०३

तृतीयः पादः
जीवपरमात्माधिभूताधिदेवेषु श्रुतीनां परस्परं विरोधमपाकरोत्यनेन पादेन ।
ॐ न वियदश्रुतेः ॐ ॥1॥
न वियदनुत्पत्तिमत् । तथाश्रुतेः ॥1॥
ॐ अस्ति तु ॐ ॥2॥
अस्त्येव चोत्पत्तिश्रुतिः । ‘आत्मनः आकाशः सम्भूतः’ इत्यादि ॥2॥
ॐ गौण्यसम्भवात् ॐ ॥3॥
अनादिर्वा अयमाकाशः शून्योलौकिकः इत्यादिश्रुतिः गौणी । अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥3॥
ॐ शब्दाच्च ॐ ॥4॥
‘अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति । अथ यान्यनित्यानि प्राणः श्रद्धा भूतानि भौतिकानि । यानि ह वा उत्पत्तिमन्ति
तान्यनित्यानि । यानि ह वा अनुत्पत्तिमन्ति तानि नित्यानि । न ह्येतानि कदाचनोत्पद्यन्ते न वि लीयन्ते पुरुषः प्रकृतिरात्मा काल इति ।
अथैतान्युत्पत्तिमन्ति चानुत्पत्तिमन्ति च प्राणः श्रद्धाकाश इति भागशो ह्युत्पद्यन्ते’ इति भाल्लवेयश्रुतेश्च ॥4॥
ॐ स्याच्चैकस्य ब्रह्मशब्दवत् ॐ ॥5॥
स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया । यथा ब्रह्मशब्दः । ‘अथ कस्मादुच्यते परं ब्रह्म बृहति बृंहयति च’ इति श्रुतेः
परे ब्रह्मणि मुख्योपि गौणत्वेन विरिञ्चादिष्वपि वर्तते । अत एवाब्रह्मत्वं च तेषाम् । एवमत्राप्यनुत्पत्तिमच्छब्दः ॥5॥
ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॐ ॥6॥
ब्रह्मणोन्यस्य नित्यत्वे ‘इदं? सर्वमसृजत’ इत्यादि प्रतिज्ञाहानिः । आकाशस्यापि सर्वस्मादव्यतिरेकात् । ‘आत्मा वा इदमेक एवाग्र आसीत्’
‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ ‘इदं वा अग्रे नैव किञ्चनासीत्’ इत्यादिश्रुतिभ्यः ॥6॥
ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥7॥
विभक्तत्वाच्च विकारित्वं युक्तम् । विकारिण एव हि विभक्ता लोके दृश्यन्ते ।
एकोविभक्तः परमः पुरुषो विष्णुरुच्यते । प्रकृतिः पुरुषः कालस्त्रय एते विभागतः ॥
चतुर्थस्तु महान् प्रोक्तः पञ्चमाहङ्कृतिर्मता । तद्विभागेन जायन्त आकाशाद्याः पृथक् पृथक् ॥
यो विभागो विकारः सः सोविकार परो हरिः । अविभागात् परानन्दो नित्यो नित्यगुणात्मकः ॥
विभागो ह्यल्पशक्तिः स्यान्न तदस्ति जनार्दने ॥ इति बृहत्संहितायाम् ॥
॥ इति वियदधिकरणम् ॥1॥
‘अथ ह नित्यश्चानित्याश्च तेजोबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यो वायुना हि सर्वाणि भूतानि नेनीयन्ते’ ‘अथ ह चेतनाश्चाचेतनाश्च
तेजोबन्नान्याकाश इति तान्यचेतनानि वायुर्वाव चेतनो वायुना हि सर्वाणि भूतानि विज्ञायन्ते’
‘कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥’
‘सा वा एषा देवतानादिर्योयं पवते’ इति ‘यस्या नादिर्न मध्यं नान्तो नोदयो न निम्लोचः’ इत्यादिश्रुतिभ्यो वायोरनुत्पत्तिरित्यतो ब्रवीति-
ॐ एतेन मातरिश्वा व्याख्यातः ॐ ॥8॥
एतेन मुख्यामुख्यानुत्पत्तिवचनेन विभक्तत्वाच्च वाय्वनुत्पत्तिश्रुतिरिति व्याख्याता ।
नित्यःपरमनित्यश्च तथानित्यः परस्तथा । चतुर्धेतज्जगत्सर्वं परानित्यं तु पार्थिवम् ॥
अनित्यानि तु भूतानि नित्यो वायुरुदाहृतः । परस्तु नित्यः पुरुषः प्रकृतिः काल एव च ॥
एतच्चतुष्टयं विष्णुः स्वयं नित्यः परात्परः । प्रतिव्यूह्य व्यूह्य चासावतीत्य च जनार्दनः ॥
