ब्रह्मसूत्रभाष्यम्
श्री आनन्दतीर्थभगवत्पादाचार्यविरचितम्
ब्रह्मसूत्रभाष्यम्
अथ प्रथमाध्यायस्य प्रथमः पादः
जिज्ञासाधिकरणम्
नारायणं गुणैस्सर्वैरुदीर्णं दोषवर्जितम् ।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥
श्रीपद्मनाभतीर्थविरचिता
ब्रह्मसूत्रभाष्यटीका
सत्तर्कदीपावली
निर्दोषं गुणपूर्णं च ज्ञेयं गम्यं रमापतिम् ।
श्रीमदानन्दतीर्थाख्यं वन्दे सर्वविदं गुरुम् ॥
प्रसन्नमपि गूढार्थं भाष्यं तत्सुमनोहरम् ।
व्याख्यास्ये लेशतो भक्त्या गुरुदेवप्रसादतः ॥
ब्रह्मसूत्रव्याख्यामारभमाणो भगवानाचार्यः स्वेष्टदेवतां गुरूंश्च नत्वा श्रीमन्नारायणः सर्वगुणो-दीर्णत्वादिलक्षणश्चतुरध्यायसूत्रप्रतिपाद्यतया भाष्यत इति प्रतिजानीते ॥ नारायणमिति ॥
श्रीत्रिविक्रमपण्डिताचार्यविरचिता
तत्त्वप्रदीपिका
पूर्णज्ञानं विपुलपरमानन्दसन्दोहदेहं
भक्तप्रीत्या कृतविवरणब्रह्मसूत्रावतारम् ।
श्रीमन्नारायणपदमहं ध्वस्तनिश्शेषदोषं
वन्दे नित्यं गुरुमपि गुरोरागमार्थप्रकाशम् ॥ १ ॥
यस्याऽम्नायपदाक्षराणि परमं स्वार्थं लभन्ते गुणान्
सम्प्रोच्यैव सुबृंहितानि बलवन्न्यायेतिहासादिभिः ।
तं सेव्यं मुनिभिः प्रशान्तमनसा भक्त्या भवच्छित्तये
स्वानन्दप्रदमिन्दिरापतिमहं भूयोऽभिवन्दे हरिम् ॥ २ ॥
अस्यन्विशेषाद्भजतो भवौघा-
द्व्यस्यन्नृगादींश्च विशिष्ट आस ।
सोऽयं हरिर्व्यासपदाभिधेयः
सम्प्रीयतां सत्यवतीसुतो मे ॥ ३ ॥
जिह्वासूल्लसिता सतां प्रतिपदं तत्त्वप्रतिद्योतिका
नृत्यन्ती परमेरितैव परमा वागीश्वरी श्रीस्स्वयम् ।
यस्याऽस्यादुदिताऽखिलागमवपुः सत्सूत्रभूषामणिः
सर्वज्ञात्कवयश्च पुष्करभुवो जाता यदीयेच्छया ॥ ४ ॥
यस्सर्वजीवनविबोधविचेष्टितेशो
देव्याश्च वाङ्मयतनोरखिलार्चितायाः ।
नाथस्सदा हरिमहागुणदृष्टितृप्त-
स्तस्मै नमो भगवते परमानिलाय ॥ ५ ॥
ये वै पुरा जगति शार्ङ्गभृताऽमुना च
देवेन भीमगदया हतबाहुवीर्याः ।
देवद्विषां मतिरभून्मनुजेषु तेषां
वाग्योधनेन भगवद्गुणदूषणाय ॥ ६ ॥
संरम्भतश्श्रुतिषु विष्णुपरासु गूढा-
द्विद्वेषतः परगुणेषु महत्सु गाढात् ।
वेदान्तवादकपटैरतिदुष्टवाचां
मायाविनां निरसने स कृतावतारः ॥ ७ ॥
सोऽयं गुणामृतमहाब्धिरिहावतीर्ण
आनन्दतीर्थभगवान्परमो गुरुर्मे ।
यत्पादपद्मरजसा शिरसा धृतेन
सद्यः प्रयान्ति परिशुद्धिमशेषलोकाः ॥ ८ ॥
यस्याऽद्यानां मुनीनां सततहरिगुणध्यानशिक्षायमाणा
वादीन्द्रामत्तनागप्रमितिबलतिरस्कारसिंहायमाना ।
सर्वज्ञस्य श्रुतीनामखिलजनमनोध्वान्तसूर्यायमाणा
व्याख्या विख्यातकीर्तेर्जयति सुमनसां कर्णपूरायमाणा ॥ ९ ॥
येनैकान्तयतात्मनामृजुवरेणाऽचार आचार्यवान्
संन्यासेन निजा स्वयं प्रकटिता निस्सङ्गता संसृतौ ।
श्लाघ्यः पारमहंस्य आश्रमवरो यच्छीलगङ्गाजल-
स्नातो व्यक्तमयोग्यसङ्गमभुवो दोषात्पुनर्मोक्षितः ॥ १० ॥
लेशेनोद्भासितांशां भुवि मनुजमतिं वीक्ष्य विज्ञानशक्तिं
शास्त्रव्याख्यां च चित्रां प्रविततयशसः प्राश्निकानां प्रसङ्गे ।
यस्य स्तोतुं प्रवृत्ताः प्रवरगुणमयीं प्रस्खलन्त्या स्ववाचा
प्राज्ञाः प्रोद्यत्प्रमोदप्रचुरभरनमत्साश्रुकण्ठा भवन्ति ॥ ११ ॥
तस्यास्य चारुचरणप्रणतिं प्रपन्ना
गोभिर्विधूततमसः सुनयामृतानाम् ।
उद्गारिणीभिरिह सद्गुणराजभावं
विप्रा व्रजन्ति विशदा वितताभिरुच्चैः ॥ १२ ॥
स्पृष्टं करेण विषमप्यमृताय दृष्टं
यस्योदयस्सभगवान्यदु राति किञ्चित् ।
तद्भेषजं गदवतां प्रतिक्लृप्तमायु-
र्वेदे सुसिद्धममुनेत्यविचार्यमेतत् ॥ १३ ॥
योद्धृणां राघवार्थे कृतमहितरणो योऽद्वितीयो द्वितीयो
विष्णोः कृष्णप्रियार्थं पुनरपि विपुलैस्संयुगैर्व्यक्तकीर्तिः ।
यद्वीर्यं योधवीरैः कृतनुति जगतां सप्तके सप्तके वा
देवेऽस्मिन् जैत्रशक्तिर्निवसति सकलेत्यत्र किं विस्मयः स्यात् ॥ १४ ॥
सब्राह्मणोपनिषदो निखिलास्सुसिद्धा
वेदाः स्फुटं यदनधीतवतस्स्वशाखाम् ।
यान्वै पठन्ति मुनयोऽप्यसकृद्गुरुभ्यो
वेत्तुं तदस्य महिमायमचिन्तनीयः ॥ १५ ॥
ज्योतिश्शास्त्रं यदेकं भवति भुवि भविष्यत्यतीते च साक्षा-
च्चक्षुः प्रत्यक्षमस्य प्रकटमपि तदाद्यङ्गषट्कं यथास्वम् ।
को ह्यस्मात्पञ्चरात्रेष्वपरिमितभिदास्तन्त्रसारप्रणेतु-
र्विद्याः पौराणिकानां बहुविधविशयच्छेत्तुरन्यः प्रवेद ॥ १६ ॥
हव्यं गृह्णाति सर्वक्रतुषु मखपतिर्योऽनुयज्ञेशमीशो
मन्त्राणां देवतानां प्रतिहृदयगतोऽप्यृत्विजां प्रेरकश्च ।
सोऽयं कर्मप्रणेता हरिगुरुविहितः कर्मणां सत्प्रयोग-
न्यायानां सूत्रजातं यदि च बुधजनैरर्थ्यते किं न कुर्यात् ॥ १७ ॥
रामक्रीडामनुविहरता पूर्वमापूर्णभक्त्या
तेन ज्ञाता न किमु विमलास्तत्कथाग्रन्थकोट्यः ।
सोऽयं रेजे कुरुषु विजयी सर्वतो भारताग्य्रो
जानीतेऽतः प्रविततमतिर्भारतार्थान्कृतार्थः ॥ १८ ॥
भाष्यन्ते ह्यपरिमितास्समस्तवेदेष्वेतेन प्रतिपदमप्रयत्नमर्थाः ।
एकैकं सुकरतरं तदेषु भाष्यं किं न स्यात्सुरवरसेवितेन तेन ॥ १९ ॥
प्रत्यक्षस्य स्वहृदि विशदे सत्यकामस्य कामान्
साक्षात्कर्तुः खलु भगवतो भ्रूनिदेशाद्द्युदेशाः ।
प्राप्ता देवैः प्रतिपदमसौ नित्यमासेवितस्तै-
स्तेषां रूपं स्थितिमपि बलं वेत्ति चित्रं किमेतत् ॥ २० ॥
गन्धर्वविद्यानिपुणस्य नित्यं गन्धर्ववर्यैरनुगीतकीर्तेः ।
कलाश्च शेषा हृदये गुरोर्नः करोल्लसत्कन्दुकवद्विभान्ति ॥ २१ ॥
एवं धर्मार्थदर्शी नृपनयकुशलो न्यायवित्सुप्रमाणै-
स्सर्वज्ञस्तत्वमार्यः क्षितितलमगमत्केवलं सम्प्रणेतुम् ।
यस्मिन्गुह्ये स्म देवा अपि मुनिपितृभिः प्राय आलोच्य नित्यं
निष्ठां नाऽयान्ति भूयश्चिरतरभगवद्भक्तिभिस्साधयन्ति ॥ २२ ॥
त्रेधाऽवतारमवनाय सतां बत्थिे-
त्याद्या श्रुतिर्भगवती गुरुमेनमाह ।
मुख्यानिलोऽतिबलवान्मतिरीशधेना
नेतेति पृक्ष इति मध्व इति क्रमेण ॥ २३ ॥
प्रणम्य सम्यक्प्रणतेष्टदं तं व्याख्यां करोम्यद्य यथावबोधम् ।
तस्याज्ञयैवानुगृहीतबुद्धिः सत्सूत्रभाष्यस्य कृतस्य तेन ॥ २४ ॥
आञ्जस्येनैकमप्यर्थं लेशतो वक्तुमुत्सहे ।
सहस्रार्थस्य भाष्यस्य प्रसन्नास्सन्तु सद्गुणाः ॥ २५ ॥
नारायणं गुणैस्सर्वैरुदीर्णं दोषवर्जितम् । ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥ इत्यनेन श्लोकेनेष्टदेवतागुरुनमस्कारं करोति । मङ्गलाचरणार्थं, शिष्टाचारपरिपालनायाविघ्नेन ग्रन्थपरिसमाप्त्यै, देवतागुरुभक्त्योर्विद्यान्तरङ्गत्वख्यापनाय च वस्तुनिर्देशं करोति । अनेन चाधिकारिविषयप्रयोजन-सम्बन्धाञ्छास्त्रस्यारम्भ एवापेक्षितान्दर्शयति । अधिकारस्य साधनान्तर्भूतत्वात् ‘अध्ययनमात्रवत’ इत्यादिना साधनाध्याये प्रतिपादितोऽधिकार्यत्राप्यथशब्दाक्षिप्त एव भाष्यकारेण ‘नारायणं नत्वा’ इति सूचितः । अध्ययनवान्भक्तिमांश्चेति नमस्कारस्य भक्तिपूर्वकत्वात् । भक्तेश्च विष्णुनिष्ठाया अध्ययनवत एव प्रायेण सम्भवात् । नारायणो विषयः । नारायणप्राप्तिरूपो निर्दुःखानन्दलक्षणो मोक्षः प्रयोजनमुक्तं ‘गम्य’मिति । सम्बन्धो दातृदेयलक्षणादिकः ।
तद्भावमोक्षपक्षे दातृदेयग्रहीत्रभावान्न सम्बन्धः सम्भवी । प्रतिपाद्यप्रतिपादकलक्षणः सम्बन्ध इति चेन्न । अविषयत्वेनाप्रतिपाद्यत्वात् । ब्रह्मणोऽविषयत्वमनपनोद्यैव प्रतिपादयति शास्त्रमिति च विरुद्धम् । वन्ध्यात्वमनपनोद्यैव मातुर्जातः पुत्र इतिवत् । न चाविषयस्य लक्ष्यत्वम् । वाच्यस्यैव लक्ष्यत्वादिति वक्ष्यत्याचार्यः । न च शारीरः शास्त्रस्य विषयः । प्रमाणान्तरसिद्धत्वाद्धेयत्वाच्च । शारीरत्वमेव हेयं न तद्गतचैतन्यमिति चेन्न तद्गतत्वस्यापि हेयत्वात् । चैतन्यं त्वविषय इत्युक्तम् । ‘‘आत्मैकत्वविद्याप्रतिपत्तय’’ इति तदुक्तत्वादैक्यं शास्त्रस्य विषय इति चेत्तदप्यसारम् । जीवब्रह्मैक्यस्यानिरूप्यत्वात् । तत्किं तद्वतो भिन्नमुताभिन्नम् । भिन्नं चेत्सत्यं मिथ्या वा । सत्यत्वेऽद्वैतहानिः । मिथ्यात्वे भेदस्य सत्यता स्यात् । अभिन्नं चेज्जीवत्वे ब्रह्मत्वेऽपि स्वयंप्रकाशत्वेन नित्यसिद्धमिति नोपदेष्टव्यम् । अज्ञानं तु तत्पक्षे स्वयंप्रकाशस्य कस्मिंश्च न सम्भवतीति भावः । अत एवाधिकारी दूरतो निरस्तः । ब्रह्मात्मैक्यापरोक्षलक्षणं मोक्षफलमपि प्रत्याख्यातम् । ऐक्याभावादज्ञानाभावाच्च । एवमधिकारिविषयप्रयोजनाद्यभावान्न तत्पक्षः श्रेयोऽर्थिभिः श्लाघनीयः ।
नारायणस्य सर्वोत्तमतया सर्वश्रुतिवाच्यत्वाद्भिन्नानां च जीवानां स्वयंप्रकाशत्वेऽपि सविशेषत्वेन तत्राज्ञानसम्भवात्स्वयोग्यतानुरोधेनाधिकारादिसम्भवादत्रायमेव पक्षः श्रेयान् । समन्वयाविरोधसाधनफलानि चाध्यायचतुष्टयेन प्रतिपादनीयान्यनेन श्लोकेन सूचयति । श्रुतीनां ब्रह्मवाचकत्वेन सम्यगन्वयः समन्वयः । स च वाक्यपदादीनां प्रत्येकमस्ति । तेन चानन्तगुणं ब्रह्म प्रतिपाद्यते । तत्र च प्रमाणाविरोधं साधयति द्वितीयाध्याये । एवं वस्तुनिर्णयार्थमध्यायद्वयम् । तत्र पुरुषेण किं कर्तव्यमित्याकाङ्क्षायां दृढनिर्णीतपूर्णगुणब्रह्मप्राप्तिसाधनमधिकारिणो विधीयते तृतीये । चतुर्थे तु तद्दर्शनात्तस्य संसारमोक्ष आनन्दभोगश्च फलम् । तत्र सर्वगुणसम्पन्नो नारायणो निर्दोषस्समाधिकरहितोऽत एवावश्यं द्रष्टव्यः । दृष्ट्वा च तं परमसुखं विन्दते पुरुष इत्यभिप्रायः । नारायणपदेन चैतत्समन्वयाद्यर्थचतुष्टयं विशेषणपदचतुष्टयोपदिष्टमभिप्रैति । अराणां दोषाणां विरुद्धत्वान्नारा गुणाः, तेषामयनत्वात्तैः सहेयत इति वा नारायणः । अतो नारायणशब्देन गुणोदीर्णत्वं वक्ति । उदीर्ण उदार उत्कृष्टः पूर्ण इत्यर्थः । अराणामयनं न भवतीति योजनायां दोषवर्जितत्वम् । नारं चेतनविशेषसम्बन्धित्वाज्ज्ञानं, तेन नारेण ईयत इति च नारायणत्वम् । ज्ञानविषयत्वमेव च ज्ञेयत्वम् । न रीयन्त इति नरा मुक्ताः, तेषां समुदायो नारः, तेनेयत इति च नारायणत्वम् । तदेव गम्यत्वं च । एवम्भूतः समुद्रशायी नारायणः । अथ वासुदेवाख्यो गुणोदीर्णशब्दोक्तः सर्ववसनोत्कर्षक्रीडाज्ञानादिगुणैरुच्चत्वात् । सम्यग्दोषकर्षणात्सङ्कर्षणो दोषवर्जित इत्युक्तः । प्रकृष्टद्युतिमेयत्वात्प्रद्युम्नो ज्ञेयः । ज्ञानिनः प्रति प्राप्तिनिरोधरहितत्वादनिरुद्धो गम्यशब्दार्थः । एवं पञ्चमूर्तित्वमपि सूचयति । तथा प्रतिपिपादयिषितत्वादस्मिञ्छास्त्रे । तमेतं गुरूंश्च ज्ञानाश्रयत्वेन नारायणशब्दवाच्यत्वान्नत्वा सूत्रार्थ उच्यते । बहुवचनं बहुमानार्थम् । चशब्दः पृथङ्नमस्कारार्थः । ‘अपि’शब्दात्सूत्रकारमपि । यद्यपि शास्त्रप्रतिपाद्या परदेवतैव भाष्यकारस्य गुरुः, स एव सूत्रकर्ताऽपि, तथाऽपि देवताभक्त्या, स्वगुरुभक्त्या, शास्त्रगुरुभक्त्या च तमेव नारायणं पृथङ्नमस्करोतीति गम्यते । नारायणपदेनैव गुरुनाम चोवाच । आ समन्ताद्विशिष्टः स एव हि व्यासोऽपि । नराणामुत्तमगतित्वेन विशिष्टत्वात् । नारायणस्य नमस्कारोऽप्यष्टाङ्गः कृतो नत्वेत्युच्यते, तथा कार्यत्वज्ञापनार्थम् । तं नत्वा स एव सूत्रार्थ उच्यत इत्यर्थः । अयं हि तावत्प्रणवार्थः । अकरोऽन्याभावविरुद्धवाची कारणत्वेन सर्वजगतोऽन्यत्वं, सर्वदोषाभावं सर्वगुणसम्पन्नत्वेन जगद्विरुद्धलक्षणत्वं च ब्रह्मणो वदति । तथाच भगवती श्रुतिः ‘‘अः इति ब्रह्म’’ इति सर्वतो विलक्षणमकारार्थं ब्रह्म ब्रवीति । उकारमकाराभ्यामुत्कृष्टतया मितत्वमुच्यते । व्याहृतीनामपि भूमत्वाद्भवन-शीलत्वेन वर्तमानत्वात्सुत्वेन वृत्तेः स्वातन्त्र्याच्चायमेव वाच्यः । त्रिपदया च गायत्र्या त्रिवर्गात्मकेन पुरुषसूक्तेन च । सोऽयं विष्णुर्वेदैरेक एवोद्गीतस्तदर्थनिर्णायकैस्सूत्रैः प्रतिपाद्यते । अतः सूत्रार्थ उच्यत इति समस्तवेदोपबृंहकेतिहासपुराणादिशब्दराश्यर्थभूतः सूत्रार्थो भाष्यत इति प्रतिज्ञा क्रियते ।
श्रीजयतीर्थविरचिता तत्त्वप्रकाशिका
तत्त्वप्रकाशिका
श्री गुरुभ्यो नमः । श्रीमदानन्दतीर्थभगवत्पादाचार्येभ्यो नमः ॥ हरिः ॐ ।
शुद्धानन्दोरुसंविद्द्युतिबलबहुलौदार्यवीर्यादिदेहं
चिन्तासन्तापलेपोद्भवमृतिमुखराशेषदोषातिदूरम् ।
सद्भिर्वैराग्यभक्तिश्रुतिमतिनियतध्यानजज्ञानयोगाद्
गम्यं वन्दे मुकुन्दाभिधममलमलं ब्रह्म वेदान्तवेद्यम् ॥ १ ॥
याञ्चामन्दरलोलिताद्यत उदैद्विद्येन्दिरा निर्जरै-
र्जातो भारतपारिजातसुतरुः सद्ब्रह्मसूत्रामृतम् ।
आसीत्तन्त्रपुराणसन्मणिगणो जातः शुकेन्दुः सदा
सोऽयं व्याससुधानिधिर्भवतु मे भूत्यै सतां भूतिदः ॥ २ ॥
स्वान्तध्वान्तनिकृन्तने जितमहावैकर्तनांशुव्रजं
निर्दोषं जितचन्द्रचन्द्रिकमलं तापत्रयोन्मूलने ।
गाम्भीर्ये जितसिन्धुराजममितं भाष्यं यदास्याम्बुजा-
दाविर्भूतममन्दबोधभगवत्पादान् प्रपद्येऽथ तान् ॥ ३ ॥
श्रीमध्वसंसेवनलब्धशुद्धविद्यासुधाम्भोनिधयोऽमला ये ।
कृपालवः पङ्कजनाभतीर्थाः कृपालवः स्यान्मयि नित्यमेषाम् ॥ ४ ॥
श्रीमद्रमारमणसद्गिरिपादसङ्गिव्याख्यानिनाददलिताखिलदुष्टदर्पम् ।
दुर्वादिवारणविदारणदक्षदीक्षमक्षोभ्यतीर्थमृगराजमहं नमामि ॥ ५ ॥
अथ तत्कृपया ब्रह्मसूत्रभाष्यं यथामति ।
व्याकुर्वे श्रीमदानन्दतीर्थार्यमुखनिःसृतम् ॥ ६ ॥
गङ्गासङ्गेन नैर्मल्यं रथ्याद्भिर्लभ्यते यथा ।
वाचो विशुद्धिसिद्ध्यर्थं सङ्गम्यन्ते गुरोर्गिरः ॥ ७ ॥
अथाविद्यापटलपिहितनयनैरन्यैरन्यथा व्याख्यातानि ब्रह्मसूत्राणि यथावद् व्याचिख्यासुर्भगवानाचार्यवर्यः प्रारिप्सितभाष्यस्य कैवल्याद्यखिलफलसाधनतादिसिद्ध्यर्थं निरन्तरायपरिसमाप्त्याद्यर्थं च नारायणनमस्कारं ग्रथयति ग्रन्थारम्भं च प्रतिजानीते ॥ नारायणमिति ॥ अत्र निरुपपदसूत्रशब्देन ब्रह्मसूत्रमुच्यते । तस्य मुख्यार्थाभिधायकत्वात् । तेषां च तादृशत्वात् । वक्ष्यमाणमेव सूत्रार्थं श्रोतृशेमुषीमनुकूलयिष्यन्नादौ प्रस्तावयितुं विशेषणचतुष्टयेनेष्टदेवतां विशिनष्टि । तथा हि आदिसूत्रे भगवतः प्रसत्त्या पुरुषार्थो भवतीति सूचितेऽधिकारिणः शङ्कोन्मिषति पुरुषान्तरेऽनुपलभ्यमानं पुरुषार्थप्रदत्वं तस्य चेत्कीदृशोऽसाविति । तां निवारयदाद्याध्यायस्यार्थो ॥ गुणैः सर्वैरुदीर्णमिति ॥ तत्र ह्यपर्यायानन्तशब्दानां महायोगवृत्त्या हरौ समन्वयसमर्थनद्वारा सर्वगुणोदीर्णतैव वर्ण्यते । स च युक्त्यादिभिरुक्तसमन्वये निरोधिते दोषवानपि स्यादित्याशङ्कां परिहरतो द्वितीयाध्यायस्यार्थो ॥ दोषवर्जितमिति ॥ तत्र युक्त्यादीनामाभासत्ववर्णनेन निर्दोषत्वस्यैव भाषितत्वात् । एवंविधस्य च प्रसादः कया विधया भविष्यतीत्याकाङ्क्षां पूरयतस्तृतीयस्यार्थो ॥ ज्ञेयमिति ॥ तत्र विरक्त्यादिभिस्तत्प्रसत्त्यर्थं तस्य ज्ञेयतायाः कथितत्वात् । प्रसन्नश्च कीदृशं पुमर्थं प्रयच्छतीत्याकाङ्क्षां पूरयतस्तुरीयस्यार्थो ॥ गम्यमिति ॥ तत्र ज्ञानिनो भगवत्प्राप्तिलक्षणमोक्षस्योदित्वात् ।
अथवा नैतन्नारायणपदं देवदत्तादिपदवत्साङ्केतिकं भवति किन्तु विशिष्टगुणानप्याचष्ट इत्याशयवान्पदचतुष्टयेन तन्निर्वक्ति । तथा हि । दोषारशब्दयोरभिन्नार्थत्वान्नञश्च विरुद्धार्थ-वाचित्वाद्दोषविरुद्धा गुणा नारास्तदाश्रयो नारायणः । नञोऽभावार्थत्वादराश्रयो न भवतीति वा नारायणः । नरसम्बन्धित्वान्न रीयतेऽनेनेति वा नारमणं येनेति वा निर्दोषवेदोत्पन्नत्वाद्वा नारं ज्ञानं विषयतया तदाश्रयत्वाच्च नारायणः । अरविधुरत्वादरतिरहितत्वात्क्षयरहितत्वाद्वा नारा मुक्तास्तदाश्रयो नारायणः । नगनाकादिशब्दवदयं शब्दो ज्ञातव्यः । अथ वा नारायणस्यैव नम्यत्वोपपादकमेतत् । यो हि बहुगुणो निर्दोषः शास्त्रज्ञेयोऽधीतशास्त्रगम्यः स हि वन्द्यो भवति । देवतानतिसमनन्तरं गुरूनपि नमति ॥ गुरूंश्चेति ॥ ‘गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि’ इत्यतो न तन्नाम जग्राह । स्वस्य गुरुदेवताभेदेऽरुचिं सूचयत्यपिपदेन । यद्यपि गुरुर्न देवताभिन्नस्तथापि विशेषानुग्रहार्थं पृथङ्नतिरिति । अनेनैव शास्त्रस्याधिकारिविषयप्रयोजनसम्बन्धाश्च श्रोतृप्रवृत्त्यङ्गभूताः सूचिता ज्ञातव्याः । तत्स्मरणस्य महाफलहेतुत्वाच्च । तदुक्तम् । ‘अधिकारं फलं चैव प्रतिपाद्यं च वस्तु यत् । स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत्फलम्’ इति ॥ नमस्काराधिकार्यादिग्रथनसूचने शिष्यशिक्षार्थम् । तथाहि । ज्ञेयत्वगम्यत्वयोर्ज्ञातृगन्तृसापेक्षत्वात्तद्योग्यस्तदिच्छुरेवाधिकारी सूचितः । नारायण एव विषयः । तज्ज्ञानगमने प्रयोजनम् । यथायोग्यं सम्बन्ध इति ।
श्री वादिराजतीर्थविरचिता गुर्वर्थदीपिका
गुर्वर्थदीपिका
ॐ ॥ नत्वा नारायणं व्यासं हयास्यं मध्वमादरात् ।
वाणीं गुरूंश्च सकलान् कुर्वे गुर्वर्थदीपिकाम् ।
