द्वितीयः पादः ॥
देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पादे उच्यते-
ॐ वाङ्मनसि दर्शनाच्छब्दस्य ॐ ॥1॥
वागभिमानिन्युमा मनोभिमानिनि रुद्रे विलीयते । वाचो मनोवशत्वदर्शनात् । ‘तस्य यावन्न वाङ् मनसि सम्पद्यते’ इति शब्दाच्च ।
‘उमा वै वाक् समुद्दिष्टा मनो रुद्र उदाहृतः । तदेतन्मिथुनं ज्ञात्वा न दाम्पत्याद् विहीयते ॥’ इति स्कान्दे ॥1॥
ॐ अत एव च सर्वाण्यनु ॐ ॥2॥
अत एव चशब्दात् सर्वाणि दैवतानि यथानुकूलं विलीयन्ते । ‘अग्नौ सर्वे देवा विलीयन्तेग्निरिन्द्रे इन्द्र उमायामुमा रुद्रे विलीयते एवमन्यानि
दैवतानि यथानुकूलम्’ इति गौपवनश्रुतिः ॥2॥
॥ इति वाङ्मनसाधिकरणम् ॥1॥
ॐ तन्मनः प्राण उत्तरात् ॐ ॥3॥
‘मनः प्राण’ इत्युत्तराद्वचनान्मनोभिमानी रुद्रः प्राणे वायौ विलीयते । ‘वायोर्वाव रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रेष्ठः’ इति च
कौण्डिन्यश्रुतिः ॥3॥
ॐ सोध्यक्षे तदुपगमादिभ्यः ॐ ॥4॥
स प्राणः परमात्मनि विलीयते । ‘सर्वे प्राणमुपगच्छन्ति प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः परमनुप्राणिति तस्मादाहुः प्राणस्य
प्राणः इति’ ‘प्राणः परस्यां देवतायाम्’
‘मुक्ताः सन्तोग्निमाविश्य देवाः सर्वेपि भुञ्जते । अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोपि तु ॥
आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् । न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथञ्चन ॥
किमु विष्णोः परानन्दो न ते विष्णविति श्रुतेः । प्राणस्य तेजसि लयो मार्गमात्रमुदाहृतम् ॥
सर्वेशितुश्च सर्वादेस्तस्यान्यत्र लयः कथम् ॥’ इत्यादिश्रुतिस्मृतिभ्यः ॥4।।
इति अध्यक्षाधिकरणम् ।।3।।
ॐ भूतेषु तच्छ्रुतेः ॐ ।।5।।
भूतेष्वन्येषां देवानां लयः । ‘भूतेषु देवाः विलीयन्ते भूतानि परे न पर उदेति नास्तमेत्येकल एव मध्ये स्थाता’ इति बृहच्छ्रुतेः ।।5।।
।। इति भूताधिकरणम् ।।4।।
ॐ नैकस्मिन् दर्शयतो हि ॐ ।।6।।
नैकस्मिन् भूते सर्वेषां देवानां लयः । ‘पृथिव्यामृभवो विलीयन्ते वरुणेश्विनावग्नावग्नयो वायाविन्द्रः सोम आदित्यो बृहस्पतिरित्याकाश एव
साध्या विलीयन्ते । मृत्यवः पृथिव्यां वरुण आपोग्नयस्तेजसि मरुतो मारुत आकाशे विनायका विलीयन्ते’ इति महोपनिषच्चतुर्वेदशिखा च
दर्शयतः । अतोग्नौ देवा विलीयते इत्यत्र निर्दिष्टानामेव ।।6।।
।। इति अनेकलयाधिकरणम् ।।5।।
ॐ समना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॐ ।।7।।
देशतः कालतश्च व्याप्त्या समो ना परमपुरुषो यस्याः सा समना । संसारानुपक्रमात् स्वत एवामृतत्वं तस्याः । बृहच्छ्रुतिश्च- ‘द्वौ वाव
सृत्यनुपक्रमौ प्रकृतिश्च परमश्च द्वावेतौ नित्यमुक्तौ नित्यौ च सर्वगतौ चैतौ ज्ञात्वा विमुच्यत’ इति । नैतावता साम्यम् ।।7।।
ॐ तदपीतेः संसारव्यपदेशात् ॐ ।।8।।
