द्वितीयः पादः
भक्तिरस्मिन् पादे उच्यते । भक्त्यर्थं भगवन्महिमोक्तिः ।
ॐ सन्ध्ये सृष्टिराह हि ॐ ॥1॥
न स्वप्नोपि तं विना प्रतीयते । ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजते ।’ इत्यादि श्रुतेः ॥1॥
ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥2॥
‘य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः’ इति च । ‘एतस्माद्ध्येव पुत्रो जायत एतस्माद् भ्रातैतस्माद्भार्या यदेनं पुरुषमेष
स्वप्नेनाभिहन्ति’ इति गौपवनश्रुतिश्च ॥2॥
ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ ॥3॥
अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्शयति नान्येन साधनेन, सम्यगनभिव्यक्तत्वात् । ब्रह्माण्डे च -
‘मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय स स्वप्न इति गीयते ॥
यदन्यथात्वं जाग्रत्वं सा भ्रान्तिस्तत्र तत्कृता । अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥’ इति ॥3॥
ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ ॥4॥
साधनान्तराभावेपि भावाभावसूचकत्वेन चेश्वरो दर्शयति ।
‘यदा कर्मसु काम्येषु स्त्रियं स्वप्नेभिपश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ॥’ इत्यादिश्रुतेः ।
हिशब्दाद् दर्शनाच्च ।
‘यद्वापि ब्राह्मणो ब्रूयाद्देवता वृषभोपि वा । स्वप्नस्थमथवा राजा तत्तथैव भविष्यति ॥’ इत्याद्याचक्षते च स्वप्नविदो व्यासादयः ॥4॥
॥ इति सन्ध्याधिकरणम् ॥
ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥5॥
बन्धमोक्षप्रदत्वात् स एव स्वप्नतिरस्कर्ता ।
‘स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च । तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ ॥’ इति कौर्मे ॥5॥
॥ इति पराभिध्यानाधिकरणम् ॥
ॐ देहयोगाद्वासोपि ॐ ॥6॥
देहयोगेन वासो जाग्रदपि तत एव । ‘स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुराषाट् स एको बहुधा भवति’ इति कौण्ठरव्यश्रुतेः ॥6॥
॥ इति देहयोगाधिकरणम् ॥
ॐ तदभावो नाडीषु तच्छ्रुतेरात्मनि ॐ ॥7॥
जाग्रत्स्वप्नाभावः सुप्तिः नाडीस्थे परमात्मनि । ‘आसु तदा नाडीषु सुप्तो भवति’ ‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेः ॥7॥
॥ इति तदभावाधिकरणम् ॥
ॐ अतः प्रबोधोस्मात् ॐ ॥8॥
यतस्तस्मिन् सुप्तिः । ‘एष एव सुप्तं प्रबोधयत्येतस्माज्जीव उत्तिष्ठत्येष प्रमातैष परमः’ इति कौण्डिन्यश्रुतिः ॥8॥
॥ इति प्रबोधाधिकरणम् ॥
ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥9॥
न च केषाञ्चित् स्वप्नादिकर्ता न तु सर्वेषामिति । ‘एष ह्येव साधु कर्म कारयति’ इति कर्मण्यवधारणात् ।
‘प्रदर्शकस्तु सवेषां स्वाप्नादेरेक एव तु । परमः पुरुषो विष्णुस्ततोन्यो नास्ति कश्चन ॥’ इत्यनुसारिस्मृतेश्च ।
‘एष स्वप्नान् दर्शयत्येष प्रबोधयत्येष त्यथेष एव परम आनन्दः’ इति च श्रुतिः । ‘आत्मानमेव लोकमुपासीत’ इति च विधिः ॥9॥
॥ इति कर्मानुस्मृत्यधिकरणम् ॥6॥
ॐ मुग्धेर्धसम्पत्तिः परिशेषात् ॐ ॥10॥
मोहावस्थायां परमेश्वरेर्धप्राप्तिर्जीवस्य ।
हृदयस्थात् पराज्जीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नं स्वपित्यस्मिं?ल्लयं व्रजन् ॥