नारायणं गुणैः सर्वैरुदीर्णमिति भाष्यकृतोक्तमङ्गलश्लोके भगवद्वाचकपदान्तरं विना नारायणपदस्यैवोपादानं ‘‘सङ्क्षेपविस्तराभ्यां हि कथयन्ति मनीषिण’’ इति वचनाद् अरविरुद्धा गुणा नारास् तेषामयनो नारायणः, अरायणो न भवतीति नारायणः, नराणां योग्यं ज्ञानं नारं विषयतया तदाश्रयत्वान् नारायणः न विद्यते अरम् अरमणं येषां ते नारा मुक्ता गम्यतया तदाश्रयत्वान्नारायण इति सङ्क्षेपतश्चतुरध्यायार्थसङ्ग्रहार्थम्, उक्तविधया शास्त्रार्थस्य नारायणपदार्थस्य चैकविध्यात्स एव शास्त्रार्थ इति युक्तिसूचनार्थं च । दोषवर्जितपदार्थपर्यालोचनया दुःखाद्यसद्गुणाभावस्याप्यर्थतः प्राप्तेस्सद्गुणैरिति नोक्तम् । क्वचित्सदादिविशेषणोपादानं मन्दानामपि बोधार्थम् । उदीर्णपदमहिम्नैव गुणानामपि पूर्णत्वसिद्धेर्न गुणेषु पूर्णता पृथगुक्ता । मणिकनकादिधनपूर्णता हि मणिकनकादिधनानामपि प्रत्येकं बहुत्वे सत्येव स्यात् । दोषा वर्जिता येन स दोषवर्जितः । यद्यपि युक्ति समय श्रुति युक्तिसहितश्रुतिविरोधपरिहाराय द्वितीयाध्यायस्य प्रवृत्तिस् तथाऽपि युक्तिविरोधेन स्वातन्त्र्यसार्वज्ञ्यसर्वकर्तृत्वादिगुणनिरोधे कृते सति अस्वातन्त्र्यासर्वज्ञत्वाल्पज्ञत्वाल्पकर्तृत्वादिदोषाणामेव प्राप्तेस्तद्विरोधपरिहारस्यापि दोषवर्जितत्व एव तात्पर्यमिति भावो भाष्यकारस्य । निरीश्वरसाङ्क्ष्यचार्वाकादिसमयविरोधपरिहारेऽपि भगवतो रूपहान्याख्यदोषस्यैव परिहृतत्वेन दोषवर्जितत्व एव तात्पर्यम् । भगवतो जनन मरण निर्गुणत्व नीचैक्यादिदोषाभावप्रतिपादकश्रुतीनां परस्परं विरोधपरिहारे स्पष्टं दोषवर्जितत्व एव तात्पर्यमिति भावेन दोषवर्जितमित्येवोक्तम् । विस्तरस्त्वस्योत्तरत्र वक्ष्यते । ज्ञेयं गम्यमिति पदाभ्यां ज्ञेयत्वगम्यत्वयोस्सहोक्त्या ज्ञानसाध्यवैकुण्ठादिस्थभगवत्प्राप्तिरूपगमनविशेषस्य तत्साधनीभूतापरोक्षज्ञानस्य च लाभात्सामान्यत एव तदुभयवचनम् । तर्हि कीदृशं ज्ञानं भगवद्गमनसाधनमित्याशङ्क्य तद्विषयविवेचनायाद्यं विशेषणद्वयम् ।
तथा प्रथमाध्याये पादचतुष्टयेऽपि यथायोग्यगुणपूर्तेरेवोक्तत्वादाद्यं विशेषणमपि प्रथमाध्यायपाद-चतुष्टयार्थसङ्ग्राहकम् । अत एव सर्वैरित्युक्तम् । द्वितीयाध्यायेऽप्यस्मदुक्तरीत्या पादचतुष्टयेऽप्यन्ततो दोषवर्जितत्वस्यैवोक्तत्वाद्द्वितीयं विशेषणमपि द्वितीयाध्यायपादचतुष्टयार्थसङ्ग्राहकम् । असारे संसारे वैराग्याय सारतया ज्ञेयं, भक्त्युत्पादनाय महामहिमतया ज्ञेयं, शास्त्राभ्यासध्यानरूपोपासनायां च विषयतया ज्ञेयं, अपरोक्षज्ञाने च साक्षाद्विषयतया ज्ञेयं चेति तृतीयं विशेषणमपि तृतीयाध्यायपादचतुष्टयार्थसङ्ग्राहकम् । प्रक्षीणसकलकर्मतया ब्रह्मनाड्योत्क्रमणे सत्यर्चिरादिमार्गेण गतस्य मौक्तभोगानुभवार्थं वैकुण्ठस्थो भगवान् गमनयोग्यो भवति नान्यथा । तेन योग्यतार्थकप्रत्ययबलाद्गम्यपदेनापि चतुर्थाध्यायपादचतुष्टयार्थस्सूचितः । फलाध्यायेऽपि ‘‘सम्पद्याविहाय स्वेन शब्दा’’दिति भोगादीनां मूलकारणतया भगवत्सम्पत्तेरेव सूत्रकृता मुख्यतः कथनाद्भाष्यकृताऽपि गम्यमित्येवोक्तम् । भोगेभ्योऽपि भगवदङ्गसङ्ग एव श्रद्धातिशयवता-मेकान्तिनां सङ्ग्रहार्थं च । एवं च विशेषणचतुष्टयमप्युक्तविधयाऽन्योन्यसङ्गतं तत्तदध्यायपादचतुष्टयार्थ-सङ्ग्राहकं चेति द्वेधाऽप्यतिकौशलं भाष्यकारस्य । बहुगुरुसद्भावे सर्वेषामपि नमनसूचनाय स्वगुरोरेकत्वेऽपि गुरूनिति बहुवचनम् । अत एव टीकाकारैर्बहुगुरुनमस्कारोऽपि कृतः । अन्यकृतसूत्रभाष्येषु सत्स्वपि मया सूत्रार्थ उच्यत इति वदता तेषामुत्सूत्रभाष्यता च सूचिता ।
टीकायां चाऽऽनन्दादेः शुद्धत्वं प्राकृतत्वादिदोषराहित्यम्, उरुत्वं पूर्णत्वं, बहुलत्वं बहुसङ्ख्यावत्त्वम् । गुणानामन्योन्यं भेदाभावादेकत्रोक्तमपि विशेषणं सर्वत्राप्यनुसन्धेयम् । इदं च भाष्ये प्रथमविशेषणोक्त-गुणबाहुल्यस्य शृृङ्गग्राहकतया प्रदर्शनार्थम् । ‘‘दोषा रागादयश्च ते’’ इति कैश्चिद्रागादीनामेव दोषत्वोक्तेर् दूष्यतेऽनेन पुरुष इति व्युत्पत्त्या दुःखादीनामपि दोषत्वाद्द्वितीयविशेषणोक्तभाष्यकाराभिमतदोषाणां प्रपञ्चनसूचनाय चिन्तासन्तापेत्यादिकमुक्तम् । दोषाणामतिदूर इति दोषातिदूरवचनं दोषा वर्जिता येनेति समाससूचनेन भगवतस्स्वातन्त्र्यज्ञापनार्थम् । ज्ञेयमित्यत्रोक्तज्ञेयपदेनापरोक्षज्ञेयत्वमेवाभिप्रेत्य तत्कारणत्रयप्रतिपादकपादत्रयार्थस्पष्टीकरणाय सद्भिरित्यादिकमुक्तम् । भाष्यकृता तु कार्यस्योक्तौ कारण-मप्युक्तप्रायमेवेति न पृथगुक्तमिति भावष्टीकाकारस्य । मतिर्मननम् । योग उपायः । तृतीयचतुर्थाध्याययोर् हेतुहेतुमद्भावरूपसङ्गतिसूचनार्थं ज्ञानयोगादिति निमित्तपञ्चमी । दोषदूरत्वं शुद्धस्यैव ब्रह्मणो न शबलस्येति शङ्कां वारयितुं परमपवित्रगङ्गाजनको भगवानेव शुद्धं ब्रह्म नान्यदिति भावेन अमलं ब्रह्मेत्युक्तम् । अपवित्रप्रकृत्याख्यमलरहितममलम् । तच्च सदेति सूचनाय अलमित्युक्तम् । इदं च प्राकृतभौतिक-देहयोगाख्यसंसारातिदूरतया जीवेभ्योऽप्यत्यन्तवैलक्षण्यज्ञापनार्थम् । मुक्तिदायकत्वाच्चास्यैव शुद्धत्वमिति भावेन मुकुन्दाभिधमित्युक्तम् । ‘‘लक्षणप्रमाणाभ्यां हि वस्तुसिद्धि’’रित्यतो लक्षणान्युक्त्वा प्रमाणमपि सूचयितुं वेदान्तवेद्यमित्युक्तम् । वेदनं च मुख्यवृत्त्यैव न लक्षणयेति सूचनाय अभिधापदम् । गङ्गायां गङ्गात्ववन्मुक्तिदायकत्वरूपमुकुन्दत्वस्य भगवत्येव सत्त्वादभिधयैव मुकुन्दो न लक्षणया । इदं च ‘‘एष सर्वेश्वर एष सर्वज्ञ’’ इत्यादिश्रुत्युक्तसर्वेश्वरसर्वज्ञादिसकलवैदिकपदोपलक्षणम् । सर्वेश्वरत्व-सर्वज्ञत्वसर्वान्तर्यामित्वादितत्तत्पदार्थभूतधर्माणां भगवदेकनिष्ठत्वेन तत्तत्पदाभिधेयत्वस्यापि युक्तिबलादेव प्राप्तेः । किं बहुना ‘‘वेदैश्च सर्वैरहमेव वेद्य’’ इति सावधारणगीतोक्तेर् महायोगवृत्त्या भगवानेव सकलवैदिकपदाभिधेय इत्यर्थस्यापि सिद्धेर्न कुत्रापि केष्वपि वैदिकपदेषु लक्षणा । गङ्गापदस्य तीरे लक्षणायां मुख्यार्थस्यान्यस्याऽऽवश्यकत्वदर्शनेन भगवतोऽपि वैदिकपदलक्ष्यत्वे मुख्यार्थस्यान्यस्यापेक्षितत्वेन ‘‘अहमेवे’’त्यवधारणायोगादिति भावष्टीकाकारस्य । ‘‘नावेदविन्मनुते तं बृहन्त’’मिति श्रुतेर्ज्ञेयत्वोक्त्या भाष्यकृताऽपि सूचितमेतत् । वन्द इत्यभिवादनस्तुत्यर्थकधातुग्रहणेन नत्वेति भाष्यपदोक्तप्रह्वीभाव-शब्दयोरप्यभिवादनस्तुतिरूपत्वं सूचितम् । एवं च टीकास्थनान्दीपद्यमेव मूलस्थनान्दीपद्यस्य टीकारूपमिति महत्कौशलं टीकाकारस्य ॥
द्वितीयपद्ये उदैदिति पदमहिम्ना इन्दिरासाम्येनेतरविद्यानां पृथगुक्तेश्च वेदविद्यैव विद्या । तन्त्रशब्देन मूलपञ्चरात्रतन्त्राद् व्यासेनोद्धृतब्रह्मतर्काख्यतन्त्रशास्त्रमुच्यते । तृतीयपद्येऽपि आविर्भूतपदेन श्रुतिस्मृति-प्रचुरतां भाष्यस्याभिप्रैति । अथाविद्यापटलपिहितनयनैरित्यत्राथेत्यस्य चार्वाकबौद्धतार्किककपिलसाङ्ख्याख्य-पञ्चमतप्रवृत्त्यनन्तरमित्यर्थः । अन्यैरेकविंशतिदुर्भाष्यकारैः । प्रारिप्सितभाष्यस्येत्यादेर्वाचनिक-परममङ्गलभगवन्नमस्कारोपबृंहितत्वात्स्वकृतभाष्यं पठतां कैवल्यादिफलं निर्विघ्नपरिसमाप्त्यादिफलं च भवति । निरन्तरायस्य स्वस्य तु भगवत्प्रीतिरेव फलमिति भावः । चेत्यादेरयमर्थः स परमात्मा युक्त्यादिभिस्समन्वयनिरोधिनीभिर्यक्तिपादोक्तयुक्तिभिः समन्वयनिरोधिभिस्समयैः श्रुतिप्रामाण्यविघटनद्वारा समन्वयघातकैस्तृतीयपादोक्तैः श्रुतीनां मिथो विरोधैश्चतुर्थपादोक्तसयुक्तिकश्रुतिविरोधैश्च समन्वये प्रथमाध्यायोक्तश्रुतिसमन्वये निरोधिते सति दोषवान्स्यात् । अपिपदेन समन्वयसाध्यगुणनिरोधवानपि स्यादिति सूचितम् । तथा हि युक्तिपादे स्मृत्यधिकरणोक्तपाशुपतादिस्मृतिविरोधेन भगवाननीशत्व-पराधीनत्वादिदोषवान्स्याद् वेदप्रामाण्यविरोधित्वेनोक्तयुक्त्याऽप्रामाणिकत्वाख्यदोषवान्स्याद् उत्तराधिकरण-त्रयोक्ताकर्तृकत्वाचेतनकर्तृकत्वाचेतनकर्तृकत्वजीवकर्तृकत्वप्रतिपादकयुक्तिविरोधेन भगवानकिञ्चित्करत्वा-समर्थत्वादिदोषवान्स्यात् तदनन्तराधिकरणे च जीवैक्यप्रतिपादकयुक्त्या नीचत्वादिदोषवान्स्यात् तदुत्तराधिकरणत्रये च स्वतन्त्रसाधनान्तरसापेक्षत्वादियुक्त्या सृष्टेः प्रयोजनवत्वयुक्त्या कस्यचित्सुखदानेन कस्यचिद्दुःखदानेन च निरुपचरितस्वातन्त्र्याभावादपूर्णत्ववैषम्यनैर्घृण्यादिदोषवान् स्यात् । समयपादे च निरीश्वरसाङ्ख्यचार्वाकबौद्धजैनानामधिकरणचतुष्टयेनोक्तकुयुक्तिभिर्भगवान्स्वरूपेणैवात्यन्ताभावाख्य-दोषवान्स्यात् । तार्किकपाशुपतशाक्तानामधिकरणत्रयरीत्या अल्पगुणकत्वाप्रयोजककर्तृत्व-पराधीनत्वजगदकर्तृत्वाख्यदोषवान्स्यात् । तृतीयचतुर्थपादाधिकरणपूर्वपक्षप्रापकयुक्त्या वियन्मातरिश्वजीव-मुख्यप्राणाद्यकर्तृतया किञ्चित्कर्तृत्वाख्यदोषवान्स्यात् । ‘‘असम्भवस्तु सतोऽनुपपत्ते’’रित्या-द्यधिकरणोक्तकुयुक्त्यादिभिर्जननमरणादिदोषवान् स्यादिति भावः ।
न रीयतेऽनेनेत्यत्र धातोराङ्पूर्वकत्वमपि ज्ञेयम् । अन्यथा नरमिति स्यात् । न तु नारमिति । न अरमरमणं येनेत्यत्र ‘‘रमु क्रीडाया’’मिति धातोर्भावार्थे औणादिकडप्रत्यये कृते रं रमणं तन्न भवतीत्यरम् अरमणम् । निर्दोषवेदोत्पन्नत्वादित्यत्र न विद्यते अरं दोषो यस्येति निर्दोषं यथार्थज्ञानमेव नारम् । निर्दोषवेदोत्पन्नत्वादिति तत्र हेतुकथनायोक्तमित्यर्थः । यद्यपि नञ्लोपरहितनगनाकादिशब्दगणसङ्ग्राहके न भ्राडिति सूत्रे नारशब्दो नास्ति । तथाऽप्याकृतिगणत्वान्नारशब्दोऽपि सङ्ग्राह्यः ।
श्री रघूत्तमतीर्थविरचितस् तत्त्वप्रकाशिकाभावबोधः
भावबोधः
प्रणम्य कल्याणगुणं रमेशमगाधबोधं जययोगिवर्यम् ।
गुरोर्गुरुं गुरुमार्यांश्च तत्त्वप्रकाशिकाभावमहं प्रवक्ष्ये ॥
अथ ‘ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।
बहुज्ञा एव जानन्ति विशेषेणार्थमेतयोः’ ॥
इत्याचार्योक्तौ लोकानां विश्वासमुपजनयंस्तत्कृतसूत्रभाष्यस्य व्याख्यानं चिकीर्षुः श्रीमज्जयतीर्थचरणो भाष्याद्यपद्यस्थविशेषणपदार्थप्रपञ्चनपूर्वकं मङ्गलमाचरति– शुद्धेति । अत्र शुद्धत्वमानन्दस्य, उरुत्वं संविद्द्युतिबलानां, बहुलत्वमौदार्यवीर्यादेर्विशेषणम् । तत्र शुद्धत्वमानन्दस्य दुःखासम्भिन्नत्वादि । संविद उरुत्वम्, ईश्वरादिगताशेषविशेषविषयत्वम् । द्युतेरुरुत्वं ‘तमेव भान्तम्’ इति श्रुत्युक्तप्रकारेण सकलप्रकाशकत्वमन्यनिष्ठप्रकाशनियामकत्वञ्च । बलस्य त्वप्रतिबद्धत्वम् । औदार्यस्य बहुलत्वं मोक्षादिसमस्तपुरुषार्थसम्बन्धित्वम् । वीर्यस्य त्वारब्धसकलकार्यनिष्पत्तिहेतुत्वमिति द्रष्टव्यम् । ‘गुणैरुदीर्णम्’ इत्युक्त्या प्राप्तगुणगुणिभेदशङ्कानिरासार्थं वीर्यादिस्वरूपदेहमित्युक्तम् । देहस्य परमात्मना सहाभेदस्य ‘यदात्मको भगवांस्तदात्मिकी व्यक्तिः’ इत्यादिना प्रमितत्वाच्छङ्कानिरासः । ‘दोषवर्जितम्’ इत्येतद्दोषस्वरूपप्रदर्शनेन ‘अशेष’ ‘अति’ पदाभ्यां च विवृतम् । ‘ज्ञेयम्’ इत्यत्र ज्ञातृप्रदर्शनं सद्भिरिति । ज्ञातृकथनेन वैराग्याद्युपायकथनेन वेदान्तवेद्यमिति ज्ञानकरणकथनेन च विवृतम् । श्रुतिमती श्रवणमनने। नियतध्यानं स्वयोग्योपासनम् । ज्ञानमपरोक्षम् । योगस्तल्लक्षणोपायः । ‘ज्ञेयम्’ ‘गम्यम्’ इत्यत्र गमने ज्ञानस्य हेतुत्वमस्तीति दर्शयितुं ज्ञानयोगाद्गम्यमित्युक्तम् । विशेष्याकाङ्क्षायां ब्रह्मेत्युक्तम् । मायावादिरीत्या मुकुन्दाभिधस्य निर्गुणाऽभिन्नमन्दोपास्यमायाशबलत्वशङ्कानिरासार्थम् अमलम् इत्युक्तम् । शुद्धमित्यर्थः । गुणैः सर्वैरुदीर्णमित्यादिपदचतुष्टयस्य क्रमेणाद्याध्यायाद्यर्थप्रतिपादकत्वज्ञापनाय तद्विवरणपरस्वपद्यगतविशेषणपदेषु तत्तदध्यायनिर्णीतानन्दादिगुणचिन्तादिदोषराहित्यवैराग्यादि-साधनगमनरूपफलोपन्यासः कृतः ।
व्याचिख्यासितभाष्यमूलसूत्रप्रामाण्यं सूचयन् तत्कर्तृत्वेनोपाधिना वेदव्यासं प्रणमति– याञ्चेति । अत्र ‘यत्र उदैद्विद्येन्दिरा’ इत्यादिना वक्त्रानुकूल्यम्, ‘निर्ज रैः’ इत्यादिना श्रोत्रानुकूल्यम्, ‘याञ्चा’ इत्यनेन प्रसङ्गानुकूल्यञ्च दर्शयता ‘वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता’ । इत्यनुव्याख्यानोक्ता आप्तिमूलता सूत्राणां सूचिता । ब्रह्मसूत्रपदेन ब्रह्मपरश्रुतिव्याख्यानरूपत्वात् श्रुतिमूलत्वं, सूत्रपदेनैव न्यायव्युत्पाद-कत्वोक्त्या युक्तिमूलत्वञ्च सूचितम् । विद्याया लक्ष्म्यभिमन्यमानत्वाल्लक्ष्मीत्वेन, भारतस्य धर्माद्यशेष-पुरुषार्थदातृत्वात् पारिजातत्वेन, ब्रह्मसूत्रस्य स्वश्रवणरूपसेवनवतां मोक्षहेतुत्वादमृतत्वेन, पुराणानां विष्ण्वादितत्वप्रकाशकत्वान्मणित्वेन, शुकस्य सज्जनाह्लादकरत्वादिन्दुत्वेनोत्प्रेक्षा युक्तेति द्रष्टव्यम् ।
व्याख्येयत्वप्रयोजकसफलत्वगम्भीरत्वादि दर्शयन् भाष्यकृतं प्रणमति– स्वान्तेति । वैकर्तनांशुव्रजादेः स्वान्तध्वान्तनिकृन्तनादावशक्तत्वादेव भाष्येण जितत्वम् । जितमहावैकर्तनांशुव्रजत्वे जितचन्द्रचन्द्रिकत्वे हेत्वन्तरं निर्दोषमिति । वैकर्तनांशुव्रजचन्द्रिकयोर्ह्रासादिदोषयुक्तत्वादिति । जितसिन्धुराजत्वे हेतुरमित-मिति । अर्थतो अमितत्वं द्रष्टव्यम् । ग्रन्थस्य परिमितत्वात् । अत्र भाष्यस्य जितमहावैकर्तनांशुव्रजत्वजित-चन्द्रचन्द्रिकत्वोक्त्या तद्विशिष्टाचार्यमुखस्य सूर्यचन्द्रबिम्बाधिक्यं ध्वनितम् । कृपालव इति । यद्यपि ‘स्पृहिगृही’त्यादिना कृपेरालुच्प्रत्ययो न विहितः, तथापि ‘लुशमविधायालुच्करणमन्यत्रापि यथा स्यात् । तेन कृपालुरित्यादि सिध्येत्’ इति वैयाकरणवचनादेतत्साधुता । अत एव कौमुद्याम् ‘हरे कृपालो नः पाहि’ इत्युक्तम् ।
यद्वा कलशवाची अयमालुशब्दः । ‘कर्कर्यालुर्गलन्तिका’ इत्यभिधानात् । तथा च कृपापूर्णकलशा इत्यर्थः । कृपाऽऽलव इत्यपि क्वचित् पाठः । तत्कृपया तेषां मुकुन्दादीनां नमस्कृतानां कृपया । रथ्याद्भिरिति । समासान्तो विधिरनित्य इत्यभिप्रेत्यैवमुक्तम् । अत एव महाभाष्ये ‘शुष्यन्ति तटाकानि’ इति प्रयोगः । रथ्यापैरित्यपि क्वचित् पाठः । सङ्गम्यन्त इति । वाचो विशुद्धीत्युक्तत्वान्मदीयया वाचा इति अर्थसिद्धत्वान्नोक्तम् ।
अथाविद्येति । मङ्गलग्रन्थारम्भयोः कृतत्वेनाथशब्दो भाष्यस्थप्रतिग्रन्थव्याख्यानारम्भार्थो बोद्धव्यः । फलसाधनतासिद्ध्यर्थमिति । फलसाधनतासिद्धिरर्थः प्रयोजनं यस्य नमस्कारस्येति विग्रहः । मङ्गल-युक्तस्यैव ग्रन्थादेः फलहेतुत्वादिति भावः । निरन्तरायपरिसमाप्त्याद्यर्थमित्यत्रापि पूर्ववद्विग्रहः । ग्रथनस्य शिष्यशिक्षार्थस्य वक्ष्यमाणत्वेन फलसाधनतासिद्ध्यादिफलकत्वाभावात् । पुरुषार्थो भवतीति सूचित इति । अतःशब्दोक्तपुरुषार्थं प्रति विहितब्रह्मजिज्ञासायाः साक्षाद्धेतुत्वासम्भवेन जिज्ञासाजन्यज्ञानज-प्रसादस्यार्थसिद्धत्वादिति भावः । विशिष्टगुणानाचष्ट इति । अत्र गुणशब्दो गुणोदीर्णत्वदोषवर्जितत्व-ज्ञेयत्वगम्यत्वरूपधर्मपरः । अनेन नारायणशब्दस्याध्यायचतुष्टयप्रतिपाद्यगुणोदीर्णत्वादिप्रतिपादकत्वप्रदर्शनेन तद्वाच्यस्य ब्रह्मणोऽधिकृतत्वरूपं नम्यत्वे निमित्तमुक्तं भवति ।
नरसम्बन्धित्वादित्यत्र नराः सज्जना विवक्षिताः । न रीयत इति । नञ उपपदाद्रीङ्क्षय इत्यस्माद्धातोः करणे डप्रत्यये प्रज्ञादित्वात् स्वार्थिकाण् प्रत्यये च कृते नारमिति रूपसिद्धिरिति द्रष्टव्यम् । अरमणं दुःखम् । निर्दोषवेदोत्पन्नत्वादिति । निर्दोषवेदवाचकान्नारशब्दात् ‘तस्येदम्’ इत्यणि कृते नारशब्दो वेदजन्यज्ञानवाचीति भावः ।
ननु अरविरुद्धगुणाश्रय इति निर्वचने अरशब्दस्य विरुद्धार्थकनञ्समासे, अरशब्दवाच्यदोषाश्रयो न भवतीति निर्वचने अरायणशब्दस्यान्यार्थकनञ्समासे, नारमणं येनेत्यादिनिर्वचने नारशब्दस्याभावार्थक-नञ्समासे च ‘नञो नलोपः’ इति नलोपे ‘तस्मान्नुडचि’ इति नुडागमे चानरायण इति भवेत् । कथं नारायण इतीत्यत आह– नगनाकादिशब्दवदिति । ‘न भ्राड्’ इत्यादिसूत्रद्वयेऽयमपि शब्द उपसङ्ख्येयः । उक्तनिर्वचनानुसारेणापि नारायणशब्दप्रयोगस्य प्रमाणसिद्धत्वादिति भावः । ‘पूर्वपदात् संज्ञायामगः’ इति णत्वम् । ल्युटष् टित्करणसामर्थ्याद् अयनशब्दोऽधिकरणे त्रिलिङ्ग इति पुल्लिङ्गत्वञ्च युक्तम् । ननु देवतासमुच्चायक‘च’शब्दसद्भावात् ‘अपि’ शब्दः किमर्थ इत्यत आह– स्वस्येति । कथं ‘अपि’पदेनारुचिः सूचितेत्यत आह– यद्यपीति । अनेन ‘अपि’ इत्येतत्तथापीति व्याख्यातं भवति । नतिरितीति । प्रकारवाचि ‘इति’ शब्दस्येत्यरुचिं सूचयतीत्यन्वयो द्रष्टव्यः ॥
ननु ग्रन्थस्य फलसाधनतादेर्नमस्कारेणैव सिद्धेर्ग्रथनं व्यर्थम् । एवमधिकारादिसूचनस्य प्रवृत्त्यङ्गतया कर्तव्यत्वेऽपि न महाफलार्थं तत्कार्यम् । तत्स्मरणेनैव फलसिद्धेरित्यत आह नमस्काराधिकार्यादीति । अधिकारसूचनमेवोपपादयति– तथा हीति ।
श्रीराघवेन्द्रतीर्थविरचितः भावदीपः
भावदीपः
लक्ष्मीनारायणं नत्वा पूर्णबोधान्गुरूनपि ।
तत्वप्रकाशिकाभावदीपं कुर्यां यथामति ॥ १ ॥ यद्यपि
तत्वप्रकाशिकाऽऽकूतं चन्द्रिकातः प्रकाशितम् ।
अपि मन्दकृते सर्वविषया च कृतिर्मम ॥ २ ॥
नूतनैरुदिता ये तु दोषास्तेषामलग्नताम् ।
सम्प्रदर्शयितुं चाऽतः प्रसन्नाः सन्तु सज्जनाः ॥ ३ ॥
इह खलु विविधसांसारिकदुःखपरिश्रमिणामधिकारिणामखिलदुःखनिवृत्तिविशिष्टपरमानन्दावाप्तये प्रवृत्तानामाम्नायानामितिकर्तव्यताभूतब्रह्मसूत्राणां यथावदर्थविवक्षया प्रवृत्तमतिगहनार्थं भाष्यं व्याचिकीर्षु-र्ग्रन्थादौ मङ्गलमाचरति जयतीर्थमुनिः ॥ शुद्धेति ॥
