१
फलं निगद्यतेस्मिन्नध्याये । कर्मनाशाख्यं फलमस्मिन् पादे । नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमत उच्यते । प्रायिकत्वाच्चाध्यायानां
पादानां च न विरोधः ।
ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥1॥
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इत्यादीनां नाग्निष्टोमादिवदेकवारेणैव फलप्राप्तिः । किन्त्वावृत्तिः कर्तव्या ।
‘स य एषोणिमेतदात्म्यमिदं सर्वम्’ इत्याद्यसकृदुपदेशात् ॥1॥
ॐ लिङ्गाच्च ॐ ॥2॥
‘स तपोतप्यत… पुनरेव वरुणं पितरमुपससाद’ इत्याद्यावर्तनलिङ्गाच्च ।
‘नित्यशः श्रवणं चैव मननं ध्यानमेव च । कर्तव्यमेव पुरुषैबर्रह्मदर्शनमिच्छुभिः ॥’ इति बृहत्तन्त्रे ॥2॥
॥ इति आवृत्यधिकरणम् ॥1॥
ॐ आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॐ ॥3॥
आत्मेत्युपदेश उपासनं च मोक्षार्थिभिः सर्वथा कार्यमेव । ‘नान्यं विचिन्तय आत्मानमेवाहं विजानीयामात्मानमुपास आत्मा हि ममैष भवति’
इति ह्युपगच्छन्ति । ‘आत्मेत्येवोपास्स्व आत्मेत्येव विजानीहि नान्यं किञ्चन विजानथ आत्मा ह्येवैष भवति’ इति ग्राहयन्ति च ।
आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः । नानाक्लेशसमायुक्तोप्येतावन्नैव विस्मरेत् ॥ इति भविष्यत्पर्वणि ॥
आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः । सर्वेषां च मुमुक्षूणामुपदेशश्च तादृशः ॥
कर्तव्यो नास्य हानेन कस्यचिन्मोक्ष इष्यते ॥ इति ब्राह्मे ॥3॥
॥ इति आत्मोपगमाधिकरणम् ॥3॥
ॐ न प्रतीके न हि सः ॐ ॥4॥
‘नाम ब्रह्मेत्युपास्ते’ इत्यादिना शब्दभ्रान्त्या न प्रतीके ब्रह्मदृष्टिः कार्या । किन्तु तत्स्थत्वेनैवोपासनं कार्यम् । ब्रह्मतर्के च -
नामादिप्राणपर्यन्तमुभयोः प्रथमात्वतः । ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति ॥
नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते । सर्वाथा प्रथमा यस्मात् सप्तम्यर्था ततो मता ॥ इति ॥4॥
॥ इति नप्रतीकाधिकरणम् ॥3॥
ॐ ब्रह्मदृष्टिरुत्कर्षात् ॐ ॥5॥
ब्रह्मदृष्टिश्च सर्वथा कार्यैव परमेश्वरे । उत्कृष्टत्वात् ।
ब्रह्मदृष्ट्या सदोपास्यो विष्णुः सर्वैरपि ध्रुवम् । महत्त्ववाची शब्दौयं महत्त्वज्ञानमेव हि ॥
सर्वतः प्रीतिजनकमतस्तत्सर्वथा भवेत् । आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता ॥
कार्यैव सर्वथा विष्णोबर्रह्मत्वं न परित्यजेत् ॥ इति ब्रह्मतर्के ॥5॥
॥ इति ब्रह्मदृष्ट्यधिकरणम् ॥4॥
ॐ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॐ ॥6॥
‘चक्षोः सूर्यो अजायत’ इत्याद्युपासनं च देवानां कार्यमेव । स्वोत्पत्तिस्थानत्वात् स्वाश्रयत्वात् मुक्तौ तत्र लयस्यापेक्षितत्वाच्चोपपन्नं
तथोपासनम् । नारायणतन्त्रे च -
आधिव्याधिनिमित्तेन विक्षिप्तमनसोपि तु । गुणानां स्मरणाशक्तौ विष्णोबर्रह्मत्वमेव तु ॥
स्मर्तव्यं सततं तत्तु न कदाचित् परित्यजेत् । अत्र सर्वगुणानां च यतोन्तर्भाव इष्यते ॥
स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ॥ तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ॥
तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः ॥ इति ॥6॥
॥ इति आदित्यादिमत्यधिकरणम् ॥5॥
ॐ आसीनः सम्भवात् ॐ ॥7॥
सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ॥7॥
ॐ ध्यानाच्च ॐ ॥8॥
स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा । स्मरणं सर्वदा योग्यं ध्यानोपासनमासने ॥
नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः । आसीनस्य भवेत् तत्तु न शयानस्य निद्रया ॥
स्थितस्य गच्छतो वापि विक्षेपस्यैव सम्भवात् । स्मरणात् परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः ॥ इति च नारायणतन्त्रे ।
अतो ध्यानत्वाच्च ॥8॥
ॐ अचलत्वं चापेक्ष्य ॐ ॥9॥
‘अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम् । चलने तु शरीरस्य चञ्चलं तु मनो भवेत् ॥’ इति च ब्रह्माण्डे ॥9॥
ॐ स्मरन्ति च ॐ ॥10।।
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ।। इत्यादि ।।10।।
ॐ यत्रैककाग्रता तत्राविशेषात् ॐ ।।11।।
देशकालावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थातव्यम् ।
तमेव देशं सेवेत तं कालं तामवस्थितिम् । तानेव भोगान् सेवेत मनो यत्र प्रसीदति ।।
न हि देशादिभिः कश्चित् विशेषः समुदीरितः । मनः प्रसादनार्थं हि देशकालादिचिन्तना ।। इति वाराहे ।।11।।
।। इति आसनाधिकरणम् ।।6।।
ॐ आ प्रायणात् तत्रापि हि दृष्टम् ॐ ।।12।।
यावन्मोक्षस्तावदुपासनादि कार्यम् । ‘स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत’ इति हि श्रुतिः । ‘सर्वदैनमुपासीत
यावद्विमुक्तिर्मुक्ता अपि ह्येनमुपासते’ इति सौपर्णश्रुतिः ।
श्रुणुयाद्यावदज्ञानं मतिर्यावदयुक्तता । ध्यानं च यावदीक्षा स्यान्नेक्षा क्वचन बाध्यते ।।
दृष्टतत्त्वस्य च ध्यानं यदा दृष्टिर्न विद्यते । भक्तिश्चानन्तकालीना परमे ब्रह्मणि स्फुटा ।।
आ विमुक्तेर्विधिर्नित्यं स्वत एव ततः परम् ।। इति ब्रह्माण्डे ।।12।।
।। इति प्रायणाधिकरणम् ।।7।।
ॐ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्-व्यपदेशात् ॐ ।।13।।
ब्रह्मदर्शन उत्तरघस्याश्लेषः पूर्वस्य विनाशश्च । ‘तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’
‘तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हैवास्य सर्वे पाप्मानं प्रदूयन्ते’ इति तद्-व्यपदेशात् ।।13।।
ॐ इतरस्याप्येवमसंश्लेषः पाते तु ॐ ।।14।।
पुण्यस्याप्येवमसंश्लेषः पाते । तुशब्दोनुत्थानवाची ।
यथाश्लेषो विनाशश्च मुक्तस्य तु विकर्मणः । एवं सुकर्मणश्चापि पततस्तमसि ध्रुवम् ।। इति चाग्नेये ।।14।।
ॐ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॐ ।।15।।
अनारब्धकार्ये एव पूर्वे पुण्यपापे विनश्यतः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येथ सम्पत्स्यते’ इति तदवधेः । तुशब्दः स्मृतिद्योतकः ।
यदनारब्धपापं स्यात् तद्विनश्यति निश्चयात् । पश्यतो ब्रह्म निर्द्वन्द्वं हीनं च ब्रह्म पश्यतः ।।
द्विषतो वा भवेत् पुण्यनाशो नास्त्यत्र संशयः । तस्याप्यारब्धकार्यस्य न विनाशोस्ति कुत्रचित् ।।
आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोः ।। इति च नारायणतन्त्रे ।।15।।
ॐ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॐ ।।16।।
अग्निहोत्राद्यपि तु मोक्षेनुभावायैव । तुशब्दात् ब्रह्मदर्शनवतः । ‘स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोन्यद्वा कर्माकृतम् यदि ह वा
अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म
क्षीयतेस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत् सृजते’ इति तद्दर्शनात् ।।16।।
ॐ अतोन्यदपीत्येकेषामुभयोः ॐ ।।17।।
मुक्तावनुभवकारणाद्यदन्यत् तत् पुण्यमपि विनश्यति अप्रारब्धमनभीष्टं च । तथा ह्येकेषां पाठ उभयोस्त्यागेन- ‘तस्य पुत्रा दायमुपयन्ति
सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्’ इति ।
‘अनभीष्टमनारब्धं पुण्यमप्यस्य नश्यति । किमु पापं परब्रह्मज्ञानिनो नास्ति संशयः ।।’ इति पाद्मे ।।17।।
ॐ यदेव विद्ययेति हि ॐ ।।18।।
ब्रह्मदर्शिकृतमल्पमपि पुण्यं महत्तममनन्तं च भवति । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति श्रुतेः । ‘न हास्य
कर्म क्षीयते’ इति च ।
‘अल्पमात्रकृतो धर्मो भवेज्ज्ञानवतो महान् । महानपि कृतो धर्मो ह्यज्ञानां निष्फलो भवेत् ।।’ इति च भारते ।।18।।
ॐ भोगेन त्वितरे क्षपयित्वा सम्पत्स्यते ॐ ।।19।।
आरब्धपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते । अथेति नियमसूचकः ।
‘आरब्धपुण्यपापस्य भोगेन क्षपणादनु । प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ।।
ब्रह्मणां शतकालात्तु पूर्वमारब्धसङ्क्षयः । नियमेन भवेन्नात्र कार्या काचिद्विचारणा ।।’ इति नारायणतन्त्रे ।।19।।
।। इति तदधिगमाधिकरणम् ।।8।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य प्रथमः पादः ।।