यत एवं त्रयोवस्था मोहस्तु परिशेषतः । अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः ॥ इति वाराहे ॥
सोपि तत एवेति सिद्धम् ।
‘मूर्च्छा प्रबोधनं चैव यत एव प्रवर्तते । स ईशः परमो ज्ञेयः परमानन्दलक्षणः ॥’ इति हि कौर्मे ॥10॥
॥ इति मुग्धप्राप्त्त्यधिकरणम् ॥7॥
स्थानापेक्षया परमात्मनो भेदादनुग्राह्यानुग्राहकभाव इत्यत आह-
ॐ न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥11॥
स्थानापेक्षयापि परमात्मनो न भिन्नं रूपम् । ‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इति श्रुतिः ।
‘एकरूपः परो विष्णुः सर्वत्रापि न संशयः । ऐश्वर्यात् रूपमेकं च सूर्यवद्बहुधेयते ॥’ इति मात्स्ये ।
‘प्रतिदृशमिव नैकधार्कमेकं समधिगतोस्मि विधूतभेदमोहः’ इति च भागवते ॥11॥
ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ॥12॥
‘कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तु तुर्ये न सिद्ध्यतः ॥’ इति भेदवचनान्नेति चेन्न ।
‘एष त आत्मान्तर्याम्यमृतः’ ‘अयमेव स योयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्’ ‘अयं वै हरयोयं वै दश च सहस्राणि बहूनि चानन्तानि च । तदेतत्
ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्’ इति प्रत्येकमभेदवचनात् ॥12॥
ॐ अपि चैवमेके ॐ ॥13॥
एवमभेदेनैव । चशब्दादनन्तरूपत्वं चैके शाखिनः पठन्ति ।
‘अमात्रोनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओङ्कारो विदितो येन स मुनिर्नेतरो जनः ॥’ इति ।
अभेदेपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च युज्यते । ब्रह्मतर्के च -
बद्धो बन्धादिसाक्षित्वाद्भिन्नो भिन्नेषु संस्थितेः । निर्दोषाद्वयरूपोपि कथ्यते परमेश्वरः ।। इति ।।
।। इति स्थानभेदाधिकरणम् ।।8।।
रूपवत्त्वादनित्यत्वमित्यतो वक्ति-
ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ।।14।।
प्रकृत्यादिप्रवर्तकत्वेन तदुत्तमत्वान्नैव रूपवद्ब्रह्म । हिशब्दात् ‘अस्थूलमनणु’ इत्यादिश्रुतेश्च ।
‘भौतिकानि हि रूपाणि भूतेभ्योसौ परो यतः । अरूपवानतः प्रोक्तः क्व तदव्यक्ततः परे ।।’ इति च मात्स्ये ।।14।।
ॐ प्रकाशवच्चावैयर्थ्यम् ॐ ।।15।।
‘यदा पश्यः पश्यते रूग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ’ ‘श्यामाच्छबलं प्रपद्ये’ ‘सुर्वणज्योतिः’ इत्यादिश्रुतीनां च न वैयर्थ्यम् ।
वलिक्षणरूपवत्त्वात् । यथा चक्षुरादिप्रकाशे विद्यमानेपि वैलक्षण्यादप्रकाशादिव्यवहारः ।।15।।
ॐ आह च तन्मात्रम् ॐ ।।16।।
वैलक्षण्यं चोच्यते रूपस्य विज्ञानानन्दमात्रत्वं ‘ऐकात्म्यप्रत्ययसारम्’ इति ।
‘आनन्दमात्रमजरं पुराणमेकं सन्तं बहुधा दृश्यमानम् । तमात्मस्थं येनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।।’ इति चतुर्वेदशिखायाम्
।।16।।
ॐ दर्शयति चाथो अपि स्मर्यते ॐ ।।17।।
दर्शयति चानन्दस्य रूपत्वं ‘तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति’ इति ।
‘शुद्धस्फटिकसङ्काशं वासुदेवं निरञ्जनम् । चिन्तयीत यतिर्नान्यं ज्ञानरूपादृते हरेः ।।’ इति च मात्स्ये ।।17।।
।। इति अरूपाधिकरणम् ।।9।।
ॐ अत एव चोपमा सूर्यकादिवत् ॐ ।।18।।
यस्मादेवं परमेश्वरस्वरूपाणां मिथो न कश्चिद्भेदः । अतः सादृश्याज्जीवस्यापि तथा स्यादिति तस्य प्रतिबिम्बत्वमुक्त्वा चशब्देन भेदं दर्शयति ।
‘रूपं रूपं प्रतिरूपो बभूव’
‘बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले । एवमेवात्मका लोके परात्मसदृशा मताः ।।’
अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमा नोपाध्यधीनत्वादिना ।।18।।
।। इति उपमाधिकरणम् ।।10।।
नित्यसिद्धत्वात् सादृश्यस्य नित्यानन्दज्ञानादेर्न भक्तिज्ञानादिना प्रयोजनमित्यतो ब्रवीति-
ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ ।।19।।
अम्बुवत् स्नेहेन । ग्रहणं ज्ञानम् । भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यते । ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं
स्वाम्’ इति हि श्रुतिः ।
महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाभिधीयते । तथैव व्यज्यते सम्यग्जीवरूपं सुखादिकम् ।। इति पाद्मे ।।19।।
।। इति अम्बुवदधिकरणम् ।।11।।
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ।।20।।
तस्य च भक्तिज्ञानादेर्वृद्धिह्रासभाक्त्वं विद्यते । ब्रह्मादीनामुत्तमानां सर्वेषां भक्तत्वेन्तर्भावात् । एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य
ब्रह्मादीनन्यान् प्रति च सामञ्जस्यं भवति ।
‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः । ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः ।।’ इति च ब्राह्मे ।।20।।
कुतः-
ॐ दर्शनाच्च ॐ ।।21।।
‘अथात आनन्दस्य मीमांसा भवति’ इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् । चशब्दात् स्मृतिः-
‘यथा भक्तिविशेषोत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोपि ज्ञानिनां लिङ्गभेदने ।।’ इति ।।21।।
।। इति वृद्धिह्रासाधिकरणम् ।।12।।
सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वं स्वतः सिद्धेरित्यत आह-
ॐ प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ ।।22।।
उक्तं सृष्टिसंहारकर्तृत्वमात्रं प्रतिषिध्य ततोधिकं ब्रवीति । ‘नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति’ इति । चशब्दात् स्मृतिश्च -
सृष्टिं च पालनं चैव संहारं नियमं तथा । एक एव करोतीशः सर्वस्य जगतो हरिः ।। इति ब्रह्माण्डे ।।22।।
।। इति पालकत्वाधिकरणम् ।।13।।
परमात्मापरोक्ष्यं च तत्प्रसादादेव न जीवशक्त्येति वक्तुमुच्यते-
ॐ तदव्यक्तमाह हि ॐ ।।23।।
अव्यक्तमेव तद्ब्रह्म स्वतः ।
अरूपमक्षरं ब्रह्म सदाव्यक्तं च निष्कलम् । यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत् ।। इति हि कौण्ठरव्यश्रुतिः ।।23।।
ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ।।24।।
आराधनेप्यव्यक्तमेव । ज्ञानिप्रत्यक्षेणेतरेषामतिसूक्ष्मत्वलिङ्गादनुमानेन ।
न तमाराधयित्वापि कश्चिद्य्वक्तीकरिष्यति । नित्याव्यक्तो यतो देवः परमात्मा सनातनः ।। इति ब्रह्मवैवर्ते ।।24।।
नित्याव्यक्तरूपेण तथैव तिष्ठति । व्यक्तं किञ्चिद्रूपं गृहीत्वा दृश्यते । यथाग्न्यादयस्तन्मात्रारूपेणादृश्या अपि स्थूलरूपेण दृश्यन्ते
एवमिति चेन्न
ॐ प्रकाशवच्चावैशेष्यम् ॐ ।।25।।
अग्न्यादिवत् स्थूलसूक्ष्मत्वविशेषाभावात् । ‘नासौ सूक्ष्मः न स्थूलः पर एव स भवति तस्मादाहुः परम इति’ इति माण्डव्यश्रुतेः ।
‘स्थूलसूक्ष्मविशेषोत्र न कश्चित् परमेश्वरे । सर्वत्रैकप्रकारोसौ सर्वरूपेष्वजो यतः ।।’ इति च गारुडे ।
‘अव्यक्तव्यक्तभावौ च न क्वचित् परमेश्वरे । सर्वत्राव्यक्तरूपोयं यत एव जनार्दनः ।।’ इति च कौर्मे ।।25।।
तर्हि किं यत्नेनेत्यत आह-
ॐ प्रकाशश्च कर्मण्यभ्यासात् ॐ ।।26।।
विषयभूते तस्मिन्नेव श्रवणाद्यभ्यासात् प्रकाशश्च भवति । ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यः मन्तव्यः निदिध्यासितव्यः’ इति श्रुतेः ।।26।।
नित्याव्यक्तस्य कथं प्रकाश इत्यत आह-
ॐ अतोनन्तेन तथा हि लिङ्गम् ॐ ।।27।।
उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति । ‘तस्याभिध्यानात् योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः’ इति लिङ्गात् ।
युज्यते च तस्यानन्तशक्तित्वात् ।
‘नित्याव्यक्तोपि भगवानीक्ष्यते निजशक्तितः । तमृते परमात्मानं कः पश्येतामितं प्रभुम् ।।’ इति नारायणाध्यात्मे ।।27।।
।। इति अव्यक्ताधिकरणम् ।।14।।
स्वरूपेणानन्दादिना कथमानन्दित्वादिरित्यत उच्यते-
ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ।।28।।
‘आनन्दं ब्रह्मणो विद्वान्’ ‘अथैष एव परम आनन्दः’ इत्युभयव्यपदेशादहिकुण्डलवदेव युज्यते । यथाहिः कुण्डली कुण्डलं च ।
तुशब्दात् केवलश्रुतिगम्यत्वं दर्शयति ।।28।।
ॐ प्रकाशाश्रयवद्वा तेजस्वात् ॐ ।।29।।
यथादित्यस्य प्रकाशत्वं प्रकाशित्वं च एवं वा दृष्टान्तः । तेजोरूपत्वात् ब्रह्मणः ।।29।।
ॐ पूर्ववद्वा ॐ ।।30।।
यथैक एव कालः पूर्व इत्यवच्छेदकोवच्छेद्यश्च भवति । अतिसूक्ष्मत्वापेक्षयैव दृष्टान्तः । स्थूलमतीनां च प्रदर्शनार्थमहिकुण्डलदृष्टान्तः ।
‘प्रकाशवत् कालवद्वा यथाङ्गे शयनादिकम् । ब्रह्मणश्चैव मुक्तानामानन्दोभिन्न एव तु ।।’ इति नारायणाध्यात्मे ।
‘आनन्देन त्वभिन्नेन व्यवहारः प्रकाशवत् । कालवद्वा यथा कालः स्वावच्छेदकतां व्रजेत् ।।’ इति ब्राह्मे ।।30।।
ॐ प्रतिषेधाच्च ॐ ।।31।।
‘एकमेवाद्वितीयम्’ ‘नेह नानास्ति किञ्चन’ इति भेदस्य ।।31।।
।। इति उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्) ।।15।।
ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ।।32।।
न चानन्दादित्वाल्लोकानन्दादिवत् । ‘एष सेतुर्विधृतिः’ ‘य एष आनन्दः परस्य’ ‘एष नित्यो महिमा ब्राह्मणस्य’ इति सेतुत्वं ह्युच्यते । ‘यतो
वाचो निवर्तन्ते’ इत्युन्मानत्वम् । ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति सम्बन्धः ।
अन्यज्ज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च । नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते ।। इति भेदः । अतोलौकिकत्वात् परमेव ब्रह्मानन्दादिकम्
।।32।।
ॐ दर्शनात्तु ॐ ।।33।।
दर्शनादेव चान्यानन्दादीनाम् । ‘अदृष्टव्ययवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद् ब्रह्मेत्याचक्षते तस्मात्
ब्रह्मेत्याचक्षते’ इति कौण्डिण्यश्रुतिः ।।33।।
ॐ बुद्ध्यर्थः पादवत् ॐ ।।34।।
जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोपि पादो यथा पादशब्देन व्यपदिश्यते ‘पादोस्य विश्वा भूतानि’ इति तथा ।
अलौकिकोपि ज्ञानादिस्तच्छब्दैरेव भण्यते । ज्ञापनार्थाय लोकस्य यथा राजेव देवराट् ।। इति च पाद्मे ।।34।।
।। इति परानन्दाधिकरणम् ।।16।।
परानन्दमात्रत्वे कथं ब्रह्माद्यानन्दादीनां विशेष इत्यत उच्यते
ॐ स्थानविशेषात् प्रकाशादिवत् ॐ ।।35।।
यथादित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बविशेष एवमानन्दादेरपि ।
ब्रह्मादिगुणवैशेष्यादानन्द परमस्य च । प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः ।। इति वाराहे ।।35।।
ॐ उपपत्तेश्च ॐ ।।36।।
‘ऐश्वर्यात् परमात् विष्णोर्भक्त्यादीनामनादितः । ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता ।।’ इति हि पाद्मे ।।36।।
।। इति स्थानविशेषाधिकरणम् ।।17।।
ध्यानकाले यच्चित्ते दृश्यते तदेव ब्रह्मरूपम् । अत कथमव्यक्ततेत्यत आह-
ॐ तथान्यत्प्रतिषेधात् ॐ ।।37।।
यथा जीवानन्दादेरन्यत् ब्रह्म तथोपासाकृतादपि ।
यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। इति प्रतिषेधात् ।
पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् । ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम् ।।
तदुपासनं च भवति प्रतिमोपासनं यथा । दृश्यते त्वपरोक्ष्येण ज्ञानेनैव परं पदम् ।।
उपासना त्वापरोक्ष्यं गमयेत् तत्प्रसादतः ।। इति च ब्रह्मतर्के ।।37।।
।। इति प्रतिषेधाधिकरणम् ।।18।।
देशकालान्तरेन्यतोपि सृष्ट्यादिर्युक्तेत्यतो ब्रूते-
ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ ।।38।।
सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्तते । ‘एष सर्व एष सर्वगत एष ईश्वर एषोचिन्त्य एष परम’ इति भाल्लवेयश्रुतिः ।
‘सर्वत्र सर्वमेतस्मात् सर्वदा सर्ववस्तुषु । स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः ।।
अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ।।’ इति चतुर्वेदशिखायाम् ।
आदिशब्दादन्यत्र प्रमाणाभावाच्च ।।38।।
।। इति सर्वगत्वाधिकरणम् ।।19।।
कर्मापेक्षत्वात् फलदानस्य तदेव ददातीति न वाच्यम् । कुतः-
ॐ फलमत उपपत्तेः ॐ ।।39।।
अत एवेश्वरात् फलं भवति । न ह्यचेतनस्य स्वतः प्रवृत्तिर्युज्यते ।।39।।
ॐ श्रुतत्वाच्च ॐ ।।40।।
‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ इति ।।40।।
ॐ धर्मं जैमिनिरत एव ॐ ।।41।।
यतः फलं तदेव कर्मेश्वराद्भवति । ‘एष ह्येव साधु कर्म कारयति’ इति श्रुतेरिति जैमिनिः ।।41।।
ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ।।42।।
परस्य कर्मणश्चोभयोः फलकारणत्वेपि न कर्म परप्रवर्तकम् । पर एव कर्मप्रवर्तकः । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति
हेतुव्यपदेशात् । ‘द्रव्यं कर्म च कालश्च’ इति च ।।42।।
।। इति फलदानाधिकरणम् ।।20।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ।।