इदं च पद्यं भागवतस्थाद्यपद्यस्य तात्पर्यस्थाद्यपद्यमिव भाष्यस्थाद्यश्लोकविवरणरूपत्वात्तद्वदेव वक्ष्यमाणादिसूचकत्वेन व्याख्येयम् । तथाहि । आद्याध्यायार्थस्य गुणैस्सर्वैरुदीर्णमित्यस्य व्याख्या शुद्धेत्यादि । तत्र शुद्धत्वं चन्द्रिकारीत्या सान्तत्वसातिशयत्वराहित्यम् आनन्दादेस्सर्वस्य विशेषणम् । दुःखासम्भिन्नत्वादेश्चिन्तेत्यादिना लाभात् । उरुत्वादिकं तु सर्वविषयकत्वादिमात्रम् । व्यक्तमेतत्सर्वमग्रे । आनन्दमयोऽभ्यासादित्यादौ परिपूर्णानन्दसंविदादेः, अनुकृतेस्तस्य चेत्यादावुरुद्युतेः, अत्तेत्यादौ सर्वसंहारकत्वाद्युक्त्या उरुबलस्य, मुक्तोपसृप्यव्यपदेशात्तनिष्ठस्य मोक्षोपदेशादित्यादौ मोक्षदानादिना बहुलौदार्यादीनामुक्तेः । एतेन भाष्यस्थगुणपदस्य वैशेषिकादिप्रसिद्ध्या दुःखादिकं वैदिकप्रसिद्ध्या सत्त्वादिकं वा नार्थ इत्युक्तं भवति । द्युतिबलादेर्गुणत्वं तु गुणाद्वाऽऽलोकवदित्यत्र द्वितीये तदनु-विधानादिना वक्ष्यत इति भावः । ननु देहसत्त्वे दुःखादिभोगप्रसङ्गाद्दोषवर्जितमिति भाष्योक्तमसत् । करणवच्चेन्न भोगादिभ्यो ऽन्तवत्वमिति वक्ष्यमाणत्वात् । तदसत्त्वे ज्ञानादिगुणोदीर्णता भाष्योक्ता न युक्ता । असर्वज्ञता वेति सूत्रकृतैव वक्ष्यमाणत्वादित्यतो वीर्यादिदेहमिति । अप्राकृतदेहवत्त्वान्न दुःखादिदोषप्रसङ्ग इति भावः । एतच्च अदृश्यत्वनयगुणसूत्रे रूपोपन्यासादित्यत्र सिद्धम् । तथा अन्यभावव्यावृत्तेश्चेत्यादावपि तस्यैवारूपवदेवेत्यत्र तृतीये उपपादयिष्यमाणत्वात् । द्वितीयाध्यायार्थस्य दोषवर्जितमित्यस्य विवरणं चिन्तेत्यादि । लेपः पुण्यपापसम्बन्धः । चिन्तादयो मुखं प्रधानं येषामस्तीति चिन्तादिमुखराः । ते च ते अशेषदोषा इति विग्रहः । खमुखकुञ्जेभ्य इति मत्वर्थे रः । यद्वा सन्मुखरितं सद्भिः प्रधानीकृतमिति दशमतात्पर्योक्तेर्मुखरशब्द एव प्रधानवाची । चिन्तादिभिर्मुखरा ध्वनन्त इव स्थिता इत्यर्थ इत्यप्याहुः । अधिकं तु ‘भेदनिर्देशात्’ ‘न कर्माविभागादिति चेन्नानादित्वात्’ ‘असंभवस्तु सतोऽनुपपत्तेः’ ‘नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः’ ‘सर्वधर्मोपपत्तेश्च’ इत्यादिभिश्चिन्तादि-दोषाभावस्य द्वितीये वक्ष्यमाणत्वादिति भावः । न कर्मेत्यत्र कर्मणोऽस्वातन्त्र्योक्त्या तल्लेपाभावसिद्धेः । उक्तं च गीताभाष्ये । यः कर्मापि नियमयति कथं तत्तं बध्नातीति । एतेन तार्किकादिरीत्या रागादिरेव दोषपदार्थ इति भ्रमोऽपास्तः । तृतीयाध्यायार्थस्य ज्ञेयमित्यस्य ज्ञाने कर्त्रुपाययोर्गत्युपायत्वस्य चोक्त्या विवरणं क्रियते ॥ सद्भिरिति ॥
एतच्च असार्वत्रिकी सर्वथापि तु त एवोभयलिङ्गादित्यादौ सिद्धम् । वैराग्येति आद्यपादार्थोक्तिः । तत्र गत्यागतिस्वर्गनरकगर्भवासादिस्वरूपोक्त्याऽर्थाद्वैराग्यस्योक्तेः । भक्तीति द्वितीयपादस्य । तत्र भगवन्माहात्म्योक्त्या भक्तेरुक्तेः । श्रुतिमती श्रवणमनने । नियतध्यानं स्वयोग्योपासनमिति तृतीयपादार्थः । तत्र सर्ववेदान्तनये यथाशक्ति कृत्स्नवेदविषयश्रवणमननयोर् उपसंहारादिनयेषु स्वयोग्योपासनस्य चोक्तेः । एतेन ज्ञानप्रणाड्या एतान्येवोपायो नान्यत्कर्मादीति सूचितम् । ज्ञानं साक्षात्कारः स एव योग उपायस्तस्मादिति चतुर्थपादार्थः । तत्र पुरुषार्थनयादौ पुमर्थोपायत्वसिद्धेः । एतेन चतुर्थार्थो गम्यमित्येतदपि विवृतम् । प्रणाड्या वैराग्यादिजाज् ज्ञानात्सद्भिर्गम्यं न कर्मादित इति । अत एवाऽलं सम्यक् मुख्यवृत्त्या असंशयं वा । वेदान्तवेद्यं वेदानामन्तो निर्णयो यस्मात्तेन ब्रह्ममीमांसाशास्त्रेण वेद्यम् । सर्ववेदान्तप्रत्ययमित्यत्रेवान्तो निर्णयः । एतेन भाष्योक्तविशेषणानामधिकृतत्वद्योतनमपि फलं सूचितम् । नारायणपदस्य प्रतिपदं ब्रह्मेति । तेन ब्रह्मतन्त्रे नारायणनतिरनुचितेति शङ्काऽपास्ता । अत एव मुकुन्दाभिधमित्युक्तिः । नारायणमुकुन्दशब्दयोः पर्यायत्वप्रसिद्धेः । वक्ष्यति च ब्रह्मशब्दव्याख्यानं नारायणपदमिति । नन्वेवमुक्तदिशा सविशेषं मुकुन्दाभिधं ब्रह्म चेत्तर्हि-
निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।
ये मन्दास्तेऽनुकंप्यन्ते सविशेषनिरूपणैः ॥
इत्यद्वैत्युक्तदिशा मन्दोपास्यं किं ? नेत्याह ॥ अमलमिति ॥
न विद्यते मलं संसाराख्यं यस्मात्तदमलं संसारनिवर्तकं मुमुक्षूपास्यं न मन्दोपास्यमिति यावत् । मायाख्यमलरहितमिति वाऽर्थः । अलमित्यस्यालममलमिति वाऽन्वयः । एतच्च भाष्यस्थनारायणपदस्य मुक्ताश्रयत्वरूपार्थमभिप्रेत्योक्तम् । एवं वक्ष्यमाणार्थस्यादौ सूचनाच्छ्रोतृशेमुष्यनुकूलिता भवति । तथा वक्ष्यमाणदिशा ब्रह्मशब्दव्याख्यानपरतया तस्यैव नम्यत्वोपपादनपरतया चेदं पद्यं योज्यम् । ग्रन्थगौरवभयान्न प्रपञ्च्यते ॥ १ ॥
गुरूंश्चेत्यत्र को गुरुः कथं च तस्य गुरुत्वमित्यतस्तद्विवृण्वन् व्याचिख्यासितभाष्यमूलसूत्रप्रामाण्यं च सूचयन्मङ्गलान्तरमाचरति ॥ याञ्चेति ॥ सदा भूत्यै भवत्वित्यन्वयः । तन्त्रं पञ्चरात्रम् । ब्रह्मतर्कोऽ-पीत्येके । अत्र यत उदैद्विद्येन्दिरेत्यनेन वक्त्रानुकूल्यं निर्जरैरित्यादिना श्रोत्रानुकूल्यं याञ्चेत्यादिना प्रसङ्गानुकूल्यं च दर्शयता वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलतेत्यनुव्याख्यानोक्ताप्तिमूलता सूत्राणां सूचिता । ब्रह्मसूत्रपदेन ब्रह्मपरश्रुतिव्याख्यानरूपत्वाच्छ्रुतिमूलत्वं न्यायव्युत्पादकत्वाद्युक्तिमूलत्वं च सूचयता ‘‘आप्तिमूलतया चैव श्रुतिमूलतया तथा । युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महदि’’त्यनु-व्याख्यानोक्तत्रिविधप्रामाण्यं स्मारितमिति चन्द्रिकायामेव व्यक्तम् । कामिताखिलदातृत्वसाम्या-द्विद्येन्दिरात्वेन नानापर्वोपेतत्वान्नानाशाखोपबृंहितत्वाद्वा भारतं पारिजातत्वेन जरामृतिनिवृत्युपायत्वाद् ब्रह्मसूत्रममृतत्वेन नानातत्वार्थप्रकाशकत्वादिना पुराणानि मणिगणत्वेन तत्वोपदेशेनाह्लादकत्वाच्छुक इन्दुत्वेनोक्त इति ज्ञेयम् । एवं रूपेण भूतिदः शास्त्रप्रभवत्वादिना गुरुश्चेति भावः । सम्प्रदानत्वा-भावात्सम्बन्धसामान्ये सतामिति षष्ठी । बहुमानपूर्वकं स्वस्वत्वत्यागेन परस्वत्वापादनस्थल एव सम्प्रदानसंज्ञेत्यभियुक्तव्याख्यानात् । अत एव सम्प्रदानमिति गुरुसंज्ञा अन्यथा टि घु भादिवल्लघ्वीमेव तां कुर्यात् । इदं च पद्यं द्वापर इत्यादिभाष्यस्य तात्पर्यतो व्याख्यानरूपम् । तत्र सूत्रोपलक्षिततन्त्र-पुराणादेरप्याप्तिमूलत्वादिना ब्रह्मसूत्रतौल्येन प्रामाण्योक्त्या स्मृतेश्चेत्यादिसूत्रे भाष्ये च वक्ष्यमाणस्मृतीना-मुदाहरणमुपपादितं भवति । स्मृतीनां श्रुत्यादिमूलत्वं च ‘इतिहासपुराणः पञ्चमो वेदानां वेद’ इत्यादितत्वनिर्णयाद्युक्त्या ध्येयम् । विस्तृतमेतत्स्मृतिप्रामाण्यं तत्वप्रदीपे तच्चोक्तमिति भाष्यव्याख्यावसरे
॥ २ ॥
भाष्यस्य व्याख्येयत्वप्रयोजकसफलत्वगम्भीरत्वादि दर्शयन् भाष्यकृतं प्रणमति ॥ स्वान्तेति ॥
अलं समर्थम् । निकृन्तन इत्यत्राप्यन्वेति । वैकर्तनांशुव्रजचन्द्रचन्द्रिकयोस्स्वान्तध्वान्तकृन्तने तापत्रयोन्मूलने चाशक्तत्वाद्भाष्येण जितत्वम् । निर्दोषमिति तयोर्जये हेत्वन्तरम् । तापह्रासादिदोषित्वात्तयोः । अमितम् अमितार्थमिति हेतोर्जितसिन्धुराजत्वम् । तदुक्तं ‘‘भाष्यं चात्यर्थविस्तर’’मित्यनुभाष्ये । अथ तस्मादेवंरूपभाष्याविर्भावकत्वादवसरप्राप्तान्प्रपद्य इति चार्थः । अत्र निकर्तन इति पाठः साधुः । निकृन्तन इति पाठे तु कृती छेदने इति धात्वन्तरस्य रूपं ध्येयम् । तथाहि गीतगोविन्दे । विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशम् इति प्रयोगः । एकेन नखनिकृन्तनेनेति श्रुतौ च ॥ ३ ॥
सन्न्यायरत्नावलिरूपटीकाकर्तॄनर्थयते ॥ श्रीमध्वेति ॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् इत्यत्र शकारेत्संज्ञकलुश्प्रत्ययविधानेनापि तस्य सिद्धत्वेन तिङ्शित्सार्वधातुकमिति सार्वधातुकसंज्ञायां कर्तरि शबिति शपि सति गुणे अयादेशे च अतो दीर्घो यञीति दीर्घे च सति ण्यन्तानां स्पृहीत्यादीनां स्पृहयालुरित्यादिरूपसिद्धावप्यालुच्ग्रहणं शयालुरित्यादिरूपसिद्ध्यर्थमिति मञ्जर्यास्तृतीयस्य द्वितीयपादे अभिधानात् । कृपिधातोरपि आलुच्प्रत्यये कृते संज्ञापूर्वको विधिरनित्य इति पुगन्तलघूपधस्य चेति गुणाभावे च सति कृपालुरिति साध्वित्येके । नष्टधर्मज्ञानलोककृपालुभिरिति गीताभाष्यटीकायामुक्तदिशा कृपाकलशा इति कलशार्थो वा आलुशब्दः । कर्कर्यालुर्गलन्तिकेत्यमरकोशोक्तेः । कृपां लाति आदत्त इति कृपापदोपपदाल्लाऽदान इति धातोर्डुप्रत्यये वा कृपालुरिति रूपम् । (विप्रसंभ्यो ड्वसंज्ञायामित्यत्र मितद्व्रादिभ्य उपसङ्ख्यानमित्युक्तेरित्यन्ये । तत्राद्ये लत्वाभावो दयावत्वरूपार्थलाभश्च क्लिष्टः । अन्त्ययोस्तु तृतीयाध्याये षिद्भिदादिभ्योऽङित्यङि क्रपेः सम्प्रसारणञ्चेति भिदादिगणसूत्रेण निष्पन्नस्य क्रप कृपायामिति धातुरूपस्य कृपेर्लाक्षणिकत्वेन कृपोरोल इत्यत्राग्रहणमित्यष्टमेऽध्याये वृत्तावुक्तत्वेन लत्वाभावोऽर्थानुगमश्च । स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समा इत्यमरव्याख्यानबन्दिघटीये दुर्घटवृत्तौ च कृपां लातीत्यस्यैव साधुतोक्तेरित्याहुः । दयालव इत्यपि क्वचित्पाठः ॥ ४ ॥
स्वगुरून्प्रणमति ॥ श्रीमदिति ॥ ५ ॥ अथेति प्रतिज्ञाया अवसरप्राप्तिमाह । अथ तस्माद् गाम्भीर्यादियुतत्वादिति वा । तत्कृपया तेषां प्रागुक्तानां कृपया ॥ ६ ॥
व्याकुर्वे इत्यात्मनेपदेन प्राप्तमात्मगामिफलं दर्शयति ॥ गङ्गासङ्गेनेति ॥ भाष्यकर्तृतत्प्रतिपाद्ययोः प्रीतेः प्रधानफलत्वेऽपि इदमवान्तरफलमिति भावः । गङ्गासङ्गेन रथ्याद्भिर्नैर्मल्यं यथा लभ्यते तथा मदीयाया वाचो विशुद्धिसिध्द्यर्थं मदीयया वाचा गुरोर्गिरः सङ्गम्यन्ते व्याख्यानव्याख्येयभावेन सम्बध्यन्त इत्यर्थः । यद्वा भाष्यं व्याकुर्व इति प्राधान्येन भाष्यव्याख्याप्रतिज्ञानेऽपि न तावदेव किन्तु यन्न्याय-विवरणोक्तं यच्चानुव्याख्यानादिस्थानान्तरोक्तमवश्यमत्र भाष्ये संयोज्य व्याख्यानार्हं तदप्यत्र संयोज्य व्याक्रियत इति स्ववाक्शुद्धिरूपनान्तरीयकफलं वदन्नेवाह । गङ्गेति । मदीयवाचो विशुध्यर्थं मदीयया वाचा गुरोर्गिरः भाष्यादिस्थाः परस्परं सङ्गम्यन्ते सम्बद्धतया प्रकाश्यन्त इत्यर्थः । अस्मिन्पक्षे वाचो गिरां सङ्ग आर्थिक इति न दृष्टान्तानानुगुण्यं ध्येयम् । एतेन तत्वप्रदीपेनैवालं किमनेनेति प्रत्युक्तम् । तत्र केवलं भाष्यस्यैव व्याख्यानात् । अत एवाग्रे न्यायविवरणाद्युक्तविवरणं नाप्रतिज्ञातकीर्तनम् । अत एव च गीताभाष्याद्युक्तं शास्त्रयोनिसूत्रादौ तत्र तत्र संयोज्य व्याक्रियते । द्युभ्वाद्यधिकरणे चाभाषितं प्रधानं किं संयोज्यत इति चेन्न प्रकृतिजीवावभिधीयेते इत्यन्यत्रोक्तत्वादिति तत्वनिर्णयोक्तमपि संयोज्य व्याक्रियते । ऋक्पूरब्धूः पथामानक्ष इति समासान्तस्तु पथामिति निर्देशेन तस्यानित्यत्वावगतेर्नाश्रितः । तेन रथ्याद्भिरिति साधु ॥ ७ ॥
अथाविद्येत्यथशब्दः प्रतिग्रन्थव्याख्या प्रारभ्यत इति प्रारम्भार्थः । अविद्यापटलमिव तेन पिहितं नयनमिव नयनं मनस्तत्वज्ञानं वा येषां तैरित्यर्थः । पटलपिहितनयनवदविद्यातिरस्कृततत्वज्ञानैरन्यथा व्याख्यातानीत्यर्थः । फलसाधनतासिध्यर्थं फलसाधनतासिद्धये । समङ्गलस्यैव सफलत्वादिति भावः । परिसमाप्त्याद्यर्थं परिसमाप्तिप्रचयादिप्रयोजनाय च अवश्यकर्तव्यमिति शेषः । तदुक्तं सुधायां नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचारादि-नाऽवगतमवश्यकरणीयं शिष्यान्ग्राहयितुं ग्रन्थादौ निबध्नातीति । सूत्रमिति समुदाया(शयं)र्थम् । अत एव तेषामित्यग्रे बहुवचनम् । तस्य निरुपपदस्य । व्यक्तमेतदग्रे मुख्यस्य निर्विशेषेणेत्यादाविति भावः । अत्र गुणदोषादिस्वरूपोक्तिः शुद्धेत्याद्यपद्य एव व्यक्तेति विशेषणानां कृत्यमेव त्रेधा व्यनक्ति वक्ष्यमाणमित्यादिना । प्रस्तावयितुं संक्षिप्यादौ वक्तुम् । तस्य च प्रपञ्चजिज्ञासाजननं फलमिति भावः । प्रसत्त्या प्रसादेन ॥ सूचित इति ॥ अतःशब्देन सङ्क्षिप्योक्त इत्यर्थः ॥ महायोगेति ॥ ‘अतोऽनन्तगुणो’ ‘यच्छब्दा योगवृत्तय’ इत्यणुभाष्योक्तेरिति भावः ॥ दोषवानपीति ॥ समन्वयनिरोधे सर्वकर्तृत्वसार्वज्ञसर्वैश्वर्यादेरसिद्ध्या तत्तन्नयपूर्वपक्षोक्तयुक्त्यादिभिर्जीववज्जनिमृत्यादिदोषवानपि स्यादित्यर्थः । न केवलं सर्वकर्तृत्वादिगुणाभाववानित्यपेरर्थः । तस्य च श्रुत्यैव निरस्यत्वात् तत्समन्वयस्य युक्तिसमयादिभिर्निरुद्धत्वादिति भावः ॥ निर्दोषत्वस्यैवेति ॥ सर्वदोषोञ्झितस्तस्मादित्याद्युक्तेरिति भावः ॥ विरक्त्यादिभिरिति ॥ तस्माद्विरक्तः सन्ज्ञानमेव समाश्रयेदित्युक्तेरिति भावः । प्रविश्य भुञ्जते भोगानित्याद्युक्तेराह ॥ भगवत्प्राप्तीति ॥
ननु ब्रह्मतन्त्रोक्तगुणवैशिष्ट्यं कथं नारायणस्योच्यते किन्तु ब्रह्मण एव वाच्यमित्याशङ्कां निरसितुं योजनान्तरमाह ॥ अथवेति ॥ विशिष्टगुणानिति ॥ विशिष्टानितरासाधारणान् गुणोदीर्णत्वदोष-वर्जितत्वज्ञेयत्वगम्यत्वरूपगुणानित्यर्थः । निर्वक्ति निरुच्य दर्शयति विशेषणचतुष्टयेनेत्यर्थः । भाष्यकारीयं नारायणपदस्य विशेषणचतुष्टयेन विशिष्टगुणवाचकत्वप्रदर्शनं च तस्य ब्रह्मशब्दसमानार्थत्वात् शास्त्रार्थवाचकत्वाच्च नारायण एव शास्त्रार्थ इति दर्शयितुमिति नोक्तशङ्कावकाश इति भावः । एतदपि स्तुत्यर्थमिति सुधोक्तेरुपलक्षणत्वादविरोधः ।
॥ दोषारशब्दयोरिति ॥ ‘‘दोषारछिद्रशब्दानां पर्यायत्वं यतस्तत’’ इत्यनुभाष्योक्तेरिति भावः ॥ नरेति ॥ सज्जनेत्यर्थः ।
॥ न रीयत इति ॥ नञुपपदाद्रीङ् क्षय इति धातोः करणे डप्रत्यये प्रजादिभ्यश्चेति स्वार्थिकेऽण्-प्रत्यये यस्येति चेति लोपे चादिवृद्धौ वक्ष्यमाणदिशा नलोपाभावे च नारमिति रूपमिति भावः । अरमणं दुःखम् । निर्दोषवेदवाचकान्नारशब्दात्तस्येदमित्यणि कृते नारशब्दो वेदजन्यज्ञानवाचीति भावः । ननु नारशब्दाद् वृद्धिर्यस्याचामिति वृद्धसंज्ञायां वृद्धाच्छ इति छप्रत्यये ईयादेशे नारीयमिति स्यात्कथं नारमिति । मैवम् । वा नामधेयस्येति वृद्धसंज्ञाया एवाऽभावात् । ओर्गुण इत्यत्र गुणग्रहणेन संज्ञापूर्वको विधिरनित्य इति ज्ञापनाद्वा । संज्ञया विधीयमानस्यैव संज्ञापूर्वकविधित्वात् । अत एव तृतीयस्य द्वितीयपादे स्पृहिगृहीत्यादिसूत्रे श्रद्धालुरित्यत्र श्लाविति द्विर्वचनमाशङ्क्य संज्ञापूर्वको विधिरनित्य इति द्विर्वचनं नेत्युक्तं मञ्जर्याम् ।
नन्वरायणो नेति व्युत्पत्तौ नलोपो नञ इति नलोपे तस्मान्नुडचीति नुटि सति अनरायणेति भाव्यमित्यत आह ॥ नगनाकादिशब्दवदिति ॥ नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनख-नपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । नगोऽप्राणिष्वन्यतरस्यामित्याभ्यां नाकादिशब्दस्य निपातितत्वेन तत्र यथा सौत्रत्वेन समाधानं तथाऽत्रापि सौत्रत्वेन समाधानमूह्यमिति भावः । तथाहि नलोप इति सूत्रे रात्रेः कृति विभाषेति पूर्वसूत्रादनुवृत्ताया विभाषाया व्यवस्थितविभाषात्वस्य न्यास एवोक्तत्वान्नारायण इत्यत्रापि नलोपाभावाद्युपपत्तिः । यद्वा दोषारेत्याद्यनुभाष्यसुधोक्तदिशा नसमासोऽस्त्विति । लघ्वक्षरं पूर्वमित्युक्तेर्नगनाकेति निर्देशः । नलोपाभावमात्रस्याद्यम् । नलोपाभावनुडभावयोर्द्वितीयमित्येवं निर्देश इत्यप्याहुः । नारायणशब्दे पूर्वपदात्संज्ञायामग इति णत्वं ल्युटष्टित्वसामर्थ्येनायनशब्दोऽधिकरणे त्रिलिङ्ग इति पुल्लिङ्गत्वं च सुधोक्तमेव ध्येयम् । व्यक्तमेतत्सर्वं चन्द्रिकायाम् । नन्वन्यथापि नारायणशब्दार्थ-निरुक्तिसम्भवे किमेवमेव निरुक्तौ बीजमिति चेन्न । ब्रह्मशब्दसमानार्थत्वादिद्योतकत्वेन प्रागेव समाधानात् । किञ्च नारायणनमनस्यावश्यकत्वोपपादनार्थतया च सार्थक्यं विशेषणानामिति भावेनाह ॥ अथवेति ॥
स हि वन्द्य इति ॥ त्रिविधा हि देवता वन्द्या भवति विशिष्टा अधिकृता इष्टा च । भक्तिपूर्वकदेवतानतेर्विघ्नविघातार्थत्वाद् विशिष्टैव देवता तस्येष्टे । अधिकृता च स्वविषयग्रन्थप्रबोधादिकं सम्पादयति । इष्टायामेव देवतायां भक्त्यादिपूर्वं नमनं भवतीति गुणोदीर्णं दोषवर्जितमित्याभ्यां वैशिष्ट्यस्य ज्ञेयमित्यनेनाधिकृतत्वस्य गम्यमित्यनेनेष्टत्वस्य चोक्त्या नम्यत्वमुपपादितं भवतीति भावः । तेन भाष्यं चात्यर्थविस्तरमित्यनुव्याख्यानोक्तं लेशतो दर्शितं भवति । तत्वप्रदीपे त्वर्थान्तरमप्युक्तम् ॥