‘समावेतौ प्रकृतिश्च परमश्च नित्यौ सर्वगतौ नित्यमुक्तावसमावेतौ प्रकृतिश्च परमश्च विलीनो हि प्रकृतौ संसारमेति विलीनः परमे ह्यमृतत्वमेति’
इति सौपर्णश्रुतेः ।।8।।
ॐ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॐ ।।9।।
सूक्ष्मत्वं चाधिकं ब्रह्मणः प्रकृतेः । ज्ञानानन्दैश्वर्यादिप्रमाणाधिक्यं च ।
सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमेश्वरः । ज्ञानानन्दौ तथैश्वर्यं गुणाश्चान्येधिकाः प्रभोः ।। इति च तुरश्रुतिः ।।9।।
ॐ नोपमर्देनातः ॐ ।।10।।
अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।
देशतः कालतश्चैव समा प्रकृतिरीश्वरे । उभयोरप्यबद्धत्वं तदबन्धः परात्मनः ।।
स्वत एव परेशस्य सा चोपास्ते सदा हरिम् । प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ।।
नियता नैव केनापि नियता हि हरेर्गुणाः ।। इति भविष्यत्पर्वणि ।।10।।
ॐ अस्यैव चोपपत्तेरूष्मा ॐ ।।11।।
‘द्विधा हीदमवदृश्यते ऊष्णावदनूष्मावच्च । तत्रोष्मावत् परं ब्रह्म यन्न जिघ्रन्ति न पश्यन्ति न शृण्वन्ति न विजानन्ति । अथानूष्मावत् प्रकृतिश्च
प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति च यन्न पश्यन्ति पश्यन्ति च यन्न शृण्वन्ति शृण्वन्ति च यन्न जानन्ति जानन्ति च’ इति सौपर्णश्रुतेः किञ्चित्
साम्योपपत्तेः ।।11।।
ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ ।।12।।
‘असतो वा एष परो न हि कश्चिदेवं दृश्यते सर्वे ह्येतेणवो जायन्ते च म्रियन्ते च छिद्रा ह्येते भवन्ति । अथ परो न जायते न म्रियते पूर्णश्चैष
भवति’ इति चतुर्वेदशिखायां साम्यप्रतिषेधान्नेति चेन्न । शरीराद्धि साम्यं प्रतिषिध्यते ।।12।।
कुतः
ॐ स्पष्टो ह्येकेषाम् ॐ ।।13।।
‘अथातः समाश्चासमाश्चाभिधीयन्ते समासमाश्चाथ समानि ब्रह्मणो रूपाणि यैरुत्पत्तिः स्थितिर्लयो नियतिरायतिश्चैकं ह्येवैतद्भवत्यथासमा
ब्रह्मेन्द्रो रुद्रः प्रजापतिः बृहस्पतिर्ये के च देवा गन्धर्वा मनुष्याः पितरोसुरा यत्किञ्चेदं चरमचरं चाथ समासमा प्रकृतिर्वाव समासमैषा हि
नित्याजरा तद्वशा च’ इति स्पष्टो हि माध्यन्दिनायनानां समादिवादः ।।13।।
ॐ स्मर्यते च ॐ ।।14।।
मत्स्यकूर्मवराहाद्याः समाः विष्णोरभेदतः । ब्रह्माद्यास्त्वसमाः प्रोक्ताः प्रकृतिश्च समासमा ।। इति च वाराहे ।।14।।
।। इति समनाधिकरणम् ।।6।।
ॐ तानि परे तथा ह्याह ॐ ।।15।।
प्राणद्वारेण सर्वाणि दैवतानि परमात्मनि विलीयन्ते । ‘सर्वे देवाः प्राणमाविश्य देवे मुक्ता लयं परमे यान्त्यचिन्त्ये’ इति कौषारवश्रुतिः ।।15।।
।। इति पराधिकरणम् ।।7।।
ॐ अविभागो वचनात् ॐ ।।16।।
‘एते देवा एतमात्मानमनुविश्य सत्याः सत्यकामाः सत्यसङ्कल्पाः यथानिकाममन्तर्बहिः परिचरन्ति’ इति गौपवनश्रुतिः ।
तत्परमेश्वरकामाद्यविभागेनैव तेषां सत्यकामत्वम् । ‘कामेन मे काम आगात् हृदयात् हृदयं मृत्योः’ इति वचनात् ।
‘मुक्तानां सत्यकामत्वं सामर्थ्यं च परस्य तु । कामानुकूलकामत्वं नान्यत् तेषां विधीयते ।।’ इति ब्राह्मे ।।16।।
।। इति अविभागाधिकरणम् ।।8।।
ॐ तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ ।।17।।
उत्क्रान्तिकाले हृदयस्याग्रज्वलनं भवति । ‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते’ इति श्रुतेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।
‘यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ।।’
इति स्मृतेर्विद्याशेषगत्यनुस्मरणयोगाच्च । ‘आचार्यस्तु ते गतिं वक्ता’ इति हि लिङ्गम् ।
हृदिस्थेनैव हरिणा तस्यैवानुग्रहेण तु । उत्क्रान्तिबर्रह्मरन्ध्रेण तमेवोपासतो भवेत् ।। इति चाध्यात्मे ।
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्गन्या उत्क्रमणे भवन्ति ।। इति च ।।17।।
ॐ रश्म्यनुसारी ॐ ।।18।।
निष्क्रमति । सहस्रं वा आदित्यस्य रश्मय आसु नाडीष्वाततास्य चेतः सुषुम्नो ब्रह्मयानः सुषुम्नायामाततस्तत्प्रकाशेनैष निर्गच्छति । इति हि
पौत्रायणश्रुतिः ।।18।।
ॐ निशि नेति चेन्न सम्बन्धात् ॐ ।।19।।
रश्म्यभावात् ज्ञानिन उत्क्रमणं न युक्तमिति चेन्न । सर्वदा सम्बन्धात् रश्मीनाम् ।।19।।
कियत्फलम् -
ॐ यावद्देहभावित्वाद् दर्शयति च ॐ ।।20।।
यावद्देहो विद्यते तावद्रश्मिसम्बन्धो अस्त्येव । संसृष्टा वा एते रश्मयश्च नाड्यश्च नैषां वियोगो यावदिदं शरीरमत एतैः पश्यत्येतैरुत्क्रामत्येतैः
प्रवर्तते । इति हि माध्यन्दिनायनश्रुतिः ।।20।।
ॐ अतश्चायनेपि हि दक्षिणे ॐ ।।21।।
‘दक्षिणे मरणाद्याति स्वर्गं ब्रह्मोत्तरायणे’ इत्युक्तेपि ज्ञानिनो दक्षिणायनोत्क्रान्तिः युज्यते ।
शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः । तावन्त एव निर्दिष्टा उत्तरायणरश्मयः ।।
ते सर्वे देहसम्बद्धा सर्वदा सर्वदेहिनाम् । महर्लोकादिगन्तारः उत्तरायणरश्मिभिः ।।
निर्गच्छन्तीतरैश्चापि यैरेष्टव्येतरा गतिः । उत्तरं दक्षिणमिति ते एव तु निगद्यते ।।
न तु कालविशेषोस्ति ज्ञानिनां नियमात् फलम् । ददाति कालेनुगुणे फलं किञ्चिद्विशिष्यते ।।
अत्युत्तमानां केषाञ्चिन्न विशेषोस्ति कालतः ।। इति नारायणाध्यात्मे ।।21।।
।। इति हृदयाग्रज्वलनाधिकरणम् ।।9।।
ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ ।।22।।
न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ज्ञानयोगिनः कर्मयोगिनश्च ।
अग्निर्ज्योतिरहः शुक्लः षण्मासाः उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।।
धूमो रात्रिस्तथा कृष्णः षण्मासाः दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ।।
इत्यत्र योगीति विशेषणात् स्मरणनिमित्ते चैते गती ।
गत्यनुस्मरणात् ब्रह्म चन्द्रं वा गच्छन्ति ध्रुवम् । अननुस्मरतः काले स्मरणं प्राप्य वै गतिः ।। इति हि अध्यात्मे ।।22।।
।। इति प्रतिस्मरणाधिकरणम् ।।10।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ।।