवादीनामिति॥ सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचरा इति पूर्वार्धः। तेषामुत्तमत्वं देवास्तत्रोत्तमा मता इति प्रागेवोक्तमिति भावः। वृणुते स्वीकरोति। यथा भक्त्या हरिस्तुष्ट इति प्रमाणानुसारेण तेन लभ्य इत्यस्याभिप्रायमाह॥ तस्य प्रसन्न इति॥ प्रकाशयति॥ श्रवणादिकं विषयीकरोति। भक्तिवाचकपदाभावादाह॥ अत्रेति॥ अभक्तस्य स्वीकाराभावादिति भावः। हरिभक्तिमात्रस्य प्रयोजकत्वे देवतागुरुद्वेषिणस्तत्र साम्येन भक्तस्य वा ब्रह्मविद्याधिकारप्रसङ्गनिरासायो-दाहृतश्रुत्यर्थं व्यञ्जयन्नेव तामवतारयति॥ सा चेति। अनेन यस्य देवे हरौ परा सर्वोत्कृष्टा देवे देवतासमूहे यथा योग्यतानुसारेण गुरौ च गुरुसमुदाये तथा योग्यतानुसारेणैव भक्तिर्वर्तते तस्य महात्मनः पूर्वकथिता एते अर्थाः प्रकाशन्त इति श्रुतिर्योजिता भवति। भाष्ये व्योमसंहितायां चेत्यस्याधिकारश्चोक्त इति पूर्वेण सम्बन्धः॥ वर्णबाह्या इति॥ तेन सन्म्लेच्छादीनां सङ्ग्रह इति भावः॥ अधिकारि-कथनमिति॥ तेनायोग्यानामपि नामज्ञानेन मोक्ष इति निरस्तमिति भावः। भाष्ये ब्राह्मणान् बन्धून् व्यपदिशति स्वयं तु न ब्राह्मणो यः स ब्रह्मबन्धुः। तन्त्रेऽपि न श्रुत्यर्थविचारभागे अधिकार इत्युक्तम्॥ एकदेश इति॥ अत्रापि न स्वातन्त्र्येणेत्युक्तम्॥ परोक्त इति॥ परं प्रत्युक्त इत्यर्थः। तत्रापि विशेषोऽस्तीत्युक्तम्। न तु ग्रन्थपुरःसर इति॥ अस्य वाक्यस्यायमर्थ इति ग्रन्थार्थपूर्वक इत्यर्थः। वेदोक्तेऽधिकारतेति सम्बन्धः। पराधम पराणुद शचीवाक्यमिदम्॥ उक्तस्यापवादमाहेति॥ स्त्रीणां वेदाधिकारो नास्तीति सामान्येनोक्तस्य सङ्कोचरूपबाधकमाहेत्यर्थः। भाष्ये यमी यमभार्या। ‘‘देव्यो मुनिस्त्रियश्चैव नरादिकुलजा अपि। उत्तमा इति विज्ञेया’’ इति भारततात्पर्यनिर्णयानुसारेणाह॥ मुनिस्त्रियो नरादिकुलजाश्चेति। मनुष्यादिकुलोत्पन्नशच्याद्या इत्यर्थः। सङ्क्षेपविस्तराभ्याम्। अधिकारानन्तर्यार्थ इति सङ्क्षेपः। अधिकारश्चोक्त इत्यादिना विस्तरः। मोक्षस्य पररीत्यैकविंशतिदुःख-ध्वंसादिरूपत्वे अनपेक्षितत्वमेव स्यादित्यतो मोक्षस्वरूपं निरूपयन्नाह॥ सुखमेवेति॥ मनाक् ईषत्। भाष्ये अत्यर्थप्रसादमित्यनुवादात् पूर्वत्रापि तथा ज्ञेयमित्याह॥ नारायणात्यर्थेति। अत्यन्तेत्यर्थः। अत्यर्थप्रसादस्य चेति। अनेनात्यर्थप्रसादश्चेति सम्बन्धः सूचितः।