गुरूनपीति ॥ भाष्ये बहुवचनं बहुवचनं गौरवादेवेति गीताभाष्यटीकोक्ताशयं वा । तमेव शास्त्रेत्यादिभिर्बहुभिः प्रकारैर्यद् गुरुत्वोपपादनं तेन गुरूंश्चेति बहुवचनान्तं पदं विवृतमिति सुधोक्ताभिप्रायं वेति भावः । पतेः पत्युः । शेषोक्तेर्वक्ष्यमाणलक्ष्मीवाक्ये मम योनिरित्यत्रोपयोगः । चकारेणैव गुरुदेवतानतिसमुच्चयलाभादपीति व्यर्थमित्यत आह ॥ स्वस्येति ॥ कथमित्यत आह ॥ यद्यपीत्यादिना नतिरित्यन्तेन ॥ अनेनैवेति ॥ विशेषणचतुष्टयेनैवेत्यर्थः । अन्यार्थमुपात्तेनापीत्येवकारार्थः । सम्बन्धाश्चेति न केवलं प्रागुक्तार्थ इति चार्थः । अधिकार्यादिसूचनं व्यर्थमित्यतः प्रवृत्त्यङ्गत्वमेकं हेतुमुक्त्वाऽन्यं चाह ॥ तत्स्मरणस्येति ॥ सूचिता इत्यन्वयः । तेषां श्रोतृप्रवृत्यङ्गत्वं निर्विषये निष्फलेऽन्यविषयफलोद्देशेनान्यत्र चाप्रवृत्तेस्तद्विषयफले ज्ञात्वैव तत्र प्रवृत्तेर्दर्शनादिति ज्ञेयम् ॥ तदुक्तमिति ॥ प्रथमस्कन्धतात्पर्य इति योज्यम् । प्रारभतः प्रारभमाणस्य । ‘चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदमि’त्युक्तेः । महदिति भिन्नं पदम् । ननु विघ्नाभावस्य नमस्कारेणैव सिद्धेर्ग्रथनं व्यर्थमेव । यदपि तत्स्मरणस्येत्यादि तदप्यसाध्वेव । अधिकार्यादिसूचनस्य श्रोतृप्रवृत्त्यङ्गतया कार्यत्वेऽपि न महाफलार्थं तत्कार्यं तेन विनापि तत्स्मरणसम्भवेन तेनैव फलसिद्धेरित्यत आह ॥ नमस्कारेति ॥ यथाक्रममन्वयः । यद्यदाचरति श्रेष्ठ इत्यादेः शिष्या अप्येवं कुर्युरिति बोधनार्थमित्यर्थः । सूचिता इत्युक्तमेव व्यनक्ति ॥ तथाहीति ॥ विषय इति । सूचित इति सर्वत्रान्वेति । प्रयोज(ने)नम् इति । यथाक्रममवान्तरप्रधानप्रयोजने सूचिते इत्यर्थः ॥ यथायोग्यमिति ॥ नारायणस्य विषयस्य शास्त्रप्रतिपाद्यत्वं ज्ञानस्य तद्विषयकत्वं गमनाख्यफलस्य तज्जन्यत्वं सम्बन्ध इति भावः ।
श्रीमत्सत्यनाथतीर्थयतिविरचिता
श्रीमत्तत्वप्रकाशिकाव्याख्याऽभिनवचन्द्रिका
अभिनवचन्द्रिका
सच्चिदानन्ददेहाय नमः शेषाङ्गशायिने ।
आत्मने वेदवेद्याय मुक्तगम्याय विष्णवे ॥ १ ॥
भवाब्धिर्जानुदघ्नः स्यादानन्दः कण्ठसंमितः ।
मदुपास्त्येति हस्ताभ्यां रामो रक्षतु सूचयन् ॥ २ ॥
विभज्य वेदान् यः सूत्रं चक्रे वेदार्थवित्तये ।
प्रार्थितो ब्रह्मरुद्राद्यैर्नमो व्यासाय विष्णवे ॥ ३ ॥
असाधूनां निबन्धेन कुण्ठितं सूत्रमञ्जसा ।
व्याख्यातं येन सर्वज्ञं वन्दे भाष्यकृतं मुनिम् ॥ ४ ॥
भाष्यबोधाय सत्तर्कदीपावलिमचीक्लृपत् ।
स पद्मनाभतीर्थार्यो दद्याद्विद्यां सतां गुरुः ॥ ५ ॥
श्रीमद्भाष्यं यथाचार्यभावं वै सुप्रकाशितम् ।
वन्दे तान् जयतीर्थार्यान् यैः सुधा निर्मिता मुदा ॥ ३ ॥
व्यासराजेन्दुमाशासे चन्द्रिका यस्य सम्मता ।
दुर्वादिचोरान्विद्राव्य रक्षितं भुवनत्रयम् ॥ ७ ॥
अनधीत्य महाभाष्यं व्याख्यातं यदनुग्रहात् ।
वन्दे तं विधिना सत्यनिधिं विज्ञानसिद्धये ॥ ८ ॥
ज्ञानभक्त्याद्युपेतानामाचार्याणामनुस्मृतेः ।
अञ्जस्तरामि दुर्गाणि येभ्यो लब्धा मया सुधा ॥ ९ ॥
रामचन्द्रप्रसादेन लब्धाऽभिनवचन्द्रिका ।
तत्वप्रकाशिकाव्याख्या व्यज्यते विदुषां मुदे ॥ १० ॥
अनुवादः पूर्वपक्षसिद्धान्तानां करिष्यते ।
अयोगं बहुवाक्यानामुक्त्वा योगः प्रदर्श्यते ॥ ११ ॥
स्वयं मङ्गलमनुष्ठाय शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति – शुद्धेति ॥ ब्रह्म वन्द इत्यन्वयः । सर्वशब्दावाच्यं ब्रह्मेतिमतनिरासाय मुकुन्दाभिधमिति । शुद्धत्वमानन्दस्य, उरुत्वं संविद्द्युतिबलानाम्, बहुलत्वम् औदार्यवीर्ययोर्विशेषणम् । आनन्दस्य शुद्धत्वं परिच्छेदसान्तत्वसातिशयत्वराहित्यम् । उरुत्वं संविद्द्युतिबलानां तदेव । औदार्यवीर्ययोर्बहुलत्वमपि तदेव । प्रत्येकं विशेषणोक्तिस्तु आनन्दस्यैकस्यैव परिच्छेदादिराहित्यमिति भ्रमनिरासाय ।
चन्द्रिकायान्तु – आनन्दादेः शुद्धत्वं सान्तत्वसातिशयत्वरहितत्वमित्युक्तम् । तेषां तु – उरुत्वमुत्तमत्वम्, बहुलत्वं बहुभावशक्तिः । तथा च – शुद्धत्वमानन्दादीनामिव उरुबहुलयोरपि विशेषणमित्याशयः । तेन – उरुबहुलविशेषणयोर्वैयर्थ्यशङ्का परास्ता ।
चिन्तेति ॥ ‘चिन्तामुखरे’त्येव सिद्धे सन्तापादीनां चतुर्णां ग्रहणं तेषां चिन्तासमकक्षत्वेन महादोषत्वसूचनाय । तदन्येषां दोषणामेतत्साम्यनिरासाय अन्यपदार्थत्वेन ग्रहणम् । सर्वसाधारणदोषनिरूपणप्रसङ्गात् । लेपः पापसम्बन्धो ज्ञेयः । पुण्यसम्बन्धस्तु अन्यपदार्थत्वेन ग्राह्यः ।
चन्द्रिकायान्तु – लेपः पुण्यपापसम्बन्ध इत्युक्तम् । यद्यपि पुण्यस्य अदुःखरूपत्वाद् दुःखसाधनत्वाभावाच्च न दोषरूपत्वम् – तथापि कस्य चिद्गुणोऽपि कस्यचिद् दोषो भवति । ईश्वरगुणस्यापि बहुभुक्त्वस्य नृषु दोषत्वदर्शनात् । ईश्वरे पुण्यसम्बन्धज्ञातुरनर्थदर्शनाच्च तद् युक्तमिति द्रष्टव्यम् ।
श्रुतिः=यथाशक्तिश्रवणम् । मतिः=यथाशक्तिमननम् । नियतध्यानं=स्वयोग्योपासनम् । ज्ञानम्=साक्षात्कारः । स एवयोग उपायः । चिन्तासन्तापेत्यादिना स्वरूपातिरिक्तदोषान्निराकृत्य स्वरूपदोषानपि निराचष्टे – अमलमिति ॥ न मलम् अमलं दोषात्मकं नेत्यर्थः । इममेवाभिप्रायं मनसि निधाय चन्द्रिकायाम् ‘अमलं = मुमुक्षूपास्य’मिति तात्पर्यार्थ उक्तः ।
सूत्रकर्तुराप्तत्वं सूचयन् मङ्गलान्तरं निबध्नाति – याञ्चेति ॥ ‘भारतपारिजातसुतरुः, सद्ब्रह्मसूत्राऽमृतम्, तन्त्रपुराणसन्मणिगण’ इति विशेषणत्रयेण वक्त्रानुकूल्यं सूचितम् । निर्जरैरित्यनेन श्रोत्रानुकूल्यम् । याञ्चेत्यनेन प्रसङ्गानुकूल्यम् । सूत्रकाराऽऽप्तभावस्मरणस्य महाफलेहतुत्वात् तत्सूचनं कृतमित्यवधेयम् । (२)
स्वान्तेति ॥ निकृन्तन इति ॥ कृती छेदने, ततो ल्युट् ‘इदितो नुं धातो’ (पा.सू. ७-१-५८) रिति नुमागमः ‘युवोरनाकौ’ (पा.सू. ७-१-१) इति अनादेशे कृन्तनमिति रूपं साधु । ननु– इदित इत्युच्यते, न चाऽयमिदिद् इति चेत्, न– ‘धातो’रिति योगविभागेन नुमङ्गीकारात्, तदुक्तं ‘शेमुचादीनाम्’ (पा.सू. ७-१-५९) इति सूत्रभाष्ये ‘शेतृम्फादीना’मिति वार्तिकं प्रत्याचक्षाणेन भाष्यकृता ‘अथवानैवं विज्ञायते ‘इदितो नुं धातो’रिति कथं तर्हि ‘इदितो नुम्’, ततो ‘धातो’रिती’ति
॥ (३)
श्रीमध्वेति ॥ तत्वमार्गगमनस्य तदुपजीवनेन विनाऽयोगेन तस्यैव मुख्यगुरुत्वात् ‘गुरोर्नाम न गृह्णीयात्’ इत्यनेन निषिद्धत्वाद् गुरुनामग्रहणस्य ‘पद्मनाभतीर्था’ इत्यनुक्त्वा पङ्कजनाभतीर्था इत्याह । यत्किञ्चिन्नामग्रहणं तद्भक्तिपारवश्येनेति द्रष्टव्यम् । अत एव पूर्वश्लोके ‘अमन्दबोधभगवत्पादान्’ इत्युक्तम् । कृपालव इति ॥ यद्यपि – ‘स्पृहिग्रही’(पा०.सू०. ३-२-१५८)त्यत्र कृपेरालुच् प्रत्ययो न विहितस् तथापि व्याकरणान्तरादवगन्तव्यः । अथवा कलशवाच्ययमालुशब्दो बोध्यः । केचित्तु यद्यपि ‘स्पृहिगृही’त्यत्र कृपेरालुच्प्रत्ययो न विहितः, तथापि लुशोविधानेनैव सिद्धे यदालुज्विधानं करोति तज्ज्ञापयति आचार्यः ‘अन्येभ्योऽपि आलुच् प्रत्ययो भवती’ति, कथं रूपसिद्धिः शपि कृते ‘अतो दीर्घो यञी’(पा.सू.७-३-१०१)ति दीर्घे गुणेऽयादेशे ‘स्पृहयालुः’ इत्यादिरूपसिद्धिः, तदुक्तं महाभाष्ये – एवं तर्हि सिद्धे सति यदालुचं शास्ति तज्ज्ञापयत्याचार्यः ‘अन्येभ्योऽपि भवतीति’ति । ननु – ‘आलुचि शीङ्ग्रहण’मिति वार्तिकं प्रत्याचक्षाणेन भाष्यकृता शयालुरिति रूपमेवाभ्यनुज्ञातं न तु कृपालुरिति रूपमिति चेत्, न – ‘अन्येभ्योऽपि अयं भवती’ति भाष्ये बहुवचनप्रयोगात् कृपालुरिति रूपं तदभिप्रेतमेव । ‘संज्ञापूर्वको विधिरनित्य’ इति ‘पुगन्तलघूपधस्य चे(पा.सू.७-३-८६)ति गुणो न । अत एव – ‘हरे कृपालो नः पाही’ति अभियुक्तप्रयोग इत्याहुः । ननु – पङ्कजनाभतीर्थस्यैकत्वादेकवचनेन भाव्यम् । ‘युष्मदिगुरावेकेषा’मिति वचनस्य युष्मच्छब्दाभावादप्रसक्तेरिति चेत्, उच्यते – पद्मनाभतीर्थसमीपगतेषु शिष्येषु पङ्कजनाभशब्दो वर्तते सम्भूयबहुत्वात् ‘बहुषु बहुवचन’(पा.सू.१-४-२१)मित्यनेन बहुवचनमुपपन्नमिति । यथोक्तं ‘फल्गुनीप्रोष्ठपदानां च नक्षत्र’ (पा.सू.१-२-६०) इति सूत्रं प्रत्याचक्षाणेन भाष्यकृता ‘अयमपि योगः शक्योऽवक्तुम्, कथमुदिते पूर्वफल्गुन्यौ उदिताः पूर्वाः फल्गुन्य इति । फल्गुनीसमीपगते चन्द्रमसि फल्गुनीशब्दो वर्तते बहवस्तेऽर्थास् तत्र युक्तं बहुवचनमिति’ (४)
श्रीमद्रमारमणेति ॥ दुर्वादिनां वारयितुमशक्यत्वेन वारणसदृशानि वाक्यानि वारणशब्देन गृह्यन्ते (५)
गङ्गासङ्गेनेति ॥ ‘रथ्यामतन्तीति रथ्यातो ऽतसातत्यगमने ताभिः । अद्भिरिति शेषः । नैर्मल्यं सेव्यत्वम् । अनायासेनेति शेषः । विशुद्धिः सेव्यत्वम् । ततश्च एवं योजना – गङ्गासङ्गेन रथ्याद्भिरद्भिर् यथाऽनायासेन सेव्यत्वं लभ्यते, तथा अनायासेन वाचां सेव्यत्वसिध्द्यर्थं गुरोर्गिरः वाचश्च सङ्गम्यन्ते मया मेल्यन्त इति (७)
भाष्यानारम्भणीयत्वप्रयुक्तं मङ्गलस्य वैयर्थ्यं परिहरति – अथाविद्येति ॥ ग्रन्थादौ अथशब्दोच्चारणस्याऽऽवश्यकतया शिष्टाचारप्राप्तत्वाद् अथशब्दोच्चारणेन मङ्गलान्तरमनुष्ठाय शिष्यशिक्षार्थं निबन्धनं कृतमिति द्रष्टव्यम् । अविद्यया पटलपिहितनयना इव वर्तमानैर् अन्यैर् मिथ्याज्ञानिभिरिति यावत् । सूत्रादर्थमुपलभ्य रचितस्य परभाष्यस्याप्रमाणत्वे सूत्रमप्रमाणं स्यादित्याशङ्कापरिहाराय, अविद्यापटलपिहितनयनैरिति विशेषणम् । सूत्रस्य प्रमाणत्वेऽपि अविद्यावृतत्वप्रयुक्तं मिथ्याज्ञानमिति भावः । अतोऽगतार्थत्वात् श्रीमद्भाष्यस्य अनारम्भणीयत्वशङ्का परास्ता । ‘अखिलफलसाधनतासिध्द्यर्थं, निरन्तरायपरिसमाप्त्याद्यर्थं चे’ति विशेषणद्वयं नमस्कारस्येति द्रष्टव्यम् । तेन ग्रथनस्य शिष्यशिक्षार्थत्वेन कैवल्याद्यखिलफलसाधनतासिध्द्याद्यर्थता नास्तीत्ययुक्तमेतदिति शङ्का परास्ता । ननु सूत्रशब्दस्य सामान्यशब्दत्वात् तेन ब्रह्मसूत्र ग्रहणे लक्षणप्रसङ्ग इत्यत आह ॥ अत्रेति ॥ अत्र हेतुमाह – तस्य चेति ॥ सामान्यशब्दस्य द्वे शक्ती । एका सामान्यधर्मावच्छिन्ने, अपरा मुख्ये विशेषे । तत्राऽऽद्या मुख्या, द्वितीया परममुख्या इति भावः । तेषां चेति ॥ सर्वेषां सूत्राणामेकवाक्यताभिप्रायेण प्राक् ब्रह्मसूत्रमिति एकवचनप्रयोगः । इदानीं तु सर्वाण्यपि सूत्राणि प्रत्येकमवान्तरा ब्रह्मविद्या इत्यभिप्रेत्य बहुवचनप्रयोगः कृतः । दोषवानपि स्यादिति ॥ जिज्ञासाधिकरणे जीवाऽभेदेन पूर्वपक्षे प्राप्ते तस्य गुणपूर्णत्वेन जीवस्य दोषित्वेन विरुद्धधर्माधिकरणात्वाद् भेदः साधितः । गुणपूर्णत्वसिध्द्यर्थं प्रथमाध्याये समन्वयो निरूपितः । युक्त्यादिभिरुक्तसमन्वये निरोधिते विरुद्धधर्माऽधिकरणत्वाभावेन केवलं जीवाऽभिन्नः स्यात्, अपितु – दोषवानपि स्यादित्यर्थः । विशिष्टेति ॥ नारायणशब्दस्य विशिष्टगुणवाचकत्वप्रदर्शनं च न मया नमस्कार्यत्वेन ज्ञापितं ब्रह्म निर्गुणं, किन्तु विशिष्टगुणाभि-धायकनारायणशब्दवाच्यत्वात्सगुणमेव । निर्गुणस्य वन्ध्यापुत्रोपमत्वेन तदुपासनाया निष्फलत्वादिति सूचयितुम् । ननु नारायणशब्दस्य रूढत्वाद्योगप्रदर्शनमयुक्तम् । अखण्डवृत्त्यवयववृत्त्योः समावेशायोगादित्यत आह– नगनाकादिशब्दवदिति ॥ आदिशब्देन पङ्कजादिशब्दा ग्राह्याः । नगनाकादिशब्दानां रूढत्वेऽपि योगस्य दृष्टत्वान् न विरोधः । विरोधस्य दर्शनैकापोद्यत्वादिति भावः । नगशब्दवदित्येतावता पूर्णे नाकादिशब्दग्रहणमनेकस्थलेषु सहचारप्रदर्शनाय । ननु अरविरुद्धगुणाश्रय इति निर्वचने अरशब्दस्य विरुद्धार्थकनञ्समासे, अरशब्दवाच्यदोषाश्रयो न भवतीति निर्वचने अरायणशब्दस्य अन्यार्थकनञ्समासे, न अरमणं येनेत्यादिनिर्वचने च अरशब्दस्य अभावार्थकनञ्समासे च, नञो ‘नलोपो नञ’ इति नलोपे ‘तस्मान्नुडची’(पा.सू.६-३-७४)ति नुडागमे च अनरायण इति भवेत् कथं ‘नारायण’ इतीति चेत्, नञः प्रकृतिभावाश्रयणेन रूपाङ्गीकारात् । प्रकृतिभावविधायके ‘नभ्राडित्यादिसूत्रे नारायणशब्दो न गृहीत इति चेत् । इदं तावदयं प्रष्टव्यः – किमर्थं ‘नासत्यनमुचिनकुले’त्यादीनां ग्रहणम्, ‘नभ्राण्नपान्नवेदास्सुप्रकृत्ये’त्येव सूत्रं किं न कृतमिति, तावदेव सूत्रं चेत् प्रामाणिकानां नासत्यादीनां रूपाणां सिद्धिर्न स्यादिति तेषां ग्रहणमिति चेत् तर्हि – नारायणशब्दस्यापि उक्तनिर्वचनविशिष्टस्य प्रमाणसिद्धत्वात् ‘नभ्रा’डित्यादिषूपसङ्ख्यानमिति गृहाण । तदुक्तं सुधायाम् – ‘ननु नञ्समासे ‘नलोपो नञ इति प्राप्नोति, न – ‘नभ्राड्’ (पा.सू.६-३-७५) इत्यादिषु अस्य वक्तव्यत्वा’दिति । नारायणशब्दस्य यौगिकत्वे रूढत्वाभावप्रसङ्गेन ‘पूर्वपदात्संज्ञायामग’ (पा.सू.८-४-३) इति णत्वाप्राप्तिशङ्कां मनसि कृत्वा योगरूढत्वाङ्गीकारेण ‘पूर्वपदात्संज्ञायामग’ इत्यनेन णत्वाभिधानात् । अयमर्थकलापः सुधाऽभिमतो द्रष्टव्यः । अन्यथा प्रकारान्तरेण णत्वानुपपत्तिशङ्काभावात् ‘पूर्वपदात्संज्ञायामग’ इति णत्वमिति सुधावाक्यमनर्थकं स्यादिति ॥
चन्द्रिकायां तु – ‘नगनाकादिशब्दवदिति ॥ ननु – नभ्राण्नपा’दित्यादिसूत्राभ्यां नगनाकशब्दयोर्नलोपाभाव उक्तः । नारायणशब्दे तु नेति कथं तद्दृष्टान्तीकरणमिति चेत्, मैवम् – स्त्रैणार्थ इत्यत्र ‘स्त्रीपुंसाभ्या’मित्यादिना विहितस्य नञो नलोपाभावार्थं ‘नलोपो नञ’ इति सूत्रे ‘रात्रेः कृतिविभाषे’(पा.सू.६-३-७२)त्यतोऽनुवृत्तायाविभाषाया व्यवस्थितविभाषात्वस्य न्यास एवोक्तत्वेन नारायण इत्यत्रापि नलोपाभावाद्युपपत्ते’रित्युक्तम् । तेषां तु – नगनाकादिशब्दवदित्यादिवाक्यस्य सिद्धान्त्यभिप्रेतमर्थमजानता पूर्वपक्षिणा दृष्टान्तदार्ष्टान्तिकयोर्वैषम्ये शङ्किते न ब्रूमो वयं नलोपाभावविषये नगनाकादिशब्दा दृष्टान्त इति । किं तर्हि – पूर्वोक्तरीत्या रूढत्वाद्यौगिकत्वं न सम्भवतीति शङ्कापरिहाराय योगरूढ्योः समाहारप्रदर्शनाय नगनाकादिशब्ददृष्टान्त उपात्तः । नलोपाभावविषये तु स्त्रैणार्थ इत्यादिशब्ददृष्टान्त इत्याशयः । एतेन दृष्टान्तदार्ष्टान्तिकयोर्वैषम्ये शङ्किते तत्परिहारं मनसि निधाय विभाषाऽनुवृत्त्या नलोपाभावकथनमसङ्गतमिति शङ्का परास्ता । एतेनैव नगशब्दे वैकल्पिकप्रकृतिभावविधानान् नाकशब्दे च नित्यं तद्विधानान् नगवच्चेन्न नाकशब्दवत्, नाकवच्चेन्न नगशब्दवद् इति । नगशब्दवदिति वा नाकशब्दवदिति वा वक्तव्यं न तु नगनाकादिशब्दवदिति । तथा प्राथमिकत्वान् नभ्राडादिशब्दवदिति वक्तव्यमित्यादिक्षुद्रोपद्रवाः परिहृताः । यदेतद्विभाषाऽनुवृत्त्या समाधानकरणं तद् व्यासतीर्थश्रीमच्चरणानां नाभिप्रेतं किन्तु गुडजिह्विकात्वेनाभिहितम् । विभाषानुवृत्तेः सूत्रकारानभिमतत्वात् । तथा हि – यदि नलोपसूत्रे विभाषानुवृत्तिः, साच व्यवस्थितविभाषा स्यात् । तर्हि व्यवस्थितविभाषयैव ‘नभ्राण्नपान्नवेदा’ इत्यादिरूपसिद्धेः सम्भवाद् इदं न प्रणीयात् । प्रणीतवांश्च सूत्रं तज्ज्ञापयत्याचार्यो नलोपसूत्रे न विभाषाऽनुवृत्तिरिति । एतदेवाऽभिप्रेत्य न्यास एवोक्तत्वादित्युक्तम् । स्वाभिप्रेतं च समाधानं यद्वानसमासोऽस्त्वित्युक्तम् ॥
देवतानतिसमनन्तरं गुरूनपि नमतीति ॥ अन्तर्णीतण्यर्थमेतत् । नमयतीत्यर्थः । मया देवताप्रणामानन्तरं गुरुप्रणामं विधाय ग्रन्थारम्भः कृत इति भवद्भिरपि तथाऽनुष्ठेयमिति गुरुप्रणामनिबन्धनं सूचयतीत्यर्थः । स्वस्य गुरुदेवताभेद इति ॥ चशब्देन गुरुदेवताभेदमनूद्य अंशे अपिशब्देन गर्हयामास । द्वयोर्लक्ष्मीव्यासयोर्गुर्वोर्मध्ये महालक्ष्म्या देवताभेदेऽपि व्यासस्य तदभावादिति भावः । इममेव विशेषं सूचयितुं गुरुदेवताभेदो नास्तीति अनुक्त्वा, अरुचिं सूचयतीत्युक्तम् । ननु– तथापि महालक्ष्म्या एव नमस्कारः कर्तव्यः । न तु व्यासस्येत्याशङ्क्याह – यद्यपीति ॥ गुरुर्व्यास एकस्यैव गुरोरभेद इतिसूचनाय गुरुरिति एकवचनप्रयोगः । अन्यथा गुरूनिति प्रकृतत्वाद् गुरव इत्येवाऽवक्ष्यत् । इति शब्दः श्लोकार्थसमाप्तिद्योतकः । इतिशब्दात्परं ज्ञातव्यमिति शेषो द्रष्टव्यः ।
भावबोधे तु – ननु देवतासमुच्चायकचशब्दसद्भावाद् अपिशब्दः किमर्थ इत्यत आह – स्वस्य चेति ॥ कथमपिपदेन अरुचिः सूचितेत्यत आह – यद्यपीति ॥ अनेन अपीत्येतत् तथापीति व्याख्यातं भवति । नतिरितीति ॥ प्रकारवाचीतिशब्दस्य इत्यरुचिं सूचयतीत्यन्वयो द्रष्टव्य इत्युक्तम् । तत्र ‘भेदे अरुचि’मिति अंशभेदेऽरुचिरुक्ता । यद्यपि विशेषानुग्रहार्थं पृथक् नतिरिति नारुचिप्रकारस् तथापि – अनेन अरुचेः सूचितत्वाद् इत्यरुचिं सूचयतीत्यन्वय इत्युक्तम् ।
एवमपि कथमरुचिः सूचितेति चेद् इत्थम् – यदि गुरुदेवतयोर्भेद एव स्यात् तर्हि अनुग्रहार्थमित्येव ब्रूयात् । गुरोः प्रागप्रणतत्वात् । न चैवम् । किन्तु विशेषानुग्रहार्थमित्याह । तेन मन्यामहे स्वगुरोर्देवताभेदसूचने तात्पर्यमिति । एतेन – चशब्देन भेदं विधाय अपिशब्देन निरासे ‘माता वन्ध्ये’तिवद् व्याहतिः स्यादिति शङ्का परास्ता । तत्स्मरणस्य महाफलहेतुत्वाच्चेति ॥ न केवलं प्रवृत्त्यर्थं सूचनम् । अपि तु सूचनाभावे शिष्याणां स्मरणायोगेन महाफलाभावप्रसङ्गात् स्मरणार्थं सूचनं कृतमित्यर्थः । मङ्गलमिव ग्रथनमपि शिष्टाचारपरंपराप्राप्तत्वेन विघ्नविघाताद्यर्थमिति भ्रमनिरासायाऽह– नमस्काराधिकार्यादीति ॥ अधिकार्यादिसूचनग्रहणं दृष्टान्तार्थम् । अधिकार्यादिसूचनमिव मङ्गलनिबन्धनमपि शिष्यशिक्षार्थं न तु विघ्नविघाताद्यर्थमित्यर्थः ।
