चतुर्थः पादः ॥
ज्ञानसामर्थ्यमस्मिन् पादे उच्यते -
ॐ पुरुषार्थोतः शब्दादिति बादरायणः ॐ ॥1॥
यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात् सर्वपुरुषार्थप्राप्तिरिति बादरायणो मन्यते ।
‘यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥’ इति
शब्दात् ॥1॥
ॐ शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः ॐ ॥2॥
अस्त्येव मोक्षसाधनत्वं ज्ञानस्य । स्वर्गादिषु तत्साधनकर्मशेषत्वेन । ‘स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित् ॥’
इतिवदिति जैमिनिः ॥2॥
ॐ आचारदर्शनात् ॐ ॥3॥
ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥3॥
ॐ तच्छ्रुतेः ॐ ॥4॥
‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति शेषत्वश्रुतेः ॥4॥
ॐ समन्वारम्भणात् ॐ ॥5॥
कर्मैव देहं दैविकं मानुषं वाप्यन्वारभेत् नापरस्तत्र हेतुः । भोगांस्तदीयांश्च यथाविभागं ददाति कर्मैव शुभाशुभं यत् ॥ इति माठरश्रुतेश्च ।
संशब्दः प्राधान्यं दर्शयति ॥5॥
ॐ तद्वतो विधानात् ॐ ॥6॥
‘ज्ञानी तु कर्माणि सदोदितानि कुर्यादकामः सततं भवेत’ इति कमठश्रुतौ ज्ञानवतोपि विधानात् ॥6॥
ॐ नियमाच्च ॐ ॥7॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं?समाः । एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे ॥इति ॥7॥
ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥8॥
‘ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे कामाः सम्पद्यन्ते । तथापि यथा यथा कर्म कुरुते तथा तथाधिको भवति ॥’ इति
कौण्डरव्यश्रुतिः ।
युधिष्ठिरादीनां राजसूयादिना फलाधिक्यदर्शनाच्चेति बादरायणमतम् ॥8॥
ॐ तुल्यं तु दर्शनात् ॐ ॥9॥
राजसूयादिकृतावकृतौ च सममेव तेषां विज्ञानम् ।
विज्ञातमेतत् सर्वेषां मुनीनां ब्रह्मदर्शनात् । स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥
स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः । ज्ञानेनाधिक्यमित्याहुर्जैमिन्याद्यास्तु केचन ॥
अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते । इति केचिद्विदः प्राहुर्व्यासशिष्या इमेखलिाः ॥
यस्मात् व्यासमतं सर्वं सत्यमेव ततोखलिम् । यथाकाशस्त्वनन्तोपि व्यामो हस्तावधिस्तथा ॥
प्रादेशोपि हि स्ुतयेन तथैतेषां मतानि तु । स्वयं तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् ॥
अनन्ताकाशवत् पश्यत्यन्निखलिं पुरुषोत्तमः । ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ॥
इति प्राह महायोगी पुमर्थानां विनिर्णयम् ॥ इति भविष्यत्पर्वणि ॥
ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् । चीर्णेकृते वा ज्ञानस्य न विशेषोस्ति कर्मणि ॥ इति ब्रह्मतर्के ॥9॥
॥ इति पुरुषार्थाधिकरणम् ॥1॥
सर्वेषां पुरुषार्थापेक्षित्वाज्ज्ञानाधिकारतेत्यत आह-
ॐ असार्वत्रिकी ॐ ॥10॥
न सर्वेषामधिकारः ॥10॥
ॐ विभागश्शतवत् ॐ ॥11॥
नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु । सोमाधिकारो वेदोक्तो ब्रह्मणी द्वे शताधिके ॥
यथा तथैवासङ्ख्येयाः प्रजास्तासु कियाञ्जनऋ । ज्ञानाधिकारी सम्प्रोक्तो विष्णुपादैकसंश्रयः ॥
इति वचनात् सुखापेक्षासाम्येपि विभाग इष्यतेधिकारार्थम् ॥11॥
कस्याधिकारः
ॐ अध्ययनमात्रवतः ॐ ॥12॥