अत्यर्थप्रसादस्य ज्ञानसाध्यत्वेन तदेव सम्पाद्यं किं जिज्ञासयेत्यतोऽपेक्षितं पूरयति॥ अपरोक्षज्ञानस्येति॥ अत एवाग्रे अपरोक्षज्ञानस्य जिज्ञासासाध्यत्वे आत्मा वा अर इति श्रुत्युदाहरणमिति भावः। भाष्यस्थातःशब्दार्थं सूचयन्नाह॥ अत्यर्थेति॥ जिज्ञासा श्रवणमननध्यान-रूपोपासना। ननु विषयाद्यभावेन जिज्ञासाया अकर्तव्यत्वात् कथं कर्तव्यत्वोक्तिरित्यतः सूत्रादिसूचितयुक्त्या पूर्वपक्षं प्रतिक्षिपति॥ यदुक्तमिति॥ प्रयोगेण सूत्रे कुत्रेत्यत आह॥ तद्विजिज्ञासस्वेति॥ आद्यतच्छब्दस्य यतो वा इमानीत्यादि यच्छब्देनान्वयः। किंनामकं तदित्यत उक्तम्॥ तद्ब्रह्मेति॥ ततः किमित्यत आह॥ ब्रह्मशब्दश्चेति॥ अथेति॥ हरिः कस्मान्निमित्ताद् ब्रह्मशब्देनोच्यत इति प्रश्नः। हि यस्मादस्मिन्हरौ गुणा बृहन्तः पूर्णास् तस्मादिति परिहारः। अप्रामाणिकत्व-शङ्कानिरासायानुभवादिति युक्तम्। तथा च विरुद्धधर्माधिकरणत्वान्नाभेद इति भावः॥ अध्यास आरोपः। उपलक्षणमेतत्। जीवनिष्ठाल्पगुणानामपि मिथ्यात्वं बोध्यम्। तथा च विरुद्धधर्मत्यागेन चिन्मात्रैक्यं युक्तमित्याशयः॥ परमार्थत इति। ब्रह्मशब्दार्थगुणानां मिथ्यात्वे ब्रह्मत्वस्य पारमार्थिकत्वा-योगादिति भावः। ननु बृह वृद्धावित्यस्मान्मनिन्प्रत्यये निष्पन्नो ब्रह्मशब्दः पूर्णत्वापरपर्याया-परिच्छिन्नत्वमात्रं प्रतिपादयति। अपरिच्छिन्नत्वरूपब्रह्मत्वं च देशाद्यपरिछिन्नत्वेनापि सम्भवति। अतो न विरुद्धधर्माधिकरणत्वेन भेद इति शङ्कते॥ देशाद्यपरिच्छिन्नतेति॥ उक्तेति। गुणपूर्णत्वं ब्रह्मत्वमित्यभिधायकार्थेत्यादिकेत्यर्थः। अभ्युपगमवादेनाह॥ देशादीति॥ वक्ष्यमाणत्वादिति॥ उत्क्रान्तिगत्यागतीनामित्यत्र सोऽस्माच्छरीरादुत्क्रम्येत्याद्युत्क्रान्तिगमनादिलिङ्गैर्जीवाणुत्वस्य वक्ष्यमाणत्वा-दित्यर्थः। अतः ब्रह्मणो गुणपूर्णत्वात्। आदिशब्देन सम्बन्धः स च विषयप्रयोजनयोः कार्यकारण-भावादिरूपः। ननु ब्रह्मजिज्ञासाया ज्ञानप्रसादद्वारा मोक्षहेतुत्वे यतो नारायणप्रसादमृते न मोक्ष इति कुतः प्रागुक्तमित्यत आह॥ ब्रह्मपदेति॥ उभयोरप्युक्तरीत्या गुणपूर्त्यर्थत्वादिति भावः। अत्र सूत्रे। तथा च कर्तव्येति पदमुत्सूत्रितमिति भावः॥ किन्न स्यादिति॥ एवमपि वाक्यपर्यवसानादिति भावः। निरङ्कुशत्वात्। एवमेव नियमेति निर्बन्धरहित्वात्। यत्रेति॥ यत्रावान्तरवाक्ये यत्पदं विनाऽर्थान्तरे घटनाभावस्तत्र तदेव पदमध्याहार्यम्। यत्रावान्तरवाक्ये यत्पदं विनापि पदान्तरेणार्थान्तर-घटना तत्र तदेवाध्याहार्यमिति नियमो नास्ति तथा यत्र महावाक्ये यदवान्तरवाक्यं विनाऽर्थान्तर-घटनाभावस्तत्र तदेवाध्याहार्यं यत्र महावाक्ये यदवान्तरवाक्यं विनाप्यर्थान्तरघटना तत्र तदेवाध्याहार्यमिति नियमो नास्तीति सतां नीतिरिति निर्गलितोऽर्थः। न कर्तव्येत्यध्याहारेणार्थान्तरघटना सम्भवतीत्यत आह॥ न कर्तव्येत्यादेरिति॥ अकरणस्य स्वतःसिद्धत्वेन तदर्थमधिकारादिकथनमनर्थकमिति भावः।

विवृतिः

ननु, अधिकारे पृष्टेऽधिकार एव वक्तव्यः। अधिकारिकथनं क्वोपयुक्तमित्यत आह॥ अधिका-रीति॥ अधिकारविशिष्टाधिकारिनिरूपणेऽधिकारनिरूपणमपि (कृतं भवतीति) सिद्धमिति स न पृथुगुक्त इति भावः॥ सच्छूद्रादौ व्याप्तेरिति॥ अतिव्याप्तेरित्यर्थः॥ यद्यपि सच्छूद्रेऽपि, जन्मान्तरे वैदिकब्रह्म-विद्याधिकारसम्भवेन तेषामपि लक्ष्यत्वान्नातिव्याप्तिः॥ तथापि वेदविद्याधिकारशून्यतापादकशूद्रदेहा-वच्छिन्नेऽपि तस्मिन् मोक्षयोग्यत्वस्य सत्वेनातिव्याप्तिरिति भावः॥ प्रायिकत्वादिति॥ देवानारभ्य त्रैवर्णिकमनुष्यपर्यन्तेषु बहुमोक्षयोग्येषु वेदविद्याधिकारसत्वेनास्य मोक्षयोग्यत्वस्य प्रायिकत्वादित्यर्थः॥ अरुच्येति॥ सच्छूद्रस्य देहान्तरे वैदिकब्रह्मविद्याधिकारेऽपि न तद्देहेऽधिकारः। देहान्तरेऽधिकारश्च-(नैतद्देहे) नेदानीं प्रवृत्युपयोगीत्यरुच्येत्यर्थः॥ अध्ययनलब्धापीति॥ अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते॥ इत्यादेरित्यर्थः॥ अन्याय्याध्ययननिवृत्यर्थमिति॥ अभक्तैरनधिकारिभिर्वा, भक्तादिभिरपि असमये योग्यस्य, पुरुषो योवा पुस्तकपाठादिना कृतत्वमन्याय्यत्वमध्ययनस्य॥ तथा चेति॥ मुक्तियोग्यत्वे सति भक्तिपूर्वकाध्ययनवत्वमधिकारिलक्षणमित्यर्थः॥ मुक्त्ययोग्यब्राह्मणादौ तद्योग्यसच्छूद्रादौ चातिव्याप्तिवारणाय क्रमेण पदद्वयम्॥ ननु हरिभक्तिपूर्वकाध्ययनवत्वं कथं सामान्यलक्षणं, मध्यमादिष्वभावात्॥ तत्सत्वेऽधमाधिकारिलक्षणस्यातिव्याप्तिरित्यत आह॥ शमादिसंयुक्त इत्यादा-विति॥ तथा च श्रुतावधमाधिकारिलक्षणस्य मध्यमोत्तमयोरुक्तत्वान्नातिव्याप्तिरिति भावः॥ ननु, सर्वं सर्वत्र चेत्परस्पराव्यावर्तकत्वान्न विशेषलक्षणानीत्याशङ्क्य निरस्यति॥ न चैवमिति॥ उत्तरोक्तेति॥ पूर्वस्मिन्निति शेषः॥ तथा च पूर्वस्मिन् मध्यमे उत्तमे वोक्तानामध्ययनवत्वादीनां त्रयाणां गुणानां पूर्वस्मिन्नधमे मध्यमे वाऽप्राचुर्यादित्यर्थः॥ तथा चायमर्थः॥ समानाधिकरणानां वेदाध्ययनशमादिविष्णुपादैकसंश्रयत्वानां मध्ये यस्य शमादिविष्णुपादैकसंश्रयत्वादिकेऽप्रचुरे अध्ययनं तु प्रचुरं सोऽधमः यस्य विष्णुपादैकसंश्रयत्वादिकमेवाप्रचुरम् अध्ययनशमदमादिके तु प्रचुरे स मध्यमः। यस्य विष्णुपादैकसंश्रयत्वादिकं प्रचुरम् अध्ययनशमदमादिके त्वप्रचुरे स उत्तम इति॥ भावबोधे तु प्रचुरतमतयाऽध्ययनादिगुणवत्वमुत्तमत्वम्। प्रचुरतमत्वरहितप्रचुरतराध्यनादिमत्वं मध्यमत्वम्॥ प्रचुरतमत्वप्रचुरतरत्वरहिताध्ययनादिमत्वमधमत्वमित्युत्तमादीनां त्रयाणां लक्षणान्यनेनोक्तानि। प्रचुरत्व-प्रचुरतरत्वप्रचुरतमत्वादीनां मधुरत्वादिवत्स्पष्टत्वादिवच्चजातिरूपत्वान्न कश्चित् क्षुद्रोपद्रवः। यद्वा सङ्गृहीता अनुकृष्टाश्च गुणा उत्तरोक्तास् तेषां तत्र तत्र भक्तिमानित्यादि यथास्थितमूलोक्तगुणापेक्षयाऽप्राचुर्येणेति योजना। यथास्थितमूलोक्तगुणानां प्राचुर्यमर्थतो लभ्यम्। ततश्च यत्राध्ययनवत्वं प्रचुरं गुणद्वयमप्रचुरं सोऽधमः। यत्र शमदमादिसम्पत्तिः प्रचुरा अध्ययनवत्वं वैराग्यादि च अप्रचुरं स मध्यमः। यस्य विष्णुपादैक संश्रयत्वं प्रचुरम् अध्ययनवत्वं शमादिसम्पत्तिश्चाप्राचुरा स उत्तम इत्यर्थः॥ अधमादि-ष्वध्ययनवत्वादीनां समानाधिकरणगुणद्वयापेक्षया प्राचुर्यम्। तत्र तत्र तस्य तस्य विशिष्यवचनम्। आत्मनीत्युक्त्या मध्यमाधिकारित्वं सूचितमिति विज्ञानपदेनोत्तमाधिकारित्वं सूचितमिति टीकावचनं च ज्ञापकमिति ध्येयमित्युक्तम्। ‘नाविशेषात्’ इति सूत्रेण त्रैविध्यं कुतो ब्रह्मविद्यायामित्याशङ्कापरिहार इति बोद्धव्यम्॥ विद्यादिति॥ पश्यार्थैश्चानालोचन इति ज्ञानमात्रेऽपि तत्प्रयोगात्॥ अन्यथा परोक्षज्ञान एव शमादीनां हेतुत्वं लभ्येत न ब्रह्मविद्यायामिति भावः॥

तेषां तादर्थ्यमिति॥ शमादीनां ब्रह्मविद्यार्थत्वमिति भावः॥ मध्यमाधिकारित्वं च सूचितमिति॥ तथा चैतत्समाख्याबलात् शमादिसंयुक्तो मध्यम इति वाक्यस्य ब्रह्मविद्यायामेव मध्यमाधिकारित्व-प्रतिपादकत्वं सिध्यतीति भावः। उत्तमाधिकारित्वं सूचितमित्यस्याप्ययमेवाभिप्रायः॥ प्रकाशयतीति॥ श्रवणादिजन्यज्ञानविषयो भवतीत्यर्थः॥ कथमनेन विष्णुभक्तिर्ब्रह्मविद्यायामधिकार इत्युक्तमित्यत आह॥ अत्रेति॥ सा च भक्तिरिति॥ यस्य, देवे विष्णौ, परा सर्वाधिका यथा भक्तिस् तथा देवे तदितरदेवेषु गुरावन्येषु स्वोत्तमेषु च यथा यथायोग्या भक्तिर्यस्य तस्यैते कथिता विष्ण्वादिरूपा अर्थाः प्रकाशन्त इति वाक्यं योजितं भवति॥ वर्णबाह्या इति॥ तेन म्लेञ्च्छादीनां सङ्ग्रह इति भावः। कथमनेनाध्ययनविधुराणां स्त्रीशूद्रादीनां मोक्षः समर्थित इत्यत आह॥ अध्ययनाभावेनेति॥ भाष्ये तन्त्रज्ञान इत्यस्यैव विशेषणम् एकदेश इत्यादि न तु ग्रन्थपुरस्सर इत्यस्य, ग्रन्थमारभ्य समाप्तिपर्यन्तं न श्रोतव्यमित्यर्थः। त्रैवर्णिकानां वेदोक्ते अधिकार इत्युक्ते अयोग्यानामप्यधिकारः प्रतीयते अत उक्तं सम्यग् भक्तिमतामिति॥ सपत्नीम् इति॥ तदधिकाराभावे तद्द्रष्ट्रत्वं कथं स्यादिति भावः॥ नरादिकुलजाश्चेति॥ शच्याद्या इत्यर्थः।

