०४

अथ चतुर्थः पादः
युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन । ‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योण्डमण्डस्यान्तस्त्विमे लोकाः ।
अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः श्रूयते ।
नोपादानं हीन्द्रियाणामतोनुत्पत्तिरिष्यते । उपादानकृता सृष्टिः सर्वलोकेषु दृश्यते ॥ इति भविष्यत्पर्वणि ।
‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ इति च । अत उच्यते-
ॐ तथा प्राणाः ॐ ॥1॥
यथाकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥1॥
ॐ गौण्यसम्भवात् ॐ ॥2॥
अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् ।
‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः । तेषां भूतैरुपचयः सृष्टिकाले विधीयते ॥
परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता ॥’ इति भविष्यत्पर्वणि ॥2॥
ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥3॥
‘इदं सर्वमसृजत’ इति ॥3॥
‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च । तत्र नित्यं मनोनादित्वान्न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्यन्यानि’ इति गौपवनश्रुतौ मनसोनुत्पत्तिः
सयुक्तिका श्रूयते । अत आह-
ॐ तत्प्राक्श्रुतेश्च ॐ ॥4॥
‘मनः सर्वेन्द्रियाणि च’ इति पूर्वोक्तत्वान्नानुत्पत्तिर्मनसो युज्यते ।
पूर्वं मनः समुत्पन्नं ततोन्येषां समुद्भवः । तदनुत्पत्तिवचनमल्पोपचयकारणात् ॥
इति वायुप्रोक्तवचनं चशब्देन गृहीतम् ॥4॥
॥ इति मनोधिकरणम् ॥2॥
‘नित्ययानित्यया स्तौमि परमात्मानमच्युतम्’ इति । ‘वाग्वाव नित्या न ह्येषोत्पद्यतेस्यां हि श्रुतिरवतिष्ठते’ इति सयुक्तिकं पौष्यायणश्रुतौ
वाचोनुत्पत्तिरुच्यते । अतो ब्रवीति-
ॐ तत्पूर्वकत्वाद्वाचः ॐ ॥5॥
‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’ इति मनःपूर्वकत्वात् वाचो नानुत्पत्तिः ।
‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता । उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन ॥’ इति वायुप्रोक्ते ॥5॥
॥ इति वागधिकरणम् ॥
‘सप्त प्राणाः प्रभवन्ति तस्मात्’ इति श्रुतिः ।
सप्तैव मारुता बाह्ये प्राणाः सप्त तथात्मनि । अधिदैवे तथाध्यात्मे सङ्ख्यासाम्यं विदो विदुः ॥ इति च स्कान्दे ।
‘द्वादश वा एते प्राणा द्वादश मासा द्वादशादित्या द्वादशराशयो द्वादशग्रहाः’ इति कौण्डिन्यश्रुतौ द्वादशप्राणा दृश्यन्ते । अतो वक्ति-
ॐ सप्तगतेर्विशेषित्वाच्च ॐ ॥6॥
ज्ञानेन्द्रियापेक्षया सप्तत्वम् । ‘गुहाशयां निहिताः सप्त सप्त’ इति विशेषणात् ।
‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः । एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम् ॥’ इति भविष्यत्पर्ववचनं चशब्दात् ॥6॥
ॐ हस्तादयस्तु स्थितोतो नैवम् ॐ ॥7॥
हस्तादीनां कर्मविषयत्वान्न सहपाठः ।
‘संसारस्थितिहेतुत्वात् स्थितं कर्म विदो विदुः । तस्मादुद्गतिहेतुत्वात् ज्ञानं गतिरिहोच्यते ॥’ इति वायुप्रोक्ते ॥7॥
॥ इति सप्तगत्यधिकरणम् ॥
‘दिवीव चक्षुराततम्’ इति व्याप्तिः प्रतीयते । दूरश्रवणदर्शनादियुक्तिश्च । ‘अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्राणैर्ह्येतद्भवति’
इति च कौण्डिन्यश्रुतिः । अतो वक्ति-
ॐ अणवश्च ॐ ॥8॥
‘तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोणुर्ह्येवैष पुरुषो भवति’ इति शाण्डिल्यश्रुतिः ॥8॥