‘अवैष्णवस्य वेदेपि ह्यधिकारो न विद्यते । गुरुभक्तिविहीनस्य शमादिरहितस्य च ॥
न च वर्णावरस्यापि तस्मादध्ययनान्वितः । ब्रह्मज्ञाने तु वेदोक्तेप्यधिकारी सतां मतः ॥’ इति ब्रह्मतर्के ॥
‘पठेद् वेदानथार्थानधीयीताथ विचार्य ब्रह्म विन्देत्’ इति च कौषारवश्रुतिः ॥12॥
॥ इति अधिकाराधिकरणम् ॥2॥
ॐ नाविशेषात् ॐ ॥13।।
न सामान्येनाधिकारो देवादीनाम् ।
अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् । तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तरम् ।। इति कौण्डिन्यश्रुतिः ।।13।।
।। इति अधिकारविशेषाधिकरणम् ।।3।।
‘अथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्यात् येन स्यात् तेनेदृश एव’ इति ज्ञानिनो यथेष्टाचरणं विधीयते इत्यत आह-
ॐ स्तुतयेनुमतिर्वा ॐ ।।14।।
न विधिः । ज्ञानिनः स्तुतये अनुमतिमात्रं वा । युज्यते च ।।14।।
ॐ कामकारेण चैके ॐ ।।15।।
‘कामचारः कामभक्षाः कामवादाः कामेनैवेमं देहमुत्सृज्याथ परात् परमीयुरनारम्भणम्’ इति चैके पठन्ति ।।15।।
ॐ उपमर्दं च ॐ ।।16।।
‘ओमित्युच्चार्यान्तरिममात्मानमभिपश्योपमृद्य पुण्यं च पापं च काममाचरन्तो ब्रह्मानुव्रजन्ति’ इति च तुरश्रुतौ ।।16।।
ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ।।17।।
न तावता कामचाराणां ज्ञानेधिकारः ।
य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् । न तथा विद्यते भूयान् यं प्राप्यान्येपि भूयसः ।। इति माठरश्रुतेः ।।17।।
ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ।।18।।
‘प्रातरुत्थाय सन्ध्यमुपासीत यत् सन्ध्यामुपासते ब्रह्मैव तदुपासतेथ देवान्नमेत् जुहुयात् वेदानावर्तयीत नान्यत् किञ्चिदाचरेत् न सुरां पिबेन्न
पलाण्डुं भक्षयीत न भृशं वदेन्न विस्मरेतात्मानं सोमं पिबेद् हुतशेषेण वर्तयेत्’ इत्युक्ताचारपरामर्शेन विधिबन्धवर्जितत्वेन कामत एव तस्य
चरणं कामचार इति जैमिनिर्मन्यते । न च निषिद्धं कर्म कर्तव्यमेवेति चोदना । ‘ब्राह्मणो न हन्तव्यः’ इत्याद्यपवादश्च ।।18।।
ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ।।19।।
अनुष्ठेयानां मध्य एव कामतश्चरणं कामतो निवृत्तिरिति बादरायणो मन्यते । ‘केन स्याद्येन स्यात् तेनेदृश एव’ इति साम्यश्रुतेः ।
यस्त्वात्मरतिरेव स्यात् आत्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ।। इति भगवद्वचनाच्च ।।19।।
ॐ विधिर्वा धारणवत् ॐ ।।20।।
‘केन स्यात् येन स्यात्’ इति विधिर्वा । यथा वेदधारणं त्रैवर्णिकानां विहितं नान्येषाम् । एवं स्वमतानुसारिणी प्रवृत्तिर्ज्ञानिनां विहिता । न
तत्राधर्मशङ्का कार्या । नान्येषामिति वा ।
स्वेच्छयैव प्रवृत्तिस्तु ब्रह्मणो विधिचोदिता । नाशङ्क्यं तन्मतं क्वापि विष्णोः प्रत्यक्षचोदना ।।
इतरेषां न विहिता स्वेच्छावृत्तिः कथञ्चन ।। इति हि ब्राह्मे ।।20।।
ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ।।21।।
स्तुतिमात्रमेव स्वेच्छाचरणं न विधिः । तैरपि सामान्यविधिस्वीकारादिति चेन्न । अपूर्वत्वात् परवशत्वात् । सर्वविध्यतिक्रमेण स्तुतिमात्रविषयत्वं
परब्रह्मण एव हि ।
विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ । परस्य ब्रह्मणो ह्येव सर्वविध्यतिदूरता ।। इति हि ब्रह्मतर्के ।।21।।
ॐ भावशब्दाच्च ॐ ।।22।।
‘यथाविधानमपरे विधिर्भावे प्रजापतेः । ब्रह्मणः परमस्यैव सर्वविध्यतिदूरता ।।’ इति च तुरश्रुतौ ।।22।।
ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ।।23।।
‘केन स्यात् येन स्यात्’ इत्यादयः स्थिरत्वनिवृत्त्यर्था इति चेन्न ।
त्रेधा ह ज्ञानिनो विधिनियता अनियताः स्वेच्छानियता इति । विधिनियता मनुष्या अनियता हि देवा ब्रह्मैव स्वेच्छानियतः ।।
इति गौपवनश्रुतौ विशेषितत्वात् ।।23।।
ॐ तथा चैकवाक्योपबन्धात् ॐ ।।24।।
एवं सति विधिवाक्यानां स्वेच्छावृत्तिवाक्यानां च सम्बन्धो भवति ।।
ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ।।25।।
अत एव ज्ञानस्य मोक्षदाने नाग्निहोत्राद्यपेक्षा । ब्रह्मतर्के च -
येषां ज्ञानं समुत्पन्नं तेषां मोक्षो विनिश्चितः । शुभकर्मभिराधिक्यं विपरीतैर्विपर्ययः ।।
स्वेच्छानुवृत्त्यैव भवेत् ब्रह्मणः प्रायशस्तथा । देवानामपि सर्वेषां विशेषादुत्तरोत्तरम् ।। इति ।।25।।
ॐ सर्वापेक्षा च यज्ञादिश्रुतेसश्ववत् ॐ ।।26।।
सर्वधर्मापेक्षा च ज्ञानस्योत्पत्तौ । ‘विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’ इति श्रुतेः । यथा गतिनिष्पत्त्यर्थमश्वादयोपेक्ष्यन्ते न
विनिष्पन्नगतेगर्रामादिप्राप्तौ ।।26।।
ॐ शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ ।।27।।
यद्यपि ज्ञानेनैव मोक्षो नियतस्तथापि ज्ञानी शमदमाद्युपेतः स्यात् । ‘आचार्यात् विद्यामवाप्यैतमात्मानमभिपश्य शान्तो भवेत् दान्तो
भवेदनुकूलो भवेदाचार्यं परिचरेत् परिचरेदाचार्यम्’ इति माठरश्रुतौ ज्ञानिनोपि तद्विधेः । ‘ब्राह्मीं वाव त उपनिषदमब्रूम’ इति । ‘तस्यै तपो
दम कर्मेति प्रतिष्ठा । वेदाः सर्वाङ्गानि सत्यमायतनम् । यो वा एतामुनिषदमेवं वेद’ इति ज्ञानाङ्गतया तेषामवश्यानुष्ठेयत्वात् ।
यस्य ज्ञानं तस्य मोक्ष इति नात्र विचारणा । तस्य शान्त्यादयोङ्गानि तस्मात् तेषामनुष्ठितिः ।।
अवश्यकरणीया स्यादन्यथाल्पफलं भवेत् ।। इति चाग्नेये ।।
तुशब्दः पूर्णफलार्थत्वं सूचयति ।।27।।
ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ।।28।।
‘यदि ह वा अप्येवंविन्निखलिं भक्षयीतैवमेव स भवति’ इति सर्वान्नानुमतिः प्राणात्ययविषया । ‘न वा अजीविष्यमिमानखादन् इति होवाच
कामो म उदपानम्’ इति दर्शनात् ।।28।।
ॐ अबाधाच्च ॐ ।।29।।
‘अन्याय्यचरणाभावे न हि ज्ञानस्य बाधनम् । अतो विद्वानपि न्याय्यं वर्तेतोत्कर्षसिद्धये ।।’ इति च ब्रह्मतर्के ।।29।।
ॐ अपि स्मर्यते ॐ ।।30।।
‘अतीतानागतज्ञानी त्रैलोक्योद्धरणक्षमः । एतादृशोपि नाचारं श्रौतं स्मार्तं परित्यजेत् ।।’ इति हरिवंशेषु ।।30।।
ॐ शब्दश्चातोकामचारे ॐ ।।31।।
‘स य एतदेवंविदेवं मन्वान एवं पश्यन्न कामचरितं चरेन्न कामं भक्षयीत न काममनुवर्तेत’ इति कौण्डिन्यश्रुतौ । अत इत्यल्पफलत्वं
सूचयति । ‘न निषिद्धानि वर्तेत पूर्णज्ञानफलेच्छया’ इति पाद्मे ।।31।।
ॐ विहितत्वाच्चश्रमकर्मापि ॐ ।।32।।
न केवलं निषिद्धाकरणेन पूर्यते । कर्तव्यं च वर्णाश्रमविहितं कर्म ।
पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन् । यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् ।।
इति कौषारवश्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ।।32।।
ॐ सहकारित्वेन च ॐ ।।33।।
यथा राज्ञाः सहकार्यैव मन्त्री तथाप्यृते तं क्षितिपः कार्यमृच्छेत् । एवं ज्ञानं कर्म विनापि कार्यं सहायभूतं न विचारः कुतश्चित् ।।
इति कमठश्रुतौ सहकारित्वोक्तेश्च ।
ज्ञानान्मोक्षो भवत्येव सर्वाकार्यकृतोपि तु । आनन्दो ह्रसतेकार्याच्छुभं कृत्वा तु वर्धते ।। इति ब्रह्माण्डे ।।
सर्वदुःखनिवृत्तिश्च ज्ञानिनो निश्चितेन हि । उपासया कर्मभिश्च भक्त्या चानन्दचित्रता ।। इति बृहत्तन्त्रे ।।
धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः । स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः ।। इति च पाद्मे ।।
।। इति कामचाराधिकरणम् ।।4।।
ॐ सर्वथापि तु त एवोभयलिङ्गात् ॐ ।।34।।
सर्वप्रकारेणोत्साहेपि ये ज्ञानयोग्यास्त एव ज्ञानं प्राप्नुवन्ति नान्ये । ‘य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकोविजिघत्सोपिपासः सत्यकामः
सत्यसङ्कल्पः सोन्वेष्टव्यः स विजिज्ञासितव्यः’ इति श्रुत्याचार्योपदेशसाम्येपि विरोचनो विपरीतज्ञानमापेन्द्रः सम्यग्ज्ञानमित्युभयविधलिङ्गात्
।।34।।
ॐ अनभिभवं च दर्शयति ॐ ।।35।।
‘दैवीमेव सम्पत्तिं देवा अभिगच्छन्त्यासुरीमेव चासुरा नैतयोरभिभवः कदाचित् स्वभाव एव ह्यवतिष्ठन्ते’ इति स्वभावानभिभवं च दर्शयति
।।35।।
ॐ अन्तरा चापि तु तद्दृष्टेः ॐ ।।36।।
सम्यग्ज्ञानविपरीतज्ञानयोरन्तरा स्थितानामपि देवासुरभावयोर्दाढ्यदृष्टेः ।।36।।
ॐ अपि स्मर्यते ॐ ।।37।।
असुरा आसुरेणैव स्वभावेन च कर्मणा । ज्ञानेन विपरीतेन तमो यान्ति विनिश्चयात् ।।
देवा दैवस्वभावेन कर्मणा चाप्यसंशयम् । सम्यग्ज्ञानेन परमां गतिं गच्छन्ति वैष्णवीम् ।।
नानयोरन्यथाभावः कदाचित् क्वापि विद्यते । मानुषा मिश्रमतयो विमिश्रगतयोपि च ।। इति स्कान्दे ।।37।।
ॐ विशेषानुग्रहं च ॐ ।।38।।
‘शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमति नेनीयमानः । एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ।।’
इति विशेषानुग्रहं च दर्शयति देवेषु परमेश्वरस्य ।
‘असुरान् दमयन् विष्णुः स्वपदं च सुरान्नयन् । पुनः पुनर्मानुषांस्तु सृतावावर्तयत्यसौ ।।’ इति भविष्यत्पर्वणि ।।38।।
ॐ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॐ ।।39।।
देवभागादसुरभागा एव बहुलः । ‘तस्मान्न जनतामियात्’ इति लिङ्गात् । चशब्दात् ‘तत कनीयसा एव देवा ज्यायसा असुराः’ इति श्रुतेश्च ।
‘असुरा बहुला यस्मात् तस्मान्न जनतामियात्’ इति ब्राह्मे ।।39।।
ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ ।।40।।
असुरजातेरेवासुरत्वं देवजातेरेव देवत्वं जैमिनेरपि सिद्धमेव । ‘नासुरा दैवीं न देवा आसुरीं च मनुष्या दैवीमासुरीं च गतिमीयुरात्मीयामेव
जातिमनुभवन्ति’ इति नियमश्रुतेः । ‘नासुराणां दैवं रूपं न देवानामासुरं न चोभयं मनुष्याणां यो यद्रूपः स तद्रूपो निसर्गो ह्येष भवति’
इत्यतद्रूपत्वश्रुतेः । ‘तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः’ इति
देवासुराणां भावाभावश्रुतेश्च ।
देवानां भूतिरित्येव मनो विष्णौ स्वभावतः । असुराणामभूतित्वेनैतन्नेयमतोन्यथा ।।
देवाः शापाभिभूतत्वात् प्रह्लादाद्या बभूविरे । अतः सुगतिरेतेषां नान्यथा व्यत्ययो भवेत् ।। इति चाध्यात्मे ।।40।।
।। इति उभयलिङ्गाधिकरणम् ।।5।।
ॐ न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॐ ।।41।।
न च परमात्मैश्वर्यादिकमाकाङ्क्ष्यम् । ब्रह्मादीनामपि नाकाङ्क्ष्यं किमु परस्येति सूचयितुमपिशब्दः । चशब्दस्तु ज्ञानार्थिनां
पूर्वोक्तादित्थम्भावान्तरसूचकः । अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयोग्यस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकाङ्क्षायां
पतनमनुमीयते ।
न देवपदमन्विच्छेत् कुत एव हरेर्गुणान् । इच्छन् पतति पूर्वस्मादधस्ताद् यत्र नोत्थितिः ।। इति ब्रह्माण्डे ।।
स्वकायमिच्छमानं तु राजाद्याः पातयन्ति हि । एवमेव सुराद्याश्च हरिश्च स्वपदेच्छुकम् ।।
इत्याद्यनुमानरूपवाक्याच्च ।
‘मायाभिरुत् सिसृप्सत इन्द्र द्यामारुरुक्षतः । अव दस्यूं?रधूनुथाः’ इति च श्रुतिः ।।41।।
ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ ।।42।।
उपदेवपदं च नाकाङ्क्ष्यमित्येके । भावशमनवदृषिपदवदेव । तच्चोक्तमिन्द्रद्युम्नश्रुतौ - ‘अथ यथर्षीन् प्रजापतीन्नाकाङ्क्षेदेवं न गन्धर्वान्न
विद्याधरान्न सिद्धान्’ इति । बृहत्संहितायाम्-
न देवानभिकाङ्क्षेत कुत एव हरेर्गुणान् । प्राजापत्यान्न चार्षांश्च गान्धर्वादीनपि क्वचित् ।।
ऋष्यादिषु विशेषे तु दोषो नैवाविशेषतः ।। इति विशेषदर्शनार्थमेक इत्युक्तम् ।।42।।
ॐ बहिस्तूभयथापि स्मृतेराचाराच्च ॐ ।।43।।
देवर्षिगन्धर्वादिपदेभ्योन्यत्र शुभविषय आकाङ्क्षायामनाकाङ्क्षायां च न पतनम् ।
देवर्षिगन्धर्वाणां पदाकाङ्क्षी पतेत् ध्रुवम् । अन्यत्र शुभमाकाङ्क्षन्न पतेदविरोधतः ।। इति स्मृतेः ।।
नानात्वमेव कामानां नाकामः क्व च दृश्यते । अतोविरुद्धकामः स्यादकामस्तेन भण्यते ।। इत्याचाराच्च ।।43।।
।। इति आधिकारिकाधिकरणम् ।।6।।
ॐ स्वामिनः फलश्रुतेरित्यात्रेयः ॐ ।।44।।
‘ब्रह्मविदाप्नोति परम्’ इत्यादिफलं स्वामिनां देवानामेव भवति । ‘यदु किञ्चेमाः प्रजाः शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः प्रजाः
विजानते देवा एव तद्विजानते देवानां ह्येतद्भवति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः’ इति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते
।।44।।
ॐ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॐ ।।45।।
सत्रयागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजानामपि भवतीत्यौडुलोमिर्मन्यते । तदर्थं देवैः क्रियमाणत्वात् ।।45।।
ॐ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ ।।46।।
तृतीयः स्वपक्षः । देवानां ज्ञापनादिकर्मणि सहकार्यन्तरत्वेन प्रजा विधीयन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन विधीयन्ते । यथा
वाचार्यस्य शिष्याः । वाराहे च-
ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् । वेदे च तेषां विहितं तत्राचार्यो महत्तरः ।।
विहितस्सहकारित्वे सहकार्यन्तरं प्रजाः । पातृत्वेन यथा राज्ञो यथा शिष्याः गुरोरपि ।।
तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् । ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम् ।। इति ।।46।।
।। इति फलश्रुत्यधिकरणम् ।।7।।
ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ ।।47।।
‘कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत्’ इत्युक्त्वा ‘न च पुनरावर्तते न च पुनरावर्तते’ इति गृहिणोपसंहारः क्रियते तस्मात्
गृहस्थस्यैवोत्तमत्वमिति न वाच्यम् । यतः कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते । ‘कृत्स्नाः ह्येते गृहिणो देवाः कृत्स्ना एते यतयोत एतेषां न
पुत्राः दायमुपयन्ति न चैते गृहान् विसृजन्त्यरागा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः’ इति पौत्रायणश्रुतिः ।।47।।
ॐ मौनवदितरेषामप्युपदेशात् ॐ ।। 48।।
न चाश्रमद्वयमेव देवानाम् ।
‘देवा एव ब्रह्मचारिणो देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णाः सर्वाश्रमाः सर्वं ह्येते कर्म कुर्वन्ति’ इति कौण्ठरव्यश्रुतौ
यतित्वदृष्टान्तेनान्येषामप्युपदेशात् ।।48।।
।। इति कृत्स्नभावाधिकरणम् ।।8।।
ॐ अनाविष्कुर्वन्नन्वयात् ॐ ।।49।।
‘एतां विद्यामधीत्य ब्रह्मदर्शी वाव भवति । स एतां मनुष्येषु विब्रूयात् । यथा यथा ह वै ब्रूयात् तथा तथाधिको भवति’ इति माठरश्रुतौ विद्यादानं
श्रूयते । । तच्च बहूनां स्वीकरणार्थमाविष्कारेणेति न मन्तव्यम् । अन्वयाद्युक्तेः । आविष्कारेयोग्यानामपि स्वीकारप्राप्तिः । तच्च निषिद्धम्-
मा नः स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोन्नेषु जागृधुः । येषां नैतन्नापरं किं च नैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित् ।।
अथोशमेनोपरताः मनुष्याः ये धर्मिणो ब्रूहि तेभ्यः सदा नः । आदेवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ।। इति
विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिस्टेहमस्मि । अनार्यकायानृजवे शठाय न मां ब्रूया ऋजवे ब्रूहि नित्यम् ।। इति च ।।49।।
।। इति अनाविष्काराधिकरणम् ।।9।।
ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ ।।50।।
‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति दर्शनार्थं श्रवणादि विधीयते । तच्च दर्शनमैहिकमेव प्रारब्धप्रतिबन्धाभावे ।
‘श्रुत्वात्मानं मतिपूर्वं ह्युपास्येहैव दृष्टिं परमस्य विन्देत् । यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य ।।’ इति सौपर्णश्रुतौ
दर्शनात् ।
अनादिजन्मसम्बन्धं निभेत्तुं पापपञ्जरम् । यावत्या सेवया शक्यं तावत्कार्यं न संशयः ।।
यावद्दूरे स्थितो गम्यात् तावद् गन्तव्यमेव हि । इह जन्मान्तरे वापि तावत्यैव तु दर्शनम् ।।
श्रवणं मननं चैव निदिध्यासनमेव च । परे गुरौ च या भक्तिः परिचर्यादिकं हरेः ।।
एषा सेवेति सम्प्रोक्ता यथा तद्दर्शनं भवेत् ।। इति च बृहत्संहितायाम् ।।50।।
ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ ।।51।।
एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः तद्भावे जन्मान्तरणीत्यनियमः । धर्मी स्वर्गं विधर्मी निरयमेत्येव ब्रह्मसंस्थोमृतमेत्येव ।
ब्रह्मसंस्थोमृतमिति ब्रह्मसंस्थस्य मोक्षस्यैवावधारणात् ।
विद्वानमृतमाप्नोति नात्र कार्या विचारणा । अवसन्नं यदारब्धं कर्म तत्रैव गच्छति ।।
न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः ।। इति च नारायणाध्यात्मे ।।51।।
।। इति मुक्तिफलाधिकरणम् ।।11।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य चतुर्थः पादः ।।