चन्द्रिकायां तु ॥ – ‘विघ्नाभावस्य नमस्कारेणैव सिद्धेर्ग्रथनं व्यर्थम् । एवमधिकार्यादिसूचनस्य प्रवृत्त्यङ्गतया कर्तव्यत्वेऽपि न महाफलार्थं तत्कार्यम् । तत्स्मरणेनैव महाफलसिद्धेरित्यत आह – नमस्काराधिकार्यादिग्रथनसूचने इती’त्युक्तम् । अयमाशयः – ‘तत्स्मरणस्य महाफलहेतुत्वाच्चे’त्यस्य वाक्यस्य सिद्धान्त्यभिमतार्थमजानता भाष्यकारमहाफलार्थं सूचनमिति विपरीतार्थं जानता पूर्वपक्षिणा न महाफलार्थं कर्तव्यं तत्स्मरणेनैव महाफलसिद्धेरिति शङ्किते तद्विवरणार्थमधिकार्यादिग्रथनसूचने इत्याद्यंशः प्रवृत्त इति ।
न ब्रूमो वयं सूचकमहाफलार्थं सूचनमिति । किं तर्हि न केवलं शिष्यस्य प्रवृत्त्यर्थं सूचनं किन्तु महाफलार्थमिति विवरणप्रकारो बोध्यः । एतेन महाफलार्थं सूचनं न कर्तव्यं तत्स्मरणेनैव महाफलसिद्धेरिति शङ्किते तत्समाधानमनभिधाय शिष्यशिक्षार्थत्वरूपप्रयोजनान्तरवर्णनमसङ्गतमिति शङ्का परास्ता । नारायण एव विषय इति ॥ नारायणस्य स्वरूपेणोक्तत्वेऽपि विषयत्वेनानुक्तत्वात् सूचितत्वोक्तिरुपपन्नेति भावः ।
**ताम्रपर्णी श्रीनिवासविरचिता **
वाक्यार्थमुक्तावली
श्रीगुरुभ्यो नमः ॥ श्रीवेदव्यासाय नमः ॥ हरिः ॐ ।
वन्देऽहमानन्दचिदादिविग्रहं चिन्तादिदोषातिविदूरचित्तम् ।
सद्भिर्विरक्त्यादिभिरञ्जसैव ज्ञेयं मुकुन्दं श्रुतिमुक्तिगम्यम् ।
पान्तु नः श्रीमदाचार्यश्रीपदाम्बुजरेणवः ।
नमत्सुरकिरीटस्थान् ये मणीनतिशेरते ॥ २ ॥
जयतीर्थार्यतरणेर्गोगणोऽस्तु दृशे मम ।
नुदन्नज्ञानतिमिरं मोक्षमार्गं प्रदर्शयन् ॥ ३ ॥
चन्द्रिकाभावबोधादिपूर्वग्रन्थसमाश्रयात् ।
गुरूंश्च तद्गुरून्नत्वा टीकार्थो वर्ण्यते मया ॥ ४ ॥
श्रीविठ्ठलार्यपुत्रेण श्रीमत्तीर्थार्यसेविना ।
श्रीनिवासेन कृत्वा हि रहस्यां पञ्चिकां पुनः ॥ ५ ॥
श्रीमज्जयतीर्थचरणो भाष्याद्यपद्यविशेषणप्रपञ्चनपूर्वकं मङ्गलमाचरति । शुद्धेति ॥ मुकुन्दाभिधं ब्रह्म अलं सम्यक् श्रद्धातिशयपूर्वकं वन्दे इत्यन्वयः । अत्र शुद्धत्वमानन्दस्योरुत्वं संविद्द्युतिबलानां बहुलत्वमौदार्यवीर्ययोर्विशेषणम् । अत्र आनन्दस्य शुद्धत्वं दुःखासमानाधिकरणत्वं, जीवसुखस्य मुक्तौ दुःखासमानाधिकरणत्वेऽपि संसारे तत्समानाधिकरणत्वान्न जीवसुखेऽतिव्याप्तिः । नापि रमासुखेऽतिव्याप्तिः । स्वातन्त्र्येण दुःखासमानाधिकरणत्वस्य विवक्षितत्वात् । स्वातन्त्र्येण दुःखासमानाधिकरणत्वरूपं शुद्धत्वं विवक्षित्वा मुक्तसुखे नित्यमुक्तसुखे चातिव्याप्तिपरिहारेऽपि दुःखसमानाधिकरणात्यन्ताभाववत्वं रमासुखस्य नैवं जीवसुखस्येति विवेको द्रष्टव्यः । ननु चिन्तादिदोषराहित्येन आनन्दस्य दुःखासामानाधिकरण्यं लब्धमिति चेन्न । दुःखादिदोषवत्वादीश्वरानन्दस्य दुःखासमानाधिकरणत्वं कथमिति शङ्कानिरासाय हेतोरसिद्धिव्युत्पादनाय चिन्तेति विशेषणस्य प्राप्तत्वात् । यद्वा शुद्धत्वं सान्तत्वसातिशयत्वाव्यक्त्यादिदोषराहित्यं विवक्षितम् । तच्च रमासुखादौ नास्त्येवेति ज्ञेयम् । अत एव छान्दोग्यव्यासतीर्थीये सत्सुखमहाज्ञानेत्यत्र सुखस्य सत्वमुत्पत्तिनाशदुःख-सम्भिन्नत्वाल्पत्वादिराहित्यमित्यर्थद्वयं सङ्गृहीतम् ।
ननु सान्तत्वसातिशयत्वादिराहित्यं संविदादिष्वप्यस्तीति कथमिदमानन्दमात्रस्य विशेषणमिति चेन्न । संविद उरुत्वं स्वपरगताखिलविशेषविषयत्वम् । अत एव निरतिशयत्वं च । द्युतेः सर्वप्रकाशकत्वं तस्य भासा सर्वमिदं भातीत्यादेः । परप्रकाशनियामकत्वं च ‘‘तमेव भान्तमनुभाति सर्व’’मित्यादेः । परप्रकाशाभिभावकत्वं च न तत्र सूर्यो भातीत्यादेः ।
बलस्योरुत्वं सर्वबलाभिभावकत्वं निरतिशयत्वं च । ‘अभीदमेकमेको अस्मि निष्पालभीद्वाकिमूर्तयः करन्ती’त्यादेः । औदार्यस्य बहुत्वमतीतानागतब्रह्मादीनां पददातृत्वं, रमाया विविधविभूतिदातृत्वं, अन्ततो मुक्तानां सायुज्यलक्षणमुक्तावात्मपददानम् । स्त्रीरूपो मिथुनीभवेदित्यादेः स्त्रीरूपस्य ब्रह्मणः पतितया स्वप्रदानं च । वीर्यस्याध्यवसितान्तगामित्वं ‘श्रुण्वे वीर’ इत्यत्र विरोध्यवसितान्तगामीति सुधायां व्याख्यातत्वात् । तस्य बहुत्वं किं नाम अनन्तकालादारभ्य यद्यत्संकल्पितं तदन्तगामित्वम् । न चातीतानागतवर्तमानाखिलविशेषविषयसंविदस् तादृशसर्वप्रकाशकद्युतेरतीतानागतसर्वबलाभिभावकस्य बलस्योक्तविधस्यौदार्यस्य वा सांतत्वं सातिशयत्वं च सम्भवतीत्युरुत्वादिविशेषणेनैव तल्लाभात्पृथगवक्तव्य-त्वादानन्दस्योर्वित्यादि सान्तत्वराहित्यालाभात् पृथग्विशेषणम् । यत्तु चन्द्रिकायां सान्तत्वसातिशयत्वादि-राहित्यमानन्दादेरिति शुद्धत्वस्य सर्वविशेषणत्वमुक्तं तदुरुबहुपदाभ्यां संख्यापरिमाणप्रकर्षोऽभिधीयते । सांतत्वराहित्यस्यापदार्थत्वादित्यभिप्रेत्येति ज्ञेयम् । आनन्दस्य फलरूपत्वात्तदनुभवस्योच्चताहेतुत्वाद् द्युत्यात्मकदेहानुसन्धानस्यानन्दप्रयोजकत्वान्न दानात् परमं सुखमित्यौदार्यसुखप्रयोजकत्वोपपत्तेश्चानन्दादीनां स्वपदेन ग्रहणम् । अत्र शुद्धेत्यादिना भाष्यस्थगुणपदस्य नैयायिकप्रसिध्या दुःखादिकं वैदिकप्रसिध्या सत्वादिकं बाह्यप्रसिध्याऽमितभुक्त्यादिकं च नार्थ इत्युक्तं भवति । वीर्यादिदेहमित्यनेन गुणैरुदीर्णमित्यनेन प्राप्तगुणगुणिभेदशङ्का निरस्ता । तथा च श्रुतिर् यदात्मको भगवान् तदात्मकी व्यक्तिर् इत्यादिका । वीर्याद्यात्मकमित्यनुक्त्वा देहपर्यन्तधावनेन नारायणस्य देहवत्वे दुःखादिप्रसङ्गो अन्तवत्वं च विदेहत्वेऽ-सर्वज्ञत्वं च स्यात् । यद्वक्ष्यति ‘करणवच् चेन्न भोगादिभ्यः’ ‘अन्तवत्त्वमसर्वज्ञता वे’ति शङ्का निरस्ता । अप्राकृतगुणवद्देहत्वान्न कश्चिद् दोष इति । दोषवर्जितमित्येतद्दोषस्वरूपप्रदर्शनेन नैयायिकमतरीत्या रागद्वेषमोहा दोषास्तद्वर्जितम् इत्यल्पार्थभ्रमं निरस्यन्नशेषातिपदाभ्यां विवृणोति ॥ चिन्तेत्यादिना ।
चिन्ता ‘किं मया कार्यमि’त्यादिरुपा चित्तवृत्तिः, सन्ताप आध्यात्मिकादितापत्रयं, लेपः पुण्यपापसम्बन्धः । चिन्तायाः कर्तव्याज्ञानपूर्वकत्वात् संविद्विरोधित्वेन सुखविरोधित्वेन च तद्ग्रहणम् । ‘‘चिन्तासमो नास्ति शरीरशोषणम्’’इति वचनात् । तापत्रयस्य क्लेशहेतुत्वात् पुण्यपापसम्बन्धस्योद्भवादि-हेतुत्वाच्च प्राधान्येन तेषां ग्रहणम् । चिन्तादीनि मुखानि येषां सन्तीति चिन्तादिमुखरास् ते च ते दोषा इति विग्रहः । ‘मुखकुञ्जरेभ्यो रः’ इति मत्वर्थे रः । तथा चान्यत्र विधिभवमुखरैः सर्वदा सेव्यमानमिति । यद्वा मुखरशब्द एव प्रधानवाची । खसन्मुखरितं सद्भिः प्रधानीकृतमिति दशम-तात्पर्योक्तेः । भाष्ये ज्ञेयं गम्यमिति साध्यसाधनभावगर्भविशेषणद्वयं ज्ञानस्य गमनसाधनत्वादिति भावेन ज्ञानगमनयोः कर्तृसापेक्षत्वादिति पदद्वयं विवृणोति सद्भिरिति ।
ज्ञानोपायप्रदर्शनं वैराग्येत्यादि । श्रुतिः श्रवणं वाक्यार्थज्ञानं मतिर्मननं युक्तिभिरनुचिन्तनम् । अनुमितिरिति यावत् । नियतध्यानं गुरूपदिष्टस्वयोग्यगुणरूपध्यानं तज्जन्यं यदपरोक्षज्ञानं तदेव योग उपायस् तेन गम्यं प्राप्यम् । नम्यत्वप्रयोजकयोर् विशिष्टेष्टत्वयोर्गम्यमित्यन्तैर्विशेषणैर्लब्धत्वाज् ज्ञेयत्वमित्येतदधिकृतत्वप्रदर्शनपरतया प्रकारान्तरेण विवृतम् । वेदान्तवेद्यमिति । वेदानामन्तो निर्णयो येन ब्रह्मसूत्रेण तद्वेद्यमित्यर्थः । वेदान्तवेद्यत्वं च न लक्षणयेति भावेनोक्तमलमिति ।
ननु आद्यसूत्रे ब्रह्मजिज्ञासेति ब्रह्मपदप्रयोगात्कथं भाष्ये नारायणस्य वेदान्तज्ञेयत्वमुक्तमित्यत उक्तं मुकुन्दाभिधं वेदान्तवेद्यमिति ।
ननु वेदान्तवेद्यस्य ब्रह्मणो मुकुन्दाभिधत्वं न सम्भवति । वेदान्तवेद्यस्य मुमुक्षूपास्यत्वात्सगुणस्य मुकुन्दस्य मायाशबलत्वादित्यत उक्तममलमिति । मायाबन्धादिरहितमत एव मुमुक्षूपास्यमिति ।
ननु वेदान्तवेद्यब्रह्म जीव एव । अत एव ब्रह्मसूत्रस्य शारीरकत्वप्रसिद्धिरित्यतश्चोक्तममलमिति । न तु सत्वादिगुणबद्धजीवाख्यमित्यर्थः । गुणबद्धात्मविज्ञानाद्गुणनिवृत्तिरूपमोक्षायोगाद् इति भावः । यद्वा श्रियं वसाना अमृतत्वमायन्निति श्रुतेः प्रकृतेर्मुमुक्षूपास्यत्वात्प्रकृतिः परमं ब्रह्मेति ब्रह्मशब्दवाच्यत्वाच्च श्रीतत्वमेव वेदान्तवेद्यं ब्रह्मेत्यत उक्तं मुकुन्दाभिधममलं वेदान्तवेद्यं ब्रह्मेति । श्रियः पराधीनत्वादमलत्वाभावान्न वेदान्तवेद्यं ब्रह्म श्रीतत्वमिति भावः । अथवा सगुणज्ञानान्मोक्षायोगान्निर्गुणं निराकारं चिन्मात्रं ब्रह्म लक्षणया वेदान्तवेद्यं न तु मुकुन्दाभिधं सगुणमिति अत उक्तं मुकुन्दाभिधममलं निर्गुणनिराकारत्वादिदोषरहितमलं मुख्यया वृत्या वेदान्तवेद्यं ब्रह्म वन्दे इति । निर्गुणस्य ब्रह्मणो बुद्धावनारोहाच्च शशशृृङ्गायितस्य कयापि वृत्त्या वेदान्तवेद्यत्वाभावादिति भावः ।
अत्राद्येन विशेषणद्वयेन लक्षणं विशिष्टत्वं चोक्तम् । सद्भिर्गम्यमित्यनेनेष्टत्वम् । गमनोपायप्रदर्शनेन च वेदान्तवेद्यमित्यधिकृतत्वं वस्तुनिर्धारकं प्रमाणं च उक्तं भवति । अध्यायचतुष्टयव्याख्यानरूपत्वं तस्याद्यपद्यस्य स्फुटमेव । अनेनैव
अधिकारं फलं चैव प्रतिपाद्यं च वस्तु यत् ।
स्मृत्वा प्रारभतो ग्रन्थं करोतीशो महत्फलम् ॥
इत्युक्तमधिकार्यादिकं च सूचितम् ।
सूत्रस्य प्रामाण्यं सूचयन् तत्प्रमाणेन स्मृत्वा मूलगुरुं व्यासं सम्प्रार्थयते । ‘याञ्चेति’ । ससुरेन्द्रयाञ्चेति प्रयोगात् ष्टुत्वाभावः । तथात्वे याचनेति स्यात् । विद्याया इन्दिराभिमन्यमानत्वाद् वेदविद्यायाः प्रादुर्भावमात्रेणेन्दिरासाम्याद् विद्येन्दिरेत्युक्तम् । भारतस्याशेषपुरुषार्थप्रदतया भगवत्पादैर् भारतपारिजात-मधुभूतामिति पारिजातसाम्यस्योक्तत्वात् पारिजातसाम्यम् । उदधिमथनेनामृतोत्पत्तिवद्वेदविद्याविचारेण सूत्राणामुत्पन्नत्वान्न्यायामृतार्णवमिति भागवत्पादैरुक्तत्वाद् अमृतसाम्यम् । भागवतादितन्त्रपुराणानां भगवन्महिमाप्रकाशवत्वेन मणिसाम्यम् । शुकस्य भागवताद्युपदेशे स्वमुखचन्द्रिकया सज्जनाह्लादकत्वादिन्दुसाम्यम् । अत्र यत उदैदिति आदिना शास्त्रप्रणयनोक्त्या विवक्षितार्थतत्वज्ञानादिवक्त्रानुकूल्यं, निर्जरैरिति श्रोत्रानुकूल्यं, याञ्चेति प्रसङ्गानुकूल्यं च सूचयतीति आप्तिमूलता ब्रह्मसूत्राणां सूचिता । ब्रह्मसूत्रपदेन ब्रह्मप्रतिपादकश्रुत्यर्थनिर्णायकन्यायसूचकत्वोक्त्या श्रुतियुक्तिमूलत्वं सूचितम् ।
भाष्यस्य व्याख्येयत्वप्रयोजकं सफलत्वं गाम्भीर्यादिकं च दर्शयन् भाष्यकृतं प्रणमति ‘स्वान्तेति’ । स्वान्तध्वान्तनिकृन्तनविषये तापत्रयोन्मूलनविषये सूर्यचन्द्रज्योत्स्नयोरुपरागादौ ह्रासेन सदोषत्वाद्भाष्यस्य निर्दोषत्वात्तेन तज्जय इति भावेनोक्तं निर्दोषमिति । एतेन सूर्यांशूनां चन्द्रचन्द्रिकायाश्च स्वान्तध्वान्तनिवर्तकत्वतापत्रयनिवर्तकत्वयोरप्रसक्तेः कथं भाष्येण तज्जय इति निरस्तम् । भाष्यस्य स्वविषये निर्दोषत्वात्सूर्यचन्द्रकिरणयोः स्वविषये सदोषत्वाद्भाष्येण तज्जय इति विवक्षितत्वात् । अत्यल्पध्वान्तबाह्यतापनिवर्तकसूर्यचन्द्रकिरणापेक्षया भाष्यगोगणस्यान्यासाध्यतापत्रयनिवर्तकत्वाद् भाष्येण तज्जय इति वाऽभिप्रायः । जितसिन्धुराजत्वे हेतुरमितमिति । प्रतिपाद्यार्थानामनन्तत्वादिति भावः । कृन्तनम् इत्येतत् कृति छेदन इति धात्वन्तरस्य रूपं न तु कृती च्छेदन इतीकारान्तस्य तथात्वे निकृन्तन इति न स्यात् । यद्वा इदितो नुन्धातोरिति सूत्रे धातोरिति योगविभागेन इदित्वाभावेऽपि महाभाष्ये नुमङ्गीकृतत्वेन कृती च्छेदन इति धातौ इदित्वेऽपि नुमः सम्भवान्निकृन्तनम् इति साधुः । निकर्तन इति केचित्पठन्ति । कृपालव इति । यद्यपि स्पृहिगृहीत्यादिना कृपेरालुच्प्रत्ययो न विहितः । तथापि लुशमविधायालुच्करणमन्यत्रापि यथा स्यात्तेन कृपालुरित्यादिसिद्धेरिति वैय्याकरणवचनादेतत्साधु । अत एव कौमुद्यां हरे कृपालो नः पाहीत्युक्तम् । यद्वा कर्कर्यालुर्गलन्तिकेत्यभिधानात् कलश-वाचकोऽयमालुशब्दः । कृपापूर्णकलशा इत्यर्थः । यद्वा कृपां लातीति कृपापदोपपदाल्ला दान इति धातोर् डुप्रत्यये कृपालुरिति रूपम् । कृपालुः सूरतः समा इत्यमरकोशव्याख्यानवन्दिभट्टीयदुर्घटवृत्यादौ च कृपां लातीत्यस्यैव साधुतोक्तेः । दयालव इति क्वचित्पाठः । तत्कृपया ब्रह्मादीनां कृपया ।
व्याकुर्वे इत्यात्मनेपदलब्धमात्मगामिफलं दर्शयति । गङ्गेति । सङ्गम्यन्ते मदीयया वाचा । यद्वा नास्माकं भाष्यव्याख्याने शक्तिः किं नाम मदीयाया वाचो विशुध्यर्थं गुरोर्भाष्यरूपा गिरः व्याख्येयत्वेन न्यायविवरणादिरूपा गिरो व्याख्यानत्वेन सङ्गम्यन्ते इत्यर्थः । अत एव प्रायशोऽधिकरणेषु न्यायविवरणोक्तपूर्वपक्षसिद्धान्तयुक्त्युपन्यासः । शास्त्रयोनिसूत्रे गीताभाष्योक्तमपरव्याख्याननिराकरणं द्युभ्वादिसूत्रे तत्वनिर्णयोक्तं प्रधानं संयोज्य व्याख्यातम् । स्वाप्ययसम्पत्योरन्यतरापेक्षमित्यत्र बृहद्भाष्यानुसारेण विवरणं च कृतम् । रथ्याद्भिरित्यत्र ऋक्पूरब्धूः पथामानक्ष इति समासान्तप्रत्ययस्तु पथामिति निर्देशेन तस्यानित्यत्वावगतेर्नाश्रितः । अत एव शुच्यंपि तटाकानीति महाभाष्ये प्रयोगः । भाष्यप्रतीकग्रहणेन व्याख्यानारम्भार्थोऽथशब्दः । नीयतेऽनेनेति नयनं मनः । अविद्याख्यावरणेन प्रतिबद्धमनस्कैरित्यर्थः । तदुक्तमनुव्याख्याने तमसैवान्यथामतिरिति । सुधायां च तमोगुणः प्रमाणेषु चेतःप्रवृत्तिं प्रतिबध्य प्रमाणाभासानां दोषानाच्छाद्य विपरीतज्ञानमुत्पादयतीति । तमोगुणोऽप्यविद्या-शब्देनोच्यत इति द्रष्टव्यम् । अत्र वक्तव्यं सर्वं प्रमेयमुक्तावल्यामुक्तमनुसन्धेयम् । कैवल्येति । कैवल्याद्यखिलफलसाधनता सिद्धिरर्थः प्रयोजनं यस्य नमस्कारस्येति विग्रहः । मङ्गलपूर्वस्यैव ग्रन्थस्य फलसाधनत्वादिति भावः । ग्रथनस्य शिक्षार्थत्वस्य वक्ष्यमाणत्वेन फलसाधनतासिध्यादिफलकत्वाभावात् । यद्वा नारायणेत्यतः पूर्वं कृतमिति शेषः । तस्य निरुपपदस्य सूत्रशब्दस्य । तेषां ब्रह्मसूत्राणाम् । प्रसत्या प्रसादेन । सूचित इति । अतःशब्दोक्तपुरुषार्थं प्रति विहितब्रह्मजिज्ञासायाः साक्षाद्धेतुत्वासम्भवेन जिज्ञासोत्थज्ञानप्रसादस्यार्थसिद्धत्वादिति भावः । विशिष्टगुणानिति । दोषाभाववत्वस्यापि गुणत्वादिति भावः । नरसम्बन्धित्वादिति । न रीयन्ते न क्षीयन्ते इति नराः सज्जनास्तत्सम्बन्धित्वात्सम्बन्धार्थ इति भावः । न रीयते इति नञ उपपदाद्रीङ् क्षये इत्यस्मात्करणे ‘ड’प्रत्यये प्रज्ञादित्वात्स्वार्थे अण्प्रत्यये च कृते नारमिति सिध्यतीति ज्ञेयम् । अरमणं दुःखम् । निर्दोषवेदेति । न विद्यन्ते अरा दोषा येषान्ते नारा वेदास्तद्वाचकनारशब्देन तस्येदमिति अणि कृते नारशब्दस् तज्जन्यज्ञानवाचीति भावः । क्षयरहितत्वाच्चेति । अत्रापि नय उपपदाद्रीङ् क्षय इति धातोः कर्तरि ‘ऊ’पत्यये न रीयन्ते इति नराः प्रज्ञादित्वात्स्वार्थेऽण्प्रत्यये नारा मुक्ता इत्यर्थः ।
ननु नञोऽभावार्थकत्वे अरशब्दस्याभावार्थकनञ्समासे नलोपो नञ इति नलोपे तस्मान्नुडचीति नुडागमे चानरायण इति भवेत्कथं नारायण इतीत्यत आह नगेति । ‘नभ्राण्नपान्नवेदानासत्यानमुचिनकुल-नखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । नगोऽप्राणिष्वन्यतरस्यामित्येताभ्यां नगादिशब्दस्य श्रौतप्रयोगवशेन निपातितत्वेन नारायणशब्दस्यापि श्रौतत्वात्सोऽपि तत्रोपसंख्येय इत्यर्थः । नभ्राडित्यस्यादित्वात्तद्ग्रहणे कार्ये नाकग्रहणं तु नाकेष्विति बहुवचनमाद्यर्थेऽपि भवतीति द्योतयितुम् । अत एव सूत्रक्रममनुसृत्य नाकनगादिष्विवेति नोक्तम् । तथात्वे नाकशब्दात्पराद्यर्थबहुवचनस्य व्यक्तीकरणेन विवक्षितलाभो न स्यात् । यद्वाऽदिपदेन नैकधेत्यादिनकारसमासयुक्ताः शब्दा ग्राह्याः । तथाच निषेधार्थकनकारसमासः न नञ्समासः । तथाच न दोष इत्युक्तं भवति । ‘पूर्वपदात्संज्ञायामगः’ इति णत्वम् । ल्युटष् टित्करणसामर्थ्यादयनशब्दोऽधिकरणे त्रिलिङ्ग इति पुल्लिङ्गत्वं च युक्तम् । देवतासमुच्चयस्य चशब्देन सिद्धेर् अपिशब्दवैयर्थ्यमित्यत आह स्वस्येति । गुरुदेवताभेद इति । पृथक् नत्यादिसूचिते गुरुदैवतयोर् भेदे अरुचिं सूचयतीत्यर्थः । तत्कथमित्यत आह यद्यपीति । अनेनापीत्येतत्तथापि भेदस्यानुचितत्वेऽपीति व्याख्यातं भवति । यद्वा गुरुदैवतयोरभेदेऽपि विवक्षाविशेषेणैव पृथङ्नतिरिति पृथङ्नतावरुचिं सूचयतीत्यर्थः । विषयादिज्ञानस्य श्रोतृप्रवृत्यङ्गत्वसूचनाय प्रकारं चोपपादयति तथाहि इत्यादिना ।
ननु ग्रन्थस्य फलसाधनतादेर्नमस्कारेणैव सिद्धेर् नमस्कारग्रथनं प्रथमम् अधिकार्यादिसूचनं च व्यर्थमित्यत आह नमस्कारेत्यादिना ।
पाण्डुरङ्गि श्रीनिवासाचार्यविरचिता तत्त्वसुबोधिनी
तत्त्वसुबोधिनी
श्रीवेदव्यासाय नमः
नरसिंहं संप्रणम्य मध्वादीन् सगुरूनपि ।
तत्त्वप्रकाशिकाव्याख्यां करिष्यामो यथामति ॥ १ ॥
भाष्यं व्याचिख्यासुः श्रीमज्जयतीर्थचरणो भाष्याद्यपद्यस्थविशेषणार्थप्रपञ्चनपूर्वकं मङ्गलमाचरति ॥ शुद्धेति ॥ अत्र शुद्धत्वम् आनन्दादेः । उरुत्वं संवित्द्युतिबलानाम् । बहुलत्वं वीर्यौदार्ययोर् विशेषणम् । तथाऽनन्दादेः शुद्धत्वं सान्तत्वसातिशयत्वशून्यत्वादि । संविदि उरुत्वं, ईश्वरादिगताशेषविशेषविषयत्वम् । द्युतेर् उरुत्वं सकलप्रकाशकत्वम् । अन्यनिष्ठप्रकाशनियामकत्वं च । बलस्याप्रतिबद्धत्वम् । औदार्यस्य बहुलत्वं मोक्षादिपुमर्थसम्बन्धित्वम् । वीर्यस्य त्वारब्धसकलकार्यनिष्पत्तिहेतुत्वमिति द्रष्टव्यम् । ‘गुणैर् उदीर्णम्’ इत्युक्त्या प्राप्तगुणगुणिभेदशङ्कानिरासार्थं वीर्यादिस्वरूपदेहमित्युक्तम् । देहस्य परमात्मना सहाभेदस्य यदात्मको भगवान् तदात्मिका व्यक्तिरित्यादिना प्रमितत्वान् न दोषः । दोषवर्जितमित्येतद्दोष-प्रदर्शनेनाशेषातिपदाभ्यां विवृतम् । ज्ञेयमित्यत्र ज्ञातृप्रदर्शनं सद्भिरिति । तच्च ज्ञातृकथनेन वैराग्याद्युपायकथनेन च विवृतम् । श्रुतिमती श्रवणमनने । नियतध्यानं स्वयोग्योपासनम् । ज्ञानमपरोक्षम् । योग उपायः । ज्ञेयं गम्यमित्यत्र गमने ज्ञानस्य हेतुत्वमस्तीति दर्शयितुं ज्ञानयोगादित्युक्तम् । अमलं मुमुक्षूपास्यं न तु परमत इव मुकुन्दाभिधं मन्दोपास्यम् । व्याचिख्यासितभाष्यस्य मूलभूतसूत्रप्रामाण्यं सूचयन् तत्कर्तृत्वेन वेदव्यासं प्रणमति ॥ याञ्चेति ॥ अत्र यत उदैद् विद्येन्दिरेत्यादिना वक्त्रानुकूल्यं, निर्जरैर् इत्यादिना श्रोत्रानुकूल्यं, याञ्चेत्यादिना प्रसङ्गानुकूल्यं च दर्शयता आप्तिमूलता सूत्राणां सूचिता । ब्रह्मसूत्रपदेन ब्रह्मपरश्रुतिव्याख्यानरूपत्वात् श्रुतिमूलत्वं, सूत्रपदेनैव न्यायव्युत्पादकत्वोक्त्या युक्तिमूलत्वं च सूचितम् । विद्याया लक्ष्म्यभिमन्यमानत्वाद् लक्ष्मीत्वेन, भारतस्य धर्माद्यशेषपुरुषार्थदातृत्वात् पारिजातत्वेन, ब्रह्मसूत्रस्य स्वश्रवणरूपसेवनवतां मोक्षहेतुत्वाद् अमृतत्वेन, पुराणानां विष्ण्वादि-तत्वप्रकाशकत्वान् मणित्वेन, शुकस्य सज्जनाह्लादकारणत्वाद् इन्दुत्वेन उत्प्रेक्षा युक्तेति द्रष्टव्यम् । भाष्यस्य व्याख्येयत्वप्रयोजकसफलत्वगम्भीरत्वादि दर्शयन् भाष्यकृतः प्रणमति ॥ स्वान्तेति ॥ वैकर्तनांशु-व्रजादेः स्वान्तध्वान्तनिकृन्तने ह्यशक्तत्वादेव भाष्येण जितत्वम् । जितमहावैकर्तनांशुव्रजत्वे जितचन्द्रचन्द्रिकत्वे च हेत्वंतरं निर्दोषमिति ॥ वैकर्तनांशुव्रजजितचन्द्रचन्द्रिकयोर् ह्रासादिदोषयुक्तत्वाद् इति । जितसिन्धुराजत्वे हेतुर् अमितमिति । अर्थतोऽमितत्वं द्रष्टव्यम् । ग्रन्थस्य परिमितत्वात् । अत्र भाष्यस्य जितमहावैकर्तनांशुव्रजत्वचन्द्रचन्द्रिकत्वोक्त्या तद्विशिष्टाचार्यमुखस्य सूर्यचन्द्रबिम्बाधिक्यं ध्वनितम् ।
कृपालव इति । ननु स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् इत्यनेन कृपेरालुच्प्रत्ययो न विहितः । तथा च कृपालव इति कथमुक्तमिति चेत् । लुशमविधाय आलुच्करणमन्यत्रापि यथा स्यात्तेन कृपालुरिति सिद्ध्येदिति वैय्याकरणवचनादेतत्साधु । अस्यायमभिप्रायः । स्पृह्यादौ आलुच् किमर्थं विहितः लुश्प्रत्ययेनैव स्पृहयालुरित्यादिरूपनिष्पत्तिसम्भवात् । कथमिति चेत् स्पृहीत्यस्योपरि लुशि कृते शित्वात् सार्वधातुकसंज्ञायां शपि कृते सार्वधातुकेत्यनेन गुणे सति अयादेशे जाते अतो दीर्घो यञीत्यनेन दीर्घे सति स्पृहयालुरिति सिद्ध्येदेव । एवमपि आलुच्प्रत्ययो विहितः । तेनैव ज्ञायत अन्यत्रापि सम्भवतीति । तथा च कृपेरपि सम्भवतीति कृपालुरिति साधु । यद्वा कलशवाची अयमालुशब्दः । तथाच कृपापूर्णकलशा इत्यर्थः ।
तत्कृपया तेषां मुकुन्दादीनां नमस्कृतानां कृपया । रथ्याद्भिरिति । न च ऋक्पूरब्धूः पथामित्यनेन अप्रत्यये रथ्यापैरिति भवेदिति वाच्यम् । समासान्तो विधिरनित्य इत्यभिप्रेत्यैवमुक्तत्वादिति भावः । गङ्गासङ्गेन यथा रथ्याद्भिर् नैर्मल्यं लभ्यते तथा मदीयाया वाचो विशुद्धिसिद्ध्यर्थं गुरोर् गिरः मदीयया वाचा सङ्गम्यन्ते व्याख्यानव्याख्येयभावेन सम्बध्यन्ते इत्यर्थः । यद्वा गुरोर् गिरः परस्परं गम्यन्ते सम्बद्धतया प्रकाश्यन्त इत्यर्थः । अथाविद्येति ॥ मङ्गलग्रन्थारम्भयोः कृतत्त्वेन भाष्यस्य प्रतिग्रन्थ-व्याख्याप्रारम्भार्थो ऽथशब्दः । फलसाधनतासिध्यर्थमिति । फलसाधनता सिद्धिर् अर्थः प्रयोजनं यस्य नमस्कारस्येति विग्रहः । मङ्गलयुक्तस्यैव ग्रन्थादेः फलहेतुत्वादिति भावः । निरन्तरायमित्यत्राप्येवमेव विग्रहः । ग्रथनस्य शिष्यशिक्षार्थत्वस्य वक्ष्यमाणत्वेन फलसाधनतासिद्ध्यादिफलकत्वाभावादिति भावः । सामान्यशब्दत्त्वात् सूत्रशब्देन सूत्रमात्रग्रहणप्रसक्तौ सकलसूत्रार्थस्य चोत्तरत्रानुक्तेर् व्यर्था प्रतिज्ञा स्यादित्यतः सूत्रशब्दस्य विवक्षितमर्थमाह । अत्रेति । तत्र युक्तिकथनं निरुपपदेति । अनेन सूत्रपदं ब्रह्मसूत्रवाचकं निरुपपदत्त्वाद् इत्यनुमानं सूचितं भवति । अप्रयोजकतापरिहारायाह । तस्येति । निरुपपदसूत्रशब्दस्येत्यर्थः । नन्वेवं निरुपपदसूत्रशब्देन सूत्रशब्दमुख्यार्थस्यैव प्राप्तावपि कुतो ब्रह्मसूत्राणा-मेव लाभ इत्यत आह । तेषां च ब्रह्मसूत्राणां तादृशत्त्वात् सूत्रशब्दमुख्यार्थत्वादिति । पुरुषार्थो भवतीति सूचित इति । भगवत्प्रसादस्य मोक्षहेतुत्वम् अतःशब्देन संक्षिप्योक्तमित्यर्थः ॥ पुरुषार्थं प्रति विहितब्रह्मजिज्ञासायाः साक्षात् हेतुत्वासम्भवे च प्रसादस्यार्थसिद्धत्वादित्यर्थ इत्यप्याहुः ।
विशिष्टगुणानप्याचष्ट इति । अत्र गुणशब्दः गुणोदीर्णत्वदोषवर्जितत्वज्ञेयत्वगम्यत्वरूपधर्मपरः । नारायणशब्दस्य विशिष्टगुणवाचकत्वप्रदर्शनं च तस्य ब्रह्मशब्दसमानार्थत्वात् शास्त्रार्थवाचकत्वाच्च नारायण एव शास्त्रार्थ इति दर्शयितुम् । तथाच ब्रह्मणो नम्यत्वे निमित्तमधिकृतत्वमित्युक्तं भवति । नरसम्बन्धित्वादित्यत्र नराः सज्जनाः । न रीयत इति । नञुपपदाद् रीङ् क्षये इत्यस्माद् धातोः करणे उप्रत्यये प्रज्ञादित्वात् स्वार्थिके अण्प्रत्यये च कृते नारमिति रूपसिद्धिरिति द्रष्टव्यम् । अरमणं दुःखम् । निर्दोषवेदोत्पन्नत्वादिति । निर्दोषवेदवाचकान्नारशब्दात् ‘तस्येदम्’ इत्यपि कृते नारशब्दो वेदजन्यज्ञानवाचीति भावः ॥ अरतिरहितत्वादिति । न रीयन्तेऽनेनेति नरा नरा एव नारा इति विग्रहे कर्मणि डप्रत्यये स्वर्थिके अण्प्रत्यये सति नारा इति सिद्ध्यतीति भावः ।
ननु अरविरुद्धगुणाश्रय इति निर्वचने अरशब्दस्य विरुद्धार्थकनञ्समासे अरशब्दवाच्यदोषाश्रयो न भवतीति निर्वचने अरायणशब्दस्य अन्यार्थकनञ्समासे नारायणं येनेत्यादिनिर्वचने नारशब्दस्या-भावार्थकनञ्समासे च ‘‘नलोपो नञ’’ इति नलोपे तस्मान्नुडचि लुप्तनकारस्याजादेर्नुडागमः स्यादिति नुडागमे अनरायण इति भवेत् । कथं नारायण इति इत्यत आह । नगनाकादिशब्दवदिति । ननु नभ्राण्नपान्न-वेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । एषु नञ् प्रकृत्या स्यात् । नगोऽप्राणिष्वन्यतरस्याम् । नगशब्दस्य नञ् प्रकृत्या स्यादप्राणिषु अन्यतरस्याम् इति सूत्रद्वयेन नाकनगशब्दयोर् नलोपाभाव उक्तः । नारायणशब्दस्य तु नेति कथं तद्दृष्टान्ताङ्गीकरणमिति चेत् ।
अत्राहुर् नभ्राडिति सूत्रद्वयेऽयमपि शब्द उपसङ्ख्येयः । उक्तनिर्वचनानुसारेणापि नारायणशब्दप्रयोगस्य प्रमाणसिद्धत्वादित्यत्र तात्पर्यमित्यप्याहुः । वस्तुतस्तु स्त्रैणार्थ इत्यत्र स्त्रीपुंसाभ्याम् इत्यादिना विहितस्य नञो नलोपो नञ इति सूत्रे रात्रेः कृति विभाषेत्यतोऽनुवृत्ताया विभाषाया व्यवस्थितविभाषात्त्वस्य न्यास एव वोक्तत्वेन नारायण इत्यत्रापि नलोपाभावाद्युपपत्तेः । यद्वा नसमासोऽयमित्यदोषः । ननु तर्हि नारायन इति स्यान्न तु नारायण इति । विधायकाभावेन तदसम्भवात् । न च रषाभ्यामित्यनेन तदुपपत्तिः । भिन्नपदत्वेन णत्त्वासम्भवादिति चेन्न । पूर्वपदात्संज्ञायामगः । पूर्वपदस्थान्निमित्तात्परस्य संज्ञायां नस्य णत्वं स्यान्न तु गकारव्यवधाने इति सूत्रेण णत्वं भविष्यतीति न दोषः । न चायनशब्दस्य नपुंसकत्वात् पुल्लिङ्गत्वं कथमिति वाच्यम् । ल्युटष् टित्करणसामर्थ्यात् ङिपि समागते नारायणीति भवति । तथा नपुंसकत्वनियमो नेति पुल्लिङ्गत्वमपि भवतीति भावः । ननु देवतासमुच्चायक-शब्दसद्भवादपिशब्दः किमर्थ इत्यत आह । स्वस्येति । कथमपिपदेनारुचिः सूचितेत्यत आह । यद्यपीति । अनेनापीत्येतत्तथापीति व्याख्यातम् । पृथङ्नतिरितीत्यत्रत्यस्येतिशब्दस्य इत्यरुचिं सूचयतीति पूर्वेणान्वयः । अनेनैवेति । ज्ञेयमित्यादिनैवेत्यर्थः । अधिकारादिसूचने श्रोतृप्रवृत्त्यङ्गभूतत्वरूपम् एकं हेतुमुक्त्वा हेत्वन्तरमाह ॥ तत्स्मरणस्येति ॥ महाफलसाधनस्मरणार्थत्वात् सूचनमावश्यकमेवेति भावः । ननु ग्रन्थस्य फलसाधनत्वस्य विघ्नाभावस्य च नमस्कारेणैव सिद्धेर् ग्रथनं व्यर्थम् । एवम् अधिकारादि-सूचनस्य प्रवृत्त्यङ्गतया कर्तव्यत्वेऽपि न महाफलार्थं तत्कार्यम् । तत्स्मरणेनैव फलसिद्धेरित्यत आह ॥ नमस्काराधिकार्यादीति ।
श्रीनिवासतीर्थविरचितं श्रीतत्त्वप्रकाशिकाव्याख्यानं वाक्यार्थविवरणम्
वाक्यार्थविवरणं
यादवार्यगुरून्नत्वा तद्दयादिष्टमार्गतः ।
यान्यत्रागम्यवाक्यानि तेषां भावो निरूप्यते ।
अमलमिति अस्य अकारवाच्यस्य विष्णोः, मा-ज्ञानं येषां ते अधिकारिणो ऽमास् तान् लाति-गृह्णातीत्यमलस् तम्, न विद्यते मलं रागादिकं येषां ते अमला मुक्ताः, ते अस्य सन्तीत्यमलस् तमिति वाऽर्थः । अथेति । भाष्यगतप्रतिवाक्यव्याख्यानारम्भार्थोऽथशब्दः । ‘रथ्यात्’ इति विशिष्टोऽयं शब्दः । ‘‘अत सातत्यगमने’’ इति धातोः सन्ततगमनवद्भिरित्यर्थ इत्याहुः ।
आद्यपद्ये भगवत्पादैः किं क्रियते इत्यत आद्यपद्यमवतारयति अविद्यापटलपिहितनयनैरिति । नयनशब्देन नयनार्थज्ञानविवक्षायां दुर्जनानां यथार्थज्ञानप्रसक्तेरभावात्तस्य अविद्यापटलप्रतिबध्यत्वोक्ति-रयुक्ता । यद्वा नीयतेऽनेनेति करणव्युत्पत्त्या तत्साधनविवक्षा, तदापि दुर्जनस्वरूपेन्द्रियस्य यथार्थज्ञानजनकत्वप्रसक्तेरभावात् तस्य अविद्यापटलप्रतिबध्यत्वोक्तिरयुक्तेति चेत् । उच्यते । नयनशब्देन यथार्थज्ञानजननशक्तिमन्तीन्द्रियाण्येव विवक्षितानि । न चोक्तदोषः । इन्द्रियाणां यथार्थज्ञानजनकत्व-रूपप्रामाण्यस्यौत्सर्गिकत्वेन तदिन्द्रियाणामपि इन्द्रियत्वात्सज्जनेन्द्रियवद् यथार्थज्ञानजनकत्वं प्रसक्तम् । तदविद्याशब्दवाच्यतदीययोग्यतालक्षणदोषेण प्रतिबद्धमित्युच्यते । इन्द्रियाणामपवादे सति अयथार्थज्ञान-जनकत्वादित्याशय इति केचिदाहुः । वस्तुतस्तु नयनशब्देन प्रकृतत्वाद् यथार्थज्ञानजनकानि सूत्राण्येव गृह्यन्ते । सूत्रतात्पर्यापरिज्ञानमविद्याशब्देनोच्यते । यथा च सूत्राणां सज्जनान्प्रतीव अन्यान्प्रत्यपि यथार्थज्ञानजनकत्वं प्रसक्तम् । तदविद्यालक्षणदोषेण प्रतिबद्धमित्युच्यते । एवं च सूत्रतात्पर्यापरिज्ञान-लक्षणदोषेण प्रतिबद्धयथार्थज्ञानजनकत्वशक्तिमत्सूत्रवद्भिरन्यैरित्यर्थो द्रष्टव्यः । अपरे तु नयनैर् नयनसदृशैरित्याहुः ।
कीदृशो नमस्कार इत्यतः नमस्कारस्वरूपकथनार्थं प्रारिप्सितेत्याद्युक्तम् । प्रारिप्सितभाष्यस्य या कैवल्याद्यखिलफलसाधनता तत्सिद्धिरर्थो यस्येत्यर्थः । अध्येतॄणामिदं भाष्यं कैवल्याद्यखिलफलसाधनं भवत्वित्याशयेन नमस्कारः कृत इत्याशयः । अन्येषां निरन्तरायपरिसमाप्तिप्रचायार्थकमिति नमस्कार-स्वरूपकथनम् ॥ आचार्याणां निरन्तरायपुरुषत्वेन तत्कृतनमस्कारस्य तदफलकत्वादिति ध्येयम् । पाणिन्यादिसूत्रव्यावृत्त्यर्थमाह ॥ अत्रेति ॥ उच्यते मुख्यवृत्त्या प्रतिपाद्यते । कुत इत्यत आह । तस्येति । निरुपपदसूत्रशब्दस्येत्यर्थः । तथापि कुतो ब्रह्मसूत्राणां ग्रहणमित्यत आह ॥ तेषां चेति । ब्रह्मसूत्राणामित्यर्थः । तादृशत्वान् मुख्यत्वाद् इतरसूत्रापेक्षयेति शेषः ।
श्रोत्रिति ॥ अन्यथा कुत्र किं साधितमिति शिष्यबुद्धिर्व्याकुला स्यादिति भावः । प्रस्तावयितुं संक्षिप्यादौ वक्तुम् । तस्य प्रपञ्चे जिज्ञासाजननं फलमिति भावः । प्रसत्त्येति प्रसादेनेत्यर्थः । कण्ठतः प्रसादस्यासूत्रित्वात् सूचित इत्युक्तम् । स च नारायणः । युक्त्यादिभिरित्यत्रादिपदेन समयश्रुतिन्यायोपेतश्रुतिग्रहणम् । गम्यमित्युक्त्या कथं शङ्कापरिहार इत्यत आह ॥ तत्रेति । विशिष्टगुणान् विलक्षणगुणान् । नरसम्बन्धित्वमज्ञानादिसाधारणमिति द्वितीया व्युत्पत्तिः । साऽप्यौषधादिसाधारणेति तृतीया । साऽप्यमृतादिसाधारणेति चतुर्थी । साऽपि गङ्गास्नानादिसाधारणेति पञ्चमीति द्रष्टव्यम् । ननु न अरायण इति स्थिते नलोपो नञः । ‘नञो नस्य लोपः स्यादुत्तरपदे परे’ इति नलोपे अ अरायण इति जाते तस्मान्नुडचि । तस्माल्लुप्तनकारात्परे नुडागमः स्यादचि परे इति नुडागमे अनश्व इतिवद् अनरायण इति भवेत् । नारायण इति कथमित्यत आह ॥ नगेति ॥
यद्यपि तथापि इति अपिशब्दः व्याख्यातः । न देवतेति । तथा च पृथङ्नतिर्व्यर्थेति भावः । एवं च एवं शङ्कानिवर्तनाय प्रकृतेन अपिशब्देन भेदे अरुचिरपि सूचितेति ध्येयम् । श्रोतृप्रवृत्तीति । ‘ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तत’ इत्युक्तेरिति भावः ।
ननु यथाकथञ्चिद् विषयादिसूचनं कर्तव्यं, तदादावेव कस्मात्कार्यम् । अन्ते मध्ये वा कस्मान्न क्रियते इत्यत आह ॥ तत्स्मरणस्येति ॥ महाफलहेतुत्वाच्च तत्स्मरणमादावेव कर्तव्यमिति भावः । अत एवात्रानेनैवेत्युक्तम् । आदिग्रन्थेनैवेत्यर्थः । उत्तरत्र स्मृतावपि ‘‘स्मृत्वा प्रारभत’’ इत्युक्तम् । आरम्भं कुर्वत इत्यर्थः । तदुक्तं प्रथमस्कन्धभागवततात्पर्ये इति शेषः । मोक्षेच्छुसुराणकादिव्यावृत्त्यर्थं योग्य इत्युक्तम् । प्रयोजनम् अवान्तरमुख्यप्रयोजनम् ।
शर्करा श्रीनिवासविरचिता वाक्यार्थमञ्जरी
वाक्यार्थमञ्जरी
श्रीलक्ष्मीवेङ्कटेशाय नमः ॥ श्रीमदस्मद्गुरुवरयादवार्यकरपूजितगुणपूर्णबादरायणाय नमः ॥
रामं सर्वगुणैः पूर्णं निर्दोषं साधुसेवितम् ।
मुक्तिदं जानकीकान्तं प्रणमामि निरन्तरम् ॥ १ ॥
ज्ञानभाक् हृत्तमोहर्ता श्रुतिपङ्कजबोधकः ।
व्यासांशुमान् दर्शयतु सन्मार्गङ्गुणमण्डलः॥ २ ॥
वाग्ज्योत्स्नाध्वस्तह्रद्ध्वान्तं विबुधाब्ध्यर्द्धि साधकम् ।
शुद्धाध्वबोधकं सेवे नित्यं मध्वविधुं विदे॥ ३ ॥
मध्वसिद्धान्तमामथ्य शुद्धधीमन्दराद्रिणा ।
लब्धा न्यायसुधा येन तं जयीन्द्रमहं भजे॥ ४ ॥
दुर्वादिमातङ्गसिंहान् सर्वशास्त्रार्थकोविदान् ।
व्यासराजमुखान् पूर्वव्याख्यातॄन् प्रणमाम्यहम् ॥ ५ ॥
दुर्मार्गादुद्धृतो यैश्च सन्मार्गे सम्प्रवेशितः ।
तान् गुरून् सततं सेवे सर्वशास्त्रविशारदान् ॥ ६ ॥
अथ तत्कृपया ब्रह्मसूत्रभाष्यप्रकाशिकाम् ।
व्याकरिष्ये यथाबोधं वाक्शुद्ध्यै नाभिमानतः ॥ ७ ॥
पूर्वाचार्यकृताः सन्ति व्याख्या विद्वन्मनोहराः ।
मन्दबोधाय तत्रोक्तसङ्ग्रहोऽथाप्ययं मम॥ ८ ॥
इह खलु तापत्रयपरिशुष्यत्सत्कुमुदमोदकरीं श्रीमध्वदुग्धाब्धिसम्भूतभाष्येन्दूदितकौमुदीं परतत्त्व-प्रकाशिकां कर्तुकामो जयतीर्थमुनिः प्रारिप्सिताविघ्नपरिसमाप्त्यादिप्रयोजनकशिष्टाचारानुमितश्रुतिबोधित-कर्तव्यताकेष्टदेवतास्तुतिनतिरूपं मङ्गलं कृत्वा शिष्यशिक्षायै ग्रन्थादावुपनिबध्नाति ॥ शुद्धेति ॥ अस्मद्युत्तम इति सूत्रेणास्मच्छब्द एव उपपदत्वेन श्रूयमाणेऽश्रूयमाणे वा तदर्थविवक्षायामुत्तमपुरुषो भवतीत्युक्त्योत्तमपुरुषस्यास्मच्छब्दाविनाभावादेवात्र वन्द इत्युत्तमपुरुषप्रयोगादेवाहमिति कर्ता लभ्यते । तथाच अहं ब्रह्म अलं वन्द इत्यन्वयः । इदं पद्यं भाष्यस्याद्यपद्यव्याख्यानरूपम् । तथाहि । आद्याध्यायार्थतयोक्तं गुणैः सर्वैरुदीर्णमिति । अत्र गुणपदं तार्किकरीत्या दुःखादिपरं वेदान्तरीत्या सत्वादिपरं वा । नाद्यः । निरनिष्टो निरवद्य इति श्रुत्या दोषवर्जितमिति स्ववचनविरोधात् । न द्वितीयः । ‘केवलो निर्गुणश्चे’ति श्रुतिविरोधात् । किं च गुणैः सर्वैरुदीर्णमिति गुणविशिष्टत्वोक्त्या गुणगुणिनोर्भेदः प्रतीयते । स च ‘‘गुणक्रियादयो विष्णोः स्वरूपं नान्यदिष्यत’’ इत्यादिविरुद्धः । अपि चेश्वरस्य देहोऽस्ति वा न वा । नाद्यः । मरणादिप्रसङ्गेन दोषवर्जितत्वायोगात् । न द्वितीयः । ‘विवृणुते तनूं स्वामि’त्यादिश्रुतिविरोधात् । ज्ञानसुखाद्ययोगेन सर्वगुणोदीर्णत्वायोगाच्चेत्यत उक्तम् । शुद्धेति ॥ अत्र शुद्धत्वं नामाप्राकृतत्वम् । आनन्दादेः सर्वस्य विशेषणम् । उरुत्वं पूर्णत्वं संविदादेर्बुद्ध्या विविक्तमानन्दस्यापि विशेषणम् । बहुलत्वं बहुसङ्ख्यावत्त्वम् । औदार्यादेर्बुद्ध्या विविक्तमानन्दादे-र्विशेषणम् । अत्र गुणस्वरूपनिरूपणेन तेषां भगवदभिन्नदेहाभिन्नत्वोक्त्या अविनाशगुणात्मकदेहोक्त्या चोक्तशङ्कानिरास इति ध्येयम् । द्वितीयाध्यायार्थतयोक्तं दोषवर्जितमिति । अत्र दोषपदं यत्किञ्चिद्दोष-परञ्चेदितरसाधारण्यम् । वर्जितत्वस्य प्रागभावप्रध्वंसान्यतरत्वे प्रागूर्ध्वन्दोषवत्वप्रसङ्गः । दोषैर्वर्जितं परित्यक्तमिति प्रतीत्या नारायणस्य हेयत्वं च प्रसज्यत इत्यत उक्तम् । चिन्तेति । लेपः कर्मसम्बन्धः । चिन्तादयो मुखराः प्रधाना येषु तथोक्तास् ते च ते अशेषदोषा अत्यन्तदूरीकृता येन तत्तथोक्तम् । अत्र अशेषातिपदाभ्यां दोषा वर्जिता येनेति विग्रहसूचनेन च पूर्वोक्तशङ्कानिरास इति ध्येयम् । तृतीयाध्यायार्थतयोक्तं ज्ञेयमिति । अत्र ज्ञानसाधनं न तावच्छ्रवणादि । विरोचनादेः श्रवणादिना विपरीतज्ञानोदयात् । नापि ध्यानम् । माण्डव्यादेर्ध्यानेनार्थस्यैव श्रुतत्वात् । गमनोपायाभावाच्चतुर्था-ध्यायार्थगम्यत्वं चानुपपन्नमित्यत उक्तम् । सद्भिरिति ॥ श्रुतिः श्रवणं मतिर्मननं नियतध्यानं स्वयोग्योपासनं ज्ञानं साक्षात्कारः स एव योग उपायः । विरोचनादेरसज्जनत्वात् । माण्डव्यादिभिरयोग्य-ध्यानाचरणान्न तेषां ज्ञानोदयः । ज्ञानलक्षणोपायसद्भावाद्गम्यत्वं चोपपन्नमिति भावः । मायिरीत्या गुणविशिष्टमिदं ब्रह्म शबलमिति न मन्तव्यमित्याशयेनोक्तम् । अमलमिति । न विद्यते मलं संसाराख्यं यस्मात्तथोक्तम् । शबलं तु न संसारमोचकम् । अत एव मुकुन्दाभिधम् ।
स्वोक्तार्थे सर्वत्र प्रमाणमाह । वेदान्तवेद्यमिति ॥ ‘आनन्दो ब्रह्म’ ‘ज्ञानात्मको बलात्मको भारूपः सत्यकामः दातुः परायणं वीर्यमन्नाद्यं’ ‘बृहंतो ह्यस्मिन्गुणाः’ ‘श्रुताः सुविरुद्धाश्च देवे संत्यश्रुताः’ । ‘यदात्मको भगवांस्तदात्मिका व्यक्तिः’ ‘न कर्मणा वर्धते’ ‘अज आत्मा विजरो विमृत्युः’ ‘ब्राह्मणो निर्वेदमायात्’ ‘यमेवैष वृणुते’ ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ ‘यमप्येति भुवनं सांपराये’ ‘तरति शोकमात्मविदि’’ त्याद्युपनिषद्भिरुक्तविधया ज्ञेयमित्यर्थः । यद्वा वेदानामन्तो निर्णयो यस्मात्तद्वेदान्तं ब्रह्ममीमांसाशास्त्रं तेनोक्तविधया ज्ञेयमित्यर्थः । तथाहि । ‘आनन्दमयोऽभ्यासादि’त्यत्र पूर्णानन्दसंविदादिकम् ‘अनुकृतेस्तस्य चे’त्यत्र द्युतिः ‘अत्ता चराचरग्रहणादि’त्यत्र सर्वसंहर्तृत्वोक्त्या वीर्यबले ‘मुक्तोपसृप्यव्यपदेशादि’त्यत्र मोक्षदातृत्वोक्त्यौदार्यं ‘रूपोपन्यासादि’त्यत्राप्राकृतदेहवत्वं ‘अधिकं तु भेदनिर्देशादि’त्यत्र चिन्तासन्तापाद्यभावः ‘न कर्माविभागादिति चेन्नानादित्वादि’त्यत्र कर्मणोऽस्वातन्त्र्योक्त्या तल्लेपाभावः । ‘असम्भवस्तु सतोऽनुपपत्तेरि’त्यत्रोत्पत्त्यभावः । ‘नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः’ इत्यत्र भृत्यभावः । ‘असार्वत्रिकी’त्यत्र योग्यता । तृतीयाद्ये वैराग्यम् । द्वितीये भक्तिः । तृतीये श्रुतिमतिनियतध्यानानि । चतुर्थे ज्ञानं ‘पुरुषार्थोऽतः शब्दादिति बादरायण’ इत्यत्र ज्ञानस्य पुरुषार्थोपायत्वं चोक्तमिति ।
नारायणपदस्य प्रतिपदं ब्रह्मेति । अथवा ‘सङ्क्षेपविस्तराभ्यां हि प्रवदंति मनीषिण’ इति वचनात् सर्वेषामपि पदानां विशेषणचतुष्टयव्याख्यानरूपत्वम् । तथाहि । सकृदुच्चरितस्यापि ब्रह्मशब्दस्य तन्त्रन्यायेन तात्पर्यवशाद्विशेषणसमर्पकत्वं चास्ति । तथा च गुणैः सर्वैरुदीर्णमित्यस्य सङ्ग्रहो ब्रह्मशब्देन क्रियते । दोषवर्जितमित्यस्यामलमिति । ज्ञेयमित्यस्य व्याख्यानं वेदान्तवेद्यमिति । गम्यमित्यस्य मुकुन्दाभिधमिति । ब्रह्मशब्दार्थः शुद्धेति । अमलशब्दार्थश्चिन्तेति । वेदान्तवेद्यमुकुन्दाभिधशब्दयोरर्थः सद्भिरिति । यद्वा वक्ष्यमाणरीत्या नारायणशब्दस्य गुणपूर्णत्वनिर्दोषत्वमुक्तगम्यत्वार्थकत्वान्निर्दोषत्वान्नारा वेदा वेद्यतया तदाश्रयत्वान्नारायण इति वेदवेद्यत्वार्थकत्वाच्च क्रमेण तत्समानार्थकैर्ब्रह्मामलमुकुन्दाभिधवेदान्तवेद्य-पदैर्नारायणपदव्याख्यानं क्रियते । शिष्टं वेदा वेद्यतया तदाश्रयत्वान्नाराः प्रथमवत् । इत्थं व्याख्यानत्रये अमलमित्यस्य चिन्तासन्तापेत्यादिना गतार्थतेति शङ्का गर्भस्रावेण परास्तेति ध्येयम् ॥ १ ॥
इदानीं गुरूंश्चेति विवृण्वन् व्याचिख्यासितभाष्यमूलसूत्रप्रामाण्यं च सूचयन् तत्कर्तृवेदव्यासं प्रार्थयते ॥ याञ्चेति ॥ निर्जरैः प्रार्थनाख्यमन्दरपर्वतमथिताद् यतो विद्येन्दिरादीनामुदयादिः सोऽयमित्यन्वयः । भूत्यै ज्ञानैश्वर्याय । पुराणादेः पृथगभिधानाद्विद्याशब्दो वेदमात्रपरो ज्ञेयः । ब्रह्मसूत्रेति । ब्रह्मेति तन्त्रम् । तथाच ब्रह्मणो विष्णोः सम्बन्धि यद् ब्रह्म वेदजातं तस्य सूत्राणि तद्विचारकरणीभूतन्यायनिबन्ध-नात्मकवाक्यानीत्यर्थः । यद्वा ब्रह्मणः श्रुतिजातस्य सूत्रं तन्निर्णायकन्यायनिबन्धनात्मकशास्त्रमित्यर्थः । तन्त्रं पञ्चरात्रम् । अत्र विद्याया लक्ष्म्यभिमन्यमानत्वाल्लक्ष्मीत्वेन भारतस्य धर्माद्यशेषपुरुषार्थदातृत्वात् पारिजातत्वेन ब्रह्मसूत्रस्य स्वश्रवणरूपसेवनवताम् अजरामरणहेतुत्वादमृतत्वेन पुराणानां विष्ण्वादि-तत्त्वप्रकाशकत्वान्मणित्वेन शुकाचार्यस्य सज्जनाह्लादकरत्वादिन्दुत्वेनोत्प्रेक्षा युक्ता । वेदविद्याया अभिव्यक्तिमात्रसत्वेऽपि व्यासजन्यत्वाभावाद् रमाया अपि अब्धिजन्यत्वाभावादुदैदित्युक्तिः । क्षीराब्धि-साम्योपपादनेन लब्धैश्वर्यदानसम्भावनयोक्तं सताम्भूतिद इति । ननु कर्मणा यमभिप्रैति स सम्प्रदानम् इति सम्प्रदानसंज्ञायां चतुर्थी सम्प्रदान इति चतुर्थीविधानाद्विप्राय गां ददातीत्यादाविव सद्भ्य इति चतुर्थ्या भाव्यम् । अतः कथं सतामिति षष्ठीति चेत् । उच्यते कर्मणेति सूत्रे अचोऽन्त्यादि टीत्यादाविव लघुसंज्ञायाः कार्यत्वेऽपि सम्प्रदानमिति गुरुसंज्ञाकरणमन्वर्थत्वज्ञापनार्थं तेन बहुमानपूर्वकस्वस्वत्वपरित्यागेन परस्वत्वापादनरूपं दानं यत्र तत्रैव सम्प्रदानत्वं नान्यत्र रजकस्य वस्त्रं ददातीत्यादाविति वृत्त्यादावुक्त्या अत्र तादृशदानाभावेन सम्प्रदानसंज्ञाया अभावेऽपि सम्बन्धसामान्ये षष्ठ्युपपत्तिरिति ज्ञेयम् । सतामिति । अत्र व्यास इति निर्देशेन तस्य शास्त्रप्रभवत्वोक्त्या गुरुत्वोपपादनेन गुरूंश्चेत्येतद्विवृतम् । यत उदैद्विद्येन्दिरेत्यादिना विद्येन्दिराधिष्ठानत्वोक्त्या विवक्षितार्थतत्त्वज्ञानलाभाद् वक्त्रानुकूल्यं, निर्जरैरित्यादिना तत्वज्ञानयोग्यतालाभात् श्रोत्रानुकूल्यं, याञ्चेत्यनेन श्रोतृप्रयोजनोद्देशरूपप्रसङ्गानुकूल्यं च दर्शयता ‘‘वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलते’’त्यनुव्याख्यानोक्ताप्तिमूलता सूत्राणां सूचिता । ब्रह्मसूत्रपदेनोक्त-व्याख्यानानुसारेण श्रुतिमूलत्वं सूत्रशब्देन युक्तिमूलत्वं च सूचितम् । तथा च
‘‘आप्तवाक्यतया तेन श्रुतिमूलतया तथा ।
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।
दृश्यते ब्रह्मसूत्राणाम्’’
इत्युक्त्या प्रमाणभूतब्रह्मसूत्रार्थभाष्यव्याख्यानं युक्तमिति द्रष्टव्यम् । ननु ‘‘स्तोः श्चुना श्चुः’’ इति याच्नेति नकारस्य चवर्गांत्यञ्कारादेशे याञ्चेति भवेत् कथं याच्नेति । अत एव काशिकायां यजेर्यज्ञः याचेर्याञ्चेत्युक्तमिति चेत् । याच्ना मोघा वरमधिगुणे नाधमे लब्धकामेत्यादिबहुप्रयोगनिर्वाहाय श्चुत्वाभावस्यापि क्वचिद्वक्तव्यत्वात् ॥ २ ॥
भाष्यव्याख्येयत्वप्रयोजकसफलत्वगम्भीरत्वादि दर्शयन् तत्कर्तारमानन्दतीर्थं प्रणमति ॥ स्वान्तेति ॥ येषां मुखकमलाद् भाष्यम् आविर्भूतं तान् पूर्णबोधपूज्यस्वरूपान् प्रपद्य इत्यन्वयः । भाष्यस्य श्रुतिस्मृतिप्रचुरत्वेनोत्पन्नमित्यनुक्त्वा आविर्भूतमित्युक्तम् । अत एवोत्तरत्रापि निःसृतमिति वक्ष्यन्ति ॥ अमन्दबोधत्वोपपादनाय भाष्यकृत्त्वोक्तिः । मानसाज्ञानाख्यतमश्छेदनविषये पराजितमहासूर्यरश्मिसमूह-मित्यनेनाध्यात्मिकादितापत्रयनिवारणविषये पराजितचन्द्रप्रभमित्यनेन च सफलत्वोक्तिर् गाम्भीर्येत्यादिना गम्भीरत्वोक्तिरिति विवेकः । वैकर्तनांशुव्रजचन्द्रचन्द्रिकयोः क्रमेण बाह्यान्धकारबाह्यतापवारकत्वेऽपि स्वान्तध्वान्ततापत्रयनिवारणयोरशक्यत्वाद्भाष्येण जितत्वम् । तथोपरागादौ ह्रासादिदोषयुक्तत्वान्निर्दोष-भाष्येण जितत्वम् । अनेनैतादृशभाष्यविशिष्टाचार्यमुखस्य सूर्यचन्द्रबिम्बाधिक्यं ध्वनितम् । लक्षादियोजन-परिमितसमुद्रस्यापरिमितभाष्येण जितत्वम् । अत्राप्यमितत्वमर्थत एव भाष्यं चात्यर्थविस्तरमित्युक्तेः । न तु शब्दतः ग्रन्थस्य परिमितत्वात् । ननु निपूर्वकात् कृती च्छेदन इत्यस्माद्धातोर् ल्युट्प्रत्यये नुमागमे अनादेशे च निकृन्तनमिति भवति । तत्र नुमागमः केन ? इदितो नुं धातोरित्यनेनेदित एव नुमागमविधानात् कृतीत्यस्य चानिदित्त्वादिति चेत्सत्यम् । नखनिकृन्तनेत्यादिप्रयोगसमर्थनाय धातोरिति योगविभागेनानिदितोऽपि नुमागमस्य व्याख्येयत्वात् । अत एवेदितो नुं ततो धातोरिति महाभाष्येऽभिहितम् ॥ ३ ॥
अथ परमगुरूणां सन्न्यायरत्नावलीकाराणां कृपालेशं प्रार्थयते ॥ श्रीमध्वेति ॥ ये पद्मनाभतीर्थास् तेषां कृपालेशः मयि नित्यं स्यादिति सम्बन्धः । तेषामेव कृपाराहित्ये तत्प्रार्थनमयुक्तम् । अत उक्तं कृपालव इति । कारुणिका इत्यर्थः । द्वेषादिदोषवत्वे कृपालुत्वमेवासिद्धमित्यत उक्तम् । अमला इति । कस्मिन् विषये कृपाप्रार्थनमित्यत उक्तम् । श्रीमध्वेति । श्रीमदानन्दतीर्थसेवाप्राप्त-निर्दोषविद्ययाऽमृतसमुद्रा इत्यर्थः । अनेन विद्याविषये कृपाप्रार्थनमिति सूचितम् । यद्वा तीर्थपदप्रयोगलब्ध-प्रसिद्धतीर्थसाम्यनिरासाय विशेषणत्रयम् । ननु कृपालव इति कथं ? स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुजिति सूत्रेण कृपेरालुच्प्रत्ययस्याविहितत्वादिति चेत्सत्यं तथापि व्याकरणान्तरात् कृपेरालुच्प्रत्ययो बोध्यः । यद्वा नायमालुच् प्रत्ययः किन्तु कलशवाचकोऽयमालुशब्दः । कर्कर्यालुर्गलन्तिकेत्यभिधानात् । तथा च कृपापूर्णकलशा इत्यर्थः । इदं च प्रकारद्वयं नष्टधर्मज्ञानलोककृपालुभिरिति गीताभाष्यव्याख्यानावसरे प्रमेयदीपिकायां व्यक्तम् । अथवा उदाहृतसूत्रे आलुच्प्रत्ययमविधाय लुश्प्रत्ययविधानेऽपि तस्य शित्वेन तिङ्शित्सार्वधातुकमिति सार्वधातुकसंज्ञायां कर्तरि शबिति शपि सति पुगन्तलघूपधस्य चेति गुणे अयादेशे च अतो दीर्घ इति दीर्घे सति ण्यन्तानां स्पृहीत्यादीनां स्पृहयालुरित्यादिरूपसिद्धावप्यालुच्करणं कृपालुरित्यादिरूपसिद्ध्यर्थमिति मञ्जर्यान्तृतीयाध्यायस्य तृतीयपादे अभिहितत्वादत्रापि कृकेरालुच्प्रत्यये कृते संज्ञापूर्वको विधिरनित्य इति पुगन्तलघूपधस्य चेति गुणाभावे च कृपालुरिति साधुः । अत एव कौमुद्यां हरे कृपालो नः पाहीत्युक्तम् ॥ ४ ॥
स्वगुरून्नमति । श्रीमदिति ॥ श्रीमद्रमारमणाख्यसद्गिरिचरणाख्यप्रत्यन्तपर्वतसम्बन्धवान् तदाश्रित इति यावत् । पादाः प्रत्यन्तपर्वता इत्युक्तेः । स चासौ व्याख्यानध्वनिना विनाशिताखिलदुर्वादिमदश्च तम् । दुर्वादिगजविपाटनसमर्थसङ्कल्पमित्यर्थः ॥ ५ ॥
इदानीं शिष्यमनःसमाधानाय चिकीर्षितं प्रतिजानीते । अथेति । तत्कृपया तेषां नमस्कृतानां मुकुन्दादीनां कृपया । आनन्दतीर्थभगवद्वचसां विशिष्टव्याख्यानकर्मणि सुरा ह्यधिकारिणोऽत्रेति तत्वनिर्णयटीकान्ते स्वेनैवोक्तत्वात्कथं व्याकुर्वे इति प्रतिज्ञेत्यत उक्तम् । यथामतीति ॥ विशिष्टव्याख्यान-करणे देवानामधिकारेऽपि यथामति व्याख्यानकरणे अस्माकमप्यधिकारोऽस्तीति भावः ॥ ६ ॥
व्याकुर्वे इत्यात्मनेपदप्रयोगेण लब्धमात्मगामिव्याख्यानप्रयोजनमाह ॥ गङ्गेति ॥ भागीरथीसम्बन्धेन रथवीथिकाजलैर्नैर्मल्यं यथा लभ्यते तथा मदीयाया वाचो विशुद्धिसिद्ध्यर्थम् आनन्दतीर्थीयवाक्यानि मदीयया वाचा व्याख्यानव्याख्येयभावेन सम्बध्यन्त इत्यर्थः । वाचो विशुद्धीत्युक्तत्वेन मदीयया वाचेत्यस्य सिद्धत्वान्नोक्तम् । ननु ‘‘ऋक्पूरब्धूः पथामानक्ष’’ इत्यनेन समासान्तादप्शब्दाद् अकारस्य विहितत्वेन विमलापैः सरोवरैरित्यादिवद् रथ्यापैरिति वक्तव्ये कथं रथ्याद्भिरति वचनमिति चेत्सत्यम् । ‘‘समासान्तो विधिरनित्य’’ इत्येतत्साधु । एतत्सूचनायैव सूत्रे पथामिति उक्तम् । अन्यथा पथानामित्यवक्ष्यत् । अत एव महाभाष्ये शुच्यंपानि तटाकानीति वक्तव्ये शुच्यंपि तटाकानीत्युक्तम् ॥ ७ ॥
नन्वाचार्यैर्भाष्यं नारम्भणीयं प्रयोजनाभावात् । न च सूत्रव्याख्यानं प्रयोजनम् । अन्यैर्व्याख्यातत्वात् । अस्तु वा आरम्भणीयत्वम् । तथाप्याद्यपद्यं व्यर्थम् । न च मङ्गलनिबन्धनार्थं तदिति वाच्यम् । फलाभावेन तस्यैवाकर्तव्यत्वात् । अस्तु वा कर्तव्यत्वं न तस्य निबन्धनं तथापि सूत्रार्थ उच्यत इत्यंशो व्यर्थ इत्याशङ्कां पराकुर्वन्नाद्यपद्यमवतारयति ॥ अथेति ॥ अत्राविद्येत्यारभ्याचार्यवर्य इत्यन्तेन आद्यशङ्कायाः, प्रारिप्सितेत्यारभ्य समाप्त्याद्यर्थमित्यन्तेन द्वितीयायाः, ग्रन्थारम्भेत्यादिना तृतीयायाश्च निरास इति ध्येयम् । ननु ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्वथो अथे’ति स्मरणादत्राथशब्दः किं मङ्गलार्थ उतानन्तर्यार्थो ऽथ प्रारम्भार्थः यदि वा प्रश्नाद्यर्थः । नाद्यः । मङ्गलस्य कृतत्वात् । न द्वितीयः । कस्याप्यर्थस्य भाष्ये पूर्वमप्रकृतत्वाद् भाष्यकृन्नमनस्य टीकाकृद्व्याख्याप्रतिज्ञानन्तर्यायोगाच्च । न तृतीयः । व्याकुर्वे इत्यनेन व्याख्या प्रारभ्यत इति लाभात् । न चतुर्थः । उत्तराद्यनुपलम्भात् । अतो व्यर्थ इति चेत् । अत्र ब्रूमः । आचार्यवर्यः ब्रह्मसूत्राणि यथावद् व्याचिख्यासुर्नमस्कारं ग्रथयति ग्रन्थारम्भं च प्रतिजानीत इत्युक्ते इयं शङ्कोन्मिषति । ननु सूत्रव्याख्यानार्थं प्रवृत्तेनाचार्येण तदेव कार्यं किमनेनासङ्गतेन नमस्कारादिग्रथनेनेत्यत उक्तम् । अथ व्याचिख्यासुरिति । देवतानमनग्रथनादिकरणानन्तरं व्याचिख्यासुरित्यर्थः । तथाच बुभुक्षुः स्नानं करोतीत्यादौ स्नानस्य भोजन इव देवतानमनग्रथनादे-र्व्याख्यानोपयोगलाभान्नासङ्गतिरिति भावः । अथवा बुद्धिस्थबुद्धचार्वाकतार्किककाणादकपिलाख्य-पञ्चमतप्रवृत्त्यनन्तरमित्यर्थः । अन्यथा व्याख्यातानीत्यनेन सम्बन्धः । पञ्चमतप्रवृत्त्यनन्तरमेवान्यैरन्यथा व्याख्यातत्वात् । यद्वा सामान्यतः पूर्वं समग्रग्रन्थव्याख्याप्रारम्भेऽपि प्रतिग्रन्थव्याख्याप्रारम्भार्थोऽथशब्दः । अविद्यापटलपिहितनयनैरिति । अविद्यया अयोग्यतालक्षणया सूत्रतात्पर्यार्थापरिज्ञानरूपया च नेत्रबन्धाद्याच्छादितनयना इव वर्तमानैरित्यर्थः । अन्यथाव्याख्यानबीजायथार्थज्ञानोपपादनायैतत् । अन्यैरिति ।
‘‘भारतीविजयश्चैव सच्चिदानन्द एव च ।
ब्रह्मघोषः शतानन्द उद्वर्तश्चैव पञ्चमः ।
विजयो रुद्रभट्टश्च वामनाख्यस्तथाष्टमः ।
सयादवप्रकाशश्च नवमस्तत्र कीर्तितः ।
रामानुजस्तथा भर्तृप्रपञ्चो द्रविडस्तथा ।
ब्रह्मदत्तो भास्करश्च विशाखो वृत्तिकारकः ।
तथा विजयभट्टश्च विष्णुक्रान्तस्तथैव च ।
वादीन्द्रस्तु ततः पश्चात् तथा माधवदासकः ।
तथा पश्चात्सङ्करश्चेत्येकविंशतिवादिभिः ।
प्रणीतानि निराचक्रे दुर्भाष्याणि महामतिः ।’’
इत्येकविंशतिसंख्याकैरित्यर्थः । यथावद्व्याख्यानसामर्थ्योपपादनाय भगवानित्युक्तम् । समग्रज्ञानवानित्यर्थः । कैवल्यादीति । वाचनिकमङ्गलस्य भगवन्नमस्कारोपबृंहितत्वाद्भाष्यं पठतामितरेषां मोक्षादिफलं निर्विघ्नपरिसमाप्त्यादिफलं च भवति । एकान्तभक्तस्य निरन्तरायस्य चाचार्यस्य तु भगवत्प्रीतिरेव फलमिति भावः । समाप्त्यर्थं चेत्यनन्तरं कृतमिति शेषः । यद्वा कैवल्याद्यखिलफलसाधनता सिद्धिरर्थः प्रयोजनं यस्य नमस्कारस्य स तथोक्तः । एवं निरन्तरायेत्याद्यपि नमस्कारविशेषणम् । तेन तयोश्चतुर्थ्यन्तत्वमभिप्रेत्य ग्रथयतीत्यनेनान्वये ग्रथनस्य फलसाधनतासिद्ध्यादिफलकत्वमुक्तं स्यात् । तथा च नमस्काराधिकारादिग्रथनसूचने शिष्यशिक्षार्थमित्युत्तरग्रन्थविरोधः । तत्र ग्रथनस्य शिष्यशिक्षाफलकत्वोक्तेरिति शङ्का परास्ता ।
पाणिन्यादिसूत्रप्रतीतिनिरासायाह ॥ अत्रेति । अत्र सर्वसूत्राणां ब्रह्मरूपैकार्थप्रतिपादकत्वे-नैकवाक्यत्वमिति सूचनाय समुदायविवक्षयैकवचनप्रयोगः । उच्यते मुख्यया वृत्त्या प्रतिपाद्यते । कुत इत्यत आह ॥ तस्येति ॥ निरुपपदशब्दस्येत्यर्थः । मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषणादिति वक्ष्यमाणत्वादिति भावः । तथापि तथाविधान्यसूत्रस्य ग्रहणं किन्न स्यादित्यत आह ॥ तेषाञ्चेति ॥ ब्रह्मसूत्राणामेवेत्यर्थः । अत्र महावाक्यार्थभेदाभावेऽपि अवान्तरवाक्यार्थभेदात् सर्वसूत्राणां प्रत्येकम् अवान्तरब्रह्मविद्यात्वमिति सूचनाय बहुवचनप्रयोगः । तादृशत्वात् । सूत्रान्तरापेक्षया मुख्यत्वात् । येषां सूत्रत्वमञ्जसेति वक्ष्यमाणत्वादिति भावः । नारायणं नत्वेत्येतावता नमस्कारग्रथनात् किं विशेषणचतुष्टयेनेत्यत आह ॥ वक्ष्यमाणमिति ॥ सूत्रस्याध्यायचतुष्टयात्मकस्य वक्ष्यमाणो यो अर्थः गुणपरिपूर्णत्वादिरूपस्तमित्यर्थः । सङ्गम्य सङ्गृह्य । प्रस्तावयितुं सङ्क्षेपतो निरूपयितुं, तस्य प्रपञ्चे जिज्ञासाजननं प्रयोजनमिति भावः । विशिनष्टि इतरेभ्यो व्यावर्तयति । प्रस्तावप्रकारं दर्शयति । तथाहीत्यादिना उदितत्वादित्यन्तेन । प्रसत्त्या प्रसादेन ॥ सूचित इति ॥ अतःशब्देन संक्षिप्योक्त इत्यर्थः । तेन परस्य ब्रह्मणो विष्णोः प्रसादादिति वा भवेदिति प्रमाणानुसारेण साक्षादतःशब्दार्थसम्भवे सूचितमिति कथमुक्तमिति शङ्का परास्ता ।
उन्मिषति उदेति । प्रथमाध्याये सर्वशब्दसमन्वयस्यैवोक्त्या कथं गुणपूर्णत्वं तदर्थ इत्यत आह ॥ तत्र हीति ॥ आनन्दमयादिसर्वशब्दानां समन्वये तत्तच्छब्दप्रवृत्तिनिमित्तप्रचुरानन्दत्वादिसर्वगुणगण-लाभादिति भावः । अत्र पर्यायानन्तशब्दसमन्वये तेषामेकार्थप्रतिपादकत्वात् सर्वगुणोदीर्णतासिद्धिर्न स्यादतो अपर्यायेत्युक्तम् । तथाविधकतिपयशब्दसमन्वयेऽपि तदसिद्ध्या अनन्तेत्युक्तम् । अपर्यायानन्त-शब्दानां रूढ्या समन्वये गुणालाभान्महायोगवृत्त्येति । अनन्यसाधारणावयवार्थसापेक्षवृत्त्येत्यर्थः ॥ समन्वयेति ॥ उपक्रमादिलिङ्गप्रमाणकशक्तितात्पर्यलक्षणसम्बन्धेत्यर्थः । स चेति हरिपरामर्शकतच्छब्दस्य दोषवानपीत्यनेन सम्बन्धः । युक्त्यादीत्यादिपदेन समयश्रुतिन्यायोपेतश्रुतीनां ग्रहणम् । दोषवानपीति ॥ प्रथमसूत्रे जीवव्यावृत्ततया ब्रह्मण एव जिज्ञास्यत्वसिद्धये तस्य गुणपूर्णत्वमुक्तम् । गुणपूर्त्यर्थमेव प्रथमाध्याये श्रुतिस्थशब्दसमन्वयो निरूपितः । युक्त्यादिविरोधेन श्रुतीनामप्रामाण्ये चोक्तसमन्वयासिद्ध्या गुणपूर्णत्वस्याप्यसिद्धिप्रसङ्गेन विरुद्धधर्माधिकरणत्वाभावेन जीवाभेदे जीववद् दोषवान् स्यादित्यर्थः । यद्वा युक्त्यादिविरोधेन श्रुतीनामप्रमाण्यात् समन्वये निरोधिते सर्वकर्तृत्वसार्वज्ञ्यसर्वैश्वर्यादेरसिद्ध्या तत्तदधिकरणपूर्वपक्षप्रापकयुक्त्यादिभिर्जीववज्जनिमृत्यादिदोषवानपि स्यादित्यर्थः । न केवलं गुणाभाववान् किन्तु दोषवानपीत्यपिशब्दः ॥
तत्रेति ॥ युक्त्यादीनामाभासत्वेन तद्विरोधाभावे श्रुतिप्रामाण्यात् समन्वयेन गुणपूर्णत्वसिद्धौ विरुद्धधर्माधिकरणत्वेनाभेदाभावे दोषशङ्कानवकाश इति भावः । यद्वा युक्त्यादेरप्रामाण्यप्रापकाभावान्न दोषशङ्केति भावः ॥ तत्रेति ॥ पादत्रयोक्तवैराग्यभक्त्युपासनादिभिश्चतुर्थपादोक्तभगवज्ज्ञानं भवतीत्युक्ते तस्य ज्ञेयत्वमेवोक्तमिति भावः ॥ तत्रेति ॥ पादत्रयोक्तकर्मक्षयोत्क्रान्तिमार्गाणां भगवत्प्राप्त्यर्थ-त्वाच्चतुर्थपादोक्तभोगस्य तत्प्राप्तिं विनाऽयोगाद्गम्यत्वमेवोक्तमिति भावः । ननु ब्रह्ममीमांसाशास्त्रोक्तधर्मा ब्रह्मण एव वक्तव्याः किमर्थं नारायणस्योच्यन्त इति शङ्कानिरासाय ब्रह्मण एव नारायणत्वान्नारायण एवैतच्छास्त्रप्रतिपाद्य इति द्योतनाय ब्रह्मशब्दसमानार्थकनारायणशब्दनिर्वचनपरत्वेनापि विशेषणचतुष्टयं योजयति ॥ अथवेति ॥ नारायणशब्दनिर्वचनस्योक्तशङ्कानिरासफलकत्वे एतदपि स्तुत्यर्थमिति सुधाविरोध इति चेन्न । तस्या उपलक्षणत्वाभिप्रायेण प्रवृत्तेः ॥ साङ्केतिकमिति ॥ प्रवृत्तिनिमित्ताद्यभावेऽपि इदमनेन शब्देन वाच्यं भवत्विति कस्यचिदिच्छामात्रेण बोधकमित्यर्थः । विशिष्टगुणान् गुणपूर्ण-त्वाद्यनन्यसाधारणधर्मान् ॥ आचष्टे वक्ति, प्रतिपादयतीति यावत् ॥ निर्वक्ति निरुच्य दर्शयति । तदेव क्रमेण दर्शयति । तथाहीत्यादिना । अभिन्नार्थत्वादिति ॥ दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्तत इत्युक्तेरिति भावः । विरुद्धार्थेति ।
‘‘सादृश्यं तदभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिता’’ इत्युक्तेरिति भावः ।
अभावार्थत्वात् । अन्योन्याभावार्थत्वात् । अत एवाह ॥ अराश्रयो न भवतीति ॥ नरेति ॥ सज्जनेत्यर्थः ॥ न रीयत इति ॥ न क्षीयत इत्यर्थः । नञुपपदाद् रीङ्क्षय इत्यस्माद्धातोरुणादयो बहुलमिति बहुलग्रहणादौणादिके करणे डप्रत्यये डित्वाट् टेरिति टिलोपे च नरमिति भवति । ततः प्रज्ञादिभ्यश्चेति स्वार्थिकाण्प्रत्यये तद्धितेष्वचामादेरित्यादिवृद्धौ यस्येति चेत्यकारलोपे नारमिति रूपसिद्धिरिति भावः ॥ अरमणमिति ॥ रमु क्रीडायामित्यस्माद्भावार्थे औणादिके डप्रत्यये रमणं तन्न भवतीत्यरमणं दुःखमित्यर्थः । निर्दोषवेदोत्पन्नत्वादिति ॥ अरविरुद्धत्वान्नारो वेदः । नारशब्दा-त्तस्येदमित्यणि कृते यस्येत्यकारलोपे नारशब्दो वेदजन्यज्ञानवाचीति भावः । ननु नारशब्दाद् वृद्धिर्यस्या-चामादिस्तद् वृद्धमिति वृद्धसंज्ञायां वृद्धाच्छ इति छप्रत्यये आयनेयीनीयियः फढखछघामित्यनेन छस्येयादेशे नारीयमिति स्यात् । कथं नारमिति चेत् । सत्यम् । वा नामधेयस्य वृद्धसंज्ञेति नामधेयस्य विकल्पेन वृद्धिसंज्ञोक्तेः । संज्ञापूर्वको विधिरनित्य इति वैतत्साधु ।
ननु विरुद्धार्थकनञ्समासे न ओति स्थिते नलोपो नञः नञो नस्य लोपः स्यादुत्तरपद इति नलोपे अ अर इति जाते तस्मान्नुडचि तस्माल्लुप्तनकारान्नञुत्तरपदस्याजादेर्नुडागमः स्यादचि पर इति नुडागमे अनरेति स्यात् । एवमभावार्थत्वेऽपि अरायणादन्यो अनरायण इति भवेत् । अश्वादन्यो अनश्व इतिवत् । नारायण इति कथम् । ननु वृत्तौ षष्ठाध्याये तृतीयपादे स्त्रैणार्थ इत्यत्र स्त्रीपुंसाभ्यां नञ्स्नञाविति विहितस्य नञो नलोपाभावाय नलोपो नञ इति सूत्रे रात्रेः कृति विभाषेत्यव्यवहित-पूर्वसूत्रस्थविभाषापदानुवृत्तेरुक्तत्वात् । विभाषायाश्च व्यवस्थितविभाषात्वस्य न्यासेऽभिहितत्वादत्रापि नलोपाभावे नारायण इति साधुरिति चेन्न । नलोपसूत्रे विभाषापदानुवृत्तौ विभाषाया व्यवहितं भाषात्वेन नभ्राडित्यादिशब्देष्वपि तेन नलोपाभावसम्भवेन तेषु शब्देषु नलोपाभावकथनाय प्रवृत्तयोर्न-भ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । नगोऽप्राणिष्वन्यतरस्यामित्यनयोः सूत्रयोर्वैय्यर्थ्यप्रसङ्गात् । प्रपञ्चनार्थत्वमिति त्वगतिका गतिः । तथाविधशब्दपरिगणनार्थमित्यपि स्त्रैणार्थ इत्यादेरपि परिगणनप्रसङ्गाच्च । कथं तर्हि स्त्रैणार्थ इति रूपं तत्रापि नलोपनुडागमे अयादेशे च स्त्रायणेति स्यादिति चेन्न । चरितार्थाचरितार्थयोरचरितार्थस्य ग्रहणमिति न्यायेन स्त्रैणार्थ इत्यत्र नञ्प्रत्यये ञकारस्य च वृद्ध्यर्थत्वेन चरितार्थत्वात् । तदनुबन्धिनञ्प्रत्ययस्यापि चरितार्थत्वेन नलोपसूत्रे नञ् इत्यनेन प्रत्ययनञोऽग्रहणात् । अचरितार्थञकारयुक्तिनिपातनञ एव ग्रहणात् । किं च नलोपो नञ इति सूत्रे उत्तरपदे परतः पूर्वस्य नलोपो भवतीत्युक्त्या पूर्वस्य परत्वं च गम्यते प्रत्ययनञः पदत्वाभावादेव नलोपाभाव इति समाधानद्वयस्य मञ्जर्यामेवोक्तेः । नारायण इत्यत्र निषेधार्थकनिपातनयोश्चरितार्थत्वात् स्यादेव नलोप इति तत्राह ॥ नगनाकादिशब्दवदयं शब्दो ज्ञातव्य इति ॥ उक्तनिर्वचनानुसारेण शब्दप्रयोगस्य प्रामाणिकत्वान्नभ्राडित्यादिसूत्रद्वये अयमपि शब्द उपसंख्येय इति भावः ।
सुधायां तूपसङ्ख्यानं वैय्याकरणैर्न कृतमित्यरुच्या अमानो नाः प्रतिषेध इति गणपठितसमासोऽयमिति समाधानान्तरमुक्तम् । चन्द्रिकायां तु वृत्त्यनुसारेण विभाषापदानुवृत्त्या समाधानमभिधाय तत्र मञ्जर्युक्तास्वारस्यं मनसि निधाय सुधानुसारेण पक्षान्तरमुक्तम् । लध्वक्षरं पूर्वमित्युक्तेरुत्तरसूत्रस्थस्यापि नगशब्दस्य पूर्वनिर्देशः । नलोपाभावमात्रे नगशब्दो दृष्टान्तः । न रीयते अनेनेत्युक्तडान्तत्वं नगशब्दवदिति सूचनाय प्रथमप्राप्तनभ्राडित्यादिशब्दत्यागेन नाकशब्दस्य स्वशब्देनोपादानं च तस्य नुडागमप्रसक्त्यापि युक्तत्वाद् इतरेषां तदभावान् नलोपाभावमात्रे दृष्टान्ततया आदिपदेन ग्रहणम् । सूत्रान्तरस्थत्वान् नगशब्दस्य स्वशब्देन ग्रहणम् । यद्वाऽदिपदेनैकधेत्यादिग्रहणं, तेन नसमासोऽयमिति सुधोक्त-समाधानान्तरमप्यत्रोक्तं बोध्यम् । नारायणपदस्य पदद्वयसमारूढत्वेन समानपदत्वाभावाद्रषाभ्यां नो णः समानपद इत्यनेन णत्वासम्भवात् पूर्वपदात्संज्ञायामग इति ‘‘णत्वम्’’ । तदर्थश्च पूर्वपदस्था-न्निमित्ताद् उत्तरस्य नकारस्य णकारादेशो भवति संज्ञायां न तु गकारव्यवधान इति ।
ननु नपुंसके भावे क्त इत्यतो नपुंसक इत्यनुवर्तमाने करणाधिकरणयोश्चेति ल्युटो विहितत्वेन ल्युडंतनारायणशब्दस्य नपुंसकत्वं स्यादिति चेन्न । वृत्तिकारेण करणाधिकरणयोरिति सूत्रे नपुंसक इत्यस्यानुवृत्तेरनुक्तत्वात्, लिङ्गानुशासने इध्मप्रवश्चनः गोदोहन इत्याद्युदाहरणात्, महाभाष्ये भूवादयो धातव इति सूत्रव्याख्यानावसरे कोऽसावनुमानो नामेत्युक्तत्वात्, ‘‘स्मृतिः प्रत्यक्षमैतिह्यमनुमान-श्चतुष्टयमिति’’ श्रौतप्रयोगाच्चेति । सुधायां तु ल्युटष् टित्करणसामर्थ्यादयनशब्दो अधिकरणे त्रिलिङ्ग इति पुल्लिंगत्वं च युक्तमिति समाधानांतरमुक्तम् । एवं ब्रह्ममीमांसाशास्त्रार्थसङ्ग्राहकविशेषणचतुष्टयस्य नारायणशब्दनिर्वचनपरत्वप्रदर्शनेन नारायणस्यैतच्छास्त्रप्रतिपाद्यत्वकथनान्नम्यत्वप्रयोजकाधिकृतत्वमपि तस्योपपादितं भवति । इदानीं तस्यैव नम्यत्वद्योतनाय नम्यत्वप्रयोजकविशिष्टेष्टाधिकृतत्वरूपतृतीयोपपाद-कत्वेनापि योजयति ॥ अथवेति ॥ अत्र बहुगुणत्वनिर्दोषत्वाभ्यां विशिष्टत्वं, शास्त्रज्ञेयत्वेनाधिकृतत्वं, अधीतशास्त्रगम्यत्वेनेष्टत्वं प्रदर्शितम् । इतरासाधारणधर्मवत्वशास्त्रप्रतिपाद्यत्वापेक्षितफलदातृत्वानामेव क्रमेण विशिष्टाधिकृतेष्टशब्दार्थत्वादिति ध्येयम् ।
गुरूनपीति ॥ यथा देवे तथा गुराविति श्रुतेरिति भावः । सामान्यप्रयोगे निमित्तमाह ॥ गुरोरिति ॥ नन्वेवमीशावास्यभाष्ये
‘‘यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च ।
ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः’’
इति नामग्रहणं कथमिति चेत् । उदाहृतवाक्यस्यापरोक्षतो नामग्रहणनिषेधकत्वेन परोक्षतस्तद्ग्रहणे बाधकाभावात् । अत एवाचार्याणां नित्यापरोक्षीकृतगुरुत्वेऽपि मर्यादारक्षणाय तत्र तस्मै नम इति परोक्षनिर्देशः कृतः । अत्र तु गुरूंश्चेति साधारणप्रयोगस्यापरोक्षत्वकथनस्यैवोचितत्वात् । उपलक्षणमेतत् । सुधोक्तरीत्या गुरुत्वोपपादकगुरुत्वशास्त्रप्रभवत्वादिहेतुबाहुल्यसूचनाय गुरूनिति बहुवचनप्रयोग इति द्रष्टव्यम् । ननु देवतासमुच्चायकचशब्दसद्भावादपिशब्दो व्यर्थ इत्यत आह । स्वस्येति । पृथङ्नमस्कारेण प्रसक्तं गुरुदेवताभेदमपिशब्देन गर्हयामासेत्यर्थः । आक्षिपति ॥ यद्यपीति ॥ तथाच न पृथङ्नतिर्युक्तेति भावः । परिहरति ॥ तथापीति ॥ इतिशब्दः श्लोकव्याख्यानसमाप्तौ । यद्वा अपिपदेन कथमरुचिः सूचितेत्यत आह ॥ यद्यपीति ॥ अनेनापि तथापि विशेषानुग्रहार्थं नत्वेति व्याख्यातं भवति । तथाच भेदज्ञापिकायाः पृथङ्नतेर्विशेषानुग्रहरूपप्रयोजनान्तरसूचकापिशब्देन भेदे रुच्यभावः सूचित इति भावः । नतिरिति । प्रकारवाचीतिशब्दस्येत्यरुचिं सूचयतीत्यनेनान्वयः । उपलक्षणमेतत् । सुधानुसारेणास्यो-द्भवादिदमित्याद्यनुव्याख्यानोक्तजगज्जन्मादिकारणत्वादिविशेषणसमुच्चायकत्वमपि पदप्रयोजनं द्रष्टव्यम् । अधिकार्यादिशून्यत्वान्नेदं शास्त्रमारम्भणीयमित्यत आह । अनेनैवेति ॥ आद्यपद्येनैवेत्यर्थः । अन्यार्थं प्रवृत्तेनापीत्येवार्थः । वस्तुगत्या अधिकार्यादिसत्वमपेक्षितं न तु तत्सूचनमित्यत आह ॥ श्रोतृप्रवृत्त्यङ्गभूता इति ॥ सूचनेन ज्ञातानामेव प्रवृत्त्यङ्गत्वान्नाज्ञातानाम् । ज्ञातार्थज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तत इत्युक्तेरिति भावः । एवं प्रवृत्त्यङ्गत्वेनाधिकार्यादिसूचनं कर्तव्यमित्युक्तम् । इतोऽपि तत्कर्त्तव्यमित्याह । तत्स्मरणस्येति ॥ स्मरणार्थं सूचनमिति भावः । उक्तं प्रथमतात्पर्ये । प्रारभतः प्रारम्भमाणस्य । महदिति भिन्नं पदम् । तेनान्महतः समानाधिकरणेत्याकारे महाफलमिति स्यादिति निरस्तम् । ननु निर्विघ्नपरिसमाप्त्यादेर्नमस्कारेणैव सिद्धेर्ग्रथनं व्यर्थम् । एवमधिकार्यादिसूचनस्य प्रवृत्त्यङ्गतया कर्तव्यत्वेऽपि न महाफलार्थकर्तव्यत्वम् अधिकारादिस्मरणेन महाफलसिद्धेः । न च स्मरणार्थमेव सूचनमिति वाच्यम् । तस्यान्यतोऽपि सम्भवादित्यत आह ॥ नमस्काराधिकार्यादीति ॥ यथाक्रममन्वयः । सत्यं नमस्कारेणैव समाप्त्यादिफलमिति । तथापि ग्रथनाभावे शिष्या आचार्यैर्नमस्कारो न कृत एवेति मत्वा स्वयमपि न कुर्युः । अतस्तच्छिक्षणार्थं ग्रथनम् । अधिकार्यादिस्मरणम् अन्यतोऽपि भवतीत्यपि सत्यम् । तथापि तत्सूचनाभावे शिष्याऽधिकार्यादिस्मरणं नावश्यकमिति आचार्यैर्न तत्सूचनं कृतमिति मत्वा न तत्स्मरणादिकं कुर्युः । अतो महाफलार्थं तत्स्मरणमावश्यकमिति शिष्यशिक्षार्थं सूचनं कार्यमेवेति न तस्य वैयर्थ्यमिति भावः । प्रागूर्ध्वं वा ग्रथनस्य सार्थक्ये वक्तव्ये अधिकार्यादिप्रसङ्गे तत्कथनमेक-वाक्येनोभयप्रयोजनकथनसौकर्यार्थमिति ध्येयम् । अधिकार्यादिसूचनमेवोपपादयति ॥ तथाहीति ॥ सूचित इति यथायोगं सर्वत्रान्वेति । प्रयोजनमिति । यथाक्रममवान्तरमुख्यप्रयोजनमित्यर्थः । यथा सम्भवमिति ॥ नारायणस्य विषयस्य प्रतिपाद्यत्वं, ज्ञानस्य तद्विषयकत्वं, गमनस्य ज्ञानजन्यत्वं सम्बन्ध इति भावः ।
श्री पाण्डुरङ्गि केशवाचार्य विरचिता तत्त्वप्रकाशिकाविवृतिः
तत्त्वप्रकाशिकाविवृतिः
नत्वा श्रीशं गुरून् सर्वान् गुरुराजोक्तमार्गतः ।
तत्वप्रकाशिकागूढभावं वक्ष्ये यथामति ॥
फलसाधनतासिध्यादिफलकत्वाभावात् । ननु सूत्रार्थ इत्यत्र सूत्रशब्देन व्याकरणसूत्रमेव किमिति न गृह्यते इति तत्राह ॥ अत्रेति ॥ कुत इत्यत आह ॥ तस्येति । अस्तु मुख्यार्थाभिधायकत्वं तथाप्यत्र सूत्रशब्देन तद्ग्रहणं कुत इत्यत आह ॥ तेषाञ्चेति ॥ ब्रह्मसूत्राणां मुख्यत्वात्तेन तद्ग्रहणं युक्तमिति भावः ॥ पुरुषार्थो भवतीति सूचित इति ॥ भगवत्प्रसादस्य मोक्षहेतुत्वे अतःशब्देन संक्षेपत उक्त इत्यर्थः । विशिष्टगुणानप्याचष्ट इति ॥ अत्र गुणशब्दो गुणोदीर्णत्व–दोषवजितत्व–ज्ञेयत्व–गम्यत्व रूपधर्मपरः । नारायणशब्दस्य विशिष्टगुणवाचकत्वप्रदर्शनं च, तस्य ब्रह्मशब्दसमानात् शास्त्रार्थवाचकत्वाच्च नारायण एव सर्वशास्त्रार्थ इति दर्शयितुम् । तथा च ब्रह्मणो नम्यत्वे अधिकृतत्वं निमित्तमित्युक्तं भवति । नरसम्बन्धित्वादित्यत्र नराः सज्जनाः । न रीयन्त इति नञुपपदाद्रीङ्क्षये इति धातोः करणे डप्रत्यये प्रज्ञादित्वात्स्वार्थिके ण्प्रत्यये च कृते नारमिति रूपसिद्धिरिति द्रष्टव्यम् । अरमणं दुःखम् ॥ निर्दोषवेदोत्पन्नत्वादिति ॥ निर्दोषवेदवाचकान्नारशब्दात्, तस्येदमित्यणि कृते नारशब्दो वेदजन्यज्ञानवाचीति भावः । अरतिरहितत्वादिति भावः । न रीयन्त इति नराः, नरा एव नारा इति विग्रहः । कर्मणि डप्रत्यये स्वार्थिकेण्प्रत्यये सति सिध्यतीति भावः ॥ नन्वरविरुद्धगुणाश्रय इति निर्वचने अरशब्दस्य विरुद्धार्थकनञ्समासे अरशब्दवाच्यदोषाश्रयो न भवतीति निर्वचने अरायणशब्दस्य विरुद्धार्थकनञ्समासे च ‘नलोपो नञः’ नञो नस्य लोपः स्यादुत्तरपदे इति नलोपे सति ‘तस्मान्नुडचि’ लुप्तनकारात्परस्याजादेर्नुडागमः स्यात्’ इति नुडागमे च अनरायण इति भवेत् कथं नारायण इतीत्यत आह ॥ नगनाकादिशब्दवदिति ॥ ननु नभ्राण्नपान्नवेदानासत्यानामुचिन-कुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ॥ एषु प्रकृत्या नञ् स्यात् ॥
‘नगोऽप्राणिष्वन्यतरस्यां’ नगशब्दस्य नञ् प्रकृत्या स्यात् । अप्राणिष्वन्यतरस्यामिति, सूत्रद्वयेन नाकनगशब्दयोर् नलोपभाव उक्तः । नारायणशब्दे नेति कथं दृष्टान्तीकरणमिति चेत् । मैवम् ॥ स्त्रैणार्थ इत्यत्र स्त्रीपुंसाभ्यामित्यादिना विहितस्य नञो नलोपाभावार्थं ‘नलोपो नञः’ इति सूत्रे रात्रेः कृति विभाषेत्यतोनुवृत्ताया विभाषाया व्यवस्थितविभाषात्वस्य न्यास एवोक्तत्वेन नारायण इत्यत्रापि नलोपाभावाद्युपपत्तेः । यद्वा नसमासोस्तु । नन्वेमप्यस्य भिन्नपदत्वेन णत्वासम्भव इति चेन्न । ‘पूर्वपदात्संज्ञायामगः’ पूर्वपदस्थान्निमित्तात्परस्य संज्ञायां नस्य णत्वं स्यान्न तु गकारव्यवधाने’ इति सूत्रेण णत्वं भविष्यतीति न दोषः । न चात्र नशब्दस्य ल्युडन्तत्वेन कथं पुल्लिङ्गत्वमिति वाच्यम् । ल्युटष् टित्करणसामर्थ्यात् ङीपि नारायणीति भवतीति तथा च नपुंसकत्वनियमो नेति पुल्लिङ्गत्वमपि भवतीति भावः ॥ ‘न भ्राडित्यादिसूत्रद्वये नाकनगशब्दवदयमप्युपसङ्ख्येयः । उक्तनिर्वचनानुसारेणास्य नारायणशब्दप्रयोगस्य प्रामाणिकत्वात्’ इति भावबोधे ॥
ननु देवतासमुच्चायकचशब्दसद्भावादपिशब्दः किमर्थ इत्यत आह । यद्यपीति ॥ अनेनापीत्येत्तत्तथापीति व्याख्यातम् ॥ पृथङ्नतिरितीत्यत्रेतिशब्दस्य इत्यरुचिं सूचयतीति पूर्वेणान्वयः ॥ अनेनैवेति ॥ ज्ञेयमित्यादिवेत्यर्थः ॥ अधिकारादिसूचने श्रोतृप्रवृत्त्यङ्गमूलत्वरूपमेकं हेतुमक्त्वा हेत्वन्तरमाह ॥ तत्स्मरणेति ॥ ननु ग्रन्थस्य फलसाधनताया विघ्नाभावस्य च नमस्कारेणैव सिद्धेर् ग्रथनं व्यर्थम् । एवमधिकारसूचनस्य प्रवृत्यङ्गतया कर्तव्यत्वेऽपि न महाफलार्थं तत्कार्यं, तस्मरणेनैव फलसिद्धेरित्यत आह ॥ नमस्काराधिकार्यादीति ॥ अधिकारादिसूचनमेवोपपादयति ॥ तथा हीति ॥