धारयत्यनिशं देवो नित्यानन्दैकलक्षणः ॥ इति कौर्मे ॥8॥
॥ इति मातरिश्वाधिकरणम् ॥
ॐ असम्भवस्तु सतोनुपपत्तेः ॐ ॥9॥
‘असद्वा इदमग्र आसीत् । ततो वै सदजायत’ ‘असतः सदजायत’ इत्यादि श्रुतिभ्यः सतोप्युत्पत्तिरिति चेन्न । अनुत्पत्तिरेव सतः ।
तुशब्देनोक्तव्यवस्थामपाकरोति । न ह्यसतः सदुत्पद्यते । अदृष्टत्वादनुपपत्तेः ।
‘तद्वा एतद्ब्रह्माहुर्बृहति बृंहयति चेति । तद्वा एतदसदाहुः न ह्यासादयति कश्चन ॥
तद्वा एतत्परमाहुः परतो हि तदुदीक्ष्यते’ इति श्रुतेरसच्छब्दो ब्रह्मवाची ।
‘देवानां पूर्व्ये युगेसतः सदजायतेति ब्रह्म वा असत् सद्वाव प्राणः प्राणं वाव महान् सह ओजो बलमित्याचक्षते’ इति च पैङ्गिश्रुतिः ।
‘त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेजः । ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते ॥’ इति भागवते ।
‘अजायमानो बहुधा विजायते’
‘प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चन । पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥
विकार एव जननं पुरुषे तद्विशेषणाम् । परतन्त्रविशेषो हि विकार इति कीर्तितः ॥’ इति पाद्मे ।
‘अविकारोपि भगवान् सर्वशक्तित्वहेतुतः । विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥
शक्तिशक्तिमतोश्चापि न विभागः कथञ्चन । अविभिन्नापि सेच्छादिभेदैरपि विभाष्यते ॥’ इति भागवततन्त्रे ॥9॥
॥ इति असम्भवाधिकरणम् ॥
ॐ तेजोतस्तथा ह्याह ॐ ॥10॥
‘वायोरग्नि’ इत्यादेर्नान्यत उत्पत्तिगर्राह्या । अत एव परात् तदपि जायते । ‘तत्तेजोसृजत’ इति ह्याह । कारणत्वेनेत्युक्तेप्यमुख्यतयान्येषामपि
शब्दोक्तत्वात् पुनरुक्तिरुभयकारणत्वनिवृत्यर्थम् ॥10॥
॥ इति तेजोधिकरणम् ॥4॥
ॐ आपः ॐ ॥11॥
‘ब्रह्मैवेदमग्र आसीत् तदपोसृजत तदिदं सर्वम्’ इति श्रुतेः ‘अग्नेरापः’ इत्युक्तेपि ब्रह्मण एवाबादिसृष्टिः ।
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥’ इत्यादि च ।
‘कर्ता सर्वस्य वै विष्णुः एक एव न संशयः । इतरेषां तु सत्ताद्याः यत एव तदाज्ञया ॥’ इति भविष्यत्पुराणे ।
वामने च - ‘तत्र तत्र स्थितो विष्णुः तत्तच्छक्तीः प्रबोधयन् । एक एव महाशक्तिः कुरुते सर्वमञ्जसा ॥’ इति ॥
घर्मात् स्वेदादिदृष्टेः पुनः प्रतिषेधः ॥11॥
॥ इति अबधिकरणम् ॥5॥
‘ताः आपः ऐक्षन्त बह्व्यः स्यामः प्रजायेमहीति । ता अन्नमसृजन्त’ इत्यद्भ्योन्नसृष्टिः श्रूयते । ‘अद्भ्यः पृथिवी’ इति कुत्रचित् पृथिवीसृष्टिः ।
अतो विरुद्धत्वादप्रामाण्यमित्यतो वक्ति-
ॐ पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॐ ।।12।।
पृथिवी तत्रान्नशब्देनोच्यते । भूताधिकारत्वात् । कार्ष्ण्यप्रचुरा च पृथिवी । नान्नस्य तथा विशेषः । ‘आपश्च पृथिवी चान्नम्’ । ‘पृथिवी वा अन्नम्’
। ‘ता आपोन्नमसृजन्त पृथिवी वा अन्नम्’ इत्यादिशब्दान्तराच्च । आदिशब्दाद्युक्तिः अपौरुषेयत्वेनादोषस्य वाक्यस्य नाप्रामाण्यमित्यादि ।
कौर्मे च-
‘विरोधो वाक्ययोर्यत्र नाप्रामाण्यं तदेष्यते । यथा विरुद्धता न स्यात् तथार्थः कल्प्य एतयोः ।।’ इति ।
‘रक्तोग्निरुदकं शुक्लं कृष्णैव पृथिवी स्वतः । नाभिपद्माभिसम्बन्धात् पीता सेत्यभिधीयते ।।
क्षत्ररक्ताभिसम्बन्धात् रक्तोदकबहुत्वतः । शुक्लत्वमेत्येवमेव वर्णान्तरगतिर्भवेत् ।।
विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते । स्वर्णवीर्यो हि भगवाननादिः पुरुषोत्तमः ।।’ इति व्योमसंहितायाम् ।।12।।
।। इति पृथिव्यधिकरणम् ।।6।।
‘प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेनाप्यायस्व’ इत्यादिनान्यः संहर्ता प्रतीयत इत्यतो ब्रूते-
ॐ तदभिध्यानादेव तु तल्लिङ्गात् सः ॐ ।।13।।
‘तस्याभिध्यानात् योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः’ इति बन्धलयस्य तदभिध्याननिमित्तत्वलिङ्गात् तत्कर्तृत्वं प्रतीयते किमु
सादेर्जगतः । इत्येतस्मादेव संहारकर्ता विष्णुरिति प्रतीयते किमु ‘यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेत्तु देवः ।’ ‘य इदं सर्वं
वलिापयति स हरिः परः परात्मा’ इत्यादिश्रुतिभ्य इति एवशब्दः ।
स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः । स्रष्टृत्वादिकमन्येषां दारुयोषावदुच्यते ।।
एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् । सृष्ट्यादिकं समस्तं तु विष्णोरेव परात् भवेत् ।। इति च स्कान्दे ।
‘निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव ।।’ इति च भागवते ।
‘स ब्रह्मणा विसृजति स रुद्रेण वलिापयति सोनुत्पत्तिरलय एक एव हरिः परः परानन्दः’ इति च महोपनिषदि ।।13।।
।। इति तदभिध्यानाधिकरणम् ।।7।।
‘अत एव हीदं परात् क्रमादुत्पद्यते क्रमात् विलीयते नासावुदेति नास्तमेति’ इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते ।
‘अक्षरात् परमादेव सर्वमुत्पद्यते क्रमात् । व्युत्क्रमात् वलियश्चैव तस्मिन्नेव परात्मनि ।।’ इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । अत
आह-
ॐ विपर्ययेण तु क्रमोत उपपद्यते च ॐ ।।14।।
क्रमवचनमपि विपरीतक्रमापेक्षया ।
‘कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च । यः क्रमाद् व्युत्क्रमाच्चैव स हरिः पर उच्यते ।।’ इत्यत एव भाल्लवेयश्रुतिवचनात् ।
‘अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः । इति क्रमेण भगवान् सृष्टिसंहारकृद्धरिः ।।’ इति च पाद्मे ।
पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च । वामने च-
‘पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् । सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ।।
व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः ।।’ इति ।।14।।
।। इति विपर्ययाधिकरणम् ।।8।।
ॐ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॐ ।।15।।
‘प्राणान्मनो मनसश्च विज्ञानम्’ ‘यच्छेत् वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि’ इति लिङ्गात् विज्ञानमनसी अन्तरा विपरीतक्रम इति चेत् न
विशेषप्रमाणाभावात् ।।15।।
ॐ चराचरव्यपाश्रयस्तु स्यात् तद्-व्यपदेशो भाक्तस्तद्भावभावित्वात् ॐ ।।16।।
‘मनसश्च विज्ञानम्’ इति व्यपदेशश्चराचरेष्वालोचनात् विज्ञानं भवतीति भागापेक्षया स्यात् । न विज्ञानतत्त्वापेक्षया । स्कान्दे च-
‘परादव्यक्तमुत्पन्नमव्यक्तात् तु महांस्तथा । विज्ञानतत्त्वं महतस्समुत्पन्नं चतुर्मुखात् ।।
विज्ञानतत्त्वात् तु मनो मनस्तत्त्वाच्च खादिकम् । एवं बाह्या परा सृष्टिरन्तस्तद्-व्यक्त्यपेक्षया ।।
विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः ।।’ इति ।।16।।
ॐ नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ॐ ।।17।।
‘स इदं सर्वं वलिाप्यान्तस्तमसि निलीनस्तद्वलिाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विस्थापयति प्रस्थापयत्याच्छादयति प्रकाशयति
विमोचयत्येक एव’ इति श्रुतेः परमात्मापि न लीयते । अश्रुतत्वात् ब्रह्मलयस्य । निलीनशब्देनापिहितत्वमुच्यते । तुच्छेनाभ्यपिहितं यदासीत्
इति श्रुतेः । ‘स एतस्मिंस्तमसि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति नैनं पश्यति कश्चन’ इति पैङ्गिश्रुतिः । ‘नित्यो नित्यानां
चेतनश्चेतनानाम्’ ‘स नित्यो निर्गुणो विभुः परः परमात्मा’ ‘नित्यो विभुः कारणो लोकसाक्षी परो गुणैः सर्वदृक् शाश्वतश्च’ इत्यादि श्रुतिभ्यो
नित्यत्वाच्च ।।17।।
।। इति आत्माधिकरणम् ।।10।।
‘नित्यो नित्यानाम्’ इति जीवस्यापि नित्यत्वमुक्तम् । ‘सर्व एते चिदात्मानो व्युच्चरन्ति’ इत्युत्पत्तिरुच्यते । अतो विरोध इत्यत आह-
ॐ ज्ञोत एव ॐ ।।18।।
जीवोप्यत एव परमेश्वरादुत्पद्यते । शब्दादेव । ‘ते वा एते चिदात्मानोविनष्टाः परञ्ज्योतिर्निविशन्त्यविनष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन’
इति काषायणश्रुतिः ।।18।।
ॐ युक्तेश्च ॐ ।।19।।
नित्यस्यापि हि जीवस्योपाध्यपेक्षयोत्पत्तिर्युज्यते ।
‘उत्पद्यन्ते चिदात्मानो नित्यान्नित्याः परात्मनः । उपाध्यपेक्षया तेषामुत्पत्तिरपि नीयते ।। इति च व्योमसंहितायाम् ।।19।।
।। इति ज्ञाधिकरणम् ।।11।।
‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मनः सर्वरूपाः अनन्ताः’ इति काषायणश्रुतौ व्याप्तत्वं प्रतीयते । ‘अणुर्ह्येष आत्मा यं वा एते सिनीतः
पुण्यं चापुण्यं च’ इति गौपवनश्रुतावणुत्वमित्यतो विरोध इति । अतो ब्रवीति-
ॐ उत्क्रान्तिगत्यागतीनाम् ॐ ।।20।।
हेतूनां सकाशादणुरेव । ‘सोस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छति स गर्भो भवति स प्रसूयते स कर्म कुरुते’ इति
पौष्यायणश्रुतेः ।।20।।
तत्र स्वातन्त्र्यप्रतीतेः-
‘एकः प्रसूयते जन्तुरेक एव प्रमीयते । एकोनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ।।’ इत्यादेश्च । स्वयमेवेत्यतो वक्ति-
ॐ स्वात्मना चोत्तरयोः ॐ ।।21।।
‘स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नीयते । तं वा एतमभिवदन्ति स्वात्मा’ इति ।
‘एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गमयत्येष आगमयति’ इत्युत्तरयोः वाक्ययोः परमात्मनैवोत्क्रान्त्यादयः ।।21।।
ॐ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॐ ।।22।।
‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च’ इति व्याप्तिश्रुतेर्नाणुजीवः इति चेन्न ‘स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बर्हिश्च । स
बहुधेदमनुप्रविश्यात्मनोभिनयति । स आत्मा स आत्मानः स ईशः स विष्णुः स परः परोवरीयान्’ इति परमात्माधिकारत्वात् ।
‘एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः । एक एवोच्यते वेदैस्तावता नास्य भिन्नता ।।’ इति भविष्यत्पुराणे ।
‘तदयं प्राणोधितिष्ठति । तदुक्तमृषिणा- आ तेन यातम्’ इत्यादि च ।।22।।
ॐ स्वशब्दोन्मानाभ्यां च ॐ ।।23।।
‘एषो ह्यात्माध्युद्गतो मानशक्तेस्तथाप्यसौ प्रमितिं याति वेदैः । पूर्णोचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित् सर्वकर्ता ।।’ इति वाक्यशेषे
आत्मशब्दोन्मानाभ्यां च ।
‘आत्मामेयः परं ब्रह्म परानन्दादिकाभिधाः । वदन्ति विष्णुमेवैकं नान्यत्रासां गतिः क्वचित् ।।’ इति च कौर्मे ।।23।।
ॐ अविरोधश्चन्दनवत् ॐ ।।24।।
अणोरपि जीवस्य सर्वशरीरव्याप्तिर्युज्यते । यथा हरिचन्दविप्लुष एकदेशपतितायाः सर्वशरीरव्याप्तिः ।
‘अणुमात्रोप्ययं जीवः स्वदेहं व्याप्य तिष्ठति । यथा व्याप्य शरीराणि हरिचन्दनविप्लुषः ।।’ इति ब्रह्माण्डपुराणे ।।24।।
ॐ अवस्थितिवैशेष्यदिति चेन्नाभ्युपगमाद्धृदि हि ॐ ।।25।।
सम्यगसम्यगवस्थानविशेषात् युज्यते चन्दनस्येति चेन्न । ‘हृदि ह्येष आत्मा’ इति जीवस्यापि तथाभ्युपगमात् ।।25।।
ॐ गुणाद्वालोकवत् ॐ ।।26।।
यथालोकस्य प्रकाशगुणेन व्याप्तिर्ज्योतीरूपेणाव्याप्तिः एवं चिद्गुणेन व्याप्तिर्जीवरूपेणाव्याप्तिरिति वा । स्कान्दे च -
असम्यक् सम्यगिति च व्यवस्थाभेदतः सुराः । व्याप्त्यव्याप्तियुतास्त्वन्ये चिद्गुणेनैव नान्यथा ।।
चिद्गुणस्य स्वरूपत्वात् तद्-व्याप्तिश्चेति युज्यते । शक्तियोगात् सुराणां तु विविधा च व्यवस्थितिः ।। इति ।।26।।
।। इति उत्क्रान्त्यधिकरणम् ।।12।।
‘स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं लोकममुं चावर्तते स विमुच्यते स एकधा न सप्तधा न शतधा’ इति गौपवनश्रुतावेकस्याबहुत्वं
प्रतीयते । ‘स पञ्चधा स सप्तधा स दशधा भवति स शतधा च सहस्रधा स गच्छति स मुच्यते’ इति पाराशर्यायणश्रुतौ बहुरूपत्वं प्रतीयते ।
अतो विरोधं परिहरति-
ॐ व्यतिरेको गन्धवत् तथा च दर्शयति ॐ ।।27।।
यथा पुष्पाद् गन्धः पृथग्गच्छति एवमंशिनो जीवादंशाः पृथग्गच्छन्ति । ‘अथैक एव सन् गन्धवत् व्यतिरिच्यते । अथैकीभवति । अथ बह्वीभवति
। तं यथा यथेश्वरः कुरुते तथा भवति सोचिन्त्यः परमो गरीयान् ।’ इति शाण्डिल्यश्रुतिः ।
‘अचिन्त्ययेशशक्त्यैव ह्येकोवयववर्जितः । आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा ।।’ इति च पाद्मे ।।27।।
।। इति व्यतिरेकाधिकरणम् ।।
‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्यादिषु जीवस्य परेणाभेदः प्रतीयते । ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ ‘द्वा सुपर्णा’ इत्यादिषु भेदः । अत
उच्यते-
ॐ पृथगुपदेशात् ॐ ।।28।।
भिन्नोचिन्त्यः परमो जीवसङ्घात् पूर्णः परो जीवसङ्घो ह्यपूर्णः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धात् मोक्षं तत एवाभिवाञ्छेत् ।।
इति सोपपत्तिककौशिकश्रुतेर्भिन्न एव जीवः ।।28।।
ॐ तद्गुणसारत्वात्तु तद्-व्यपदेशः प्राज्ञवत् ॐ ।।29।।
ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारः स्वरूपमतोभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात् सर्वात्मकत्वं ब्रह्मण उच्यते ‘सर्वं खल्विदं ब्रह्म’
इति । भविष्यत्पर्वणि च -
‘भिन्ना जीवाः परो भिन्नस्तथापि ज्ञानरूपतः । प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः ।।’ इति ।।29।।
।। इति पृथगुपदेशाधिकरणम् ।।
जीवस्याप्युत्पत्तिरुक्ता । अतस्तस्य ‘सोनादिना पुण्येन पापेन चानुबद्धः । परेण निर्मुक्त आनन्त्याय कल्पते’ इत्यनादिकर्मसम्बन्ध
आनन्त्यावाप्तिश्च न युज्यत इत्यत आह-
ॐ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॐ ।।30।।
यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोपि ।
‘नित्यः परो नित्यो जीवोनित्यास्तस्य धातवः । अत उत्पद्यते च म्रियते च विमुच्यते च ।।’ इति च आग्निवेश्यश्रुतिः ।
‘आत्मा नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो धातुरस्य त्वनित्यः’ इति च भारते ।।30।।
।। इति यावदधिकरणम् ।।
‘विज्ञानात्मा सह देवैश्च सर्वैः’ ‘स आनन्दः स बलः स ओजः स परेणामुं लोकं नीयते स विमुच्यते’ इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते ।
‘स दुखाद्विमुक्त आनन्दी भवति । सोज्ञानात् विमुक्तो ज्ञानी भवति । सोबलात् विमुक्तो बली भवति । स नित्यो निरातङ्कोवतिष्ठते’ इति
पैङ्गिश्रुतावनानन्दादिरूपत्वं प्रतीयते । अत आह-
ॐ पुंस्त्वादिवत्त्वस्य सतोभिव्यक्तियोगात् ॐ ।।31।।
यथा बालस्य सदेव पुंस्त्वं यौवनेभिव्यज्यते एवं सतामेवानन्दादीनां व्यक्त्यपेक्षया तदुक्तिः ।
‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोः ।।’ इति च गौपवनश्रुतिः ।।31।।
ॐ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोन्यतरनियमो वान्यथा ॐ ।।32।।
व्यक्त्यनङ्गीकारे देवानां च नित्योपलब्धिरानन्दादीनामसुराणां नित्यानुपलब्धिर्मनुष्याणां च नित्योपलब्ध्यनुपलब्धी च प्रसज्येते
। ‘नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमासुरा एवमनेवं च मनुष्याः’ इति ह्याग्निवेश्यश्रुतिः । भविष्यत्पर्वणि च-
‘नित्यानन्दज्ञानबला देवा नैवं तु दानवाः । दुःखोपलब्धिमात्रास्ते मानुषास्तूभयात्मकाः ।।
तेषां यदन्यथा दृश्यं तदुपाधिकृतं मतम् । विज्ञानेनात्मयोगेन निजरूपे व्यवस्थितिः ।।
सम्यज्ज्ञानं तु देवानां मनुष्याणां विमिश्रितम् । विपरीतं च दैत्यानां ज्ञानस्यैवं व्यवस्थितिः ।।’ इति ।।32।।
।। इति पुंस्त्वाधिकरणम् ।।16।।
ईश्वरस्यैव कर्तृत्वमुक्तम् । ‘यत्कर्म कुरुते तदभिसम्पद्यते’ इति जीवस्याप्युपलभ्यते । अत आह-
ॐ कर्ता शास्त्रार्थवत्त्वात् ॐ ।।33।।
जीवस्य कर्तृत्वाभावे शास्त्रस्याप्रयोजकत्वप्राप्तेर्जीवोपि कर्ता ।।33।।
ॐ विहारोपदेशात् ॐ ।।34।।
‘स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाज्ञातिभिर्वा’ इत्यादिना मोक्षेपि ।।34।।
ॐ उपादानात् ॐ ।।35।।
साधनाद्युपादानप्रतीतेश्च ।।35।।
ॐ व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॐ ।।36।।
‘आत्मानमेव लोकमुपासीत’ इति क्रियायां व्यपदेशाच्च । अन्यथात्मैव लोकमिति निर्देशः स्यात् ।।36।।
तर्हि कथमीश्वरस्यैव कर्तृत्वमित्यतो वक्ति-
ॐ उपलब्धिवदनियमः ॐ ।।37।।
यथा ज्ञान इदं ज्ञास्यामीत्यनियमः प्रतीयते एवं कर्मण्यपि जीवस्य । ‘य आत्मानमन्तरो यमयति’ इति श्रुतेः ।।37।।
कुतः?
ॐ शक्तिविपर्ययात् ॐ ।।38।।
अल्पशक्तित्वाज्जीवस्य ।।38।।
ॐ समाध्यभावाच्च ॐ ।।39।।
समाधानाभावाच्चास्वातन्त्र्यं प्रतीयते ।।39।।
ॐ यथा च तक्षोभयथा ॐ ।।40।।
यथा तक्ष्णः कारयितृनियतत्वं कर्तृत्वं च विद्यते एवं जीवस्यापि ।।40।।
ॐ परात्तु तच्छ्रुतेः ॐ ।।41।।
सा च कर्तृत्वशक्तिः परादेव ।
कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।। इति हि पैङ्गिश्रुतिः ।।41।।
ॐ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्यादिभ्यः ॐ ।।42।।
ततोप्रयोजकत्वं शास्त्रस्य नापद्यते । कृतप्रयत्नापेक्षत्वात् तत्प्रेरकत्वस्य । आदिशब्देनावैषम्यादि ।
‘पूर्वकर्म प्रयत्नं च संस्कारं चाप्यपेक्ष्य तु । ईश्वरः कारयेत् सर्वं तच्चेश्वरकृतं स्वयम् ।।
अनादित्वाददोषश्च पूर्णशक्तित्वतो हरेः ।।’ इति भविष्यत्पर्वणि ।
‘एतदेवं न चाप्येवमेतदस्ति च नास्ति च’ इति च मोक्षधर्मे ।।42।।
।। इति कर्तृत्वाधिकरणम् ।।17।।
‘अंशा एव हीमे जीवा अंशो हि परमेश्वरः । स्वयमंशैरिदं सर्वं कारयत्यचलो हरिः ।।’ इति गौपवनश्रुतौ अंशत्वं जीवस्योपलभ्यते ।
‘नैवांशो न सम्बन्धो नापेक्ष्यो जीवः परस्य । तथापि तु यथायोगं फलदः प्रभुरेकराट् ।।
न नियम्यः स कस्यापि स सर्वस्य नियामकः ।।’ इति च भाल्लवेयश्रुतौ ।।
अतो ब्रवीति-
ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ ।।43।।
‘मां रक्षतु विभुर्नित्यं पुत्रोहं परमात्मनः’ ‘अवः परेण पितरं यो अस्यानुवेद पर एनावरेण’ ‘यस्तद्वेद स पितुष्पितासत्’ ‘यस्ता विजानात् स
पितुष्पितासत्’
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।।’
इत्यादिना नानाव्यपदेशादंशो जीवः । तथा च पाराशर्यायणश्रुतिः-
‘अंशो ह्येष परस्य योयं पुमानुत्पद्यते च म्रियते च नाना ह्येनं व्यपदिशन्ति पितेति पुत्रेति भ्रातेति सखेति च’ इति ।
‘अन्यः परोन्यो जीवो नासावस्य कुतश्चन । नायं तस्यापि कश्चन’ इत्यन्यथा च काषायणश्रुतिः । ‘ब्रह्म दाशा ब्रह्म कितवाः ब्रह्मैवेमे दाशा’
इत्यभेदेनाप्येकेधीयते । तथा चाग्निवेश्यश्रुतिः- ‘अंशो ह्येष परस्य भिन्नं ह्येनमधीयिरेभिन्नं ह्येनमधीयिरे’ इति । वाराहे च-
‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः । बहुधा गीयते वेदैर्जीवोंशस्तस्य तेन तु ।।
यतो भेदेन तस्यायमभेदेन च गीयते । अतश्चांशत्वमुद्दिष्टं भेदोभेदौ न मुख्यतः ।।’ इति ।।43।।
ॐ मन्त्रवर्णात् ॐ ।।44।।
‘पादोस्य विश्वा भूतानि’ इति ।।44।।
ॐ अपि स्मर्यते ॐ ।।45।।
‘ममैवांशो जीवलोके जीवभूतः सनातनः’ इति ।।45।।
अनंशत्वश्रुतेर्गतिं चाह-
ॐ प्रकाशादिवन्नैवं परः ॐ ।।46।।
अंशत्वेपि न मत्स्यादिरूपी पर एवंविधः । यथा तेजोंशस्यैव कालाग्नेः खद्योतस्य च नैकप्रकारता । यथा जलांशस्यामृतसमुद्रस्य मूत्रादेश्च । यथा
च पृथिव्यंशस्य मेरोर्विष्टादेश्च । अभिमानिदेवतापेक्षयैतत् ।।46।।
ॐ स्मरन्ति च ॐ ।।47।।
‘एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्’
‘अतः परं यदव्यक्तमव्यूढगुणबृंहितम् । अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः ।।’
‘स्वांशश्चाथो विभिन्नांश इति द्वेधांश इष्यते । अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथास्थितिः ।।
तदेव नाणुमात्रोपि भेदः स्वांशाशिनोः क्वचित् । विभिन्नांशोल्पशक्तिः स्यात् किञ्चित् सादृश्यमात्रयुक् ।।’ इति वाराहे ।
‘न त्वत्समोस्त्यभ्यधिकः कुतोन्यः’ इति च ।।47।।
ॐ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॐ ।।48।।
परानुज्ञया प्रवृत्तिः परतो बन्धनिवृत्तिश्च जीवस्य प्रतीयते अंशत्वेपि देहसम्बन्धात् । ‘य आत्मानमन्तरो यमयति’ ‘तमेवं विद्वानमृत इह भवति’
इत्यादिना न तु परस्य ।
‘वासुदेवः सङ्कर्षणः प्रद्युम्नोनिरुद्धोहं मत्स्यः कूर्मो वराहो नारसिंहो वामनो रामो रामः कृष्णः बुद्धः कल्किरहं शतधाहं
सहस्रधाहममितोहमनन्तोहं नैवैते जायन्ते न म्रियन्ते नैषामनुज्ञा न बन्धो न मुक्तिः सर्व एव ह्येते पूर्णा अजरा अमृता परमाः परानन्दाः’ इति
चतुर्वेदशिखायाम् ।
युज्यते च ज्योतिरादिवत् यथादित्यो वियद्गतस्तत्प्रकाशश्चैकप्रकारः । ‘शुक्लं कृष्णं कनीनिका’ इति तदंशस्याप्यक्ष्णो देहसम्बन्धान्न तादृशी
शक्तिः । तदनुग्राह्यत्वं तेनैवावृतिपरिहारश्च । यथा बाह्यामृतजलस्यामृतसमुद्रस्य चैकत्वं तदंशस्यापि श्लेष्मणस्तदनुग्राह्यत्वं तेनैव
विरोधिनिवृत्तिश्च । मोक्षधर्मे च-
यत्किञ्चिदिह लोकेस्मिन् देहबद्धं विशाम्पते । सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ।।
ईश्वरो हि महद्भूतं प्रभुर्नारायणो विराट् । भूतान्तरात्मा विज्ञेयः सगुणो निर्गुणोपि च ।।
भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम ।। इति ।।
वाराहे च-
अंशाश्च देहयोग्यत्वाज्जीवा बन्धादिसंयुताः । अनुग्राह्याश्चेश्वरेण न तु मत्स्यादिको हरिः ।।
अदेहबन्धयोग्यत्वाद् यथा सूर्यप्रभाक्षिणी । यथामृतसमुद्रस्य श्लेष्मादेश्च द्विरूपता ।।
अनुग्राह्यत्वमन्यस्य तेनैवावृतिरोधनम् ।। इति ।।48।।
ॐ असन्ततोश्चाव्यतिकरः ॐ ।।49।।
अपूर्णशक्तित्वाच्च जीवस्य न मत्स्यादिसाम्यम् । तथा च चतुर्वेदशिखायाम् - ‘तस्य ह वा एतस्य परमस्य त्रीणि रूपाणि कृष्णो रामः कपलि
इति । तस्य ह वा एतस्य परमस्य पञ्चरूपाणि दशरूपाणि शतरूपाणि सहस्ररूपाणि अमितरूपाणि । तानि ह वा एतानि सर्वाणि पूर्णानि
सर्वाण्यनन्तानि सर्वाण्यसम्मितानि । अथावराः सर्व एवापूर्णा सर्व एव बध्यन्तेथ मुच्यन्ते च केचन ।’ इति ।।49।।
ॐ आभास एव च ॐ ।।50।।
‘रूपं रूपं प्रतिरूपो बभूव’ इति प्रतिबिम्बत्वाच्च न साम्यम् । वाराहे च-
‘द्विरूपावंशकौ तस्य परमस्य हरेर्विभोः । प्रतिबिम्बांशकश्चाथ स्वरूपांशक एव च ।।
प्रतिबिम्बांशका जीवाः प्रादुर्भावाः परे स्मृताः । प्रतिबिम्बेष्वल्पसाम्यं स्वरूपाणीतराणि तु ।।’ इति ।।
‘सोपाधिरनुपाधिश्च प्रतिबिम्बो द्विधेयते । जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः ।।’ इति पैङ्गिश्रुतिः ।।
‘यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्’ इति च श्रुतिः ।।50।।
।। इति अंशाधिकरणम् ।।
प्रतिबिम्बानां मिथो वैचित्र्ये कारणमाह-
ॐ अदृष्टानियमात् ॐ ।।51।।
अनादिविद्याकर्मादिवैचित्र्यात् वैचित्र्यम् ।।51।।
ॐ अभिसन्ध्यदिष्वपि चैवम् ॐ ।।52।।
इच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । चशब्देन प्रतिक्षणवैचित्र्यं च ।।52।।
ॐ प्रदेशादिति चेन्नान्तर्भार्वात् ॐ ।।53।।
न स्वर्गभूम्यादिप्रदेशविशेषाद् वैचित्र्यम् । तत्प्राप्तेरप्यदृष्टापेक्षत्वात् । एकदेशस्थितानामेव वैचित्र्यदर्शनाच्च ।।53।।
।। इति अदृष्टाधिकरणम् ।।19।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः