०१

१ उक्तेर्थेविरोधं दर्शयत्यनेनाध्यायेन । प्रथमपादे युक्त्यविरोधम् । प्रथमतः स्मृत्यविरोधं दर्शयति-
ॐ स्मृत्यनवशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॐ ॥1॥
सर्वज्ञा हि रुद्रादयः । अतस्तेषां वचनविरोधेप्रामाण्यमेव स्यादिति चेन्न । अन्यस्मृतीनां विष्ण्वादिभिर्नितरां सर्वज्ञैरेव कृतत्वाच्छ्रुतेराधिक्यं
सिद्ध्यति ॥1॥
ॐ इतरेषां चानुपलब्धेः ॐ ॥2॥
इतरेषां तासु स्मृतिषूक्तानां फलादीनां प्रत्यक्षतोनुपलब्धेरप्रामाण्यं तासां युक्तम् । चशब्देन भागोपलब्धिरङ्गीकृता ॥2॥
ॐ एतेन योगः प्रत्युक्तः ॐ ॥3॥
योगफलं प्रत्यक्षोपलभ्यमिति न मन्तव्यम् । उक्ताभ्यासे तत्काल एव फलादृष्टेः ॥3॥
॥ इति स्मृत्यधिकरणम् ॥
ॐ न वलिक्षत्वादस्य तथात्वं च शब्दात् ॐ ॥4॥
नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रामाण्यम् । वलिक्षणत्वात् नित्यत्वात् तदनुसारित्वाच्च । न हि नित्ये दोषाः कल्प्याः । स्वतश्च
प्रामाण्यम् । अन्यथानवस्थितेः । ‘न चक्षुः श्रोत्रं न तर्को न स्मृतिर्वेदा ह्येवैनं वेदयन्ति’ इति भाल्लवेयश्रुतेश्च । नित्यत्वं च शब्दादेव प्रतीयते
‘वाचा विरूपया नित्यया’ इत्यादेः । ‘अनादिनिधना नित्या’ इति च स्मृतिः ॥4॥
ॐ दृश्यते तु ॐ ॥5॥
अधिकारिणां फलम् । भविष्यत्पुराणे च-
ऋग्यजुःसामाथर्वाख्या मूलरामायणं तथा । भारतं पञ्चरात्रं च वेदा इत्येव शब्दिताः ॥
पुराणानि च यानीह वैष्णवानि विदो विदुः । स्वतःप्रामाण्यमेतेषां नात्र किञ्चिद्विचार्यते ॥
यत्तेषूक्तं न दृश्येत पूर्वकर्मात्र कारणम् । नाप्रामाण्यं भवेत् तेषां दृश्यते ह्यधिकारतः ॥
इतः प्रामाण्यमन्येषां न स्वतस्तु कथञ्चन । अदृश्योक्तौ ततस्तेषामप्रामाण्यं न संशयः ॥ इति ॥5॥
॥ इति नवलिक्षणत्वाधिकरणम् ॥
‘मृदब्रवीत्’ ‘आपोब्रुवन्’ इत्यादिवचनाद्युक्तिविरुद्धो वेद इत्यतोब्रवीत्-
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ ॥6॥
मृदाद्यभिनामनिदेवता तत्र व्यपदिश्यते । तासां चेतरेभ्यो विशिष्टं सामर्थ्यमनुगतिश्च सर्वत्र । अतस्तासां सर्वमुक्तं युज्यते ॥6॥
ॐ दृश्यते च ॐ ॥7॥
तासां सामर्थ्यं महद्भिः । भविष्यत्पुराणे च-
पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः । अचिन्त्यः शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः ॥
ताश्च सर्वगता नित्यं वासुदेवैकसंश्रयाः ॥ इति ॥7॥
॥ इति अभिमान्यधिकरणम् ॥3॥
‘असदेवेदमग्र आसीत्’ ‘असतः सदजायत’ इत्यादिनासतः कारणत्वोक्तेर्विरोध इत्यतो वक्ति-
ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ ॥8॥
प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र निषिध्यते । सर्वशब्दानां ब्रह्माणि समन्वयेपि
‘तदधीनत्वार्थवत्’ इत्यादिनामुख्यत्वेनान्यस्यापि वाच्यत्वेनाङ्गीकारादसतः प्राप्तिः । तथा श्रुतिप्राप्तमेवासन्मतमत्र निषिध्यते । समयस्योपरि
निषेधात् । अर्थाद्युक्तिविरोधोपि निराक्रियते ॥8॥
ॐ अपीतौ तद्वत् प्रसङ्गादसमञ्जसम् ॐ ॥9॥
असत उत्पत्तौ प्रलयेपि सर्वासत्त्वमेव स्यात् ॥9॥
ॐ न तु दृष्टान्तभावात् ॐ ॥10॥
प्रलये सर्वासत्त्वं भावे दृष्टान्तभावादेव न युज्यते । सतः उत्पत्तिः सशेषविनाशश्च हि लोके दृष्टः ॥10॥
ॐ स्वपक्षदोषाच्च ॐ ॥11॥
दृष्टान्ताभावादेव ॥11॥
ॐ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥12॥
एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावाद्युक्तादन्यथाप्यनुमेयमिति चेन्न एवं सति प्रमाणसिद्धेपि मोक्षेन्यथानुमेयत्वादनिर्मोक्षप्रसङ्गः ।
अतो यावत् प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यम् । नातोन्यच्छङ्क्यम् ।
‘यावदेव प्रमाणेन सिद्धं तावदहापयन् । स्वीकुर्यान्नैव चान्यत्र शङ्क्यं मानमृते क्वचित् ॥’ इति वामने ॥12॥
ॐ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॐ ॥13।।
एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवकर्तृकत्वादयोपि ।
‘अकस्माद्धीदमाविरासीत् कस्मात् तिष्ठत्यकस्माल्लयमभ्युपैति’
‘प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति । प्रधाने लयमभ्येति न ह्यन्यत्कारणं मतम् ।।’
‘जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः । जीवे तु लयमृच्छन्ति न जीवात् कारणं परम् ।।’
इत्यादि श्रुतिप्राप्ता निराकृताः । यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति दृष्टान्तः । श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता ।
यत्रान्यवाचकत्वेप्यविरोधस्तत्रान्यदप्यमुख्यतयोच्यते यत्र विरोधस्तत्र ब्रह्मैवोच्यत इति नियमः ।।
।। इति असदधिकरणम् ।।4।।
ॐ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ।।14।।
‘कर्माणि विज्ञानमयश्च आत्मा परेव्यये सर्व एकीभवन्ति’ इति मुक्तजीवस्य परापत्तिरुच्यते । अतस्तयोरविभागः । अत पूर्वमपि स एव । न
ह्यन्यस्यान्यत्वं युज्यत इति चेन्न । स्याल्लोकवत् । यथा लोके उदके उदकान्तरस्यैकीभावव्यवहारेप्यन्तर्भेदोस्त्येव एवं स्यादत्रापि । तथा च
श्रुतिः ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’ इति । स्कान्दे च-
‘उदकं तूदके सिक्तं मिश्रमेव यथा भवेत् । न चैतदेव भवति यतो वृद्धिः प्रदृश्यते ।।
एवमेव हि जीवोपि तादात्म्यं परमात्मना । प्राप्तोपि नासौ भवति स्वातन्त्र्यादिविशेषणात् ।।’ इति ।
‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ।।’ इति च ।
‘न ते महित्वमन्वश्नुवन्ति’ ‘न ते विष्णो जायमानो न जातः’ इत्यादि च । फलत्वेपि युक्तिविरोधेन्तर्भावादत्रोक्तम् ।।14।।
।। इति भोक्त्रधिकरणम् ।।
ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ ।।15।।
स्वतन्त्रबहुसाधना सृष्टिर्लोके दृष्टा
। नैव ब्रह्मणः । स्वरूपसामर्थ्यादेव तस्य सृष्टिः । ‘किं स्विदासीदधिष्ठानमारम्भणं कतमस्त्वित् कथासीत्’ इति ह्याक्षेपः । अधिष्ठानाद्युक्तेः ।
आदिशब्दाद्युक्तिभिश्च ।
परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते । साधनानां साधनत्वं यतः किं तस्य साधनैः ।। इत्यादिभिः ।।15।।
ॐ भावे चोपलब्धेः ॐ ।।16।।
स्वतन्त्रसाधनभावे प्रमाणैरुपलभ्येत ।
अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन । अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः ।। इति स्कान्दे ।।16।।
‘अद्भ्य सम्भूतः पृथिव्यै रसाच्च’ इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह-
ॐ सत्वाच्चावरस्य ।।17।।
अवरस्य तदधीनस्य साधनस्य सत्वात् । ‘काल आसीत् पुरुष आसीत् परम आसीत् तद्यदासीत् तदावृतमासीत् तदधीनमासीदथ ह्येक एव
परम आसीत् यस्यैतदासीन्न ह्येतदासीत्’ इति हि काषायणश्रुतिः ।।17।।
ॐ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।।18।।
‘नासदासीन्नो सदासीत्’ इति सर्वस्यासत्त्वव्यपदेशान्नेति चेन्न । अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते ।’तम आसीत्’ इति
वाक्यशेषात् । न चान्यत्र प्रमाणमस्ति । ‘अजो ह्येको जुषमाणोनुशेते जहात्येनां भुक्तभोगामजोन्यः ’
‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते नात्र विचार्यमस्ति । न चान्यथा क्वापि च कस्य चेदमभूत् पुरा नापि तथा भविष्यत् ।।’
‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ’ ‘असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः परां हि’ ‘यस्सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत्
सत्यकर्मा महात्मा’ ‘अथैनमाहुस्सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते । अथैनमाहुर्नित्यकर्मेति नित्यं ह्येवासौ कुरुते’ ‘यच्चिकेत सत्यमित्
तन्न मोघं’ इत्यादिश्रुतिस्मृतिभ्यः ।
परस्परविरोधे तु वाक्यानां यत्र युक्तता । तथैवार्थः परिज्ञेयो नावाक्या युक्तिरिष्यते ।। इति बृहत्संहितायाम् ।
‘विरुद्धवत् प्रतीयन्ते आगमा यत्र वै मिथः । तत्र दृष्टानुसारेण तेषामर्थोन्ववेक्ष्यते’ इति च ।
‘ईशोनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि । इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः । वेदवेदानुसारेषु विरोधेन्यार्थकल्पना । अन्येषां तु विरुद्धानां विप्रलम्भोथवा भ्रमः ।।’
इति च भागवततन्त्रे ।
‘शास्त्रार्थयुक्तोनुभवः प्रमाणं तूत्तमं मतम् । मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ।।
प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु । अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः ।।’ इति पुरुषोत्तमतन्त्रे ।।18।।
ॐ युक्ते शब्दान्तराच्च ॐ ।।19।।
‘साधानां साधनत्वं यदात्माधीनमिष्यते । तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत् ।।’
इत्यादेः साधनान्तरेण सृष्टिर्युक्ता । ‘अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ’ इत्यादिशब्दान्तराच्च ।।19।।
ॐ पटवच्च ॐ ।।20।।
साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ।।20।।
ॐ यथा प्राणादिः ॐ ।।21।।
तच्च साधनजातं तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादिः ।
‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान् सृष्ट्यर्थं जगतो विभुः ।।’ इति कौर्मे ।।21।।
।। इति आरम्भणाधिकरणम् ।।6।।
जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियते ।
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ ।।22।।
जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्यात् ।।22।।
ॐ अधिकं तु भेदनिर्देशात् ॐ ।।23।।
न च ब्रह्मणः श्रमचिन्तादिदोषप्राप्तिः । अधिकशक्तित्वात् ।
‘श्रोता मन्ता द्रष्टादेष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां भूतानामन्तरपुरुषः’ ‘एष त आत्मा सर्वान्तरः’ ‘योशनायापिपासे शोकं मोहं जरां
मृत्युमत्येति’ इत्यादिविशेषनिर्देशात् ।।23।।
ॐ अश्मादिवच्च तदनुपपत्तिः ॐ ।।24।।
चेतनत्वेप्यश्मादिवदस्वतन्त्रत्वात् स्वतः कर्तृत्वानुपपत्तिर्जीवस्य ।
यथा दारुमयी योषां नरः स्थिरसमाहितः । इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ।। इति भारते ।।24।।
ॐ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॐ ।।25।।
जीवेन कार्योपसंहारदर्शनात्तस्य कर्तृत्वमिति चेन्न । यथा गोषु क्षीरं दृश्यमानमपि प्राणादेव जायते ‘अन्नं रसादिरूपेण प्राणः परिणयत्यसौ’
इति वचनात् । एवं जीवे दृश्यमानोपि कार्योपसंहारोस्वातन्त्र्यात् परकृत एव । ‘य आत्मानमन्तरो यमयति’ ‘नाहं कर्ता न कर्ता त्वं कर्ता यस्तु
सदा प्रभुः’ इत्यादेः ।।25।।
ॐ देवादिवदपि लोके ॐ ।।26।।
न च कर्तुरीश्वरस्यादृष्टिविरोधः । देवादिवददृश्यत्वशक्तियोगात् । लोकेपि पिशाचादीनां तादृशी शक्तिर्दृष्टा । किम्वीश्वरस्य ।
‘न युक्तियोगाद्वाक्यानि निराकार्याण्यपि क्वचित् ।
विरोध एव वाक्यानां युक्तयो न तु युक्तयः ।।’ इति बृहत्संहितायाम् ।।26।।
ॐ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।।27।।
अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाङ्गुलिमात्रेण प्रवर्तमानोपि पूर्णप्रवृत्तिस्स्यात् । न च तद्युज्यते । सामर्थ्यैकदेशदर्शनात् । न चैकदेशेन
निरवयवत्वात् । ‘अथ यः सः जीवः स नित्यो निरवयवो ज्ञाताज्ञाता सुखी दुःखी शरीन्द्रियस्य’ इति भाल्लवेयश्रुतिः । न चोपाधिकृतोंशः स
एवांशः उपहित इति द्वित्वपेक्षत्वात् । नचान्यत् कल्प्यम् । ‘यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हि’ इति गत्यन्तरोक्तेः ।।27।।
।। इति इतरव्यपदेशाधिकरणम् ।।
ॐ श्रुतेस्तु शब्दमूलत्वात् ।।28।।
न चेश्वरपक्षेयं विरोधः ।
‘योसौ विरुद्धोविरुद्धो मनुरमनुरवाग्वागिन्द्रोनिन्द्रः प्रवृत्तिरप्रवृत्तिः स परः परमात्मा’ इति पैङ्ग्यादिश्रुतेरेव ।
शब्दमूलत्वाच्च न युक्तिविरोधः ।
‘यद्वाक्योक्तं न तद्युक्तिविरोद्धुं शक्नुयात् क्वचित् । विरोधे वाक्ययोः क्वापि किञ्चित् साहाय्यकारणम्’ इति ।। पुरुषोत्तमतन्त्रे ।।28।।
ॐ आत्मनि चैवं विचित्राश्च हि ॐ ।।29।।
परमात्मनो विचित्रा शक्तयो सन्ति नान्येषाम् ।
विचित्रशक्तिः पुरुषः पुराणो न चान्येषां शक्तयस्तादृशाः स्युः ।
एको वशी सर्वभूतान्तरात्मा सर्वान् देवानेक एवानुविष्टः ।। इति श्वेताश्वतरश्रुतिः ।।29।।
ॐ स्वपक्षदोषाच्च ॐ ।।30।।
ये दोषा इतरात्रापि ते गुणा परमे मताः । न दोषाः परमे कश्चिद् गुणा एव निरन्तराः ।।
इति वचनाज्जीवपक्ष एव दोषो न परपक्षे ।
‘अथ यस्सदोषः साञ्जनः सजनिः स जीवोथ यः स निर्दोषो निष्कलः सगुणः परः परमात्मा’ इति काषायणश्रुतिः ।।30।।
ॐ सर्वोपेता च तद्दर्शनात् ॐ ।।31।।
‘सर्वैर्युक्ता शक्तिभिर्देवता सा परेति यां प्राहुरजस्रशक्तिम् । नित्यानन्दा नित्यरूपाजरा च या शाश्वतात्मेति च यां वदन्ति ।। ’
इति चतुर्वेदशिखायाम् । अतो न केवलं विचित्रशक्तिः किन्तु सर्वशक्तिरेव ।।31।।
ॐ विकरणत्वान्नेति चेत्तदुक्तम् ।।32।।
न च करणाभावादनुपपत्तिरिति युक्तम् ।
‘अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ।।’
न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।। इत्यादि श्रुतिभ्यः ।
‘सर्वोपेता च’ इति सामान्यपरिहारेपि विशेषयुक्त्यर्थं पुनराशङ्का ।।32।।
।। इति शब्दमूलत्वाधिकरणम् ।।8।।
यत्प्रयोजनार्थं सृष्ट्यादिस्तदूनत्वादपूर्णतेत्यत आह-
ॐ न प्रयोजनवत्त्वात् ॐ ।।33।।
‘अथैष एव परम आनन्दः’ इत्यादिना कृतकृत्यत्वान्न प्रयोजनाय सृष्टिः किन्तु ।।33।।
ॐ लोकवत्तु लीलाकैवल्यम् ॐ ।।34।।
यथा लोके मत्तस्य सुखोद्रेकादेव नृत्तगानादिलीला न तु प्रयोजनापेक्षया एवमेवेश्वरस्य । नारायणसंहितायां च-
सृष्ट्यादिकं हरिर्नैव प्रयोजनमपेक्ष्य तु । कुरुते केवलानन्दाद्यथा मत्तस्य नर्तनम् ।।
पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः । मुक्ता अप्याप्तकामाः स्युः किमु तस्याखलिात्मनः ।। इति ।।
‘देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा’ इति च श्रुतिः ।।34।।
।। इति नप्रयोजनत्वाधिकरणम् ।।9।।
सर्वकर्तृत्वे वैषम्यनैघृण्ये तस्येत्यतो वक्ति-
ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॐ ।।35।।
कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैघृण्ये । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति श्रुतिः ।।35।।
ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ ।।36।।
यदपेक्षयासौ फलं ददाति न तत्कर्म । ‘एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीयत एष उ एवासाधुकर्म कारयति तं यमधो
निनीयते’ इति श्रुतेः कर्मणोपि तन्निमित्तत्वादिति चेन्न । तस्यापि पूर्वकर्म कारणमित्यनादित्वात् कर्मणः । भविष्यत्पुराणे च-
पुण्यपापादिकं विष्णुः कारयेत् पूर्वकर्मणा । अनादित्वात् कर्मणश्च न विरोधः कथञ्चन ।। इति ।।36।।
ॐ उपपद्यते चाप्युपलभ्यते च ॐ ।।37।।
न च कर्मापेक्षत्वेनेश्वरस्यास्वातन्त्र्यम् ।
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ।।
इत्यादिना कर्मादीनां सत्त्वस्यापि तदधीनत्वात् । न च पुनर्वैषम्याद्यापातेन दोषः । तादृशवैषम्यादेरुपलभ्यमानत्वात् ।
‘स कारयेत् पुण्यमथापि पापं न तावता दोषवानीशितापि ।
ईशो यतो गुणदोषादिसत्त्वे स्वयं परोनादिरादिः प्रजानाम् ।।’ इति चतुर्वेदशिखायाम् ।।37।।
।। इति वैषम्यनैर्घृण्याधिकरणम् ।।10।।
अवशिष्टैरुपसंहरति-
ॐ सर्वधर्मोपपत्तेश्च ॐ ।।38।।
‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र चिन्ता ।
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।।’ इति सर्वगुणोपपत्तिश्रुतेश्च ।।38।।
।। इति सर्वधर्मोपपत्त्यधिकरणम् ।।11।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः ।।