एवमथशब्दमिति॥ आनन्तर्येऽधिकारस्येत्यनेन संक्षेपेण, मन्दमध्येत्यनेन विस्तरेण चेत्यर्थः॥ यदर्थं ब्रह्मजिज्ञासाविधिः स मोक्ष एव मा भूदनपेक्षितत्वादित्यत उक्तं सुखमेव मे स्यादिति॥ भाष्ये ज्ञाने तु वेदोक्तेऽप्यधिकारी सतां मत इति ब्रह्मतर्के॥ पठेद्वेदानर्थानधीयीताथ विचार्य ब्रह्म विन्देदिति कौषारवश्रुतिः॥ ॐ नाविशेषात् ॐ॥ न सामान्येनाधिकारो देवादीनामिति ज्ञानपादे तृतीयेऽधिकरणे वक्ष्यतीत्यर्थः॥ उपरि तृतीय इति॥ ॐ अध्ययनमात्रवतः ॐ॥ अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते॥ गुरुभक्तिविहीनस्य शमादिरहितस्य च॥ न च वर्णावरस्यापि तस्मादध्ययनान्वितः॥ ब्रह्मज्ञानपदमपरोक्षज्ञानपरम्। न च ब्रह्मजिज्ञासां विना ज्ञानमित्यध्याहारश्च कर्तव्यः॥ अन्यथा भाष्ये अतो ब्रह्मजिज्ञासेत्यस्यासङ्गतत्वापत्तेरित्यभिप्रेत्य तद्व्याचष्टे॥ मोक्षस्येति॥ ब्रह्मजिज्ञासेत्येतद्व्याचष्टे॥ अत्यर्थप्रसादद्वारेति॥ विषयाभावान्न जिज्ञासेति यदुक्तं तद्दूषयितुं सिद्धान्तमाह॥ यदुक्तमिति॥ कुत इत्यत आह॥ जिज्ञास्य इति॥ अस्तु ब्रह्मपदश्रवणं तथापि कुतो न जीवाभेद इत्यत आह॥ ब्रह्मशब्दश्चेति॥ अस्तु ब्रह्मणो गुणपूर्णत्वं तथापि जीवाभेदः स्यादेव। जीवस्यापि गुणपूर्णत्वादित्यत आह॥ जीवस्येति॥ ननु गुणपूर्णत्वं ब्रह्मशब्दार्थ इति कुतः, देशाद्यपरिच्छेद एव ब्रह्मशब्दार्थोऽस्त्वित्याशयेन शङ्कते॥ देशादीति॥ अस्तु देशाद्यपरिच्छेदमात्रं ब्रह्मशब्दार्थस् तथापि जीवभेदः सिद्ध एवेत्यभ्युपगमवादेनाह॥ देशाद्यपरिच्छेदेनेति॥ ननु जीवस्यापि देशाद्यपरिच्छिन्नत्वेन कथं भेदसिद्धिरित्यत आह॥ जीवाणुत्वस्येति॥ वक्ष्यमाणत्वात् ‘‘उत्क्रान्तिगत्यागतीनामित्यत्रेत्यर्थः। नन्वेवं सौत्रब्रह्मशब्दव्याख्यानेन सिद्धान्तकरणे किं ज्ञापकमित्याशङ्क्य भाष्यकारीयो गुणपूर्णवाची नारायणपदप्रयोग एवेत्याह॥ ब्रह्मपदेति॥ अन्यथा यतो ब्रह्मप्रसादमित्येवावक्ष्यत्। न च अथातो ब्रह्मजिज्ञासेत्यत्र ब्रह्मशब्दप्रयोगः किमर्थः। नारायणशब्दप्रयोग एव कुतो न कृत इति वाच्यम्। व्याख्यानव्याख्येयभावज्ञापनार्थं तथोक्तमिति भावः॥ न कर्तव्येत्यादेरिति॥ न कर्तव्येत्यध्याहारस्याधिकारकथनेन विरोधादिव्यर्थः॥