॥ इति अण्वधिकरणम् ॥
‘नैव प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता । अथैनमाहुर्मध्यम इति’ इति मुख्यप्राणस्यानुत्पत्तिः श्रूयते ।
‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ॥’ इति च युक्तिर्वायुप्रोक्ते ।
‘आत्मत एष प्राणो जायते’ इति च । अत आह-
ॐ श्रेष्ठश्च ॐ ॥9॥
‘सौक्ष्म्येण ह वा एषोवतिष्ठते स्थूलत्वेनोदेति सूक्ष्मश्चाथो स्थूलश्च प्रकृतितः सूक्ष्मोन्यतः स्थूलोथैनमाहुः सादिरनादिरिति’ इति
गौपवनश्रुतेः ॥9॥
ॐ न वायुक्रिये पृथगुपदेशात् ॐ ॥10॥
‘चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते । प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तितः ॥’
इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् । ‘स प्राणसृजत…. खं वायुर्ज्योतिरापः….. तपो मन्त्राः कर्म’ इति पृथगुपदेशात् ।
‘भूतानि चेष्टा मन्त्राश्च मुख्यप्राणादिदं जगत् । मुख्यप्राणः परस्माच्च न परः कारणान्वितः ॥’ इति वायुप्रोक्ते ॥10॥
॥ इति मुख्यप्राणाधिकरणम् ॥6॥
‘प्राणाददमाविरासीत् प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रितः’ इत्यग्निवेश्यश्रुतौ ।
‘यदाश्रयादस्य चेष्टा सोन्यं कथमुपाश्रयेत् । यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत् ॥’ इति च युक्तिर्भारते ।
‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः । न परः किञ्चिदाश्रित्य वर्तते परमो यतः ॥’ इति पैङ्गिश्रुतिः ॥ अत आह-
ॐ चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॐ ॥11।।
चक्षुरादिवन्मुख्यप्राणोपि परमात्मवश एव । ‘सर्वं ह्येवैतत्परमेवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान्नयत्युन्नयति वशीकरोति’ इति
गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ।
‘सर्वकर्तापि सन्प्राणः परमाधारतः स्थितः । कथमेवान्यथा स स्यात् यतो नैवेश्वद्वयम् ।।
अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् । अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।।
अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् । यतो विशेषवाक्येन ह्रियते समतावचः ।।’
‘नान्योतोस्ति द्रष्टा’ ‘नान्यदतोस्ति द्रष्ट्रु’ इत्यादिवचनयुक्तय आदिशब्दोक्ताः ।।11।।
ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ।।12।।
इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वात् तस्यान्येभ्य उत्तमत्वं युज्यते । माण्डव्यश्रुतिश्च- ‘तानि ह वा एतानि सर्वाणि करणान्यथ प्राण
एवाकरणस्तस्मान्मुख्यस्तस्मात् मुख्य इत्याचक्षते’ इति ।।12।।
।। इति चक्षुराद्यधिकरणम् ।।7।।
‘सर्वे वा एते मुख्यदासाः प्राणोपानो व्यान उदानः समान इति । अथ प्राणो वाव सम्राट्’ इति कौण्डिन्यश्रुतिः ।
‘प्राणापानादयः सर्वे मुख्यदासा यतोनिशम् । अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते ।।’ इति युक्तिर्वायुप्रोक्ते ।
‘मुख्यस्यैव स्वरूपाणि प्राणाद्याः पञ्चवायवः । स एव प्राणिनां देहे पञ्चधा वर्ततेनिशम् ।।’ इति च गौपवनश्रुतिः । अतो वक्ति-
ॐ पञ्चवृत्तिर्मनोवद्य्वपदिश्यते ॐ ।।13।।
‘अथ पञ्चवृत्त्यैतात् प्रवर्तते प्राणो वाव पञ्चवृत्तिः प्राणोपानो व्यान उदानः समान इति । तेभ्यो वा एतेभ्यः पञ्चदाासाः प्रजायन्ते । प्राणाद् वाव
प्राणोपानादपानो व्यानात् व्यान उदानात् उदानः समानादेव समानो यथा ह वै मनः पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतनेति । तेभ्यो
वा एतेभ्यः पञ्च दासाः प्रजायन्ते । मनसो वाव मनो बुद्धेः बुद्धिरहङ्कारादहङ्कारश्चित्तात् चित्तं चेतनाया एव चेतनैवमिति’ इति ।।13।।
।। इति पञ्चवृत्यधिकरणम् ।।8।।
‘प्राण एवाधस्तात् प्राण उपरिष्ठात् प्राणो मध्यतः प्राणः सर्वतः प्राण एवेदं सर्वम्’ इति प्राणस्य व्याप्तिः प्रतीयते ।
‘यतः सर्वं जगद्य्वाप्य तिष्ठति प्राण एव तु । अतो धृतं जगत्सर्वमन्यथा केन धार्यते ।।’ इति च युक्तिर्वायुप्रोक्ते ।
‘अणुनैतत् सृज्यते अणुनैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणो ह्येतद्भवति’ इति च सौत्रायणश्रुतिः । अत आह-
ॐ अणुश्च ॐ ।।14।।
स वा एष प्राणोणुर्महान्नामान्तर्वाणुर्बर्हिर्महान् प्राणो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च परस्य’ इति हि कौण्डिण्यश्रुतिः ।।14।।
।। इति प्राणाणुत्वाधिकरणम् ।।
करणत्वं प्राणानामुक्तम् ।
‘जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः । यस्मात् तद्वशगा एते दृश्यन्ते सर्वदेहिषु ।।’
इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते । ‘ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति तद्ध्येतै कारयति’ इति
काषायणश्रुतौ । अत आह-
ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ।।15।।
यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति । ‘यः प्राणे तिष्ठन्’ इत्यादि तदामननात् ।।15।।
कथं जीवकरणत्वश्रुतिरित्यतो वक्ति-
ॐ प्राणवता शब्दात् ॐ ।।16।।
जीवेनैव स्वकरणैः कारयति परमात्मा । अतो न विरोधः । ‘एष ह्यनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मनयति बुद्ध्या बोधयति
तस्मादेतावाहुः सृतिरसृतिरिति’ इति भाल्लवेयश्रुतेः ।
‘करणैः कारणं ब्रह्म पुरुषापेक्षयाखलिम् । श्रोत्रादिभिः कारयति करणानीत्यतो विदुः ।।
न जीवापेक्षया मुख्यं कारयेत् परमेश्वरः । केवलात्मेच्छया तस्मान् मुख्यत्वं तस्य निश्चितम् ।।’ इति वाराहे ।।16।।
ॐ तस्य च नित्यत्वात् ॐ ।।17।।
अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्येत तत्करणत्वश्रुतिः । ‘अथावियोगीनि । करणैर्वाव न वियुज्यते देहेनैव वियुज्यत इत्येतद्वाव
करणानां करणत्वं यद्वाव न वियुज्यते’ इति गौपवनश्रुतिः । चशब्दः करणसम्बन्धग्राही ।।17।।
‘अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’ इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामिन्द्रियत्वं वक्ति ।
‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादश’ इति च काषायणश्रुतिः । अतः कस्येन्द्रियत्वं निवार्यत इत्यतो वक्ति-
ॐ त इन्द्रियाणि तद्-व्यपदेशादन्यत्र श्रेष्ठात् ॐ ।।18।।
मुख्यप्राणमृते त एवेन्द्रियाणि ।
‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् । द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट् ।।’ इति पौत्रायणश्रुतिः ।
‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् । मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ।।
विषयद्रवणात् तेषामिन्द्रियत्वमुदाहृतम् । तेषां नियामकः प्राणः स्थित एवाखलिप्रभुः ।।’ इति बृहत्संहितायाम् ।।18।।
ॐ भेदश्रुतेः ॐ ।।19।।
‘स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि न स्थितानि न कुर्वन्ति न
कारयन्ति न बलन्ति न बालयन्ति न दधते न धारयन्ति तानि ह वा एतान्यबलानि तस्मादाहुरिन्द्रियाणि करणानि’ इति पौत्रायणश्रुतेः
।।19।।
ॐ वैलक्षण्याच्च ॐ ।।20।।
पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृश्यते न मुख्यस्य । ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’ इति च श्रुतेः ।।20।।
इति इन्द्रियाधिकरणम् ।।20।।
‘विरिञ्चो वा इदं सर्वं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद्धीमे रूपनामनी’ इति गौपवनश्रुतिः ।
‘यस्माद्विरेचयेत् सर्वं विरिञ्चस्तेन भण्यते । एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः ।।’ इति च युक्तिबर्राह्मे ।
‘अथ कस्मादुच्यते परम इति परमाद्ध्येते नामरूपे व्याक्रियेते तस्मादेनमाहुः परम इति । अथ कस्मादुच्यते ब्रह्मेति बृहत्वात् बृंहणत्वाच्च’
इत्याग्निवेश्यश्रुतिः । अत आह-
ॐ सञ्ज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॐ ।।21।।
नामरूपक्लृप्तिः परादेव । ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्य आस्ते’ इति श्रुतेः । त्रिवृत्कुर्वत इति हेतुगर्भः ।
त्रिवृत्करणापेक्षत्वान्नामरूपयोः ।
‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः । एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तरा ।।’ इति च पाद्मे ।
‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ।।
अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पितातो भगवान् प्रभुः ।।’ इति च ब्रह्माण्डे ।।21।।
इति सञ्ज्ञाधिकरणम् ।।12।।
‘अद्भ्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भवन्त्यापः शरीरमाप एवेदं सर्वम्’ इति कौण्डिन्यश्रुतिः । अम्मयं तु यतो ‘मांसमतस्तृप्तिश्च
मांसतः’ इति च भारते । ‘पृथिवी शरीरमाकाशमात्मा’ इति च । अतो ब्रवीति-
ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ।।22।।
‘यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजः’ इति श्रुतेर्मांसाद्येव भौमं न सर्वशरीरम् । अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ।
‘यद्वा वाथो विमिश्रं मिश्राद्ध्येतद्भवति मिश्राणि हि भूतानि तस्मादेवैवमाचक्षते भूतानि’ इति कौण्डिन्यश्रुतिः ।
‘पञ्चभूतात्मकं सर्वं तदप्येकविवक्षया । एकभूतात्मकत्वेन व्यवहारस्तु वैदिके ।।
भौममित्येव काठिन्याच्छौक्ल्यादौदकमित्यपि । तेजिष्टत्वात् तैजसं च यथास्थ्नां वचनं श्रुतौ ।।’ इति वायुप्रोक्ते ।।22।।
कथं तर्हि विशेषवचनमित्यत आह-
ॐ वैशेष्यात्तु तद्वादस्तद्वादः ॐ ।।23।।
भूतानां विशेषसंयोगादेव विशेषव्यवहारः ।
‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृता । इतरेर्धे त्रिभागिन्य आपस्तेजस्तु भागतः ।।
इति सामान्यतो ज्ञेयं भेदश्च प्रतिपूरुषम् । स्वर्गस्थानां शरीराणामर्धं तेज उदाहृतम् ।।’ इति च ब्रह्मसंहितायाम् ।
सर्वाध्यायार्थावधारणार्थाध्यायान्ते द्विरुक्तिः ।
गारुडे च-
अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेपि वा । विचारो यत्र सज्ज्येत पूर्वोक्तस्यावधारणे ।।
अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् । विनिन्द्य चेतरान् मार्गान् सम्पूर्णफलता तथा ।। इति ।।
इति मांसाधिकरणम् ।।13।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः