०३

तृतीयः पादः ॥
मार्गो गम्यं चास्मिन् पाद उच्यते-
ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥1॥
‘तेचिषमभिसम्भवन्त्यर्चिषोहरह्ण आपूर्यमाणपक्षम्’ इत्यर्चिषः प्राथम्यं श्रूयते । ‘यदा ह वै पुरुषोस्माल्लोकात् प्रैति स वायुमागच्छति’ इति
वायोः । तत्रार्चिषः प्राप्तिरेव प्रथमा ।
द्वावेव मार्गौ प्रथितावर्चिरादिर्विपश्चिताम् । धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥
अग्निज्योतिरिति द्वेधैवार्चिषः सम्प्रतिष्ठितिः । अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ॥
एकस्मिंस्तु पुरे संस्थो द्विरूपोग्नेः सुतो महान् ॥ इति च ब्रह्मतर्के ॥1॥
॥ इति अर्चिराद्यधिकरणम् ॥1॥
ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥2॥
अर्चिषो वायुं गच्छति । ‘स वायुमागच्छति’ इति सामान्यवचनात् । ‘स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरहरह्ण आपूर्यमाणपक्षम्’
इति विशेषवचनाच्च ॥2॥
॥ इति वायुगत्यधिकरणम् ।।3।।
ॐ तटितोधि वरुणस्सम्बन्धात् ॐ ।।3।।
‘मासेभ्यस्संवत्सरं संवत्सरात् वरुणलोकं वरुणलोकात् प्रजापतलिोकम्’ इति कौण्डिन्यश्रुतिः । ‘संवत्सरात् तटितमागच्छति तटितः
प्रजापतलिोकम्’ इति गौपवनश्रुतिः । ‘तत्र तटितो वरुणं गच्छति । तटिता ह्यूयते वरुणलोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो
राजा सत्यानृते विविञ्चति’ इत्युपरिसम्बन्धश्रुतेः ।।3।।
।। इति तटिदधिकरणम् ।।4।।
ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ।।4।।
पूर्वोक्तस्त्वातिवाहिको वायुः । पूर्वगमनलिङ्गात् ।।4।।
कुतः-
ॐ उभयव्यामोहात् तत्सिद्धेः ॐ ।।5।।
‘स वायुमागच्छति’ इति प्रथममुच्यते । ‘उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युतमेवान्तत उपगच्छति द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य
तेनैव ब्रह्म गच्छति’ इत्यन्तेपि वायुगमनश्रुतेः । पूर्वोक्त आतिवाहिकपरो वेति व्यामोहे उत्तरे दिवस्पतिरिति विशेषणात् पूर्वत्रातिवाहिकस्यैव
सिद्धेः । ब्रह्मतर्के च-
उत्क्रान्तस्तु शरीरात् स्वात् गच्छत्यर्चिषमेव तु । ततो हि वायोः पुत्रं च योसौ नाम्नातिवाहिकः ।।
ततोहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा । तटितं वरुणं चैव प्रजापं सूर्यमेव च ।।
सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा । ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् ।। इति ।।5।।
।। इति आतिवाहिकाधिकरणम् ।।4।।
ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ।।6।।
प्रकारान्तरेण तत्र तत्रोच्यमानत्वात् वायोरपि परतो ब्रह्मणोर्वाग्गन्तव्यस्तीति नाशङ्कनीयम् । विद्युत्पतिना वायुनैव ‘स एनान् ब्रह्म गमयति’ इति
ब्रह्मगमनश्रुतेः ।
विद्युत्पतिर्वायुरेव नयेत् ब्रह्म न चापरः । कुतोन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम् ।। इति बृहत्तन्त्रे ।।6।।
।। इति वैद्युताधिकरणम् ।।5।।
ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ ।।7।।
‘स एनान् ब्रह्म गमयति’ इति कार्यं गमयतीति बादरिर्मन्यते ।
ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात् क्वचित् । यद्यपि ब्रह्मदृष्टिः स्याद्ब्रह्मलोकमवाप्नुयात् ।। इत्यध्यात्मवचनात् तस्यैव गत्युपपत्तेः ।।7।।
ॐ विशेषितत्वाच्च ॐ ।।8।।
‘यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मुखम्’ इति कौषारवश्रुतौ ।।8।।
ॐ सामीप्यात्तु तद्-व्यपदेशः ॐ ।।9।।
‘ब्रह्मविदाप्नोति परम्’ इति तद्-व्यपदेशस्तु समीप एव परमपि प्राप्नोतीत्येतदर्थमेव ।।9।।
कदा?
ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ ।।10।।
‘ते ह ब्रह्माणमभिसम्पद्य यदैतद्विलीयतेथ सह ब्रह्मणा परमभिगच्छन्ति’ इति सौपर्णश्रुतेर्महाप्रलये तदध्यक्षेण ब्रह्मणा सह गच्छन्ति ।।10।।
ॐ स्मृतेश्च ॐ ।।11।।
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम् ।। इति ।।11।।
ॐ परं जैमिनिर्मुख्यत्वात् ॐ ।।12।।
ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयतीति जैमिनिर्मन्यते ।।12।।
ॐ दर्शनाच्च ॐ ।।13।।
दृष्टत्वाच्च परब्रह्मणः ।।13।।
ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ।।14।।
न हि कार्ये प्रतिपत्तिः प्राप्नवानीत्यभिसन्धिश्च ।
यदुपास्ते पुमान् जीवन् यत्प्राप्तुमभिवाञ्छति । यच्च पश्यति तृप्तः संस्त्प्राप्नोति मृतेरनु ।। इति पाद्मे ।।14।।
ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ॐ ।।15।।
प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् । न तु व्याप्ततया क्वापि प्रतीकालम्बनास्तु ते ।।
अप्रतीकाः देवतास्तु ऋषीणां शतमेव च । राज्ञां च शतमुद्दिष्टं गन्धर्वादि शतं तथा ।।
एतेधिकारिणो व्याप्तदर्शनेन्ये न तु क्वचित् । अयोग्यदर्शने यत्नात् भ्रंशः पूर्वस्य चापि तु ।।
अप्रतीकाश्रया ये हि ते यान्ति परमेव तु । स्वदेहे ब्रह्मदृष्ट्यैव गच्छेत् ब्रह्मसलोकताम् ।।
ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् ।।
इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्बनान् परं नयति । ‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते
यत्कर्म कुरुते तदभिसम्पद्यते’ इति श्रुतेश्च । अत्र कर्मोपासनमेव । अन्यान् कार्यं नयतीति भगवन्मतम् ।।15।।
ॐ विशेषं च दर्शयति ॐ ।।16।।
‘अन्तप्रकाशा बहिःप्रकाशाः सर्वप्रकाशाः । देवा वाव सर्वप्रकाशाः ऋषयोन्तःप्रकाशाः मानुषाः एव बहिःप्रकाशाः’ इति चतुर्वेदशिखायाम् ।।16।।
।। इति कार्याधिकरणम् ।।6।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः ।।